Sloka
stringlengths
17
276
Class
stringclasses
3 values
परं क्षिपति दोषेण वर्त्तमानः स्वयं तथा । यश्च क्रुध्यत्यनीशानः स च मूढतमो नरः ॥
Vidur Niti Slokas
उपार्जितानां वित्तानां त्याग एव हि रक्षणम्। तडागोदरसंस्थानां परिदाह इदाम्मससाम्॥
Chanakya Slokas
पुस्तकेषु च या विद्या परहस्तेषु च यद्धनम् । उत्पन्नेषु च कार्येषु न सा विद्या न तद्धनम् ॥
Chanakya Slokas
अनर्थाः संघचारिणः ॥
sanskrit-slogan
असन्त्यागात् पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात्। शुष्केणार्दंदह्यते मिश्रभावात्तस्मात् पापैः सह सन्धि नकुर्य्यात् ॥
Vidur Niti Slokas
श्रध्दा ज्ञानं ददाति, नम्रता मानं ददाति, योग्यता स्थानं ददाति ॥
sanskrit-slogan
विज्ञान दीपेन संसार भयं निवर्तते ॥
sanskrit-slogan
लोभमूलानि पापानि ॥
sanskrit-slogan
क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थ भते न कामात्। नासम्पृष्टो व्युपयुङ्क्ते परार्थे तत् प्रज्ञानं प्रथमं पण्डितस्य ॥
Vidur Niti Slokas
इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः। तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥
Vidur Niti Slokas
स्वभावो दुरतिक्रमः ॥
sanskrit-slogan
आचारः कुलमाख्याति देशमाख्याति भाषणम्। सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥
Chanakya Slokas
अप्रयत्नात् कार्यविपत्तिभर्वती ॥
sanskrit-slogan
रूपयौवनसम्पन्ना विशालकुलसम्भवाः। विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥
Chanakya Slokas
वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम्। वृथा दानं धनाढ्येषु वृथा दीपो दिवापि च॥
Chanakya Slokas
स्त्रीषु राजसु सर्पेषु स्वाध्यायप्रभुशत्रुषु। भोगेष्वायुषि विश्चासं कः प्राज्ञः कर्तुर्महति ॥
Vidur Niti Slokas
अपरीक्ष्यकारिणं श्रीः परित्यजति ॥
sanskrit-slogan
क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी। विद्या कामदुधा धेनुः संतोषो नन्दनं वनम्॥
Chanakya Slokas
मर्माण्यस्थीनि ह्रदयं तथासून् ,रुक्षा वाचो निर्दहन्तीह पुंसाम्। तस्माद् वाचुमुषतीमुग्ररुपां धर्मारामो नित्यशो वर्जयीत॥
Vidur Niti Slokas
पृथिव्यां त्रीणी रत्नानि अन्नमापः सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥
Chanakya Slokas
कांश्चिदर्थात्ररः प्राज्ञो लघुमूलान्महाफलान्। क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥
Vidur Niti Slokas
रथः शरीरं पुरुषस्य राजत्रात्मा नियन्तेन्द्रियाण्यस्य चाश्चाः। तैरप्रमत्तः कुशली सदश्वैर्दान्तैः सुखं याति रथीव धीरः ॥
Vidur Niti Slokas
अन्तर्गतमलो दुष्टस्तीर्थस्नानशतैरपि। न शुद्धयतियथाभाण्डं सुरया दाहितं च तत्॥
Chanakya Slokas
अभ्यावहति कल्याणं विविधं वाक् सुभाषिता ॥
sanskrit-slogan
एको धर्म: परम श्रेय: क्षमैका शान्तिरुक्तमा। विद्वैका परमा तृप्तिरहिंसैका सुखावहा ॥
Vidur Niti Slokas
पात्रत्वाद् धनमाप्नोति ॥
sanskrit-slogan
बहूनामप्यसाराणां समवायो हि दुर्जयः ॥
sanskrit-slogan
विद्या परमं बलम ॥
sanskrit-slogan
पन्चाग्न्यो मनुष्येण परिचर्या: प्रयत्नत:। पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ॥
Vidur Niti Slokas
कुलं शीलेन रक्ष्यते ॥
sanskrit-slogan
अतितृष्णा न कर्तव्या, तृष्णां नैव परित्यजेत् ॥
sanskrit-slogan
द्वाविमौ पुरुषौ राजन स्वर्गस्योपरि तिष्ठत: । प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥
Vidur Niti Slokas
पण्डितोऽपि वरं शत्रुर्न मूर्खो हितकारकः ॥
sanskrit-slogan
न वै भित्रा जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भित्राः। न वै सुखंभित्रा गौरवंप्राप्नुवन्ति न वै भित्राप्रशमंरोचयन्ति ॥
Vidur Niti Slokas
कामं क्रोधं तथा लोभं स्वाद शृङ्गारकौतुकम्। अतिनिद्राऽतिसेवा च विद्यार्थी ह्याष्ट वर्जयेत्॥
Chanakya Slokas
गतं शोको न कर्तव्यं भविष्यं नैव चिन्तयेत्। वर्तमानेन कालेन प्रवर्तन्ते विचक्षणाः॥
Chanakya Slokas
यशोधनानां हि यशो गरीयः ॥
sanskrit-slogan
नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम्। नास्ति चक्षुसमं तेजो नास्ति चान्नसमं प्रियम्॥
Chanakya Slokas
ईप्सितं मनसः सर्वं कस्य सम्पद्यते सुखम्। दैवायत्तं यतः सर्वं तस्मात् सन्तोषमाश्रयेत्॥
Chanakya Slokas
षडिमान् पुरुषो जह्यात् भिन्नं नावमिवार्णवे अप्रवक्तारं आचार्यं अनध्यायिनम् ऋत्विजम् । आरक्षितारं राजानं भार्यां चाऽप्रियवादिनीं ग्रामकामं च गोपालं वनकामं च नापितम्॥
Vidur Niti Slokas
उपायपूर्वं न दुष्करं स्यात् ॥
sanskrit-slogan
वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च। अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥
Vidur Niti Slokas
अपुत्रता मनुष्याणां श्रेयसे न कुपुत्रता ॥
sanskrit-slogan
धर्मस्य मूलमर्थः ॥
sanskrit-slogan
नास्ति बुद्धिमतां शत्रुः ॥
sanskrit-slogan
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ॥
sanskrit-slogan
चराति चरतो भगः ॥
sanskrit-slogan
अहिं नृपं च शार्दूलं वराटं बालकं तथा। परश्वानं च मूर्खं च सप्तसुप्तान् बोधयेत्॥
Chanakya Slokas
मानेन रक्ष्यते धान्यमश्चान् रक्षत्यनुक्रमः । अभीक्ष्णदर्शनं ग्राश्च स्त्रियो रक्ष्याः कुचैलतः ॥
Vidur Niti Slokas
शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना। न गुह्यगोपने शक्तं न च दंशनिवारणे॥
Chanakya Slokas
कोकिलानां स्वरो रूपं नारी रूपं पतिव्रतम्। विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम्॥
Chanakya Slokas
वनस्पतेरपक्वानि फलानि प्रचिनोति यः । स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥
Vidur Niti Slokas
संहतिः कार्यसाधिका ॥
sanskrit-slogan
निश्चित्वा यः प्रक्रमते नान्तर्वसति कर्मणः । अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते ॥
Vidur Niti Slokas
निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम्। असिद्धस्य हता विद्या अभोगस्य हतं धनम्॥
Chanakya Slokas
न ह्राविज्ञातशीलस्य प्रदातव्यः प्रतिश्रयः ॥
sanskrit-slogan
एकः सम्पत्रमश्नाति वस्त्रे वासश्च शोभनम् । योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥
Vidur Niti Slokas
चला लक्ष्मीश्चलाः प्राणाश्चले जीवितमन्दिरे। चलाचले च संसारे धर्म एको हि निश्चलः॥
Chanakya Slokas
प्रियो भवति दानेन प्रियवादेन चापरः। मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः ॥
Vidur Niti Slokas
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति। न स पापैः कुतोऽनथैर्युज्यते विजितेन्द्रियः ॥
Vidur Niti Slokas
ते पुत्रा ये पितुर्भक्ताः सः पिता यस्तु पोषकः। तन्मित्रं यत्र विश्वासः सा भार्या या निवृतिः ॥
Chanakya Slokas
यत् सुखं सेवमानोपि धर्मार्थाभ्यां न हीयते। कामं तदुपसेवेत न मूढव्रतमाचरेत्। ॥
Vidur Niti Slokas
विद्या धनेषु उत्तमा वर्त्तते ॥
sanskrit-slogan
सत्यमेव जयते ॥
sanskrit-slogan
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः । मदा एतेऽवलिप्तानामेत एव सतां दमाः ॥
Vidur Niti Slokas
अभ्यावहति कल्याणं विविधं वाक् सुभाषिता। सैव दुर्भाषिता राजनर्थायोपपद्यते ॥
Vidur Niti Slokas
सन्तापाद् भ्रश्यते रुपं सन्तापाद् भ्रश्यते बलम्। सन्तापाद् भ्रश्यते ज्ञानं सन्तापाद् व्याधिमृच्छति ॥
Vidur Niti Slokas
उपायं चिन्तयेत्प्राज्ञस्तथा पायं च चिन्तयेत् ॥
sanskrit-slogan
यादृशैः सत्रिविशते यादृशांश्चोपसेवते। यादृगिच्छेच्च भवितुं तादृग् भवति पूरुषः ॥
Vidur Niti Slokas
ये शोकमनुवर्त्तन्ते न तेषां विद्यते सुखम् ॥
sanskrit-slogan
दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान्। मत्तः प्रमत्तः उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥ त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश। तस्मादेतेषु सर्वेषु न प्रसज्जेत पण्डितः ॥
Vidur Niti Slokas
न योऽभ्यसुयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति । नात्याह किञ्चित् क्षमते विवादं सर्वत्र तादृग् लभते प्रशांसाम् ॥
Vidur Niti Slokas
आलस्यं मदमोहौ चापलं गोष्टिरेव च। स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च। एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः ॥
Vidur Niti Slokas
अप्युन्मत्तात् प्रलपतो बालाच्च परिजल्पतः। सर्वतः सारमादद्यात् अश्मभ्य इव काञ्जनम् ॥
Vidur Niti Slokas
येऽर्थाः स्त्रीषु समायुक्ताः प्रमत्तपतितेषु च। ये चानार्ये समासक्ताः सर्वे ते संशयं गताः ॥
Vidur Niti Slokas
बलवन्तं रिपु दृष्ट् वा न वामान प्रकोपयेत् ॥
sanskrit-slogan
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥
Chanakya Slokas
यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम्। स्नेहमूलानि दुःखानि तानि त्यक्तवा वसेत्सुखम्॥
Chanakya Slokas
अग्निदाहादपि विशिष्टं वाक्पारुष्यम् ॥
sanskrit-slogan
नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः। नास्ति कोप समो वह्नि र्नास्ति ज्ञानात्परं सुखम्॥
Chanakya Slokas
पूर्वं निश्चित्य पश्चात् कार्यभारभेत् ॥
sanskrit-slogan
श्रोतव्यं खलु वृध्दानामिति शास्त्रनिदर्शनम् ॥
sanskrit-slogan
विद्वानेव विजानाति विद्वज्जन परिश्रमम् ॥
sanskrit-slogan
सत्यमेव जयते न अनृतम् ॥
sanskrit-slogan
एकेनापि सुपुत्रेण विद्यायुक्ते च साधुना। आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी॥
Chanakya Slokas
कृते प्रतिकृतिं कुर्यात् हिंसेन प्रतिहिंसनम् । तत्र दोषो न पतति दुष्टे दौष्ट्यं समाचरेत्॥
Chanakya Slokas
दैवेन देयमिति कापुरुषा वदन्ति ॥
sanskrit-slogan
समैर्विवाहः कुरुते न हीनैः समैः सख्यं व्यवहारं कथां च । गुणैर्विशिष्टांश्च पुरो दधाति विपश्चितस्तस्य नयाः सुनीताः॥
Vidur Niti Slokas
धनधान्य प्रयोगेषु विद्या सङ्ग्रहेषु च। आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्॥
Chanakya Slokas
जरा रुपं हरति धैर्यमाशा मृत्युः प्राणान् धर्मचर्यामसूया। कामो ह्रियं वृत्तमनार्यसेवा क्रोधः श्रियं सर्वमेवाभिमानः ॥
Vidur Niti Slokas
गतिरात्मवतां सन्तः सन्त एव सतां गतिः। असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥
Vidur Niti Slokas
नास्ति भीरोः कार्यचिन्ता ॥
sanskrit-slogan
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ। यश्चाधनः कामयते यश्च कुप्यत्यनीश्चरः ॥
Vidur Niti Slokas
तावन्मौनेन नीयन्ते कोकिलश्चैव वासराः । यावत्सर्वं जनानन्ददायिनी वाङ्न प्रवर्तते॥
Chanakya Slokas
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा। असम्भित्रायेमर्यादः पण्डिताख्यां लभेत सः ॥
Vidur Niti Slokas
शीलं प्रधानं पुरुषे तद् यस्येह प्रणश्यति। न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥
Vidur Niti Slokas
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्। वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥
Chanakya Slokas
जननी जन्मभूमुश्च स्वर्गादपि गरीयसी ॥
sanskrit-slogan
सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम्। क्षमा गुणों ह्यशक्तानां शक्तानां भूषणं क्षमा ॥
Vidur Niti Slokas
य ईर्षुः परवित्तेषु रुपे वीर्ये कुलान्वये । सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥
Vidur Niti Slokas