text
stringlengths
1
890
याम इच्छसि महातेजस तां तनुं परविश सवयम
पितामहवचः शरुत्वा विनिश्चित्य महामतिः
विवेश वैष्णवं तेजः सशरीरः सहानुजः
ततॊ विष्णुगतं देवं पूजयन्ति सम देवताः
साध्या मरुद्गणाश चैव सेन्द्राः साग्निपुरॊगमाः
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश च याः
सुपर्णनागयक्षाश च दैत्यदानवराक्षसाः
सर्वं हृष्टं परमुदितं सर्वं पूर्णमनॊरथम
साधु साध्व इति तत सर्वं तरिदिवं गतकल्मषम
अथ विष्णुर महातेजाः पितामहम उवाच ह
एषां लॊकाञ जनौघानां दातुम अर्हसि सुव्रत
इमे हि सर्वे सनेहान माम अनुयाता मनस्विनः
भक्ता भाजयितव्याश च तयक्तात्मानश च मत्कृते
तच छरुत्वा विष्णुवचनं बरह्मा लॊकगुरुः परभुः
लॊकान सान्तानिकान नाम यास्यन्तीमे समागताः
यच च तिर्यग्गतं किं चिद रामम एवानुचिन्तयत
पराणांस तयक्ष्यति भक्त्या वै संताने तु निवत्स्यति
सर्वैर एव गुणैर युक्ते बरह्मलॊकाद अनन्तरे
वानराश च सवकां यॊनिम ऋक्षाश चैव तथा ययुः
येभ्यॊ विनिःसृता ये ये सुरादिभ्यः सुसंभवाः
ऋषिभ्यॊ नागयक्षेभ्यस तांस तान एव परपेदिरे
तथॊक्तवति देवेशे गॊप्रतारम उपागताः
भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः
अवगाह्य जलं यॊ यः पराणी हय आसीत परहृष्टवत
मानुषं देहम उत्सृज्य विमानं सॊ ऽधयरॊहत
तिर्यग्यॊनिगताश चापि संप्राप्ताः सरयूजलम
दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन
गत्वा तु सरयूतॊयं सथावराणि चराणि च
पराप्य तत तॊयविक्लेदं देवलॊकम उपागमन
देवानां यस्य या यॊनिर वानरा ऋष्क राक्षसाः
ताम एव विविशुः सर्वे देवान निक्षिप्य चाम्भसि
तथा सवर्गगतं सर्वं कृत्वा लॊकगुरुर दिवम
जगाम तरिदशैः सार्धं हृष्टैर हृष्टॊ महामतिः