text
stringlengths 1
2.69k
|
---|
विशेषेण भवानेव विश्वामित्र महायशः। कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव॥ |
मुदितैर्मुनिशार्दूलैः प्रशस्त: कुशिकात्मजः। निद्रामुपागमच्छीमानस्तंगत इवांशुमान्॥ |
रामोऽपि सहसौमित्रिः किंचिदागतविस्मयः। प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते॥ |
उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः। निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत॥ |
सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते। उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय॥ |
तच्छ्रुत्वा वचनं तस्य कृतपूर्वाह्निकक्रियः। गमनं रोचयामास वाक्यं चेदमुवाच ह॥ |
अयं शोण: शुभजलोऽगाधः पुलिनमण्डितः। कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् ॥ |
एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम्। एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः॥ |
ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा। जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम्॥ |
तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम्। बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः॥ |
तस्यास्तीरे तदा सर्वे चक्कुर्वासपरिग्रहम्। ततः स्रात्वा यथान्यायं संतl पितृदेवता॥ हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः। विविशुर्जाह्नवीतीरे शुभा मुदितमानसाः॥ विश्वामित्रं महात्मानं परिवार्य समन्ततः। |
विष्ठिताश्च यथान्यायं राघवौ च यथार्हतः। सम्प्रहृष्टमना रामो विश्वामित्रमथाब्रवीत्॥ |
भगवञ्छोतुमिच्छामि गङ्गां त्रिपथगां नदीम्। त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥ |
चोदितो रामवाक्येन विश्वामित्रो महामुनिः। वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे॥ |
शैलेन्द्रो हिमवान् राम धातूनामाकरो महान्। तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥ |
या मेरुदुहिता राम तयोर्माता सुमध्यमा। नाम्ना मना मनोज्ञा वै पत्नी हिमवतः प्रिया॥ |
तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता। उमा नाम द्वितीयाभूत् कन्या तस्यैव राघव॥ |
अथ ज्येष्ठां सुराः सर्वे देवकार्यचिकीर्षया। शैलेन्द्र वरयामासुर्गङ्गां त्रिपथगां नदीम्॥ ददौ धर्मेण हिमवांस्तनयां लोकपावनीम्। स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया॥ प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकाङ्क्षिणः। गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना॥ |
या चान्या शैलदुहिता कन्याऽऽसीद् रघुनन्दन। उग्रं सुव्रतमास्थाय तपस्तेपे तपोधना॥ |
उग्रेण तपसा युक्तां ददौ शैलवरः सुताम्। रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम्॥ |
एते ते शैलराजस्य सुते लोकनमस्कृते। गङ्गा च सरितां श्रेष्ठा उमादेवी च राघव॥ |
एतत् ते सर्वमाख्यातं यथा त्रिपथगामिनी। खं गता प्रथमं तात गतिं गतिमतां वर ॥ सैषा सुरनदी रम्या शैलेन्द्रतनया तदा। सुरलोकं समारूढा विपापा जलवाहिनी॥ |
उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ। प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम्॥ |
धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया। दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि। विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसम्भवम्॥ |
त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी। कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा॥ |
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता। तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः॥ |
निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत्। पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः॥ दृष्ट्वा च भगवान् देवीं मैथुनायोपचक्रमे। तस्य संक्रीडमानस्य महादेवस्य धीमतः। शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम्॥ |
न चापि तनयो राम तस्यामासीत् परंतप । सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः॥ |
यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यति। अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन्॥ |
देवदेव महादेव लोकस्यास्य हिते रत। सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि॥ |
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम। ब्राह्मण तपसा युक्तो देव्या सह तपश्चर॥ |
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय। रक्ष सर्वानिमाल्लोकान् नालोकं कर्तुमर्हसि ॥ |
देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः। बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह॥ |
धारयिष्याम्यहं तेजस्तेजसैव सहोमया। त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु॥ |
यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम्। धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः॥ |
एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम्। यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति॥ |
एवमुक्तः सुरपतिः प्रमुमोच महाबलः। तेजसा पृथिवी येन व्याप्ता सगिरिकानना॥ |
ततो देवाः पुनरिदमूचुश्चापि हुताशनम्। आविश त्वं महातेजो रौद्रं वायुसमन्वितः॥ |
तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम्। दिव्यं शरवणं चैव पावकादित्यसंनिभम्॥ |
यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः। अथोमां च शिवं चैव देवाः सर्षिगणास्तथा॥ पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा। |
अथ शैलसुता राम त्रिदशानिदमब्रवीत्॥ समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना। |
यस्मान्निवारिता चाहं संगता पुत्रकाम्यया॥ अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ। अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः॥ |
एवमुक्त्वा सुरान् सर्वाशशाप पृथिवीमपि। अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥ |
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता। प्राप्स्यसि त्वं सुदुर्मेधो मम पुत्रमनिच्छती ॥ |
तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा। गमनायोपचक्राम दिशं वरुणपालिताम्॥ |
स गत्वा तप आतिष्ठत् पार्वे तस्योत्तरे गिरेः। हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः॥ |
एष ते विस्तरो राम शैलपुत्र्या निवेदितः। गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मण ॥ |
तप्यमानो तदा देवे सेन्द्राः साग्निपुरोगमाः। सेनापतिमभीप्सन्तः पितामहमुपागमन्॥ |
ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम्। प्रणिपत्य सुरा राम सेन्द्राः साग्निपुरोगमाः॥। |
येन सेनापतिर्देव दत्तो भगवता पुरा। स तपः परमास्थाय तप्यते स्म सहोमया॥ |
यदवानन्तरं कार्य लोकानां हितकाम्यया। संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः॥ |
देवतानां वचः श्रुत्वा सर्वलोकपितामहः। सान्त्वयन् मधुरैर्वाक्यस्त्रिदशानिदमब्रवीत्॥ |
शैलपुत्र्या यदुक्तं तन्न प्रजाः स्वासु पलिषु। तस्या वचनमक्लिष्टं सत्यमेव न संशयः॥ |
इयमाकाशगङ्गा च यस्यां पुत्रं हुताशनः। जनयिष्यति देवानां सेनापतिमरिंदमम्॥ |
ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम्। उमायास्तद्बहुमतं भविष्यति न संशयः॥ |
तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन। प्रणिपत्य सुराः सर्वे पितामहमपूजयन्॥ |
ते गत्वा परमं राम कैलासं धातुमण्डितम्। अग्नि नियोजयामासुः पुत्रार्थं सर्वदेवताः॥ |
देवकार्यमिदं देव समाधत्स्व हुताशन । शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज॥ |
देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः। गर्भं धारय वै देवि देवतानामिदं प्रियम्॥ |
इत्येतद् वचनं श्रुत्वा दिव्यं रूपमधारयत्। स तस्या महिमां दृष्ट्वा समन्तादवशीर्यत ॥ |
समन्ततस्तदा देवीमभ्यषिञ्चत पावकः। सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन॥ |
तमुवाच ततो गङ्गा सर्वदेवपुरीगमम्। अशक्ता धारणे देव तेजस्तव समुद्धतम्॥ दह्यमानाग्निना तेन सम्प्रव्यथितचेतना। |
अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः॥ इह हैमवते पार्वे गर्भोऽयं संनिवेश्यताम्। |
श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम्॥ उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ। |
यदस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम् ॥ काञ्चनं धरणी प्राप्तं हिरण्यमतुलप्रभम्। तानं कार्णायसं चैव तैक्ष्ण्यादेवाभिजायत॥ |
मलं तस्याभवत् तत्र त्रपु सीसकमेव च। तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥ |
निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम्। सर्वं पर्वतसंनद्धं सौवर्णमभवद् वनम्॥ |
जातरूपमिति ख्यातं तदाप्रभृति राघव। सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम्।॥ |
तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः। क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन्॥ |
ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम्। ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः॥ |
ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन्। पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः॥ |
तेषां तद् वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे। स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम्॥ |
स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवे। कार्तिकेयं महाबाहुं काकुत्स्थ ज्वलनोपमम्॥ |
प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम्। षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः॥ |
गृहीत्वा क्षीरमेकाहा सुकुमारवपुस्तदा। अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः॥ |
सुरसेनागणपतिमभ्यषिञ्चन्महाद्युतिम्। ततस्तममराः सर्वे समेत्याग्निपुरोगमाः॥ |
एष ते राम गङ्गाया विस्तरोऽभिहितो मया। कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च॥ भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः। आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥ |
तां कथां कौशिको रामे निवेद्य मधुराक्षराम्। पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत्॥ |
अयोध्याधिपतिर्वीर पूर्वमासीन्नराधिपः। सगरो नाम धर्मात्मा प्रजाकामः स चाग्रजः॥ |
वैदर्भदुहिता राम केशिनी नाम नामतः। ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी॥ |
अरिष्टनेमेर्दुहिता सुपर्णभगिनी तु सा। द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता॥ |
ताभ्यां सह महाराजः पत्नीभ्यां तप्तवांस्तपः। हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ॥ |
अथ वर्षशते पूर्णे तपसाऽऽराधितो मुनिः। सगराय वरं प्रादाद् भृगुः सत्यवतां वरः॥ |
अपत्यलाभः सुमहान् भविष्यति तवानघ। कीर्ति चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ।७।। |
एका जनयिता तात पुत्रं वंशकरं तव। षष्ठिं पुत्रसहस्राणि अपरा जनयिष्यति॥ |
भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम्। ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा॥ |
एकः कस्याः सुतो ब्रह्मन् का बहूञ्जनयिष्यति। श्रोतुमिच्छामहे ब्रह्मन् सत्यमस्तु वचस्तव॥ |
तयोस्तद् वचनं श्रुत्वा भृगुः परमधार्मिकः। उवाच परमां वाणी स्वच्छन्दोऽत्र विधीयताम्॥ एको वंशकरो वास्तु बहवो वा महाबलाः। कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति ॥ |
मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन। पुत्रं वंशकरं राम जग्राह नृपसंनिधौ॥ |
षष्ठिं पुत्रसहस्राणि सुपर्णभगिनी तदा। महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥ |
प्रदक्षिणमृषि कृत्वा शिरसाभिप्रणम्य तम्। जगाम स्वपुरं राजा सभार्यो रघुनन्दन ॥ |
अथ काले गते तस्य ज्येष्ठा पुत्रं व्यजायत। असमञ्ज इति ख्यातं केशिनी सगरात्मजम्॥ |
सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत। षष्ठिः पुत्रसहस्राणि तुम्बभेदाद् विनिःसृताः॥ |
घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन्। कालेन महता सर्वे यौवनं प्रतिपेदिरे॥ |
अथ दीर्पण कालेन रूपयौवनशालिनः। षष्ठिः पुत्रसहस्राणि सगरस्याभवंस्तदा॥ |
सच ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसम्भवः। बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ॥ प्रक्षिप्य प्राहसन्नित्यं मज्जतस्तान् निरीक्ष्य वै। |
एवं पापसमाचारः सज्जनप्रतिबाधकः॥ पौराणामहिते युक्तः पित्रा निर्वासितः पुरात्। |
तस्य पुत्रोंऽशुमान् नाम असमञ्जस्य वीर्यवान् ॥ सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः। |
ततः कालेन महता मतिः समभिजायत ॥ सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता। |
स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा। यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे॥ |