text
stringlengths 1
2.69k
|
---|
ॐ तपः स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्। नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्॥ |
कोन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान्। धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढत्नतः॥ |
चारित्रेण च को युक्तः सर्वभूतेषु को हितः। विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः॥ |
आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः। कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे॥ |
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे। महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्॥ |
श्रुत्वा चैतत्रिलोकज्ञो वाल्मीकेर्नारदो वचः। श्रूयतामिति चामन्त्र्य प्रहष्टो वाक्यमब्रवीत्॥ |
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः। मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नर।७।। |
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः। नियतात्मा महावीर्यो श्रुतिमान् धृतिमान् वशी॥ |
बुद्धिमान् नीतिमान् वाग्मी श्रीमाञ्छत्रुनिबर्हणः। विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः॥ |
महोरस्को महेष्वासो गूढजत्रुररिंदमः। आजानुबाहुः सुशिराः सुललाटः सुविक्रमः॥ |
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान्। पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः॥ |
धर्मज्ञः सत्यसंधश्च प्रजानां च हिते रतः। यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान्॥ |
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः। रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता॥ |
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता। वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः॥ |
सर्वशास्त्रार्थतत्वज्ञः स्मृतिमान् प्रतिभानवान्। सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः॥ |
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः। आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः॥ |
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः। समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव॥ |
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः। कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः॥ |
धनदेन समस्त्यागे सत्ये धर्म इवापरः। तमेवं गुणसम्पन्नं रामं सत्यपराक्रमम्॥ ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथः सुतम्। प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया॥ यौवराज्येन संयोक्तुमैच्छत् प्रीत्या महीपतिः। |
तस्याभिषेकसम्भारान्दृष्ट्वा भार्याऽथ कैकयी॥ पूर्वं दत्तवरा देवी वरमेनमयाचत। विवासं च रामस्य भरतस्याभिषेचनम्॥ |
स सत्यवचनात् राजा धर्मपाशेन संयतः। विवासयामास सुतं रामं दशरथः प्रियम्॥ |
स जगाम वनं वीरः प्रतिज्ञामनुपालयन्। पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात्॥ |
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह। स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धनः॥ भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन्। |
रामस्य दयिता भार्या नित्यं प्राणसमाहिता॥ जनकस्य कुले जाता देवमायेव निर्मिता। सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः॥ सीताप्यनुगता रामं शशिनं रोहिणी यथा। पौरैरनुगतो दूरं पित्रा दशरथेन च॥ |
शृङ्गवेरपुरे सुतं गङ्गाकूले व्यसर्जयत्। गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम्॥ गुहेन सहितो रामो लक्ष्मणेन च सीतया। |
ते वनेन वनं गत्वा नदीस्तीर्वा बहूदकाः॥ चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्। रम्यमावसथं कृत्वा रममाणा वने त्रयः॥ |
देवगन्धर्वसंकाशास्तत्र ते न्यवसन् सुखम्। चित्रकूटं गते रामे पुत्रशोकातुरस्तदा॥ राजा दशरथः स्वर्ग जगाम विलपन् सुतम्। |
गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः॥ नियुज्यमानो राज्याय नैच्छद् राज्यं महाबलः। स जगाम वनं वीरो रामपादप्रसादकः॥ |
गत्वा तु स महात्मानं रामं सत्यपराक्रमम्। अयाचद् भ्रातरं राममार्यभावपुरस्कृतः॥ |
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत्। रामोऽपि परमोदारः सुमुखः सुमहायशाः॥ न चैच्छत् पितुरादेशाद् राज्यं रामो महाबलः। पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः॥ निवर्तयामास ततो भरतं भरताग्रजः। |
स काममनवाप्यैव रामपादावुपस्पृशन्॥ नन्दिग्रामेऽकरोद् राज्यं रामागमनकाङ्क्षया। |
गते तु भरते श्रीमान् सत्यसंधो जितेन्द्रियः॥ रामस्तु पुनरालक्ष्य नागरस्य जनस्य च। तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह॥ |
प्रविश्य तु महारण्यं रामो राजीवलोचनः । विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥ सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा। |
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम्॥ खङ्गं च परमप्रीतस्तूणी चाक्षयसायको। |
वसतस्तस्य रामस्य वने वनचरैः सह॥ ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम्। |
स तेषां प्रतिशुश्राव राक्षसानां तदा वने॥ प्रतिज्ञातश्च रामेण वधः संयति राक्षसाम्। ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम्॥ |
तेन तत्रैव वसता जनस्थाननिवासिनी। विरूपिता शूर्पणखा राक्षसी कामरूपिणी॥ |
ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान्। खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्॥ निजधान रणे रामस्तेषां चैव पदानुगान्। वने तस्मिन् निवसता जनस्थाननिवासिनाम्॥ रक्षसां निहतान्यासन् सहस्राणि चतुर्दश। |
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः।॥ सहायं वरयामास मारीचं नाम राक्षसम्। |
चार्यमाणः सु.हुशो मारीचेन स रावणः॥ न विरोधो बलवता क्षमो रावण तेन ते। अनादृत्य तु तद्वाक्यं रावणः कालचोदितः॥ जगाम सहमारीचस्तस्याश्रमपदं तदा। |
तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥ जहार भार्या रामस्य गृधं हत्वा जटायुषम्। |
गृधं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥ राघवः शोकसंतप्तो विललापाकुलेन्द्रियः। |
ततस्तेनैव शोकेन गृधं दग्ध्वा जटायुषम्॥ मार्गमाणो वने सीतां राक्षसं संददर्श ह। कबन्धं नाम रूपेण विकृतं घोरदर्शनम्॥ तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः। |
स चास्य कथयामास शबरी धर्मचारिणीम्॥ श्रमणां धर्मनिपुणामभिगच्छेति राघव। |
सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः॥ शबर्या पूजितः सम्यग् रामो दशरथात्मजः। |
पम्पातीरे हनुमता सङ्गतो वानरेण ह॥ हनुमद्वचनाच्चैव सुग्रीवेण समागतः। सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः।५९।। आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः |
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः॥ चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम्। |
ततो वानरराजेन वैरानुकथनं प्रति ॥ रामायावेदितं सर्वं प्रणयात् दुःखितेन च। |
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ॥ वालिनश्च बलं तत्र कथयामास वानरः। सुग्रीवः शङ्कितश्चासीनित्यं वीर्येण राघवे॥ |
राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम्। दर्शयामास सुग्रीवो महापर्वतन्निभम्॥ |
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः। पादाङ्गुष्ठेन चिक्षेप सम्पूर्ण दशयोजनम्॥ |
बिभेद च पुनस्तालान् सप्तैकेन महेषुणा। गिरिं रसातलं चैव जनयन् प्रत्ययं तदा॥ |
ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः। किष्किन्धां रामसहितो जगाम च गुहां तदा॥ |
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः। तेन नादेन महता निर्जगाम हरीश्वरः॥ अनुमान्य तदा तारां सुग्रीवेण समागतः। निजघान च तत्रैनं शरेणैकेन राघवः॥ |
ततः सुग्रीववचनाद्धत्वा बालिनमाहवे। सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत्॥ |
स च सर्वान् समानीय वानरान् वानरर्षभः। दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम्।७१ ।। |
ततो गृध्रस्य वचनात् सम्पातेर्हनुमान् बली। शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्॥ |
तंत्र लङ्कां समासाद्य मुरीं रावणपालिताम्। ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम्॥ |
निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च। समाश्वास्य च वैदेहीं मर्दयामास तोरणम्॥ |
पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि। शूरमक्षं च निक्षिप्य ग्रहणं समुपागमत्॥ |
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद् वरात्। मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया॥ |
ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम्। रामाय प्रियमाख्यातुं पुनरायान्महाकपिः। ७७।। |
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्। न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः। ७८ ।। |
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः। समुद्र क्षोभयामास शरैरादित्यसंनिभैः॥ |
दर्शयामास चात्मानं समुद्रः सरितां पतिः। समुद्रवचनाच्चैव नलं सेतुमकारयत्॥ |
तेन गत्वा पुरी लङ्कां हत्वा रावणमाहवे। रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥ |
तामुवाच ततो रामः परुषं जनसंसदि। अमृष्यमाणा सा सीता विवेश ज्वलनं सती॥ |
ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम्। कर्मणा तेन महता त्रैलोक्यं सचराचरम्॥ सदेवर्षिगणं तुष्टं राघवस्य महात्मनः। |
बभौ रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः५५८४ ।। अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम्। कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह॥ |
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान्। अयोध्या प्रस्थितो रामः पुष्पकेण सुहृद्वृतः॥ |
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः। भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत् ॥ |
पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा। पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा॥ |
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः। रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान्॥ |
प्रहृष्टमुदितो रेकस्तुष्टः पुष्टः सुधार्मिकः। निरामयो रोगश्च दुर्भिक्षभयवर्जितः॥ |
न पुत्रमरणं केचिद् द्रक्ष्यन्ति पुरुषाः क्वचित्। नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः॥ |
न चाग्निजं भयं किंचिन्नाप्सु मज्जन्ति जन्तवः। न वातजं भयं किंचिन्नापि ज्वरकृतं तथा॥ न चापि क्षुद्भयं तत्र न तस्करभयं तथा। नगराणि च राष्ट्राणि धनधान्ययुतानि च॥ नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा। |
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः॥ गवां कोट्ययुतं दत्त्वा विद्वद्भयो विधिपूर्वकम्। असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः॥ राजवंशाञ्छतगुणान् स्थापयिष्यति राघवः। चातुर्वयं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति।।९६ |
दशवर्षसहस्राणि दशवर्षशतानि च। रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति॥ |
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम्। यः पठेत् रामचरितं सर्वपापैः प्रमुच्यते॥ |
एतदाख्यानमायुष्यं पठन् रामायणं नरः। सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महायते॥ |
पठन् द्विजो वागृषभत्वमीयात् स्यात् क्षत्रियो भूमिपतित्वमीयात्। ज्जनश्च शूद्रोऽपि महत्त्वमीयात्॥ |
नारदस्य तु तद् वाक्यं श्रुत्वा वाक्यविशारदः। पूजयामास धर्मात्मा सह शिष्यो महामुनिम्॥ |
यथावत् पूजितस्तेन देवर्षि रदस्तथा। आपृच्छयैवाभ्यनुज्ञातः स जगाम विहायसम्॥ |
स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा। जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः॥ |
स तु तीरं समासाद्य तमसाया मुनिस्तदा। शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम्॥ |
अकर्दममिदं तीर्थे भरद्वाज निशामय। रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा।५।। |
न्यस्यतां कलशस्तात दीयतां वल्कलं मम। इदमेवावगाहिष्ये तमसातीर्थमुत्तमम्॥ |
एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना। प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरुः॥ |
स शिष्याहस्तदादाय वल्कलं नियतेन्द्रियः। विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम्।।।।। |
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम्। ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम्॥ |
तस्मात् तु मिथुनादेकं पुमांसं पापनिश्चयः। जघान वैरनिलयो निषादस्तस्य पश्यतः॥ |
तं शोणितपरीताङ्ग चेष्टमानं महीतले। भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम्॥ |
वियुक्ता पतिना तेन द्विजेन सहचारिणा। ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै॥ |
तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम्। ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत॥ |
ततः करुणवेदित्वादधर्मोऽयमिति द्विजः। निशाम्य रुदती क्रौञ्चीमिदं वचनमब्रवीत्॥ |
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥ |
तस्येत्थं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः। शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया॥ |
चिन्तयन् स महाप्राज्ञश्चकार मतिमान्मतिम्। शिष्यं चैवाब्रवीद् वाक्यमिदं स मुनिपुङ्गवः॥ |
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः। शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा॥ |
शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम्। प्रतिजग्राह संतुष्टस्तस्य तुष्टोऽभवन्मुनि ॥ |