text
stringlengths 1
2.69k
|
---|
ततस्तु ताः प्राश्य तमुत्तमस्त्रियो महीपतेरुत्तमपायसं पृथक्। ऽचिरेण गर्भान् प्रतिपेदिरे तदा॥ |
ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः प्ररूढगर्भाः प्रतिलब्धमानसः। बभूव हृष्टिस्त्रिदिवे यथा हरिः सुरेन्द्रसिद्धर्षिगणाभिपूजितः॥ |
पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः। उवाच देवताः सर्वाः स्वयंभूर्भगवानिदम्॥ |
सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः। तनूषु च। : सहायान् बलिनः सृजध्वं कामरूपिणः॥ मायाविदश्च शूरांश्च वायुवेगसमान् जवे। नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान्॥ असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान्। सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव॥ |
अप्सरःसु च मुख्यासु गन्धर्वीणां यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च ॥ किन्नरीषां च गात्रेषु वानरीणां तनूषु च। सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान्॥ |
पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गवः। जृम्भमाणस्य सहसा मम वक्त्रादजायत।७।। |
ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम्। जनयामासुरेवं ते पुत्रान् वानररूपिणः॥ |
ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः। चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः॥ |
वानरेन्द्र महेन्द्राभमिन्द्रो वालिनमात्मजम्। सुग्रीवं जनयामास तपनस्तपतां वरः॥ |
बृहस्पतिस्त्वजनयत् तारं नाम महाकपिम्। सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम्॥ |
धनदस्य सुतः श्रीमान् वानरो गन्धमादनः। विश्वकर्मा त्वजनयन्त्रलं नाम महाकपिम्।।१२ |
पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः। तेजसा यशसा वीर्यादत्यरिच्यत वीर्यवान्॥ |
रूपद्रविणसंपन्नावश्विनौ रूपसंमतौ। मैन्दं च द्विविदं चैव जनयामासतुः स्वयम्॥ |
वरुणो जनयामास सुषेणं नाम वानरम्। शरभं जनयामास पर्जन्यस्तु महाबलः॥ |
मारुतस्यौरसः श्रीमान् हनूमान् नाम वानरः। वज्रसंहननोपेतो वैनतेयसमो जवे॥ |
सर्ववानरमुख्येषु बुद्धिमान् बलवानपि। ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः॥ अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः। ते गजाचलसंकाशा वपुष्मन्तो महाबलाः॥ ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे। |
यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः॥ अजायत समं तेन तस्य तस्य पृथक् पृथक् । गोलाङ्गुलेषु चोत्पन्नाः किंचिदुनतविक्रमाः॥ |
ऋक्षीषु च तथा जाता वानराः किन्नरीषु च। देवा महर्षिगन्धर्वास्तार्क्ष्ययक्षा यशस्विनः॥ नागाः किंपुरुषाश्चैव सिद्धविद्याधरोरगाः। बहवो जनयामासुहृष्टास्तत्र सहस्रशः॥ |
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः। वानरान् सुमहाकायान् सर्वान् वै वनचारिणः॥ अप्सरःसु च मुख्यासु तथा विद्याधरीषु च। नागकन्यासु च तदा गन्धर्वीणां तनूषु च। कामरूपबलोपेता यथाकामविचारिणः॥ |
सिंहशार्दूलसदृशा दर्पण च बलेन च। शिलाप्रहरणाः सर्वे सर्वे पर्वतयोधिनः॥ |
मखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः। विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान्॥ |
क्षोभयेयुश्च वेगेन समुद्र सरितां पतिम्। दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवान्॥ |
नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान्। गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने॥ |
नर्दमानांश्च नादेन पातयेयुर्विहङ्गमान्। ईदृशानां प्रसूतानि हरीणां कामरूपिणाम्॥ शतं शतसहस्राणि यूथपानां महात्मनाम्। |
ते प्रधानेषु यथेषु हरीणां हरियूथपाः॥ बभूवुर्मूथपश्रेष्ठान् वीरांश्चाजनयन् हरीन्। |
अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः॥ अन्ये नानाविधाञ्छैलान् काननानि च भेजिरे। |
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्॥ भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः। नलं नीलं हनूमन्तमन्यांश्च हरियूथपान्॥ ते तार्क्ष्यबलसम्पन्नः सर्वे युद्धविशारदाः। विचरन्तोऽर्दयन् सर्वान् सिंहव्याघ्रमहोरगान्॥ |
महाबलो महाबाहुर्वाली विपुलविक्रमः। जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥ |
तैरियं पृथिवी शूरैः सपर्वतवनार्णवा। कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः॥ तैर्मेघवृन्दाचलकूटसंनिभैर्महाबलैर्वानरयूथपाधिपैः। बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः॥ |
निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः। प्रतिगृह्यामरा भागान् प्रतिजग्मुर्यथागतम्॥ |
समाप्तदीक्षानियमः पत्नीगणसमन्वितः। प्रविवेश पुरी राजा सभृत्यबलवाहनः॥ |
यथार्ह पूजितास्तेन राज्ञा च पृथिवीश्वराः। मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुङ्गवम्॥ |
श्रीमतां गच्छतां तेषां स्वगृहाणि पुरात्ततः। बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे॥ |
गतेषु पृथिवीशेषु राजा दशरथः पुनः। प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान्॥ |
शान्तया प्रययौ सार्धमृष्यशृङ्गः सुपूजितः। अनुगम्यमानो राज्ञा च सानुयात्रेण धीमता॥ एवं विसृज्य तान् सर्वान् राजा सम्पूर्णमानसः। उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन्।७।। |
ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः। ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ॥ नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु। ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह॥ प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम्। कौसल्याजनयद् रामं दिव्यलक्षणसंयुतम्॥ विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुनन्दनम्। लोहिताक्षं महाबाहुं रक्तोष्ठं दुन्दुभिस्वनम् ॥ कौसल्या शुशुभे तेन पुत्रेणामिततेजसा। यथा वरेण देवानामदितिर्वज्रपाणिना॥ |
भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः। साक्षाद् विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः॥ |
अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौ। वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ॥ |
पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः। सार्पे जातौ तु सौमित्री कुलीरेऽभ्युदिते रवौ॥ |
राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् । गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः॥ जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः। देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खात् पतत्॥ |
उत्सवश्च महानासीदयोध्यायां जनाकुलः। रथ्याश्च जनसम्बाधा नटनर्तकसंकुलाः॥ गायनैश्च विराविण्यो वादनैश्च तथापरैः। विरेजुर्विपुलास्तत्र सर्वरत्नसमन्विनाम्॥ प्रदेयांश्च ददौ राजा सूतमागधबन्दिनाम्। ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः॥ |
अतीत्यैकादशाहं तु नामकर्म तथाकरोत्। ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम्॥ सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा। वसिष्ठः परमप्रीतो नामानि कुरुते तदा॥ |
ब्राह्मणान् भोजयामास पौरजानपदानपि। अददद् ब्राह्मणानां च रत्नौघममलं बहु॥ |
तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत्। तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः॥ बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः। सर्वे वेदविदः शूराः सर्वे लोकहिते रताः॥ |
सर्वे ज्ञानोपसम्पन्ना सर्वे समुदिता गुणैः। तेषामपि महातेजा रामः सत्यपराक्रमः॥ इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्गलः। गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु सम्मतः॥ धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः। |
बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः॥ रामस्य लोकरामस्य भ्रातुर्येष्ठस्य नित्यशः। सर्वप्रियकरस्तस्य रामस्यापि शरीरतः॥ लक्ष्मणो लक्ष्मिसंपन्नो बहिःप्राण इवापरः। न च तेन विना निद्रां लभते पुरुषोत्तमः॥ मृष्टमन्त्रमुपानीतमश्नाति न हि तं विना। |
यदा हि हयमारूढो मृगयां याति राघवः॥ अथैनं पृष्ठतोऽभ्येति सधनुः परिपालयन्। भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः॥ प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः। |
स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः॥ बभूव परमप्रीतो देवैरिव पितामहः। |
ते यदा ज्ञानसम्पन्नाः सर्वे समुतदिता गुणैः॥ ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः। तेषामेवंप्रभावाणां सर्वेषां दीप्ततेजसाम्॥ पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा। |
ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः॥ पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः। |
अथ राजा दशरथस्तेषां दारक्रियां प्रति॥ चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः। तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः॥ अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः। |
स राज्ञो दर्शनाकानी द्वाराध्यक्षानुवाच ह॥ शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम्। |
तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः॥ सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः। ते गत्वा राजभवनं विश्वामित्रमृषिं तदा॥ प्राप्तमावेदयामासुपायेक्ष्वाकवे तदा। |
तेषां तद् वचनं श्रुत्वा सपुरोधाः समाहितः।॥ प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः। |
स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम्॥ प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत्। |
स राज्ञः प्रतिगृह्याऱ्या शास्त्रदृष्टेन कर्मणा॥ कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम्। |
कोशे जनपदे बान्धवेषु सुहृत्सु च ॥ कुशलं कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः। |
अपि ते संनताः सर्वे सामन्तरिपवो जिताः॥ दैवं च मानुषं चैव कर्म ते साध्वनुष्ठितम्। |
वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः॥ ऋषींश्च तान् यथान्यायं महाभाग उवाच ह। |
ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम्॥ विविशुः पूजितास्तेन निषेदुश्च यथार्हतः। |
अथ हृष्टमना राजा विश्वामित्रं महामुनिम्॥ उवाच परमोदारो हृष्टस्तमभिपूजयन्। |
यथामृतस्य सम्प्राप्तिर्यथा वर्षमनूदके॥ वै यथा सदृशदारेषु पुत्रजन्माप्रजस्य प्रणष्टस्य यथा लाभो यथा हर्षों महोदयः॥ तथैवागमनं मन्ये स्वागतं ते महामुने। कं च ते परमं कामं करोमि किमु हर्षितः॥ |
पात्रभूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि मानद। अद्य मे सफलं जन्म जीवितं च सुजीवितम्॥ |
यस्माद् विप्रेन्द्रमद्राक्षं सुप्रभाता निशा मम। पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः॥ ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया। तदद्भुतमभूद्विप्र पवित्रं परमं मम॥ |
शुभक्षेत्रगतश्चाहं तव संदर्शनात् प्रभो। ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति ॥ |
इच्छाम्यनुगृहीतोऽहं त्वदर्थं परिवृद्धये। कार्यस्य न विमर्श च गन्तुमर्हसि सुव्रत॥ कर्ता चाहमशेषेण दैवतं हि भवान् मम। मम चायमनुप्राप्तो महानभ्युदयो द्विज। तवागमनजः कृत्स्नो धर्मश्चानुत्तमो द्विज ॥ |
इति हृदयसुखं निशम्य वाक्यं श्रुतिसुखमात्मवता विनीतमुक्तम्। प्रथितगुणयशा गुणैर्विशिष्टः परमऋषिः परमं जगाम हर्षम्॥ |
तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम्। हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ |
सदृशं राजशार्दूल तवैव भुवि नान्यतः। महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः॥ |
यत् तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम्। कुरुष्व राजशार्दूल भव सत्यव्रतिश्रवः॥ |
अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ। तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ॥ |
व्रते तु बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ। मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥ तौ मांसरुधिरौघेण वेदि तामभ्यवर्षताम्। अवधूते तथाभूते तस्मिन् नियमनिश्चये॥ कृतश्रमो निरुत्साहस्तस्माद् देशादपाक्रमे। न च मक्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव॥ |
तथाभूता हि सा चर्या न शापस्तत्र मुच्यते। स्वपुत्रं राजशार्दूलरामं सत्यपराक्रमम्॥ काकपक्षधरं वीरं ज्येष्ठं मे दातुमर्हसि। |
शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ॥ राक्षसा ये विकारस्तेषामपि विनाशने। श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः॥ त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति। न च तौ राममासाद्य शक्तौ स्थातुं कथंचन॥ न च तौ राघवादन्यो हन्तुमुत्सहते पुमान्। वीर्योत्सितौ हि तौ पापौ कालपाशवशं गतौ॥ रामस्य राजशार्दूल न पर्याप्तो महात्मनः। |
न च पुत्रगतं स्नेहं कर्तुमर्हसि पार्थिव॥ अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ। अहं वेनि महात्मानं रामं सत्यपराक्रमम्॥ वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः। यदि ते धर्मलाभं तु यशश्च परमं भुवि॥ स्थिरमिच्छसि राजेन्द्र रामं मे दातुमर्हसि। |
यद्यभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः॥ वसिष्ठप्रमुखाः सर्वे ततो रोमं विसर्जय। |
अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि॥ दशरात्रं हि यज्ञस्य रामं राजीवलोचनम्। नात्येति कालो यज्ञस्य यथायं मम राघव॥ तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः। |
इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः॥ विरराम महातेजा विश्वामित्रो महामतिः। |
स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम्॥ शोकेन महताविष्टश्चचाल च मुमोह च। |
लब्धसंज्ञस्ततोत्थाय व्यषीदत भयान्वितः॥ इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान्। नरपतिरभवन्महान् महात्मा व्यथितमनाः प्रचचाल चासनात्॥ |
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम्। मुहूर्तमिव नि:संज्ञः संज्ञावानिदमब्रवीत्॥ |
ऊनषोडशवर्षों मे रामो राजीवलोचनः। न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः॥ |
इयमक्षौहिणी सेना यस्याहं पतिरीश्वरः। अनया सहितो गत्वा योद्धाहं तैर्निशाचरैः॥ |
इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः। योग्या रक्षोगणैर्योद्धं न रामं नेतुमर्हसि॥ |
अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि। यावत् प्राणान् धरिष्यामि तावद् योत्स्ये निशाचरैः॥ |
निर्विघ्ना व्रतचार्या सा भविष्यति सुरक्षिता। अहं तत्र गमिष्यामि न रामं नेतुमर्हसि॥ |
बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम्। न चास्त्रबलसंयुक्तो न च युद्धविशारदः॥ |
न चासौ रक्षसां योग्यः कूटयुद्धा हि राक्षसाः। विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे॥ जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि। यदि वा राघवं ब्रह्मन् नेतुमिच्छसि सुव्रत॥ चतुरङ्गसमायुक्तं मया सह च तं नय। |
षष्टिवर्षसहस्राणि जातस्य मम कौशिक॥ कृच्छ्रेणोत्पादितश्चायं न रामं नेतुमर्हसि। |
चतुर्णामात्मजानां हि प्रीतिः परमिका मम॥ ज्येष्ठे धर्मप्रधाने च न रामं नेतुमर्हसि। |
किंवीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते॥ कथंप्रमाणाः के चैतान् रक्षन्ति मुनिपुङ्गव। कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम्॥ मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम्। सर्वं मे शंस भगवन् कथं तेषां मया रणे॥ स्थातव्यं दुष्टभावानां वीर्योत्सित्ता हि राक्षसाः। |
तस्य तद् वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत॥ पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः। स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम्॥ महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः। श्रूयते च महाराज रावणो राक्षसाधिपः॥ साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः। |
यदा न खलु यज्ञस्य विघ्नकर्ता महाबलौ॥ तेन संचोदितौ तौ तु राक्षसौ च महाबलौ। मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः॥ |
इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा। नहि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः॥ |
स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके। मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः॥ |
देवदानवगन्धर्वा यक्षाः पतगपन्नगाः। न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ॥ |
स तु वीर्यवतां वीर्यमादत्ते युधि रावणः। तेन चाहं न शक्तोऽस्मि संयोद्धं तस्य वा बलैः॥ सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः। कथमप्यमरप्रख्यं संग्रामाणामकोविदम्॥ बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम्। |
अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः॥ यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम्। मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ॥ |
तयोरन्यतरं योद्धं यास्यामि ससुहृद्गणः। अन्यथा त्वनुनेष्यामि भवन्तं सहबान्धवः॥ |
इति नरपतिजल्पनाद् द्विजेन्द्र कुशिकसुतं सुमहान् विवेश मन्युः। सुहुत इव मखेऽग्निराज्यसिक्तः समभवदुज्ज्वलितौ महर्षिवह्निः॥ |