text
stringlengths 0
194
|
---|
नारायणं नमस्कृत्य नरं चैव नरॊत्तमम |
देवीं सरस्वतीं चैव ततॊ जयम उदीरयेत |
लॊमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादशवार्षिके सत्रे |
समासीनान अभ्यगच्छद बरह्मर्षीन संशितव्रतान |
विनयावनतॊ भूत्वा कदा चित सूतनन्दनः |
तम आश्रमम अनुप्राप्तं नैमिषारण्यवासिनः |
चित्राः शरॊतुं कथास तत्र परिवव्रुस तपस्विनः |
अभिवाद्य मुनींस तांस तु सर्वान एव कृताञ्जलिः |
अपृच्छत स तपॊवृद्धिं सद्भिश चैवाभिनन्दितः |
अथ तेषूपविष्टेषु सर्वेष्व एव तपस्विषु |
निर्दिष्टम आसनं भेजे विनयाल लॊमहर्षणिः |
सुखासीनं ततस तं तु विश्रान्तम उपलक्ष्य च |
अथापृच्छद ऋषिस तत्र कश चित परस्तावयन कथाः |
कृत आगम्यते सौते कव चायं विहृतस तवया |
कालः कमलपत्राक्ष शंसैतत पृच्छतॊ मम |
[सूत] |
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः |
समीपे पार्थिवेन्द्रस्य सम्यक पारिक्षितस्य च |
कृष्णद्वैपायन परॊक्ताः सुपुण्या विविधाः कथाः |
कथिताश चापि विधिवद या वैशम्पायनेन वै |
शरुत्वाहं ता विचित्रार्था महाभारत संश्रिताः |
बहूनि संपरिक्रम्य तीर्थान्य आयतनानि च |
समन्तपञ्चकं नाम पुण्यं दविजनिषेवितम |
गतवान अस्मि तं देशं युद्धं यत्राभवत पुरा |
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम |
दिदृक्षुर आगतस तस्मात समीपं भवताम इह |
आयुष्मन्तः सर्व एव बरह्मभूता हि मे मताः |
अस्मिन यज्ञे महाभागाः सूर्यपावक वर्चसः |
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः |
भवन्त आसते सवस्था बरवीमि किम अहं दविजाः |
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः |
इतिवृत्तं नरेन्द्राणाम ऋषीणां च महात्मनाम |
[रसयह] |
दवैपायनेन यत परॊक्तं पुराणं परमर्षिणा |
सुरैर बरह्मर्षिभिश चैव शरुत्वा यद अभिपूजितम |
तस्याख्यान वरिष्ठस्य विचित्रपदपर्वणः |
सूक्ष्मार्थ नयाययुक्तस्य वेदार्थैर भूषितस्य च |
भारतस्येतिहासस्य पुण्यां गरन्थार्थ संयुताम |
संस्कारॊपगतां बराह्मीं नानाशास्त्रॊपबृंहिताम |
जनमेजयस्य यां राज्ञॊ वैशम्पायन उक्तवान |
यथावत स ऋषिस तुष्ट्या सत्रे दवैपायनाज्ञया |
वेदैश चतुर्भिः समितां वयासस्याद्भुत कर्मणः |
संहितां शरॊतुम इच्छामॊ धर्म्यां पापभयापहाम |
[सूत] |
आद्यं पुरुषम ईशानं पुरुहूतं पुरु षटुतम |
ऋतम एकाक्षरं बरह्म वयक्ताव्यक्तं सनातनम |
असच च सच चैव च यद विश्वं सद असतः परम |
परावराणां सरष्टारं पुराणं परम अव्ययम |
मङ्गल्यं मङ्गलं विष्णुं वरेण्यम अनघं शुचिम |
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम |
महर्षेः पूजितस्येह सर्वलॊके महात्मनः |
परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः |
आचख्युः कवयः के चित संप्रत्याचक्षते परे |
आख्यास्यन्ति तथैवान्ये इतिहासम इमं भुवि |
इदं तु तरिषु लॊकेषु महज जञानं परतिष्ठितम |
विस्तरैश च समासैश च धार्यते यद दविजातिभिः |
अलंकृतं शुभैः शब्दैः समयैर दिव्यमानुषैः |
छन्दॊ वृत्तैश च विविधैर अन्वितं विदुषां परियम |
निष्प्रभे ऽसमिन निरालॊके सर्वतस तमसावृते |
बृहद अण्डम अभूद एकं परजानां बीजम अक्षयम |
युगस्यादौ निमित्तं तन महद दिव्यं परचक्षते |
यस्मिंस तच छरूयते सत्यं जयॊतिर बरह्म सनातनम |
अद्भुतं चाप्य अचिन्त्यं च सर्वत्र समतां गतम |
अव्यक्तं कारणं सूक्ष्मं यत तत सदसद आत्मकम |
यस्मात पितामहॊ जज्ञे परभुर एकः परजापतिः |
बरह्मा सुरगुरुः सथाणुर मनुः कः परमेष्ठ्य अथ |
पराचेतसस तथा दक्षॊ दष्क पुत्राश च सप्त ये |