Sloka
stringlengths 17
276
| Class
stringclasses 3
values |
---|---|
न कुलं वृत्तहीनस्य प्रमाणमिति में मतिः । अन्तेष्वपि हि जातानां वृतमेव विशिष्यते ॥ | Vidur Niti Slokas |
परिश्रमस्य फलं मधुरं भवति ॥ | sanskrit-slogan |
नोपकारात् परो धर्मो नापकारादधं परम् ॥ | sanskrit-slogan |
परस्परस्य मर्माणि ये भाषन्ते नराधमाः। ते एव विलयं यान्ति वल्मीकोदरसर्पवत्॥ | Chanakya Slokas |
श्रुत्वा धर्म विजानाति श्रुत्वा त्यजति दुर्मतिम्। श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमवाप्नुयात्॥ | Chanakya Slokas |
सर्वे मित्राणि समृध्दिकाले ॥ | sanskrit-slogan |
आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसण्कटे। राजद्वारे श्मशाने च यात्तिष्ठति स बान्धवः ॥ | Chanakya Slokas |
भावमिच्छति सर्वस्य नाभावे कुरुते मनः। सत्यवादी मृदृर्दान्तो यः स उत्तमपूरुषः ॥ | Vidur Niti Slokas |
सुखार्थी चेत् त्यजेद्विद्यां त्यजेद्विद्यां विद्यार्थी चेत् त्यजेत्सुखम्। सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम्॥ | Chanakya Slokas |
सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा। शान्तिः पत्नी क्षमा पुत्रः षडेते मम बान्धवाः॥ | Chanakya Slokas |
सुख-दुर्लभं हि सदा सुखम् ॥ | sanskrit-slogan |
दुराचारी च दुर्दृष्टिर्दुराऽऽवासी च दुर्जनः। यन्मैत्री क्रियते पुम्भिर्नरः शीघ्र विनश्यति ॥ | Chanakya Slokas |
को लोकमाराधयितुं समर्थः ॥ | sanskrit-slogan |
अनागत विधाता च प्रत्युत्पन्नगतिस्तथा। द्वावातौ सुखमेवेते यद्भविष्यो विनश्यति॥ | Chanakya Slokas |
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः। ससर्पे गृहे वासो मृत्युरेव न संशयः॥ | Chanakya Slokas |
विद्या योगेन रक्ष्यते ॥ | sanskrit-slogan |
वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते। मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम्॥ | Chanakya Slokas |
सुश्रान्तोऽपि वहेद् भारं शीतोष्णं न पश्यति। सन्तुष्टश्चरतो नित्यं त्रीणि शिक्षेच्च गर्दभात्॥ | Chanakya Slokas |
अनवस्थितकायस्य न जने न वने सुखम्। जनो दहति संसर्गाद् वनं सगविवर्जनात॥ | Chanakya Slokas |
अनर्थंमर्थंतः पश्यत्रर्थं चैवाप्यनर्थतः। इन्द्रियैरजितैर्बालः सुदुःखं मन्यते सुखम् ॥ | Vidur Niti Slokas |
कृतज्ञः सर्वलोकेषु पूज्यो भवति सर्वदा ॥ | sanskrit-slogan |
दीयमानं हि नापैति भूय एवाभिवर्तते ॥ | sanskrit-slogan |
द्वे कर्मणी नरः कुर्वन्नस्मिंल्लोके विरोचते। अब्रुवं परुषं कश्चित् असतोऽनर्चयंस्तथा ॥ | Vidur Niti Slokas |
आत्मनाऽऽत्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः। आत्मा ह्वोवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ | Vidur Niti Slokas |
वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयः पत्रफलाम्बु सेवनम्। तृणेशु शय्या शतजीर्णवल्कलं न बन्धुमध्ये धनहीनजीवनम्॥ | Chanakya Slokas |
दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता। अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः॥ | Chanakya Slokas |
दुःसाध्यमपि सुसाध्यं करोत्युपायज्ञः ॥ | sanskrit-slogan |
सामुद्रिकं वणिजं चोरपूर्व शलाकधूर्त्त च चिकित्सकं च। अरिं च मित्रं च कुशीलवं च नैतान्साक्ष्ये त्वधिकुर्वीतसप्त॥ | Vidur Niti Slokas |
यत्नवान् सुखमेधते ॥ | sanskrit-slogan |
जानीयात्प्रेषणेभृत्यान् बान्धवान्व्यसनाऽऽगमे। मित्रं याऽऽपत्तिकालेषु भार्यां च विभवक्षये ॥ | Chanakya Slokas |
विद्यया लभते ज्ञानम् ॥ | sanskrit-slogan |
अन्यायोपार्जितं वित्तं दशवर्षाणि तिष्ठति । प्राप्ते चैकादशे वर्षे समूलं तद् विनश्यति॥ | Chanakya Slokas |
न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति नास्तमेति । न दुर्गतोऽस्मीति करोत्यकार्यं तमार्यशीलं परमाहुरार्याः ॥ | Vidur Niti Slokas |
धर्मार्थकाममोश्रेषु यस्यैकोऽपि न विद्यते। जन्म जन्मानि मर्त्येषु मरणं तस्य केवलम्॥ | Chanakya Slokas |
आयुः कर्म वित्तञ्च विद्या निधनमेव च। पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः॥ | Chanakya Slokas |
सुव्याहृतानि सुक्तानि सुकृतानि ततस्ततः। सञ्चिन्वन् धीर आसीत् शिलाहरी शिलं यथा ॥ | Vidur Niti Slokas |
गृहीतेवाक्यो नयविद् वदान्यः शेषात्रभोक्ता ह्यविहिंसकश्च। नानार्थकृत्याकुलितः कृतज्ञः सत्यो मृदुः स्वर्गमुपैति विद्वान् ॥ | Vidur Niti Slokas |
अर्चयेदेव मित्राणि सति वाऽसति वा धने। नानर्थयन् प्रजानति मित्राणं सारफल्गुताम् ॥ | Vidur Niti Slokas |
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते। न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥ | Vidur Niti Slokas |
सुदुर्बलं नावजानाति कञ्चित् युक्तो रिपुं सेवते बुद्धिपूर्वम् । न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः ॥ | Vidur Niti Slokas |
वृद्धसेवया विज्ञानत् ॥ | sanskrit-slogan |
पितृदोषेण मूर्खता ॥ | sanskrit-slogan |
विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च। व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च॥ | Chanakya Slokas |
सक्ष्मात् सर्वेषों कार्यसिद्धिभर्वति ॥ | sanskrit-slogan |
चिरनिरूपणीयो हि व्यक्तिस्वभावः ॥ | sanskrit-slogan |
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिवेत्। शास्त्रपूतं वदेद् वाक्यं मनः पूतं समाचरेत्॥ | Chanakya Slokas |
येषां न विद्या न तपो न दानं न चापि शीलं च गुणो न धर्मः। ते मर्त्यलोके भुवि भारभूता मनुष्यरुपेण मृगाश्चरन्ति॥ | Chanakya Slokas |
अनाहूत: प्रविशति अपृष्टो बहु भाषेते । अविश्चस्ते विश्चसिति मूढचेता नराधम: ॥ | Vidur Niti Slokas |
यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्मानकृच्छुद्धभावः । अतीव स ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः ॥ | Vidur Niti Slokas |
अर्थागमो नित्यमरोगिता च प्रिया च भार्य प्रियवादिनी च । वश्यश्च पुत्रोऽर्थकरी च विद्या षट् जीवलोकस्य सुखानि राजन् ॥ | Vidur Niti Slokas |
पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च। नैव गावं कुमारीं च न वृद्धं न शिशुं तथा॥ | Chanakya Slokas |
अत्यन्तलेपः कटुता च वाणी दरिद्रता च स्वजनेषु वैरम्। नीच प्रसङ्गः कुलहीनसेवा चिह्नानि देहे नरकस्थितानाम्॥ | Chanakya Slokas |
सर्वथा सुकरं मित्रं दुष्करं प्रतिपालनम् ॥ | sanskrit-slogan |
गुरुणामेव सर्वेषां माता गुरुतरा स्मृता ॥ | sanskrit-slogan |
शरीरमाद्यं खलु धर्मसाधनम् ॥ | sanskrit-slogan |
यस्मिन् यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः। मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युपेयः॥ | Vidur Niti Slokas |
भाग्यवन्तमपरीक्ष्यकारिणं श्रीः परित्यजति ॥ | sanskrit-slogan |
उत्साहवन्तः पुरुषाः नावसीदन्ति कर्मसु ॥ | sanskrit-slogan |
यथा धेनु सहस्रेषु वत्सो गच्छति मातरम्। तथा यच्च कृतं कर्म कर्तारमनुगच्छति॥ | Chanakya Slokas |
उपायेन जयो यदृग्रिपोस्तादृड्डं न हेतिभिः ॥ | sanskrit-slogan |
उद्योगे नास्ति दारिद्रयं जपतो नास्ति पातकम्। मौनेन कलहो नास्ति जागृतस्य च न भयम्॥ | Chanakya Slokas |
दारिद्रयनाशनं दानं शीलं दुर्गतिनाशनम्। अज्ञानतानाशिनी प्रज्ञा भावना भयनाशिनी॥ | Chanakya Slokas |
सहायास्तादृशा एव यादृशी भवितव्यता ॥ | sanskrit-slogan |
त्रिविधं नरकस्येदं द्वारम नाशनमात्मन: । काम: क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ | Vidur Niti Slokas |
कः कालः कानि मित्राणि को देशः को व्ययागमोः। कस्याहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः॥ | Chanakya Slokas |
उत्पन्नपश्चात्तापस्य बुद्धिर्भवति यादृशी । तादृशी यदि पूर्वा स्यात्कस्य स्यान्न महोदयः ॥ | Chanakya Slokas |
हिंसाबबलमसाधूनां राज्ञा दण्डविधिर्बलम्। शुश्रुषा तु बलं स्त्रीणां क्षमा गुणवतां बलम्॥ | Vidur Niti Slokas |
मूर्खस्तु परिहर्तव्यः प्रत्यक्षो द्विपदः पशुः। भिनत्ति वाक्यशूलेन अदृश्ययं कण्टकं यथा ॥ | Chanakya Slokas |
कर्मणा मनसा वाचा यदभीक्षणं निषेवते। तदेवापहरत्येनं तस्मात् कल्याणमाचरेत् ॥ | Vidur Niti Slokas |
संस्कृतं भाषाणां जननी अस्ति ॥ | sanskrit-slogan |
देशाचारान् समयाञ्चातिधर्मान् बुभूषते यः स परावरज्ञः । स यत्र तत्राभिगतः सदैव महाजनस्याधिपत्यं करोति ॥ | Vidur Niti Slokas |
गृहेऽपि पज्चेन्द्रियनिग्रहः तपः ॥ | sanskrit-slogan |
अतिवादं न प्रवदेत्र वादयेद् यो नाहतः प्रतिहन्यात्र घातयेत्। हन्तुं च यो नेच्छति पातकं वै तस्मै देवाः स्पृहयन्त्यागताय ॥ | Vidur Niti Slokas |
जानन्नपि नरो दैवात्प्रकरोति विगर्हितम् ॥ | sanskrit-slogan |
शकटं पञ्चहस्तेन दशहस्तेन वाजिनम्। हस्तिनं शतहस्तेन देशत्यागेन दुर्जनम्॥ | Chanakya Slokas |
छात्राणां धर्मः अध्ययनम् अस्ति ॥ | sanskrit-slogan |
क्रोधो हर्षश्च दर्पश्च ह्रीः स्तम्भो मान्यमानिता। यमर्थान् नापकर्षन्ति स वै पण्डित उच्यते ॥ | Vidur Niti Slokas |
मूर्खशिष्योपदेशेन दुष्टास्त्रीभरणेन च। दुःखितैः सम्प्रयोगेण पण्डितोऽप्यवसीदति॥ | Chanakya Slokas |
सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च। पर्यायशः सर्वमेते स्पृशन्ति तस्माद् धीरो न हृष्येत्र शोचेत् ॥ | Vidur Niti Slokas |
नात्यन्तं सरलेन भाव्यं गत्वा पश्य वनस्थलीम्। छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः॥ | Chanakya Slokas |
ब्राह्मणं ब्राह्मणो वेद भर्ता वेद स्त्रियं तथा। अमात्यं नृपतिर्वेद राजा राजानमेव च॥ | Vidur Niti Slokas |
जले तैलं खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारे वस्तुशक्तितः॥ | Chanakya Slokas |
शोकः शौर्यपकर्षणः ॥ | sanskrit-slogan |