text
stringlengths 1
2.69k
|
---|
सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि। तमेव चिन्तयत्रर्थमुपावर्तत वै मुनिः॥ |
भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः। कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह॥ |
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित्। उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः॥ |
आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः। चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥ |
वाल्मीरिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः। प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः॥ |
पूजयामास तं देवं पाद्याासनवन्दनैः। प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम् ॥ |
अथोपविश्य भगवानासने परमार्चिते। वाल्मीकये च ऋषये संदिदेशासनं ततः॥ |
ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने। उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ॥ तद्गतेनैव मनसा वाल्मीकिानमास्थितः। पापात्मना कृतं कप्टं वैरग्रहणबुद्धिना॥ यत् तादृशं चारुरवं क्रौञ्चं हन्यादकारणात्। शोचन्नेव पुनः क्रौञ्चीमुपश्लोकमिमं जगौ। |
पुनरन्तर्गतमना भूत्वा शोकपरायणः। तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्गवम्॥ श्लोक एवास्त्वयं बद्धो नात्र कार्या विचारणा। मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती॥ |
रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम। धर्मात्मनो भगवतो लोके रामस्य धीमतः॥ वृत्तं कथय धीरस्य यथा ते नारदाच्छुतम्। |
रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः॥ रामस्य सहसौमित्रे राक्षसानां च सर्वशः। वैदेह्याश्चैव यत् वृत्तं प्रकाशं यदि वा रहः॥ तच्चाप्यविदितं सर्व विदितं ते भविष्यति। |
न ते वागनृता काव्ये काचिदत्र भविष्यति॥ कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम्। |
यावत् स्थास्यन्ति गिरयः सरितश्च महीतले॥ तावद् रामायणकथा लोकेषु प्रचरिष्यति। |
यावद् रामस्य च कथा त्वत्कृता प्रचरियति ॥ तावदूर्ध्वमधश्च त्वन मल्लोकेषु निवत्स्यसि। |
इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत। ततः सशिष्यो भगवान् मुनिर्विस्मयमाययौ ॥ |
तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः। मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः॥ |
समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा। सोऽनुव्याहरणाद् भूयः शोकः श्लोकत्वमागतः॥ |
तस्य बुद्धिरियं जाता महर्षे वितात्मनः। कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम्॥ |
स्तदास्य रामस्य चकार कीर्तिमान्। समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारदर्शनः।॥ |
तदुपगतसमाससंधियोगं सममधुरोपनतार्थवाक्यबद्धम्। रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम्॥ |
श्रुत्वा वस्तु समग्रं तद्धर्मार्थसहितं हितम्। व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः॥ |
उपस्पृश्योदकं सम्यमुनिः स्थित्वा कृताञ्जलिः। प्राचीनाग्रेधु दर्भेषु धर्मेणान्वेषते गतिम् ॥ |
रामलक्ष्मणसीताभी राज्ञा दशरथेन च। सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः॥ हसितं भाषितं चैव गतिर्यावच्च चेष्टितम्। तत् सर्वं धर्मवीर्येण यथावत् सम्प्रपश्यति॥ |
स्त्रीतृतीयेन च तथा यत् प्राप्तं चरता वने। सत्यसंधेन रामेण तत् सर्वं चान्ववैक्षत ॥ |
ततः पश्यति धर्मात्मा तत् सर्वं योगमास्थितः। पुरा यत् तत्र निर्वृत्तं पाणावामलकं यथा॥ |
तत् सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः। अभिरामस्य रामस्य तत् सर्वं कर्तुमुद्यतः॥ |
कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम्। समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम्॥ स यथा कथितं पूर्वं नारदेन महात्मना। रघुवंशस्य चरितं चकार भगवान् मुनिः॥ |
जन्म रामस्य सुमहद्वीर्यं सर्वानुकूताम्। लोकस्य प्रियतां शान्ति सौम्यतां सत्यशीलताम्॥ |
नाना चित्राः कथाश्चान्या विश्वामित्रसहायने। जानक्याश्च विवाहं च धनुषश्च विभेदनम्॥ रामरामविवादं च गुणान् दाशरथेस्तथा। तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम्॥ विघातं चाभिषेकय रामस्य च विवासनम्। राज्ञः शोकं विलापं च परलोकस्य चाश्रयम् ॥ प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम्। निषादाधिपसंवादं सूतोपावर्तनं तथा॥ |
गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम्। भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम्॥ |
वास्तुकर्मनिवेशं च भरतागमनं तथा। प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥ |
पादुकााभिषेकं च नन्दिग्रामनिवासनम्। दण्डकारण्यगमनं विराधस्य वधं तथा॥ |
दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम्। अनसूयासमाख्यां च अङ्गरागस्य चार्पणम्॥ |
दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा। शूर्पणख्याश्च संवाद विरूपकरणं तथा॥ |
वधं खरत्रिशिरसोरुत्थानं रावणस्य च। मारीचस्य वधं चैव वैदेह्या हरणं तथा॥ |
राघवस्य विलापं च गृध्रराजनिबर्हणम्। कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम्॥ |
शबरीदर्शनं चैव फलमूलाशनं तथा। प्रलापं चैव पम्पाया हनूमद्दर्शनं तथा॥ |
ऋष्यमूकस्य गमनं सुग्रीवेण समागमम्। प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम्॥ |
वालिप्रमथनं चैव सुग्रीवप्रतिपादनम्। ताराविलापं समयं वर्षरात्रनिवासनम्॥ कोपं राघवसिंहस्य बलानामुपसंग्रहम्। दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम्॥ |
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम्। प्रायोपवेशनं चैव सम्पातेश्चापि दर्शनम् ॥ |
पर्वतारोहणं चैव सागरस्यापि लङ्घनम्। समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥ राक्षसीतर्जनं चैव च्छायाग्राहस्य दर्शनम्। सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ॥ |
रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम्। आपानभूमिगमनमवरोधस्य दर्शनम् ॥ दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम्। अशोकवनिकायानं सीतायाश्चापि दर्शनम्॥ |
अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम्। राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम्॥ |
मणिप्रदानं सीताया वृक्षभङ्ग तथैव च। राक्षसीविद्रवं चैव किंकराणां निबर्हणम् ॥ |
ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम्। प्रतिप्लवनमेवाथ मधूनां हरणं तथा॥ |
राघवाश्वासनं चैव मणिनिर्यातनं तथा। संगमं च समुद्रेण नलसेतोश्च बन्धनम् ॥ |
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम्। विभीषणेन संसर्गं वधोपायनिवेदनम्॥ |
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्। रावणस्य विनाशं च सीतावाप्तिमरेः पुरे॥ |
विभीषणाभिषेकं च पुष्पकस्य च दर्शनम्। अयोध्यायाश्च गमनं भरद्वाजसमागमम्॥ |
प्रेषणं वायुपुत्रस्य भरतेन समागमम्। रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्। स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम्॥ |
अनागतं च यत् किंचिद् रामस्य वसुधातले। तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः॥ |
सर्वापूर्वमियं येषामासीत् कृत्स्ना वसुंधरा। प्रजापतिमुपादाय नृपाणां जयशालिनाम्॥ येषां स सगरो नाम सागरो येन खानितः। षष्टिपुत्रसहस्राणि यं यान्तं पर्यवारयन्॥ इक्ष्वाकूणामिदं तेषां राज्ञा वंशे महात्मनाम्। महदुतान्नमाख्यानं रामायणमिति श्रुतम्॥ |
तदिदं वर्तयिष्यावः सर्वं निखिलमादितः। धर्मकामार्थसहितं श्रोतव्यमनसूयता ॥ |
कोशलो नाम मुदितः स्फीतो जनपदो महान्। निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥ |
अयोध्या नाम नगरी तत्रासील्लोकविश्रुता। मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम्॥ |
आयता दश च द्वे च योजनानि महापुरी। श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा॥ |
राजमार्गेण महता सुविभक्तेन शोभिता। मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः॥ |
तां तु राजा दशरथो महाराष्ट्रविवर्धनः। पुरीमावासयामास दिवि देवपतिर्यथा॥ |
कपाटतोरणवतीं सुविभक्तान्तरापणाम्। सर्वयन्त्रायुधवतीमुषितां सर्वशिल्पिभिः॥ |
सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम्। उच्चाट्टालध्वजवती शतनीशतसंकुलाम्॥ |
वधूनाटकसंधैश्च संयुक्तां सर्वतः पुरीम्। उद्यानाम्रवणोपेतां महतीं सालमेखलाम्॥ |
दुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदाम्। वाजिवारणसम्पूर्णा गोभिरुष्टैः खरैस्तथा॥ |
सामन्तराजसंधैश्च बलिकर्मभिरावृताम्। नानादेशनिवासैश्च वणिग्भिरुपशोभिताम्॥ |
प्रासादै रत्नविकृतैः पर्वतैरिव शोभिताम्। कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम्॥ |
चित्रामष्टापदाकारां वरनारीगणायुताम्। सर्वरत्नसमाकीर्णा विमानगृहशोभिताम्॥ |
गृहगाढामविच्छिद्रां समभूमौ निवेशिताम्। शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम्॥ |
दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा। नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम्॥ |
विमानमिव सिद्धानां तपसाधिगतं दिवि। सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम्॥ |
ये च बाणैर्न विध्यन्ति विविक्तमपरापरम्। शब्दवेध्यं च विततं लघुहस्ता विशारदाः॥ सिंहव्याघ्रवराहाणां मत्तानां नदतां वने। हन्तारो निशितैः शस्त्रैर्बलाद् बाहुबलैरपि ॥ तादृशानां सहस्रेस्तामभिपूर्णां महारथैः। पुरीमावासयामास राजा दशरथस्तदा॥ |
तामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः। सहस्रदैः सत्यरतैर्महात्मभि महर्षिकल्पैर्ऋषिभिश्च केवलैः॥ |
तस्यां पुर्यामयोध्यायां वेदवित् सर्वसंग्रहः। दीर्घदर्शी महातेजाः पौरजानपदप्रियः॥ |
इक्ष्वाकूणामतिरथो यज्वा धर्मपरो वशी। महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः॥ |
बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः। धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः॥ |
यथा मनुर्महातेजा लोकस्य परिरक्षिता। तथा दशरथो राजा लोकस्य परिरक्षिता।४॥ |
तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता। पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती॥ |
तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः। नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः॥ |
नाल्पसंनिचयः कश्चिदासीत् तस्मिन् पुरोत्तमे। कुटुम्बी यो ह्यसिद्धार्थो गवाश्वधनधान्यवान्॥ |
कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित्। द्रष्टुं शक्यमयोध्यायां नाविद्वान् न च नास्तिकः॥ |
सर्वे नराश्च नार्यश्च धर्मशीला: सुसंयताः। मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः॥ |
नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान्। नामृष्टो न नलिप्ताङ्गो नासुगन्धश्च विद्यते ॥ |
नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् । नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान्॥ |
नानाहिताग्नि यज्वा न क्षुद्रो वा न तस्करः। कश्चिदासीदयोध्यायां न चावृत्तो न संकरः॥ |
स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः। दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥ |
नास्तिको नानृती वापि न कश्चिदबहुश्रुतः। नासूयको न चाशक्तो नाविद्वान् विद्यते क्वचित्॥ |
नाषडङ्गविदन्नास्ति नाव्रतो नासहस्रदः। नदीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ॥ |
कश्चित्ररो वा नारी वा नाश्रीमान् नाप्यरूपवान्। द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान्॥ |
वर्णेष्वर्यचतुर्थेषु देवतातिथिपूजकाः। कृतज्ञाच वदान्याच शूरा विक्रमसंयुताः॥ |
दीर्घायुषो नराः सर्वे धर्म सत्यं च संश्रिताः। सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे॥ |
क्षत्रं ब्रह्ममुखं चासीत् वैश्याः क्षत्रमनुव्रताः। शूद्राः स्वकर्मनिरतास्त्रीन् वर्णानुपचारिणः॥ |
सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता। यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता॥ |
योधानामग्निकल्पानां पेशलानाममर्षिणाम्। सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव।२१।। |
काम्बोजविषये जातैर्बाहीकैश्च हयोत्तमैः। वनायुजैनदीजैश्च पूर्णा हरिहयोत्तमैः॥ |
विन्ध्यपर्वतजैर्मतैः पूर्णा हैमवतैरपि। मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः॥ |
ऐरावतकुलीनैश्च महापद्मकुलैस्तथा। अञ्जनादपि निष्क्रान्तैमिनादपि च द्विपैः॥ भद्रैर्मन्दैमूंगैश्चैव भद्रमन्द्रमृगैस्तथा। भद्रमन्द्रर्भद्रमृगैर्मुगमन्द्रश्च सा पुरी॥ नित्यमनैः सदा पूर्णा नागैरचलसंनिभैः। सा योजने द्वे च भूयः सत्यनामा प्रकाशते।॥ |
तां पुरी स महातेजा राजा दशरथो महान्। शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः॥ तां सत्यनामां दृढतोरणार्गलां गृहैविचित्रैरुपशोभितां शिवाम्। पुरीमयोध्यां नृसहस्रसंकुला शशास वै शक्रसमो महीपतिः॥ |
तस्य चैवंप्रभावस्य धर्मज्ञस्य महात्मनः। सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः॥ |
चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः। सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम्॥ |
स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान्। मन्त्रिभिः सह धर्मात्मा सर्वैरपि कृतात्मभिः॥ ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तम। शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान्॥ |
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः। समानयत् स तान् सर्वान् समस्तान् वेदपारगान्॥ |
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम्। पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजोत्तमाः॥ तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा। इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत्॥ |