text
stringlengths 1
2.69k
|
---|
तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम्। समन्युः कौशिकौ वाक्यं प्रत्युवाच महीपतिम् ॥ |
पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि। राघवाणामयुक्तोऽयं कुलस्यास्य विपर्यय॥ |
यदीदं ते क्षमं राजन् गमिष्यामि यथागतम्। मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सुहृद्वृतः॥ |
तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः। चचाल वसुधा कृत्स्ना देवानां च भयं महत्॥ |
त्रस्तरूपं तु विज्ञाय जगत् सर्वं महानृषिः। नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत्॥ |
इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः। धृतिमान् सुव्रतः श्रीमान् न धर्म हातुमर्हसि॥ |
त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः। स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि।७।। |
प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः। इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय॥ |
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः। गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा॥ |
एष विग्रहवान् धर्म एष वीर्यवतां वरः। एष विद्याधिको लोके तपसश्च परायणम्॥ |
एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे। नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन॥ |
न देवा नर्षयः केचिन्नामरा न च राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥ |
सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः। कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति॥ |
तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः। नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः॥ |
जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे। ते सूतेऽस्त्राणि शस्त्राणि शतं परमभास्वरम्॥ |
पञ्चाशतं सुताँल्लेभे जया लब्धवरा वरान्। वधायासुरसैन्यानामप्रमेयानरूपिणः॥ |
सुप्रभाजनयच्चापि पुत्रान् पञ्चशतं पुनः। संहारान् नाम दुर्धर्षान् दुराक्रमान् बलीयसः॥ |
तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः। अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित्॥ |
तेनास्य मुनिमुख्यस्य धर्मज्ञस्य महात्मनः। न किञ्चिदस्त्यविदितं भूतं भव्यं च राघव॥ |
एवंवीर्यो महातेजा विश्वामित्रो महायशाः। न रामगमने राजन् संशयं गन्तुमर्हसि ॥ |
तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः। तव पुत्रहितार्थाय त्वामुपेत्याभियाचते॥ |
इति मुनिवचनात् प्रसन्नचित्तो रघुवृषभश्च मुमोद पार्थिवाग्र्यः। गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्ध्या॥ |
गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्ध्या॥ |
तथा वसिष्ठे ब्रुवति राजा दशरथः स्वयम्। प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम्॥ |
कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च। पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम्॥ स पुत्रं मू[पाघ्राय राजा दशरथस्तदा॥ |
ततो वायुः सुखस्पर्शो नीरजस्को ववौ तदा। विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम्॥ पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः। शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥ |
विश्वामित्रो ययावग्रे ततो रामो महायशाः। काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात्॥ |
कलापिनौ धनुष्पाणी शोभयानौ दिशो दश। विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ॥ अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ। अनुयातौ श्रिया दीप्तौ शोभयन्तावनिन्दितौ॥ |
तदा कुशिकपुत्रं तु धनुष्पाणी स्वलंकृतौ। बद्धगोधाङ्गलित्राणौ खङ्गवन्तौ महाद्युती॥ कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ। अनुयातौ श्रिया दीप्तौ शोभयेतामनिन्दितौ॥ स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी। |
अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे॥ रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत। गृहाण वत्स सलिलं माभूत् कालस्य पर्ययः॥ |
मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा। न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः॥ न च सुप्तं प्रमत्तं वां धर्षयिष्यन्ति नैऋताः। न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ॥ |
त्रिषु लोकेषु वा राम न भवेद् सदृशस्तव। बलामतिबलां चैव पठतस्तात राघव॥ न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये। नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ॥ एतद्विद्याद्वये लब्धे न भवेत् सदृशस्तव। बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥ |
क्षुत्पिपासे न ते राम भविष्येते नरोत्तम। बलामतिबलां चैव पठतस्तात राघव॥ विद्याद्वयमधीयाने यशश्चाथ भवेद् भुवि। पितामहसुते ह्येते विद्ये तेजः समन्विते॥ |
प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि पाथिव। कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः॥ तपसा सम्भृते चैते बहुरूपे भविष्यतः। |
ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः॥ प्रतिजग्राह ते विद्ये महर्षे वितात्मनः। |
विद्यासमुदितो रामः शुशुभे भीमविक्रमः॥ सहस्ररश्मिभगवाञ्शरदीव दिवाकरः। |
गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे॥ ऊषुस्तां रजनीं तत्र सरय्वां ससुखं त्रयः। |
दशरथनृपसूनुसत्तमाभ्यां तृणशयनेऽनुचिते तदोषिताभ्याम्। कुशिकसुतवचोऽनुलालिताभ्यां सुखमिव सा विबभौ विभावरी च॥ |
प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः। अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे॥ कौसल्या सुप्रजा राम पूर्वां संध्या प्रवर्तने। उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम्॥ |
तम्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ। स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम्॥ |
कृताहिको महावीर्यो विश्वामित्रं तपोधनम्। अभिवाद्यातिसंहष्टौ गमनायाभितस्थतुः॥ |
तौ प्रयान्तौ महावीरों दिव्यां त्रिपथगां नदीम्। ददृशाते ततस्तत्र सरय्वाः संगमे शुभे ॥ |
तत्राश्रमपदं पुण्यमृषीणां भावितात्मनाम्। बहुवर्षसहस्राणि तप्यतां परमं तपः॥ |
तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम्। ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः॥ |
कस्यायमाश्रमः पुण्यः को न्वस्मिन् वसते पुमान्। भगवञ्छ्रोतुमिच्छावः परं कौतूहलं हि लो॥ |
तयोस्तद् वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः। अब्रवीच्छ्रयतां राम यस्यायं पूर्वं आश्रमः॥ |
कन्दो मूर्तिमानासीत् काम इत्युच्यते बुधैः। तपस्यन्तमिह स्थाणुं नियमेन समाहितम्॥ कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम्। धर्षयामास दुर्मेधा हुंकृतश्च महात्मना ॥ |
अवध्यातश्च रुद्रेण चक्षुणा रघुनन्दन। व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः॥ |
तत्र गात्रं हतं तस्य निर्दग्धस्य महात्मनः। अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण ह॥ |
अनङ्ग इति विख्यातस्तदाप्रभृति राघव। स चाङ्गविषयः श्रीमान् यत्राङ्ग स मुमोच ह॥ |
तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा। शिष्या धर्मपरा वीर तेषां पापं न विद्यते॥ |
इहाद्य रजनीं राम वसेम शुभदर्शन। पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम्॥ |
अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम्। इह वासः परोऽस्माकं सुखं वत्स्यामहे निशाम्॥ स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम । |
तेषां संवदतां तत्र तपोदीर्पण चक्षुषा ॥ विज्ञाय परमप्रीता मुनयो हर्षमागमन्। |
अर्घ्यं पाद्यं तथाऽऽतिथ्यं निवेद्य कुशिकात्मजे॥ रामलक्ष्मणयोः पश्चादकुर्वनतिथिक्रियाम्। |
सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन्॥ यथार्हमजपन् संध्यामृषयस्ते समाहिताः। |
तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह॥ न्यवसत्स सुखं तत्र कामाश्रमपदे तथा। |
कथाभिरभिरामाभिरभिरामौ नृपात्मजौ। रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः॥ |
ततः प्रभाते विमले कृताह्निकमरिन्दमौ। विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ॥ |
ते च सर्वे महात्मानो मुनयः संशितव्रताः। उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन्॥ |
आरोहतु भवान् नावं राजपुत्रपुरस्कृतः। अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः॥ |
विश्वामित्रस्तथेत्युक्त्वा तानृषीन् प्रतिपूज्य च। ततार सहितस्ताभ्यां सरितं सागरङ्गमाम्॥ |
तत्र शुश्राव वै शब्दं तोयसंरम्भवर्धितम्। मध्यमागम्य तोयस्य तस्य शब्दस्य निश्चयम्॥ ज्ञातुकामो महातेजाः सह रामः कनीयसा। |
अथ रामः सरिन्मध्यो पप्रच्छ मुनिपुङ्गवम्॥ वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः। |
राघवस्य वचः श्रुत्वा कौतूहलसमन्वितम्॥ कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम्। |
कैलासपर्वते राम मनसा निर्मितं परम्॥ ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः। |
तस्मात् सुस्राव सरसः सोयोध्यामुपगूहते॥ सरःप्रवृत्ता सरयू: पुण्या ब्रह्मसरश्च्युता। |
तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते॥ वारिसंक्षीभजो राम प्रणामं नियतः कुरु। |
ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ॥ तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ। |
स वनं घोरसंकाशं दृष्ट्वा नरवरात्मजः॥ अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम्। |
अहो वनमिदं दुर्ग झिल्लिकागणसंयुतम्॥ भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारवैः। नानाप्रकारैः शकुनैर्वाश्यद्भिभैरवस्वनैः॥ सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम्। धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः॥ संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम्। |
तमुवाच महातेजा विश्वामित्रो महामुनिः॥ श्रूयतां वत्स काकुत्स्थ यस्यैतद् दारुणं वनम्। |
एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम॥ मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ। |
पुरा वृत्रवधे राम मलेन समभिप्लुतम्॥ क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत्। |
तमिन्द्रं मलिनं देवा ऋषयश्च तपोधनाः॥ कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन्। |
इह भूम्यां मलं दत्त्वा देवाः कारूषमेव च॥ शरीरजं महेन्द्रस्य ततो हर्ष प्रपेदिरे। |
निर्मलो निष्करूषश्च शुद्ध इन्द्रो यथाभवत्॥ ततो देशस्य सुप्रीतो वरं प्रादादनुत्तमम्। इमौ जनपदौ स्फीतौ ख्याति लोके गमिष्यतः॥ मलदाश्च करूषाश्च ममाङ्गमलधारिणौ। |
साधुसाध्विति तं देवाः पाकशासनमब्रुवन्॥ देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता। |
एतौ जनपदौ स्फीतौ दीर्घकालमरिंदम ॥ मलदाश्च करूषाश्च मुदिता धनधान्यतः। |
कस्यचित्त्वथ कालस्य यक्षिणी कारूपिणी॥ बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्। |
ताटका नाम भद्रं ते भार्यां सुन्दस्य धीमतः॥ मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः। वृत्तबाहुर्महाशीर्षो विपुलास्यतनुर्महान्॥ |
राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः। इमौ जनपदौ नित्यं विनाशयति राघव ॥ मलदांश्च करूषांश्च ताटका दुष्टचारिणी। |
सेयं पन्थानमावृत्य वसत्यत्यर्धयोजने॥ अत एव च गन्तव्यं ताटकाया वनं यतः। स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम्॥ |
मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः। नहि कश्चिदिमं देशं शक्तो ह्यागन्तुमीदृशम्॥ |
यक्षिण्या घोरया राम उत्सादितमसह्यया। एतत्ते सर्वमाख्यातं यथैतद् दारुणं वनम्। यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते॥ |
अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्। श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम्॥ |
अल्पवीर्यां यदा यक्षी श्रूयते मुनिपुङ्गव। कथं नागसहस्रस्य धारयत्यबला बलम्॥ |
इत्युक्तं वचनं श्रुत्वा राघवस्यामितौजसः। हर्षयन् श्लक्ष्णया वाचा सलक्ष्मणमरिंदमम्॥ विश्वामित्रोऽब्रवीद् वाक्यं शृणु येन बलोत्कटा। वरदानकृतं वीर्यं धारयत्यबला बलम्॥ |
पूर्वमासीन्महायक्षः सुकेतुर्नाम दीर्यवान्। अनपत्यः शुभाचारः स च तेपे महत्तपः॥ |
पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा। कन्यारत्नं ददौ राम ताटकां नाम नामतः॥ |
ददौ नागसहस्रस्य बलं चास्याः पितामहः। न त्वेव पुत्रं यक्षाय ददौ चासौ महायशा॥ |
तां तु बाला विवर्धन्ती रूपयौवनशालिनीम्। जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम्॥ |
कस्यचित्त्वथ कालस्य यक्षी पुत्रं व्यजायत। मारीचं नाम दुर्धर्षं यः शापाद् राक्षसोऽभवत्॥ |
सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम्। ताटका सहपुत्रेण प्रधर्षयितुमिच्छति॥ |
भक्षार्थं जातसंरम्भा गर्जन्ती साभ्यधावत्। आपतन्ती तु तां दृष्ट्वा अगस्त्यो भगवानृषिः॥ राक्षसत्वं भजस्वेति मारीचं व्याजहार सः। |
अगस्त्यः परमामर्षस्ताटकामपि शप्तवान्॥ पुरुषादी महायक्षी विकृता विकृतानना। इदं रूपं विहायाशु दारुणं रूपमस्तु ते॥ |
सैषा शापकृतामर्षां ताटका क्रोधमूर्च्छिता। देशमुत्सादयत्येनमगस्त्याचरितं शुभम्॥ |
एनां राघव दुर्वृत्तां यक्षी परमदारुणाम्। गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम्॥ |
नह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान्। निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ॥ |
नहि ते स्त्रीवधकृते घृणा कार्या नरोत्तम। चातुर्वर्ण्यहितार्थं हि कर्तव्यं राजसूनुना॥ |