text
stringlengths 1
890
|
---|
शरीर-चिन्तां निर्वर्त्य कृत-शौच-विधिस् ततः ॥
|
अर्क-न्यग्रोध-खदिर-करञ्ज-ककुभादि-जम् ।
|
प्रातर् भुक्त्वा च मृद्व्-अग्रं कषाय-कटु-तिक्तकम् ॥
|
कनीन्य्-अग्र-सम-स्थौल्यं प्रगुणं द्वा-दशाङ्गुलम् ।
|
भक्षयेद् दन्त-पवनं दन्त-मांसान्य् अ-बाधयन् ॥
|
भक्षयेद् दन्त-धवनं नाद्याद् अ-जीर्ण-वमथु-श्वास-कास-ज्वरार्दिती ।
|
तृष्णास्य-पाक-हृन्-नेत्र-शिरः-कर्णामयी च तत् ॥
|
सौवीरम् अञ्जनं नित्यं हितम् अक्ष्णोस् ततो भजेत् ।
|
चक्षुस् तेजो-मयं तस्य विशेषाच् छ्लेष्मतो भयम् ॥
|
विशेषाच् छ्लेष्मणो भयम् भुक्त-वांश् च शिरः-स्नातः श्रान्तः छर्दन-नावनैः ।
|
रात्रौ जागरितश् चापि नाञ्ज्याज् ज्वरित एव च ॥ +
|
योजयेत् सप्त-रात्रे ऽस्मात् स्रावणार्थं रसाञ्जनम् ।
|
ततो नावन-गण्डूष-धूम-ताम्बूल-भाग् भवेत् ॥
|
स्रावणार्थे रसाञ्जनम् ताम्बूलं क्षत-पित्तास्र-रूक्षोत्कुपित-चक्षुषाम् ।
|
विष-मूर्छा-मदार्तानाम् अ-पथ्यं शोषिणाम् अपि ॥
|
अभ्यङ्गम् आचरेन् नित्यं स जरा-श्रम-वात-हा ।
|
दृष्टि-प्रसाद-पुष्ट्य्-आयुः-स्वप्न-सु-त्वक्-त्व-दार्ढ्य-कृत् ॥
|
शिरः-श्रवण-पादेषु तं विशेषेण शीलयेत् ।
|
वर्ज्यो ऽभ्यङ्गः कफ-ग्रस्त-कृत-संशुद्ध्य्-अ-जीर्णिभिः ॥
|
लाघवं कर्म-सामर्थ्यं दीप्तो ऽग्निर् मेदसः क्षयः ।
|
विभक्त-घन-गात्र-त्वं व्यायामाद् उपजायते ॥
|
वात-पित्तामयी बालो वृद्धो ऽ-जीर्णो च तं त्यजेत् ।
|
अर्ध-शक्त्या निषेव्यस् तु बलिभिः स्निग्ध-भोजिभिः ॥
|
शीत-काले वसन्ते च मन्दम् एव ततो ऽन्य-दा ।
|
तं कृत्वानु-सुखं देहं मर्दयेच् च समन्ततः ॥
|
तृष्णा क्षयः प्रतमको रक्त-पित्तं श्रमः क्लमः ।
|
अति-व्यायामतः कासो ज्वरश् छर्दिश् च जायते ॥
|
व्यायाम-जागराध्व-स्त्री-हास्य-भाष्यादि-साहसम् ।
|
गजं सिंह इवाकर्षन् भजन्न् अति विनश्यति ॥
|
भजन् यतो ऽति नश्यति उद्वर्तनं कफ-हरं मेदसः प्रविलायनम् ।
|
स्थिरी-करणम् अङ्गानां त्वक्-प्रसाद-करं परम् ॥
|
दीपनं वृष्यम् आयुष्यं स्नानम् ऊर्जा-बल-प्रदम् ।
|
कण्डू-मल-श्रम-स्वेद-तन्द्रा-तृड्-दाह-पाप्म-जित् ॥
|
स्नानम् ओजो-बल-प्रदम् उष्णाम्बुनाधः-कायस्य परिषेको बलावहः ।
|
तेनैव तूत्तमाङ्गस्य बल-हृत्-केश-चक्षुषाम् ॥
|
तेनैव चोत्तमाङ्गस्य स एव चोत्तमाङ्गस्य स एव तूत्तमाङ्गस्य स्नानम् अर्दित-नेत्रास्य-कर्ण-रोगातिसारिषु ।
|
आध्मान-पीनसा-जीर्ण-भुक्त-वत्सु च गर्हितम् ॥
|
जीर्णे हितं मितं चाद्यान् न वेगान् ईरयेद् बलात् ।
|
न वेगितो ऽन्य-कार्यः स्यान् ना-जित्वा साध्यम् आमयम् ॥
|
सुखार्थाः सर्व-भूतानां मताः सर्वाः प्रवृत्तयः ।
|
सुखं च न विना धर्मात् तस्माद् धर्म-परो भवेत् ॥
|
भक्त्या कल्याण-मित्राणि सेवेतेतर-दूर-गः ।
|
हिंसा-स्तेयान् यथा-कामं पैशुन्यं परुषान्-ऋते ॥
|
संभिन्नालापं व्यापादम् अभिध्यां दृग्-विपर्ययम् ।
|
पापं कर्मेति दश-धा काय-वाङ्-मानसैस् त्यजेत् ॥
|
अ-वृत्ति-व्याधि-शोकार्तान् अनुवर्तेत शक्तितः ।
|
आत्म-वत् सततं पश्येद् अपि कीट-पिपीलिकम् ॥
|
अर्चयेद् देव-गो-विप्र-वृद्ध-वैद्य-नृपातिथीन् ।
|
वि-मुखान् नार्थिनः कुर्यान् नावमन्येत नाक्षिपेत् ॥
|
उपकार-प्रधानः स्याद् अपकार-परे ऽप्य् अरौ ।
|
संपद्-विपत्स्व् एक-मना हेताव् ईर्ष्येत् फले न तु ॥
|
काले हितं मितं ब्रूयाद् अ-विसंवादि पेशलम् ।
|
पूर्वाभिभाषी सु-मुखः सु-शीलः करुणा-मृदुः ॥
|
नैकः सुखी न सर्व-त्र विश्रब्धो न च शङ्कितः ।
|
न कञ्-चिद् आत्मनः शत्रुं नात्मानं कस्य-चिद् रिपुम् ॥
|
प्रकाशयेन् नापमानं न च निः-स्नेह-तां प्रभोः ।
|
जनस्याशयम् आलक्ष्य यो यथा परितुष्यति ॥
|
प्रकाशयेन् नावमानं तं तथैवानुवर्तेत पराराधन-पण्डितः ।
|
न पीडयेद् इन्द्रियाणि न चैतान्य् अति लालयेत् ॥
|
त्रि-वर्ग-शून्यं नारम्भं भजेत् तं चा-विरोधयन् ।
|
अनुयायात् प्रति-पदं सर्व-धर्मेषु मध्यमाम् ॥
|
नीच-रोम-नख-श्मश्रुर् निर्-मलाङ्घ्रि-मलायनः ।
|
स्नान-शीलः सु-सुरभिः सु-वेषो ऽन्-उल्बणोज्ज्वलः ॥
|
स्नान-शीलः स-सुरभिः धारयेत् सततं रत्न-सिद्ध-मन्त्र-महौषधीः ।
|
सातप-त्र-पद-त्राणो विचरेद् युग-मात्र-दृक् ॥
|
निशि चात्ययिके कार्ये दण्डी मौली सहाय-वान् ।
|
चैत्य-पूज्य-ध्वजा-शस्त-च्छाया-भस्म-तुषा-शुचीन् ॥
|
नाक्रामेच् छर्करा-लोष्ट-बलि-स्नान-भुवो न च ।
|
नदीं तरेन् न बाहुभ्यां नाग्नि-स्कन्धम् अभिव्रजेत् ॥
|
संदिग्ध-नावं वृक्षं च नारोहेद् दुष्ट-यान-वत् ।
|
ना-संवृत-मुखः कुर्यात् क्षुति-हास्य-विजृम्भणम् ॥
|
क्षुतिं हास्यं विजृम्भणम् क्षुत्-हास्यं च विजृम्भणम् नासिकां न विकुष्णीयान् ना-कस्माद् विलिखेद् भुवम् ।
|
नाङ्गैश् चेष्टेत वि-गुणं नासीतोत्कटकश् चिरम् ॥
|
ना-कस्माद् विलिखेन् महीम् नासीतोत्कटक-स्थितः देह-वाक्-चेतसां चेष्टाः प्राक् श्रमाद् विनिवर्तयेत् ।
|
नोर्ध्व-जानुश् चिरं तिष्ठेन् नक्तं सेवेत न द्रुमम् ॥
|
तथा चत्वर-चैत्यान्तश्-चतुष्-पथ-सुरालयान् ।
|
सूनाटवी-शून्य-गृह-श्मशानानि दिवापि न ॥
|
अ-संमार्जितम् आदर्शम् अन्-उपस्कृत-कामिनीम् ।
|
रजस्वलां च नेक्षेत सदा प्रातर् अ-मङ्गलम् ॥ +
|
सर्व-थेक्षेत नादित्यं न भारं शिरसा वहेत् ।
|
नेक्षेत प्रततं सूक्ष्मं दीप्ता-मेध्या-प्रियाणि च ॥
|
मद्य-विक्रय-संधान-दानादानानि नाचरेत् ।
|
पुरो-वातातप-रजस्-तुषार-परुषानिलान् ॥
|
अन्-ऋजुः क्षवथूद्गार-कास-स्वप्नान्न-मैथुनम् ।
|
कूल-च्छायां नृप-द्विष्टं व्याल-दंष्ट्रि-विषाणिनः ॥
|
हीनान्-आर्याति-निपुण-सेवां विग्रहम् उत्तमैः ।
|
संध्यास्व् अभ्यवहार-स्त्री-स्वप्नाध्ययन-चिन्तनम् ॥
|
शत्रु-सत्त्र-गणाकीर्ण-गणिका-पणिकाशनम् ।
|
गात्र-वक्त्र-नखैर् वाद्यं हस्त-केशावधूननम् ॥
|
तोयाग्नि-पूज्य-मध्येन यानं धूमं शवाश्रयम् ।
|
मद्याति-सक्तिं विश्रम्भ-स्वातन्त्र्ये स्त्रीषु च त्यजेत् ॥
|
आचार्यः सर्व-चेष्टासु लोक एव हि धी-मतः ।
|
अनुकुर्यात् तम् एवातो लौकिके ऽर्थे परीक्षकः ॥
|
आर्द्र-संतान-ता त्यागः काय-वाक्-चेतसां दमः ।
|
स्वार्थ-बुद्धिः परार्थेषु पर्याप्तम् इति सद्-व्रतम् ॥
|
नक्तन्-दिनानि मे यान्ति कथम्-भूतस्य संप्रति ।
|
दुःख-भाङ् न भवत्य् एवं नित्यं संनिहित-स्मृतिः ॥
|
एवं कृत्स्न-दिनं नीत्वा रात्रौ यामे गृहे गते ।
|
देवान् ऋषीन् गुरून् स्मृत्वा ततः शयनम् आचरेत् ॥ +
|
+ रात्रेर् यामे गते सति इत्य् आचारः समासेन यं प्राप्नोति समाचरन् ।
|