audio
audio
0
311
transcriptions
stringlengths
1
736
प्रशासनेन केन्द्रीय कार्मिकेभ्य सेवोत्तर वेतनभोगिभ्यश्च जनेभ्यो महार्घताभृतौ प्रतिशतं पञ्चांशमिता वृद्धिः समुद्घोषिता
प्रधानमन्त्री नरेन्द्र मोदी प्रत्यपादयत् यत् कार्यं जनाकुलूनं सुलभं च विधातुम् परिवीक्षाधीनाधिकारिभिः नागरिकाणां दृष्टिकोण अवगन्तव्य
द्वितीयायां क्रिकेट्निकषस्पर्धायाम् अद्य पूणेनगरे भारतं दक्षिणाफ्रीकादलं सम्मुखीकरिष्यति
केन्द्रीयमन्त्रिपरिषद् प्रशासनेन केन्द्रीयकार्मिकेभ्यः सेवोत्तरवेतनभोगिभ्यश्च जनेभ्यो महार्घताभृतौ प्रतिशतं पञ्चांशमिता वृद्धिः समुद्घोषिता
यो नवदिल्ल्यां केन्द्रीयमन्त्रिपरिषदो मन्त्रोपवेशनाद् अनन्तरं केन्द्रीय मन्त्रिणा प्रकाश जावडेकरेण वार्ताहरा विज्ञापिता यद् अनया भृति वृद्ध्या देशस्य पञ्चाशल्लक्षप्राया केन्द्रीयकार्मिका पञ्चषष्टिलक्षप्रायाः सेवोत्तरवेतनभोगिनश्च जना लाभान्विताः भवितार
सहैव प्रशासनेन पाकाधिकृतकश्मीराद् भारतं सम्प्राप्ताय प्रत्येकं प्रत्येकं विस्थापितकश्मीर परिवाराय सार्धंपञ्चलक्ष रूप्यकाणां साहाय्य राशि अनुशंसितोऽस्ति
किञ्च प्रशासनं प्रधानमन्त्रिकृषकयोजनाया अन्तर्गतं प्रत्येकं कृषकाय प्रतिवर्षं षट्सहस्ररूप्यकाणां साहाय्यराशिप्रदानार्थम् आधारपत्रस्य प्रस्तुते अनिवार्यतायामपि नवेम्बरमासं यावत् शैथिल्यं प्रायच्छत्
प्रधानमन्त्री भारतीयारक्षिसेवाया परिवीक्षाधीनाधिकारिण प्रधानमन्त्री नरेन्द्र मोदी प्रत्यपादयत् यत् कार्यं जनाकुलूनं सुलभं च विधातुम् परिवीक्षाधीनाधिकारिभिः नागरिकाणां दृष्टिकोण अवगन्तव्य
श्रीमोदी गतदिने नवदिल्ल्यां षड्विंशत्यधिक शतसंख्यकैः भारतीयारक्षिसेवाया परिवीक्षाधीनाधिकारिभिः सह संवाद साधायति स्म
समर्पण भावनायां कार्याचरणार्थं तेन अधिकारिण समाहूता
राष्ट्रपते यात्रा राष्ट्रपति रामनाथकोविन्दः अद्य महाराष्ट्रे नासिकनगरे सैन्योड्ययनगुल्माय ध्वजं प्रदास्यति अथ च देवलीस्थले आग्नेयास्त्र विद्यालयस्य यात्रां विधास्यति
सम्प्रति श्रीकोविन्दः महाराष्ट्रकर्नाटक गुजरातराज्यानां पञ्चदिवसीय यात्रा निरतो वर्तते
नायडु यात्रा उपराष्ट्रपति एम्वेंकैया नायडुःससिरालोनदेशयोः पञ्च अदिदव्य कसीयोमोरते
श्रीनयात्रारायडु को्थमोम् अद्य प्रस्थास्यरस देशस्य राजधान्यां मोरोनीनगर्याम् अद्य सम्प्राप्स्यति
अनन्तरं श्व तत्रत्येन राष्ट्रपतिना अजाली असौमनीवर्येण सह द्विपाक्षिकोपवेशनम् अनुष्ठास्यति
स्वीय यात्रायाः द्वितीये चरणे
चीनदेशीयो राष्ट्रपति शी चिनपिङ् अद्य तमिलनाडो मामल्लापुरम्नगरे द्वितीये अनौपचारिकोपवेशने सहभागितां विधातुं भारतम् समायाति
जम्मूकश्मीर प्रशासनेन निगृहीताः त्रयो राजनेतारः सम्प्रति विमुक्ताः
उत्तरप्रदेशे लखनऊनगरे अद्य प्रथमं द्विदिवसीयं राष्ट्रिय हिन्दी विज्ञानलेखकसम्मेलनं समायोज्यते
रशियाया उलानउडे प्रान्ते समनु वर्तमानायां महिला विश्वनायकमुष्टीमुष्टिस्पर्धाशृंखलायां भारतस्य मरीकम् मञ्जूरानी यमुना बारो लोवलीन बर्गोहेन् च उपान्त्यचक्रं प्रविष्टा
तमिलनाडु शीचिनपिंग चीनदेशीयो राष्ट्रपति शीचिनपिंग अद्य समायाति
तमिलनाडो मामल्लापुरम्नगरे स प्रधानमन्त्रिणा श्रभारीतं नरेन्द्रमोदिना समं द्वितीये अनौपचारिकोपवेशने सहभागितां विधास्यति | देशद्वयमध्ये रणनीतिक व्यापारिक सांस्कृतिकसम्बन्धानां भूयोऽपि समुन्नयनं सम्मेलनस्यास्य मुख्यमुद्देश्यमस्ति
नेतृद्वयस्य मध्ये दिवसद्वयात्मकं सम्मेलनमेतत् समुद्दिश्य सम्प्रति सांस्कृतिकं मामल्लापुरम्नगरं रोचकपूर्णरीत्या समलंकृतं विद्यते
सहस्रं प्रशासनेन तत्र नक्कस्तरेष सुरक्षाप्रबन्धा अपि प्रकल्पिता सन्ति
जम्मूकश्मीरम् गस्टम जम्मूकश्मीरप्रशासनेन निगृहीता त्रयो राजनेतारः सम्प्रति विमुक्ताः सन्ति
त्रयोऽपि इमे नेतार विगत टमासस्य पञ्चमे दिनाङ्के तद्राज्याय विशिष्ट स्तरप्रदायकस्य सप्तत्यधिक त्रिशततमस्य अनुच्छेदस्य अपवारणानन्तरं निगृहीता आसन्
आधिकारिक सूचनानुगुणं यावरमीर नूरमोहम्मदः शोएबलोनश्चेति त्रयो नेतार विमुक्ता
मीर प्राक्तन पीडीपीदलविधायक लोन उत्तरकश्मीरे पूर्वकांग्रेस् जनपदाध्यक्षः नूरमोहम्मदश्च नशमल् कन्फ्रेन्सदलस्य कार्यकर्ता अवर्तन्त
नूरमोहम्मदः श्रीनगरस्थे आतंकग्रस्ते बटमालुक्षेत्रे दलीयकार्यक्रमायोजकोऽपि आसीत्
प्रशासनम्विस्थापिता पाकिस्तानाधिकृतकश्मीरात् कदाचित् सम्प्राप्तानां विस्थापितजनानां प्रतिनिधिमण्डलमेकं गतदिवसे प्रधानमन्त्रिकार्यालस्य केन्द्रीयराज्यमन्त्रिणं डक्टर जितेन्द्र सिंहम् अमिलत्
दलमिदं विस्थापितपरिवारेभ्य प्रशासनेन सद्योघोषिताय विशिष्टसाहाय्यराशये धन्यवादान् समर्पितवत्
जम्मूकश्मी
प्रधानमन्त्री नरेन्द्रमोदी चीनराष्ट्रपतिः शी जिनपिंगश्च भारतचीनदेशयोर्मध्ये अनुवर्तमानस्य अनौपचारिक शिखरोपवेशनस्य द्वितीये दिवसेऽद्य पुनः संभाषणम् अनुष्ठास्यतः
केन्द्रीयप्रत्यक्षकरपरिषदा प्रोक्तं यत् अष्टादशोत्तरद्विसहस्रात् ऊनविंशाधिकद्विसहस्रतमख्रीस्ताब्दं यावत् निर्धारणवर्षावधौ कोट्यधिपतिकरदातॄणां संख्या प्रतिशतं विंशतिमितं समेध्य एकोननवत्यधिकषट्शतोत्तर सप्तनवतिसहस्रमिता संवृत्ता
भारतदक्षिणाफ्रीकादेशयोर्मध्ये अनुवर्तमानायां क्रिकेट्निकषस्पर्धाशृङ्खलायां द्वितीयनिकषक्रीडायाः तृतीये दिवसेऽद्य पुणेनगरे दक्षिणाफ्रीकादलं स्वीयप्रथमपर्याये दण्डेन क्रीडितुं पुनरारप्स्यते
मोदीशीमेलनम् प्रधानमन्त्री नरेन्द्रमोदी चीन राष्ट्रपतिः शी जिनपिंगश्च भारत चीनदेशयोर्मध्ये अनुवर्तमानस्य अनौपचारिक शिखरोपवेशनस्य द्वितीये दिवसेऽद्य पुनरेकदा संभाषणम् अनुष्ठास्यतः
उभावपि नेतारौ अद्य प्रातः प्रायः दशवादने ताज फिशरमन्स्कोव् इत्याख्ये वसतिगृहे मेलिष्यतः
विदेशसचिवः विजयगोखले असूचयत् यत् गतवासरे उभयोः नेत्रोः मध्ये देशद्वयस्य पारस्परिकहितविषयेषु विस्तरेण परिचर्चा जाता
सीबीडीटी करदातार केन्द्रीयप्रत्यक्षकरपरिषदा ह्यः प्रोक्तं यत् अष्टादशोत्तरद्विसहस्रात् ऊनविंशाधिकद्विसहस्रतमख्रीस्ताब्दं यावत् निर्धारणवर्षावधौ कोट्यधिपतिकरदातॄणां संख्या प्रतिशतं विंशतिमितं समेध्य एकोननवत्यधिकषट्शतोत्तरसप्तनवति सहस्रमिता संवृत्ता
इतः वर्षेकपूर्वं संख्येयं चतुश्चत्वारिंशदधिकत्रिशतोत्तरैकाशीतिसहस्रमिता अवर्तत
स्मृतिईरानीकांग्रेस् महिलाबालकल्याणमन्त्री स्मृति ईरानी जम्मूकश्मीरोपरि चर्चायै कांग्रेस्दलस्य ब्रिटेन्एकांशस्य लेबरपार्टीतिदलेन विहितम् उपवेशनम् आलोचयत्
ह्यः मुम्ब
प्रधानमन्त्री नरेन्द्रमोदी गतदिने एकभारतश्रेष्ठभारत इति विषयमधिकृत्य उपवेशनस्य अध्यक्षताम् अकरोत्
हरियाणामहाराष्ट्र राज्ययोः विधानसभेय निर्वाचनेभ्यः प्रचारः चरमोत्कर्षम् आरोहति
महिलानां विश्व मुष्टामुष्टिस्पर्धायां मञ्जु रानी अद्य निर्णायक चक्रे क्रीडिष्यति
प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी गतदिने एकभारतश्रेष्ठ भारत इति विषयमधिकृत्य उपवेशनस्य अध्यक्षताम् अकरोत्
अस्य अभियानस्य उद्देश्यं विभिन्न राज्यानां जनेषु परस्परभाषणेन विभिन्नसंस्कृतनाम् अभिज्ञानं वर्तते
श्रीमोदीवर्यः मामल्लपुरमतः आगत्य दिल्ल्यां तस्य आगामिकार्यक्रमाणां विषये ट्वीटमाध्यमेन सूचनां प्रदत्तवान्
डच नीदरलैंड्सस्य नृपः विलेम अलेक्जेंडरः राज्ञी मैक्सिमा च पञ्चदिवसीय यात्रार्थं भारते आगमिष्यतः
अत्र आगत्य द्विपक्षीयार्थिकराजनीतिकसहयोगवर्धनाय देशस्य शीर्ष नेतृत्वेन सह उभौ उपवेशनं करिष्यतः
यात्रा कार्यक्रमे तौ दिल्लीमुम्बई केरलराज्येषु गमिष्यतः
अमितशाहः गृहमन्त्रिणा अमितशाहेनोक्तं यत् आतङ्वाद नक्सल हिंसाभ्यां महत्तरं मानवाधिकारोल्लङ्घनम् नास्ति अन्यत्
अमुना निगदितं यत् चत्वारिंशत् सहस्राधिकजनाः कश्मीरे आतङ्वादकारणात् प्राणान् अत्यजन्
गृहमन्त्री अमितशाहः गतदिने नवदिल्ल्यां राष्ट्रियमानवाधिकारायोगस्य षट्विंशतिः स्थापनादिवससमारोहं सम्बोधयति स्म
जम्मूकश्मीरे आक्रमणम् जम्मूकश्मीरस्य श्रीनगरे गतसायं दुरापादिते विस्फोट न्यूनान्यूनम् अष्टौ जनाः व्रणिताः
स्रोतोभिः सूचितं यत् सन्दिग्धातङ् कवादिना हरिसिंहमार्गस्थे आपणं पुरतो वस्फोटः कृतः
आक्रमणे आहतानाम् उपचारो विधीयते
पश्चिमबंगालहिंसा पश्चिमबङ्गालस्य मुर्शिदाबादजनपदे जनत्रयस्य हत्या प्रकरणे आरक्षिभिः जनद्वयं निगडितम्
केन्द्रीयान्वीक्षणाभिकरणस्य दलम् घटनास्थलम
हरियाणामहाराष्ट्रराज्ययोः विधानसभेयनिर्वाचनेभ्यः प्रचारः सजवं विधीयते
प्रधानमन्त्री नरेन्द्रमोदी प्रवोचत् यत् तदीयं प्रशासनं निर्धानानां कल्याणाय कार्यमाचरति
कांग्रेसनेता राहुलगांधी प्रत्यपादयत् यत् भाजपादलं मूलविषयेभ्यो जनान् पृथक्करोति
जम्मूकश्मीरे अवशिष्टक्षेत्रेभ्यः अद्य मध्याहनात् पोस्टपैड इति सेवोत्तरशुल्कप्रदेयसचलदूरभाषसेवा पुनराप्स्यते
भारतेन हेगीबिस इति चक्रवात् प्रभाविताय जापानाय सर्वविधं साहाय्यं प्रदास्यते
भारतदक्षिणाफ्रिकादेशयोः महिलानाम् एकदिवसीयक्रिकेटशृङ्खलायाः तृतीयान्तिमस्पर्धा अद्य क्रीडिष्यते
विधानसभा निर्वाचनानि महाराष्ट्रहरियाणारायोःज्य विधानसभानिर्वाचनार्थं प्रचारप्रसारः शीर्षस्तरे वर्तते
विभिन्न राजनीतिकदलानां दिग्गज नेतारः निर्वाचन जनसभाः सम्बोधयन्ति | महाराष्ट्रे ह्यः भाजपादलस्य वरिष्ठनेता प्रधानमन्त्री नरेन्द्रमे प्रथमां जनसभां सम्बोधितवान्
तदनन्तरम् असौ भंडाराोदी जलगांवगोदिया क्षेत्रयोः अपि जनसभां सम्बोधितवान्
अत्रावसरे प्रधानमन्त्री प्रावोचत् यत् तदीयं प्रशासनं नीतयः कार्याणि च निर्धनानां कल्याणायाचरति
अपरत्र भाजपाध्यक्षः अमित शाहः कोल्हापुरे जनसभां समबोधयत्
प्रधानमन्त्री जापानदेशः भारतेन हेगीबिस इति चक्रवातप्र प्रभाविताय जापानाय साहाय्योद्वारकार्येषु सहयोगः सम्प्रस्तुतः
अनेन चक्रवातेन इदानीं यावत् त्रयश्त्रिंशज्जनाः पञ्चताङेगताः नैके च व्रणिताः
घटनाम् आलक्ष्य प्रधानमन्त्रिणा नरेन्द्रमोदिना गभीरशोकः प्रकटितः
भारतीय सैन्यभटैः साहाय्योद्वारे सहयोगः विधास्यते
श्रीमोदिना ट्वीट सन्देशे व्यलेखि यत् विपत्तिकाले भारतं जापेन सह विद्यते
कश्मीरे दूरभाषसौविध्यम् प्रदेयसचल जम्मूकश्मीरप्रशासनेन उद्घुष्टम यत् अद्य मध्याहनात् राज्ये सर्वत्र पोस्टपैड इति सेवोत्तरशुल्क दूरभाषसेवा पुनरारप्स्यते
प्रशासनस्य प्रवक्ता रोहितकंसल श्रीनगरे विवरणमिदम् उपस्थापयत्
राज्ये प्रतिबन्धापकरणदिशि महत्त्वपूर्ण पदक्षेपोऽयं वर्तते
कश्मीरेसङ्घर्षविरामोल्लङ्घनम् जम्मू कश्मीरस्य बारामूलाजनपदस्य उरी क्षेत्रे गतदिने पाकिस्तानेन विहित
राष्ट्रपति रामनाथकोविन्दः प्रावोचत् यत् आर्थिक सहयोग भारतनीदरलैण्डयो द्विपक्षीय सम्बन्धानां मूलस्तम्भो विद्यते
राष्ट्रियान्वीक्षणाभिकरणप्रमुख वाईसी मोदी प्रावोचत् यत् बांग्लादेशसम्बद्धो जमात्उद्मुजाहिद्दीन निजातङ्कवादिनो भारते प्रवेष्टुं संलिप्तो दृश्यते
मार्गरेट टएटवुड बर्नरडाउनएवरिष्टो च ऐषम बुकर पुरस्कारं संयुक्तरूपेण प्राप्तवत्यौ
भारतीयबैडमिंटनक्रीडक प्रियांशुराजावत ईसा टाउननगरे बहरीन अन्ताराष्ट्रीय शृंखलायां पुरुषैकल स्पर्धाम् विजितवान्
राष्ट्रपतिनीदरलैण्डम् राष्ट्रपति रामनाथकोविन्दः प्रावोचत् यत् आर्थिक सहयोग भारत नीदरलैण्डयो द्विपक्षीयसम्बन्धानां मूलस्तम्भो विद्यते
नीदरलैण्डस्य राज्ञः विलियम अलैक्जेन्डरस्य तस्य भार्यायाः सम्माने च आयोजिते समारोहे श्री कोविन्देन प्रोक्तं यत् भारतीय समवायै नीदरलैण्डे निवेश क्षेत्रे महत्त्वपूर्णा भूमिका निर्व्यूढा | निगदितं च यत् नीदरलैण्डसमवायै कृषिक्षेत्रे जलप्रबन्धने पोतपत्तन विकासे नागरयोजनायाम् अवशिष्टप्रबन्धने च वैश्विकप्रतिष्ठा अधिगतास्ति
अमुना नीदरलैण्डसमवाया भारते सहयोगाय समाकारिताः
जम्मूक् जम्मूकश्मीरस्य गांदरबलजनपदे सुरषाबलेन पाकिस्तान समर्थितस्य हिजबुल मुजाहिद्दीन आतङ्किगुल्मस्य आतंकिनौ निगडितौ
आरक्षिप्रवक्तानुसारेण विश्वसनीयसूचनाया अनन्तरम् एव आरक्षिबलानि सैन्यबलैः सह मिलित्वा चांदी खटानावजिदखटाना आतङ्किवयस्य निगडनं कृतवन्तः
उभौ राजौरी जनपदस्य जंडीवाडा क्षेत्रस्य निवोसिनौ स्त
आगरा उत्तरप्रदेशे प्रत्येकम् आगरालखनऊ राजमार्गपरिवहनकर केन्द्रानन्तरं दिसम्बरमासस्य प्रथमदिनांकत फास्टेगसेवा उपलब्धा भविष्यति
यानि वाहनानि राजमार्गस्य प्रयोगं करिष्यन्ति तानि सर्वत्र करदानार्थं प्रतिबद्धाः न भविष्यन्ति
राज्यप्रशासनं भारतीयराष्ट्रीयराजमार्गप्राधिकरणेन सह एकस्मिन् सहमति पत्रे हस्ताक्षरम् अकरोत्
अस्यान्तर्गतं प्राधिकरणं राज्ये डिजिटलकलेक्शनविंडोत्यस्य उद्घाटनं करिष्यति
राष्ट्रियान्वेषणाभिकरणम् राष्ट्रियान्वीक्षणाभिकरणप्रमुख वाईसी मोदी प्रावोचत् यत् बांग्लादेश सम्बद्धो जमात्उद्मुजाहिद्दीन निजातङ्कवादिनो भारते प्
राज्यस्तरेषु जनपदस्तरेषु च पलाण्डु द्व5िदलखाद्यतैलतैलबीजानां प्रभूतविक्रेतृभिः व्यापारिभिः आयातकैः निर्यातकैश्च सह नियमित रूपेण उपवेशनानुष्ठानार्थं केन्द्रप्रशासनेन राज्यानि परामृष्टानि सन्ति
सामान्यजनेभ्यः निःशुल्कं दूरभाषसेवाम् उपपादयितुं जम्मूकश्मीर प्रशासनेन कश्मीरक्षेत्रस्य प्रत्येकमपि जनपदे पञ्चाशत्सार्वजनिकदूरभाषकार्यालयाः स्थापयिष्यन्ते
हरियाणामहाराष्ट्रविधानसभा निर्वाचनानां कृते मतदानदिवसे मतदानोत्तरसर्वेक्षणं निर्वाचनायोगेन प्रतिबन्धितमस्ति
कोलकातानगरस्य साल्टलेक क्रीडाङ्गणे भारतबांग्लादेशयोर्मध्यै ईवर्गे समायोजिता फीफा विश्वचषकपादकन्दुकार्हतास्पर्धा अनिर्णीता जाता
केन्द्रम् राज्यानि खाद्यान्नम् केन्द्रेण राज्यानि परामृष्टानि यत्तानि वर्षेऽस्मिन् दिसम्बरमासपर्यन्तं विशिष्य पर्वावधौ राज्यजनपदद स्तरयोः पलाण्डुद्विदलखाद्यतैलतैलबीजानां प्रभूतविक्रेतृभिः व्यापारिभिः आयातकैः निर्यातकैश्च समम् अनारतम् उपवेशनानि आचरेयुः
ह्यो नवदिल्ल्याम् उपभोक्तृमन्त्रालयीय सचिवस्य आध्यक्ष्ये खाद्यान्न गुणवत्ता मूल्यादि निर्धारकसमूहेन समाकारिते अष्टादशे उपवेशने निर्णयोऽयं विहितः

Dataset Card for "shrutilipi_sanskrit"

More Information needed

Downloads last month
0
Edit dataset card