text
stringlengths 1
2.69k
|
---|
मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम्। तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम॥ |
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा। कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचिन्त्यताम्॥ |
ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन्। वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम्॥ |
ऊचुश्च परमप्रीताः सर्वे दशरथं वचः। सम्भाराः सम्ध्रियन्तां ते तुरगश्च विमुच्यताम् ॥ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्। सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ॥ यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता। |
ततस्तुष्टोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम्॥ अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः। सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ॥ समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम्। सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्॥ शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि। शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥ नापराधो भवेद् कष्टो यद्यस्मिन् क्रतुसत्तमे। छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसा ॥ |
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति। तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते॥ |
तथा विधानं क्रियतां समर्थाः साधनेष्विति। तथेति चाब्रुवन् सर्वे मन्त्रिणः प्रतिपूजिताः॥ |
पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते। तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम्॥ अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम्। |
विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत्॥ ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम्। |
इत्युक्त्वानृपशार्दूलः सचिवान् समुपस्थितान्॥ विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः। |
ततः स गत्वा ताः पत्नीनरेन्द्रो हृदयंगमाः॥ उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् । |
तासां तेनातिकान्तेन वचनेन सुवर्चसाम्। मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये॥ |
एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत्। श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम्।। |
ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः। सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम्॥ ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति। |
काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः॥ ऋष्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति। स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ॥ |
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात्। द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः॥ लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा। |
तस्यैवं वर्तमानस्य काल: समभिवर्तत॥ अग्नि शुश्रूषमाणस्य पितरं च यशस्विनम्। एतस्मिन्नेव काले तु रोमपातः प्रतापवान्॥ अङ्गेषु प्रथितो राजा भविष्यति महाबलः। तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा ॥ अनावृष्टिः सुघोरा वै सर्वलोकभयावहा। |
अनावृष्टयां तु वृत्तायां राजा दुःखसमन्वितः॥ ब्राह्मणाञ्छ्रुतसंवृद्धान् समानीय प्रवक्ष्यति। भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः॥ समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत्। |
इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः॥ वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः। |
विभाण्डकसुतं राजन् सर्वापायैरिहानय ॥ आनाय्य तु महीपाल ऋष्यशृङ्ग सुसत्कृतम्। विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम्। प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः॥ |
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते। केनोपायेन वै शक्यमिहानेतुं स वीर्यवान्॥ |
ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान्। पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान्॥ |
ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः। न गच्छेम ऋषेीता अनुनेयन्ति तं नृपम्॥ |
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान् क्षमान्। आनेयामो वयं विप्रं न च दोषो भविष्यति॥ |
एवमङ्गाधिपेनैव गणिकाभिषेः सुतः। आनीतोऽवर्षयत् देवः शान्ता चास्मै प्रदीयते॥ |
ऋष्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति। सनत्कुमारकथितमेतावद् व्याहृतं मया॥ |
अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत। यथर्घ्यशृङ्गस्त्वानीतो येनोपायेन सोच्यताम्॥ |
सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा। यथर्घ्यशृङ्गस्त्वानीतो येनोपायेन मन्त्रिभिः॥ |
रोमपादमुवाचेदं सहामात्यः पुरोहितः। उपायो निरपायोऽयमस्माभिरभिचिन्तितः॥ |
ऋष्यशृङ्गो वनचरस्तपः स्वाध्यायसंयुतः। अनभिज्ञस्तु नारीणां विषयाणां सुखस्य च॥ |
इन्द्रियार्थैरभिमतैनरचित्तप्रमाथिभिः। पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम्॥ |
गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलंकृताः। प्रलोभ्य विविधोपायैरानेयन्तीह सत्कृताः॥ |
श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम्। पुरोहितो मन्त्रिणश्च तदा चक्रुश्च ते तथा॥ |
वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत्। आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने॥ ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनः। पितुः स नित्यसंतुष्टो नातिचक्राम चाश्रमात्॥ |
न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना। स्त्री वा पुमान् वा यच्चान्यत् सत्त्वं नगरराष्ट्रजम्॥ |
ततः कदाचित् तं देशमाजगाम यदृच्छया। विभाण्डकसुतस्तत्र ताश्चपश्यद् वराङ्गनाः॥ |
ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरम्। ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन्॥ |
कस्त्वं किं वर्तसे ब्रह्मज्ञातुमिच्छामहे वयम्। एकस्त्वं विजने दूरे वने चरसि शंस नः॥ |
अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः। हार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम्॥ |
पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसः। ऋष्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि॥ |
इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः। करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम्॥ |
ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै। तदाश्रमपदं द्रष्टुं जग्मुः सर्वास्ततोऽङ्गनाः॥ |
गतानां तु ततः पूजामृषिपुत्रश्चकार ह। इदमर्ध्यमिदं पाद्यमिदं मूलं फलं च नः॥ |
प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः। ऋषेीताश्च शीघ्रं तु गमनाय मतिं दधुः॥ |
अस्माकमपि मुख्यानि फलानीमानि हे द्विज । गृहाण विप्र भद्रं ते भक्षयस्व च मा चिरम्॥ |
ततस्तास्तं समालिङ्गय सर्वा हर्षसमन्विताः। मोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्शुमान्॥ |
तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते। अनास्वादितपूर्वाणि वने नित्यनिवासिनाम्॥ |
आपृच्छय च तदा विप्रं व्रतचर्यां निवेद्य च। गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः॥ |
गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः। अस्वस्थहृदयश्चासीद् दुःखाच्च परिवर्तते॥ |
ततोऽपरेधुस्तं देशमाजगाम स वीर्यवान्। विभाण्डकसुतः श्रीमान् मनसाचिन्तयन्मुहुः॥ मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः। |
दृष्ट्वैव च ततो विप्रमायान्तं हृष्टमानसाः॥ उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः। एह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन् ॥ |
चित्राण्यत्र बहूनि स्युर्मूलानि च फलानि च। तत्राप्येष विशेषेण विधिर्हि भविता ध्रुवम्॥ |
श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम्। गमनाय मतिं चक्रे तं च निन्युस्तथा स्त्रियः॥ |
तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि । ववर्ष सहसा देवो जगत् प्रह्लादयंस्तदा॥ |
वर्षेणैवागतं विप्रं तापसं स नराधिपः। प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः॥ |
अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः। वने प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् ॥ |
अन्तःपुरं प्रवेश्यास्मै कन्यां दत्त्वा यथाविधि। शान्तां शान्तेन मनसा राजा हर्षमवाप सः॥ |
एवं स न्यवसत् तत्र सर्वकामैः सुपूजितः। ऋष्यशृङ्गो महातेजाः शान्तया सह भार्यया॥ |
भूय एव हि राजेन्द्र शृणु मे वचनं हितम्। यथा स देवप्रवरः कथयामास बुद्धिमान्॥ |
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः। नाम्ना दशरथो राजा श्रीमान् सत्यप्रतिश्रवः॥ |
अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति। कन्या चास्य महाभागा शान्ता नाम भविष्यति॥ पुत्रस्त्वङ्गस्य. राज्ञस्तु रोमपाद इति श्रुतः। तं स राजा दशरथो गमिष्यति महायशाः।४।। अनपत्योऽस्मि धर्मात्मन्शान्ताभर्ता मम क्रतुम्। आहरेत त्वयाऽऽज्ञप्त: संतानार्थे कुलस्य च ॥ |
श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च। प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान्॥ |
प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः। आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ |
तं च राजा दशरथो यशस्कामः कृताञ्जलिः। ऋष्यशृङ्ग द्विजश्रेष्ठं वरयिष्यति धर्मवित्॥ यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः। लभते च स तं कामं द्विजमुख्याद् विशांपतिः॥ |
पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः। वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः॥ एवं स देवप्रवरः पूर्वं कथितवान् कथाम्। सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः॥ |
स त्वं पुरुषशार्दूल समानय सुसत्कृतम्। स्वयमेव महाराज गत्वा सबलवाहनः॥ |
सुमन्तस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत्। अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च॥ सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः। |
वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः॥ भचक्राम तं देशं यत्र वै मुनिपुङ्गवः। |
आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम्॥ ऋषिपुत्रं ददर्शाथो दीप्यमानमिवानलम्। |
ततो राजा यथायोग्यं पूजां चक्रे विशेषतः॥ सखित्वात् तस्य वै राज्ञः प्रहष्टेनान्तरात्मना। रोमपादेन चाख्यातमृषिपुत्राय धीमते॥ सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत्। |
एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः॥ सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत्। शान्ता तव सुता राजन् सह भर्ना विशाम्पते॥ मदीयं नगरं यातु कार्य हि महदुद्यतम्। |
तथेति राजा संश्रुत्य गमनं तस्य धीमतः॥ उवाच वचनं विप्रं गच्छ त्वं सह भार्यया। ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा॥ |
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया। तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ॥ ननन्दतुर्दशरथो रोमपादश्च वीर्यवान्। ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः॥ |
पौरेषु प्रेषयामास दूतान् वै शीघ्रगामिनः। क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम्॥ धूपितं सिक्तसम्मृष्टं पताकाभिरलंकृतम्। |
ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम्॥ तथा चक्रुश्च तत् सर्वं राज्ञा यत् प्रेषितं तदा। |
ततः स्वलंकृतं राजा नगरं प्रविवेश ह॥ शङ्खदुन्दुभिनिहादैः पुरस्कृत्वा द्विजर्षभम्। |
ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम् ॥ प्रवेश्यमानं सत्कृत्य नरेन्द्रणेन्द्रकर्मणा। यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम्॥ |
अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा च शास्त्रतः। कृतकृत्यं तदात्मानं मेने तस्योपवाहनात्॥ |
अन्त:पुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम्। सह भ; विशालाक्षीं प्रीत्यानन्दमुपागमन्॥ |
पूज्यमाना तु ताभिः सा राज्ञा चैव विशेषतः। उवास तत्र सुखिता कञ्चित् कालं सहद्विजा ॥ |
पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत्। प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान्॥ |
अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च। अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम्॥ |
यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव। यथा न विघ्नाः क्रियन्ते यज्ञाङ्गेषु विधीयताम्॥ |
भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान्। वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः॥ |
तथेति च स राजानमब्रवीद् द्विजसत्तमः। करिष्ये सर्वमेवैतद् भवता यत् समर्थितम्॥ |
ततोऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान्। स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान्॥ कर्मान्तिकाशिल्पकारान् वर्धकीन् खनकानपि। गणकाशिल्पिनश्चैव तथैव नटनर्तकान्॥ तथा शुचीशास्त्रविदः पुरुषान् सुबहुश्रुतान्। यज्ञकर्म समीहन्तां भवन्तो राजशासनात्॥ |
इष्टका बहुसाहस्री शीघ्रमानीयतामिति। उपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः॥ |
ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः। भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः॥ |
तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः। आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ॥ वाजिवारणशालाश्च तथा शय्यागृहाणि च। भटानां महदावासा वैदेशिकनिवासिनाम्॥ |
आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः। तथा पौरजनस्यापि जनस्य बहुशोभनम्॥ दातव्यमनं विधिवत् सत्कृत्य न तु लीलया। सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः॥ न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि। |
यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा॥ तेषामपि विशेषेण पूजा कार्या यथाक्रमम्। |
ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च॥ यथा सर्वं सुविहितं न किंचित् परिहीयते। तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा ।१७।। |
ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन्। यथेष्ठं तत् सुविहितं न किंचित् परिहीयते॥ यथोक्तं तत् करिष्यामो न किंचित् परिहास्यते। ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत्॥ निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः। ब्राह्मणान् क्षत्रियान् वैश्याशूद्रांश्चैव सहस्रशः॥ |
समानयस्व सत्कृत्य सर्वदेशेषु मानवान्। मिथिलाधिपतिं शूरं जनकं सत्यवादिनम्॥ तमानय महाभागं स्वयमेव सुसत्कृतम्। पूर्वं सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते॥ |
तथा काशिपति स्निग्धं सततं प्रियवादिनम्। सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह ॥ |
तथा केकयराजानं वृद्धं परमधार्मिकम्। श्वशुरं राजसिंहस्य सपुत्रं तमिहानय॥ |
अङ्गेश्वरं महेष्वासं रोमपादं सुसत्कृतम्। वयस्यं राजसिंहस्य सपुत्रं तमिहानय॥ |
तथा कोसलराजानं भानुमन्तं सुसत्कृतम्। मगधाधिपति शूरं सर्वशास्त्रविशारदम्॥ प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम्। राज्ञः शासनमादाय चोदयस्व नृपर्षभान्। प्राचीनान् सिन्धुसौवीरान्सौराष्ट्रेयांश्च पार्थिवान्॥ दाक्षिणात्यान् नरेन्द्रांश्च समस्तानानयस्व ह। सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥ तानानय यथा क्षिप्रं सानुगान् सहबान्धवान्। एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया॥ |
वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितं तदा। व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान्॥ |
स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात्। सुमन्त्रस्त्वरितो भूत्वा समानेतुं महामतिः॥ |