विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः। विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत्॥ अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया। गङ्गावतरणं पुण्यं सागरस्यापि पूरणम्॥ क्षणभूतेव नौ रात्रिः संवृत्तेयं परंतप। इमां चिन्तयतोः सर्वा निखिलेन कथां तव॥ तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह। जगाम चिन्तयानस्य विश्वामित्र कथां शुभाम्॥ ततः प्रभाते विमले विश्वामित्रं तपोधनम्। उवाच राघवो वाक्यं कृताह्निकमरिंदमः॥ गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम्। तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्॥ नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्। भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता॥ तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः। संतारं कारयामास सर्षिसङ्घस्य कौशिकः॥ उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं ततः। गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम्॥ ततो मुनिवरस्तूर्ण जगाम सहराघवः। विशाला नगरी रम्यां दिव्यां स्वर्गोपमां तदा॥ अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्। पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम्॥ कतमो राजवंशोऽयं विशालायां महामुने। श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे॥ तस्य तद् वचनं श्रुत्वा रामस्य मुनिपुङ्गवः। आख्यातुं तत्समारेभे विशालायाः पुरातनम्॥ श्रूयतां राम शक्रस्य कथां कथयतः श्रुताम्। अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव॥ पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः। अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः॥ ततस्तेषां नरव्याघ्र बुद्धिरासीन्महात्मनाम्। अमरा विजराश्चैव कथं स्यामो निरामयाः॥ तेषां चिन्तयतां तत्र बुद्धिरासीद् विपश्चिताम्। क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै॥ ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्। मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः॥ अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च। वमन्तोऽतिविषं तत्र ददंशुर्दशनैः शिलाः॥ उत्पपाताग्निसंकाशं हालाहलमहाविषम्। तेन दग्धं जगत् सर्वं सदेवासुरमानुषम्॥ अथ देवा महादेवं शङ्करं शरणार्थिनः। जग्मुः पशुपतिं रुद्रं त्राहि त्राहीति तुष्टुवुः॥ एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः। प्रादुरासीत् ततोऽत्रैव शङ्खचक्रधरो हरिः॥ उवाचैनं स्मितं कृत्वा रुद्रं शूलधरं हरिः। दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम्॥ तत् त्वदीयं सुरश्रेष्ठ सुराणामग्रतो हि यत्। अग्रपूजागिह स्थित्वा गृहाणेदं विषं प्रभो॥ इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत। देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु शाङ्गिणः॥ हालाहलं विषं घोरं संजग्राहामृतोपमम्। देवान् विसृज्य देवेशो जगाम भगवान् हरः॥ ततो देवासुराः सर्वे ममन्थू रघुनन्दन। प्रविवेशाथ पातालं मन्थानः पर्वतोत्तमः॥ ततो देवाः सगन्धर्वास्तुष्टवुर्मधुसूदनम्। त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम् ॥ पालयास्मान् महाबाहो गिरिमुद्धर्तुमर्हसि। इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः॥ पर्वतं पृष्ठतः कृत्वा शिश्ये तत्रोदधौ हरिः। पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः॥ देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः। अथ वर्षसहस्रेण आयुर्वेदमयः पुमान्॥ उदतिष्ठत् सुधर्मात्मा सदण्डः सकमण्डलुः। पूर्वं धन्वन्तरि म अप्सराश्च सुवर्चसः॥ अप्सु निर्मथनादेव सरात् तस्माद् वरस्त्रियः। उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्॥ षष्ठिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्। असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः॥ न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः। अप्रतिग्रहणादेव ता वै साधारणाः स्मृताः॥ वरुणस्य ततः कन्या वारुणा रघुनन्दन। उत्पपात महाभागा मार्गमाणा परिग्रहम्॥ दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम्। अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्॥ असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः। हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः॥ उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्। उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्॥ अथ तस्य कृते राम महानासीत् कुलक्षयः। अदितेस्तु ततः पुत्रा दितिपुत्रानयोधयन्॥ एकतामगमन् सर्वे असुरा राक्षसैः सह। युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम्॥ यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः। असृतं सोऽहरत् तूर्णं मायामास्थाय मोहिनीम्॥ ये गताभिमुखं विष्णुमक्षरं पुरुषोत्तमम्। सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना ॥ अदितेरात्मजा वीरा दितेः पुत्रान् निजघ्निरे। अस्मिन् घोरे महायुद्धे दैतेयादित्ययो शम्॥ निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरः। शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान्॥ कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना। राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्॥ राजन्स कालसंकाशः संयुक्तः कालकर्मणा। विद्राव्य वानरों सेनां भक्षयित्वा च वानरान्॥ प्रतपित्वा मुहूर्तं तु प्रशान्तो रामतेजसा। कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम्॥ निकृत्तनासाकर्णेन विक्षरदुधिरेण च। रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः॥ कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः। अगण्डभूतो विवृतो दावदग्ध इव दुमः॥ श्रुत्वा विनिहतं संख्ये कुम्भकर्ण महाबलम्। रावणः शोकसंतप्तो मुमोह च पपात च॥ पितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ। त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः॥ भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा। महोदरमहापाचौं शोकाक्रान्तौ बभूवतुः॥ ततः कृच्छत्समासाद्य संज्ञां राक्षसपुङ्गवः। कुम्भकर्णवधाद्दीनो विललापाकुलेन्द्रियः॥ हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल। त्वं मां विहाय वै दैवाद्यातोऽसि यमसादनम्॥ मम शल्यमनुद्धृत्य बान्धवानां महाबल। शत्रुसैन्यं प्रताप्यैकः क्व मां संत्यज्य गच्छसि॥ इदानीं खल्वहं नास्मि यस्य मे पतितो भुजः। दक्षिणोऽयं समाश्रित्य न बिभेमि सुरासुरात्॥ कथमेवंविधो वीरो देवदानवदर्पहा। कालाग्निप्रतिमो ह्यद्य राघवेण रणे हतः॥ यस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा। स कथं रामबाणातः प्रसुप्तोऽसि महीतले॥ एते देवगणाः सार्धमृषिभिर्गगने स्थिताः। निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः॥ ध्रुवमद्यैव संहृष्टा लब्धलक्षाः प्लवंगमाः। आरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः॥ राज्येन नास्ति मे कार्य किं करिष्यामि सीतया। कुम्भकर्णविहीनस्य जीविते नास्ति मे मतिः॥ यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम्। ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितुम्॥ अद्यैव तं गमिष्यामि देशं यत्रानुजो मम। नहि भ्रातृन्समुत्सृज्य क्षणं जीवितुमुत्सहे॥ देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम्। कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ॥ तदिदं मामनुप्राप्तं विभीषणवचः शुभम्। यदज्ञानान्मया तस्य न गृहीतं महात्मनः॥ विभीषणवचस्तावत्कुम्भकर्णप्रहस्तयोः। विनाशोऽयं समुत्पनो मां वीडयति दारुणः॥ तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः। यन्मया धार्मिकः श्रीमान्स निरस्तो विभीषणः॥ इति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम्। स्तमनुजमिन्द्ररिपुं हतं विदित्वा॥ अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः। नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः॥ समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान्। अब्रवीद्राक्षसेन्द्रस्तु युद्ध मे दीयतामिति॥ निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः। अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते॥ ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः। मन्त्रयित्वा ततोऽन्योन्यं राजानः सुमहाबलाः॥ निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः। दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवः॥ एते सर्वेऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः। अथायोध्यां समासाद्य रावणो राक्षसाधिपः॥ सुगुप्तामनरण्येन शक्रेणेवामरावतीम्। स तं पुरुषशार्दूलं पुरंदरसमं बले॥ प्राह राजानमासाद्य युद्धं देहीति रावणः। निर्जितोऽस्मीति वा ब्रूहि त्वमेवं मम शासनम्॥ अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः। अनरण्यस्तु संक्रुद्धो राक्षसेन्द्रमथाब्रवीत्॥ दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया। संतिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम्॥ अथ पूर्व श्रुतार्थेन निर्जितं सुमहद्बलम्। निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम्॥ नागानां दशसाहस्रं वाजिनां नियुतं तथा। रथानां बहुसाहस्रं पत्तीनां च नरोत्तम॥ महीं संछाद्य निष्क्रान्तं सपदातिरथं रणे। ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद॥ अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम्। तद्रावणबलं प्राप्य बलं तस्य महीपतेः॥ प्राणश्यत तदा सर्व हव्यं हुतमिवानले। युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम्॥ प्रज्वलन्तं तमासाद्य क्षिप्रमेवावशेषितम्। प्राविशत्संकुलं तत्र शलभा इव पावकम्॥ सोऽपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम्। महार्णवं समासाद्य वनापगशतं यथा॥ ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम्। आससाद नरेन्द्रस्तं रावणं क्रोधमूर्छितः॥ अनरण्येन तेऽमात्या मारीचशुकसारणाः। प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव॥ ततो बाणशतान्यष्टौ पातयामास मूर्धनि । तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः॥ तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित्। वारिधारा इवाभ्रेम्यः पतन्त्यो गिरिमूर्धनि ॥ ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा। तलेनाभिहतो मूर्ध्नि स रथानिपपात ह॥ स राजा पतितो भूमौ विह्वलः प्रविवेपितः। वज्रदग्ध इवारण्ये सालो निपतितो यथा॥ तं प्रहस्याब्रवीद्रक्ष इक्ष्वाकुं पृथिवीपतिम्। किमिदानी फलं प्राप्तं त्वया मां प्रति युद्ध्यता॥ त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यानराधिप। शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम॥ तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत्। किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः॥ नह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना। कालेनैव विपन्नोऽहं हेतुभूतस्तु मे भवान्।॥ किं त्विदानी मया शक्यं कर्तुं प्राणपरिक्षये। नह्यहं विमुखी रक्षो युध्यमानस्त्वया हतः॥ इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस। यदि दत्तं यदि हुतं यदि मे सुकृतं तपः। यदि गुप्ताः प्रजाः सम्यक् तदा सत्यं वचोऽस्तु मे।।२९ उत्पत्स्यते कुले ह्यस्मिनिक्ष्वाकूणां महात्मनाम्। रामो दाशरथि म यस्ते प्राणान्हरिष्यति।३०॥ ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः। तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता॥ ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम्। स्वर्गते च नृपे तस्मिन्राक्षसः सोऽपसर्पत॥ तं जाग्रतमदम्भेन भ्रातुराय लक्ष्मणम्। गुहः संतापसंतप्तो राघवं वाक्यमब्रवीत्॥ इयं तात सुखा शय्या त्वदर्थमुपकल्पिता। प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम् ॥ उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः। गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम्॥ नहि रामात् प्रियतमो ममास्ते भुवि कश्चन। ब्रवीम्येव च ते सत्यं सत्येनैव च ते शपे।४।। अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद् यशः। धर्मावाप्ति च विपुलामर्थकामौ च पुष्कलौ॥ सोऽहं प्रियसखं रामं शयानं सह सीतया। रक्षिष्यामि धनुष्पाणिः सर्वथा ज्ञातिभिः सह ॥ न मेऽस्त्यविदितं किंचिद् वनेऽस्मिंश्चरतः सदा। चतुरङ्ग ह्यतिबलं सुमहत् संतरेमहि ॥ लक्ष्मणस्तु तदोवाच रक्ष्यमाणास्त्वयानघ। नात्र भीता वयं सर्वे धर्ममेवानुपश्यता॥ कथं दाशरथौ भूमौ शयाने सह सीतया। शक्या निद्रा मया लब्धं जीवितं वा सुखानि वा॥ यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि । तं पश्य सुखसंसुप्तं तृणेषु सह सीतया॥ यो मन्त्रतपसा लब्धो विविधैश्च पराक्रमैः। एको दशरथस्यैष पुत्रः सदृशलक्षणः॥ अस्मिन् प्रव्रजिते राजा न चिरं वर्तयिष्यति। विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति॥ विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः। निर्घोषोपरतं तात मन्ये राजनिवेशनम्॥ कौसल्या चैव राजा च तथैव जननी मम। नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम्॥ जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया। तद् दुःखं यदि कौसल्या वीरसूर्विनशिष्यति॥ अनुरक्तजनाकीर्णा सुखालोकप्रियावहा। राजव्यसनसंसृष्टा सा पुरी विनशिष्यति॥ कथं पुत्रं महात्मानं ज्येष्ठपुत्रमपश्यतः। शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः॥ विनष्टे नृपतौ पश्चात् कौसल्या विनशिष्यति। अनन्तरं च मातापि मम नाशमुपैष्यति॥ अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम्। राज्ये राममनिक्षिप्य पिता मे विनशिष्यति॥ सिद्धार्थाः पितरं वृत्तं तस्मिन् काले झुपस्थिते। प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति राघवम्॥ रम्यचत्वरसंस्थानां संविभक्तमहापथाम्। हर्म्यप्रासादसम्पन्नां गणिकावरशोभिताम्॥ रथाश्वगजसम्बाधां तूर्यनादनिनादिताम्। सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम्॥ आरामोद्यानसम्पन्नां समाजोत्सवशालिनीम्। सुखिता विचरिष्यन्ति राजधानी पितुर्मम॥ अपि जीवेद् दशरथो वनवासात् पुनर्वयम्। प्रत्यागम्य महात्मानमपि पश्याम सुव्रतम्॥ अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम्। निवृत्ते वनवासेऽस्मिन्नयोध्यां प्रविशेमहि ॥ परिवेदयमानस्य दुःखार्तस्य महात्मनः। तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत॥ तथा हि सत्यं ब्रुवति प्रजाहिते नरेन्द्रसूनौ गुरुसौहृदाद् गुहः। मुमोच बाष्पं व्यसनाभिपीडितो ज्वरातुरो नाग इव व्यथातुरः॥ तस्य तद् वचनं श्रुत्वा दशग्रीवो महात्मनः। देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत्॥ सम्यगुक्तं हि भवता दूतवध्या विगर्हिता। अवश्यं तु वधायान्यः क्रियतामस्य निग्रहः॥ कपीनां किल लालमिष्टं भवति भूषणम्। तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु॥ ततः पश्यन्त्वमुं दीनमङ्गवैरूप्यकर्शितम्। सुमित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः॥ तस्य तद् आज्ञापयद् राक्षसेन्द्रः परं सर्वं सचत्वरम्। लाङ्गेलेन प्रदीप्तेन रक्षोभिः परिणीयताम्॥ वचनं श्रुत्वा राक्षसाः कोपकर्कशाः। वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः॥ संवेष्ट्यमाने लाङ्गले व्यवर्धत महाकपिः। शुष्कमिन्धनमासाद्य वनेष्विव हुताशनम्॥ तैलेन परिषिच्याथ तेऽग्निं तत्रोपपादयन्। लाङ्गुलेन प्रदीप्तेन राक्षसांस्तानताडयत्॥ रोषामर्षपरीतात्मा बालसूर्यसमाननः। स भूयः संगतैः क्रूरै राक्षसैर्हरिपुङ्गवः॥ सहस्त्रीबालवृद्धाश्च जग्मुः प्रीतिं निशाचराः। निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम्॥ कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः। छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः॥ यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात्। निबध्नन्ते दुरात्मानो न तु मे निष्कृतिः कृता॥ सर्वेषामेव पर्याप्तो राक्षसानामहं युधि। किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम्॥ लङ्का चारयितव्या मे पुनरेव भवेदिति। रात्रौ नहि सुदृष्टा मे दुर्गकर्मविधानतः॥ अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये। कामं बनन्तु मे भूयः पुच्छस्योद्दीपनेन च॥ पीडां कुर्वन्ति रक्षांसि न मेऽस्ति मनसः श्रमः। ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम्॥ परिगृह्य ययुर्हष्टा राक्षसाः कपिकुञ्जरम्। शङ्खभेरीनिनादैश्च घोषयन्तः स्वकर्मभिः॥ राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम्। अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः॥ हनूमांश्चारयामास राक्षसानां महापुरीम्। यथापश्यद् विमानानि विचित्राणि महाकपिः॥ संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान्। रथ्याश्च गृहसंबाधाः कपिः शृङ्गाटकानि च॥ तथा रथ्योपरथ्याश्च तथैव च गृहान्तरान्। चत्वरेषु चतुष्केषु राजमार्गे तथैव च॥ घोषयन्ति कपि सर्वे चार इत्येव राक्षसाः। दीप्यमाने ततस्तस्य लाङ्कलाग्रे हनूमतः॥ राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम्। यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः॥ लाफूलेन प्रदीप्तेन स एष परिणीयते। श्रुत्वा तद् वचनं क्रूरमात्मापहरणोपमम्॥ वैदेही शोकसंतप्ता हुताशनमुपागमत्। मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः॥ उपतस्थे विशालाक्षी प्रयता हव्यवाहनम्। यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः॥ यदि वा त्वेकपत्नीत्वं शीतो भव हनूमतः। ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः। जज्वाल मृगशावाक्ष्याः शंसन्निव शुभं कपेः॥ हनूमज्जनकश्चैव पुच्छानलयुतोऽनिलः। ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः॥ दह्यमाने च लाफूले चिन्तयामास वानरः। प्रदीप्तोऽग्निरयं कस्मान मां दहति सर्वतः॥ दृश्यते च महाज्वालः करोति च न मे रुजम्। शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः॥ अथवा तदिदं व्यक्तं यद् दृष्टं प्लवता मया। रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ॥ यदि तावत् समुद्रस्य मैनाकस्य च धीमतः। रामार्थं सम्भ्रमस्तादृक्किमग्निर्न करिष्यति॥ सीतायाश्चानृशंस्येन तेजसा राघवस्य च। पितुश्च मम सख्येन न मां दहति पावकः॥ भूयः स चिन्तयामास मुहूर्ते कपिकुञ्जरः। कथमस्मद्विधस्येह बन्धनं राक्षसाधमैः॥ प्रतिक्रियास्य युक्ता स्यात् सति मह्यं पराक्रमे। ततश्छित्त्वा च पाशान् वेगवान् वै महाकपिः॥ उत्पपाताथ वेगेन ननाद च महाकपिः। पुरद्वारं ततः श्रीमाशैलशृङ्गमिवोन्नतम्॥ विभक्तरक्षःसम्बाधमाससादानिलात्मजः। स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान्॥ ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत्। विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसंनिभः॥ वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम्। स तं गृह्य महाबाहुः कालायसपरिष्कृतम्। रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः॥ स तान् निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम्। प्रदीप्तलाकॅलकृतार्चिमाली प्रकाशितादित्य इवार्चिमाली॥ गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः। मन्त्रयित्वा ततश्चके निश्चयज्ञः स निश्चयम्॥ श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः। रामो राजीवपत्राक्षो युवराज इति प्रभुः॥ अथान्तर्गृहमाविश्य राजा दशरथस्तदा। सूतमामन्त्रयामास रामं पुनरिहानय॥ प्रतिगृह्य तु तद्वाक्यं सूतः पुनरुपाययौ। रामस्य भवनं शीघ्रं राममानयितुं पुनः॥ द्वाः स्थैरावेदितं तस्य रामायागमनं पुनः। श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत्॥ प्रवेश्य चैनं त्वरितो रामो वचनमब्रवीत्। यदागमनकृत्यं ते भूयस्तद्ब्रह्यशेषतः॥ तवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति। श्रुत्वा प्रमाणं तत्र त्वं गमनायेतराय वा॥ इति सूतवचः श्रुत्वा रामोऽपि त्वरयान्वितः। प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम्॥ तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः। प्रवेशयामास गृहं विवक्षुः प्रियमुत्तमम्॥ प्रविशन्नेव च श्रीमान् राघवो भवनं पितुः। ददर्श पितरं दूरात् प्रणिपत्य कृताञ्जलिः॥ प्रणमन्तं तमुत्थाप्य सम्परिष्वज्य भूमिपः। प्रदिश्य चासनं चात्मै रामं च पुनरब्रवीत्॥ राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा यथेप्सिताः। अन्नवद्भिः क्रतुशतैर्यथेष्टं भूरिदक्षिणैः॥ जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि। दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥ अनुभूतानि चेष्टानि मया वीर सुखान्यपि। देवर्षिपितृविप्राणामनृणोऽस्मि तथाऽऽत्मनः॥ न किंचिन्मम कर्तव्यं तवान्यत्राभिषेचनात्। अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि॥ अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम्। अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक॥ अपि चाद्याशुभान् राम स्वप्नान् पश्यामि राघव। सनिर्घाता दिवोल्काश्च पतन्ति हि महास्वनाः॥ अवष्टब्धं च मे राम नक्षत्रं दारुणग्रहैः। आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः॥ प्रायेण च निमित्तानामीदृशानां समुद्भवे। राजा हि मृत्युमाप्नोति घोरां चापदमृच्छति ॥ तद् यावदेव मे चेतो न विमुह्यति राघव। तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः॥ अद्य चन्द्रोऽभ्युपगमत् पुष्यात् पूर्वं पुनर्वसुम्। श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः॥ तत्र पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम्। श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप ॥ तस्मात् त्वयाद्यप्रभृति निशेयं नियतात्मना। सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना॥ सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः। भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि॥ विप्रोषितश्च भरतो यावदेव पुरादितः। तावदेवाभिषेकस्ते प्राप्तकालो मतो मम।। काम खलु सतां वृत्ते भ्राता ते भरतः स्थितः। ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः॥ किं नु चित्तं मनुष्याणामनित्यमिति मे मतम्। सतां च धर्मनित्यानां कृतशोभि च राघव॥ इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने। व्रजेति रामः पितरमभिभाष्याभ्ययाद् गृहम्॥ प्रविश्य चात्मनो वेश्म राज्ञाऽऽदिष्टेऽभिषेचने। तत्क्षणादेव निष्क्रम्य मातुरन्तःपुरं ययौ ॥ तत्र तां प्रवणामेव मातरं क्षौमवासिनीम्। वाग्यतां देवतागारे ददर्शायाचतीं श्रियम्॥ प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तथा। सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम्॥ तस्मिन् कालेऽपि कौसल्या तस्थावामीलितेक्षणा। सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च॥ श्रुत्वा पुष्ये च पुत्रस्य यौवराज्येऽभिषेचनम्। प्राणायामेन पुरुषं ध्यायमाना जनार्दनम्॥ तथा सनियमामेव सोऽमिगम्याभिवाद्य च। उवाच वचनं रामो हर्षयंस्तामिदं वरम्॥ अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि। भविता श्वोऽभिषेको मे यथा मे शासनं पितुः॥ सीतयाप्युपवस्तव्या रजनीयं मया सह। एवमुक्तमुपाध्यायैः स हि मामुक्तवान् पिता॥ यानि यान्यत्र योग्यानि श्वो भाविन्यभिषेचने। तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय॥ एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकासितम्। हर्षबाष्पाकुलं वाक्यमिदं राममभाषत ॥ वत्स राम चिरंजीव हतास्ते परिपन्थिनः। ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय॥ कल्याणे बत नक्षत्र मया जातोऽसि पुत्रक। येन त्वया दशरथो गुणैराराधितः पिता॥ अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे। येयमिक्ष्वाकुराजश्रीः पुत्र त्वां संश्रयिष्यति॥ इत्येवमुक्तो मात्रा तु रामो भ्रातरमब्रवीत्। प्राञ्जलिं प्रहमासीनमभिवीक्ष्य स्मयन्निव।॥ लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम्। द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥ सौमित्रे भुक्ष्व भोगांस्त्वमिष्टान् राज्यफलानि च। जीवितं चापि राज्यं च त्वदर्थमभिकामये॥ इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च। अभ्यनुज्ञाप्य सीतां च ययौ स्वं च निवेशनम्॥ अपृच्छत तदा रामो दक्षिणाशाश्रयं मुनिम्। प्राञ्जलिविनयोपेत इदमाह वचोऽर्थवत्॥ अतुलं बलमेतद्वै वालिनो रावणस्य च। न त्वेताभ्यां हनुमता समं त्विति मतिर्मम॥ शौर्य दाक्ष्यं बलं धैर्य प्राज्ञता नयसाधनम्। विक्रमश्च प्रभावश्च हनूमति कृतालयाः॥ दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम्। समाश्वास्य महाबाहुर्योजनानां शतं प्लुतः॥ धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा। दृष्टा संभाषिता चापि सीता ह्याश्वासिता तथा॥ सेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः। एते हनुमता तत्र एकेन वितिपातिताः।।६। भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम्। लङ्का भस्मीकृता येन पावकेनेव मेदिनी॥ न कालस्य न शक्रस्य न विष्णोवित्तपस्य च। कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः॥ एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः। प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः॥ हनूमान्यदि मे न स्याद्वानराधिपतेः सखा। प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत्।।१० किमर्थ वाली चैतेन सुग्रीवप्रियकाम्यया। तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा॥ नहि वेदितवान्मन्ये हनूमानात्मनो बलम्। यदृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम्॥ एतन्मे भगवन्सर्वं हनूमति महामुने। विस्तरेण यथातत्त्वं कथयामरपूजित॥ राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्ततः। हनूमतः समक्षं तमिदं वचनमब्रवीत्॥ सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमति। न बले विद्यते तुल्यो न गतौ न मतौ परः॥ अमोघशापैः शापस्तु दत्तोऽस्य मुनिभिः पुरा। न वेत्ता हि बलं सर्वं बली सन्नरिमर्दन ॥ वाल्येऽप्येतेन यत्कर्म कृतं राम महाबल। तन्न वर्णयितुं शक्यमिति वाल्यतयास्य ते॥ यदि वास्ति त्वभिप्रायः कं श्रोतुं तव राघव। समाधाय मतिं राम निशामय वदाम्यहम्॥ सूर्यदत्तवरस्वर्णः सुमेरु म पर्वतः। यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥ तस्य भार्या बभूवेष्टा ह्यञ्जनेति परिश्रुता। जनयामास तस्यां वै वायुरात्मजमुत्तमम्॥ शालिशूकनिभाभासं प्रासूतेमं तदाञ्जना। फलान्याहतुकामा वै निष्क्रान्ता गहने वरा ॥ एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः। रुरोद शिशुरत्यर्थ शिशुः शरवणे यथा।२२॥ तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम्। ददर्श फललोभाच्च ह्युत्पपात रविं प्रति॥ बालार्काभिमुखो बालो बालार्क इव मूर्तिमान्। ग्रहीतुकामो बालार्क प्लवतेऽम्बरमध्यगः॥ एतस्मिन्प्लवमाने तु शिशुभावे हनूमति। देवदानवयक्षाणां विस्मयः सुमहानभूत्॥ नाप्येवं वेगवान्वायुर्गरुडो न मनस्तथा। यथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम्॥ यदि तावच्छिशोरस्य ईदृशो गतिविक्रमः। यौनं बलमासाद्य कथं वेगो भविष्यन्ति ॥ तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः। सूर्यदाहभयाद्रसंस्तुषारचयशीतलः॥ बहुयोजनसाहस्रं क्रान्नेव गतोम्बरम्। पितुर्बलाच्च बाल्यच्च भास्कराभ्याशमागतः।।२९ शशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः। कार्य चास्मिन्समायत्तमित्येवं न ददाह सः॥ यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः तमेव दिवसं राहुर्जिघृक्षति दिवाकरम्॥ अनेन च परामृष्टो राहुः सूर्यरथोपरि। अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः॥ इन्द्रस्य भवनं गत्वा सरोषः सिंहिकासुतः। अब्रवीद्धृकुटिं कृत्वा देवं देवगणैर्वृतम्॥ बुभुक्षापनयं दत्त्वा चन्द्राकौं मम वासव। किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन्॥ अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः। अथान्यो राहुरासाद्य जग्राह सहसा रविम्॥ स राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितः। उत्पपातासनं हित्वा उद्वहन्काञ्चनीं जम्॥ ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम्। शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम्॥ इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम्। प्रायाद्यवाभवत्सूर्यः सहानेन हनूमता॥ अथातिरभसेनागाद्राहुरुत्सृज्य वासवम्। अनेन च स वै दृष्टः प्रधावशैलकूटवत्॥ ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च। उत्पपात पुनर्योम ग्रहीतुं सिंहिकासुतम्॥ उत्सृज्यामिमं राम प्रधावन्तं प्लवंगमम्। अवेक्ष्यैवं परावृत्तो मुखशेषः पराङ्मुखः॥ इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः। इन्द्र इन्द्रेति संत्रासान्मुहुर्मुहुरभाषत।॥ राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम्। श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये॥ ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि। फलं तं हस्तिराजानमभिदुद्राव मारुतिः॥ तथास्य धावतो रूपमैरावतजिघृक्षया। मुहूर्तमभवद्धोरमिन्द्राद्युपरि भास्वरम्॥ एवमाधावमानं तु नातिक्रुद्धः शचीपतिः। हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत्॥ ततो गिरौ पपातैष इन्द्रवज्राभिताडितः। पतमानस्य चैतस्य वामा हनुरभज्यत॥ तस्मिंस्तु पतिते चापि वज्रताडनविह्वले। चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः॥ प्रचारं स तु संगृह्य प्रजास्वन्तर्गतः प्रभुः। गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः।॥ विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत्। रुरोध सर्वभूतानि यथा वर्षाणि वासवः॥ वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः। संधिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे॥ निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम्। वायुप्रकोपात्रैलोक्यं निरयस्थमिवाभवत्॥ ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः। प्रजापति समाधावन्दुःखिताश्च सुखेच्छया॥ ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः। त्वया तु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः॥ त्वया दत्तोऽयमस्माकमायुषः पवनः पतिः। सोऽस्मन्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ॥ रुरोध दुःखं जनयनन्तःपुर इव स्त्रियः। तस्मात्त्वां शरणं प्राप्ता वायुनोपहता वयम्॥ वायुसंरोधजं दुःखमिदं नो नुद दुःखहन्। एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः॥ कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत। यस्मिंश्च कारणे वायुश्चक्रोध च रुरोध च॥ प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम्। पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः। ५९॥ राहोर्वचनमास्थाय ततः स कुपितोऽनिलः। अशरीरः शरीरेषु वायुश्चरति पालयन्॥ शरीरं हि विना वायुं समतां याति दारुभिः। वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत्॥ वायुना संपरित्यक्तं न सुखं विन्दते जगत्। अद्यैव च परित्यक्तं वायुना जगदायुषा॥ अद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः। तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः। मा विनाशं गमिष्याम अप्रसाद्यादिते सुतम्॥ ततः प्रजाभिः सहितः प्रजापतिः सदेगन्धर्वभुजंगगुह्यकैः जगाम यत्रास्यति तत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः।६४।। ततोऽर्कवैश्वानरकाश्चनप्रभं सुतं तदोत्सङ्गगतं सदागते। देवगन्धर्वऋषियक्षराक्षसैः॥ अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह। लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान्॥ स च तानब्रवीद् वाक्यं निश्चित्य गुरुलाघवम्। मन्त्रज्ञान् मन्त्रकुशलो मन्त्रेषु परिनिष्ठितः॥ न मे दुर्व्याहृतं किंचित्रापि मे दुरनुष्ठितम्। लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये॥ असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः। मम दोषानसम्भूताऽश्रावितो राघवानुजः॥ अत्र तावद् यथाबुद्धिः सर्वैरेव यथाविधि। भावस्य निश्चयस्तावद् विज्ञेयो निपुणं शनैः॥ न खल्वस्ति मम त्रासो लक्ष्मणानापि राघवात्। मित्रं स्वस्थानकुपितं जनयत्येव सम्भ्रमम्॥ सर्वथा सुकरं मित्रं दुष्करं प्रतिपालनम्। अनित्यत्वात् तु चित्तानां प्रीतिरल्पेऽपि भिद्यते॥ अतोनिमित्तं त्रस्तोऽहं रामेण तु महात्मना। यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया॥ सुग्रीवेणैवमुक्ते तु हनूमान् हरिपुंगवः । उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम्॥ सर्वथा नैतदाश्चर्ये यत् त्वं हरिगणेश्वर। न विस्मरसि सुस्निग्धमुपकारं कृतं शुभम्॥ राघवेण तु वीरेण भयमुत्सृज्य दूरतः। त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः॥ सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः। भ्रातरं सम्प्रहीतवाँल्लक्ष्मणं लक्ष्मिवर्धनम्॥ त्वं प्रमत्तो न जानीषे कालं कालविदा वर। फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छुभा॥ निर्मलग्रहनक्षत्रा द्यौः प्रणष्टबलाहका। प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च॥. प्राप्तमुद्योगकालं तु नावैषि हरिपुंगव। त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः॥ आर्तस्य हृतदारस्य परुषं पुरुषान्तरात्। वचनं मर्षणीयं ते राघवस्य महात्मनः॥ कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम्। अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात्॥ मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम्। इत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः॥ अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः। सदेवासुरगन्धर्वं वशे स्थापयितुं जगत्॥ न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत्। पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः॥ तस्य मूर्जा प्रणम्य त्वं सपुत्रः ससुहृज्जनः। राजस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे॥ न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाऽप्यपोहितुम्। मनो हि ते ज्ञास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः॥ भूय एव महातेजा हनूमान् पवनात्मजः। अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात्॥ वानरोऽहं महाभागे दूतो रामस्य धीमतः। रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम्॥ प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना। समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि॥ गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषितम्। भर्तारमिव सम्प्राप्त जानकी मुदिताभवत्॥ चारु तद् वदनं तस्यास्ताम्रशुक्लायतेक्षणम्। बभूव हर्षोदग्रं च राहुमुक्त इवोडुराट्॥ ततः सा ह्रीमती बाला भर्तुः संदेशहर्षिता। परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम्॥ विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम। येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम्॥ शतयोजनविस्तीर्णः सागरो मकरालयः। विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः॥ न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ। यस्य ते नास्ति संत्रासो रावणादपि संभ्रमः॥ अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम्। यद्यसि प्रेषितस्तेन रामेण विदितात्मना॥ प्रेषयिष्यति दुर्धर्षो रामो नह्यपरीक्षितम्। पराक्रममविज्ञाय मत्सकाशं विशेषतः॥ दिष्ट्या च कुशली रामो धर्मात्मा सत्यसंगरः। लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः॥ कुशली यदि काकुत्स्थः किं न सागरमेखलाम्। मही दहति कोपेन युगान्ताग्निरिवोत्थितः॥ अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे। ममैव तु न दुःखानामस्ति मन्ये विपर्ययः॥ कच्चिन्न व्यथते रामः कच्चिन्न परितप्यते। उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः॥ कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति। कच्चित् पुरुषकार्याणि कुरुते नृपतेः सुतः॥ द्विविधं त्रिविधोपायमुपायमपि सेवते। विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परंतपः॥ " कच्चिन्मित्राणि लभतेऽमित्रैश्चाप्यभिगम्यते। कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः॥ कचिदाशास्ति देवानां प्रसादं पार्थिवात्मजः। कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते॥ कच्चिन्न विगतस्नेहो विवासान्मयि राघवः। कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति राघवः॥ सुखानामुचितो नित्यमसुखानामनूचितः। दुःखमुत्तरमासाद्य कच्चिद् रामो न सीदति ॥ कौसल्यायास्तथा कच्चित् सुमित्रायास्तथैव च। अभीक्ष्णं श्रूयते कच्चित् कुशलं भरतस्य च ॥ मन्निमित्तेन मानाहः कच्चिच्छोकेन राघवः। कच्चिन्नान्धमना रामः कच्चिन्मां तारयिष्यति॥ कच्चिदक्षौहिणी भीमां भरतो भ्रातृवत्सलः। ध्वजिन मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते॥ वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति। मत्कृते हरिभिवीरैर्वृतो दन्तनखायुधैः॥ कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः। अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति॥ रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे। द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम्॥ कच्चिन्न तद्धेमसमानवणं तस्याननं पद्मसमानगन्धि। मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन॥ धर्मापदेशात् त्यजतः स्वराज्यं मां चाप्यरण्यं नयतः पदातेः। नासीद् यथा यस्य न भीन शोकः कच्चित् स धैर्य हृदये करोति॥ न चास्य माता न पिता न चान्यः स्नेहाद् विशिष्टोऽस्ति मया समो वा। तावद्ध्यहं दूत जिजीविषेयं यावत् प्रवृत्तिं शृणुयां प्रियस्य॥ इतीव देवीवचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा। श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा॥ सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः। शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्॥ न त्वामिहस्थां जानीते रामः कमललोचनः। तेन त्वां नानयत्याशु शचीमिव पुरंदरः॥ श्रुत्वैव च वचो मह्यं क्षिप्रमेष्यति राघवः। चमूं प्रकर्षन् महतीं हर्यक्षगणसंयुताम्॥ विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम्। करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम्॥ तत्र यद्यन्तरा मृत्युर्यदि देवा महासुराः। स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति॥ तवादर्शनजेनार्ये शोकेन परिपूरितः। न शर्म लभते रामः सिंहार्दित इव द्विपः॥ मन्दरेण च ते देवि शपे मूलफलेन च। मलयेन च विन्ध्येन मेरुणा दर्दुरेण च ॥ यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम्। मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम्॥ क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ। शतक्रतुमिवासीनं नागपृष्ठस्य मूर्धनि ॥ न मांसं राघवो भुङ्क्ते न चैव मधु सेवते। वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम्॥ नैव दंशान् न मशकान् न कीटान् न सरीसृपान्। राघवोऽपनयेद् गात्रात् त्वद्गतेनान्तरात्मना ॥ नित्यं ध्यानपरो रामो नित्यं शोकपरायणः। नान्यच्चिन्तयते किंचित् स तु कामवशं गतः।॥ अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः। सीतेति मधुरां वाणी व्याहरन् प्रतिबुध्यते॥ दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत् स्त्रीमनोहरम्। बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते॥ स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः। धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः।।४६ सा रामसंकीर्तनवीतशोका रामस्य शोकेन समानशोका। शरन्मुखेनाम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ॥ प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान्। रामो ददर्श दुर्धर्षस्तापसाश्रममण्डलम्॥ कुशचीरपरिक्षिप्तं ब्राह्मलक्ष्म्या समावृतम्। यथा प्रदीप्तं दुर्दर्श गगने सूर्यमण्डलम्॥ शरण्यं सर्वभूतानां सुसंमृष्टाजिरं सदा। मृगैर्बहुभिराकीर्णं पक्षिसंधैः समावृतम्॥ पूजितं चोपनृत्तं च नित्यमप्सरस गणैः। विशालैरग्निशरणैः स्रग्भाण्डैरजिनैः कुशैः॥ समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्। आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम्॥ बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्। पुष्पैश्चान्यैः परिक्षिप्तं पद्मिन्या च सपाया॥ फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः। सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्युतम्।७।। पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः। तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्॥ ब्रह्मविद्भिर्महाभागैाह्मणैरुपशोभितम्। तद् दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम्॥ अभ्यगच्छन्महातेजा विज्यं कृत्वा महद् धनुः। दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः॥ अभिजग्मुस्तदा प्रीता वैदेहीं च यशस्विनीम्। ते तु सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणम्॥ लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम्। मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन्दृढव्रताः॥ रूपसंहननं लक्ष्मी सौकुमार्यं सुवेषताम्। ददृशुर्विस्मिताकारा रामस्य वनवासिनः॥ वैदेही लक्ष्मणं रामं नेत्रैरनिमिषैरिव। आश्चर्यभूतान्ददृशुः सर्वे ते वनवासिनः॥ अत्रैनं हि महाभागाः सर्वभूतहिते रताः। अतिथिं पर्णशालायां राघवं संन्यवेशयन्॥ ततो रामस्य सत्कृत्य विधिना पावकोपमाः। आजहुस्ते महाभागाः सललं धर्मचारिणः॥ मङ्गलानि प्रयुञ्जाना मुदा परमया युताः। मूलं पुष्पं फलं सर्वमाश्रमं च महात्मनः॥ निवेदयित्वा धर्मज्ञास्ते तु प्राञ्जलयोऽब्रुवन्। धर्मपालो जनस्यास्य शरण्यश्च महायशाः॥ पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः। इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघवः॥ राजा तस्माद् वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः। ते वयं भवता रक्ष्या भवद्विषयवासिनः। नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः॥ न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः। रक्षणीयास्त्वया शश्वद् गर्भभूतास्तपोधनाः॥ एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम्। वन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्॥ तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः। न्यावृता यथान्यायं तर्पयामासुरीश्वरम् ॥ तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः। उवाच वचनं वीरं वसिष्ठसहितो नृपम्॥ अचिन्त्यान्यप्रमेयाणि कुलानि नरपुङ्गव। इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन॥ सदृशो धर्मसम्बन्धः सदृशो रूपसम्पदा। रामलक्ष्मणयो राजन् सीता चोर्मिलया सह॥ वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम। भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः॥ अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि। सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे ॥ भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः। वरये ते सुते राजंस्तयोरर्थे महात्मनोः॥ पुत्रा दशरथस्येमे रूपयौवनशालिनः। लोकपालसमाः सर्वे देवतुल्यपराक्रमाः।७।। उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम्। इक्ष्वाकुकुलमव्यग्रं भवतः पुण्यकर्मणः॥ विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा। जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुङ्गवौ॥ कुलं धन्यमिदं मन्ये येषां तौ मुनिपुङ्गवौ। सदृशं कुलसम्बन्धं यदाज्ञापयतः स्वयम्॥ एवं भवतु भद्रं वः कुशध्वजसुते इमे। पत्न्यौ भजेतां सहितौ शत्रुघ्नभरताबुभौ॥ एकाह्वा राजपुत्रीणां चतसृणां महामुने। पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः॥ उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः। वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः॥ एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः। उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत्॥ परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोस्तथा। इमान्यासनमुख्यानि आस्यतां मुनिपुङ्गवौ॥ यथा दशरथस्येयं तथायोध्या पुरी मम। प्रभुत्वे नास्ति संदेहो यथार्ह कर्तुमर्हथ ॥ तथा ब्रुवति वैदेहे जनके रघुनन्दनः। राजा दशरथो हृष्टः प्रत्युवाच महीपतिम्॥ युवामसंख्येयगुणौ भ्रातरौ मिथिलेश्वरौ। ऋषयो राजसङ्घाश्च भवद्भयामभिपूजिताः॥ स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामः स्वमालयम्। श्राद्धकर्माणि विधिवद्विधास्य इति चाब्रवीत्॥ तमापृष्ट्वा नरपतिं राजा दशरथस्तदा। मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः॥ स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः। प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम्॥ गवां शतसहस्रं च ब्राह्मणेभ्यो नराधिपः। एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः॥ सुवर्णशृङ्ग्यः सम्पन्नाः सवत्साः कांस्यदोहनाः। गवां शतसहस्राणि चत्वारि पुरुषर्षभः॥ वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः। ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः॥ स सुतैः कृतगोदानैर्वृतः सन्नृपतिस्तदा। लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः॥ सप्तधा तु कृते गर्भे दितिः परमदुःखिता। सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत्॥ ममापराधाद् गर्भोऽयं सप्तधा शकलीकृतः। नापराधो हि देवेश तवात्र बलसूदन॥ प्रियं त्वत्कृतमिच्छामि मम गर्भविपर्यये। मरुतां सप्त सप्तानां स्थानपाला भवन्तु ते॥ वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रक। मारुता इति विख्याता दिव्यरूपा ममात्मजाः॥ ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः। दिव्यवायुरिति ख्यातस्तृतीयोऽपि महायशाः॥ चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात्। संचरिष्यन्ति भद्रं ते कालेन हि ममात्मजाः॥ त्वत्कृतेनैव नाम्ना वै मारुता इति विश्रुताः। तस्यास्तद् वचनं श्रुत्वा सहस्राक्षः पुरंदरः॥ उवाच प्राञ्जलिर्वाक्यमितीदं बलसूदनः। सर्वमेतद् यथोक्तं ते भविष्यति न संशयः॥ विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः। एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने॥ जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम्। एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा ॥ दितिं यत्र तपःसिद्धामेवं परिचचार सः। इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः॥ अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः। तेन चासीदिह स्थाने विशालेति पुरी कृता॥ विशालस्य सुतो राम हेमचन्द्रो महाबलः। सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः॥ सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः। धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत ॥ सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान्। कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः॥ कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान्। सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः॥ तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम्। आवसत् परमप्रख्यः सुमति म दुर्जयः॥ इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः। दीर्घायुषो महात्मानो वार्यवन्तः सुधार्मिकाः॥ इहाद्य रजनीमेकां सुखं स्वप्स्यामहे वयम्। श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि॥ सुमतिस्तु महातेजा विश्वामित्रमुपागतम्। श्रुत्वा नरवरश्रेष्ठः प्रत्यागच्छन्महायशाः॥ पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः। प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत्॥ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुने। सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मम ॥ एवमस्मि तदा मुक्तः कथंचित् तेन संयुगे। इदानीमपि यद् वृत्तं तच्छृणुष्व यदुत्तरम्॥ राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथाकृतः। सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावने॥ दीप्तजिह्वो महादंष्ट्रस्तीक्ष्णशृङ्गो महाबलः। व्यचरन् दण्डकारण्यं मांसभक्षो महामृगः॥ अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण। अत्यन्तघोरो व्यचरंस्तापसांस्तान् प्रधर्षयन्॥ निहत्य दण्डकारण्ये तापमान् धर्मचारिणः। रुधिराणि पिबंस्तेषां तन्मासानि च भक्षयन्॥ ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान्। तदा रुधिरमत्तोऽहं वचरं दण्डकावनम्॥ तदाहं दण्डकारण्ये विचरन् धर्मदूषकः। आसादयं तदा रामं तापसं धर्ममाश्रितम्॥ वैदेहीं च महाभागां लक्ष्मणं च महारथम्। तापसं नियताहारं सर्वभूतहिते रतम्॥ सोऽहं वनगतं रामं परिभूय महाबलम्। तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन्॥ अभ्यधावं सुसंक्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः। जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन्॥ तेन त्यक्ताश्रयो बाणाः शिताः शत्रुनिवर्हणाः। विकृष्य सुमहच्चापं सुपर्णानिलतुल्यगाः॥ ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः। आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः॥ पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा। समुत्क्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ॥ शरेण मुक्तो रामस्य कथंचित् प्राप्य जीवितम्। इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः॥ वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम्। गृहीतधनुषं रामं पाशहस्तमिवान्तकम्॥ अपि रामसहस्राणि भीतः पश्यामि रावण। रामभूतमिदं सर्वमरण्यं प्रतिभाति मे॥ रोममेव हि पश्यामि रहिते राक्षसेश्वर। दृष्ट्वा स्वप्नगतं राममुद्धमामीव चेतनः॥ रकारादीनि नामानि रामत्रस्तस्य रावण। रत्नानि च रथाश्चैव वित्रासं जनयन्ति मे॥ अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम्। बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः॥ रणे रामेण युध्यस्व क्षमा वा कुरु रावण। न ते रामकथा कार्या यति मां द्रष्टुमिच्छसि ॥ बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः। परेषामपराधेन विनष्टाः सपरिच्छदाः ॥ सोऽहं परापराधेम विनशेयं निशाचर। कुरु यत् ते क्षमं तत्त्वमहं त्वां नानुयामि वै॥ रामश्च हि महातेजा महासत्त्वो महाबलः। अपि राक्षसलोकस्य भवेदन्तकरोऽपि हि॥ यदि शूर्पणखाहेतोर्जनस्थानगतः खरः। अतिवृत्तो हतः पूर्वं रामेणक्लिष्टकर्मणा। अत्र ब्रूहि यथातत्वं को रामस्य वयतिक्रमः॥ इदं वचो बन्धुहितार्थिना मया यथोच्यमानं यदि नाभिपत्स्यसे। सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोऽद्य रामेण शरैरजिह्मगैः॥ स तदा वालिनं हत्वा सुग्रीवमभिषिच्य च। वसन् माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत्॥ अयं स कालः सम्प्राप्तः समयोऽद्य जलागमः। सम्पश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः॥ नवमासधृतं गर्भे भास्करस्य गभस्तिभिः। पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम्॥ शक्यमम्बरमारुह्य मेघसोपानपंक्तिभिः। कुटजार्जुनमालाभिरलंकर्तुं दिवाकरः॥ संध्यारागोत्थितैस्तानैरन्तेष्वपि च पाण्डुभिः। स्निग्धैरभ्रपटच्छेदैर्बद्धव्रणमिवाम्बरम्॥ मन्दमारुतनि:श्वासं संध्याचन्दनरञ्जितम्। आपाण्डुजलदं भाति कामातुरमिवाम्बरम्॥ एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता। सीतेव शोकसंतप्ता मही वाष्पं विमुञ्चति ॥ मेघोदरविनिर्मुक्ताः कर्पूरदलशीतलाः। शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः॥ एष फुल्लार्जुनः शैलः केतकैरभिवासितः। सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते॥ मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः। मारुतापूरितगुहाः प्राधीता इव पर्वताः॥ कशाभिरिव हैमीभिर्विद्युद्भिरभिताडितम्। अन्तस्तनितनिर्घोषं सवेदनमिवाम्बरम्॥ नीलमेघाश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे। स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी॥ इमास्ता मन्मथवतां हिताः प्रतिहता दिशः। अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः॥ क्वचिद् बाष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान्। कुटजान् पश्य सौमित्रे पुष्पितान् गिरिसानुषु। मम शोकाभिभूतस्य कामसंदीपमान् स्थितान् ॥ निदाघदोषप्रसराः प्रशान्ताः। स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान् ॥ सम्प्रस्थिता मानसवासलुब्धाः प्रियान्विताः सम्प्रति चक्रवाकाः। अभीक्ष्णवर्षोदकविक्षतेषु यानानि मार्गेषु न सम्पतन्ति ॥ क्वचित् प्रकाशं क्वचिदप्रकाशं नभः प्रकीर्णाम्बुधरं बिभाति। क्वचिक्वचित् पर्वतसंनिरुद्धं रूपं यथा शान्तमहार्णवस्य ॥ नवं जलं पर्वतधातुताम्रम्। मयूरकेकाभिरनुप्रयातं शैलापगाः शीघ्रतरं वहन्ति ॥ रसाकुलं षट्पदसंनिकाशं प्रभुज्यते जम्बुफलं प्रकामम्। अनेकवर्णं पवनावधूतं भूमौ पतत्यामफलं विपक्वम्॥ विद्युत्पताकाः सबलाकमालाः शैलेन्द्रकूटाकृतिसंनिकाशाः। गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगस्थाः॥ वर्षोदकाप्यायितशाद्वलानि प्रवृत्तनृत्तोत्सवबर्हिणानि। वनानि निर्वृष्टबलाहकानि पश्यापराह्वेष्वधिकं विभान्ति ॥ समुद्वहन्तः सलिलातिभारं बलाकिनो वारिधरा नदन्तः। महत्सु शृङ्गेषु महीधराणां विश्रम्य विश्रम्य पुनः प्रयान्ति॥ मेघाभिकामा परिसम्पतन्ती सम्मोदिता भाति बलाकपंक्तिः। वातावधूता वरपौण्डरीकी लम्बेव माला रुचिराम्बरस्य॥ बालेन्द्रगोपान्तरचित्रितेन विभाति भूमिर्नवशाद्वलेन। गात्रानुपृक्तेन शुक्रप्रभेण नारीव लाक्षोक्षितकम्बलेन॥ निद्रा शनैः केशवमभ्युपैति दुतं नदी सागरमभ्युपैति। हृष्टा बलाका धनमभ्युपैति कान्ता सकामा प्रियमभ्युपैति ॥ जाता वनान्ताः शिखिसुप्रनृत्ता जाताः कदम्बाः सकदम्बशाखाः। जाता वृषा गोषु समानकामा जाता मही सस्यवनाभिरामा॥ वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति। नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवङ्गमाः॥ माघ्राय मत्ता वननिझरेषु। प्रपातशब्दाकुलिता गजेन्द्राः सार्धं मयूरैः समदा नदन्ति ॥ धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः। क्षणार्जितं शनैर्मदं षट्चरणास्त्यजन्ति ॥ पुष्परसावगाढं अङ्गारचूर्णोत्करसंनिकाशैः फलैः सुपर्याप्तरसैः समृद्धैः। जम्बूदुमाणां प्रविभान्ति शाखा निपीयमाना इव षट्पदौघैः॥ मुदीर्णगम्भीरमहारवाणाम्। विभान्ति रूपाणि बलाहकानां रणोत्सुकानामिव वारणानाम्॥ मार्गानुगः शैलवनानुसारी सम्प्रस्थितो मेघरवं निशम्य। युद्धाभिकामः प्रतिनादशङ्की मत्तो गजेन्द्रः प्रतिसंनिवृत्तः॥ क्वचित् प्रगीता इव षट्पदौथैः क्वचित् प्रर्तृत्ता इव नीलकण्ठैः। विभान्त्यनेकाश्रयिणो वनान्ताः॥ कदम्बसर्जार्जुनकन्दलाढ्या वनान्तभूमिर्मधुवारिपूर्णा। रापानभूमिप्रतिमा विभाति ॥ मुक्तासमाभं सलिलं पतद् वै सुनिर्मलं पत्रपुटेषु लग्नम्। हृष्टा विवर्णच्छदना विहंगाः सुरेन्द्रदत्तं तृषिताः पिबन्ति ॥ षट्पादतन्त्रीमधुराभिधानं प्लवङ्गमोदीरितकण्ठतालम्। वनेषु संगीतमिव प्रवृत्तम्॥ क्वचित् प्रनृत्तैः क्वचिदुन्नदद्भिः कचिच्च वृक्षाग्रनिष्णकायैः। वनेषु संगीतमिव प्रवृत्तम्॥ स्वनैर्घनानां प्लवगाः प्रबुद्धा विहाय निद्रां चिरसंनिरुद्धाम्। अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति ॥ स्तटानि शीर्णान्यपवाहयित्वा। दृतं स्वभर्तारमुपोपयन्ति ॥ नीलेषु नीला नववारिपूर्णा मेघेषु मेघाः प्रतिभान्ति सक्ताः। दवाग्निदग्धेषु दवाग्निदग्धाः शैलेषु शैला इव बद्धमूलाः॥ प्रमत्तसंनादितबर्हिणानि सशक्रगोपाकुलशाद्वलानि। चरन्ति नीपार्जुनवासितानि गजाः सुरम्याणि वनान्तराणि॥ नवाम्बुधाराहतकेसराणि ध्रुवं परिष्वज्य सरोरुहाणि। कदम्बपुष्पाणि सकेसराणि नवानि हृष्टा भ्रमराः पिबन्ति ॥ मत्ता गजेन्द्रा मुदिता गवेन्द्रा वनेषु विक्रान्ततरा मृगेन्द्राः। रम्या नगेन्द्रा निभृता नरेन्द्राः प्रकीडिती वारिधरैः सुरेन्द्रः॥ मेघाः समुद्भूतसमुद्र नादा महाजलौघैर्गगनावलम्बाः। महीं च कृत्स्नामपवाहयन्ति॥ वर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्णवेगाः। प्रनष्टकूलाः प्रवहन्ति शीघ्र नद्यो जलं विप्रतिपन्नमार्गाः॥ नरैनरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्रदत्तैः पवनोपनीतैः। घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति ॥ घनोपगूढं गगनं न तारा न भास्करो दर्शनमभ्युपैति। नवैर्जलौघैर्धरणी वितृप्ता तमोविलिप्ता न दिशः प्रकाशाः॥ महान्ति कूटानि महीधराणां धाराविधौतान्यधिकं विभान्ति । मुक्ताकलापैरिव लम्बमानैः॥ शैलोपलप्रस्खलमानवेगाः शैलोत्तमानां विपुलाः प्रपाताः। गुहासु संनादितबर्हिणासु हारा विकीर्यन्त इवावभान्ति॥ शीघ्रप्रवेगा विपुलाः प्रपाता निर्धातशृङ्गोपतला गिरीणाम्। मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्सङ्गतलैध्रियन्ते॥ सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः। पतन्ति चातुला दिक्षु तोयधाराः समन्ततः॥ विलीयमानैर्विहगैनिमीलद्भिश्च पङ्कजैः। विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः॥ वृत्ता यात्रा नरेन्द्राणां सेना पथ्येव वर्तते। वैराणि चैव मार्गाश्च सलिलेन समीकृताः॥ मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम्। अयमध्यायसमयः सामगानामुपस्थितः॥ विवृत्तकमायतनो नूनं संचितसंचयः। आषाढीमभ्युपगतो भरतः कोसलाधिपः॥ नूनमापूर्यमाणायाः सरय्वा वर्धते रयः। मां समीक्ष्य समायान्तमयोध्याया इव स्वनः॥ इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते। विजितारिः सदारश्च राज्ये महति च स्थितः॥ अहं तु हृतदारश्च राज्याच्च महतश्च्युतः। नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण॥ शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः। रावणश्च महाञ्छत्रुरपारः प्रतिभाति मे॥ अयात्रां चैव दृष्ट्वेमां मार्गाश्च भृशदुर्गमान्। प्रणते चैव सुग्रीवे न मया किंचिदीरितम्॥ अपि चापि परिक्लिष्टं चिराद् दारैः समागतम्। आत्मकार्यगरीयस्त्वाद् वक्तुं नेच्छामि वानरम्॥ स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम्। उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः॥ तस्मात् कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण। सुग्रीवस्य नदीनां च प्रसादमभिकाङ्क्षयन् ॥ उपकारेण वीरो हि प्रतीकारेण युज्यते। अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः॥ अथैवमुक्तः प्रणिदाय लक्ष्मणः कृताञ्जलिस्तत् प्रतिपूज्य भाषितम्। उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम् ॥ यदुक्तमेतत् तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः। शरत्प्रतीक्षः क्षमतामिदं भवान् जलप्रपातं रिपुनिग्रहे धृतः॥ संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचने। पुरोहितं समाहूय वसिष्ठमिदमब्रवीत्॥ गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन। श्रेयसे राज्यलाभाय वध्वा सह यतव्रत॥ तथेति च स राजानमुक्त्वा वेदविदां वरः। स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम्॥ उपवासयितुं वीरं मन्त्रविन्मन्त्रकोविदम्। ब्राझै रथवरं युक्तमास्थाय सुधृतव्रतः॥ स रामभवनं प्राप्य पाण्डुराभ्रधनप्रभम्। तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः॥ तमागतमृषि रामस्त्वरनिव ससम्भ्रमम्। मानयिष्यन् स मानाहं निश्चक्राम निवेशनात्॥ अभ्येत्य त्वरमाणोऽथ रथाभ्याशं मनीषिणः। ततोऽवतारयामास परिगृह्य रथात् स्वयम्॥ स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च। प्रियाहं हर्षयन् राममित्युवाच पुरोहितः॥ प्रसन्नस्ते पिता राम यत्त्वं राज्यमवाप्स्यसि। उपवासं भवानद्य करोतु सह सीतया॥ प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः। पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥ इत्युक्त्वा स तदा राममुपवासं यतव्रतः। मन्त्रवत् कारयामास वैदेह्या सहितं शुचिः॥ ततो यथावद् रामेण स राज्ञो गुरुरर्चितः। अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्॥ सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः। सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः॥ हृष्टनारीनरयुतं रामवेश्म तदा बभौ। यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः॥ स राजभवनप्रख्यात् तस्माद् रामनिवेशनात्। निर्गत्य ददृशे मार्ग वसिष्ठो जनसंवृतम्॥ वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः। बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः॥ जनवृन्दोर्मिसंघर्षहर्षस्वनवृतस्तदा। बभूव राजमार्गस्य सागरस्येव निःस्वनः॥ सिक्तसम्मृष्टरथ्या हि तथा च वनमालिनी। आसीदयोध्या तदहः समुच्छ्रितगृहध्वजा॥ तदा ह्ययोध्यानिलयः सस्त्रीबालाकुलोजनः। रामाभिषेकमाकाङ्क्षनाकाङ्क्षनुदयं रवेः॥। प्रजालंकारभूतं च जनस्यानन्दवर्धनम्। उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम्॥ एवं तज्जनसम्बाधं राजमार्ग पुरोहितः। व्यूहन्निव जनौघं तं शनै राजकुलं ययौ ॥ सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य च। समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः॥ तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः। पप्रच्छ स्वमतं तस्मै कृतमित्यभिवेदयत्॥ तेन चैव तदा तुल्यं सहासीनाः सभासदः। आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम्॥ गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम्। विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥ तदग्र्यवेषप्रमदाजनाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम्। व्यदीपयंश्चारु विवेश पार्थिवः शशीव तारागणसंकुलं नभः॥ तस्यां रजन्यां व्युष्टायां यज्ञवाटं गतो नृपः। ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः॥ वसिष्ठो वामदेवश्च जाबालिरथ काश्यप। विश्वामित्रो दीर्घतमा दुर्वासाश्च महातपाः॥ पुलस्त्योऽपि तथा शक्तिर्भार्गश्चैव वामनः। मार्कण्डेयश्च दीर्घायुमौद्गल्यश्च महायशाः॥ गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित्। भवद्वाजश्च तेजस्वी अग्निपुत्रश्च सुप्रभः॥ नारदः पर्वतश्चैव गौतमश्च महायशाः। एते चान्ये च बहवो मुनयः संशितव्रताः॥ कौतूहलसमाविष्टाः सर्व एव समागताः। राक्षसाश्च महावीर्या वानराश्च महाबलाः॥ सर्व एव समाजग्मुर्महात्मानः कुतूहलात्। क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः।७।। नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः। सीताशपथवीक्षार्थ सर्व एव समागताः॥ तदा समागतं सर्वमश्मभूतमिवाचलम्। श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत्।९॥ तमृर्षि पृष्ठतः सीता अन्वगच्छदवाङ्मुखी। कृताञ्जलिर्बाष्पकला कृत्वा रामं मनोगतम्॥ तां दृष्ट्वा श्रुतिमायान्ती ब्रह्माणमनुगामिनीम्। वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत ।।११ ततो हलहलाशब्दः सर्वेषामेवमाबभौ। दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ॥ साधु रामेति केचित्तु साधु सीतेति चापरे। उभावेव च तत्रान्ये प्रेक्षकाः संप्रचुक्रुशुः॥ ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः। सीतासहायो वाल्मीकिरिति होवाच राघवम्॥ इयं दाशरथे सीता सुव्रता धर्मचारिणी। अपवादात्परित्यक्ता ममाश्रमसमीपतः॥ लोकापवादभीतस्य तव राम महाव्रत। प्रत्ययं दास्यते सीता तामनुज्ञातुमर्हसि ॥ इमौ तु जानकीपुत्रावुभौ च यमजातको। सुतौ तवैव दुर्धर्षों सत्यमेतद्ब्रवीमि ते॥ प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन। न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ॥ बहुवर्षसहस्राणि तपश्चर्या मया कृता। नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली॥ मनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम्। तस्याहं फलमश्नामि अपापा मैथिली यदि॥ अहं पञ्चसु भूतेषु मनःषष्ठेषु राघव। विचिन्त्य सीता शुद्धति जग्राह वननिझरे॥ इयं शुद्धसमाचारा अपापा पतिदेवता। लोकापवादभीतस्य प्रत्ययं तव दास्यति॥ तस्मादियं नरवात्मज शुद्धभावा दिव्येन दृष्टिविषयेण मया प्रदिष्टा। लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदितापि शुद्धा॥ एवमुक्ता तु वैदेही प्रियाहाँ प्रियवादिनी। प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत्॥ किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम्। त्वया यदपहास्यं मे श्रुत्वा नरवरोत्तम॥ वीराणां राजपुत्राणां शस्त्रास्त्रविदुषां नृप। अनर्हमयशस्यं च न श्रोतव्यं त्वयेरितम्॥ आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा। स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते॥ भर्तुर्भाग्यं तु नार्येका प्राप्नोति पुरुषर्षभ। अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि॥ न पिता नात्मजो वात्मा न माता न सखीजनः। इह प्रेत्य च नारीणां पतिरेको गतिः सदा॥ यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव। अग्रतस्ते गमिष्यामि मृद्गन्ती कुशकण्टकान्॥ ईष्या रोषं बहिष्कृत्य भुक्तशेषमिवोदकम्। नय मां वीर विस्रब्धः पापं मयि न विद्यते॥ प्रासादाग्रे विमानैर्वा वैहायसगतेन वा। सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते॥ अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम्। नास्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया॥ अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम्। नानामृगगणाकीर्णं शार्दूलगणसेवितम्॥ सुखं वने निवत्स्यामि यथैव भवने पितुः। अचिन्तयन्ती त्रीलोकांश्चिन्तयन्ती पतिव्रतम्॥ शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी। सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु ॥ त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम्। अन्यस्यापि जनस्येह किं पुनर्मम मानद॥ साहं त्वया गमिष्यामि वनमद्य न संशयः। नाहं शक्या महाभाग निवर्तयितुमुद्यता॥ फलमूलाशना नित्यं भविष्यामि न संशयः। न ते दुःखं करिष्यामि निवसन्ती त्वया सदा॥ अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि। इच्छामि परतः शैलान् पल्वलानि सरांसि च ॥ द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता। हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः॥ इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता। अभिषेकं करिष्यामि तासु नित्यमनुव्रता॥ सह त्वया विशालाक्ष रंस्ये परमनन्दिनी। एवं वर्षसहस्राणि शतं वापि त्वया सह॥ व्यतिक्रमं न वेत्स्यामि स्वर्गोऽपि हि न मे मतः। स्वर्गेऽपि च विना वासो भविता यदि राघव। त्वया विना नरव्याघ्र नाहं तदपि रोचये॥ अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैश्च। वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य सम्मता॥ अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम्। नयस्व मां साधु कुरुष्व याचनां नातो मया ते गुरुता भविष्यति॥ तथा ब्रुवाणामपि धर्मवत्सलां न च स्म सीतां नृवरो निनीषति। उवाच चैनां बहु संनिवर्तने वने निवासस्य च दु:खितां प्रति॥ तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह। वाक्यं चाद्भुतसंकाशं भ्रातृन्प्रोवाच राघवः॥ इमौ कुमारौ सौमित्रे तव धर्मविशारदौ। अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ॥ इमौ राज्येऽभिषेक्ष्यामि देशः साधु विधीयताम्। रमणीयो ह्यसंबाधो रमेतां यत्र धन्विनौ॥ न राज्ञां यत्र पीडा स्यानाश्रमाणां विनाशनम्। स देशो दृश्यतां सौम्य नापराध्यामहे यथा॥ तथोक्तवति रामे तु भरतः प्रत्युवाच ह। अयं कारुपथो देशो रमणीयो निरामयः॥ निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः। चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम्॥ तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः। तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत्॥ अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता। रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा।।। चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता। चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा॥ ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा। ययुयुद्धे दुराधर्षा अभिषेकं च चक्रिरे॥ अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सुसमाहितौ। अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम्॥ अङ्गदं चापि सौमित्रिर्लक्ष्मणोऽनुजगाम ह। चन्द्रकेतोस्तु भरतः पार्खािग्राहो बभूव ह॥ लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः। पुत्र स्थिते दुराधर्षे अयोध्यां पुनरागमत्॥ भरतोऽपि तथैवोष्य संवत्सरमतोऽधिकम्। अयोध्यां पुनरागम्य रामपादावुपास्त सः॥ उभौ सौमित्रिभरतौ रामपादावनुव्रतौ। कालं गतमपि स्नेहान्न जज्ञातेऽतिधार्मिकौ॥ एवं वर्षसहस्राणि दश तेषां ययुस्तदा। धर्मे प्रयतमानानां पौरकार्येषु नित्यदा॥ विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे च संस्थिताः। त्रयः समिद्धाहुतिदीप्ततेजसो हुताग्नयः साधुमहाध्वरे त्रयः॥ एतदाख्याय रामाय महर्षिः कुम्भसंभवः। अस्यामेवापरं वाक्यं कथायामुपचक्रमे॥ ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम्। अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम्॥ अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम्। रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे॥ तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि। विचरन्तीं वनोद्देशे दण्डोऽपश्यदनुत्तमाम्॥ स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः। अभिगम्य सुसंविग्नः कन्यां वचनमब्रवीत्॥ कुतस्त्वमसि सुश्रोणि कस्य वासि सुता शुभे। पीडितोऽहमनङ्गेन पृच्छामि त्वां शुभानने॥ तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः। भार्गवी प्रत्युवाचेदं वचः सानुनयं त्विदम्॥ भार्गवस्य सुतां विद्धिदेवस्याक्लिष्टकर्मणः। अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम्॥ मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम्। गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः॥ व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः। यदि वान्यन्मया कार्य धर्मदृष्टेन सत्पथा॥ वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम्। अन्यथा तु फलं तुभ्यं भवेद्धोराभिसंहितम्॥ क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत्। दास्यते चानवद्याङ्ग तव मा याचितः पिता ॥ एवं ब्रुवाणामरजां दण्डः कामवशं गतः। प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम्।।१३ प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि। त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने॥ त्वां प्राप्य तु वधो वापि पापं वापि सुदारुणम्। भक्तं भजस्व मां भीरु भजमानं सुविह्वलम्॥ एवमुक्त्वा तु तां कन्यां दोभ्यां प्राप्य बलादली। विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे॥ तमनर्थ महाघोरं दण्डः कृत्वा सुदारुणम्। नगरं प्रययावाशु मधुमन्तमनुत्तमम्॥ अरजापि रुदन्ती सा आश्रमस्याविदूरतः। प्रतीक्षते सुसंत्रस्ता पितरं देवसंनिभम्॥ एवं ब्रुवाणामरजां दण्डः कामवशं गतः। प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम्।।१३ प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि। त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने॥ त्वां प्राप्य तु वधो वापि पापं वापि सुदारुणम्। भक्तं भजस्व मां भीरु भजमानं सुविह्वलम्॥ एवमुक्त्वा तु तां कन्यां दोभ्यां प्राप्य बलादली। विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे॥ तमनर्थ महाघोरं दण्डः कृत्वा सुदारुणम्। नगरं प्रययावाशु मधुमन्तमनुत्तमम्॥ अरजापि रुदन्ती सा आश्रमस्याविदूरतः। प्रतीक्षते सुसंत्रस्ता पितरं देवसंनिभम्॥ स तु राक्षसशार्दूलो निद्रामदसमाकुलः। राजमार्ग श्रिया जुष्टं ययौ विपुलविक्रमः॥ राक्षसानां सहस्रैश्च वृतः परमदुर्जयः। गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ॥ स हेमजालविततं भानुभास्वरदर्शनम्। ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम्॥ स तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोधिपतेर्निवेशनम्। ददर्श दूरेऽग्रजमासनस्थं स्वयंभुवं शक्र इवासनस्थम्।४।। भ्रातुः स भवनं गत्वा रक्षोगणसमन्वितः। कुम्भकर्ण: पदन्यासैरकम्पयत मेदिनीम्॥ सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च। दद द्विग्नमासीनं विमाने पुष्पके गुरुम् ॥ अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम्। तूर्णमुत्थाय संहृष्टाः संनिकर्षमुपानयत्॥ अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः। भ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत्॥ पुनः स मुदितोत्पत्य रावणः परिषस्वजे। स भ्रात्रा संपरिष्वक्को यथावच्चाभिनन्दितः॥ कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासमम्। स तदासनमाश्रित्य कुम्भकर्णो महाबलः॥ संरक्तनयनः क्रोधाद्रावणं वाक्यमब्रवीत्। किमर्थमहमादृत्य त्वया राजप्रबोधितः॥ शंस कस्माद्भयं तेऽत्र को वा प्रेतो भविष्यति। भ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम्।। रोषेण परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत्॥ अयं ते सुमहान्कालः शयानस्य महाबल। सुषुप्तस्त्वं न जानीये मम रामकृतं भयम्॥ एष दाशरथिः श्रीमान्सुग्रीवसहितो बली। समुद्रं लवयित्वा तु कुलं नः परिकृन्तति॥ हन्त पश्यस्व लङ्कायां वनान्युपवनानि च। सेतुना सुखमागत्य वानरैकार्णवं कृतम्॥ ये राक्षसा मुख्यतमा हतास्ते वानरैर्युधि वानराणां क्षयं युद्धे न पश्यामि कथंचन।। न चापि वानरा युद्धे जितपूर्वाः कदाचन॥ तदेतद्भयमुत्पन्नं त्रायस्वेह महाबल। नाशय त्वमिमानद्य तदर्थं बोधितो भवान्॥ सर्वक्षपितकोशं च स त्वमभ्युपपद्य माम्। त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम्॥ भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम्। मयैवं नोक्तपूर्वो हि भ्राता कश्चित्परंतप ॥ त्वय्यस्ति मम च स्नेहः परा संभावना च मे। देवासुरेषु युद्धेषु बहुशो राक्षसर्षभ।। त्वया देवाः प्रतिव्यूह्य निर्जिताश्चामरा युधि ॥ तदेतत्सर्वमातिष्ठ वीर्य भीमपराक्रम। नहि ते सर्वभूतेषु दृश्यते सदृशो बली॥ कुरुष्व मे प्रियहितमेतदुत्तम यथाप्रियं प्रियरण बान्धवप्रिय। स्वतेजसा व्यथय सपत्नवाहिनीं शरद्धनं पवन इवोद्यतो महान्॥ मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत्। अभिज्ञानमभिज्ञातमेतद् रामस्य तत्त्वतः॥ मणिं दृष्ट्वा तु रामो वै त्रयाणां संस्मरिष्यति। वीरो जनन्या मम च राज्ञो दशरथस्य च॥ स भूयस्त्वं समुत्साहचोदितो हरिसत्तम। अस्मिन् कार्यसमुत्साहे प्रचिन्तय यदुत्तरम्॥ त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम। तस्त चिन्तय यो यत्नो दुःखक्षयकरो भवेत्॥ हनूमन्यत्नमास्थाय दुःखक्षयकरो भव। स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः॥ शिरसाऽऽवन्द्य वैदेहीं गमनायोपचक्रमे। ज्ञात्वा सम्प्रस्थितं देवी वानरं पवनात्मजम्॥ बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत्। हनूमन्कुशलं ब्रूयाः सहितौ रामलक्ष्मणौ।७।। सुग्रीवं च सहामात्यं सर्वान्वृद्धांश्च वानरान्। ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम्॥ यथा च स महाबाहुर्ले तारयति राघवः। अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि॥ जीवन्ती मां यथा रामः सम्भावयति कीर्तिमान्। तत्त्वया हनुमन्वाच्यं वाचा धर्ममवाप्नुहि॥ नित्यमुत्साहयुक्तस्य वाचः श्रुत्वा मयेरिताः। वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये॥ मत्संदेशयुता वाचस्त्वत्तः श्रुत्वैव राघवः। पराक्रमे मतिं वीरो विधिवत्संविधास्यति॥ सीतायास्तद् वचः श्रुत्वा हनूमान् मारुतात्मजः। शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्॥ क्षिप्रमेष्यति काकुत्स्थो हपृक्षप्रवरैर्वृतः। यस्ते युधि विजित्यारीशोकं व्यपनयिष्यति॥ नहि पश्यामि मत्र्येषु नासुरेषु सुरेषु वा। यस्तस्य वमतो बाणान् स्थातुमुत्सहतेऽग्रतः॥ अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्। स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः॥ स हि सागरपर्यन्तां महीं साधितुमर्हति। त्वनिमित्तो हि रामस्य जयो जनकनन्दिनि॥ तस्य तद् वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम्। जानकी बहु मेने तं वचनं चेदमब्रवीत्॥ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनःपुनः। भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत्॥ यदि वा मन्यसे वीर वसैकाहमरिंदम। कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि॥ मम चैवाल्पभाग्यायाः सांनिध्यात् तव वानर । अस्य शोकस्य महतो मुहूर्त मोक्षणं भवेत्॥ ततो हि हरिशार्दूल पुनरागमनाय तु। प्राणानामपि संदेहो मम स्यान्नात्र संशयः॥ तवादर्शनजः शोको भूयो मां परितापयेत्। दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ॥ अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः। सुमहांस्त्वत्सहायेषु हर्युक्षेषु हरीश्वरः॥ कथं नु खलु दुष्पारं तरिष्यति महोदधिम्। तानि हपृक्षसैन्यानि तौ वा नरवरात्मजौ॥ त्रयाणामेव भूतानां सागरस्येह लङ्घने। शक्तिः स्याद् वैनतेयस्य तव वा मारुतस्य वा॥ तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे। किं पश्यसे समाधानं त्वं हि कार्यविदां वरः॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः॥ बलैः समग्रैर्युधि मां रावणं जित्य संयुगे। विजयी स्वपुरं यायात् तत्तस्य सदृशं भवेत्॥ बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः। मां नयेद् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत्॥ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवेदाहवशूरस्य तथा त्वमुपपादय॥ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्य हनुमाशेषं वाक्यमुत्तरमब्रवीत्॥ देवि हयृक्षसैन्यानामीश्वरः प्लवतां वरः। सुग्रीवः सत्यसम्पन्नस्तवार्थे कृतनिश्चयः॥ स वानरसहस्राणां कोटीभिरभिसंवृतः। क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः॥ तस्य विक्रमसम्पन्न सत्त्ववन्तो महाबलाः। मनः संकल्पसम्पाता निदेशे हरयः स्थिताः॥ येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः। न च कर्मसु सीदन्ति महत्स्वमिततेजसः॥ असकृत् तैर्महोत्साहै: ससागरधराधरा । प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः॥ मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः। मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ॥ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः। नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः॥ तदलं परितापेन देवि शोको व्यपैतु ते। एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः॥ मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ। त्वत्सकाशं महासङ्घौ नृसिंहावागमिष्यतः॥ तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ। आगम्य नगरी लङ्कां सायकैर्विधमिष्यतः॥ सगणं रावणं हत्वा राघवो रघुनन्दनः। त्वामादाय वरारोहे स्वपुरीं प्रति यास्यति॥ तदाश्वसिहि भद्रं ते भव त्वं कालकाक्षिणी। नचिराद् द्रक्ष्यसे रामं प्रज्वलन्तमिवानलम्॥ निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे। त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी॥ क्षिप्रं त्वं देवि शोकस्य पारं द्रक्ष्यसि मैथिलि। रावणं चैव रामेण द्रक्ष्यसे निहतं बलात्॥ एवमाश्वास्य वैदेहीं हनूमान् मारुतात्मजः। गमनाय मतिं कृत्वा वैदेही पुनरब्रवीत्॥ तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम्। लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपागतम्॥ नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्। वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान्॥ शैलाम्बुदनिकाशानां लङ्कामलयसानुषु। नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः॥ स तु मर्मणि घोरेण ताडितो मन्मथेषुणा। न शर्म लभते रामः सिंहार्दित इव द्विपः॥ रुद मा देवि शोकेन मा भूत्ते मनसोभयम्। शचीव भ; शक्रेण सङ्गमेष्यसि शोभने॥ रामाद् विशिष्टः कोऽन्योऽस्ति कश्चित् सौमित्रिणा समः। अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ।५३ ।। नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितेऽतिरौद्रे। न ते चिरादागमनं प्रियस्य क्षमस्व मत्संगमकालमात्रम्॥ भरद्वाजाश्रमं गत्वा क्रोशादेव नरर्षभः। जनं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः॥ पद्भ्यामेव तु धर्मज्ञो न्यस्तशस्त्रपरिच्छदः। वसानो वाससी क्षौमे पुरोधाय पुरोहितम्॥ ततः संदर्शने तस्य भरद्वाजस्य राघवः। मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम्॥ वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः। संचचालासनात् तूर्णं शिष्यानर्घ्यमिति ब्रुवन्॥ समागम्य वसिष्ठेन भरतेनाभिवादितः। अबुध्यत महातेजाः सुतं दशरथस्य तम्॥ ताभ्यामर्थ्य च पाद्यं च दत्त्वा पश्चात् फलानि च। आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले॥ अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु। जानन् दशरथं वृत्तं न राजानमुदाहरत्॥ वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम्। शरीरेऽग्निषु शिष्येषु वृक्षेषु मृगपक्षिषु॥ तथेति तु प्रतिज्ञाय भरद्वाजो महायशाः। भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात्॥ किमिहागमने कार्यं तव राज्यं प्रशासतः। एतदाचक्ष्व सर्वं मे न हि मे शुध्यते मनः॥ सुषुवे यममित्रघ्नं कौसल्याऽऽनन्दवर्धनम्। भ्रात्रा सह सभार्यो यश्चिरं प्रवाजितो वनम्॥ नियुक्तः स्त्रीनिमित्तेन पित्रा योऽसौ महायशाः। वनवासी भवेतीह समाः किल चतुर्दश॥ कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि। अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च॥ एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह। पर्यश्रुनयनो दुःखाद् वाचा संसज्जमानया॥ हतोऽस्मि यदि मामेवं भगवानपि मन्यते। मत्तो न दोषमाशङ्के मैवं मामनुशाधि हि॥ न चैतदिष्टं माता मे यदवोचन्मदन्तरे। नाहमेतेन तुष्टश्च न तद्वचनमाददे॥ अहं तु तं नरव्याघ्रमुपयातः प्रसादकः। प्रतिनेतुमयोध्यायां पादौ चास्याभिवन्दितुम्॥ तं मामेवंगतं मत्वा प्रसादं कर्तुमर्हसि। शंस मे भगवन् रामः क्व सम्प्रति महीपतिः॥ वसिष्ठादिभित्विग्भिर्याचितो भगवांस्ततः। उवाच तं भरद्वाजः प्रसादाद् भरतं वचः॥ त्वय्येतत् पुरुषव्याघ्र युक्तं राघववंशजे। गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता॥ जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति। अपृच्छं त्वां तवात्यर्थं कीर्तिं समभिवर्धयन्॥ जाने च रामं धर्मज्ञं ससीतं सहलक्ष्मणम्। अयं वसति ते भ्राता चित्रकूटे महागिरौ॥ श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः। एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद॥ ततस्तथेत्येवमुदारदर्शनः प्रतीतरूपो भरतोऽब्रवीद् वचः। चकार बुद्धिं च तदाश्रमे तदा निशानिवासाय नराधिपात्मजः॥ ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः। निर्ययुर्भवनात् तस्मात् सप्त सप्तार्चिवर्चसः॥ महद्बलपरीवारा धनुष्मन्तो महाबलाः। कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः॥ हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः। तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः॥ तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः। विस्फारयन्तः संहृष्टास्तडिद्वन्त इवाम्बुदाः॥ जनन्यस्तास्ततस्तेषां विदित्वा किंकरान् हतान्। बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः॥ ते परस्परसंघर्षास्तप्तकाञ्चनभूषणाः। अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम्॥ सृजन्तो बाणवृष्टिं ते रथगर्जितनि:स्वनाः। प्रावृट्काल इवाम्भोदा विचेरुनैर्ऋताम्बुदाः॥ अवकीर्णस्ततस्ताभिर्हनूमाञ्शरवृष्टिभिः। अभवत्संवृताकारः शैलराडिव वृष्टिभिः॥ स शरान्वञ्चयामास तेषामाशुचरः कपिः। रथवेगांश्च वीराणां विचरन्विमलेऽम्बरे॥ स तैः क्रीडन्धनुष्मद्भिोम्नि वीरः प्रकाशते। धनुष्मद्भिर्यथा मेधैर्मारुतः प्रभुरम्बरे॥ स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम्। चकार हनूमान्वेगं तेषु रक्षःसु वीर्यवान्॥ तलेनाभिहनत् कांश्चित्पादैः कांश्चित्परंतपः। मुष्टिभिश्चाहनत्कांश्चिन्नखैः कांश्चिद् व्यदारयत्॥ प्रममाथोरसा कांश्चिदूरुभ्यामपरानपि। केचित्तस्यैव नादेन तत्रैव पतिता भुवि॥ ततस्तेष्ववपन्नेषु भूमौ निपतितेषु च। तत्सैन्यमगमत्सर्वं दिशो दश भयादितम्॥ विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः। भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद् रथैः ॥ स्त्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि। विविधैश्च स्वनैर्लङ्का ननाद विकृतं तदा॥ स तान्प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः। स्तदेव वीरोऽभिजगाम तोरणम्॥ तथागतां तां व्यथितामनिन्दितां व्यतीतहर्षां परिदीनमानसाम्। शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपसेविनः॥ राज्यावृतं कृष्णविशालशुक्लम्। प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम्॥ भुजश्च चार्वञ्चितवृत्तपीनः परायंकालागुरुचन्दनाहः। अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु॥ स्तयोर्द्वयोः संहतयोस्तु जातः। प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात् स्थितमाचचक्षे॥ मीषद्रजोध्वस्तमिवातुलाक्ष्याः। वासः स्थितायाः शिखराग्रदन्त्याःकिंचित् परिस्त्रंसतचारुगात्र्याः॥ एतैर्निमित्तैरपरैश्च सुभ्रूः संचोदिता प्रागपि साधुसिद्धैः। वातातपक्लान्तमिव प्रणष्टं वर्षेण बीजं प्रतिसंजहर्ष॥ तस्याः पुनर्बिम्बफलोपमोष्ठं स्वक्षिभुकेशान्तमरालपक्ष्म। वक्त्रं बभासे सितशुक्लदंष्ट्र राहोर्मुखाच्चन्द्र इव प्रमुक्तः॥ सा वीतशोका व्यपनीततन्द्रा शान्तज्वरा हर्षविबुद्धसत्त्वा। अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन ॥ ततः शूर्पणखा घोरा राघवाश्रममागता। राक्षसानाचचक्षे तौ भ्रातरौ सह सीतया॥ ते रामं पर्णशालायामुपविष्टं महाबलम्। ददृशुः सीतया सार्धं लक्ष्मणेनापि सेवितम्॥ तां दृष्ट्वा राघवः श्रीमानागतांस्तांश्च राक्षसान्। अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम्॥ मुहूर्ते भव सौमित्रे सीतायाः प्रत्यनन्तरः। इमानस्या वधिष्यामि पदवीमागतानिह॥ वाक्यमेतत् ततः श्रुत्वा रामस्य विदितात्मनः। तथेति लक्ष्मणो वाक्यं राघवस्य प्रपूजयन्।।५ राघवोऽपि महच्चापं चामीकरविभूषितम्। चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत्॥ पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ। प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम्॥ फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ। वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ॥ युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे। ऋषीणां तु नियोगेन सम्प्राप्तः सशरासनः॥ तिष्ठतैवात्र संतुष्टा नोपवर्तितुमर्हथ। यदि प्राणैरिहार्थो वो निवर्तघ्नाः॥ तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश। ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नाः शूलपाणयः॥ संरक्तनयना घोरा रामं संरक्तलोचनम्। परुषा मधुराभाषं हृष्टा दृष्टपराक्रमम्॥ क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः। त्वमेव हास्यसे प्राणान् सद्योऽस्माभिर्हतो युधि ॥ का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि । अस्माकमग्रतः स्थातुं किं पुनर्यो माहवे॥ एभिर्बाहुप्रयुक्तैश्च परिघैः शूलपट्टिशैः। प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम्॥ इत्येवमुक्त्वा संरब्धा राक्षसास्ते चतुर्दश। उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः॥ चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम्। तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश॥ तावद्भिरेव चिच्छेद शरैः काञ्चनभूषितैः। ततः पश्यान्महातेजा नाराचान् सूर्यसंनिभान्॥ जग्राह परमकुद्धश्चतुर्दश शिलाशितान्। गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान्॥ मुमोच राघवो बाणान् वज्रानिव शतक्रतुः। ते भित्वा रक्षसां वेगाद् वक्षांसि रुधिरप्लुताः॥ विनिष्पेतुस्तदा भूमौ वल्मीकादिव पन्नगाः। तैर्भग्नहदया भूमौ छिन्नमूला इव द्रुमाः॥ निपेतुः शोणितस्नाता विकृता विगतासवः। तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोधमूछिताः॥ उपगम्य खरं सा तु किंचित्संशुष्कशोणिता। पपात पुनरेवार्ता सनिर्यासेव वल्लरी॥ भ्रातुः समीपे शोकार्ता ससर्ज निनदं महत्। सस्वरं मुमुचे वाष्पं विवर्णवदना तदा॥ निपातितान् प्रेक्ष्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः। वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगिनी खरस्य सा॥ ऋष्यमूकात् तु हनुमान् गत्वा तं मलयं गिरिम्। आचचक्षे तदा वीरौ कपिराजाय राघवौ॥ अयं रामो महाप्राज्ञ सम्प्राप्तो दृढविक्रमः। लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः॥ इक्वाकूणां कुले जातो रामो दशरथात्मजः। धर्मे निगदितश्चैव पितुर्निदेशकारकः॥ राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः। दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः॥ तपसा सत्यवाक्येन वसुधा येन पालिता। स्त्रीहेतोस्तस्य पुत्रोऽयं रामोऽरण्यं समागतः॥ तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः। रावणेन हृता भार्या स त्वां शरणमागतः॥ भवता सत्यकामो तौ भ्रातरौ रामलक्ष्मणौ। प्रगृह्य चार्चयस्वैतौ पूजनीयतमाबुभौ॥ श्रुत्वा हनूमतो वाक्यं सुग्रीवो वानराधिपः। दर्शनीयतमो भूत्वा प्रीत्योवाच च राघवम्॥ भवान् धर्मविनीतश्च सुतपाः सर्ववत्सलः। आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः॥ तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो। यत्त्वमिच्छसि सौहार्द वानरेण मया सह ॥ रोचते यदि मे सख्यं बाहुरेष प्रसारितः। गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा॥ एतत् तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम्। सम्प्रहृष्टमना हस्तं पीडयामास पाणिना॥ हृष्टः सौहृदमालम्ब्य पर्यष्वजत पीडितम्। ततो हनूमान् संत्यज्य भिक्षुरूपमरिंदमः॥ काष्ठयोः स्वेन रूपेण जनयामास पावकम्। दीप्यमानं ततो वह्नि पुष्पैरभ्यर्च्य सत्कृतम्॥ तयोर्मध्ये तु सुप्रीतो निदधौ सुसमाहितः। ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम्॥ सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ। ततः सुप्रीतमनसौ ताबुभौ हरिराघवौ॥ अन्योन्यमभिवीक्षन्तौ न तृप्तिमभिजग्मतुः। त्वं वयस्योऽसि हृद्यो मे ह्येकं दुःखं सुखं च नौ।।१७। सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत्। ततः सुपर्णबहुला भङ्क्त्वा शाखां सुपुष्पिताम्॥ सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः। लक्ष्मणायाथ संहृष्टो हनुमान् मारुतात्मजः॥ शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम्। ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा॥ प्रत्युवाच तदा रामं हर्षव्याकुललोचनः। अहं विनिकृतो राम चरामीह भयादितः॥ हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः। सोऽहं त्रस्तो वने भीतो वसाम्युभ्रान्तचेतनः॥ वालिना निकृतो भ्रात्रा कृतवैरश्च राघव। वालिनो मे महाभाग भयार्तस्याभयं कुरु॥ कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद् यथा। एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः॥ प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव। उपकारफलं मित्रं विदितं मे महाकपे॥ वालिनं तं वधिष्यामि तव भार्यापहारिणम्। अमोघाः सूर्यसंकाशा ममेमे निचिताः शराः॥ तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः। कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः॥ तीक्ष्णाग्रा ऋजुपर्वाणः सरोषा भुजगा इव। तमद्य वालिनं पश्य तीक्ष्णैराशीविषोपमैः॥ शरैर्विनिहतं भूमौ प्रकीर्णमिव पर्वतम्। स तु तद् वचनं श्रुत्वा राघवस्यात्मनो हितम्। सुग्रीवः परमप्रीतः परमं वाक्यमब्रवीत्॥ तव प्रसादेन नृसिंह वीर प्रियां च राज्यं च समाप्नुयामहम्। तथा कुरु त्वं नरदेव वैरिणं यथा न हिंस्यात् स पुनर्ममाग्रजम् ॥ सीताकपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि। सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति॥ अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः। आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम्॥ विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम्। आपृष्दैव जगामाशु राजा दशरथः पुरीम्॥ अथ राजा विदेहानां ददौ कन्याधनं बहु। गवां शतसहस्राणि बहूनि मिथिलेश्वरः॥ कम्बलानां च मुख्यानां क्षौमान् कोट्यम्बराणि च। हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम्॥ ददौ कन्याशतं तासां दासीदासमनुत्तमम्। हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ॥ ददौ राजा सुसंहृष्टः कन्याधनमनुत्तमम्। दत्त्वा बहुविधं राजा समनुज्ञाप्य पार्थिवम्॥ प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः। राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः॥ ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः। गच्छन्तं तु नरव्याघ्र सर्षिसङ्घ सराघवम्॥ घोरास्तु पक्षिणो वाचो व्याहरन्ति समन्ततः। भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम्॥ तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत। असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः॥ किमिदं हृदयोत्कम्पि मनो मम विषीदति। राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः॥ उवाच मधुरां वाणी श्रूयतामस्य यत् फलम्। उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम्॥ मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम्। तेषां: संवदतां तत्र वायुः प्रादुर्बभूव ह॥ कम्पयन् मेदिनी सर्वां पातयंश्च महादुमान्। तमसा संवृतः सूर्यः सर्वे नावेदिषुर्दिशः॥ भस्मना चावृतं सर्वं सम्मूढमिव तद्बलम्। वसिष्ठ ऋषयश्चान्ये राजा च ससुतस्तदा॥ ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम्। तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः॥ ददर्श भीमसंकाशं जटामण्डलधारिणम्। भार्गवं जामदग्न्येयं राजा राजविमर्दनम्॥ कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम्। ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः॥ स्कन्धे चासज्ज्य परशुं धनुर्विद्युद्गणोपमम्। प्रगृह्य शरमुग्रं च त्रिपुरघ्नं यथा शिवम् ॥ तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम्। वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः॥ संगता मुनयः सर्वे संजजल्पुरथो मिथः। कच्चित् पितृवधामर्षी क्षत्रं नोत्सादयिष्यति॥ पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः। क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम्॥ एवमुक्त्वाय॑मादाय भार्गवं भीमदर्शनम्। ऋषयो रामरामेति मधुरं वाक्यमब्रुवन्॥ प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान्। रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत॥ निविष्टायां तु सेनायामुत्सुको भरतस्ततः। जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन्॥ ऋषि वसिष्ठं संदिश्य मातृमें शीघ्रमानय। इति त्वरितमग्रे स जगाम गुरुवत्सलः॥ सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत। रामदर्शनजस्तों भरतस्येव तस्य च॥ गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्। भ्रातुः पर्णकुटी श्रीमानुटजं च ददर्श ह॥ शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा। काष्ठानि चावभग्नानि पुष्पाण्यपचितानि च॥ स लक्ष्मणस्य रामस्य ददर्शाश्रममीयुषः। कृतं वृक्षेष्वभिज्ञानं कुशचीरैः क्वचित् क्वचित्॥ ददर्श भवने तस्मिन् महतः संचयान् कृतान्। मृगाणां महिषाणां च करीषैः शीतकारणात्।।७ गच्छन्नेव महाबाहुर्युतिमान् भरतस्तदा। शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः॥ मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्। नातिदूरे हि मन्येऽहं नदी मन्दाकिनीमितः॥ उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्। अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता॥ इतश्चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्। शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम्॥ यमेवाधातुमिच्छन्ति तापसाः सततं वने। तस्यासौ दृश्यते धूमः संकुलः कृष्णवर्त्मनः॥ अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम्। आर्य द्रक्ष्यामि संहृष्टं महर्षिमिव राघवम्॥ अथ गत्वा मुहूर्त तु चित्रकूटं स राघवः। मन्दाकिनीमनु प्राप्तस्तं जनं चेदमब्रवीत्॥ जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः। जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम्॥ मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः। सर्वान् कामान् परित्यज्य वने वसति राघवः॥ इति लोकसमानुष्टः पादेष्वद्य प्रसादयन्। रामं तस्य पतिष्यामि सीताया लक्ष्मणस्य च ॥ एवं स विलपंस्तस्मिन् वने दशरथात्मजः। ददर्श महतीं पुण्यां पर्णशालां मनोरमाम्॥ सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्। विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे॥ शक्रायुधनिकाशैश्च कार्मुकै रसाधनैः। रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः॥ अर्करश्मिप्रतीकाशैोरैस्तूणगतैः शरैः। शोभितां दीप्तवदनैः सर्भोगवतीमिव॥ महारजतवासोभ्यामसिभ्यां च विराजिताम्। रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम्॥ गोधाङ्गलिौरासक्तैश्चित्रकाञ्चनभूषितैः। अरिसंधैरनाधृष्यां मृगैः सिंहगुहामिव ॥ प्रागुदकप्रवणां वेदिं विशालां दीप्तपावकाम्। ददर्श भरतस्तत्र पुण्यां रामनिवेशने॥ निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम्। उटजे राममासीनं जटामण्डलधारिणम्॥ कृष्णाजिनधरं तं तु चीरवल्कलवाससम्। ददर्श राममासीनमभितः पावकोपमम्॥ सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्। पृथिव्याः सागरान्ताया भर्तारं धर्मचारिणम्॥ उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्। स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च॥ तं दृष्ट्वा भरतः श्रीमान्शोकमोहपरिप्लुतः। अभ्यधावत धर्मात्मा भरतः केकयीसुतः॥ दृष्ट्वैव विललापा” बाष्पसंदिग्धया गिरा। अशक्नुवन् वारयितुं धैर्याद् वचनमब्रुवन् ॥ यः संसदि प्रकृतिभिर्भवेद् युक्त उपासितुम्। वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः॥ वासोभिर्बहुसाहौर्यो महात्मा पुरोचितः। मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन्॥ अधारयद् यो विविधाश्चित्राः सुमनसः सदा। सोऽयं जटाभारमिमं सहते राघपः कथम्॥ यस्य यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य संचयः। शरीरक्लेशसम्भूतं स धर्म परिमार्गते॥ चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्। मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते॥ मनिमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः। धिग्जीवितं नृशंसस्य मम लोकविगर्हितम्॥ इत्येवं विलपन दीनः प्रस्विनमुखपङ्कजः। पादावप्राप्य रामस्य पपात भरतो रुदन्॥ दुःखाभितप्तो भरतो राजपुत्रो महाबलः। उक्त्वाऽऽर्येति सकृद्दीनं पुनर्नोवाच किंचन॥ बाष्पैः पिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम्। आर्येत्येवाभिसंक्रुश्य व्याहतु नाशकत् ततः॥ शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्। तावुभौ च समालिङ्गय रामोऽप्यश्रूण्यवर्तयत्॥ ततः सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये। दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम्।। तान् पार्थिवान् वारणयूथपार्हान् समागतांस्तत्र महत्यरण्ये। वनौकसस्तेऽभिसमीक्ष्य सर्वे त्वश्रूण्यमुञ्चन् प्रविहाय हर्षम्॥ स जित्वा धनदं राम भ्रातरं राक्षसाधिपः। महासेनप्रसूतिं तद्ययौ शरवणं महत्॥ अथापश्यद्दशग्रीवो रौक्मं शरवणं महत्। गभस्तिजालसंवीतं द्वितीयमिव भास्करम्॥ स पर्वतं समारुह्य कंचिद्रम्यवनान्तरम्। प्रेक्षते पुष्पकं तत्र रामविष्टम्भितं तदा॥ विष्टब्धं किमिदं कस्मानागमत्कामगं कृतम्। अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः॥ किनिमित्तमिच्छया मे नेदं गच्छति पुष्पकम्। पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत्॥ ततोऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः। नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति॥ अथ वा पुष्पकमिदं धनदानान्यवाहनम्। अतो निस्पन्दमभवद्धनाध्यक्षविनाकृतम्॥ इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः। वामनो विकटो मुण्डी नन्दी हस्वभुजो बली॥ ततः पार्श्वमुपागभ्य भवस्यानुचरोऽब्रवीत्। नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः॥ निवर्तस्व दशग्रीव शैले क्रीडति शंकरः। सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम्॥ सर्वेषामेव भूतानामगम्यः पर्वतः कृतः। इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः॥ रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः। कोऽयं शंकर इत्युक्त्वा शैलमूलमुपागतः॥ सोऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम्। दीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम्॥ तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः। प्रहासं मुमुचे तत्र सतोय इव तोयदः॥ तं कुद्धो भगवानन्दी शंकरस्यापरा तनुः। अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम्॥ यस्माद्वानररूपं मामवज्ञाय दशानन। अशनीपातसंकाशमपहासं प्रमुक्तवान्॥ तस्मान्मवीर्यसंयुक्ता मद्रूपसमतेजसः। उत्पत्स्यन्ति वधार्थ हि कुलस्य तव वानराः॥ नखदंष्ट्रायुधाः क्रूर मन:संपातरंहसः। युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः॥ ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम्। व्यपनेष्यन्ति संभूय सहामात्यमुतस्य च॥ किं त्विदानी मया शक्यं हन्तुं त्वां हे निशाचर। न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः॥ इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि। देवदुन्दुभ्यो नेदुः पुष्पवृष्टिश्च खाच्च्युता॥ अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः। पर्वतं तु समासाद्य वाक्यमाह दशाननः॥ पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः। तमिमं शैलमुन्मूलं करोमि तव गोपते॥ केन प्रभावेण भवा नित्यं क्रीडति राजवत्। विज्ञातव्यं न जानीते भयस्थानमुपस्थितम्॥ एवमुक्त्वा तं राम भुजान्विक्षिप्य पर्वते। तोलयामास तं शीघ्रं स शैलं समकम्पत॥ चा नात्पर्ततस्यैव राणा देवस्य कम्पिताः। चचाल पार्वती चापि तदाश्लिष्टा महेश्वरम्॥ ततो राम महादवो देवानां प्रवरो हरः। पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया॥ पीडितास्तु ततस्तस्य शैलस्तम्भोपमा भुजाः। विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः॥ रक्षसा तेन रोषाच्च भुजानां पीडनात्तथा। मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम्।।२९ मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये। तदा वर्त्मसु चलिता देवा इन्द्रपुरोगमाः॥ समुद्राश्चापि संक्षुब्धाश्चलिताश्चापि पर्वताः। यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन्।।३१ तोषयस्व महादेवं नीलकण्ठमुमापतिम्। तमृते शरणं नान्यं पश्यामोऽत्र दशानन॥ स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज। कृपालुः शंकरस्तुष्टः प्रसादं ते विधास्यति ॥ एवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् । समाभिर्विविधैः स्तोत्रैः प्रणभ्य स दशाननः। संवत्सरसहस्रं तु रुदतो रक्षसो गतम्॥ ततः प्रीतो महादेवः शैलाने विष्ठितं प्रभुः। मुक्त्वा चास्य भुजाराम प्राह वाक्यं दशाननम्॥ प्रीतोऽस्मि तव वीरस्य शौटीर्याच्च दशानन। शैलाक्रान्तेन यो मुक्तस्त्वयारावः सुदारुणः॥ यस्माल्लोकत्रयं चैतद्रावितं भयमागतम्। तस्मात्त्वं रावणो नाम नाम्ना राजन्भविष्यसि ॥ देवता मानुषा यक्षा ये चान्ये जगतीतले। एवं त्वामभिधास्यन्ति रावणं लोकरावणम्॥ गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि। मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम्॥ एवमुक्तस्तु लङ्केशः : शंभुना स्वयमब्रवीत्। प्रीतो यदि महादेव वरं मे देहि याचतः॥ अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः। राक्षसैर्गुह्यकै गैर्ये चान्ये बलवत्तराः॥ मानुषान गणे देव स्वल्पास्ते मम संमताः। दीर्घमायुश्च में प्राप्तं ब्रह्मणस्त्रिपुरान्तक। वाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे॥ एवमुक्तस्ततस्तेन रावणेन स शंकरः। ददौ खङ्गं महादीप्तं चन्द्रहासमिति श्रुतम्। आयुषश्चावशषं च ददौ भूतपतिस्तदा॥ दत्त्वोवाच ततः शंभु वज्ञेयमिदं त्वया। अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः॥ एवं महेश्वेणैव कृतनामा स रावणः। अभिवाद्य महादेवमारुरोहाथ पुष्पकम्॥ ततो महीतलं राम पर्यक्रामत रावणः। क्षत्रियान्सुमहावीर्यान्बाधमानस्ततस्ततः॥ केचित्तेजस्विनः शूराः क्षत्रिया युद्धदुर्मदाः। तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः॥ अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसंमताः। जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम्॥ ते दूता रामवाक्येन चोदिता लघुविक्रमाः। प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि॥ ततस्त्रिभिरहोरात्रैः संप्राप्य मथुरामथ। शत्रुघ्नाय यथातत्त्वमाचख्युः सर्व एव तत्॥ लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च। पुत्रयोरभिषेकं च पौरानुगमनं तथा।। कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि। कुशावतीति नाम्ना सा कृता रामेण धीमता॥ श्रावस्तीति पुरी रम्या श्राविता च लवस्य ह। अयोध्या विजनां कृत्वा राघवो भरतस्तथा॥ स्वर्गस्य समनोद्योगं कृतवन्तौ महारथौ। एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने॥ विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन्। तच्छ्रुत्वा घोरसंकाशं कुलक्षयमुपस्थितम्॥ प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम्। तेषां सर्वं यथावृत्तमब्रवीद्रघुनन्दनः।।।।। आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह। ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नराधिपः॥ सुबाहुर्मथुरां लेभे शत्रुघाती च वै दिशम्। द्विधा कृत्वा तु तां सेनां माधुरी पुत्रयोर्द्वयोः। धनं च युक्तं कृत्वा स्थापयामास पार्थिवः॥ सुबाहुं मधुरायां च वैदिशे शत्रुघातिनम्। ययौ स्थाप्य तदायोध्यां रथेनैकेन राघवः॥ वै स ददर्श महात्मानं ज्वलन्तमिव पावकम्। सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः॥ सोऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः। उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन्॥ कृत्वाविषेकं सुतयोर्द्वयो राघवनन्दन। तवानुगमने राजन्विद्धिमां कृतनिश्चयम्॥ न चान्यदद्य वक्तव्यमतो वीर न शासनम्। विहन्यमानमिच्छामि मद्विधेन विशेषतः॥ तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः। बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह॥ तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः। ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः॥ सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः। तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम्॥ देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा। रामक्षयं विदित्वा ते सर्व एव समागताः॥ तवानुगमने राजन्संप्राप्ताः स्म समागताः। यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोचम॥ यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः। एतस्मिन्नन्तरे रामं सुग्रीवोऽपि महाबलः। प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः।२१॥ अभिषिच्याङ्गदं वीरमागतोऽस्मि नरेश्वर। तवानुगमने राजन्विद्धिमां कृतनिश्चयम्॥ तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत्स्मयन्। बिभीषणमथोवाच राक्षसेन्द्रं महायशाः॥ यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण। राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि॥ यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी। यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह।।२५ शासितश्च सखित्वेन कार्य ते मम शासनम्। प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि॥ किंचान्यद्वक्तुमिच्छामि राक्षसेन्द्र महाबल। आराधय जगत्राथमिक्ष्वाकुकुलदैवतम्॥ आराधनीयमनिशं देवेरपि सवासवैः। तथेति प्रतिजग्राह रामवाक्यं बिभीषणः। राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन्।२८॥ तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत्। जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां वृथा कृथाः।।२९ मत्कथाः पर्चरिष्यन्ति यावल्लोके हरीश्वर। तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन्।३०॥ एवमुक्तस्तु हनुमानराघवेण महात्मना। वाक्यं विज्ञापयामास परं हर्षमवाप च।३१॥ यावत्तव कथा लोके विचरिष्यति पावनी। तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन्॥ यावत्कलिश्च संप्राप्तस्तावज्जीवत सर्वदा॥ जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तदा। मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह। तदेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान्। उवाच बाढं गच्छध्वं मया साधं यथोदितम्॥ कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा। भरतं केकयीपुत्रमातिथ्येन न्यमन्त्रयत्॥ अब्रवीद् भरतस्त्वेनं नन्विदं भवता कृतम्। पाद्यमय॑मथातिथ्यं वने यदुपपद्यते॥ अथोवाच भरद्वाजो भरतं प्रहसन्निव। जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित्॥ सेनायास्तु तवैवास्याः कर्तुमिच्छामि भोजनम्। मम प्रीतियथारूपा त्वमर्हो मनुजर्षभ॥ किमर्थं चापि निक्षिप्य दूरे बलमिहागतः। कस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभ॥ भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम्। न सैन्येनोपयातोऽस्मि भगवन् भगवद्भयात्॥ राज्ञा हि भगवन् नित्यं राजपुत्रेण वा तथा। यत्नतः परिहर्तव्या विषयेषु तपस्विनः॥ वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः। प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम्॥ ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा। न हिंस्युरिति तेनाहमेक एवागतस्ततः॥ आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा। तथानुचक्रे भरतः सेनायाः समुपागमम्॥ अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च। आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत्॥ आह्वये विश्वकर्माणमहं त्वष्टारमेव च। आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम्॥ आह्वयेलोकपालांस्त्रीन् देवाशक्रपुरोगमान्। आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम्॥ प्राक्स्रोतसश्च या नद्यस्तिर्यक्स्रोतस एव च। पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः॥ अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम्। अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम्॥ आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून्। तथैवाप्सरसो देवगन्धर्वैश्चापि सर्वशः॥ घृताचीमथ विश्वाची मिश्रकेशीमलम्बुषाम्। नागदत्तां च हेमां च सोमामद्रिकृतस्थलीम्॥ शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च भामिनीः। सर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः॥ वनं कुरुषु यद् दिव्यं वासोभूषणपत्रवत्। दिव्यनारीफलं शश्वत् तत्कौबेरमिहैव तु॥ इह भगवान् सोमो विधत्तामन्नमुत्तमम्। भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु॥ विचित्राणि च माल्यानि पादपप्रच्युतानि च। सुरादीनि च पेयानि मांसानि विविधानि च।॥ एवं समाधिना युक्तस्तेजसाप्रतिमेन च। शिक्षास्वरसमायुक्तं सुव्रतश्चाब्रवीन्मुनिः॥ मनसा ध्यायतस्तस्य प्रामुखस्य कृताञ्जलेः। आजग्मुस्तानि सर्वाणि दैवतानि पृथक् पृथक् ॥ मे मलयं दर्दुरं चैव ततः स्वेदनुदोऽनिलः। उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखं शिवः॥ ततोऽभ्यवर्षन्त घना दिव्याः कुसुमवृष्टयः। देवदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे॥ प्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः। प्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥ स शब्दो द्यां च भूमी च प्राणिनां श्रवणानि च। विवेशोच्चावचः श्लक्ष्णः समो लयगुणान्वितः॥ तस्मिन्नेवंगते शब्दे दिव्ये श्रोत्रसुखे नृणाम्। ददर्श भारतं सैन्यं विधानं विश्वकर्मणः॥ बभूव हि समा भूमिः समन्तात् पञ्चयोजनम्। शाद्वलैर्बहुभिश्छन्ना नीलवैदूर्यसंनिभैः॥ तस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः। आमलक्यो बभूवुश्च चूताश्च फलभूषिताः॥ उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत्। आजगाम नदी सौम्या तीरजैर्बहुभिर्वृता॥ चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम्। हर्म्यप्रासादसंयुक्ततोरणानि शुभानि च॥ सितमेघनिभं चापि राजवेश्म सुतोरणम्। शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम्॥ चतुरस्रमसम्बाधं शयनासनयानवत्। दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत्॥ उपकल्पितसर्वान्नं धौतनिर्मलभाजनम्। क्लृप्तसर्वासनं श्रीमत्स्वास्तीर्णशयनोत्तमम्॥ प्रविवेश महाबाहुरनुज्ञातो महर्षिणा। वेश्म तद् रत्नसम्पूर्ण भरतः कैकयीसुतः॥ अनुजग्मुश्च ते सर्वे मन्त्रिणः सपुरोहिताः। बभूवुश्च मुदा युक्तास्तं दृष्ट्वा वेश्मसंविधिम्॥ तत्र राजासनं दिव्यं व्यजनं छत्रमेव च। भरतो मन्त्रिभिः सार्धमभ्यवर्तत राजवत्॥ आसनं पूजयामास रामायाभिप्रणम्य च। वालव्यजनमादाय न्यषीदत् सचिवासने॥ आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिताः। ततः सेनापतिः पश्चात् प्रशास्ता च न्यषीदत॥ ततस्तत्र मुहूर्तेन नद्यः पायसकर्दमाः। उपातिष्ठन्त भरतं भरद्वाजस्य शासनात्॥ आसामुभयतः कूलं पाण्डुमृत्तिकलेपनाः। रम्याश्चावसथा दिव्या ब्राह्मणस्य प्रसादजाः॥ तेनैव च मुहूर्तेन दिव्याभरणभूषिताः। आगुर्विंशतिसाहस्रा ब्राह्मणा प्रहिताः स्त्रियः।॥ सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः। आगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः॥ याभिर्गृहीतः पुरुषः सोन्माद इव लक्ष्यते। आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः॥ नारदस्तुम्बुरुर्गोपः प्रभया सूर्यवर्चसः। एते गन्धर्वराजानो भरतस्याग्रतो जगुः॥ अलम्बुषा मिश्रकेशी पुण्डरीकाथ वामना। उपानृत्यन्त भरतं भरद्वाजस्य शासनात्॥ यानि माल्यानि देवेषु यानि चैत्ररथे वने। प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा॥ बिल्वा मार्दङ्गिका आसन् शम्याग्राहा बिभीतकाः। अश्वत्था नर्तकाश्चासन् भरद्वाजस्य तेजसा॥ ततः सरलतालाश्च तिलकाः सतमालकाः। प्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाथ. वामनाः॥ शिंशपामलकी जम्बूर्याश्चान्याः कानने लताः। मालती मल्लिका जातियश्चान्याः कानने लताः। प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमेऽवसन्॥ सुरां सुरापाः पिबत पायसं च बुभुक्षिताः। मांसानि च सुमेध्यानि भक्ष्यन्तां यो यदिच्छति॥ उच्छोद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु । अप्येकमेकं पुरुषं प्रमदाः सप्त चाष्ट च॥ संवाहन्त्यः समापेतुर्नार्यो विपुललोचनाः। परिमृज्य तदान्योन्यं पाययन्ति वराङ्गनाः॥ हयान् गजान् खरानुष्ट्रांस्तथैव सुरभेः सुतान्। अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि॥ इखूश्च मधुलाजांश्च भोजयन्ति स्म वाहनान्। इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः॥ नाश्वबन्धोऽश्वमाजानान्न गजं कुञ्जरग्रहः। मत्तप्रमत्तमुदिता सा चमूस्तत्र सम्बभौ॥ तर्पिताः सर्वकामैश्च रक्तचन्दनरुषिताः। अप्सरोगणसंयुक्ताः सैन्या वाचमुदीरयन्॥ नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान्। कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम्॥ इति पादातयोधाश्च हस्त्यश्वारोहबन्धकाः। अनाथास्तं विधिं लब्ध्वा वाचमेतामुदीरयन्॥ सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः। भरतस्यानुयातारः स्वर्गोऽयमिति चाब्रुवन्॥ नृत्यन्तश्च हसन्तश्च गायन्तश्चैव सैनिकाः। समन्तात् परिधावन्तो माल्योपेताः सहस्रशः॥ ततो भुक्तवतां तेषां तदन्नममृतोपमम्। दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद् भक्षणे मतिः॥ प्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्चापि सर्वशः। बभूवुस्ते भृशं प्रीताः सर्वे चाहतवाससः॥ कुञ्जराश्च खगोष्ट्राश्च गोऽश्वाश्च मृगपक्षिणः। बभूवुः सुभृतास्तत्र नातो ह्यन्यमकल्पयम्॥ नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनोऽपि वा। रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत॥ आजैश्चापि,च वाराहैर्निष्ठानवरसंचयैः। फलनिषूहसंसिद्धैः सूपैर्गन्धरसान्वितैः॥ पुष्पध्वजवतीः पूर्णाः शुक्लस्यानस्य चाभितः। ददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः॥ बभूवुर्वनपार्वेषु कूपाः पायसकर्दमाः। ताश्च कामदुधा गावो दुमाश्चासन् मधुच्युतः॥ वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः। प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः॥ पात्रीणां च सहस्राणि स्थालीनां नियुतानि च। न्यर्बुदानि च पात्राणि शातकुम्भमयानि च।७१।। स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः। यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः॥ ह्रदाः पूर्णा रसालस्य दनः श्वेतस्य चापरे। बभूवुः पायसस्यान्ये शर्कराणां च संचयाः॥ कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च। ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः॥ शुक्लानंशुमतश्चापि दन्तधावनसंचयान्। शुक्लांश्चन्दनकल्कांश्च समुद्रेष्ववतिष्ठतः॥ दर्पणान् परिमृष्टांश्च वाससां चापि संचयान्। पादुकोपानहं चैव युग्मान्यत्र सहस्रशः॥ आञ्जनीः कङ्कतान् कूर्चाश्छत्राणि च धनूंषि च। मर्मत्राणानि चित्राणि शयनान्यासनानि च॥ प्रतिपानह्वदान् पूर्णान् खरोष्ट्रगजवाजिनाम्। अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान्। आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखाप्लवान्॥ नीलवैदूर्यवर्णाश्च मृदून् यवससंचयान्। निर्वापार्थं पशूनां ते ददृशुस्तत्र सर्वशः।७९ ।। 'व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम्। दृष्ट्वाऽतिथ्यं कृतं तादृग् भरतस्य महर्षिणा॥ इत्येवं रममाणानां देवानामिव नन्दने। भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत ॥ प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम्। भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः॥ स्तथैव दिव्यागुरुचन्दनोक्षिताः। तथैव दिव्या विविधाः स्रगुत्तमाः पृथग्विकीर्णा मनुजैः प्रमर्दिताः॥ स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम्। भ्रातृ॑श्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान्॥ पितृव्यौ चापि संदृश्य समरे संनिपातितौ। युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसोत्तमौ।२।। चुकोप च महातेजा ब्रह्मदत्तवरो युधि। अतिकायोऽद्रिसंकाशो देवदानवदर्पहा॥ स भास्करसहस्रस्य संघातमिव भास्वरम्। रथमारुह्य शक्रारिरभिदुद्राव वानरान्॥ स विस्फार्य तदा चापं किरीटी मृष्टकुण्डलः। नाम संश्रावयामास ननाद च महास्वनम्॥ तेन सिंहप्रणादेन नामविश्रावणेन च। ज्याशब्देन च भीमेन त्रासयामास वानरान्।६॥ ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्मोऽयमुत्थितः। भयार्ता वानराः सर्वे संश्रयन्ते परस्परम्॥ ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे। भयाद्वानरयोधास्ते विद्रवन्ति ततस्ततः।।।।। तेऽतिकार्य समासाद्य वानरा मूढचेतसः। शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे॥ ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम्। ददर्श धन्विनं दूरागर्जन्तं कालमेघवत्॥ स तं दृष्ट्वा महाकायं राघवस्तु सुविस्मितः। वानरान्सान्त्वयित्वा च विभीषणमुवाच ह।॥ कोऽसौ पर्वतसंकाशो धनुष्मान्हरिलोचनः। युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः॥ य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः। अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः॥ कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते। आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः॥ धनूंषि चास्य सज्जानि हेमपृष्ठानि सर्वशः। शोभयन्ति रथश्रेष्ठं शक्रचापमिवाम्बरम्॥ य एष रक्षःशार्दूलो रणभूमिं विराजयत्। अभ्येति रथिनां श्रेष्ठो रथेनादित्यवर्चसा॥ ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते। सूर्यरश्मिप्रभैर्बाणर्दिशो दश विराजयन्॥ त्रिनतं मेघनिदिं हेमपृष्ठमलंकृतम्। शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते॥ सध्वजः सपताकश्च सानुकर्षों महारथः। चतुःसादिसमायुक्तो मेघस्तनितनिःस्वनः॥ विंशतिर्दश चाष्टौ च तूणास्य रथमास्थिताः। कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः॥ द्वौ च खङ्गौ च पार्श्वस्थौ प्रदीपौ पार्श्वशोभितौ। चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ॥ रक्तकण्ठगुणो धीरो महापर्वतसंनिभः। कालः कालमहावक्रो मेघस्थ इव भास्करः॥ काञ्चनाङ्गदनद्वाभ्यां भुजाभ्यामेष शोभने। शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान्पर्वतोत्तमः॥ कुण्डलाभ्यामुभाभ्यां च भाति वक्रं सुभीषणम्। पुनर्वस्वन्तरगतः परिपूर्णो निशाकरः॥ आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम्। यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः॥ स पृष्टो राजपुत्रेण रामेणामिततेजसा। आचचक्षे महातेजा राघवाय विभीषणः॥ दशग्रीवो महातेजा राजा वैश्रवणानुजः। भीमकर्मा महात्मा हि रावणो राक्षसेश्वरः॥ तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो बले। वृद्धसेवी श्रुतिधरः सर्वस्त्रविदुषां वरः॥ अश्वपृष्ठे नागपृष्ठे खड्ने धनुषि कर्षणे। भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः॥ यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया। तनयं धान्यमालिन्या अतिकायमिमं विदुः॥ एतेनाराधितो ब्रह्मा तपसा भावितात्मना। अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः॥ सुरासुरैरवध्यत्वं दत्तमस्मै स्वयंभुवा। एतच्च कवचं दिव्यं रथश्च रविभास्वरः॥ एतेन शतशो देवा दानवाश्च पराजिताः। रक्षितानि च रक्षांसि यक्षाश्चापि निषूदिताः॥ वजं विष्टम्भितं येन बाणैरिन्द्रस्य धीमता। पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा ॥ एषोऽतिकायो बलवान्राक्षसानामथर्षभः। स रावणसुतो धीमान्देवदानवदर्पहा॥ तदस्मिन्क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव। पुरा वानरसैन्यानि क्षयं नयति सायकैः॥ ततोऽतिकायो बलवान्प्रविश्य हरिवाहिनीम्। विस्फारयामास धनुर्ननाद च पुनः पुनः॥ तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम्। अभिपेतुर्महात्मानः प्रधाना ये वनौकसः॥ कुमुदो द्विविदो मैन्दो नीलः शरभ एव च। पादपैर्गिरिशृङ्गैश्च युगपत्समभिद्रवन्॥ तेषां वृक्षांश्च शैलांश्च शरैः कनकभूषणैः। अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः।४।। तांश्चैव सर्वान्स हरीशरैः सर्वायसैबली। विव्याधाभिमुखान्संख्ये भीमकायो विशारदः॥ तेऽर्दिता बाणवर्षेण भिन्नगात्राः पराजिताः। न शेकुरतिकायस्य प्रतिकतुं महाहवे।॥ तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः। मृगयूथमिव क्रुद्धो हरियौवनदर्पितः।॥ स राक्षसेन्द्रो हरियूथमध्ये नायुध्यमानं निजघान कंचित्। उत्पत्य रामं च धनु:कलापी सगर्वितं वाक्यमिदं बभाषे॥ नप्राकृतं कंचन योधयामि। यस्यास्ति शक्तिर्व्यवसाययुक्तो ददातु मे शीघ्रमिहाद्य युद्धम्॥ तत्तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता। अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा ॥ क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम्। पुरस्तादतिकायस्य विचकर्ष महद्धनुः॥ पूरयन्स महीं सर्वामाकाशं सागरं दिशः। ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन्रजनीचरान्॥ सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा। विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली॥ तदातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम्। आदाय निशितं बाणमिदं वचनमब्रवीत्॥ बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः। गच्छ किं कालसंकाशं मां योधयितुमिच्छसि॥ नहि मद्बाहुसृष्टानां बाणानां हिमवानपि। सोढुमुत्सहते वेगमन्तरिक्षमथो मही॥ सुखप्रसुप्तं कालाग्नि विबोधयितुमिच्छसि। न्यस्य चापं निवर्तस्व प्राणान्न जहिमद्गतः॥ अथवा त्वं प्रतिस्तब्धो न निवर्तितुमिच्छसि। तिष्ठ प्राणान्परित्यज्य गमिष्यसि यमक्षयम्॥ पश्य मे निशितान्बाणानिरपुदर्पनिषूदनान्। ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान्। ५५ ।। एष ते सर्पसंकाशो बाणः पास्यति शोणितम्। मृगराज इव क्रुद्धो नागराजस्य शोणितम्। इत्येवमुक्त्वा संक्रुद्धः शरं धनुषि संदधे॥ श्रुत्वातिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः। स संचुकोपातिबलो मनस्वी उवाच वाक्यं च ततो बृहच्छ्रीः॥ न वाक्यमात्रेण भवान्प्रधानो न कत्थनात्सत्पुरुषा भवन्ति। मयि स्थिते धन्विनि बाणपाणौ निदर्शयस्वात्मबलं दुरात्मन्॥ कर्मणा सूचयात्मानं न विकस्थितुमर्हसि । पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः। ५९।। सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः। शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम्॥ ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः। मारुतः कालसंयुक्तं वृन्तात्तालफलं यथा॥ अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः। पास्यन्ति रुधिरं गात्राबाणशल्यान्तरोत्थितम्॥ बालोऽयमिति विज्ञाय न चावज्ञातुमर्हसि। बालो वा यदि वा वृद्धो मृत्यु जानीहि संयुगे॥ बालेन विष्णुना लोकास्त्रयः क्रान्तास्त्रिविक्रमैः। लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत्।। अतिकायः प्रचुक्रोध बाणं चोत्तममाददे॥ ततो विद्याधरा भूता देवदैत्या महर्षयः। गुह्यकाश्च महात्मानस्तद्युद्धं ददृशुस्तदा॥ ततोऽतिकायः कुपितश्चापमारोप्य सायकम्। लक्ष्मणाय प्रचिक्षेप संक्षिपन्निव चाम्बरम्॥ तमापतन्तं निशितं शरमाशीविषोपमम्। अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा॥ तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम्। अतिकायो भृशं क्रुद्धः पञ्च बाणान्समादधे॥ ताशरान्संप्रचिक्षेप लक्ष्मणाय निशाचरः। तानप्राप्ताशितैर्बाणैश्चिच्छेद भरतानुजः॥ स ताञ्छित्त्वा शितैर्बाणैर्लक्ष्मणः परवीरहा। आददे निशितं बाणं ज्वलन्तमिव तेजसा ॥ तमादाय धनुःश्रेष्ठे योजयामास लक्ष्मणः। विचकर्ष च वेगेन विससर्ज च सायकम्॥ पूर्णायतविसृष्टेन शरेण नतपर्वणा। ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान्।७२।। स ललाटे शरो मग्नतस्य भीमस्य रक्षसः। ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाचले।७३।। राक्षसः प्रचकम्पेऽथ लक्ष्मणेषुप्रपीडितः। रुद्रबाणहतं घोरं यथा त्रिपुरगोपुरम्।। चिन्तयामास चाश्वस्य विमृश्य च महाबलः।७४।। साधु बाणनिपातेन श्लाघनीयोऽसि मे रिपुः। विधायैवं विदार्यास्यं विनम्य च महाभुजौ। स रथोपस्थमास्थाय रथेन प्रचचार ह!७५ ।। एकं त्रीपञ्च सप्तति सायकान्राक्षसर्षभः। आददे संदधे चापि विचकर्षोत्ससर्ज च।७६ ।। ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश्च्युताः। हेमपुङ्खा रविप्रख्याश्चर्दीप्तमिवाम्बरम्॥ ततस्ताराक्षसोत्सृष्टाशरौघानराघवानुजः। असंभ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः॥ ताशरान्युधि संप्रेक्ष्य निकृत्तान्रावणात्मजः। चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम्॥ स संधाय महातेजास्तं बाणं सहसोत्सृजत्। तेन सौमित्रिमायान्तमाजघान स्तनान्तरे॥ अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि। सुस्राव रुधिरं तीव्र मदं मत्त इव द्विपः॥ स चकार तदात्मानं विशल्यं सहसा विभुः। जग्राह च शरं तीक्ष्णमस्त्रेणापि समाददे।८।। आग्नेयेन तदात्रेण योजयामास सायकम्। स जज्वाल तदा बाणो धनुश्चास्य तदात्मनः॥ अतिकायोऽतितेजस्वी रौद्रमलं समाददे। तेन बाणं भुजंगाभं हेमपुखमयोजयत्॥ तदलं ज्वलितं घोरं लक्ष्मणः शरमाहितम्। अतिकायाय चिक्षेप कालदण्डमिवान्तकः॥ आग्नेयास्त्राभिसंयुक्तं दृष्ट्वा बाणं निशाचरः। उत्ससर्ज तदा बाणं रौद्रं सूर्यास्त्रयोजितम्॥ तावुभावम्बरे बाणावन्योन्यमभिजन्नतुः। तेजसा संप्रदीप्ताग्रो कुद्धाविव भुंजगमौ।। तावन्योन्य विनिर्दह्य पेततुः पृथिवीतले॥ निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ। तावुभौ दीप्यमानौ स्म न भ्राजेते महीतले॥ ततोऽतिकायः संक्रुद्धस्त्वाष्ट्रमैषीकमुत्सृजत्। ततश्चिच्छेद सौमित्रिरस्त्रमैन्द्रेण वीर्यवान्।॥ ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः। याम्येनास्त्रेण संकुद्धो योजयामास सायकम्॥ ततस्तदत्रं चिक्षेप लक्ष्मणाय निशाचरः। वायव्येन तदत्रेण निजघान स लक्ष्मणः॥ अथैनं शरधाराभिर्धाराभिरिव तोयदः। अभ्यवर्षत संक्रुद्धो लक्ष्मणो रावणात्मजम्।१२।। तेऽतिकायं समासाद्य कवचे वज्रभूषिते। भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले।१३।। तान्मोघानभिसंप्रेक्ष्य लक्ष्मणः परवीरहा। अभ्यवर्षत बाणानां सहस्रेण महायशाः।१४।। स वृष्यमाणो बाणौधैरतिकायो महाबलः। अवध्यकवचः संख्ये राक्षसो नैव विव्यथे॥ न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः। अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह॥ ब्रह्मदत्तवरो ह्येष अवध्यकवचावृतः। ब्राह्मणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा।। अवध्य एष ह्यन्येषामस्त्राणां कवची बली॥ ततस्तु वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीर्यः। समादधे बाणमथोग्रवेगं तद्ब्राह्ममस्त्रं सहसा नियुज्य।१८॥ तस्मिन्वरास्त्रे तु नियुज्यमाने सौमित्रिणा बाणवरे शिताओ। दिशश्च चन्द्रार्कमहाग्रहाश्च नभश्च तत्रास ररास चोर्वी॥ तं ब्रह्मणोऽस्त्रेण नियुज्य चापे शरं सपुवं यमदूतकल्पम्। सौमित्रिरिन्द्रारिसुतस्य तस्य ससर्ज बाणं युधि वज्रकल्पम्॥ तं लक्ष्मणोत्सृष्टविवृद्धवेगं समापतन्तं श्वसनोग्रवेगम्। सुपर्णवज्रोत्तमचित्रपुङ्ख तदातिकायः समरे ददर्श॥ तं प्रेक्षमाणः सहसातिकायो जघान बाणैनिशितैरनेकैः। स्तथातिवेगेन जगाम पार्श्वम्॥ तमागतं प्रेक्ष्य तदातिकायो बाणं प्रदीप्तान्तककालकल्पम्। जघान शक्त्यष्टिगदाकुठारैः शूलैः शरश्चाप्यविपनचेष्टः॥ तान्यायुधान्यद्भुतविग्राहणि मोघानि कृत्वा स शरोऽग्निदीपः। प्रगृह्य तस्यैव किरीटजुष्टं तदातिकायस्य शिरो जहार॥ तच्छिरः सशिरस्त्राणां लक्ष्मणेषुप्रमर्दितम्। पपात सहसा भूमौ शृङ्ग हिमवतो यथा॥ तं भूमौ पतितं दृष्ट्वा विक्षिप्ताम्बरभूषणम्। बभूवुर्व्यथिताः सर्वे हतशेषा निशाचराः॥ ते विषण्णमुखा दीनाः प्रहारजनितश्रमाः। विनेदुरुच्चैर्बहवः सहसा विस्वरैः स्वरैः॥ ततस्तत्परितो याता निरपेक्षा निशाचराः। पुरीमभिमुखा भीता द्रवन्तो नायके हते॥ प्रहर्षयुक्ता बहवस्तु वानराः प्रफुल्लपद्मप्रतिमाननास्तदा। अपूजयल्लक्ष्मणमिष्टभागिनं हते रिपौ भीमबले दुरासदे॥ वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः। वर्धमानसमुत्साहः कार्यशेषमचिन्तयत्॥ किं नु खल्वशिष्टं मे कर्तव्यमिह साम्प्रतम्। यदेषां रक्षसां भूयः संतापजननं भवेत्॥ वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः। बलैकदेशः क्षपितः शेषं दुर्गविनाशनम्॥ दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम्। अल्पयत्नेन कार्येऽस्मिन् मम स्यात् सफलः श्रमः॥ यो ह्ययं मम लाङ्गुले दीप्यते हव्यवाहनः। अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः॥ ततः प्रदीप्तलाङ्गुलः सविद्युदिव तोयदः। भवनाग्रेषु लङ्काया विचचार महाकपिः॥ गृहाद् गृहं राक्षसानामुद्यानानि च वानरः। वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः॥ अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्। अग्नि तत्र विनिक्षिप्य श्वसनेन समो वली॥ ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्। मुमोच हनुमानग्नि कालानलशिखोपमम्॥ वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः। शुकस्य च महातेजाः सारणस्य च धीमतः॥ तथा चेन्द्रजितो वेश्म ददाह हरियूथपः। जम्बुमालेः सुमालेश्च ददाह भवनं ततः॥ रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च। ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः॥ युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः। विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च॥ करालस्य विशालस्य शोणिताक्षस्य चैव हि। कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि॥ नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः। यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च॥ वर्जयित्वा महातेजा विभीषणगृहं प्रति। क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः॥ तेषु तेषु महार्हेषु भवनेषु महायशाः। गृहेष्वृद्धिमतामृद्धिं ददाह कपिकुञ्जरः॥ सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान्। आससादाथ लक्ष्मीवान् रावणस्य निवेशनम्॥ ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते। मेरुमन्दरसंकाशे नानामङ्गलशोभिते ॥ प्रदीप्तमग्निमुत्सृज्य लाङ्गुलाग्रे प्रतिष्ठितम्। ननाद हनुमान् वीरो युगान्तजलदो यथा॥ श्वसनेन च संयोगादतिवेगो महाबलाः। कालाग्निरिव जज्वाल प्रावर्धत हुताशनः॥ प्रदीप्तमग्निं पवनस्तेषु वेश्मसु चारयन्। तानि काञ्चनजालानि मुक्तामणिमयानि च॥ भवनानि व्यशीर्यन्त रत्नवन्ति महान्ति च। तानि भग्नविमानानि निपेतुर्वसुधातले॥ भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये। संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम्॥ स्वे स्वे गृहपरित्राणे भग्नोत्साहोज्झितश्रियाम्। नूनमेषोऽग्निरायातः कपिरूपेण हा इति॥ क्रन्दन्त्यः सहसा पेतुः स्तनंधयधराः स्त्रियः। काश्चिदग्निपरीताङ्गयो हर्येभ्यो मुक्तमूर्धजाः॥ पतन्त्यो रेजिरेऽभ्रेभ्यः सौदामन्य इवाम्बरात्। वज्रविद्रुमवैदूर्यमुक्तारजतसंहतान्॥ विचित्रान् भवनाद्धातून्स्यन्दमानान् ददर्श सः। नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा॥ हनूमान् राक्षसेन्द्राणां वधे किंचिन्न तृप्यति। न हनूमद्विशस्तानां राक्षसानां वसुन्धरा ॥ हनूमता वेगवता वानरेण महात्मना। लङ्कापुरं प्रदग्धं तद् रुद्रेण त्रिपुरं यथा॥ ततः स लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः। प्रसार्य चूडावलयं प्रदीप्तो हनूमता वेगवतोपसृष्टः॥ युगान्तकालानलतुल्यरूपः समारुतोऽग्निर्ववृधे दिवस्पृक् । विधूमरश्मिर्भवनेषु सक्तो रक्षःशरीराज्यसमर्पितार्चिः॥ आदित्यकोटीसदृशः सुतेजा लङ्कां समस्तां परिवार्य तिष्ठन्। भिन्दन्निवाण्डं प्रबभौ महाग्निः॥ तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः। निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः॥ क्ज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद् यमो वा वरुणोऽनिलो वा। रौद्रोऽग्निरर्को धनदश्च सोमो न वानरोऽयं स्वयमेव कालः॥ किं ब्रह्मणः सर्वपितामहस्य लोकस्य धातुश्चतुराननस्य। इहागतो वानररूपधारी रक्षोपसंहारकरः प्रकोपः॥ किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः। अचिन्त्यमव्यक्तमनन्तमेकं स्वमायया साम्प्रतमागतं वा॥ इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे। सप्राणिसङ्घ सगृहां सवृक्षा दग्धां पुरी तां सहसा समीक्ष्य॥ ततस्तु लङ्कां सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा। सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम्॥ हा तात हा पुत्रक कान्त मित्र हा जीवितेशाङ्ग हतं सुपुण्यम्। रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः॥ हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा। हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का ॥ ससम्भ्रमं त्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम्। ददर्श लङ्कां हनुमान्महामनाः स्वयंभुरोषापहतामिवावनिम्।॥ भङ्कत्वा वनं पादपरत्नसंकुलं हत्वा तु रक्षांसि महान्ति संयुगे। दग्ध्वा पुरी तां गृहरत्नमालिनी तस्थौ हनूमान्पवनात्मजः कपिः।॥ स राक्षसांस्तान्सुबहूंश्च हत्वा वनं च भङ्क्त्वा बहुपादपं तत्। विसृज्य रक्षोभवनेषु चाग्नि जगाम रामं मनसा महात्मा॥ ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम्। महामतिं वायुसुतं वरिष्ठं प्रतुष्टवुर्देवगणाश्च सर्वे॥ देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरपन्नगाश्च। भूतानि सर्वाणि सहान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम्॥ भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे। दग्ध्वा लङ्कापुरीं भीमां रराज स महाकपिः॥ गृहार्यशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः। प्रदीप्तलाङ्गुलकृतार्चिमाली व्यराजतादित्य इवार्चिमाली॥ लङ्कां समस्तां सम्पीड्य लाङ्गुलाग्निं महाकपिः। निर्वापयामास तदा समुद्रे हरिपुङ्गवः॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः॥ परितुष्टस्तु सुग्रीवस्तेन वाक्येन हर्षितः। लक्ष्मणस्याग्रजं शूरमिदं वचनमब्रवीत्॥ सर्वथाहमनुग्राह्यो देवतानां न संशयः। उपपन्नो गुणोपेतः सखा यस्य भवान् मम॥ शक्यं खलु भवेद् राम सहायेन त्वयानघ। सुरराज्यमपि प्राप्तुं स्वराज्यं किमुत प्रभो॥ सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव। यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम्॥ अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः। न तु वक्तुं समर्थोऽहं त्वयि आत्मगतान् गुणान्॥ महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम्। निश्चला भवति प्रीतिधैर्यमात्मवतां वर॥ रजतं वा सुवर्णं वा शुभान्याभरणानि च। अविभक्तानि साधूनामवगच्छन्ति साधव :।७।। आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा। निर्दोषश्च सदोषश्च वयस्यः परमा गतिः॥ धनत्यागः सुखत्यागो देशत्यागोऽपि वाऽनघ। वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम्॥ तत् तथेत्यब्रवीद् रामः सुग्रीवं प्रियवादिनम्। लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः॥ ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम्। सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत्॥ स ददर्श ततः सालमविदूरे हरीश्वरः। सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम्॥ तस्यैकां पर्णबहुलां शाखां भङ्कत्वासुशोभिताम्। रामस्यास्तीर्य सुग्रीवो निषसाद सराघवः॥ तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम्। शालशाखां समुत्पाट्य विनीतमुपवेशयत्॥ सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा। सालपुष्पावसंकीर्णे तस्मिन् गिरिवरोत्तमे॥ ततः प्रहृष्टः सुग्रीवः श्लक्ष्णया शुभया गिरा। उवाच प्रणयाद् रामं हर्षव्याकुलिताक्षरम्॥ अहं विनिकृतो भ्रात्रा चराम्येष भयादितः। ऋष्यमूकं गिरिवरं हृतभार्यः सुदुःखितः॥ सोऽहं त्रस्तो भये मग्नो वने सम्भ्रान्तचेतनः। वालिना निकृतो भ्रात्रा कृतवैरश्च राघव॥ वालिनो मे भयार्तस्य सर्वलोकाभयंकर। ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि ॥ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः। प्रत्युवाच स काकुत्स्थ: सुग्रीवं प्रहसन्निव॥ उपकारफलं मित्रमपकारोऽरिलक्षणम्। अद्यैव तं वधिष्यामि तव भार्यापहारिणम्॥ इमे हि मे महाभाग पत्रिणस्तिग्मतेजसः। कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः॥ कङ्कपत्रपरिच्छन्ना महेन्द्राशनिसंनिभाः। सुपर्वाणः सुतीक्ष्णाग्राः सरोषा भुजगा इव॥ वालिसंज्ञममित्रं ते भ्रातरं कृतकिल्विषम्। शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम्॥ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः। प्रहर्षमतुलं लेभे साधुसाध्विति चाब्रवीत्॥ राम शोकाभिभूतोऽहं शोकार्तानां भवान् गतिः। वयस्य इति कृत्वा हि त्वय्यहं परिदेवये॥ त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम्। कृतः प्राणैर्बहुमतः सत्येन च शपाम्यहम्॥ वयस्य इति कृत्वा च विस्रब्धः प्रवदाम्यहम्। दुःखमन्तर्गतं तन्मे मनो हरति नित्यशः॥ एतावदुक्त्वा वचनं वाष्पदूषितलोचनः। वाष्पदूषितया वाचा नोच्चैः शक्नोति भाषितुम्॥ वाष्पवेगं तु सहसा नदीवेगमिवागतम्। धारयामास धैर्येण सुग्रीवो रामसंनिधौ॥ स निगृह्य तु तं बाष्प प्रसृज्य नयने शुभे। विनिःश्वस्य च तेजस्वी राघवं पुनरूचिवान्॥ पुराहं वालिना राम राज्यात् स्वादवरोपितः। परुषाणि च संश्राव्य निर्धृतोऽस्मि बलीयसा। हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी। सुहृदश्च मदीया ये संयता बन्धुनेषु ते॥ यत्नवांश्च स दुष्टात्मा मद्विनाशाय राघव। बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया॥ शङ्कया त्वेतयाहं च दृष्ट्वा त्वामपि राघव। नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति॥ केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे। अतोऽहं धारयाम्यद्य प्राणान् कृच्छगतोऽपि सन्॥ मे शोकान्तः एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः। सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति चास्थिते॥ संक्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते। स मे ज्येष्ठो रिपुीता वाली विश्रुतपौरुषः॥ तद्विनाशेऽपि मे दुखं प्रमृष्टं स्यादनन्तरम्। सुखं मे जीवितं चैव तद्विनाशनिबन्धनम्॥ एष राम शोकार्तेन निवेदितः। दुःखितः सुखितो वापि सख्युर्नित्यं सखा गतिः॥ श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत्। किंनिमित्तमभूद् वैरं श्रोतुमिच्छामि तत्त्वतः॥ सुखं हि कारणं श्रुत्वा वैरस्य तव वानर। आनन्तर्याद् विधास्यामि सम्प्रधार्य बलाबलम्॥ बलवान् हि ममामर्षः श्रुत्वा त्वामवमानितम्। वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः॥ हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः। सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव॥ एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना। प्रहर्षमदुलं लेभे चतुर्भिः सह वानरैः॥ ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे। वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे॥ एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना। प्रहर्षमदुलं लेभे चतुर्भिः सह वानरैः॥ ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे। वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे॥ भित्वा तु तां गदां बाणे राघवो धर्मवत्सलः। स्मयमान इदं वाक्यं संरब्धमिदमब्रवीत्॥ एतत् ते बलसर्वस्वं दर्शितं राक्षसाधम। शक्तिहीनतरो मत्तो वृथा त्वमुपगर्जसि॥ एषा बाणविनिर्भिन्ना गदा भूमितलं गता। अभिधानप्रगल्भस्य तव प्रत्ययघातिनी॥ यत् त्वयोक्तं विनष्टानामिदमश्रुप्रमार्जनम्। राक्षसानां करोमीति मिथ्या तदपि ते वचः॥ नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः। प्राणानपहरिष्यामि गरुत्मानमृतं यथा॥ अद्य ते भिन्नकण्ठस्य फेनबुबुदभूषितम्। विदारितस्य मद्बाणैर्मही पास्यति शोणितम्॥ पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः। स्वप्स्यसे गां समाश्लिष्य दुर्लभां प्रमदामिव॥ प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने। भविष्यन्ति शरण्यानां शरण्या दण्डका इमे॥ जनस्थाने हतस्थाने तव राक्षस मच्छरैः। निर्भया विचरिष्यन्ति सर्वतो मुनयो वने॥ अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः। वाष्पार्द्रवदना दीना भयादन्यभयावहाः॥ अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थिकाः। अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः॥ नृशंसशील क्षुद्रात्मन् नित्यं ब्राह्मणकण्टक। त्वत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः॥ तमेवभिसंरब्धं ब्रुवाणं राघवं वने। खरो निर्भर्त्सयामास रोषात् खरतरस्वरः॥ दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः। वाच्यावाच्यं ततो हि त्वं मृत्योर्वश्यो न बुध्यसे ॥ कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये। कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः॥ एवमुक्त्वा ततो रामं संरुध्य भृकुटिं ततः। स ददर्श महासालमविदूरे निशाचरः॥ रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन्। स तमुत्पाटयामास संदष्टदशनच्छदम्॥ तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः। राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत्॥ तमापतन्तं बाणौघैश्छित्वा रामः प्रतापवान्। रोषमाहारयत् तीव्र निहन्तुं समरे खरम्॥ जातस्वेदस्ततो रामो रोषरक्तान्तलोचनः। निर्बिभेद सहस्रेण बाणानां समरे खरम्॥ तस्य बाणान्तराद् रक्तं बहु सुस्राव फेनिलम् । गिरेः प्रस्रवणस्येव धारणां च परिस्रवः॥ विकलः स कृतो बाणैः खरो रामेण संयुगे। मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद् द्रुतम्॥ तमापतन्तं संक्रुद्धं कृतास्त्रो रुधिराप्लुतम्। अपासर्पद् द्वित्रिपदं किंचित्वरित विक्रमः॥ ततः पावकसंकाशं वधाय समरे शरम्। खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् ॥ स तद् दत्तं मघवता सुरराजेन धीमता। संदधे च स धर्मात्मा मुमोच च खरं प्रति ॥ स विमुक्तो महाबाणो निर्घातसमनि:स्वनः। रामेण धनुरायम्य खरस्योरसि चापतत्॥ स पपात खरो भूमौ दह्यमानः शराग्निना। रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथान्धकः॥ स वृत्र इव वज्रेण फेनेन नमुचिर्यथा। बलो वेन्द्राशनिहतो निपपात हतः खरः॥ एतस्मिन्नन्तरे देवाश्चारणैः सह संगताः। दुन्दुभीश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः॥ रामस्योपरि संहृष्टा ववर्षुर्विस्मितास्तदा। अधिकमुहूर्तेन रामेण निशितैः शरैः॥ चतुर्दश सहस्राणि रक्षसां कामरूपिणाम्। खरदूषणमुख्यानां निहतानि महामृधे॥ अहो बत महत्कर्म रामस्य विदितात्मनः। अहो वीर्यमहो दाढयं विष्णोरिव हि दृश्यते॥ इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम्। ततो राजर्षयः सर्वे संगताः परमर्षयः॥ सभाज्य मुद्रिता रामं सागस्त्या इदमब्रुवन्। एतदर्थं महातेजा महेन्द्रः पाकशासनः॥ शरभङ्गाश्रमं पुण्यमाजगाम पुरंदरः। एतदर्थं महातेजा महेन्द्रः पाकशासनः॥ एषां वधार्थं शत्रूणां रक्षसां पापकर्मणाम्। तदिदं नः कृतं कार्यं त्वया दशरथात्मज ॥ स्वधर्म प्रचरिष्यन्ति दण्डकेषु महर्षयः। एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया॥ गिरिदुर्गाद् विनिष्क्रम्य संविवेशाश्रमे सुखी। ततो रामस्तु विजयी पूज्यमानो महर्षिभिः॥ प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः। तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्॥ बभूव हृष्टा वैदेही भर्ताहं परिषस्वजे। मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान्। रामं चैवाव्ययं दृष्ट्वा तुतोष जनकात्मजा॥ ततस्तु तं राक्षससङ्घमर्दनं सम्पूज्यमानं मुदितैर्ममात्मभिः। पुनः परिष्वज्य मुदान्वितानना बभूव दृष्ट्वा जनकात्मजा तदा। ४१।। आख्याता गृध्रराजेन समुत्प्लुत्य प्लवङ्गमाः। संगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः॥ सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम्। हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः॥ अभिगम्य तु तं देशं ददृशुभीमविक्रमाः। कृत्स्नं लोकस्य महतः प्रतिबिम्बमवस्थितम्॥ दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम्। संनिवेशं ततश्चक्रुर्हरिवीरा महाबलाः॥ प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः। क्वचित् पर्वतमात्रैश्च जलराशिभिरावृतम्॥ संकुलं दानवेन्द्रैश्च पातालतलवासिभिः। रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः॥ आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः। विषेदुः सहिताः सर्वे कथं कार्यमिति ब्रुवन्॥ विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात्। आश्वासयामास हरीन् भयार्तान् हरिसत्तमः॥ न विषादे मनः कार्य विषादो दोषवत्तरः। विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः॥ यो विषादं प्रसहते विक्रमे समुपस्थिते। तेजसा तस्य हीनस्य पुरुषार्थो न सिद्ध्यति॥ तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह। हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत्॥ सा वानराणां द्वजिनी परिवार्याङ्गदं बभौ । वासवं परिवार्येव मरुतां वाहिनी स्थितम्॥ कोऽन्यस्तां वानरी सेनां शक्तः स्तम्भयितुं भवेत्। अन्यत्र वालितन्यादन्यत्र च हनूमतः॥ ततस्तान् हरिवृद्धांश्च तच्च सैन्यमरिंदमः। अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदब्रवीत्॥ क इदानीं महातेजा लयिष्यति सागरम्। क करिष्यति सुग्रीवं सत्यसंधमरिन्दमम्॥ को वीरो योजनशतं लङ्घयेत प्लवङ्गमः। इमांश्च यूथपान् सर्वान् मोचयेत् को महाभयात्॥ कस्य प्रसादाद् दारांश्च पुत्रांश्चैव गृहाणि च। इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम्॥ कस्य प्रसादाद् रामं च लक्ष्मणं च महाबलम्। अभिगच्छेम संहृष्टाः सुग्रीवं च वनौकसम्॥ यदि कश्चित् समर्थो वः सागरप्लवने हरिः। स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम्॥ अङ्गदस्य वचः श्रुत्वा न कश्चित् किंचिदब्रवीत्। स्तिमितेवाभवत् सर्वा सा तत्र हरिवाहिनी॥ पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः। सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः। व्यपदेशकुले जाताः पूजिताश्चाप्यभीक्ष्णशः॥ नहि वो गमने सङ्गः कदाचित् कस्यचिद्भवेत्। ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः॥ ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम्। ऋषिपुत्रशतं राम राजानमिदमब्रवीत्॥ प्रत्याख्यातोऽसि दुर्मेधो गुरुणा सत्यवादिना। तं कथं समतिक्रम्य शाखान्तरमुपेयिवान्॥ इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः। न चातिक्रमतुं शक्यं वचनं सत्यवादिनः॥ अशक्यमिति सोवाच वसिष्ठो भगवानृषिः। तं वयं वै समाहर्तुं क्रतुं शक्ताः कथंचन॥ बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः। याजने भगवाशक्तस्त्रैलोक्यस्यापि पार्थिव ॥ अवमानं कथं कर्तुं तस्य शक्ष्यामहे वयम्। तेषां तद् वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम्॥ स राजा पुनरेवैतानिदं वचनमब्रवीत्। प्रत्याख्यातो भगवता गुरुपुत्रैस्तथैव हि॥ अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः। ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम्॥ शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि। इत्युक्त्वा मे महात्मानो विविशुः स्वं स्वमाश्रमम्॥ अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः। नीलवस्त्रधरो नीलः पुरुषो ध्वस्तमूर्धजः॥ चित्यमाल्याङ्गरागश्च आयसाभरणोऽभवत्। तं दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डालरूपिणम्॥ प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिनः। एको हि राजा काकुत्स्थ जगाम परमात्मवान् ॥ दह्यमानो दिवाराचं विश्वामित्रं तपोधनम्॥ चण्डालरूपिणं राम मुनिः कारुण्यमागतः। कारुण्यात् स महातेजा वाक्यं परमधार्मिकः॥ इदं जगाद भद्रं ते राजानं घोरदर्शनम्। किमागमनकार्यं ते राजपुत्र महाबल॥ अयोद्याधिपते वीर शापाच्चण्डालतां गतः। अथ तद्वाक्यमाकर्ण्य राजा चण्डालतां गतः॥ अब्रवीत् प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम्। प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च॥ अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः। सशरीरो दिवं यायामिति मे सौम्यदर्शन॥ मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम्। अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन॥ कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे। यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः॥ गुरवश्च महात्मानः शीलवृत्तेन तोषिताः। धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः॥ परितोषं न गच्छन्ति गुरवो मुनिपुङ्गव। दैवमेव परं मन्ये पौरुषं तु निर्रथकम्॥ दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः। तस्य मे परमार्तस्य प्रसादमभिकाङ्क्षतः। कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः॥ नान्यां गतिं गमिष्यामि नान्यच्छरणमस्ति मे। दैवं पुरुषकारेण निवर्तयितुमर्हसि ॥ मारीचस्य तु तद् वाक्यं क्षमं युक्तं च रावणः। उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम्॥ तं पथ्यहितवक्तारं मारीचं राक्षसाधिन। अब्रवीत् परुषं वाक्यमयुक्तं कालचोदितः॥ दुष्कुलैतदयुक्तार्थं मारीच मयि कथ्यते। वाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोखरे॥ त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे। मूर्खस्य पापशीलस्य मानुषस्य विशेषतः॥ यस्त्यक्त्वा सुहदो राज्यं मातरं पितरं तथा। स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः॥ अवश्यं तु मया तस्य संयुगे खरघातिनः। प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ॥ एवं मे निश्चिता बुद्धिर्हदि मारीच विद्यते। न व्यावर्तयितुं शक्या सेन्ट्रैरपि सुरासुरैः॥ देषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि। अपायं वा उपायं वा कार्यस्यास्य विनिश्चये॥ सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता। उद्यताञ्जलिना राज्ञा य इच्छेद् भूतिमात्मनः॥ वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम्। उपचारेण वक्तव्यो युक्तं च वसुधाधिपः॥ सावमदं तु यद्वाक्यमथवा हितमुच्यते। नाभिनन्देत तद् राजा मानार्थी मानवर्जितम्॥ पञ्च रूपाणि राजानो धारयन्त्यमितौजसः। अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ॥ औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम्। धारयन्ति महात्मानो राजानः क्षणदाचर॥ तस्मात् सर्वास्ववस्थासु मान्याः पूज्याश्च नित्यदा। त्वं तु धर्ममविज्ञाय केवलं मोहमाश्रितः॥ अभ्यागतं तु दौरात्म्यात् परुषं वदसीदृशम्। गुणदोषौ न पृच्छामि क्षेमं चात्मनि राक्षस॥ मयोक्तमपि चैतावत् त्वां प्रत्यमितविक्रम। अस्मिंस्तु स भवान् कृत्ये साहाय्यं कर्तुमर्हसि ॥ शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम। सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः॥ आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर। प्रलोभयित्वा वैदेही यथेष्टं गन्तुमर्हसि ॥ त्वां हि मायामयं दृष्ट्वा काञ्चनं जातविस्मया। आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली॥ अपक्रान्ते च काकुत्स्थे दूरं गत्वाप्युदाहर। हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम्॥ तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः। अनुगच्छति सम्भ्रान्तं सौमित्रिरपि सौहदात्॥ अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम्। आहरिष्यामि वैदेही सहस्राक्षः शचीमिव ॥ एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस। राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत॥ गच्छ सौम्य शिवं मार्ग कार्यस्यास्य विवृद्धये। अहं त्वानुगमिष्यामि सरथो दण्डकावनम्॥ प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम्। लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया॥ नो चेत् करोषि मारीच हन्मि त्वामहमद्य वै। एतद् कार्यमवश्यं मे बलादपि करिष्यसि। राज्ञो विप्रतिकूलस्थो न जातु सुखमेधते॥ आसाद्य तं जीवितसंशयस्ते मृत्युभ्रुवो ह्यद्य मया विरुध्यतः। एतद् यथावत् परिगण्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम्॥ कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः। स्वगुरुं प्रेषयामास राघवाय महात्मने॥ गाय॑मङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम्। दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम्॥ कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम्। रामाय प्रददौ राजा शुभान्याभरणानि च॥ श्रुत्वा तु राघवो धीमान्महर्षि गार्यमागतम्। मातुलस्याश्वपतिनः प्रहितं तन्महाधनम्॥ प्रत्युद्गम्य च काकुत्स्थः क्रोशमा सहानुजः। गायं संपूजयामास यथा शक्रो बृहस्पतिम् ॥ तथा संपूज्य तमृर्षि तद्धनं प्रतिगृह्य च। पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च॥ उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे। किमाह मातुलो वाक्यं यदर्थ भगवानिह ॥ प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः। रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम्।।।।। वक्तुमद्भुतसंकाशं राघवायोपचक्रमे। मातुलस्ते महाबाहो वाक्यमाह नरर्षभः॥ युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते। अयं गन्धर्वविषयः फलमूलोपशोधितः॥ सिन्धोरुभयतः पार्श्वे देशः परमशोभनः। तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः॥ शैलूषस्य सुता वीर तिस्रः कोट्यो महाबलाः। तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम्॥ निवेशय महाबाहो स्वे पुरे सुसमाहिते। अन्यस्य न गतिस्तत्र देशः परमशोभनः। रोचतां ते महाबाहो नाहं त्वामहितं वदे॥ तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च। उवाच बाढमित्येव भरतं चान्ववैक्षत॥ सोऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम्। इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः॥ भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च। मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ॥ भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ। निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः॥ निवेश्य ते पुरवरे आत्मजौ संनिवेश्य च। आगमिष्यति मे भूयः सकाशमतिधार्मिकः॥ ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम्। आज्ञापयामास तदा कुमारौ चाभ्यषेचयत्॥ नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरःसुतम्। भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ॥ सा सेना शक्रयुक्तेव नगरानिर्ययावथ।। राघवानुगता दूरं दुराधर्षा सुरैरपि॥ मांसाशिनश्च ये सत्त्वा रक्षांसि सुमहान्ति च। अनुजग्मुर्हि भरतं रुधिरस्य पिपासया॥ भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः। गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः॥ सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम्। बहूनि वै सहस्राणि सेनाया ययुरग्रतः॥ अध्यर्धमासमुषिता पथि सेना निरामया। हृष्टपुष्टजनाकीर्णा केकयं समुपागमत्॥ नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरःसुतम्। भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ॥ सा सेना शक्रयुक्तेव नगरानिर्ययावथ।। राघवानुगता दूरं दुराधर्षा सुरैरपि॥ मांसाशिनश्च ये सत्त्वा रक्षांसि सुमहान्ति च। अनुजग्मुर्हि भरतं रुधिरस्य पिपासया॥ भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः। गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः॥ सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम्। बहूनि वै सहस्राणि सेनाया ययुरग्रतः॥ अध्यर्धमासमुषिता पथि सेना निरामया। हृष्टपुष्टजनाकीर्णा केकयं समुपागमत्॥ श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम्। स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत्॥ स्थैर्यमात्ममनःशौचमानृशंस्यमथार्जवम्। विक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते॥ भ्रातुज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम्। धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः॥ कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना। युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम्॥ सत्यात् पाणिगृहीतश्च कृतकर्मा महायशाः। विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत्॥ लक्ष्मणस्य भयेनेह नाधर्मभयभीरुणा। आदिष्टा मार्गितुं सीता धर्मस्तस्मिन् कथं भवेत्॥ तस्मिन् पापे कृतघ्ने तु स्मृतिभिन्ने चलात्मनि। आर्यः को विश्वसेज्जातु तत्कुलीनो विशेषतः॥ राज्ये पुत्रः प्रतिष्ठाप्य सगुणो निर्गुणोऽपि वा। कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति।।।।। भिन्नमन्त्रोऽपराद्धश्च भिन्नशक्तिः कथं ह्यहम्। किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः॥ उपांशुदण्डेन हि मां बन्धनेनोपपादयेत्। शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात्॥ बन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम्। अनुजानन्तु मां सर्वे गृहं गच्छन्तु वानराः॥ अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम् । इहैव प्रायमासिष्ये श्रेयो मरणमेव मे॥ अभिवादनपूर्वं तु राजा कुशलमेव च। अभिवादनपूर्वं तु राघवौ बलशालिनौ॥ वाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः। आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे॥ मातरं चैव मे तासमाश्वासयितुमर्हथ। प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी॥ विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम्। एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च॥ विवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मखः। तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः॥ नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः। सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम्॥ परिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम्। तद् वाक्यं वालिपुत्रस्य विज्ञाय प्लवगर्षभाः॥ उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन्। दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः॥ मुमूर्षवो हरिश्रेष्ठा एतत् क्षममिति स्म ह। रामस्य वनवासं च क्षयं दशरथस्य च॥ जनस्थानवधं चैव वधं चैव जयायुषः। हरणं चैव वैदेह्या वालिनश्च वधं तथा। रामकोपं च वदतां हरीणां भयमागतम्॥ स संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः। बभूव संनादितनिर्झरान्तरो भृशं नदद्भिर्जलदैरिवाम्बरम्॥ ततो नीलाम्बुदप्रख्यः प्रहस्तो नाम राक्षसः। अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा॥ देवदानवगन्धर्वाः पिशाचपतगोरगाः। सर्वे धर्षयितुं शक्याः किं पुनर्मानवौ रणे॥ सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता। नहि मे जीवतो गच्छेज्जीवन्स वनगोचरः॥ सर्वां सागरपर्यन्तां सशैलवनकाननाम्। करोम्यवानरां भूमिमाज्ञापयतु मां भवान्॥ रक्षां चैव विधास्यामि वानराद्रजनीचर। नागमिष्यति ते दुःखं किंचिदात्मापराधजम्॥ अब्रवीत्तमसंक्रुद्धो दुर्मुखो नाम राक्षसः। इदं न क्षा गीयं हि सर्वेषां नः प्रधर्षणम्॥ अयं परिभवो भूयः पुरस्यान्तःपुरस्य च। श्रीमतो राक्षसेन्द्रस्य वानरेन्द्रप्रधर्षणम्॥ अस्मिन्मुहूर्ते गत्वैको निवर्तिष्यामि वानरान्। प्रविष्टान्सागरं भीममम्बरं वा रसातलम्॥ ततोऽब्रवीत्सुसंक्रुद्धो वज्रदंष्ट्रो महाबलः। प्रगृह्य परिघं घोरं मांसशोणितदूषितम्॥ किं नो हनूमता कार्य कृपणेन तपस्विना। रामे तिष्ठति दुर्धर्षे सुग्रीवेऽपि सलक्ष्मणे॥ अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम्। आगमिष्यामि हत्वैको विक्षोब्य हरिवाहिनीम्॥ इदं ममापरं वाक्यं शृणु राजन्यदीच्छसि। उपायकुशलो ह्येव जयेच्छवूनतन्द्रितः॥ कामरूपधराः शूराः सुभीमा भीमदर्शनाः। राक्षसानां सहस्राणि राक्षसाधिप निश्चिताः॥ काकुत्स्थमुपसंगम्य विवृतं मानुषं वपुः। सर्वे ह्यसंभ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम्॥ प्रेषिता भरतेनैव भ्रात्रा तव यवीयसा। स हि सेनां समुत्थाप्य क्षिप्रमेवोपयास्यति॥ ततो वयमितस्तूर्णं शूलशक्तिगदाधराः। चापबाणासिहस्ताश्च त्वरितास्तत्र यामहे ॥ आकाशे गणशः स्थित्वा हत्वा तां हरिवाहिनीम्। अश्मशस्त्रमहावृष्ट्या प्रापयाम यमक्षयम्॥ एवं चेदुपसप्तामनयं रामलक्ष्मणौ। अवश्यमपनीतेन जहतामेव जीवितम्॥ कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान्। अब्रवीत्परमवुद्धो रावणं लोकरावणम्॥ सर्वे भवन्तस्थिष्ठन्त महाराजेन संगताः। अहमेको हनिष्यामि राघवं सहलक्ष्मणम्॥ सुग्रीवं सहनूमन्तं सर्वांश्चैवात्र वानरान्। ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः॥ क्रुद्धः परिलिहन्सृक्कां जिह्वया वाक्यमब्रवीत्। स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः॥ एकोऽहं भक्षयिष्यामि तां सर्वां हरिवाहिनीम्। स्वस्थाः क्रीडन्तु निश्चिन्ता पिबन्तु मधु वारुणम्॥ अहमेको वधिष्यामि सुग्रीवं सहलक्ष्मणम्। साङ्गदं च हनूमन्तं सर्वांश्चैवात्र वानरान्॥ पुनरेवाब्रवीत् प्रीतो राघवं रघुनन्दनम्। अयमाख्याति ते राम सचिवो मन्त्रिसत्तमः॥ हनुमान् यनिमित्तं त्वं निर्जनं वनमागतः। लक्ष्मेण सह भ्रात्रा वसतश्च वने तव॥ रक्षसापहृता भार्या मैथिली जनकात्मजा। त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता॥ अन्तरं प्रेप्सुना तेन हत्वा गृधं जटायुषम्। भार्यावयोगजं दुःखं प्रापितस्तेन रक्षसा॥ भार्यावियोगजं दुःखं नचिरात् त्वं विमोक्ष्यसे। अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव ॥ रसातले वा वर्तन्ती वर्तन्ती वा नभस्तले। अहमानीय दास्यामि तव भार्यामरिंदम॥ इदं तथ्यं मम वचस्त्वमवेहि च राघव। न शक्या सा जरयितुमपि सेन्द्रैः सुरासुरैः॥ तव भार्या महाबाहो भक्ष्यं विषकृतं यथा। त्यज शोकं महाबाहो तां कान्तामानयामि ते ॥ अनुमानात् तु जानामि मैथिली सा न संशयः। ह्रियमाणा मया दृष्टा रक्षसा रौद्रकर्मणा॥ क्रोशन्ती रामरामेति लक्ष्मणेति च विस्वरम्। स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा॥ आत्मना पञ्चमं मां हि दृष्ट्वा शैलतले स्थितम्। उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥ तान्यस्माभिर्गृहीतानि निहितानि च राघव। आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि॥ तमब्रवीत् ततो रामः सुग्रीवं प्रियवादिनम्। आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे॥ एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम्। प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया॥ उत्तरीयं गृहीत्वा तु स तान्याभरणानि च। इदं पश्यति रामाय दर्शयामास वानरः॥ ततो गृहीत्वा वासस्तु शुभान्याभरणानि च। अभवद् वाष्पसंरुद्धो नीहारेणेव चन्द्रमाः॥ सीतास्नेहप्रवृत्तेन स तु वाष्पेण दूषितः। हा प्रियेति रुदन्धैर्यमुत्सृज्य न्यपतत् क्षितौ ॥ हृदि कृत्वा स बहुशस्तमलंकारमुत्तमम्। निशश्वास भृशं सर्पो बिलस्थ इव रोषितः॥ अविच्छिन्नाश्रुवेगस्तु सौमित्रिं प्रेक्ष्य पार्श्वतः। परिदेवयितुं दीनं रामः समुपचक्रमे॥ पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणया। उत्तरीयमिदं भूमौ शरीराद् भूषणानि च॥ शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया। उत्सृष्टं भूषणमिदं तथा रूपं हि दृश्यते॥ एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत्। नाहं जानामि केयूरे नाहं जानामि कुण्डले॥ नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात्। ततस्तु राघवो वाक्यं सुग्रीवमिदमब्रवीत्॥ ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया। रक्षसा रौद्ररूपेण मम प्राणप्रिया हृता॥ क्व वा वसति तद् रक्षो महद् व्यसनदं मम। यनिमित्तमहं सर्वान् नाशयिष्यामि राक्षसान्॥ हरता मैथिली येन मां च रोषयता ध्रुवम्। आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम्॥ मम दयिततमा हृता वनाद् रजनिचरेण विमथ्य येन सा। कथय मम रिपुं तमद्य वै प्लवगपते यमसंनिधिं नयामि॥ जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः। त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन्पुरीम्॥ ते राजवचनाद् गत्वा राजवेश्म प्रवेशिताः। ददृशुर्देवसंकाशं वृद्धं दशरथं नृपम्॥ बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः। राजानं प्रश्रितं वाक्यमब्रुवन् मधुराक्षरम्॥ मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः। मुहुर्मुहुर्मधुरया स्नेहसंरक्तया गिरा॥ कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम्। जनकस्त्वां महाराज पृच्छते सपुरःसरम्॥ पृष्ट्वा कुशलमव्यग्रं वैदेही मिथिलाधिपः। कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत्॥ पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा। राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः॥ सेयं मम सुता राजन् विश्वामित्रपुरस्कृतैः। यदृच्छयागतै राजन् निर्जिता तव पुत्रकैः॥ तच्च रत्नं धनुर्दिव्यं मध्ये भग्नं महात्मना। रामेण हि महाबाहो महत्यां जनसंसदि॥ अस्मै देया मया सीता वीर्यशुल्का महात्मने। प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि ॥ सोपाध्यायो महाराज पुरोहितपुरस्कृतः। शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ॥ प्रतिज्ञां मम राजेन्द्र निर्वर्तयितुमर्हसि। पुत्रयोरुभयोरेव प्रीतिं त्वमुपलप्स्यसे॥ एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत्। विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः॥ दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः। वसिष्ठं वामदेवं च मन्त्रिणश्चैवमब्रवीत्॥ गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः। लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ॥ दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना। सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति॥ यदि वो रोचते वृत्तं जनकस्य महात्मनः। पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः॥ मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः। सुप्रीतश्चाब्रवीद् राजा श्वो यात्रेति च मन्त्रिणः॥ त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः। ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः॥ एवमाधर्षितः शूरः शूर्पनख्या खरस्ततः। उवाच रक्षसां मध्ये खरः खरतरं वचः॥ तवापमानप्रभवः क्रोधोऽयमतुलो मम। न शक्यते धारयितुं लवणाम्भ इवोल्बणम्॥ न रामं गणये वीर्यान्मानुषं क्षीणजीवितम्। आत्मदुश्चरितैः प्राणान् हतो योऽद्य विमोक्ष्यते॥ वाष्पः संधार्यतामेष सम्भ्रमश्च विमुच्यताम्। अहं रामं सह भ्रात्रा नयामि यमसादनम्॥ परश्वधहतस्याद्य मन्दप्राणस्य भूतले। रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि ॥ सम्प्रहृष्टा वचः श्रुत्वा खरस्य वदनाच्च्युतम्। प्रशशंस पुनर्मोाद् भ्रातरं रक्षसां वरम्॥ तया परुषितः पूर्वं पुनरेव प्रशंसितः। अब्रवीद् दूषणं नाम खरः सेनापति तदा॥ चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम्। रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम्॥ नीलजीमूतवर्णानां लोकहिंसाविहारिणाम्। सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय॥ उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च। शरांश्च चित्रान् खङ्गांश्च शक्तीश्च विविधाः शिताः॥ अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम्। वधार्थं दुर्विनीतस्य रामस्य रणकोविद ॥ इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम्। सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः॥ तं मेरुशिखराकारं तप्तकाञ्चनभूषणम्। हेमंचक्रमसम्बाधं वैदूर्यमयकूवरम्॥ मत्स्यैः पुष्पैर्दुमैः शैलैश्चन्द्रकान्तैश्च काञ्चनैः। माङ्गल्यैः पक्षिसङ्घश्च ताराभिश्च समावृतम्॥ ध्वजनिस्त्रिशसम्पन्न किङ्किणीवरभूषितम्। सदश्वयुक्तं सोऽमर्षादारुरोह खरस्तदा॥ खरस्तु तन्महत्सैन्यं रथचर्मायुधध्वजम्। निर्यातेत्यब्रवीत् प्रेक्ष्य दूषणः सर्वराक्षसान्॥ ततस्तद् राक्षसं सैन्यं घोरचर्मायुधध्वजम्। निर्जगाम जनस्थानान्माहानादं महाजवम्॥ मुद्वरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः। खङ्गैश्चक्रैश्च हस्तस्थैभ्राजमानैः सतोमरैः॥ शक्तिभिः परिधैोरैरतिमात्रैश्च कार्मुकैः। गदासिमुसलैर्वज्रगृहीतैर्भीमदर्शनैः॥ राक्षसानां सुघोराणां सहस्राणि चतुर्दश । निर्यातानि जनस्थानात् खरचित्तानुवर्तिनाम्॥ सांस्तु निर्धावतो दृष्ट्वा राक्षसान् भीमदर्शनान्। खरस्याथ रथः किंचिज्जगाम तदनन्तरम्॥ ततस्ताञ्छबलानश्वांस्तप्तकाञ्चनभूषितान्। खरस्य मतमाज्ञाय सारथिः पर्यचोदयत्॥ संचोदितो रथः शीघ्रं खरस्य रिपुघातिनः। शब्देनापूरयामास दिशः सप्रदिशस्तथा॥ प्रवृद्धमन्युस्तु खरः खरस्वरो रिपोर्वधार्थ त्वरितो यथान्तकः। महाबलो मेघ इवाश्मवर्षवान्॥ तथा ब्रुवति तारे तु ताराधिपतिवर्चसि। अथ मेने हृतं राज्यं हनूमानङ्गदेन तत्॥ बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम्। चतुर्दशगुणं मेने हनूमान् वालिनः सुतम्॥ आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः। शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया॥ बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः। शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम्॥ भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदः। अभिसंधातुमारेभे हनूमानङ्गदं ततः॥ स चतुर्णामुपायानां द्वितीयमुपवर्णयन्। भेदयामास तान् सर्वान् वानरान् वाक्यसम्पदा॥ तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम्। भीषणैर्विविधैर्वाक्यैः कोपोपायसमन्वतैः॥ त्वं समर्थतरः पित्रा युद्धे तारेय वै ध्रुवम्। दृढं धारयितुं शक्तः कपिराज्यं यथा पिता॥ नित्यमस्थिरचित्ता हि कपयो हरिपुंगव। नाज्ञाप्यं विषहिष्यन्ति पुत्रदारं विना त्वया॥ त्वं नैते ह्यनुरञ्जेयुः प्रत्यक्षं प्रवदामि ते। यथाऽयं जाम्बवान् नीलः सुहोत्रश्च महाकपिः॥ नाहं ते इमे सर्वे सामदानादिभिर्गुणैः। दण्डेन न त्वया शक्याः सुग्रीवादपकर्षितुम् ॥ विगृह्यासनमप्याहुर्दुर्बलेन बलीयसा। आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः॥ यां चेमां मन्यसे धात्रीमेतद् बलमिति श्रुतम्। एतल्लक्ष्मणबाणानामीषत् कार्य विदारणम्॥ स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा। लक्ष्मणो निशितैर्बाणैर्भिन्द्यात् पत्रकुटं यथा॥ लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः। वज्राशनिसमस्पर्शा गिरीणामपि दारकाः॥ अवस्थानं यदैव त्वमासिष्यसि परंतप। तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः॥ स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः। खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः॥ स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः। तृणादपि भृशोद्विग्रः स्पन्दमानाद् भविष्यसि ॥ अत्युग्रवेगा निशिता घोरा लक्ष्मणसायकाः। अपावृत्तं जिघांसन्तो महावेगा दुरासदाः॥ अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम्। आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति॥ धर्मराजः पितृव्यस्ते प्रीतिकामो दृढव्रतः। शुचिः सत्यप्रतिज्ञश्च स त्वां जातु न नाशयेत्॥ प्रियकामश्च ते मातुस्दर्थं चास्य जीवितम्। तस्यापत्यं च नास्त्यन्यत् तस्मादङ्गद गम्यताम्॥ तत्प्रयातं बलं घोरमशिवं शोणितोदकम्। अभ्यवर्षन्महागोरस्तुमुलो गर्दवारुणः॥ निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः। समे पुष्पचिते देशे राजमार्गे यदृच्छया॥ श्यामं रुधिरपर्यन्तं बभूव परिवेषणम्। अलातचक्रप्रतिम प्रतिगृह्य दिवाकरम् ॥ ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम्। समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः॥ जनस्थानसमीपे च समाक्रम्य खरस्वनाः। विस्वरान् विविधान् नादान् मांसादा मृगपक्षिणः।।।। व्याजहुरभिदीप्तायां दिशि वै भैरवस्वनम्। अशिवं यातुधानानां शिवा घोरा महास्वनाः॥ प्रभिन्नगजसंकाशास्तोयशोणितधारिणः। आकाशं तदनाकाशं चक्रुभीमाम्बुवाहकाः॥ बभूव तिमिरं घोरमुद्धतं रोमहर्षणम्। दिशो वा प्रादिशो वापि सुव्यक्तं न चकाशिरे॥ क्षतजासवर्णाभा संध्या कालं बिना बभौ। खरं चाभिमुखं नेदुस्तदा घोरा मृगाः खगाः॥ कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः। नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः॥ नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः। कबन्धः परिघाभासो दृश्यते भास्करान्तिके॥ जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः। प्रवाति मारुतः शीघ्रं निष्प्रभौऽभूद् दिवाकरः॥ उपेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः। संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः॥ तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्दुमाः। उद्धृतश्च विना वातं रेणुर्जलधरारुणः॥ चीचीकूचीति वास्यन्त्यो बभूवुस्तत्र सारिकाः। उल्काश्चापि सनिर्घोषा निपेतुर्पोरदर्शनाः॥ प्रचचाल मही चापि सशैलवनकानना। खरस्य च रथस्थस्य नर्दमानस्य धीमतः॥ प्राकम्पत भुजः सव्यः स्वरश्चास्यावसज्जत। सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः॥ ललाटे च रुजो जाता न च मोहान्न्यवर्तत। तान् समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान्॥ अब्रवीद् राक्षसान् सर्वान् प्रहसन् स खरस्तदा। महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान् ॥ न चिन्तयाम्यहं वीर्याद् बलवान् दुर्बलानिव। तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात्॥ मृत्यु मरणधर्मेण संक्रुद्धो योजयाम्यहम्। राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम्॥ अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे। यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः॥ सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः। न क्वचित् प्राप्तपूर्वो मे संयुगेषु पराजयः॥ युष्माकमेतत् प्रत्यक्षं नानृतं कथयाम्यहम् देवराजमपि क्रुद्धो मत्तैरावतगामिनम्॥ वज्रहस्तं रणे हन्यां किं पुनस्तौ च मानवौ। सा तस्य गर्जितं श्रुत्वा राक्षसानां महाचमूः॥ प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता। समेयुश्च महात्मानो युद्धदर्शनकाक्षिणः॥ ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः। समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः॥ स्वस्ति गोब्राह्मणेभ्यस्तु लोकानां ये च सम्मताः। जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्॥ चक्रहस्ते यथा विष्णुः सर्वानसुरसत्तमान् । एतश्चान्यच्च बहुशो ब्रुवाणाः परमर्षय: 1॥ जातकौतूहलास्तत्र विमानस्ताश्च देवताः। ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम्॥ रथेन तु खरो वेगात् सैन्यस्याग्राद् विनिःसृतः। श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः॥ दुर्जयः करवीराक्षः परुषः कालकार्मुकः। हेममाली महामाली सोस्यो रुधिराशनः॥ द्वादशैते महावीर्याः प्रतस्थुरभितः खरम्। महाकपालः स्थूलाक्षः प्रमाथस्त्रिशिरास्तथा। चत्वार एते सेनाने दूषणं पृष्ठतोऽन्वयुः॥ सा भीमवेगा समराभिकाङ्गिणी सुदारुणा राक्षसवीरसेना। तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यो।। भ्रातरं निहतं दृष्ट्वा शयानं निर्जितं रणे। शोकवेगपरीतात्मा विललाप विभीषणः॥ वीरविक्रान्त विख्यात प्रवीण नयकोविद। महार्हशयनोपेत किं शेषे निहतो भुवि ॥ निक्षिप्य दी? निश्चेष्टौ भुजावङ्गदभूषितौ। मुकुटेनापवृत्तेन भास्कराकारवर्चसा ॥ तदिदं वीर संप्राप्तं यन्मया पूर्वमीरितम्। काममोहपरीतस्य यत्तन्न रुचितं तव॥ यन्न दात्प्रहस्तो वा नेन्द्रजिन्नापरे जनाः। न कुम्भकर्णोऽतिरथो नातिकायो नरान्तकः। न स्वयं बहु मन्येथास्तस्योदर्कोऽयमागतः॥ गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः। गतः सत्त्वस्य संक्षेपः सुहस्तानां गतिर्गता॥ आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः। चित्रभानुः प्रशान्ताचिर्व्यवसायो निरुद्यमः।। अस्मिन्निपतिते वीरे भूमौ शस्त्रभृतां वरे॥ किं शेषमिहलोकस्य गतसत्त्वस्य संप्रति। रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु।।।।। स्तपोबलः शौर्यनिबद्धमूलः। रणे महानराक्षसराजवृक्षः संमर्दितो राघवमारुतेन।९।। तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगावहस्तः। इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षिप्तौ रावणगन्धहस्ती॥ निःश्वासधूमः स्वबलप्रतापः। निर्वापितो रामपयोधरेण॥ सिंहङ्क्षलाङ्गेलककुद्विषाणः पराभिजिद्गन्धनगन्धवाहः। रक्षोवृषश्चापलकर्णचक्षुः क्षितीश्वरव्याघ्रहतोऽवसन्नः॥ वदन्तं हेतुमद्वाक्यं परिदृष्टार्थनिश्चयम्। रामः शोकसमाविष्टमित्युवाच विभीषणम्॥ नायं विनष्टो निचेष्टः समरे चण्डविक्रमः। अत्युनतमहोत्साहः पतितोऽयमशङ्कितः॥ नैवं विनष्टाः शोच्यन्ते क्षत्रधर्मव्यवस्थिताः। वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे॥ येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता। अस्मिन्कालसमायुक्ते न कालः परिशोचितुम्॥ नैकान्तविजयो युद्धे भूतपूर्वः कदाचन। परैर्वा हन्यते वीरः परान्वा हन्ति संयुगे॥ इयं हि पूर्वैः संदिष्टा गतिः क्षत्रियसंमता। क्षत्रियो निहतः संख्ये न शोच्य इति निश्चयः॥ तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः। यदिहानन्तरं कार्य कल्प्यं तदनुचिन्तय॥ तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः। उवाच शोकसंतप्तो भ्रातुर्हितमनन्तरम्॥ योऽयं विमर्देष्वविभग्नपूर्वः सुरैः समस्तैरपि वासवेन। भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः॥ अनेन दत्तानि वनीपकेषु भुक्ताश्च भोगा निभृताश्च भृत्याः। धनानि मित्रेषु समर्पितानि वैराण्यमित्रेषु निपातितानि॥ एषोऽहिताग्निश्च महातपाश्च वेदान्तगः कर्मसु चाग्र्यशूरः। एतस्य यत्प्रेतगतस्य कृत्यं तत्कर्तुमिच्छामि तव प्रसादात्॥ स तस्य वाक्यैः करुणैर्महात्मा संबोधितः आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्त्वः॥ मरणान्तानि वैराणि निवृतं नः प्रयोजनम्। क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवत्। प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत्॥ तपसा सेतुबन्धेन सागरोच्छोषणेन च। सर्वथापि समर्थोऽस्मि सागरस्यास्य लङ्घने॥ कति दुर्गाणि दुर्गाया लङ्कायास्तद्ब्रवीष्व मे। ज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर ॥ बलस्य परिमाणं च द्वारदुर्गक्रियामपि। गुप्तिकर्म च लङ्काया रक्षसा सदनानि च॥ यथासुखं यथावच्च लङ्कायामसि दृष्टवान्। सर्वमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ॥ श्रुत्वा रामस्य वचनं हनूमान्मारुतात्मजः। वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत्॥ श्रूयतां सर्वमाख्यास्ये दुर्गकर्म विधानतः। गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः॥ राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा। परां समृद्धिं लङ्कायाः सागरस्य च भीमताम्॥ विभागं च बलौघस्य निर्देशं वाहनस्य च। एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्त्ववित्॥ हृष्टप्रमुदिता लङ्का मत्तद्विपसमाकुला। महती रथसंपूर्णा रक्षोगणनिषेविता ॥ दृढबद्धकपाटानि महापरिघवन्ति च। चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति च॥ तत्रेषूपलयन्त्राणि बलवन्ति महान्ति च। आगतं प्रतिसैन्यं तैस्तत्र प्रतिनिवार्यते॥ द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः। शतशो रचिता वीरैः शतघ्न्यो रक्षसां गणैः॥ सौवर्णस्तु महांस्तस्याः प्राकारो दुष्प्रधर्षणः। मणिविद्रुमवैदूर्यमुक्ताविरचितान्तरः॥ सर्वतश्च महाभीमाः शीततोया महाशुभाः। अगाधा ग्राहवत्यश्च परिखा मीनसेविताः॥ द्वारेषु तासां चत्वारः संक्रमाः परमायताः। यन्त्रैरुपेता बहुभिर्महद्भिर्गृहपङ्क्तिभिः॥ त्रायन्ते संक्रमास्तत्र परसैन्यागते सति। यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः॥ एकस्त्वकम्प्यो बलवान्संक्रमः सुमहादृढः। काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः॥ स्वयं प्रकृतिमापन्नो युयुत्सू राम रावणः। उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने॥ लङ्कापुनर्निरालम्बा देवदुर्गा भयावहा। नादेयं पार्वतं चान्यं कृत्रिमं च चतुर्विधम् ॥ स्थिता पारे समुद्रस्य दूरपारस्य राघव। नौपथश्चापि नास्त्यत्र निरुद्देशश्च सर्वशः॥ शैलाने रचिता दुर्गा सा पूर्देवपुरोपमा। वाजिवारणसंपूर्णा लङ्का परमदुर्जया॥ परिखाश्च शतघ्यश्च यन्त्राणि विविधानि च। शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः॥ अयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम्। शूलहस्ता दुराधर्षाः सर्वे खङ्गाग्रयोधिनः॥ नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम्। चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः॥ प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम्। चर्मखङ्गधराः सर्वे तथा सर्वास्त्रकोविदाः॥ न्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम्। रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः॥ शतशोऽथ सहस्राणि मध्यमं स्कन्धमाश्रिताः। यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम्॥ ते मया संक्रमा भग्नाः परिखाश्चावपूरिताः। दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः॥ येन केन तु मार्गेण तराम वरुणालयम्। हतेति नगरी लङ्का वानरैरुपधार्यताम्॥ अङ्गदो द्विविदो मैन्दो जाम्बवान्पनसो नलः। नील: सेनापतिश्चैव बलशेषेण किं तव॥ प्लवमाना हि गत्वा तां रावणस्य महापुरीम्। सपर्वतवना भित्त्वा सखातां च सतोरणाम्।। सप्राकारां सभवनामानयिष्यन्ति राधव॥ एवमाज्ञापय क्षिप्रं बलानां सर्वसंग्रहम्। मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय॥ ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा। नैष्ठिकी बुद्धिमास्थाय सर्वे संग्रामकाङ्गिणः॥ समुदीरितवीर्यास्ते समारोपितविक्रमाः। पर्यवस्थापिता वाक्यैरङ्गदेन बलीयसा ॥ प्रयाताश्च गता हर्ष मरणे कृतनिश्चयाः। चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः॥ अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च। वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन्॥ कुम्भकर्णः सुसंक्रुद्धो गदामुद्यम्य वीर्यवान्। धर्षयन्स महाकायः समन्ताद्व्यक्षिपद्रिपून्॥ शतानि सप्त चाष्टौ च सहस्राणि च वानराः। प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन ताडिताः॥ षोडशाष्टौ च दश च विंशत्रिंशत्तथैव च। परिक्षिप्य च बाहुभ्यां खादन्स परिधावति।। भक्षयन्भृशसंक्रुद्धो गरुडः पनगानिव॥ कृच्छ्रेण च समाश्वस्ताः संगम्य च ततस्ततः। वृक्षाद्रिहस्ता हरयस्तस्थुः संग्राममूर्धनि।।।। ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः। दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः॥ तं समुत्पाट्य चिक्षेप कुम्भकर्णाय वानरः। तमप्राप्य महाकायं तस्य सैन्येऽपतत्ततः॥ ममर्दाश्वान्गजांश्चापि रथांश्चापि गजोत्तमान्। तानि चान्यानि रक्षांसि एवं चान्यद्रेिः शिरः॥ तच्छैलवेगाभिहतं हताश्वं हतसारथिम्। रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत्॥ रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः। शिरांसि नर्दतां जह्वः सहसा भीमनिःस्वनाः॥ वानराश्च महात्मानः समुत्पाट्य महादुमान्। रथानश्वान्गजानुष्ट्राराक्षसानभ्यसूदयन्॥ हनूमान्शैलशृङ्गाणि शिलाश्च विविधान्दुमान्। ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः॥ तानि पर्वतशृङ्गाणि शूलेन स बिभेद ह। बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः॥ ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य। तस्थि स तस्यापततः पुरस्तान्महीधराग्रं हनुमान्प्रगृह्य ॥ स कुम्भकर्ण कुपितो जघान वेगेन शैलोत्तमभीमकायम्। संचुक्षुभे तेन तदाभिभूतो मेदागात्रो रुधिरावसिक्तः॥ स शूलमाविध्य तडित्प्रकाशं गिरिर्यथा प्रज्वलिताग्निशृङ्गम्। बाह्वन्तरे मारुतिमाजघान गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या॥ स शूलनिर्भिन्नमहाभुजान्तरः प्रविह्वलः शोणितमुद्वमन्रुषा। ननाद भीमं हनुमान्महाहवे युगान्तमेघस्तनितस्वनोपमम्॥ ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य। प्लवंगमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात् ॥ ततस्तु नीलो बलवान्पर्यस्थापयन्बलम्। प्रविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते॥ तदापतन्तं संप्रेक्ष्य मुष्टिनाभिजघान ह। मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत।। सविस्फुलिङ्गं सज्वालं निपपात महीतले॥ ऋषभः शरभो नीलो गवाक्षो गन्धमादनः। पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन्॥ शैलैर्वृक्षस्तलैः पादैर्मुष्टिभिश्च महाबलाः। कुम्भकर्म महाकायं निजघ्नुः सर्वतो युधि॥ स्पर्शानिव प्रहारांस्तान्वेदयानो न विव्यथे। ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे॥ कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः। निपपातर्षभो भीमः प्रमुखागतशोणितः॥ मुष्टिना शरभं हत्वा जानुना नीलमाहवे। आजघान गवाक्षं तु तलेनेन्द्ररिपुस्तदा ॥ पादेनाभ्यहनत्क्रुद्धस्तरसा गन्धमादनम्। दत्तप्रहारव्यथिता मुमुहुः शोणितोक्षिताः। निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः॥ तेषु वानरमुख्येषु पातितेषु महात्मसु। वानराणां सहस्राणि कुम्भकर्ण प्रदुद्रुवुः॥ तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः। समारुह्य समुत्पत्य ददंशुः प्लवगर्षभाः।३१॥ तं नखैर्दशनैश्चापि मुष्टिभिबाहुभिस्तथा। कुम्भकर्ण महाबाहुं निजघ्नुः प्लवगर्षभाः॥ स वानरसहस्रेस्तु विचितः पर्वतोपमः। रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव॥ बाहुभ्यां वानरान्सर्वान्प्रगृह्य स महाबलः। भक्षयामास संकृद्धो गरुडः पन्नगानिव॥ प्रक्षिप्ताः कुम्भकर्णेन वक्रे पातालसंनिभे। नासापुटाभ्यां संजग्मुः कर्णाभ्यां चैव वानराः॥ भक्षयन्भृशसंक्रुद्धो हरीन्पर्वतसंनिभः। बभञ्ज वानरान्सर्वान्संकृद्धो राक्षसोत्तमः॥ मांसशोणितसंक्लेदां कुर्वन्भूमि स राक्षसः। चचार हरिसैन्येषु कालाग्निरिव मूर्च्छितः॥ वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः। शूलहस्तो बभौ युद्धे कुम्भकर्णो महाबलः॥ यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः। तथा वानरसैन्यानि कुम्भकर्णो ददाह सः।३९।। ततस्ते वध्यमानास्तु हतयूथाः प्लवंगमाः। वानरा भयसंविग्ना विनेदुर्विकृतैः स्वरैः॥ अनेकशो वध्यमानाः कुम्भकर्णेन वानराः। राघवं शरणं जग्मुर्व्यथिता भित्रचेतसः॥ प्रभग्नान्वानरान्दृष्ट्वा वज्रहस्तात्मजात्मजः। अभ्यधावत वेगेन कुम्भकर्ण महाहवे॥ शैलशृङ्ग महदृह्य विनदन्स मुहुर्मुहुः। त्रासयनराक्षसान्सर्वान्कुम्भकर्णपदानुगान्॥ चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि । स तेनाभिहतो मूर्ध्नि शैलेनेन्द्ररिपुस्तदा॥ कुम्भकर्णः प्रजज्वाल क्रोधेन महता तदा। सोऽभ्यधावत वेगेन वालिपुत्रममर्षणम्॥ कुम्भकर्णो महानादत्रासयन्सर्ववानरान्। शूलं ससर्ज वै रोषादङ्गदे तु महाबलः॥ तदापतन्तं बलवान्युद्धमार्गविशारदः। लाघवान्मोक्षयामास बलवान्वानरर्षभः॥ उत्पत्य चैनं तरसा तलेनोरस्यताडयत्। स तेनाभिहतः कोपात्प्रमुमोहाचलोपमः॥ स लब्धसंज्ञोऽतिबलो मुष्टिं संगृह्य राक्षसः। अपहासेन चिक्षेप विसंज्ञः स पपात ह॥ तस्मिन्प्लवगशार्दूले विसंज्ञे पतिते भुवि। तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे॥ तमापतन्तं संप्रेक्ष्य कुम्भकर्ण महाबलम्। उत्पपात तदा वीरः सुग्रीवो वानराधिपः। ५१।। स पर्वताग्रमुत्क्षिप्य समाविध्य महाबलः। अभिदुद्राव वेगेन कुम्भकर्ण महाबलम्॥ तमापतन्तं संप्रेक्ष्य कुम्भकर्णः प्लवंगमम्। तस्थौ विवृत्तसर्वाङ्गो वानरेन्द्रस्य संमुखः। ५३।। कपिशोणितदिग्धाङ्ग भक्षयन्तं महाकपीन्। कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत्।५४।। पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम्। भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः॥ त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि। सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस।५६।। तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम्। श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः॥ प्रजापतेस्तु पौत्रस्त्वं तथैवर्करजःसुतः। धृतिपौरुषसंपन्नस्तस्माद्र्जसि वानर॥ स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच। तेनाजघानोरसि कुम्भकर्ण शैलेन वज्राशनिसंनिभेन।५९॥ तच्छलशृङ्ग सहसा विभिन्न भुजान्तरे तस्य तदा विशाले। ततो विषेदुः सहसा प्लवंगा रक्षोगणाश्चापि मुदा विनेदुः॥ स शैल शृङ्गाभिहतश्चुकोप ननाद रोषाच्च विवृत्य वक्रम्। व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हयृक्षपतेर्वधाय॥ तत्कुम्भकर्णस्य भुजप्रणुन्नं शूलं शितं काञ्चनदामयष्टिम्। क्षिप्रं समुत्पत्य निगृह्य दोभ्या बभञ्ज वेगेन सुतोऽनिलस्य॥ कृतं भारसहस्रस्य शूलं कालायसं महत्। बभञ्ज जानुमारोप्य तदा हृष्टः प्लवंगमः॥ शूलं भग्नं हनुमता दृष्ट्वा वानरवाहिनी। हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे॥ बभूवाथ परित्रस्तो राक्षसो विमुखोऽभवत्। सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः।। मारुतिं पूजयांचक्रुर्दृष्ट्वा शूलं तथागतम्॥ स तत्तथा भग्नमवेक्ष्य शूलं चुकोप रक्षोधपतिर्महात्मा। उत्पाट्य लङ्कामलयात्सशृङ्ग जधान सुग्रीवमुपेत्य तेन।६६।। स शैलशृङ्गाभिहतो विसंज्ञः पपात भूमौ युधि वानरेन्द्रः। तं वीक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः॥ समभ्युपेत्याद्भुतघोरवीर्य स कुम्भकर्णो युधि वानरेन्द्रम्। जहार सुग्रीवमभिप्रगृह्य यथानिलो मेघमिव प्रचण्डः॥ स तं महामेधनिकाशरूपमुत्पाट्य गच्छन्युधि कुम्भकर्णः। रराज मेरुप्रतिमानरूपो मेरुर्यथा व्युच्छ्रितघोरशृङ्गः॥ ततस्तमादाय जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रः। शृण्वन्निनादं त्रिदवालयानां प्लवंगराजग्रहविस्मितानाम्॥ ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः। अस्मिहन्ते सर्वमिदं हतं स्यात् सराघवं सैन्यमितीन्द्रशत्रुः॥ विद्वतां वाहिनीं दृष्ट्वा वानराणामितस्ततः। कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम्॥ हनूमांश्चिन्तयामास मतिमान्मारुतात्मजः। एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत्॥ यद्धि न्याय्यं मया कर्तुं तत्करिष्याम्यसंशयम्। भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसम्।७४।। मया हते संयति कुम्भकर्णे महाबले मुष्टिविशीर्णदेहे। विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्लवगाः समग्राः॥ अथवा स्वयमप्येष मोक्षं प्राप्स्यति वानरः। गृहीतोऽयं यदि भवेत्रिदशैः सासुरोरगैः॥ मन्ये न तावदात्मानं बुध्यते वानराधिपः। शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे॥ अयं मुहूर्तात्सुग्रीवो लब्धसंज्ञो महाहवे। आत्मनो वानराणां च यत्पथ्यं तत्करिष्यति॥ मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः। अप्रीतिश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः॥ तस्मान्मुहूर्त काशिष्ये विक्रम मोक्षितस्य तु। भिन्नं च वानरानीकं तावदाश्वासयाम्यहम्॥ इत्येवं चिन्तयित्वाथ हनूमान्मारुतात्मजः। भूयः संस्तम्भयामास वानराणां महाचमूम्॥ स कुम्भकर्णोऽथ विवेश लङ्कां स्फुरन्तमादाय महाहरिं तम्। विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवरभिपूज्यमानः॥ लाजगन्धोदवर्षैस्तु सेव्यमानः शनैः शनैः। राजवीथ्यास्तु शीतत्वात्संज्ञां प्राप महाबलः।॥ ततः स संज्ञामुपलभ्य कृच्छ्रद्वलीयसस्तस्य भुजान्तरस्थः। अवेक्षमाणः पुरराजमार्ग विचिन्तयामास मुहुर्महात्मा।८४।। एवं गृहीतेन कथं नु नाम शक्यं मया संप्रति कर्तुमद्य। तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम्॥ ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रोः। खरैश्च कर्णौ दशनैश्च नासां ददंश पादैविददार पाचौँ ॥ स कुम्भकर्णो हृतकर्णनासो विदारितस्तेन रदैनखैश्च। रोषाभिभूतः क्षतजार्द्रगावः सुग्रीवमाविध्य पिपेष भूमौ ॥ स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः। जगाम खं कन्दुकवज्जवेन पुनश्च रामेण समाजगाम।०८।। कर्णनासाविहीनस्तु कुम्भकर्णो महबालः। रराज शोणितोत्सितो गिरिः प्रस्रवणैरिव।॥ शोणितानॊ महाकायो राक्षसो भीमदर्शनः। अमर्षाच्छोणितोद्गारी शुशुभे रावणानुजः॥ नीलाञ्जनचयप्रख्यः ससंध्य इव तोयदः। युद्धायाभिमुखो भीमो मनश्चके निशाचरः॥ गते च तमिन्सुरराजशत्रुः क्रोधात्प्रदुद्राव रणाय भूयः। अनायुधोऽस्मीति विचिन्त्य रौद्रो घोरं तदा मुद्गरमाससाद॥ ततः सपुर्याः सहसा महात्मा निष्क्रम्य तद्वानरसैन्यमुग्रम्। बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रवृद्धः।९३॥ बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद्वानरसैन्यमुग्रम्। चखाद रक्षांसि हरॆन्पिशाचान्नृक्षांश्च मोहाधुधि कुम्भकर्णः।। यथैव मृत्युहरते युगान्ते स भक्षयामास हरीश्च मुख्यान्॥ एकं द्वौ बीन्बहून्क्रुद्धो वानरान्सह राक्षसैः। समादायैकहस्तेन प्रचिक्षेप त्वरन्मुखे॥ संप्रस्रवत्तदा मेदः शोणिते च महाबलः। वध्यमानो नगेन्द्रागैर्भक्षयामास वानरान् ॥ ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम्। कुम्भकर्णो भृशं क्रुद्धः कपीन्खादन्प्रधावति॥ शतानि सप्त चाष्टौ च विंशत्रिंशतथैव च। संपरिष्वज्य बाहुभ्यां खादन्विपरिधावति ॥ मेदोवसाशोणितदिग्धगात्रः कर्णावसक्तग्रथितान्त्रमालः। ववर्ष शूलानि सुतीक्ष्णदंष्ट्रः कलो युगान्तस्थ इव प्रवृद्ध ।१९।। तस्मिन्काले सुमित्रायाः पुत्रः परबलार्दनः। चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः॥ स कुम्भकर्णस्य शरान्शरीरे सप्त वीर्यवान्। निचखानाददे चान्यान्विससर्ज च लक्ष्मणः॥ पीड्यमानस्तदत्रं विशेषं तत्स राक्षसः। ततश्चुकोप बलवान् सुमित्रानन्दवर्धनः॥ अथास्य कवचं शुभ्रं जाम्बूनदमयं शुभम्। प्रच्छादयामास शरैः संध्याभ्रमिव मारुतः॥ नीलाञ्जनचयप्रख्यः शरैः काञ्चनभूषणैः। अपीड्यमानः शुशुभे मेघैः सूर्य इवांशुमान्॥ ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम्। सावज्ञमेव प्रोवाच वाक्यं मेघौघनिःस्वनः॥ अन्तकस्याप्यकष्टेन युधि जेतारमाहवे। युध्यता मामभीतेन ख्यापिता वीरता त्वया॥ प्रगृहीतायुधस्येह मृत्योरिव महामृधे। तिष्ठन्नप्यग्रतः पूज्यः किमु युद्धप्रदायकः॥ ऐरावतं समारूढो वृतः सर्वामरैः प्रभुः। नैव शक्रोऽपि समरे स्थितपूर्वः कदाचन॥ अद्य त्वयाहं सौमित्रे बालेनापि पराक्रमैः। तोषितो गन्तुमिच्छामि त्वामनुज्ञाप्य राघवम्॥ यत्तु वीर्यबलोत्साहैस्तोषितोऽहं रणे त्वया। राममेवैकमिच्छामि हन्तुं यस्मिन्हते हतम्॥ रामे मयात्र निहते येऽन्ये स्थास्यन्ति संयुगे। तानहं योधयिष्यामि स्वबलेन प्रमाथिना॥ इत्युक्तवाक्यं तद्रक्षः प्रोवाच स्तुतिसंहितम्। मृधे घोरतरं वाक्यं सौमित्रिः प्रहसन्निव॥ यस्त्वं शक्रादिभिर्देवैरसह्यः प्राप्य पौरुषम्। तत्सत्यं नान्यथा वीर दृष्टस्तेऽद्य पराक्रमः॥ एष दाशरथी रामस्तिष्ठत्यद्रिरिवाचलः। इति श्रुत्वा ह्यनादृत्य लक्ष्मणं स निशाचरः॥ अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः। राममेवाभिदुद्राव कम्पयन्निव मेदिनीम्॥ अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन्। कुम्भकर्णस्य हृदये ससर्ज निशिताशरान् ॥ तस्य रामेण विद्वस्य सहसाभिप्रधावतः। अङ्गारमिश्राः क्रुद्धस्य मुखात्रिश्चेरुरर्चिषः॥ रामास्त्रविद्धो घोरं वै नर्दन्राक्षसपुङ्गवः। अभ्यधावत तं क्रुद्धो हरीन्विद्रावयन्रणे॥ तस्योरसि निमग्नास्ते शरा बहिणवाससः। हस्ताच्चास्य परिभ्रष्टा गदा चोव्या पपात ह ॥ आयुधानि च सर्वाणि विप्रकीर्यन्त भूतले। स निरायुधमात्मानं यदा मेने महाबलः॥ मुष्टिभ्यां च कराभ्यां च चकार कदनं महत्। स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः।। रुधिरं परिसुस्राव गिरिः प्रस्रवणं यथा॥ स तीव्रेण च कोपेन रुधिरेण च मूर्च्छितः। वानरान्राक्षसानृक्षान्खादन्स परिधावति॥ अथ शृङ्ग समाविध्य भीमं भीमपराक्रमः। चिक्षेप राममुद्दिश्य बलवानन्तकोपमः॥ अप्राप्तमन्तरा रामः सप्तभिस्तमजिह्मगैः। चिच्छेद गिरिशृङ्गं तं पुनः संधाय कार्मुकम्॥ ततस्तु रामो धर्मात्मा तस्य शृङ्ग महत्तदा। शरैः काञ्चनचित्राङ्गैश्चिच्छेद भरताग्रजः॥ तन्मेरुशिखराकारै?तमानमिव श्रिया। द्वे शते वानराणां च पतमानमपातयत्॥ तस्मिन्काले स धर्मात्मा लक्ष्मणो राममब्रवीत्। कुम्भकर्णवधे युक्तो योगान्परिमृशन्बहून्॥ नैवायं वानरान्राजन्न विजानाति राक्षसान्। मत्तः शोणितगन्धेन स्वान्परांश्चैव खादते॥ साध्वेनमधिरोहन्तु सर्वतो वानरर्षभाः। यूथपाश्च यथा मुख्यास्तिष्ठन्त्वस्मिन्समन्ततः॥ अद्यायं दुर्मतिः काले गुरुभारप्रपीडितः। प्रचरराक्षसो भूमौ नान्यान्हन्यात्प्लवंगमान् ॥ तस्य तद्वचनं श्रुत्वा वजपुत्रस्य धीमतः। ते समारुरुहुहृष्टाः कुम्भकर्ण महाबलाः॥ कुम्भकर्णस्तु संक्रुद्धः समारूढाः प्लवंगमैः। व्यधूनयत्तान्वेगेन दुष्टहस्तीव हस्तिपान्॥ तान्दृष्ट्वा निधुतान्रामो रुष्टोऽयमिति राक्षसम्। समुत्पपात वेगेन धनुरुत्तममाददे॥ क्रोधरक्तेक्षणो धीरो निर्दहन्निव चक्षुषा। राघवो राक्षसं वेगादभिदुद्राव वेगितः।। यूथपान्हर्षयन्सर्वान्कुम्भकर्णबलार्दितान्॥ स चापमादाय भुजंगकल्पं दृढज्यमुग्रं तपनीयचित्रम्। हरीन्समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः॥ स वानरगणैस्तैस्तु वृतः परमदुर्जयैः। लक्ष्मणानुचरो वीरः संप्रतस्थे महाबलः॥ स ददर्श महात्मानं किरीटिनमरिंदमम्। शोणितावृतरक्ताक्षं कुम्भकर्ण महाबलः॥ सर्वान्समभिधावन्तं यथारुष्टं दिशागजम्। मार्गमाणं हरीन्क्रुद्धं राक्षसैः परिवारितम्॥ विन्ध्यमन्दरसंकाशं काञ्चनाङ्गदभूषणम्। स्रवन्तं रुधिरं वक्त्राद्वर्ष मेघमिवोत्थितम्॥ जिह्वया परिलिह्यन्तं सृक्किणी शोणितोक्षिते। मृद्गन्तं वानरानीकं कालान्तकयमोपमम्॥ तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तांनलवर्चसम्। विस्फारयामास तदा कार्मुकं पुरुषर्षभः॥ स तस्य चापनि?षात्कुपितो राक्षसर्षभः। अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ॥ ततस्तु धारोद्धतमेघकल्पं भुजंगराजोत्तमभोगबाहुः। तमापतन्तं धरणीधाराभमुवाच रामो युधि कुम्भकर्णम्॥ मवस्थितोऽहं प्रगृहीतचापः। अवेहि मां राक्षसवंशनाशनं यस्त्वं मुहूर्ताद्भविता विचेताः॥ रामोऽयमिति विज्ञाय जहास विकृतस्वनम्। अभ्यधावत संक्रुद्धो हरीन्विद्रावयरणे॥ दारयन्निव सर्वेषां हृदयानि वनौकसाम्। प्रहस्य विकृतं भीमं स मेघस्तनितोपमम्॥ कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत्। नाहं विराधो विज्ञेयो न कबन्धः खरो न च। न वाली न च मारीचः कुम्भकर्णः समागतः॥ पश्य मे मुद्गरं भीमं सर्वं कालायसं महत्। अनेन निर्जिता देवा दानवाश्च पुरा मया॥ विकर्णनास इति मां नावज्ञातुं त्वमर्हसि। स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात् ॥ दर्शयेक्ष्वाकुशार्दूल वीर्य गात्रेषु मेऽनघ। ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम्॥ स कुम्भकर्णस्य वचो निशम्य रामः सपङ्खान्विससर्ज बाणान्। तैराहतो वज्रसमप्रवेगैर्न चुक्षुभे न व्यथते सुरारिः॥ यैः सायकैः सालवरा निकृत्ता बाली हतो वानरपुङ्गवश्च। ते कुम्भकर्णस्य तदा शरीरं वज्रोपमानं व्यथयांप्रचक्रुः॥ स वारिधारा इव सायकांस्तान् पिबशरीरेण महेन्द्रशत्रुः। जघान रामस्य शरप्रवेगं व्यविध्य तं मुद्गरमुग्रवेगम्॥ ततस्तु रक्षः क्षतजावलिप्तं वित्रासनं देवमहाचमूनाम्। व्याविध्य तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम्॥ वायव्यमादाय ततोऽपरास्त्रं रामः प्रचिक्षेप निशाचराय। समुद्गरं तेन जहार बाहुं •सकृत्तबाहुस्तुमुलं ननाद॥ स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्रो राघवबाणकृत्तः। पपात तस्मिन्हरिराजसैन्ये जघान तां वानरवाहिनीं च॥ ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः। प्रपीडिताङ्गा ददृशुः सुघोरं नरेन्द्ररक्षोधिपसंनिपातम्॥ स कुम्भकर्णोस्त्रनिकृत्तबाहुर्महासिकृचान इवाचलेन्द्रः। उत्पादयामास करेण वृक्षं ततोऽभिदुद्राव रणे नरेन्द्रम्॥ तं तस्य बाहुं सहतालवृक्षं समुद्यतं पन्नगभोगकल्पम्। ऐन्द्रास्त्रयुक्तेन जघान रामो बाणेन जाम्बूनदचित्रितेन ॥ स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसंनिकाशः। विचेष्टमानो निजदान व्रुक्षान्शैलाशिलावानरराक्षसांश्च ॥ तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम्। द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य॥ तौ तस्य पादौ प्रदिशो दिशश्च गिरेगुहाश्चैव महार्णवं च। लङ्कां च सेनां कपिराक्षसानां विनादयन्तौ विनिपेततुश्च ॥ निकृत्तबाहुर्विनिकृत्तपादो विदार्य वक्रं वडवामुखाभम्। दुद्राव रामं सहसाभिगर्जन् राहुर्यथा चन्द्रमिवान्तरिक्षे॥ अपूरयत्तस्य मुखं शिताङ्ग रामः शरैर्हेमपिनद्धपुखैः। संपूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमूर्छ चापि॥ अथाददे सूर्यमरीचिकल्पं सब्रह्मदण्डान्तककालकल्पम्। अरिष्टमैन्द्र निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम्॥ तं वज्रजाम्बूनदचारुपुङ्ख प्रदीप्तसूर्यज्वलनप्रकाशम्। महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय।। स सायको राघवबाहुचोदितो दिशः स्वभासा दश संप्रकाशयन्। विधूमवैश्वानरभीमदर्शनो जगाम शक्राशनिभीमविक्रमम्॥ स तन्महापर्वतकूटसंनिभं सुवृत्तदंष्ट्र चलचारुकुण्डलम्। चकर्त रक्षोधिपतेः शिरस्तदा यथैव वृत्रस्य पुरा पुरंदरः॥ कुम्भकर्णशिरो भाति कुण्डलालंकृतं महत्। आदित्येऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः॥ तद्रामबाणाभिहतं पपात रक्ष:शिरः पर्वतसन्निकाशम्। बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्वं तमपातयच्च ॥ तच्चातिकायं हि महत्प्रकाशं रक्षस्तदा तोयनिधौ पपात। ग्राहान्परान्मीनवरान्भुजंगमान् ममर्द भूमिं च तथा विवेश ॥ तस्मिन्हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे। चचाल भूर्भूमिधराश्च सर्वे हर्षाच्च देवास्स्तुमुलं प्रणेदुः॥ ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः। सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता रामपराक्रमेण ॥ ततस्तु ते तस्य वधेन भूरिणा मनस्विनो नैर्ऋतराजबान्धवाः। विनेदुरुच्चैर्व्यथिता रघूत्तमं हरिं समीक्ष्यैव यथा मतंगजाः॥ स देवलोकस्य तमो निहत्य सूर्यो यथा राहुमुखाद्विमुक्तः। तथा व्याभासीद्धरिसैन्यमध्ये निहत्य रामो युधि कुम्भकर्णम्॥ प्रहर्षमीयुर्बहवश्च वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः। अपूजयराघवमिष्टभागिनं हते रिपौ भीमबले नृपात्मजम्॥ स कुम्भकर्णं सुरसैन्यमर्दनं महत्सु युद्धेषु कदाचनाजितम्। ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः॥ भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः। प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम्॥ समागम्य च राज्ञा ते राजपुत्रेण चार्चिताः। राज्ञः पादौ गृहीत्वा च तमूचुर्भरतं वचः॥ पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः। त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया॥ इमानि च महार्हाणि वस्त्राण्याभरणानि च। प्रतिगृह्य विशालाक्ष मातुलस्य च दापय॥ अत्र विंशतिकोट्यस्तु नृपतोर्मातुलस्य ते। दशकोट्यस्तु सम्पूर्णास्तथैव च नृपात्मज ॥ प्रतिगृह्य तु तत् सर्वं स्वनुरक्तः सुहज्जने। दूतानुवाच भरतः कामैः सम्प्रतिपूज्य तान्।६।। कच्चित् स कुशली राजा पिता दशरथो मम। कच्चिदारोग्यता राम लक्ष्मणे च महात्मनि॥ आर्या च धर्मनिरता धर्मज्ञा धर्मवादिनी। अरोगा चापि कौसल्या माता रामस्य धीमतः॥ कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या। शत्रुघ्नस्य च वीरस्य अरोगा चापि मध्यमा॥ आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी। अरोगा चापि मे माता कैकेयी किमुवाच ह॥ एवमुक्तास्तु ते दूता भरतेन महात्मना। ऊचुः सम्प्रश्रितं वाक्यमिदं तं भरतं तदा॥ कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि। श्रीश्च त्वां वृणुते पद्मा युज्यतां चापि ते रथः॥ भरतश्चापि तान् दूतानेवमुक्तोऽभ्यभाषत। आपृच्छेऽहं महाराजं दूताः संत्वरयन्ति माम्॥ एवमुक्त्वा तु तान् दूतान् भरतः पार्थिवात्मजः। दूतैः संचोदितो वाक्यं मातामहमुवाच ह ॥ राजन् पितुर्गमिष्यामि सकाशं दूतचोदितः। पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि ॥ भरतेनैवमुक्तस्तु नृपो मातामहस्तदा। तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम्॥ गच्छ तातानुजाने त्वां कैकेयी सुप्रजास्त्वया। मातरं कुशलं ब्रूयाः पितरं च परंतप॥ पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः। तौ च तात महेष्वासौ भ्रातरौ रामलक्ष्मणौ॥ तस्मै हस्त्युत्तमांश्चित्रान् कम्बलानजिनानि च। सत्कृत्य केकयो राजा भरताय ददौ धनम्॥ अन्तःपुरेऽतिसंवृद्धान् व्याघ्रवीर्यबलोपमान्। दंष्ट्रायुक्तान् महाकायाशुनश्चोपायनं ददौ॥ रुक्मनिष्कसहस्र द्वे षोडशाश्वशतानि च। सत्कृत्य केकयीपुत्रं केकयो धनमादिशत्॥ तदामात्यानभिप्रेतान् विश्वास्यांश्च गुणान्वितान्। ददावश्वपतिः शीघ्रं भरतायानुयायिनः॥ ऐरावतानैन्द्रशिरान् नागान् वै प्रियदर्शनान्। खराशीघ्रान् सुसंयुक्तान् मातुलोऽस्मै धनं ददौ॥ स दत्तं केकयेन्द्रेण धनं तन्नाभ्यनन्दत। भरतः केकयीपुत्रो गमनत्वरया तदा॥ बभूव ह्यस्य हृदये चिन्ता सुमहती तदा। त्वरया चापि दूतानां स्वप्नस्यापि च दर्शनात् ॥ स स्ववेश्माभ्यतिक्रम्य नरनागाश्वसंकुलम्। प्रपेदे सुमहच्छीमान् राजमार्गमनुत्तमम्॥ अभ्यतीत्य ततोऽपश्यदन्तःपुरमनुत्तमम्। ततस्तद् भरतः श्रीमानाविवेशानिवारितः॥ स मातामहमापृच्छ्य मातुलं च युधाजितम्। रथमारुह्य भरत: शत्रुघ्नसहितो ययौ॥ रथान् मण्डलचक्रांश्च योजयित्वा परः शतम्। उष्ट्रगोऽश्वखरै त्या भरतं यान्तमन्वयुः॥ बलेन गुप्तो भरतो महात्मा सहायकस्यात्मसमैरमात्यैः। गुहाद् ययौ सिद्ध इवेन्द्रलोकात्॥ वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः। पर्वतादृष्यमूकात् तु पुप्लुवे यत्र राघवौ ॥ कपिरूपं परित्यज्य हनुमान् मारुतात्मजः। भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः॥ ततश्च हनुमान् वाचा श्लक्ष्णया सुमनोज्ञया। विनीतवदुपागम्य राघवौ प्रणिपत्य च॥ आबभाषे च तौ वीरौ यथावत् प्रशशंस च । सम्पूज्य विधिवद् वीरौ हनुमान् वानरोत्तमः॥ उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ। राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ॥ देशं कथमिमं पाप्तौ भवन्तौ वरवर्णिनौ । त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः॥ पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः। इमां नदी शुभजलां शोभयन्तौ तरस्विनौ॥ धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ । निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः॥ सिंहविप्रेक्षितौ वीरौ महाबलपराक्रमौ। चक्रचापनिभे चापे गृहीत्वा शत्रुनाशनौ॥ श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ । हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ ॥ प्रभया पर्वतेन्द्रोऽसौ युवयोरवभासितः। राज्याविमरप्रख्यौ कथं देशमिहागतौ॥ पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ। अन्योन्यसदृशौ वीरौ देवलोकादिहागतौ ॥ यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यौ वसुंधराम्। विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ ॥ सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ। आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः॥ सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः। उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम्॥ ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम्। इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने॥ प्रकाशेते यथेन्द्रस्य वजे हेमविभूषिते। सम्पूर्णाश्च शितैर्बाणैस्तूणाश्च शुभदर्शनाः॥ जीवितान्तकरै।रैवलद्भिरिव पन्नगैः। महाप्रमाणौ विपुलौ तप्तहाटकभूषणौ॥ खगावेतौ विराजेते निर्मुक्तभुजगाविव। एवं मां परिभाषन्तं कस्माद् वै नाभिभाषतः॥ सुग्रीवा नाम धर्मात्मा कश्चिद् वानरपुङ्गवः। वीरो विनिकृतो भ्रात्रा जगद् भ्रमति दुःखितः॥ प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना। राज्ञा वानरमुख्यानां हनुमान् नाम वानरः॥ प्राप्तोऽहं स हि धर्मात्मा सुग्रीवः सख्यमिच्छति। तस्य मां सचिवं वित्तं वानरं पवनात्मजम्॥ भिक्षुरूपप्रतिच्छन्नं सुग्रीवपियकारणात्। ऋष्यमूकादिह प्राप्तं कामगं कामचारिणम्॥ एवमुक्त्वा तु हनूमांस्तौ वीरौ रामलक्ष्मणौ। वाक्यज्ञो वाक्यकुशल: पुनर्नोवाच किंचन॥ एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत्। प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम्॥ सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः। तमेव काश्माणस्य ममान्तिकमिहागतः॥ तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम्। वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिन्दमम्॥ जानृग्वेदविनीतस्य नायजुर्वेदधारिणः। नासामवेदविदुषः शक्यमेवं विभाषतुिम्॥ नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्। बहु व्याहरतानेन न किंचिदपशब्दितम्॥ न मुखे नेत्रयोश्चापि ललाटे च भ्रुवोस्तथा। अन्येष्वपि च सर्वेषु दोषः संविदितः क्वचित्॥ अविस्तरमसंदिग्धमविलम्बितमव्यथम्। उर:स्थं कण्ठगं वाक्यं वर्तते मध्यमस्वरम्॥ संस्कारक्रमसम्पन्नामद्भुतामविलम्बिताम्। उच्चारयति कल्याणी वाचं हृदयहर्षिणीम्॥ अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया। कस्य नाराध्यते चित्तमुद्यतासेररेरपि॥ एवंविधो यस्य दूतो न भवेत् पार्थिवस्य तु। सिद्ध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ॥ एवंगुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः। तस्य सिद्ध्यन्ति सर्वेऽर्था दूतवाक्यप्रचोदिताः॥ सुग्रीवसचिवं कपिम्। अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम्॥ विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः। तमेव चावां मार्गावः सुग्रीवं प्लवगेश्वरम्॥ यथा ब्रवीषि हनुमन् सुग्रीववचनादिह। तत्तथा हि करिष्यावो वचनात्तव सत्तम॥ तत् तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः। एवमुक्तस्तु सौमित्रिः मनः समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम्॥ अवाङ्मुखोमथो दीनं दृष्ट्वा सोममिवाप्लुतम्। राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत्॥ न संतापं महाबाहो मदर्थं कर्तुमर्हसि। पूर्णनिर्माणबद्धा हि कालस्य गतिरीदृशी॥ जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय। हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः॥ यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि। जहि मां निर्विशङ्कस्त्वं धर्म वर्धय राघव॥ लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः। मन्त्रिणः समुपानीय तथैव च पुरोधसः॥ अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः। दुर्वासोऽभिगमं चैव प्रतिज्ञां तापसस्य च॥ तच्छुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत। वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह॥ दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम्। लक्ष्मणेन वियोगश्च तव राम महायशः॥ त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृथाः। प्रतिज्ञायां हि नष्टायां धर्मो हि विलयं व्रजेत्।।।। ततो धर्मे विनिष्टे तु त्रैलोक्यं सचराचरम्। सदेवर्षिगणं सर्व विनश्येत्तु न संशयः॥ स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात्। लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह॥ तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम्। श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत्॥ विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः। त्यागो वधो वा विहितः साधूनां ह्युभयं समम्॥ रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः। लक्ष्मणस्त्वरितः प्रायात्स्वगृहं न विवेश ह॥ स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः। निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह॥ अनिःश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः। देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा॥ अदृश्यं सर्वमनुजैः सशरीरं महाबलम्। प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह॥ ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः। हृष्टाः प्रमुदिताः सर्वे पूजयन्ति स्म राघवम्॥ अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः। परिपप्रच्छ सौमित्रिं रामो दुःखादिदं वचः॥ तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम्। यदा सा तव विश्वासाद् वने विरहिता मया॥ दृष्ट्वैवाभ्यागतं त्वां मे मैथिली त्यज्य लक्ष्मण । शङ्कमानं महत् पापं यत्सत्यं व्यथितं मनः॥ स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे। दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि।४।। एवमुक्तस्तु सौमित्रिर्लक्ष्मणः : शुभलक्षणः। भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत्॥ न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः। प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः॥ आर्येणेव परिक्रुष्टं लक्ष्मणेति सुविस्वरम्। परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम्॥ सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली। गच्छ गच्छेति मामाशु रुदती भयविक्लवा:॥ प्रचोद्यमानेन मया गच्छेति बहुशस्तया। प्रत्युक्ता मैथिली वाक्यमिदं तत् प्रत्ययान्वितम्॥ न तत् पश्याम्यहं रक्षो यदस्य भयमावहेत् । निर्वृता भव नास्त्येतत् केनाप्येतदुदाहृतम्॥ विगर्हितं च नीचं च कथमार्योऽभिधास्यति। त्राहीति वचनं सीते यस्त्रायेत् त्रिदशानपि॥ किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम्। विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति ॥ राक्षसेनेरितं वाक्यं त्रासात् त्राहीति शोभने। न भवत्या व्यथा कार्या कुनारीजनसेविता॥ अलं विक्लवतां गन्तुं स्वस्था भव निरुत्सुका। न चास्ति त्रिषु लोकेषु पुमान् यो राघवं रणे॥ जातो वा जायमानो वा संयुगे यः पराजयेत्। अजेयो राघवो युद्धं देवैः शक्रपुरोगमैः॥ एवमुक्ता तु वैदेही परिमोहितचेतना। उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः॥ भावो मयि तवात्यर्थं पाप एव निवेशितः। विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसे॥ संकेताद् भरतेन त्वं रामं समनुगच्छसि। क्रोशन्तं हि यथात्यर्थं नैनमभ्यवपद्यसे॥ रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि। राघवस्यान्तरं प्रेप्सुस्तथैनं नाभिपद्यसे॥ एवमुक्तस्तु वैदेह्या संरब्धो रक्तलोचनः। क्रोधात् प्रस्फुरमाणोष्ठ आश्रमादभिनिर्गतः॥ एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः। अब्रवीद् दुष्कृतं सौम्य तां विना त्वमिहागतः॥ जानन्नपि समर्थं मां रक्षसामपवारणे। अनेन क्रोधवाक्येन मैथिल्या निर्गतो भवान्॥ नहि ते परितुष्यामि त्यक्त्वा यदसि मैथिलीम्। क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत् त्वमिहागतः॥ सर्वथा त्वपनीतं ते सीतया यत् प्रचोदितः। क्रोधस्य वशमागम्य नाकरोः शासनं मम॥. असौ हि राक्षसः शेते शरेणाभिहतो मया। मृगरूपेण येनाहमाश्रमादपवाहितः॥ विकृष्य चापं परिधाय सायकं सलीलबाणेन च ताडितो मया। मार्गी तनुं त्यज्य च विक्लवस्वरो बभूव केयूरधरः स राक्षसः॥ शराहतेनैव तदातया गिरा स्वरं ममालम्ब्य सुदूरसुश्रवम्। उपाहृतं तद् वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम्॥ स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम्। रामः सौमित्रिसहितो विललापाकुलेन्द्रियः॥ तत्र दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे। स कामवशमापन्नः सौमित्रिमिदमब्रवीत्॥ सौमित्रे शोभते पम्पा वैदूर्यविमलोदका। फुल्लपद्मोत्पलवती शोभिता विविधैर्दुमैः॥ सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम्। यत्र राजन्ति शैला वा द्रुमाः सशिखरा इव॥ मां तु शोकाभिसंतप्तमाधयः पीडयन्ति वै। भरतस्य च दुःखेन वैदेह्या हरणेन च॥ शोकार्तस्यापि मे पम्पा शोभते चित्रकानना। व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा॥ नलिनैरपि संच्छिन्ना हत्यर्थशुभदर्शना। सर्पव्यालानुचरिता मृगद्विजसमाकुला॥ अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम्। दुमाण विविधैः पुष्पैः परिस्तोमैरिवार्पितम्॥ पुष्पभारसमृद्धानि शिखराणि समन्ततः। लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः॥ सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः। गन्धवान् सुरभिर्मासो जातपुष्पफलद्रुमः॥ पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम्। सृजतां पुष्पवर्षाणि वर्णे तोयमुचामिव ॥ प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः। वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम्॥ पतितैः पतमानैश्च पादपस्थैश्च मारुतः। कुसुमैः पश्य सौमित्रे क्रीडतीव समन्ततः॥ विक्षिपन् विविधाः शाखा नगानां कुसुमोत्कटाः। मारुतश्चलितस्थानैः षट्पदैरनुगीयते॥ मत्तकोकिलसंनादैर्नर्तयन्निव पादपान्। शैलकंदरनिष्क्रान्तः प्रगीत इव चानिलः॥ तेन विक्षिपतात्यर्थं पवनेन समन्ततः। अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः॥ स एव सुखसंस्पर्शो वाति चन्दनशीतलः। गन्धमभ्यवहन् पुण्यं श्रमापनयनोऽनिलः॥ अमी पवनविक्षिप्ता विनदन्तीव पादपाः। षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु॥ गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः। संसक्तशिखराः शैला विराजन्ति महाद्रुमैः॥ पुष्पसंछन्नशिखरा मारुतोत्क्षेपचञ्चलाः। अमी मधुकरोत्तंसाः प्रगीता इव पादपाः॥ सुपुष्पितांस्तु पश्यैतान् कर्णिकारान् समन्ततः। हाटकप्रतिसंछन्नान् नरान् पीताम्बरानिव ॥ अयं वसन्तः सौमित्रे नानाविहगनादितः। सीतया विप्रहीणस्य शोकसंदीपनो मम॥ मां हि शोकसमाक्रान्तं संतापयति मन्मथः। हृष्टं प्रवदमानश्च समाह्वयति कोकिलः॥ एष दात्यूहको हृष्टो रम्ये मां वननिझरे। प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण ॥ श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया। मामाहूय प्रमुदिता परमं प्रत्यनन्दत ॥ एवं विचित्राः पतगा नानारावविराविणः। वृक्षगुल्मलताः पश्य सम्पतन्ति समन्ततः॥ विमिश्रा विहगाः पुंभिरात्मव्यूहाभिनन्दिताः। भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः॥ अस्याः कूले प्रमुदिताः सङ्घशः शकुनास्त्विह। दात्यूहरतिविक्रन्दैः पुंस्कोकिलरुतैरपि॥ स्वनन्ति पादपाश्चेमे ममानङ्गप्रदीपकाः। अशोकस्तवकाङ्गारः षट्पदस्वननिःस्वनः॥ मां हि पल्लवताम्रचिर्वसन्ताग्निः प्रधक्ष्यति। नहि तां सूक्ष्मपक्ष्माक्षीं सुकेशी मृदुभाषिणीम्॥ अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम्। अयं हि रुचिरस्तस्याः कालो रुचिरकाननः॥ कोकिलाकुलसीमान्तो दयिताया ममानघ। मन्मथायाससम्भूतो वसन्तगुणवर्धितः॥ अयं मां धक्ष्यति क्षिप्रं शोकाग्निर्नचिरादिव। अपश्यतस्तां वनितां पश्यतो रुचिरान् दुमान्॥ ममायमात्मप्रभवो भूयस्त्वमुपयास्यति। अदृश्यमाना वैदेही शोकं वर्धयतीह मे॥ दृश्यमानो वसन्तश्च स्वेदसंसर्गदूषकः। मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम्॥ संतापयति सौमित्रे क्रूरश्चैत्रवनानिलः। अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः॥ स्वैः पक्षैः पवनोद्भूतैर्गवाक्षैः स्फाटिकैरिव। शिखिनीभिः परिवृतास्त एते मदमूर्च्छिताः॥ मन्मथाभिपरीतस्य मम मन्मथवर्धनाः। पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति ॥ शिखिनी मन्मथातॆषा भर्तारं गिरिसानुनि। तामेव मनसा रामां मयूरोऽप्यनुधावति ॥ वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव। मयूरस्य वने नूनं रक्षसा न हृता प्रिया॥ तस्मान्नृत्यति रम्येषु वनेषु सह कान्तया। मम त्वयं विना वास: पुष्पमासे सुदुःसहः॥ पश्य लक्ष्मण संरागस्तिर्यग्योनिगतेष्वपि। यदेषा शिखिना कामाद् भर्तारमभिवर्तते।॥ ममाप्येवं विशालाक्षी जानकी जातसम्भ्रमा। मदनेनाभिवर्तेत यदि नापहता भवेत्॥ पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे। पुष्पभारसमृद्धानां वनानां शिशिरात्यये॥ रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया। निष्फलानि मही यान्ति समं मधुकरोत्करैः॥ नदन्ति कामं शकुना मुदिताः सदृशः कलम्। आह्वयन्त इवान्योन्यं कामोन्मादकरा मम।४६।। वसन्तो यदि तत्रापि यत्र मे वसति प्रिया। नूनं परवशा सीता सापि शोचत्यहं यथा।४७।। नूनं न तु वसन्तस्तं देशं स्पृशति यत्र सा। कथं ह्यसितपद्माक्षी वर्तयेत् सा मया विना ॥ अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया। किं करिष्यति सुश्रोणी सा तु निर्भर्त्सता परैः।॥ श्यामा पद्मपलाशाक्षी मृदुभाषा च मे प्रिया। नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम्॥ दृढं हि हृदये बुद्धिर्मम सम्परिवर्तते। नालं वर्तयितुं सीता साध्वी मद्विरहं गता॥ मयि भावो हि वैदेह्यास्तत्त्वतो विनिवेशितः। ममापि भावः सीतायां सर्वथा विनिवेशितः॥ एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः। तां विचिन्तयतः कान्तां पावकप्रतिमो मम॥ सदा सुखमहं मन्ये यं पुरा सह सीतया। मारुतः स बिना सीतां शोकसंजननो मम।।५४ तां विनाथ विहङ्गोऽसौ पक्षी प्रणदितस्तदा। वायसः पादपगतः प्रहृष्टमभिकूजति॥ एष वे तत्र वैदेह्या विहगः प्रतिहारकः। पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति ॥ पश्य लक्ष्मण संनादं वने मदविवर्धनम्। पुष्पिताग्रेषु वृक्षेषु द्विजानामवकूजताम्॥ विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम्। षट्पदः सहसाभ्येति मदोद्भूतामिव प्रियाम्॥ कामिनामयमत्यन्तमशोकः शोकवर्धनः। स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः॥ अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः। विभ्रमोत्सिक्तमनसः साङ्गरागा नरा इव ॥ सौमित्रे पश्य पम्पायाचित्रासु वनराजिषु। किंनरा नरशार्दूल विचरन्ति यतस्ततः॥ इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः। नलिनानि प्रकाशन्ते जले तरुणसूर्यवत्॥ एषा प्रसन्नसलिला पद्मनीलोत्पलायुता। हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता॥ जले तरुणसूर्याभैः षट्पदाहतकेसरैः। पङ्कजैः शोभते पम्पा समन्तादभिसंवृता॥ चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा। मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः॥ पवनाहतवेगाभिरुर्मिभिर्विमलेऽम्भसि। पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ॥ पद्मपत्रविशालाक्षी सततं प्रियपङ्कजाम्। अपश्यतो मे वैदेही जीवितं नाभिरोचते॥ अहो कामस्य वामत्वं यो गतामपि दुर्लभाम्। स्मारयिष्यति कल्याणी कल्याणतरवादिनीम्॥ शक्यो धारयितुं कामो भवेदभ्यागतो मया। यदि भूयो वसन्तो मां न हन्यात् पुष्पितगुमः॥ यानि स्म रमणीयानि तया सह भवन्ति मे। तान्येवारमणीयानि जायन्ते मे तया विना ॥ पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते। सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण। ७१।। पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः। निःश्वास इव सीताया वाति वायुमनोहरः॥ सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुषु। पुष्पितां कर्णिकारस्य यष्टिं परमशोभिताम्॥ अधिकं शैलराजोऽयं धातुभिस्तु विभूषितः। विचित्रं सृजते रेणुं वायुवेगविघट्टितम्॥ गिरिप्रस्थास्तु सौमित्रे सर्वतः सम्प्रपुष्पितैः। निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः॥ पम्पातीररुहाश्चेमे संसिक्ता मधुगन्धिनः। मालतीमल्लिकापद्मकरवीराश्च पुष्पिताः।७६ ।। केतक्यः सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः। माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः॥ चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा। चम्पकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः॥ पद्मकाश्चैव शोभन्ते नीलाशोकाश्च पुष्पिताः। लोध्राश्च गिरिपृष्ठेषु सिंहकेसरपिञ्जराः। ७९।। अङ्कोलाश्च कुरण्टाश्च चूर्णकाः परिभद्रकाः। चूताः पाटलयश्चापि कोविदाराश्च पुष्पिताः॥ मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु। केतकोद्दालकाश्चैव शिरीषाः शिंशपा धवाः॥ शाल्मल्यः किंशुकाश्चैव रक्ताः कुरवकास्तथा। तिनिशा नक्तमालाश्च चन्दनाः स्यन्दनास्तथा॥ हिन्तालास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः। पुष्पितान् पुष्पिताग्राभिलताभिः परिवेष्टितान्॥ दुमान् पश्येह सौमित्रे पम्पाया रुचिरान् बहून्। वातविक्षिप्तविटपान् यथासन्नान् दुमानिमान्॥ लताः समनुवर्तन्ते मत्ता इव वरस्त्रियः। पादपात् पादपं गच्छशैलाच्छैलं वनाद् वनम्॥ वाति नैकरसास्वादसम्मोदित इवानिलः। केचित् पर्याप्तकुसुमाः पादपा मधुगन्धिनः॥ केचिन्मुकुलसंवीता: श्यामवर्णा इवाबभुः। इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि॥ रागरक्तो मधुकरः कुसुमेष्वेव लीयते। निलीय पुनरुत्पत्य सहसान्यत्र गच्छति। मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ॥ इयं कुसुमसंघातैरुपस्तीर्णा सुखाकृता। स्वयं निपतितैभूमिः शयनप्रस्तरैरिव ॥ विविधा विविधैः पुष्पैस्तैरेव नगसानुषु। विस्तीर्णाः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः॥ हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम्। पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः॥ आह्वयन्त इवान्योन्यं नगाश्च षट्पदनादिताः। कुसुमोत्तंसविटपाः शोभन्ते बहु लक्ष्मण॥ एव कारण्डवः पक्षी विगाह्य सलिलं शुभम्। रमन्ते कान्तया साधु काममुद्दीपयन्निव॥ मन्दाकिन्यास्तु यदिदं रूपमेतन्मनोरमम्। स्थाने जगति विख्याता गुणास्तस्या मनोरमाः॥ यदि दृश्येत सा साध्वी यदि चेह वसेमहि। स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम ॥ न ह्येवं रमणीयेषु शाद्वलेषु तया सह। रमतो मे भवेच्चिन्ता न स्पृहान्येषु वा भवेत्॥ अमी हि विविधैः पुष्पैस्तरवो विविधच्छदाः। काननेऽस्मिन् विना कान्तां चिन्तामुत्पादयन्ति मे॥ पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम्। चक्रवाकानुचरितां कारण्डवनिषेविताम्॥ प्लवैः क्रौञ्चैश्च सम्पूर्णां महामृगनिषेविताम्। अधिकं शोभते पम्पा विकूजद्भिर्विहङ्गमैः॥ दीपयन्तीव मे कामं विविधा मुदिता द्विजाः। श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम्॥ पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान्॥ मां पुनर्मूगशालाक्ष्या वैदेह्या विरहीकृतम्। व्यथयन्तीव मे चित्तं संचरन्तस्ततस्ततः॥ अस्मिन् सानुनि रम्ये हि मत्तद्विजगणाकुले। पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम ॥ जीवेयं खलु सौमित्रे मया सह सुमध्यमा। सेवेत यदि वैदेही पम्पायाः पवनं शुभम्॥ पद्मसौगन्धिकवहं शिवं शोकविनाशनम्। धन्या लक्ष्मण सेवन्ते पम्पाया वनमारुतम्॥ श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया। कथं धारयति प्राणान् विवशा जनकात्मजा॥ किं नु वक्ष्यामि धर्मज्ञं राजानं सत्यवादिनम्। जनकं पृष्टसीतं तं कुशलं जनसंसदि॥ या मामनुगता मन्दं पित्रा प्रस्थापितं वनम्। सीता धर्मं समास्थाय क्व नु सा वर्तते प्रिया॥ तया विहीनः कृपणः कथं लक्ष्मण धारये। या मामनुगता राज्याद् भ्रष्टं विहतचेतसम्॥ तच्चार्वञ्चितपद्माक्षं सुगन्धि शुभमव्रणम्। अपश्यतो मुखं तस्याः सीदतीव मतिर्मम ॥ स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम्। वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण॥ प्राप्य दु:खं वनेश्यामा मां मन्मथविकर्शितम्। नष्टदु:खेव हृष्टेव साध्वी साध्वभ्यभाषत॥ किं नु वक्ष्याम्ययोध्यायां कौसल्यां हि नृपात्मज। क्व सा स्नुषेति पृच्छन्तीं कथं चापि मनस्विनीम्।।११२ । गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम्। नह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम्॥ इति रामं महात्मानं विलपन्तमनाथवत्। उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम्॥ संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम। नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम्॥ स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने। अतिस्नेहपरिष्वङ्गाद् वर्तिरार्दापि दह्यते॥ यदि गच्छति पातालं ततोऽभ्यधिकमेव वा। सर्वथा रावणस्तात न भविष्यति राघव॥ प्रवृत्तिर्लभ्यतां तावत् तस्य पापस्य रक्षसः। ततो हास्यति वा सीतां निधनं वा गमिष्यति ॥ यदि याति दितेर्गर्भ रावणं सह सीतया। तत्राप्येनं हनिष्यामि न चेद् दास्यति मैथिलीम्॥ स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः। अर्थो हि नष्टकार्या१रयत्नेनाधिगम्यते॥ उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम्। सोत्साहस्य हि लोकेषु न किंचिदपि दुर्लभम्॥ उत्साहवन्तश्च पुरुषा नावसीदन्ति कर्मसु। उत्साहमात्रमाश्रित्य प्रतिलप्स्याम जानकीम्॥ त्यजतां कामवृत्तत्वं शोकं संन्यस्य पृष्ठतः। महात्मानं कृतात्मानमात्मानं नावबुध्यसे॥ एवं सम्बोधितस्तेन शोकोपहतचेतनः। त्यज्य शोकं च मोहं च रामो धैर्यमुपागमत्॥ सोऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः। रामः पम्पां सुरुचिरां रम्या पारिप्लवद्रुमाम्॥ निरीक्षमाणः सहसा महात्मा सर्वे वनं निर्झररकन्दरं च। उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे॥ तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमना महात्मा। स लक्ष्मणो राघवमिष्टचेष्टो ररक्ष धर्मेण बलेन चैव॥ तावृष्यमूकस्य समीपचारी चरन् ददर्शाद्भुतदर्शनीयौ। शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव विचेष्ट चेष्टाम्॥ स तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चरंश्चरन्तौ। दृष्ट्वा विषादं परमं जगाम चिन्तापरीतो भयभारभग्नः॥ तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम्। महौजसौ राघवलक्ष्मणौ तौ॥ तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः। न मर्षयति दुष्टात्मा कालस्य वशमागतः॥ स बद्ध्वाभ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः। अमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत्॥ हितबुद्ध्या यदहितं वचः परुषमुच्यते। परपक्षं प्रविश्यैव नैतच्छ्रोक्षगतं मम॥ मानुषं कृषणं राममेकं शाखामृगाश्रयम्। समर्थ मन्यसे केन त्यक्तं पित्रा वनाश्रयम्।४।। रक्षसामीश्वरं मां च देवानां च भयंकरम्। हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः॥ वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः। त्वयाहं परुषाण्युक्तो मम प्रोत्साहनेन वा॥ प्रभवन्तं पदस्थं हि परुषं कोऽभिभाषते। पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनेन वा॥ आनीय च वनात्सीतां पद्महीनामिव श्रियम्। किमर्थं प्रतिदास्यामि राघवस्य भयादहम्।। वृत्तं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम्। पश्य कैश्चिदहोभिश्च राघवं निहतं मया॥ द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे। स कस्माद्रावणो युद्धे भयमाहारयिष्यति॥ द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित्। एव मे सहजो दोषः स्वभावो दुरतिक्रमः॥ यदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया। रामेण विस्मयः कोऽत्र येन ते भयमागतम्॥ स तु तीत्वर्णिवं रामः सह वानरसेनया। प्रतिजानामि ते सत्यं न जीवन्प्रतियास्यति ॥ एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम्। वीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत॥ जयाशिषा तु राजानं वर्धयित्वा यथोचितम्। माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम्॥ रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च। लङ्कायास्तु तदा गुप्तिं कारयामास राक्षसः॥ व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसम्। दक्षिणस्यां महावीयौँ महापार्श्वमहोदरौ॥ पश्चिमायामथ द्वारि पुत्रमिन्द्रजितं तदा। व्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम्॥ उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ। स्वयं तत्र गमिष्यामि मन्त्रिणस्तानुवाच ह॥ राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम्। मध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः॥ एवं विधानं लङ्कायां कृत्वा राक्षसपुंगवः। कृतकृत्यमिवात्मानं मन्यते कालचोदितः॥ विसर्जयामास ततः म मन्त्रिणो विधानमाज्ञाप्य पुष्कलम्। जयाशिषा मन्त्रिगणेन पूजितो विवेश सोऽन्तःपुरमृद्धिमन्महत्॥ लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भयावहम्। राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना। अब्रवीद्राक्षसान्सर्वान्हिया किंचिदवाङ्मुखः॥ धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी। तेन वानरमात्रेण दृष्टा सीता च जानकी॥ प्रासादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः। आविला च पुरी लङ्का सर्वा हनुमता कृता॥ किं करिष्यामि भद्रं वः किं वो युक्तमनन्तरम्। उच्यतां नः समर्थ यत्कृतं च सुकृतं भवेत्॥ मन्त्रमूलं च विजयं प्रवदन्ति मनस्विनः। तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः॥ विविधाः : पुरुषा लोके उत्तमाधममध्यमाः। तेषां तु समवेतानां गुणदोषौ वदाम्यहम्॥ मन्त्रस्त्रिभिर्हि संयुक्तः समर्थैर्मन्त्रनिर्णये। मित्रैर्वापि समानार्थैर्बान्धवैरपि वाधिकैः॥ सहितो मन्त्रयित्वा यः कर्मारम्भान्प्रवर्तयेत्। दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम् ॥ एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः। एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम्॥ गुणदोषौ न निश्चित्य त्यक्त्वा दैवव्यपाश्रयम्। करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः॥ यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः। एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः॥ ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा। मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमम्॥ बह्वीरपि मतीर्गत्वा मन्त्रिणामर्थनिर्णयः। पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः॥ अन्योन्यमतिमास्थाय यत्र संप्रतिभाष्यते। न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते॥ तस्मात्सुमन्त्रितं साधु भवन्तो मतिसत्तमाः। कार्य संप्रतिपद्यन्तामेतत्कृत्यं मतं मम॥ वानराणां हि धीराणां सहस्त्रैः परिवारितः। रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः॥ तरिष्यति च सुव्यक्तं राघवः सागरं सुखम्। तरसा युक्तरूपेण सानुजः सबलानुगः॥ समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा। तस्मिन्नेवंविधे कार्ये विरुद्ध वानरैः सह।। हितं पुरे च सैन्ये च सर्व संमन्त्र्यतां मम ॥ ब्रुवद्भिरेवमृषिभिः काकुत्स्थो वाक्यमब्रवीत्। किं कार्य ब्रूत मुनयो भयं तावदपैतु वः॥ तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत्। भयानां शृणु यन्मूलं देशस्य च नरेश्वर॥ पूर्व कृतयुगे राजन्दैतेयः सुमहामतिः। लोलापुत्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः॥ ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः। सुरैश्च परमोदारैः प्रीतिस्तस्यातुलाभवत्॥ स मधुर्वीर्यसंपन्नो धर्म च सुसमाहितः। बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः॥ शूलं शूलाद्विनिष्कृष्य महावीर्य महाप्रभम्। ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह।६।। त्वयायमतुलो धर्मो मत्प्रसादकरः शुभः। प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम्॥ यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर। तावच्छूलं तवेदं स्यादन्यथा नाशमेष्यति॥ यश्च मामभियुञ्जीत युद्धाय विगतज्वरः। तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम्।।।।। एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः। प्रणिपत्य महादेवं वाक्यमेतदुवाच ह॥ भगवन्मम वंशस्य शूलमेतदनुत्तमम्। भवेत्तु सततं देव सुराणामीश्वरो ह्यसि॥ तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः। प्रत्युवाच महादेवो नैतदेवं भविष्यति॥ मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा। भवतः पुत्रमेकं तु शूलमेतद्भविष्यति॥ यावत्करस्थः शूलोऽयं भविष्यति सुतस्य ते। अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥ एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम्। भवनं सोऽसुरश्रेष्ठः कारयामास सुप्रभम्॥ तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या। विश्वावसोरपत्यं साप्यनलायां महाप्रभा॥ तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः। बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत्॥ तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः। मधुः स शोकमापेदे न चैनं किंचिदब्रवीत्॥ स विहाय इमं लोकं प्रविष्टो वरुणालयम्। शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत्॥ स प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा। संतापयति लोकांस्त्रीन्विशेषेण च तापसान्॥ एवंप्रभावो लवणः शूलं चैव तथाविधम्। श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः॥ बहवः पार्थिवा राम भयातॆषिभिः पुरा। अभयं याचिता वीर त्रातारं न च विद्महे ॥ ते वयं रावणं श्रुत्वा हतं सबलवाहनम्। त्रातारं विद्महे तात नान्यं भुवि नराधिपम्। तत्परित्रातुमिच्छामो लवणाद्भयपीडितान्॥ इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत्। विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम॥ एवमुक्तस्तु रामेण परां व्रीडामुपागमत्। शत्रुघ्नो वीर्यसंपन्नो मन्दं मन्दमुवाच ह॥ अधर्म विद्म काकुत्स्थ अस्मिन्नर्थे नरेश्वर। कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते॥ अवश्यं करणीयं च शासनं पुरुषर्षभ। तव चैव महाभाग शासनं दुरतिक्रमम्॥ त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम्। नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति।४।। व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे। तस्यैवं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ॥ उत्तरं नहि वक्तव्यं ज्येष्ठेनाभिहिते पुनः। अधर्मसहितं चैव परलोकविवर्जितम्॥ सोऽहं द्वितीयं काकुत्स्थ न वक्ष्यामीति चोत्तरम्। मा द्वितीयेन दण्डो वै निपतेन्मयि मानद॥ कामकारो ह्यहं राजंस्तवास्य पुरुषर्षभ। अधर्म जहि काकुत्स्थ मत्कृते रघुनन्दन ॥ एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना। उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा॥ संभारानभिषेकस्य आनयध्वं समाहिताः। अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम्॥ पुरोधसं च काकुत्स्थ नैगमानृत्विजस्तथा। मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया॥ राज्ञः शासनमाज्ञाय तथाकुर्वन्महारथाः। अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम्॥ प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा। ततोऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः॥ संप्रहर्षकरः श्रीमानराघवस्य पुरस्य च। अभिषिक्तस्तु काकुत्स्थो बभौ चादित्यसंनिभः॥ अभिषिक्तः पुरा स्कन्दः सेन्ट्रैरिव दिवौकसैः। अभिषिक्ते तु शत्रुघ्ने रामेणाक्लिष्टकर्मणा॥ पौराः प्रमुदिताश्चासन्ब्राह्मणाश्च बहुश्रुताः। कौसल्या च सुमित्रा च मङ्गलं केकयी तथा॥ चकुस्ता राजभवने याश्चान्या राजयोषितः। ऋषयश्च महात्मानो यमुनातीरवासिनः॥ हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात्। ततोऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः। उवाच मधुरां वाणी तेजस्तस्याभिपूरयन्॥ अयं शरस्त्वमोघस्ते दिव्यः परपुरंजयः। अनेन लवणं सौम्य हन्तासि रघुनन्दन ॥ सृष्टः शरोऽयं काकुत्स्थ यदा शेते महार्णवे। स्वयंभूरजितो दिव्यो यं नापश्यन्सुरासुराः॥ अदृश्यः सर्वभूतानां तेनायं हि शरोत्तमः। सृष्टः क्रोधाभिभूतेन विनाशार्थ दुरात्मनोः॥ मधुकैटभयोर्वीर विघाते सर्वरक्षसाम्। स्रष्टुकामेन लोकांस्त्रीस्तौ चानेन हतौ युधि ॥ हत्वा जनभोगार्थे कैटभं तु मधुं तथा। अनेन शरमुख्येन ततो लोकांश्चकार सः॥ नायं मया शरः पूर्व रावणस्य वधार्थिना। मुक्तः शत्रुघ्न भूतानां महान्हासो भवेदिति॥ यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना। दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम्॥ तत्संनिक्षिप्य भवने पूज्यमानं पुनः पुनः। दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम्॥ यदा तु युद्धमाकाङ्क्षन्यदि कश्चित्समाह्वयेत्। तदा शूलं गृहीत्वा तु भस्म रक्षः करोति हि॥ स त्वं पुरुषशार्दूल तमायुधविनाकृतम्। अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः॥ अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ। आह्वयेथा महाबाहो ततो हन्तासि राक्षसम्॥ अन्यथा क्रियमाणे तु अवध्यः स भविष्यति। यदि त्वेवं कृतं वीर विनाशमुपयास्यति॥ एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः। श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम्॥ अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि। बन्दिनः पर्युपातिष्ठस्तत्पार्थिवनिवेशनम्॥ सूताः परमसंस्कारा मागधाश्चोत्तमश्रुताः। आपका: श्रुतिशीलाश्च निगदन्तः पृथक्पृथक् ॥ राजानं स्तुवतां तेषामुदात्ताभिहिताशिषाम्। प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत॥ ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः। अपदानान्युदाहृत्य पाणिवादान्यवादयन्॥ तेन शब्देन विहगाः प्रतिबुद्धाश्च सस्वनुः। शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः॥ व्यहृताः पुण्यशब्दाश्च वीणानां चापि निःस्वनाः। आशीर्गेयं च गाथानां पूरयामास वेश्म तत्॥ ततः शुचिसमाचाराः पर्युपस्थानकोविदाः। स्त्रीवर्षवरभूयिष्ठा उपतस्थुर्यथापुरा॥ हरिचन्दनसम्पृक्तमुदकं काञ्चनैर्घटैः। आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि॥ मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान्। उपानिन्युस्तथा पुण्याः कुमारीबहुलाः स्त्रियः॥ सर्वलक्षणसम्पन्नं सर्वं विधिवदर्चितम्। सर्वं सुगुणलक्ष्मीवत् तदभूदाभिहारिकम्॥ ततः सूर्योदयं यावत् सर्वं परिसमुत्सुकम्। तस्थावनुपसम्प्राप्तं किंस्विदित्युपशङ्कितम्॥ अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः। ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन्॥ अथाप्युचितवृत्तास्ता विनयेन नयेन च। नह्यस्य शयनं स्पृष्ट्वा किंचिदप्युपलेभिरे॥ ताः स्त्रियः स्वप्नशीलज्ञाश्चेष्टां संचलनादिषु। ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः॥ प्रतिस्रोतस्तृणाग्राणां सदृशं संचकाशिरे। अथ संदेहमानानां स्त्रीणां दृष्ट्वा च पार्थिवम्। यत् तदाशङ्कितं पापं तदा जज्ञे विनिश्चयः॥ कौसल्या च सुमित्रा च पुत्रशोकपराजिते। प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते ॥ निष्प्रभासा विवर्णा च सन्ना शोकेन संनता। न व्यराजत कौसल्या तारेव तिमिरावृता ॥ कौसल्यानन्तरं राज्ञः सुमित्रा तदनन्तरम्। न स्म विभ्राजते देवी शोकाश्रुलुलितानना॥ ते च दृष्ट्वा तदा सुप्ते उभे देव्यौ च तं नृपम्। सुप्तमेवोद्गतप्राणमन्तःपुरममन्यत॥ ततः प्रचुकुशुर्दीनाः सस्वरं ता वराङ्गनाः। करेणेव इवारण्ये स्थानप्रच्युतयूथपाः॥ तासामाक्रन्दशब्देन सहसोद्गतचेतने। कौसल्या च सुमित्रा च त्यक्तनिद्रे बभूवतुः॥ कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम्। हा नाथेति परिकृष्य पेततुर्धरणीतले॥ सा कोसलेन्द्रदुहिता चेष्टमाना महीतले। न भ्राजते रजोध्वस्ता तारेव गगनच्युता॥ नृपे शान्तगुणे जाते कौसल्यां पतितां भुवि। अपश्यंस्ताः स्त्रियः सर्वा हतां नागवधूमिव ॥ ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः। रुदत्यः शोकसंतप्ता निपेतुर्गतचेतनाः॥ ताभिः स बलवान् नादः क्रोशन्तीभिरनुद्रुतः। येन स्फीतीकृतो भूयस्तद् गृहं समनादयत्॥ तत् परित्रस्तसम्भ्रान्तपर्युत्सुकजनाकुलम्। सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम्॥ सद्योनिपतितानन्दं दीनं विक्लवदर्शनम्। बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः॥ अतीतमाज्ञाय तु पार्थिवर्षभं यशस्विनं तं परिवार्य पत्नयः। भृशं रुदत्यः करुणं सुदुः :खिताः प्रगृह्य बाहू व्यलपन्ननाथवत्॥ एतच्छ्रुत्वा शुभं वाक्यं राघवेणानुभाषितम्। ततः शुभतरं वाक्यं व्याजहार महेश्वरः॥ पुष्कराक्ष महाबाहो महावक्षः परंतप। दिष्ट्या कृतमिदं कर्म त्वया धर्मभृतां वर॥ दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः। अपवृत्तं त्वया संख्ये रामरावणजं भयम्॥ आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम्। कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम्॥ प्राप्य राज्यमयोध्यां च नन्दयित्वा सुहृज्जनम्। इक्ष्वाकूणां कूले वंशं स्थापयित्वा महाबल॥ इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः। ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि॥ एष राजा दशरथो विमानस्थः पिता तव। काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः।७॥ इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः। लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय।।।।। महादेववचः श्रुत्वा राघवः सहलक्ष्मणः। विमानशिखरस्थस्य प्रणाममकरोत्पितुः॥ दीप्यमानं स्वया लक्ष्या विरजोऽम्बरधारिणम्। लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः॥ हर्षेण महताविष्टो विमानस्थो महीपतिः। प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा॥ आरोप्याङ्के महाबाहुर्वरासनगतः प्रभुः। बाहुभ्यां संपरिष्वज्य ततो वाक्यं समाददे॥ न मे स्वर्गो बहु मतः समानश्च सुरर्षभैः। त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते॥ कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर। तव प्रव्राजनार्थानि स्थितानि हृदये मम॥ त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम्। अद्य दुःखाद्विमुक्तोऽस्मि नीहारादिव भास्करः॥ तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना। अष्टावक्रेण धर्मात्मा कहोलो ब्राह्मणो यथा॥ इदानीं च विजानामि यथा सौम्य सुरेश्वरैः। वधार्थ रावणस्येह पिहितं पुरुषोत्तमम्॥ सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम्। वनानिवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदनम्॥ सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम्। राज्ये चैवाभिषिक्तं च द्रक्ष्यन्ते वसुधाधिपम्॥ अनुरक्तेन बलिना शुचिना धर्मचारिणा। इच्छेयं त्वामहं द्रष्टुं भरतेन समागतम्॥ चतुर्दशः समाः सौम्य वने निर्यातितास्त्वया। वसता सीतया साधं मत्प्रीत्या लक्ष्मणेन च॥ निवृत्तवनवासोऽसि प्रतिज्ञा पूरिता त्वया। रावणं च रणे हत्वा देवताः परितोषिताः॥ कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन। भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि ॥ इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत्। 'कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च॥ सपुत्रां त्वां त्यजामीति यदुक्ता केकयी त्वया। स शापः केकयीं घोरः सपुत्रां न स्पृशेत्प्रभो॥ तथेति स महाराजो राममुक्त्वा कृताञ्जलिम्। लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह॥ धर्म प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि। रामे प्रसने स्वर्गं च महिमानं तथोत्तमम्॥ रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन। रामः सर्वस्य लोकस्य हितेष्वभिरतः सदा॥ एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः। अभिवाद्य महात्मानमर्चन्ति पुरुषोत्तमम्॥ एतत्तदुक्तमव्यक्तमक्षरं ब्रह्मसंमितम्। देवानां हृदयं सौम्य गुह्यं रामः परंतपः॥ अवाप्तधर्माचरणं यशश्च विपुलं त्वया। एनं शुश्रूषता व्यग्रं वैदेह्या सह सीतया॥ इत्युक्त्वा लक्ष्मणं राजा स्नुषां बद्धाञ्जलिं स्थिताम्। पुत्रीत्याभाष्य मधुरं शनैरेनामुवाच ह॥ कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति। रामेणेदं विशुद्ध्यर्थं कृतं वै त्वद्धितैषिणा॥ सुदुष्करमिदं पुत्रि तव चारित्रलक्षणम्। कृतं यत्तेऽन्यनारीणां यशो ह्यभिभविष्यति॥ न त्वं कामं समाधेया भर्तृशुश्रूषणं प्रति। अवश्यं तु मया वाच्यमेष ते दैवतं परम्॥ इति प्रतिसमादिश्य पुत्रौ सीतां च राघवः। इन्द्रलोकं विमानेन ययौ दशरथो नृपः॥ विमानमास्थाय महानुभावः श्रिया च संहृष्टतनुर्नृपोत्तमः। आमन्त्र्य पुत्रौ सह सीतया च जगाम देवप्रवरस्य लोकम्॥ स तु तेन तदा क्रोधात्काकुत्स्थेनादितो भृशम्। रावणः समरश्लाघी महाक्रोधमुपागमत्॥ स दीप्तनयनोऽमर्षाच्चापमुद्यम्य वीर्यवान्। अभ्यर्दयत्सुसंकृद्धो राघवं परमाहवे॥ बाणाधारासहस्रैस्तु सतोयद इवाम्बरात्। राघवं रावणो बाणैस्तटाकामिव पूरयन्॥ पूरितः शरजालेन धनुर्मुक्तेन संयुगे। महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते॥ स शरैः शरजालानि वारयन्समरे स्थितः। गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान्॥ ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः। निजघानोरसि क्रुद्धो राघवस्य महात्मनः॥ स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः। दृष्टः फुल्ल इवारण्ये सुमहान्किशुकदुमः॥ शराभिघातसंरब्धः सोऽभिजग्राह सायकान्। काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः।।।। ततोऽन्योन्यं सुसंरब्धौ तावुभौ रामरावणौ। शरान्धकारे समरे नोपलक्षयतां तदा।९।। ततः क्रोधसमाविष्टो रामो दशरथात्मजः। उवाच रावणं वीरः प्रहस्य परुषं वचः॥ मम भार्या जनस्थानादज्ञानाद्राक्षसाधम। हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान्॥ मया विरहितां दीनां वर्तमानां महावने। वैदहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे॥ स्त्रीषु शूर विनाथासु परदाराभिमर्शनम्। कृत्वा कापुरुषं कर्म शूरोऽहमिति मन्यसे॥ भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित। दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे॥ शूरेण धनदभ्रात्रा बलैः समुदितेन च। श्लाघनीयं महत्कर्म यशस्यं च कृतं त्वया॥ उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च। कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत्फलम्॥ शूरोऽहमिति चात्मानमवगच्छसि दुर्मते। नैव लज्जास्ति ते सीतां चौरवद्ध्यपकर्षतः॥ यदि मत्संनिधौ सीता धर्षिता स्यात्त्वया बलात्। भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः॥ दिष्टयासि मम मन्दात्मंश्चक्षुर्विषयमागतः। अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम्॥ अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम्। क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु॥ निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण। पिबन्तु रुधिरं तर्षाद्वाणशल्यान्तरोत्थितम्॥ अद्य मदाणभिन्नस्य गतासोः पतितस्य ते। कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान्॥ इत्येवं स वदन्वीरो रामः शत्रुनिबर्हणः। सेन्द्रं समीपस्थं शरवर्षैरवाकिरत् ॥ बभूव द्विगुणं वीर्य बलं हर्षश्च संयुगे। रामस्यास्त्रबलं चैव शत्रोनिधनकांक्षिणः॥ प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः। प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत्॥ शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः। भूय एवार्दयद्रामो रावणं राक्षसान्तकृत्॥ हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात्। हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत्॥ यदा च शस्त्रं नारेभे न चकर्ष शरासनम्। नास्य प्रत्यकरोद्वीयं विक्लवेनान्तरात्मना ॥ क्षिप्ताश्चाशु शरास्तेन शस्त्राणि विविधानि च। मरणार्थाय वर्तन्ते मृत्युकालोऽभ्यवर्तत ॥ सूतस्तु रथनेतास्य तदवस्थं निरीक्ष्य तम्। शनैर्युद्धादसंभ्रान्तो रथं तस्यापवाहयत्॥ निवार्य भीमं जलदस्वनं तदा। जगाम भीत्या समरान्महीपतिं निरस्तवीर्य पतितं समीक्ष्य ॥ स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः। पताकाध्वजसम्पन्नं महार्हागुरुधूपितम्॥ अपश्यनगरं श्रीमान् नानाजनसमन्वितम्। स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम्॥ राजमार्गे ययौ रामो मध्येनागुरुधूपितम्। चन्दनानां च मुख्यानामगुरुणां च संचयैः॥ उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च। अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि॥ शोभमानमसम्बाधं तं राजपथमुत्तमम्। संवृतं विविधैः पुष्पैर्भक्ष्यैरुच्चावचैरपि॥ ददर्श तं राजपथं दिवि देवपतिर्यथा। दध्यक्षतहविलाजैधूपैरगुरुचन्दनैः॥ नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम्। आशीर्वादान् बहूशृण्वन् सुहृद्भिः समुदीरितान्॥ यथार्ह चापि सम्पूज्य सर्वानेव नरान् ययौ। पितामहैराचरितं तथैव प्रपितामहैः॥ अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय। यथा स्म पोषिताः पित्रा यथा सर्वैः पितामहैः। ततः सुखतरं सर्वे रामे वत्स्याम राजनि॥ अलमद्य हि भूक्तेन परमार्थैरलं च नः। यदि पश्याम निर्यान्तं रामं राज्य प्रतिष्ठितम्॥ ततो हि नः प्रियतरं नान्यत् किंचिद् भविष्यति। यथाभिषेको रामस्य राज्येनामिततेजसः॥ एताश्चान्याश्च सुहृदामुदासीनः शुभाः कथाः। आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम्॥ न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्। नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे॥ यश्च राम न पश्येत्तु यं च रामो न पश्यति। निन्दितः सर्वलोकेषु स्वात्माप्येनं विगर्हते॥ सर्वेषु स हि धर्मात्मा वर्णानां कुरुते दयाम्। चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः॥ चतुष्पथान् देवपथांश्चैत्यांश्चायतनानि च । प्रदक्षिणं परिहरञ्जगाम नृपतेः सुतः॥ स राजकुलमासाद्य मेघसङ्गोपमैः शुभैः। प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः॥ आवारयद्भिर्गगनं विमानैरिव पाण्डुरैः। वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः॥ तत् पृथिव्यां गृहवरं महेन्द्रसदनोपमम्। राजपुत्रः पितुर्बेश्म प्रविवेश श्रिया ज्वलन्॥ स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः। पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः॥ स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः। संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमत्यगात्॥ तस्मिन् प्रविष्टे पितुरन्तिकं तदा जनः स सर्वो मुदितो नृपात्मजे। प्रतीक्षते तस्य पुनः स्म निर्गमं यथोदयं चन्द्रमसः सरित्पतिः॥ अफलस्तु ततः शक्रो देवानग्निपुरोगमान्। अब्रवीत् त्रस्तनयनः सिद्धगन्धर्वचारणान्॥ कुर्वता तपसो विघ्नं गौतमस्य महात्मनः। क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम्॥ अफलोऽस्मि कृतस्तेन क्रोधात् सा च निराकृता। शापमोक्षेण महता तपोऽस्यापहृतं मया॥ तन्मां सुरवराः सर्वे सर्षिसङ्घाः सचारणाः। सुरकार्यकरं यूयं सफलं कर्तुमर्हथ॥ शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः। पितृदेवानुपेत्याहुः सर्वे सह मरुद्गणैः॥ अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः। मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत॥ अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति। भवतां हर्षणार्थं च ये च दास्यन्ति मानवाः। अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम्।७।। अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः। उत्पाट्य मेषवृषणौ सहस्राक्षे न्येवशयन्॥ तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः। अफलान् भुञ्जते मेपान् फलैस्तेपामयोजयन्॥ इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव। गौतमस्य प्रभावेण तपसा च महात्मनः॥ तदागच्छ महातेज आश्रमं पुण्यकर्मणः। तारयैनां महाभागामहल्यां देवरूपिणीम्॥ विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः। विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह॥ ददर्श च महाभागां तपसा द्योतितप्रभाम्। लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः॥ प्रयत्नानिर्मितां धात्रा दिव्यां मायामयीमिव। धूमेनाभिपरीताङ्गी दीप्तामग्निशिखामिव॥ सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव। मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव ॥ सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह। त्रयाणामपि लोकानां यावद् रामस्य दर्शनम्। शापस्यान्तमुपागम्य तेषां दर्शनमागता॥ राघवौ तु तदा तस्याः पादौ जगृहतुर्मुदा। स्मरन्ती गौतमवचः प्रतिजग्राह सा हि तौ॥ पाद्यमर्थ्य तथाऽऽतिथ्यं चकार सुसमाहिता। प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा॥ पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः। गन्धर्वाप्सरसां चैव महानासीत् समुत्सवः॥ साधु साध्विति देवास्तामहल्यां समपूजयन्। तपोबलविशुद्धाङ्गी गौतमस्य वशानुगाम्॥ गौतमोऽपि महातेजा अहल्यासहितः सुखी। रामं सम्पूज्य विधिवत् तपस्तेपे महातपाः॥ रामोऽपि परमां पूजां गौतमस्य महामुनेः। सकाशाद् विधिवत् प्राप्य जगाम मिथिलां ततः॥ ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया। सवाष्पमतिनिःश्वस्य जगादेदं पुनर्वचः॥ सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः। राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम्॥ रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः। शोभयन्तु कुमारस्य वाहिनीः सुप्रसारिताः॥ ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः। तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय॥ आयुधानि च मुख्यानि नागराः शकटानि च। अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यकोविदाः॥ निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु। नदींश्च विविधाः पश्यन् न राज्यं संस्मरिष्यति॥ धान्यकोशश्च यः कश्चिद् धनकोशश्च मामकः। तौ राममनुगच्छेतां वसन्तं निर्जने वने॥ यजन् पुण्येषु देशेषु विसृजेश्चाप्तदक्षिणाः। ऋषिभिश्चापि संगम्य प्रवत्स्यति सुखं वने॥ भरतश्च महाबाहुरयोध्यां पालयिष्यति। सर्वकामैः पुनः श्रीमान् रामः संसाध्यतामिति॥ एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम्। मुखं चाप्यगमच्छोषं स्वरश्चापि व्यरुध्यत ॥ सा विषण्णा च संत्रस्ता मुखेन परिशुष्यता। राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत्॥ राज्यं गतधनं साधो पीतमण्डां सुरामिव। निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते॥ कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम्। राजा दशरथो वाक्यमुवाचायतलोचनाम्॥ वहन्तं किं तुदसि मां नियुज्य धुरि माहिते। अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः॥ तस्यैतत् क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना। कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत्॥ तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत्। असमञ्ज इति ख्यातं तथायं गन्तुमर्हति॥ एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत्। वीडितश्च जनः सर्वः सा च तनावबुध्यत॥ तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः। शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत्॥ असमञ्जो गृहीत्वा तु क्रीडतः पथि दारकान्। सरय्वां प्रक्षिपन्नप्सु रमते तेन दुर्मतिः॥ तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन्। असमजं वृणीष्वैकमस्मान् वा राष्ट्रवर्धन॥ तानुवाच ततो राजा किंनिमित्तमिदं भयम्। ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन्॥ क्रीडतस्त्वेष नः पुत्रान् बालानुभ्रान्तचेतसः। सरय्वां प्रक्षिपन्मौादतुलां प्रीतिमश्नुते॥ स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः। तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया ॥ तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम्। यावज्जीवं विवास्योऽयमिति तानन्वशात् पिता ॥ स फालपिटकं गृह्य गिरिदुर्गाण्यलोकयत्। दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत्॥ इत्येनमत्यजद् राजा सगरो वै सुधार्मिकः। रामः किंमकरोत् पापं येनैवमुपरुध्यते॥ नहि कंचन पश्यामो राघवस्यागुणं वयम्। दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम्॥ अथवा देवि त्वं कंचिद् दोषं पश्यसि राघवे। तमद्य ब्रूहि तत्त्वेन तदा रामो विवास्यते॥ अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च निर्दहेदपि शक्रस्य द्युतिं धर्मविरोधवान्॥ तदलं देवि रामस्य श्रिया विहतया त्वया। लोकतोऽपि हि ते रक्ष्यः परिवादः शुभानने॥ श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वरः। शोकोपहतया वाचा कैकेयीमिदमब्रवीत्॥ एतद्वचो नेच्छसि पापरूपे हितं न जानासि ममात्मनोऽथवा। आस्थाय मार्ग कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता॥ अनुव्रजिष्याम्यहमद्य राम राज्यं परित्यज्य सुखं धनं च। सर्वे च राज्ञा भरतेन च त्वं यथासुखं भुझ्व चिराय राज्यम्॥ अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः। स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा॥ कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः। तथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः॥ सूपकाराः सुधाकारा वंशचर्मकृतस्तथा। समर्था ये च द्रष्टारः पुरतश्च प्रतस्थिरे॥ स तु हर्षात् तमुद्देशं जनौघो विपुलः प्रयान्। अशोभत महावेगः सागरस्येव पर्वणि॥ ते स्ववारं समास्थाय वर्मकर्मणि कोविदाः। करणैर्विविधोपेतैः पुरस्तात् सम्प्रतस्थिरे॥ लता वल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च। जनास्ते चक्रिरे मार्ग छिन्दन्तो विविधान् दुमान्॥ अवृक्षेषु च देशेषु केचिद् वृक्षानरोपयन्। केचित् कुठारैष्टकैश्च दात्रैश्छिन्दन् क्वचित्क्वचित्।७।। अपरे वीरणस्तम्बान् बलिनो बलवत्तराः। विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः॥ अपरेऽपूरयन् कूपान् पांसुभिः श्वभ्रमायतम्। निम्नभागांस्तथैवाशु समांश्चक्रुः समन्ततः॥ बबन्धुर्बन्धनीयांश्च क्षोद्यान् संवुक्षुदुस्तथा। बिभिदुर्भेदनीयांश्च तांस्तान् देशान् नरास्तदा॥ अचिरेण तु कालेन परिवाहान् बहूदकान्। चक्रुर्बहुविधाकारान् सागरप्रतिमान् बहून्॥ निर्जलेषु च देशेषु खानयामासुरुत्तमान्। उदपानान् बहुविधान् वेदिकापरिमण्डितान्॥ ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः। मत्ता ष्टद्विजगणः पताकाभिरलंकृतः॥ चन्दनोदकसंसिक्तो नानाकुसुमभूषितः। बहशोभत सेनायाः पन्थाः सुरपथोपमः॥ आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः। रमणीयेषु देशेषु बहुस्वादुफलेषु च ॥ यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः। भूयस्तं शोभयामासुभूषाभिभूषणोपमम् ॥ नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः। निवेशान् स्थापयामासुर्भरतस्य महात्मनः॥ बहुपांसुचयाश्चापि परिखाः परिवारिताः। तत्रेन्द्रनीलप्रतिमाः प्रतोलीवरशोभिताः॥ प्रासादमालासंयुक्ताः सौधप्राकारसंवृताः। पताकाशोभिताः सर्वे सुनिर्मितमहापथाः॥ विसर्पद्भिरिवाकाशे विटङ्काग्रविमानकैः। समुच्छ्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः॥ जाह्नवीं तु समासाद्य विविधदुमकाननाम्। शीतलामलपानीयां महामीनसमाकुलाम्॥ सचन्द्रतारागणमण्डितं यथा नभः क्षपायाममलं विराजते। नरेन्द्रमार्गः स तदा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः॥ तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः। द्वास्थः कुमारावाहूय राघवाय न्यवेदयत्॥ दृष्ट्वा तु राघवः प्राप्तावुभौ भरतलक्ष्मणौ। परिष्वज्य ततो रामो वाक्यमेतदुवाच ह॥ कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम्। धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ॥ अक्षयश्चाव्ययश्चैव धर्मसेतुर्मतो मम। धर्मप्रवचनं चैव सर्वपापप्रणाशनम्॥ युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम्। सहितो यष्टुमिच्छामि तत्र धर्मस्तु शाश्वतः॥ इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः। सुहुतेन सुयज्ञेन वरुणत्वमुपागमत्॥ सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित्। प्राप्तश्च सर्वलोकेषु कीर्ति स्थानं च शाश्वतम्॥ अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह । हितं चायतियुक्तं च प्रयतौ वक्तुमर्हथः॥ श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः। भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह।।।।। त्वयि धर्मः परः साधो त्वयि सर्वा वसुंधरा। प्रतिष्ठिता महाबाहो यशश्चामितविक्रम॥ महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः। निरीक्षन्ते महात्मानं लोकनाथं यथा वयम्॥ पुत्राश्च पितृवद्राजन्पश्यन्ति त्वां महाबल। पृथिव्या गतिभूतोऽसि प्राणिनामपि राघव॥ स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप। पृथिव्या राजवंशानां विनाशो यत्र दृश्यते॥ पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः। सर्वेषां भविता तत्र संक्षयः सर्वकोपजः॥ सर्वं पुरुषशार्दूल गुणैरतुलविक्रम। पृथिवी नार्हसे हन्तुं वशे हि तव वर्तते॥ भरतस्य तु तद्वाक्यं श्रुत्वामृतमयं यथा। प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः॥ उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम्। प्रीतोऽस्मि परितुष्टोऽस्मि तवाद्य वचनेऽनघ।।१७ इदं वचनमक्लीबं त्वया धर्मसमागतम्। व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम्॥ एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात्। निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च॥ लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः। बालानां तु शुभं वाक्यं ग्राह्यं लक्ष्मणपूर्वज। तस्माच्छृणोमि ते वाक्यं साधु युक्तं महाबल।।२० ऋषेर्वचनमाज्ञाय रामः संध्यामुपासितुम्। अपाक्रामत्सरः पुण्यमप्सरोगणसेवितम्॥ तत्रोदकमुपस्पृश्य संध्यामन्वास्य पश्चिमाम्। आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः॥ तस्यागस्त्यो बहुगुणं कन्दमूलं तथौषधम्। शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत्॥ स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम्। प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत्॥ प्रभाते काल्यमुत्थाय कृत्वाह्निकमरिंदमः। ऋषि समुपचक्राम गमनाय रघूत्तमः॥ अभिवाद्याब्रवीद्रामो महर्षि कुम्भसंभवम्। आपृच्छे स्वाश्रमं गन्तुं मामनुज्ञातुमर्हसि ॥ धन्योऽस्म्यनुगृहीतोऽस्मि दर्शनेन महात्मनः। द्रष्टुं चैवागमिष्यामि पावनाथ महात्मनः॥ तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम्। उवाच परमप्रीतो धर्मनेत्रस्तपोधनः।।।। अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम्। पावनः सर्वभूतानां त्वमेव रघुनन्दन॥ मुहूर्तमपि राम त्वां येऽनुपश्यन्ति केचन। पाविताः स्वर्गभूताश्च पूज्यास्ते त्रिदिवेश्वरैः॥ ये च त्वां घोरचक्षुभिः पश्यन्ति प्राणिनो भुवि। हतास्ते यमदण्डेन सद्यो निरयगामिनः॥ ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम्। भुवि त्वां कथयन्तो हि सिद्धिमेष्यन्ति राघव॥ त्वं गच्छारिष्टमव्यग्रः पन्थानमकुतोभयम्। प्रशाधि राज्यं धर्मेण गतिहि जगतो भवान्॥ एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः। अभ्यवादयत प्राज्ञस्तमृषि सत्यशीलिनम्॥ अभिवाद्य ऋषिश्रेष्ठं तांश्च सर्वांस्तपोधनान्। अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम्॥ तं प्रयान्तं मुनिगणा आशीर्वादैः समन्ततः। अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः॥ स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते। शशी मेघसमीपस्थो यथा जलधरागमे॥ ततोऽदिवसे प्राप्ते पूज्यमानस्ततस्ततः। अयोध्यां प्राप्य काकुत्स्थो मध्यकक्षामवातरत्।।१८ ततो विसृज्य रुचिरं पुष्पकं कामगामिनम्। विसर्जयित्वा गच्छेति स्वस्ति तेऽस्त्विति च प्रभुः।।१९। कक्षान्तरस्थितं क्षिप्रं द्वास्थं रामोऽब्रवीद्वचः। लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ। ममागमनमाख्याय शब्दापयत मा चिरम्॥ ततः प्रभाते विमले कृतकर्मा नराधिपः। विश्वामित्रं महात्मानमाजुहाव सराघवम्॥ तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा। राघवौ च महात्मानौ तदा वाक्यमुवाच ह॥ भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ। भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम्॥ एवमुक्तः स धर्मात्मा जनकेन महात्मना। प्रत्युवाच मुनिश्रेष्ठो वाक्यं वाक्यविशारदः॥ पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ। द्रष्टुकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति ॥ एतद् दर्शय भद्रं ते कृतकामौ नृपात्मजौ। दर्शनादस्य धनुषो यथेष्ठं प्रतियास्यतः।६।। एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम्। श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति॥ देवरात इति ख्यातो निमेयेष्ठो महीपतिः। न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मनः॥ दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्। विध्वस्य त्रिदशान् रोषात्सलीलमिदमब्रवीत्॥ यस्माद् भागार्थिनो भागं नाकल्पयत मे सुराः। वराङ्गानि महार्हणि धनुषा शातयामि वः॥ ततो विमनसः सर्वे देवा वै मुनिपुङ्गव। प्रसादयन्त देवेशं तेषां प्रीतोऽभवद् भवः॥ प्रीतियुक्तस्तु सर्वेषां ददौ तेषां महात्मनाम्। तदेतद् देवदेवस्य धनूरत्नं महात्मनः॥ न्यासभूतं तदा न्यस्तमस्माकं पूर्वजे विभौ। अथ मे कृषतः क्षेत्र लाङ्गलादुत्थिता ततः॥ क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता। भूतलादुत्थितां सा तु व्यवर्धत ममात्मजा ॥ वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा। भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम्॥ वरयामासुरागत्य राजानो मुनिपुङ्गव। तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम्॥ वीर्यशुल्केति भगवन् न ददामि सुतामहम्। ततः सर्वे नृपतयः समेत्य मुनिपुङ्गव॥ मिथिलामप्युपागम्य वीर्यं जिज्ञासवस्तदा। तेषां जिज्ञासमानानां शैवं धनुरूपाहृतम्॥ न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा। तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने॥ प्रत्याख्याता नृपतयस्तन्निबोध तपोधन । ततः परमकोपेन राजानो मुनिपुङ्गव॥ अरुन्धन् मिथिलां सर्वे वीर्यसंदेहमागताः। आत्मानमवधूतं मे विज्ञाय नृपपुङ्गवाः॥ रोषेण महताविष्टाः पीडयन् मिथिलां पुरीम्। ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः॥ साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः। ततो देवगणान् सर्वांस्तपसाहं प्रसादयम्॥ ददुश्च परमप्रीताश्चतुरङ्गबलं सुराः। ततो भग्ना नृपतयो हन्यमाना दिशो ययुः॥ अवीर्या वीर्यसंदिग्धाः सामात्याः पापकारिणः। तदेतन्मुनिशार्दूल धनुः परमभास्वरम्॥ रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत। यद्यस्य धनुषो रामः कुर्यादारोपणं मुने। सुतामयोनिजां सीतां दद्यां दाशरथेरहम्॥ तस्य तद् वचनं श्रुत्वा वालिसूनुरभाषत। अश्विपुत्रौ महावेगौ बलवन्तौ प्लवंगमौ॥ पितामहवरोत्सेकात् परमं दर्पमास्थितौ। अश्विनोर्माननार्थं हि सर्वलोकपितामहः॥ सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा। वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम्॥ सुराणाममृतं वीरौ पीतवन्तौ महाबलौ। एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम्॥ लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः। अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्॥ तां लङ्कां तरसा हन्तुं रावणं च महाबलम्। किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः॥ कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः। वायुसूनोर्बलेनैव दग्धा लङ्केति नः श्रुतम् ॥ दृष्ट्वा देवी न चानीता इति तत्र निवेदितुम्। न युक्तमिव पश्यामि भवद्भिः ख्यातपौरुषैः॥ नहि वः प्लवने कश्चिन्नापि कश्चित् पराक्रमे। तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः॥ जित्वा लङ्कां सरक्षौघां हत्वा तं रावणं रणे। सीतामादाय गच्छामः सिद्धार्था हृष्टमानसाः॥ तेष्वेवं हतशेषेषु राक्षसेषु हनूमता। किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम्॥ रामलक्ष्मणयोर्मध्ये न्यस्याम जनकात्मजाम्। किं व्यलीकैस्तु तान् सर्वान् वानरान् वानरर्षभान्॥ वयमेव हि गत्वा तान् हत्वा राक्षसपुङ्गवान्। राघवं द्रष्टुमर्हामः सुग्रीवं सहलक्ष्मणम्॥ तमेवं कृतसंकल्पं जाम्बवान् हरिसत्तमः। उवाच परमप्रीतो वाक्यमर्थवदर्थवित्॥ नैषा बुद्धिर्महाबुद्धे यद् ब्रवीषि महाकपे। विचेतुं वयमाज्ञप्ता दक्षिणां दिशमुत्तमाम्॥ नानेतुं कपिराजेन नैव रामेण धीमता। कथंचिनिर्जितां सीतामस्माभिर्नाभिरोचयेत्॥ राघवो नृपशार्दूलः कुलं व्यपदिशन् स्वकम्। प्रतिज्ञाय स्वयं राजा सीताविजयमग्रतः॥ सर्वेषां कपिमुख्यानां कथं मिथ्या करिष्यति। विफलं कर्म च कृतं भवेत् तुष्टिर्न तस्य च॥ वृथा च दर्शितं वीर्यं भवेद् वानरपुङ्गवाः। तस्माद् गच्छाम वै सर्वे यत्र रामः सलक्ष्मणः। सुग्रीवश्च महातेजाः कार्यस्यास्य निवेदने॥ न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र। यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धिम्॥ ततस्तु शिंशपामूले जानकी पर्यवस्थिताम्। अभिवाद्यब्रवीद् दिष्ट्या पश्यामि त्वामिहाक्षताम्॥ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः। भर्तुः स्नेहान्विता वाक्यं हनूमन्तमभाषत॥ यदि त्वं मन्यसे तात वसैकाहमिहानघ। क्वचित् सुसंवृते देशे विश्रान्तः श्वो गमिष्यसि॥ मम चैवाल्पभाग्यायाः सांनिध्यात् तव वानर। शोकस्यास्याप्रमेयस्य मुहूर्तं स्यादपि क्षयः॥ गते हि हरिशार्दूल पुनः सम्प्राप्तये त्वयि। प्राणेष्वपि न विश्वासो मम वानरपुङ्गव॥ अदर्शनं च ते वीर भूयो मां दारयिष्यति। दुःखाद् दुखतरं प्राप्तां दुर्मनः शोककर्शिताम्॥ अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः। सुमहत्सु सहायेषु हर्युक्षेषु महाबलः॥ कथं नु खलु दुष्पारं संतरिष्यति सागरम्। तानि हयृक्षसैन्यानि तौ वा नरवरात्मजौ॥ त्रयाणामेव भूतानां सागरस्यापि लङ्घने। शक्तिः स्याद् वैनतेयस्य तव वा मारुतस्य वा॥ तदत्र कार्यनिर्बन्धे समुत्पन्ने दुरासदे। किं पश्यसि समाधानं त्वं हि कार्यविशारदः॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः॥ बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः। मां नयेद् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत्॥ तद् यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवत्याहवशूरस्य तथा त्वमुपपादय॥ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्य हनुमान् वीरो वाक्यमुत्तरमब्रवीत्॥ देवि हयृक्षसैन्यानामीश्वरः प्लवतां वरः। सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः॥ स वानरसहस्राणां कोटीभिरभिसंवृतः। क्षिप्रमेष्यति वैदेहि सुग्रीवः प्लवगाधिपः॥ तौ च वीरौ नरवरौ सहितौ रामलक्ष्मणौ। आगम्य नगरी लङ्कां सायकैर्विधमिष्यतः॥ सगणं राक्षसं हत्वा नचिराद् रघुनन्दनः। त्वामादाय वरारोहे स्वां पुरीं प्रति यास्यति॥ समाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी। क्षिप्रं द्रक्ष्यसि रामेण निहतं रावणं रणे॥ निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे। त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी॥ क्षिप्रमेष्यति काकुत्स्थो हपृक्षप्रवरैर्युतः। यस्ते युधि विजित्यारीञ्छोकं व्यपनयिष्यति॥ एवमाश्वास्य वैदहीं हनूमान् मारुतात्मजः। गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत्॥ राक्षसान् प्रवरान् हत्वा नाम विश्राव्य चात्मनः। समाश्वास्य च वैदेही दर्शयित्वा परं बलम्॥ नगरीमाकुलां कृत्वा वञ्चयित्वा च रावणम्। दर्शयित्वा बलं घोरं वैदेहीमभिवाद्य च॥ प्रतिगन्तुं मनश्चक्रे पुनर्मध्येन सागरम्। ततः स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः॥ आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः। तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः॥ सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः। बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः॥ उन्मिषन्तमिवोद्भूतैर्लोचनैरिव धातुभिः तोयौघनिःस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम्॥ प्रगीतमिव विस्पष्टं नानाप्रस्रवणस्वनैः। देवदारुभिरुद्भूतैरुव॑बाहुमिव स्थितम्॥ प्रपातजलनिर्घोषैः प्राक्क्रुष्टमिव सर्वतः। वेपमानमिव श्यामैः कम्पमानैः शरद्वनैः॥ वेणुभिर्मारुतोद्भूतैः कूजन्तमिव कीचकैः। निःश्वसन्तमिवामर्षाद्धोरैराशीविषोत्तमैः॥ नीहारकृतगम्भीरैायन्तमिव गह्वरैः। मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः॥ जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः। कूँटैश्च बहुधा कीर्णं शोभितं बहुकन्दरैः॥ सालनालैश्च कर्णैश्च वंशैश्च बहुभिर्वृतम्। लतावितानैर्विततैः : पुष्पवद्भिरलंकृतम्॥ नानामृगगणैः कीर्णं धातुनिष्यन्दभूषितम्। बहुप्रस्रवणोपेतं शिलासंचयसंकटम्॥ महर्षियक्षगन्धर्वकिंनरोरगसेवितम्। लतापादपसम्बाधं सिंहाधिष्ठितकन्दरम् ॥ व्याघ्रादिभिः समाकीर्णं स्वादुमूलफलद्रुमम्। आरुरोहानिलसुतः पर्वतं प्लवगोत्तमः॥ रामदर्शनशीघ्रण प्रहर्षेणाभिचोदितः। तेन पादतलक्रान्ता रम्येषु गिरिसानुषु ॥ सघोषाः समशीर्यन्त शिलाञ्चूर्णीकृतास्ततः। स तमारुह्य शैलेन्द्र व्यवर्धत महाकपिः॥ दक्षिणादुत्तरं पारं प्रार्थयँल्लवणाम्भसः। अधिरुह्य ततो वीरः पर्वतं पवनात्मजः॥ ददर्श सागरं भीमं भीमोरगनिषेवितम्। स मारुत इवाकाशं मारुतस्यात्मसम्भवः॥ प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम्। स तदा पीडितस्तेन कपिना पर्वतोत्तमः।॥ ररास विविधैर्भूतैः प्राविशद् वसुधातलम्। कम्पमानैश्च शिखरैः पतद्भिरपि च दुमैः॥ तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः। निपेतुर्भूतले भग्नाः शक्रायुधहता इव॥ कन्दरोदरसंस्थानां पीडितानां महौजसाम्। सिंहानां निनदो भीमो नभो भिन्दन् हि शुश्रुवे॥ त्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः। विद्याधर्यः समुत्पेतुः सहसा धरणीधरात्॥ अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः। निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः॥ किंनरोरगगन्धर्वयक्षविद्याधरास्तथा। पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः॥ स च भूमिधरः श्रीमान् बलिना तेन पीडितः। सवृक्षशिखरोदनः प्रविवेश रसातलम्॥ दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः। धरण्यां समतां यातः स बभूव धराधरः॥ स लिलचियिषुर्भीमं सलीलं लवणार्णवम्। कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः॥ निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम्। प्रदहन्निव कोपेन वानरेन्द्रमुर्दक्षत॥ ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम्। आददे परिघं धीरो महेन्द्रशिखरोपमम्॥ हेमपट्टपरिक्षिप्तं वज्रविदूमभूषितम्। यमदण्डोपमं भीमं रक्षसां भयनाशनम्॥ तमाविध्य महातेजाः शक्रध्वजसमौजसम्। निननाद विवृत्तास्यो निकुम्भो भीमविक्रमः॥ उरोगतेन निष्केण भुजस्थैरङ्गदैरपि। कुण्डलाभ्यां च चित्राभ्यां मालया च स चित्रया।।५ निकुम्भो भूषणैाति तेन स्म परिघेण च। यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान्॥ परिघाग्रेण पुस्फोट वातग्रन्धिर्महात्मनः। प्रजज्वाल सघोषश्च विधूम इव पावकः॥ नगर्या विटपावत्या गन्धर्वभवनोत्तमैः। सतारागणनक्षत्रं सचन्द्रसमहाग्रहम्।। निकुम्भपरिघाघूर्ण भ्रमतीव नभस्थलम्॥ दुरासदश्च संजज्ञे परिघाभरणप्रभः। क्रोधेन्धनो निकुम्भाग्नियुगान्ताग्निरिवोत्थितः॥ राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात्। हनुमांस्तु विवृत्योरस्तस्थौ प्रमुखतो बली॥ परिघोपमबाहुस्तु परिघं भास्करप्रभम्। बली बलवतस्तस्य पातयामास वक्षसि॥ स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः। विकीर्यमाणः सहसा उल्काशतमिवाम्बरे॥ स तु तेन प्रहारेण न चचाल महाकपिः। परिघेण समाधूतो यथा भूमिचलेऽचलः॥ स तथाभिहतस्तेन हनूमान् प्लवगोत्तमः। मुष्टिं संवर्तयामास बलेनातिमहाबलः॥ तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान्। अभिचिक्षेप वेगेन वेगवान्वायुविक्रमः॥ तत्र पुस्फोट वर्मास्य प्रसुस्राव च शोणितम्। मुष्टिना तेन संजज्ञे मेघे विद्युदिवोत्थिता॥ स तु तेन प्रहारेण निकुम्भो विचचाल च। स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम्॥ चुक्रुशुश्च तदा संख्ये भीमं लङ्कानिवासिनः। निकुम्भेनोद्यतं दृष्ट्वा हनूमन्तं महाबलम्॥ स तथा ह्रियमाणोऽपि हनूमांस्तेन रक्षसा। आजघाननिलसुतो वज्रकल्पेन मुष्टिना॥ आत्मानं मोक्षयित्वाथ क्षितावभ्यवपद्यत। हनूमानुन्ममाथाशु निकुम्भं मारुतात्मजः॥ निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च। उत्पत्य चास्य वेगेन पपातोरसि वेगवान् ॥ परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम्। उत्पाटयामास शिरो भैरवं नदतो महत्॥ अथ निनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम्। {शतरमागतरोषयोः सुभीमम्॥ व्यपेते तु जीवे निकुम्भस्य हृष्टा विनेदुः प्लवंगा दिश: सस्वनुश्च । बलं राक्षसानां भयं चाविवेश॥ स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत्। शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरी नदीम्॥ अपि गोदावरी सीता पद्मान्यानयितुं गता। एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि॥ नदी गोदावरी रम्यां जगाम लघुविक्रमः। तां लक्ष्मणस्तीर्थवती विचित्वा राममब्रवीत्॥ नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे। कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी॥ नहि तं वेद्मि वै राम यत्र सा तनुमध्यमा। लक्ष्मणस्य वचः श्रुत्वा दीनः संतापमोहितः॥ रामः समभिचक्राम स्वयं गोदावरी नदीम्। स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्॥ भूतानि राक्षसेन्द्रेण वधाहेण हृतामपि। न तां शशंशू रामाय तथा गोदावरी नदी।७।। ततः प्रचोदिता भूतैः शंस चास्मै प्रियामिति। न च सा ह्यवदत् सीतां पृष्टा रामेण शोचता॥ रावणस्य च तद्रूपं कर्मापि च दुरात्मनः। ध्यात्वा भयात् तु वैदेही सा नदी न शशंस ह॥ निराशस्तु तया नद्या सीताया दर्शने कृतः। उवाच रामः सौमित्रिं सीतादर्शनकर्शितः॥ एषा गोदावरी सौम्य किंचिन्न प्रतिभाषते। किं तु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः॥ मातरं चैव वैदेह्या विना तामहमप्रियम्। या मे राज्यविहीनस्य वने वन्येन जीवितः॥ सर्वं व्यपानयच्छोकं वैदेही क्व नु सा गता। ज्ञातिवर्गविहीनस्य वैदेहीमप्यपश्यतः॥ मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः। मन्दाकिनी जनस्थानमिमं प्रस्रवणं गिरिम्॥ सर्वाण्यनुचरिष्यामि यदि सीता हि लभ्यते। एते महामृगा वीर मामीक्षन्ते पुनः पुनः॥ वक्तुकामा इह हि मे इङ्गितान्युपलक्षये। तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह॥ क्व सीतेति निरीक्षन् वै बाष्पसंरुद्धया गिरा। एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः॥ दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभः स्थलम्। मैथिली ह्रियमाणा सा दिशं यामभ्यपद्यत ॥ तेन मार्गेण गच्छन्तो निरीक्षन्ते नराधिपम्। येन मार्गं च भूमिं च निरीक्षन्ते स्म ते मृगाः॥ पुनर्नदन्तो गच्छन्ति लक्ष्मणेनोपलक्षिताः। तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम्॥ उवाच लक्ष्मणो धीमाज्येष्ठं भ्रातरमार्तवत्। क्व सीतेति त्वया पृष्टा यदिमे सहसोत्थिताः॥ दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः। साधु गच्छावहे देव दिशमेतां च नैर्ऋतीम्॥ यदि तस्यागमः कश्चिदार्या वा साऽथ लक्ष्यते। बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम्॥ लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुंधराम्। एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ॥ वसुंधरायां पतितपुष्पमार्गमपश्यताम्। पुष्पवृष्टिं निपतितां दृष्ट्वा रामो महीतले॥ उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः। अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण ॥ अपिनद्धानि वैदेह्या मया दत्तानि कानने। मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी॥ अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम्। एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्भम्॥ उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम्। कच्चित् क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी॥ रामा रम्ये वनोद्देशे मया विरहिता त्वया। क्रुद्धोऽब्रवीद् गिरिं तत्र सिंहः क्षुद्रमृगं यथा॥ तां हेमवर्णां हेमाङ्गी सीतां दर्शय पर्वत। यावत् सानूनि सर्वाणि न ते विध्वंसयाम्यहम्॥ एवमुक्तस्तु रामेण पर्वतो मैथिली प्रति। दर्शयन्निव तां सीतां नादर्शयत राघवे॥ ततो दाशरथी राम उवाच च शिलोच्चयम्। मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि ॥ असेव्यः सर्वतश्चैव निस्तृणद्रुमपल्लवः। इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण॥ यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम्। एवं प्ररुषितो रामो दिधक्षन्निव चक्षुषा ॥ ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत्। वस्ताया रामकाङ्गिण्याः प्रधावन्त्या इतस्ततः॥ राक्षसेनानुसृप्ताया वैदेयाश्च पदानि तु। स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च॥ भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम्। सम्भ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम्।।३८ पश्य लक्ष्मण वैदेह्या कीर्णाः कनकविन्दवः। भूषणानां हि सौमित्रे माल्यानि विविधानि च॥ तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः। आवृतं पश्य सौमित्रे सर्वतो धरणीतलम्॥ मन्ये लक्ष्मण वैदेही सक्षसैः कामरूपिभिः। भित्वा भित्वा विभक्ता वा भक्षिता वा भविष्यति॥ तस्या निमित्तं सीताया द्वयोर्विवदमानयोः। बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह।॥ मुक्तामणिचितं चेदं रमणीयं विभूषितम्। धरण्यां पतितं सौम्य कस्य भग्नं महद् धनुः॥ राक्षसानामिदं वत्स सुराणामथवापि वा। तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम्॥ विशीर्णं पतितं भूभौ कवचं कस्य काञ्चनम्। छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्॥ भग्नदण्डमिदं सौम्य भूमौ कस्य निपातितम्। काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः॥ भीमरूपा महाकायाः कस्य वा निहता रणे। दीप्तपावकसंकाशो द्युतिमान् समरध्वजः॥ अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः। रथाक्षमात्रा विशिखास्तपनीयविभूषणा॥ कस्येमे निहता वाणाः प्रकीर्णा घोरदर्शनाः। शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ॥ प्रतोदाभीषुहस्तोऽयं कस्य वा सारथिर्हतः। पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः॥ वैरं शतगुणं पश्य मम तैर्जीवितान्तकम्। सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः। ५१ ।। हृता मृता वा वैदेही भक्षिता वा तपस्विनी। न धर्मस्त्रायते सीतां ह्रियमाणा महावने॥ भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण। के हि लोके प्रियं कर्तुं शक्तः सौम्य ममेश्वराः॥ कर्तारमपि लोकानां शूरं करुणवेदिनम्। अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण ॥ मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्। निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः।५५।। मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण। अद्यैव सर्वभूतानां रक्षसामभवाय च॥ संहत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः। संहत्यैव गुणान् सर्वान् मम तेजः प्रकाशते॥ नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः। किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण॥ ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण। असम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम्॥ संनिरुद्धग्रहगणमावारितनिशाकरम्। विप्रणष्टानलमरुद्भास्करद्युतिसंवृतम्॥ विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम्। ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्॥ त्रैलोक्यं तु करिष्यामि संयुक्तं कालकर्मणा। न ते कुशलिनी सीतां प्रदास्यन्ति ममेश्वराः॥ अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम्। नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण ॥ मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम्। मर्दितं मम नाराचैध्वस्तभ्रान्तमृगद्विजम्॥ समाकुलममर्यादं जगत् पश्याद्य लक्ष्मण। आकर्णपूर्णैरिषुभिर्जीवलोकदुरावरैः॥ करिष्ये मैथिलीहेतोरपिशाचमराक्षसम्। मम रोषप्रयुक्तानां विशिखानां बलं सुराः॥ द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद् दूरगामिनाम्। नैव देवा न दैतेया न पिशाचा न राक्षसाः॥ भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते। देवदानवयक्षाणां लोका ये रक्षसामपि॥ बहुधा निपतिष्यन्ति बाणौधैः शकलीकृताः। निर्मर्यादानिमाल्लोकान् करिष्याम्यद्य सायकैः॥ हतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः। तथारूपां हि वैदेही न दास्यन्ति यदि प्रियाम्॥ नाशयामि जगत् सर्वं त्रैलोक्यं सचराचरम्। यावद् दर्शनमस्या वै तापयामि च सायकैः॥ इत्युक्त्वा क्रोधताम्राक्षः स्फुरमाणोष्ठसम्पुटः। वल्कलाजिनमाबद्ध्य जटाभारमबन्धयत्।७२।। तस्य क्रुद्धस्य रामस्य तथाभूतस्य धीमतः। त्रिपुरं जघ्नुषः पूर्वं रुद्रस्येव बभौ तनुः॥ लक्ष्मणादथ चादाय रामो निष्पीड्य कार्मुकम्। शरमादाय संदीप्तं घोरमाशीविषोपमम्॥ संदधे धनुषि श्रीमान् रामः परपरञ्जयः। युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत्॥ यथा जरा यथा मृत्युर्यथा कालो यथा विधिः। नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण। तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम् । ७६ ।। पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम्। सदेवगन्धर्वमनुष्यपन्नगं जगत् सशैलं परिवर्तयाम्यहम्॥ ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे। वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत्॥ ततः प्रणम्य शिरसा तं विप्रं देववर्णिनम्। यज्ञाय वरयामास संतानार्थं कुलस्य च।२।। तथेति च स राजानमुवाच वसुधाधिपम्। सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्॥ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्। ततोऽब्रवीनृपो वाक्यं ब्राह्मणान् वेदपारगान्॥ सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः। सुयज्ञं वामदेवं च जाबालिमथ काश्यपम्॥ पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः। ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः॥ समानयत् स तान् सर्वान् समस्तान् वेदपारगान्। तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा॥ धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत्। मम तातप्यमानस्य पुत्रार्थं नास्ति वै सुखम्॥ पुत्रार्थं हयमेधेन यक्ष्यामीति मतिर्मम। तदहं यष्टुमिच्छामि हयमेधेन कर्मणा॥ ऋषिपुत्रप्रभावेण कामान् प्राप्स्यामि चाप्यहम्। ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन्॥ वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम्। ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा॥ सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्। सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्॥ सर्वथा प्राप्स्यसे पुत्रांश्चतुरोऽमितविक्रमान्। यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता॥ ततः प्रीतोऽभवद् राजा श्रुत्वा तु द्विजभाषितम्। अमात्यानब्रवीद् राजा हर्षेणेदं शुभाक्षरम्॥ गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे। समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम्॥ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्। शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥ शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता। नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे॥ छिद्रं हि मृगयन्त्येते विद्वांसो ब्रह्मराक्षसाः। विधिहीनस्य यक्षस्य सद्यः कर्ता विनश्यति ॥ तद् यथा विधिपूर्वं मे क्रतुरेष समाप्यते। तथा विधानं क्रियतां समर्थाः करणेष्विह॥ तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन्। पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत ॥ ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम्। अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम्॥ गतानां तेषु विप्रेषु मन्त्रिणस्तान् नराधिपः। विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः॥ तस्मिंस्तु पुरुषव्याघ्र निष्क्रामति कृताञ्जलौ। आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान्॥ अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः। यो गतिः शरणं चासीत्स नाथः क्व नु गच्छति॥ न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन्। क्रुद्धान्प्रसादयन् सर्वान् समदुःखः क्व गच्छति॥ कौसल्यायां महातेजा यथा मातरि वर्तते। तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति ॥ कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम्। परित्राता जनस्यास्य जगतः क्व नु गच्छति ॥ अहो निश्चेतनो राजा जीवलोकस्य संक्षयम्। धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति ॥ इति सर्वा महिष्यस्ता विवत्सा इव धेनवः। रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः॥ स तमन्तःपुरे घोरमार्तशब्दं महीपतिः :। पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः॥ नाग्निहोत्राण्यहूयन्त सूर्यश्चान्तरधीयत।। व्यसृजन् कवलान् नागा गावो वत्सान्न पाययन्॥ त्रिशङ्कुरोहिताङ्गश्च बृहस्पतिबुधावपि । दारुणाः सममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः॥ नक्षत्राणि गताचींषि ग्रहाश्च गततेजसः। विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे॥ कालिकानिलवेगेन महोदधिरिवोत्थितः। रामे वनं प्रव्रजिते नगरं प्रचचाल तत्॥ दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः। न ग्रहो नासिनक्षत्रं प्रचकाशे न किंचन॥ अकस्मानागरः सर्वो जनो दैन्यमुपागमत्। आहारे वा विहारे वा न कश्चिदकरोन्मनः॥ शोकपर्यायसंतप्तः सततं दीर्घमुच्छ्वसन्। अयोध्यायां जनः सर्वश्चक्रोश जगतीपतिम्॥ बाष्पपर्याकुलमुखो राजमार्गगतो जनः। न हृष्टो लभ्यते कश्चित् सर्वः शोकपरायणः॥ न वाति पवनः शीतो न शशी सौम्यदर्शनः। न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत्॥ अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा। सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन्॥ ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः। शोकभारेण चाक्रान्ताः शयनं नैव भेजिरे॥ ततस्त्वयोध्या रहिता महात्मना पुरंदरेणेव मही सपर्वता। चचाल घोरं भयशोकदीपिता सनागयोधाश्वगणा ननाद च॥ तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः। हयं लक्षणसंपन्नं कृष्णसारं मुमोच ह॥ ऋत्विग्भिर्लक्ष्मणं सार्धमश्वे च विनियुज्य च। ततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिषम्॥ यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम्। प्रहर्षमतुलं लेभे श्रीमानिति च सोऽब्रवीत्॥ नैमिषे वसतस्तस्य सर्व एव नराधिपाः। आनिन्युरुपहारांश्च तारामः प्रत्यपूजयत्॥ अन्नपानादिवस्त्राणि सर्वोपकरणानि च। भरतः सह शत्रुघ्नो नियुक्तो राजपूजने॥ वानराश्च महात्मानः सुग्रीवसहितास्तदा। परिवेषणं च विप्राणां प्रयताः संप्रचक्रिरे॥ बिभीषणश्च रक्षोभिर्बहुभिः सुसमाहितः। ऋषीणामुग्रतपसां किंकरः समपद्यत॥ उपकार्या महाश्चि पार्थिवानां महात्मनाम्। सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः।।।। एवं सुविहितो यज्ञो ह्यश्वमेधो ह्यवर्तत। लक्ष्मणेन सुगुप्ता सा हयचर्या प्रवर्तत।९॥ ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम्। नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनः॥ छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः। तावत्सर्वाणि दत्तानि क्रतुमुख्ये महात्मनः॥ विविधानि च गौडानि खाण्डवानि तथैव च। न निःसृतं भवत्योष्ठाद्वचनं यावदर्थिनाम्॥ तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत। न कश्चिन्मलिनो वापि दीनो वाप्यथवा कृशः॥ तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते। ये च तत्र महात्मानो मुनयश्चिरजीविनः॥ नास्मरंस्तादृशं यज्ञं दानौघसमलंकृतम्। यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः॥ वित्तार्थी लभते वित्तं रत्नर्थी रत्नमेव च। हिरण्यानां सुवर्णानां रत्नानामथ वाससाम्॥ अनिशं दीयमानानां राशिः समुपदृश्यते। न शक्रस्य न सोमस्य यमस्य वरुणस्य च ॥ ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः। सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः॥ वासोधनान्नकामेभ्यः पूर्णहस्ता ददुर्भृशम्। ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः। संवत्सरमथो साग्रं वर्तते न च हीयते॥ स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः। स्वमाश्रमं शिष्यवृतः क्षुधातः संन्यवर्तत॥ सोऽपश्यदरजां दीनां रजसा समभिप्लुताम्। ज्योत्स्नामिव ग्रहग्रस्तां प्रत्यूषे न विराजतीम्॥ तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः। निर्दहत्रिव लोकांस्त्रीशिष्यांश्चैतदुवाच ह॥ पश्यध्वं विपरीतस्य दण्डस्याविदितात्मनः। विपत्तिं घोरसंकाशां क्रुद्धादग्निशिखामिव॥ क्षयोऽस्य दुर्मतेः प्राप्तः सानुगस्य महात्मनः। यः प्रदीप्तां हुताशस्य शिखां वै स्पष्टुमर्हति॥ यस्मात्स कृतवान्पापमीदृशं घोरसंहितम्। तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः॥ सप्तरात्रेण राजासौ सपुत्रबलवाहनः। पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः॥ समन्ताद्योजनशतं विषयं चास्य दुर्मतेः। धक्ष्यते पांसुवर्षेण महता पाकशासनः।।।।। सर्वसत्वानि यानीह स्थावराणि चराणि च। महता पांसुवर्षेण विलयं सर्वतोऽगमन्।।। दण्डस्य विषयो यावत्तावत्सवं समुच्छ्रयम्। पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति॥ इत्युक्त्वा क्रोधताम्राक्षस्तमाश्रमनिवासिनम्। जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत्॥ श्रुत्वा तूशनसो वाक्यं सोऽश्रमावसथो जनः। निषक्रान्तो विषयात्तस्मात्स्थानं चक्रेऽथ बाह्यतः॥ स तथोक्त्वा मुनिजनमरजामिदमब्रवीत्। इहैव वस दुर्मेधे आश्रमे सुसमाहिता॥ इदं योजनपर्यन्तं सरः सुरुचिरप्रभम्। अरजे विज्वरा भुझ्व कालश्चात्र प्रतीक्ष्यताम्॥ त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम्। अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा॥ श्रुत्वा नियोगं ब्रह्मर्षेः सारजा भार्गवी तदा। तथेति पितरं प्राह भार्गवं भृशदुःखिता॥ इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत्। तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् ॥ सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना। तस्यासौ दण्डविषयो विन्ध्यशैवलयोनृप॥ शप्तो ब्रह्मर्षिणा तेन वैधर्म्य सहिते कृते। ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते॥ तपस्विनः स्थिता ह्यत्र जनस्थानमतोऽभवत्। एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव॥ संध्यामुपासितुं वीर समयो ह्यतिवर्तते। एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः॥ कृतोदका नरव्याघ्र आदित्यं पर्युपासते। स तैाह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः। रविरस्तंगतो राम गच्छोदकमुपस्पृश ॥ एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम्। रामायणमिति ख्यातं मुख्यं वाल्मीकिना कृतम्।।१ ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथा पुरा। येन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। नित्यं शृण्वन्ति संहृष्टाः काव्यं रामायणं दिवि॥ इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम्। रामायणं वेदसमं श्राद्धेषु श्रावयेदुधः॥ अपुत्रो लभते पुत्रमधनो लभते धनम्। सर्वपापैः प्रमुच्येत पादमप्यस्य यः पठेत् ॥ पापान्यपि च यः कुर्यादहन्यहनि मानवः। पठत्येकमपि श्लोकं पापात्स परिमुच्यते॥ वाचकाय च दातव्यं वस्त्रं धेनुहिरण्यकम्। वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः॥ एतदाख्यानमायुष्यं पठन्रामायणं नरः। सपुत्रपौत्रो लोकेऽस्मिन्प्रेत्य चेह महीयते॥ रामायणं गोविसर्गे मध्याह्ने वा समाहितः। सायाह्ने वापराहणे च वाचयन्नावसीदति।९।। अयोध्यापि पुरी रम्या शून्या वर्षगणान्बहून्। ऋषभं प्राप्य राजानं निवासमुपयास्यति॥ एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम्। कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत॥ तथोक्ते तानृषीरामः प्रत्युवाच कृताञ्जलिः। किमाहारः किमाचारो लवणः क्व च वर्तते॥ राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते। ततो निवेदयामासुर्लवणो ववृधे यथा॥ आहारः सर्वसत्त्वानि विशेषेण च तापसाः। आचारो रौद्रता नित्यं वासो मधुवने तथा॥ हत्वा बहुसहस्राणि सिंहव्याघ्रमृगाण्डनान्। मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम्॥ ततोऽन्तराणि सत्त्वानि खादते स महाबलः। संहारे समनुप्राप्ते व्यादितास्य इवान्तकः॥ तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन्। घातयिष्यामि तद्रक्षो व्यपगच्छतु वो भयम्॥ प्रतिज्ञाय तदा तेषां मुनीनामुग्रतेजसाम्। स भ्रातृन्सहितान्सर्वानुवाच रघुनन्दनः।७।। को हन्ता लवणं वीरः कस्यांशः स विधीयताम्। भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः॥ राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत्। अहमेनं वधिष्यामि ममांशः स विधीयताम्।। भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम्। लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम्॥ शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम्। कृतकर्मा महाबाहुर्मध्यमो रघुनन्दन॥ आर्येण हि पुरा शून्या त्वयोध्या परिपालिता। संतापं हृदये कृत्वा आर्यस्यागमनं प्रति॥ दुःखानि च बहूनीह अनुभूतानि पार्थिव। शयानो दुःखशय्यासु नन्दिग्रामे महायशाः॥ फलमूलाशनो भूत्वा जटी चीरधरस्तथा। अनुभूयेदृशं दुःखमेष राघवनन्दनः॥ प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात्। तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत्॥ एवं भवतु काकुत्स्थ क्रियतां मम शासनम्। राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे॥ निवेशय महाबाहो भरतं यद्यवेक्षसे। शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने॥ नगरं यमुनाजुष्टं तथा जनपदाशुभान्। यो हि वंशं समुत्पाद्य पार्थिवस्य निवेशने॥ न विधत्ते नृपं तत्र नरकं स हि गच्छति। स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम्॥ राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे। उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम॥ बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः। अभिषेकं च काकुत्स्थ प्रतीच्छस्व ममोद्यतम्। वसिष्ठप्रमुखैविप्रैर्विधिमन्त्रपुरस्कृतम्॥ युध्यतां तु ततस्तेषां वानराणां महात्मनाम्। रक्षसां संबभूवाथ बलरोषः सुदारुणः॥ ते हयैः काञ्चनापीडैर्गजैश्चाग्निशिखोपमैः। रथैश्चादित्यसंकाशैः कवचैश्च मनोरमैः॥ निर्ययू राक्षसा वीरा नादयन्तो दिशो दश। राक्षसा भीमकर्माणो रावणस्य जयैषिणः॥ वानराणामपि चमूवृंहति जयमिच्छताम्। अभ्यधावत तां सेनां रक्षसां घोरकर्मणाम्॥ एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम्। रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत॥ अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः। अयुध्यत,महातेजास्त्र्यम्बकेण यथान्धकः॥ प्रजङ्ग्रेन च संपातिनित्यं दुर्धर्षणो रणे। जम्बुमालिनामारब्धो हनूमानपि वानरः॥ संगतस्तु महाक्रोधो राक्षसो रावणानुजः। समरे तीक्ष्णवेगेन शत्रुघ्नेन विभीषणः।८।। तपनेन गजः सार्धं राक्षसेन महाबलः। निकुम्भेन महातेजा नीलोऽपि समयुध्यत॥ वानरेन्द्रस्तु सुग्रीवः प्रघसेन सुसंगतः। संगतः समरे श्रीमान्विरूपाक्षेण लक्ष्मणः॥ अग्निकेतुः सुदुर्धर्षो रश्मिकेतुश्च राक्षसः। मित्रघ्नो यज्ञकोपश्च रामेण सह संगताः॥ वज्रमुष्टिश्च मैन्देन द्विविदेनाशनिप्रभः। राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ।।१२ वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः। समरे तीक्ष्णवेगेन नलेन समयुध्यत॥ धर्मस्य पुत्रो बलवान्सुषेण इति विश्रुतः। स विद्युन्मालिना सार्धमयुध्यत महाकपिः॥ वानराश्चापरे घोरा राक्षसैरपरैः सह। द्वन्द्वं समीयुः सहसा युद्ध्वा च बहुभिः सह ॥ तत्रासीत्सुमहद्युद्धं तुमुलं रोमहर्षणम्। रक्षसां वानराणां च वीराणां जयमिच्छताम्॥ हरिराक्षसदेहेभ्यः : प्रसृताः केशशाद्वला:। शरीरसंघाटवहाः प्रसुनुः शोणितापगाः॥ आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुः। अङ्गदं गदया वीरं शत्रुसैन्यविदारणम्॥ तस्य काश्चनचित्राङ्गं रथं साश्वं ससारथिम्। जघान गदया श्रीमानङ्गदो वेगवान्हरिः॥ संपातिस्तु प्रजङ्ग्रेन त्रिभिर्बाणैः समाहतः। निजघानाश्वकर्णेन प्रजङ्घ रणमूर्धनि ॥ जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः। बिभेद समरे क्रद्धो हनूमन्तं स्तनान्तरे॥ तस्य तं रथमास्थाय हनूमान्मारुतात्मजः। प्रममाथ तलेनाशु सह तेनैव रक्षसा॥ नदन्प्रतपनो घोरो नलं सोऽभ्यनुधावत। नलः प्रपनस्याशु पातयामास चक्षुषी॥ भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा। ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः॥ सुग्रीवः सप्तपर्णेन निजघान जवेन च। प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम्॥ निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः। अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः।। मित्रघ्नो यज्ञकोपश्च राममादीपयच्छरैः।२६।। तेषां चतुर्णा रामस्तु शिरांसि समरे शरैः। क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः॥ वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे। पपात सरथः साश्वः सुराट्ट इव भूतले॥ निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम्। निर्बिभेद शरैस्तीक्ष्णैः करैर्मेधमिवांशुमान्॥ पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः। बिभेद समरे नीलं निकुम्भः प्रजहास च॥ तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे। शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः॥ वज्राशनिसमस्पर्शी द्विविदश्च समप्रभम्। जधान गिरिशृङ्गेण मिषतां सर्वरक्षसाम्॥ द्विविदं वानरेन्द्रं तं दुमयोधिनमाहवे। शरैरशनिसंकाशैः स विव्याधाशनिप्रभः॥ स शरैरभिविद्धाङ्गो द्विविदः क्रोधमूर्च्छितः। सालेन सरथं साश्वं निजघानाशनिप्रभम्॥ विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः। सुषेणं ताडयामास ननाद च मुहुर्मुहुः॥ तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः गिरिशृङ्गेण महता रथमाशु न्यपातयत्॥ लाघवेन तु संयुक्तो विद्युन्माली निशाचरः। अपक्रम्य रथातूर्णं गदापाणिः क्षितौ स्थितः॥ ततः क्रोधसमाविष्टः सुषेणो हरिपुंगवः। शिलां सुमहतीं गृह्य निशाचरमभिद्रवत्॥ तमापतन्तं गदया विद्युन्माली निशाचरः। वक्षस्यभिजधानाशु सुषेणं हरिपुङ्गवम्॥ गदाप्रहारं तं घोरमचिन्त्य प्लवगोत्तमः। तां तूष्णीं पातयामास तस्योरसि महामृधे।।४०१ शिलाप्रहाराभिहतो विद्युन्माली निशाचरः। निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह॥ एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः। द्वन्द्वे विमथितास्तत्र दैत्या इव दिवौकसैः।॥ भल्लैश्चान्यैर्गदाभिश्च शक्तितोमरसायकैः। अपविद्धैश्चापि रथैस्तथा साङ्ग्रामिकैहयैः।॥ निहतैः कुञ्जरैर्मतैस्तथा वानरराक्षसैः। चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः।॥ बभूवायोधनं घोरं गोमायुगणसेवितम्। कबन्धानि समुत्येतुर्दिक्षु वानररक्षसाम्।। विमर्दे तुमुले तस्मिन्देवासुररणोपमे॥ निहन्यमाना हरिपुंगवैस्तदा निशाचराः शोणितगन्धमूर्च्छिताः। पुनः सुयुद्धं तरसा समाश्रिता दिवाकरस्यास्तमयाभिकामिणः॥ एवमुक्तस्तु भरतो निषादाधिपतिं गुहम्। प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम्॥ ऊर्जितः खलु ते कामः कृतो मम गुरो सखे। यो मे त्वमीदृशीं सेनामभ्यर्चयितुमिच्छसि॥ इत्युक्त्वा स महातेजा गुहं वचनमुत्तमम्। अब्रवीद् भरतः श्रीमान् पन्थानं दर्शयन् पुनः॥ कतरेण गमिष्यामि भरद्वाजाश्रमं पथा। गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः॥ तस्य तद् वचनं श्रुत्वा राजपुत्रस्य धीमतः। अब्रवीत् प्राञ्जलिर्भूत्वा गुहो गहनगोचरः॥ दाशास्त्वनुगमिष्यन्ति देशज्ञाः सुसमाहिताः। अहं चानुगमिष्यामि राजपुत्र महाबल॥ कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः। इयं ते महती सेना शङ्कां जनयतीव मे॥ तमेवमभिभाषन्तमाकाश इव निर्मलः। भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत्॥ मा भूत् स कालो यत् कष्टं न मां शङ्कितुमर्हसि। राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मतः॥ तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम्। बुद्धिरन्या न मे कार्या गुह सत्यं ब्रवीमि ते॥ स तु संहृष्टवदनः श्रुत्वा भरतभाषितम्। पुनरेवाब्रवीद् वाक्यं भरतं प्रति हर्षितः॥ धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले। अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि॥ शाश्वती खलु ते कीर्तिर्लोकाननु चरिष्यति। यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि॥ एवं सम्भाषमाणस्य गुहस्य भरतं तदा। बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत ॥ संनिवेश्य स तां सेनां गुहेन परितोषितः। शत्रुघ्नेन समं क्षीमाञ्छयनं पुनरागमत्॥ रामचिन्तामयः शोको भरतस्य महात्मनः। उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः॥ अन्तर्दाहेन दहनः संतापयति राघवम्। वनदाहाग्निसंतप्त गूढोऽग्निरिव पादपम्॥ प्रसृतः सर्वगात्रेभ्यः स्वेदं शोकाग्निसम्भवम्। यथा सूर्यांशुसंतप्तो हिमवान् प्रसृतो हिमम्॥ ध्याननिर्दरशैलेन विनिःश्वासितधातुना। दैन्यपादपसंघेन शोकायासाधिशृङ्गिणा॥ प्रमोहानन्तसत्त्वेन संतापौषधिवेणुना। आक्रान्तो दुःखशैलेन महता कैकयीसुतः॥ विनिःश्वसन् वै भृशदुर्मनास्ततः प्रमूढसंज्ञः परमापदं गतः। शमं न लेभे हृदयज्वरार्दितो नरर्षभो यूथहतो यथर्षभः॥ गुहेन सार्धं भरतः समागतो महानुभावः सजनः समाहितः। गुंहः समाश्वासयदग्रज प्रति॥ दृष्ट्वा तु मैथिली सीतामाश्रमे संप्रवेशिताम्। संतापमगमद्धोरं लक्ष्मणो दीनचेतनः॥ अब्रवीच्च महातेजाः सुमन्वं मन्त्रसारथिम्। सीतासंतापजं दुःखं पश्य रामस्य सारथे॥ ततो दुःखतरं किं नु राघवस्य भविष्यति। पत्नी शुद्धसमाचारां विसृज्य जनकात्मजाम्॥ व्यक्तं दैवादहं मन्ये राघवस्य विनाभवम्। वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम्॥ यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः। निहन्याद्राघवः क्रुद्धः स दैवं पर्युपासते॥ पुरा रामः पितुर्वाक्याद्दण्डके विजने वने। उषित्वा नव वर्षाणि पञ्च चैव महावने॥ ततो दुःखतरं भूयः सीताया विप्रवासनम्। पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे॥ को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे। मैथिली समनुप्राप्तः पौरे नार्थवादिभिः॥ एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः। सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह॥ न संतापस्त्वया कार्यः सौमित्रे मैथिली प्रति। दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः॥ भविष्यति दृढं रामो दुःखप्रायो विसौख्यभाक् । प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्वृतम् ॥ त्वां चैव मैथिली चैव शत्रुघ्नभरतौ तथा। स त्यजिष्यति धर्मात्मा कालेन महता महान्॥ इदं त्वयि न वक्तव्यं सौमित्रे भरतेऽपि वा। राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह॥ महाजनसमीपे च मम चैव नरर्षभ। ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च संनिधौ ॥ ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः। सूत न क्वचिदेवं ते वक्तव्यं जनसंनिधौ॥ तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः। नैव जात्वनृतं कुर्यामिति मे सौम्य दर्शनम्॥ सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः। यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ॥ यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितं पुरा। तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम्॥ येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम्। न त्वया भरतस्याग्रे शत्रुघ्नस्यापि संनिधौ॥ तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत्। तयं ब्रूहीति सौमित्रिः सूतं तं वाक्यमब्रवीत्।।२० प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः। चकार चरितं कृत्स्नं विचित्रपदमर्थवत्॥ चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः। तथा सर्गशतान् पञ्च षट्काण्डानि तथोत्रम्॥ कृत्वा तु तन्महाप्राज्ञः सभविष्यां सहोत्तरम्। चिन्तयामास को न्वेतत् प्रयुञ्जीयादिति प्रभुः॥ तस्य चिन्तयमानस्य महर्षे वितात्मनः। अगृहीतां ततः पादौ मुनिवेषौ कुशीलवौ॥ कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ। भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ ॥ स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ। वेदोपबृंहणार्थाय तावग्राहयत प्रभुः॥ काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत्। पौलस्त्यवधमित्येवं चकार चरितव्रतः।७।। पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम्। जातिभिः सप्तभिर्युक्तं तन्त्रीलयसमन्वितम्॥ रसैः शृङ्गारकरुणहास्यरौद्रभयानकैः। वीरादिभी रसैर्युक्तं काव्यमेतदगायताम्॥ तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ। भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ॥ रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ। बिम्बादिवोत्थितौ बिम्बौ रामदेहात् तथापरौ॥ तौ राजपुत्रौ कात्स्न्येन धर्नामाख्यानमुत्तमम्। वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥ ऋषीणां च द्विजातीनां साधूनां च समागमे। यथोपदेशं तत्त्वज्ञौ जगतुः सुसमाहितौ ॥ महात्मानौ महाभागौ सर्वलक्षणलक्षितौ। तौ कदाचित् समेतानामृषीणां भावितात्मनाम्॥ मध्येसभं समीपस्थाविदं काव्यमगायताम्। तच्छुत्वा मुनयः सर्वे वाष्पपर्याकुलेक्षणाः॥ साधु साध्विति तावूचुः परं विस्मयमागताः। ते प्रीतिमनसः सर्वे मुनयो धर्मवत्सला:॥ प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ। अहो गीतस्य माधुर्थ श्लोकानां च विशेषतः॥ चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम्। प्रविश्य तावुभौ सुष्टु तथाभावमगायताम्॥ सहितौ मधुरं रक्तं सम्पन्नं स्वरसम्पदा। एवं प्रशस्यमानौ तौ तप:श्लाघ्यैर्महर्षिभिः॥ संरक्ततरमत्यर्थं मधुरं तावगायताम्। प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ॥ प्रसन्नो वल्कलं कश्चित् ददौ ताभ्यां महायशाः। अन्यः कृष्णाजिनमदाद् यज्ञसूत्रं तथापरः॥ कश्चित् कमण्डलुं प्रादान्मौञ्जीमन्यो महामुनिः। बृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः॥ ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः। काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः॥ जटाबन्धनमन्यस्तु काष्टरज्जु मुदान्वितः। यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथापरः॥ औदुम्बरी बृसीमन्यः स्वस्ति केचित् तदावदन्। आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः॥ ददुश्चैवं वरान् सर्वे मुनयः सत्यवादिनः। आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम्॥ परं कवीनामाधारं समाप्तं च यथाक्रमम्। अभिगीतमिदं गीतं सर्वगीतिषु कोविदौ॥ आयुयं पुष्टिजननं सर्वश्रुतिमनोहरम्। प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ॥ रथ्यासु राजमार्गेषु ददर्श भरताग्रजः। स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ॥ पूजयामास पूजाहौं रामः शत्रुनिवर्हणः। आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः॥ उपोपविष्टैः सचिवैर्धातृभिश्च समन्वितः। दृष्ट्वा तु रूपसम्पन्नौ विनीतौ भ्रातरावुभौ ॥ उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा। श्रूयतामेतदाख्यानमनयोर्देववर्चसोः॥ विचित्रार्थपदं सम्यग्गायकौ समचोदयत्। तौ चापि मधुरं रक्तं स्वचित्तायतनिःस्वनम्॥ तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम्। ह्लादयत् सर्वगात्राणि मनांसि हृदयानि च। श्रोत्राश्रयसुखं गेयं तद् बभौ जनसंसदि॥ इमौ मुनी पार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ। ममापि तद् भूतिकरं प्रचक्षते महानुभावं चरितं निबोधत॥ ततस्तु तौ रामवचः प्रचोदितावगायतां मार्गविधानसम्पदा। स चापि रामः परिषद्गतः शनैर्बुभूषयासक्तमना बभूव॥ विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान्। भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी॥ अथापराह्णसमये भ्रातृभिः सह राघवः। शुश्राव मधुरां वाणीमन्तरिक्षान्महाप्रभुः॥ सौम्य राम निरीक्षस्व सौम्येन वदनेन माम्। कुबेरभवनात्प्राप्तं विद्धिमां पुष्पकं प्रभो॥ तव शासनमाज्ञाय गतोऽस्मि भवनं प्रति। उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत॥ निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना। निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम्॥ ममापि परमा प्रीतिर्हते तस्मिन्दुरात्मनि। रावणे सगणे चैव सपुत्रे सहबान्धवे॥ स त्वं रामेण लङ्कायां निर्जितः परमात्मना। वह सौम्य त्वमेव त्वमहमाज्ञापयामि ते॥ परमो ह्येष मे कामो यत्त्वं राघवनन्दनम्। वहेलॊकस्य संयानं गच्छस्व विगतज्वरः॥ सोऽहं शासनमाज्ञाय धनदस्य महात्मनः। त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीच्छ माम्॥ अधृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया। चराम्यहं प्रभावेण तवाज्ञां परिपालयन्॥ एवमुक्तस्तदा रामः पुष्पकेण महाबलः। उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम्॥ यद्येवं स्वागतं तेऽस्तु विमानवर पुष्पक। आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत्॥ लाजैश्चैव तथा पुष्पैधूपैश्चैव सुगन्धिभिः। पूजयित्वा महाबाहू राघवः पुष्पकं तदा॥ गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा। सिद्धानां च गतौ सौम्य मा विषादेन योजया॥ प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः। एवमस्त्विति रामेण पूजयित्वा विसर्जितम्॥ अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा। एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि॥ भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम्। विबुधात्मनि दृश्यन्ते त्वयि वीर प्रशासति॥ अमानुषाणि सत्त्वानि व्याहृतानि मुहुर्मुहुः। अनामयश्च मानां साग्रो मासो गतो ह्ययम् ।।१८ जीर्णानामपि सत्त्वानां मृत्यु याति राघव। अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः॥ हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः। काले वर्षति पर्जन्यः पातयन्नमृतं पयः॥ वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः। ईदृशो नश्चिरं राजा भवेदिति नरेश्वरः॥ कथयन्ति पुरे राजन्पौरजानपदास्तथा। एता वाचः सुमधुरा भरतेन समीरिताः। श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः॥ रावणं निहतं दृष्ट्वा राघवेण महात्मना। अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः॥ वार्यमाणाः सुबहुशो वेष्टन्त्यो रणपांसुषु। विमुक्तकेश्यः शोकार्त गावो वत्सहता यथा॥ उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः। प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम्॥ आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः। परिपेतुः कबन्धातां महीं शोणितकर्दमाम्॥ ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः। करिण्य इव नर्दन्त्यः केरेण्वो हतयूथपाः॥ ददृशुस्ता महाकायं महावीर्य महाद्युतिम्। रावणं निहतं भूमौ नीलाञ्जनचयोपमम्॥ ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु। निपेतुस्तस्य गात्रेषु छिना वनलता इव ॥ बहुमानात्परिष्वज्य काचिदेनं रुरोद ह। चरणौ काचिदालम्ब्य काचित्कण्ठेऽवलम्ब्य च॥ उत्क्षिप्य च भुजौ काचिद्भूमौ सुपरिवर्तते। हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत्॥ काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती। स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम्॥ एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि। चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन्॥ येन वित्रासितः शक्रो येन वित्रासितो यमः। येन वैश्रवणो राजा पुष्पकेण वियोजितः॥ गन्धर्वाणामृषीणां च सुराणां च महात्मनाम्। भयं येन रणे दत्तं सोऽयं शेते रणे हतः॥ असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा। भयं यो न विजानाति तस्येदं मानुषाद्भयम्॥ अवध्यो देवतानां यस्तथा दानवरक्षसाम्। हतः सोऽयं रणे शेते मानुषेण पदातिना॥ यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा। सोऽयं कश्चिदिवासत्त्वो मृत्यु मन लम्भितः॥ एवं वदन्त्यो रुरुदुस्तस्य ता दुःखिताः स्त्रियः। भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः॥ अशृण्वता तु सुहृदां सततं हितवादिनाम्। मरणायाहृता सीता राक्षसाश्च निपातिताः।। एताः सममिदानीं ते वयमात्मा च पातितः॥ ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः। दृष्टं परुषितो मोहात्त्वयात्मवधकाङ्गिणा॥ यदि निर्यातिता ते स्यात्सीता रामाय मैथिली। न नः स्याद्व्यसनं घोरमिदं मूलहरं महत्॥ वृत्तकामो भवेद्याता रामो मित्रकुलं भवेत्। वयं चाविधवाः सर्वाः सकामा न च शत्रवः॥ त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात्। राक्षसा बयमात्मा च त्रयं तुल्यं निपातितम्॥ न कामकारः कामं वा तव राक्षसपुङ्गव। दैवं चेष्टयते सर्वं हतं दैवेन हन्यते॥ वानराणां विनाशोऽयं राक्षसानां च ते रणे। तव चैव महाबाहो दैवयोगादुपागतः॥ नैवार्थेन च कामेन विक्रमेण न चाज्ञया। शक्या दैवगतिर्लोके निवर्तयितुमुद्यता॥ विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः। कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः॥ एवमुक्त्वा तु विरते रामे वचनमर्थवत्। ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम्॥ उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः। को हि स्यादीदृशो लोके यादृशस्त्वमरिंदम॥ न त्वां प्रव्यथयेद् दुःखं प्रीतिर्वा न प्रहर्षयेत्। सम्मतश्चापि वृद्धानां तांश्च पृच्छसि संशयान्॥ यथा मृतस्तथा जीवन् यथासति तथा सति। यस्यैष बुद्धिलाभः स्यात् परितप्येत केन सः॥ परावरज्ञो यश्च स्यात् यथा त्वं मनुजाधिप। स एव व्यसनं प्राप्य न विषीदितुमर्हति ॥ अमरोपमसत्त्वस्त्वं महात्मा सत्यसंगरः। सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव ॥ न त्वामेवंगुणैर्युक्तं प्रभवाभवकोविदम्। अविषह्यतमं दुःखमासादयितुमर्हति॥ प्रोषिते मयि यत् पापं मात्रा मत्कारणात् कृतम्। क्षुद्रया तदनिष्टं मे प्रसीदतु भवान् मम ॥ धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम्। हन्मि तीव्रण दण्डेन दण्डाहाँ पापकारिणीम्॥ कथं दशरथाज्जातः शुभाभिजनकर्मणः। जानन् धर्ममधर्मं च कुर्यां कर्म जुगुप्सितम्॥ गुरुः क्रियावान् वृद्धश्च राजा प्रेतः पितेति च। तातं न परिगर्हेऽहं दैवतं चेति संसदि॥ को हि धर्मार्थयो नमीदृशं कर्म किल्बिषम्। स्त्रियः प्रियचिकीर्षुः सन् कुर्याद् धर्मज्ञ धर्मवित्॥ अन्तकाले हि भूतानि मुह्यन्तीति पुरा श्रुतिः । राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता॥ साध्वर्थमभिसंधाय क्रोधान्मोहाच्च साहसात्। तातस्य यदतिक्रान्तं प्रत्याहरतु तद् भवान्॥ पितुर्हि समतिक्रान्तं पुत्रो यः साधु मन्यते। तदपत्यं मतं लोके विपरीतमतोऽन्यथा ॥ तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितुः। अति यत् तत् कृतं कर्म लोके धीरविगर्हितम्॥ कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः। पौरजानपदान् सर्वास्त्रातुं सर्वमिदं भवान्॥ क्व चारण्यं क्व च क्षात्रं व जटाः क्व च पालनम्। ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति॥ एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम्। येन शक्यं महाप्राज्ञ प्रजानां परिपालनम्॥ कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम्। आयतिस्थं चरेद् धर्मं क्षत्रबन्धुरनिश्चितम्॥ अथ क्लेशजमेव त्वं धर्म चरितुमिच्छसि। धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ॥ चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमुत्तमम्। आहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमिच्छसि॥ श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम्। स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ हीनबुद्धिगुणो बाला हीनस्थानेन चाप्यहम्। भवता च विनाभूतो न वर्तयितुमुत्सहे॥ इदं निखिलमप्यग्र्यं राज्यं पित्र्यमकण्टकम्। अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः॥ इहैव त्वाभिषिञ्चन्तु सर्वाः प्रकृतयः सह। ऋत्विजः सवसिष्ठाश्च मन्त्रविन्मन्त्रकोविदाः॥ अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज। विजित्य तरसा लोकान् मरुद्भिरिव वासवः॥ ऋणानि त्रीण्यपाकुर्वन्दुहृदः साधु निर्दहन्। सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम्॥ अद्यापि मुदिताः सन्तु सुहृदस्तेऽभिषेचने। अद्य भीताः पलायन्तु दुष्प्रदास्ते दिशो दश॥ आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ। अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात्॥ शिरसा त्वाभियाचेऽहं कुरुष्व करुणां मयि। बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः॥ अथवा पृष्ठतः कृत्वा वनमेव भवानितः। गमिष्यति गमिष्यामि भवता सार्धमप्यहम्॥ तथाभिरामो भरतेन ताम्यता प्रसाद्यमानः शिरसा महीपतिः। न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद् वचने प्रतिष्ठितः॥ तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः। न यात्ययोध्यामिति दुःखितोऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः॥ स्तथा विसंज्ञाश्रुकलाश्च मातरः। तथा ब्रुवाणं भरतं प्रतुष्टवुः प्रणम्य रामं च ययाचिरे सह॥ ततः शासनमाज्ञाय भ्रातुः प्रियकरं हितम्। गत्वा स प्रविवेशासु सुयज्ञस्य निवेशनम्॥ तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत्। सखेऽभ्यागच्छ पश्यत्वं वेश्म दुष्करकारिणः॥ ततः संध्यामुपास्थाय गत्वा सौमित्रिणा सह। ऋद्धं स प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम्॥ तमागतं वेदविदं प्राञ्जलि: सीतया सह। सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम्॥ जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः। सहेमसूत्रैमणिभिः केयूरैर्वलयैरपि॥ अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत्। सुयज्ञं स तदोवाच रामः सीताप्रचोदितः॥ हारं च हेमसूत्रं च भार्यायै सौम्य हारय। रशनां चाथ सा सीता दातुमिच्छति ते सखी॥ अङ्गदानि च चित्राणि केयूराणि शुभानि च। प्रयच्छति सखी तुभ्यं भार्यायै गच्छती वनम्॥ पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम्। तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि॥ नागः शत्रुजयो नाम मातुलोयं ददौ मम। तं ते निष्कसहस्रेण ददामि द्विजपुङ्गव॥ इत्युक्तः स तु रामेण सुयज्ञः प्रतिगृह्य तत्। रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः॥ अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदम्। सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम्॥ अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ। अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः॥ तर्पयस्व महाबाहो गोसहस्रेण राघव। सुवर्णरजतैश्चैव मणिभिश्च महाधनैः॥ कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति। आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित्॥ तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय। कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः॥ सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः। तोषयैनं महाहैश्च रत्नैर्वस्त्रैर्धनैस्तथा॥ पशुकाभिश्च सर्वाभिर्गवां दशशतेन च। ये च मे कठकालापा बहवो दण्डमाणवाः॥ नित्यस्वाध्यायशीलत्वान्नान्यत् कुर्वन्ति किंचन। अलसा: स्वादुकामाश्च महतां चापि सम्मताः॥ तेषामशीतियानानि रत्नपूर्णानि दापय। शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा॥ व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु। मेखलीनां महासङ्घः कौसल्यां समुपस्थितः। तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय॥ अम्बा यथा नो नन्देच्च कौसल्या मम दक्षिणाम्। तथा द्विजातीस्तान् सर्वाल्लक्ष्मणाय सर्वशः॥ ततः पुरुषशार्दूलस्तद् धनं लक्ष्मणः स्वयम्। यथोक्तं ब्राह्मणेन्द्राणामददाद् धनदो यथा॥ अथाब्रवीद् बाष्पगलांस्तिष्ठतश्चोपजीविनः। स प्रदाय बहुद्रव्यमेकैकस्योपजीवनम्॥ लक्ष्मणस्य च यद् वेश्म गृहं च यदिदं मम। अशून्यं कार्यमेकैकं यावदागमनं मम॥ इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम्। उवाचेदं धनाध्यक्षं धनमानीयतां मम॥ ततोऽस्य धनमाजह्नः सर्व एवोपजीविनः। स राशिः सुमहांस्तत्र दर्शनीयो ह्यदृश्यत ॥ ततः स पुरुषव्याघ्रस्तद् धनं सहलक्ष्मणः। द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यदापयत्॥ तत्रासीत् पिङ्गलो गाय॑स्त्रिजटो नाम वै द्विजः। क्षतवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली॥ तं वृद्धं तरुणी भार्या बालानादाय दारकान्। अब्रवीद् ब्राह्मणं वाक्यं स्त्रीणां भर्ता हि देवता॥ अपास्य फालं कुद्दालं कुरुष्व वचनं मम। रामं दर्शय धर्मज्ञं यदि किंचिदवाप्स्यसे॥ सभार्याया वचः श्रुत्वा शाटीमाच्छाद्य दुश्छदाम्। स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम्॥ भृग्वङ्गिरः समं दीप्त्या त्रिजटं जनसंसदि। आपञ्चमायाः कक्ष्याया नैतं कश्चिदवारयत्॥ स राममासाद्य तदा त्रिजटो वाक्यमब्रवीत्। निर्धनो बहुपुत्रोऽस्मि राजपुत्र महाबल॥ क्षतवृत्तिवने नित्यं प्रत्यवेक्षस्व मामिति। तमुवाच ततो रामः परिहाससमन्वितम्॥ गवां सहस्रमप्येकं न च विश्राणितं मया। परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसे॥ स शाटी परितः कट्यां सम्भ्रान्तः परिवेष्ट्यताम्। आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगतः॥ स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युतः। गोव्रजे बहुसाहस्र पपातोक्षणसंनिधौ॥ तं परिष्वज्य धर्मात्मा आ तस्मात् सरयूतटात्। आनयामास ता गावस्त्रिजटस्याश्रमं प्रति॥ उवाच च तदा रामस्तं गाय॑मभिसान्त्वयन्। मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम॥ इदं हि तेजस्तव यद् दुरत्ययं तदेव जिज्ञासितुमिच्छता मया। इमं भवानर्थमभिप्रचोदितो वृणीष्व किं चेदपरं व्यवस्यसि॥ ब्रवीमि सत्येन न ते स्म यन्त्रणां धनं हि यद्यन्मम विप्रकारणात्। भवत्सु सम्यकप्रतिपादनेन मयार्जितं चैव यशस्करं भवेत्॥ र्गवामनीकं प्रतिगृह्य मोदितः। स्तदाशिषः प्रत्यवदन्महात्मनः॥ स चापि रामः प्रतिपूर्णपौरूषो महाधनं धर्मबलैरूपार्जितम्। नियोजयामास सुहृज्जने चिराद् यथार्हसम्मानवचः प्रचोदितः॥ द्विजः सुहृद् भृत्यजनोऽथवातदा दरिद्रभिक्षाचरणश्च यो भवेत्। न तत्र कश्चिन्न बभूव तर्पितो यथार्हसम्माननदानसम्भ्रमैः॥ संजय उवाच ततः शान्तनवो भीष्मो निर्ययौ सह सेनया। व्यूहं चाव्यूहत महत् सर्वतोभद्रमात्मनः॥शा कृपश्च कृतवर्मा च शैब्यश्चैव महारथः। शकुनिः सैन्धवश्चैव काम्बोजश्च सुदक्षिणः॥ भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत। अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः॥ द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष। दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः॥ अश्वत्थामा सोमदत्तश्चावत्यौ च महारथौ। महत्या सेनया युक्ता वामं पक्षमपालयन्॥ दुर्योधनो महाराज त्रिगर्तेः सर्वतो वृतः। व्यूहमध्ये स्थितो राजन् पाण्डवान् प्रति भारत॥ अलम्बुषो रथश्रेष्ठः श्रुतायुश्च महारथः। पृष्ठतः सर्वसैन्यानां स्थितो व्यूहस्य दंशितौ॥ एवं च तं तदा व्यूहं कृत्वा भारत तावकाः। संनद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः॥ ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः। नकुलः सहदेवश्च माद्रीपुत्रावुभावपि॥ अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः। धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः॥ स्थिताः सैन्येन महता परानीकविनाशनाः। शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः॥ चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान्। स्थिता रणे महाराज महत्या सेनया वृताः॥ अभिमन्युर्महेष्वासो द्रुपदश्च महाबलः। युयुधानो महेष्वासो युधामन्युश्च वीर्यवान्॥ केकया भ्रातरश्चैव स्थिता युद्धाय दंशिताः। एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम्॥ पाण्डवाः समरे शूराः स्थिता दशिताः। तावकास्तु रणे यत्ताः सहसेना नराधिपाः॥ अभ्युद्ययू रणे पार्थान् भीष्मं कृत्वाऽग्रतो नृप। तथैव पाण्डवा राजन् भीमसेनपुरोगमा:॥ भीष्मं योद्धृममीप्सन्तः संग्रामे विजयैषिणः। क्ष्वेडाः किलकिलाः शङ्खान् क्रकचान् गोविषाणिकाः।। भेरीमृदङ्गपणवान् नादयन्तश्च पुष्करान्। पाण्डवा अभ्यवर्तन्त नदन्तो भैरवान् स्वान्॥ भैरीमृदङ्गशङ्खानां दुन्दुभीनां च निःस्वनः। उत्कृष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः॥ वयं प्रतिनदन्तस्तानगच्छाम त्वरान्विताः। सहसैवाभिसंक्रुद्धास्तदाऽऽसीत् तुमुलं महत्॥ ततोऽन्योन्यं प्रधावन्तः सम्प्रहारं प्रचक्रिरे। ततः शब्देन महता प्रचकम्पे वसुन्धरा॥ पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रषुः। सप्रभचोदितः सूर्यो निष्प्रभः समपद्यत॥ वबुश्च वातास्तुमुलाः शंसन्तः सुमहद् भयम्। घोराश्च घोरनिर्हादाः शिवास्तत्र ववाशिरे॥ वेदयन्त्यो महाराज महद् वैशसमागतम्। दिशः प्रज्वलिता राजन् पांसुवर्ष पपात च॥ रुधिरेण समुन्मिश्रमस्थिवर्षं तथैव च। रुदतां वाहनानां च नेत्रेभ्यः प्रापतज्जलम्॥ सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशाम्पते। अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ॥ रक्षसां पुरुषादानां नदतां भैरवान् रवान्। सम्पतन्तश्च दृश्यन्ते गोमायुबलवायसा॥ श्वानश्च विविदैर्नादैर्वाशन्तस्त्र मारिष। ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम्। निपेतुः सहसा भूमौ वेदयन्त्यो महद् भयम्॥ महान्त्यनीकानि महासमुच्छुये ततस्तयोः पाण्डवधार्तराष्ट्रयोः। चकम्पिरे शङ्खमृदङ्गनि:स्वनैः प्रकम्पितानीव वनानि वायुना॥ मभ्यायतीनामशिवे मुहूर्ते। बभूव घोषस्तुमुलश्चमूनां वातोद्भुतानामिव सागराणाम्॥ वैशम्पायन उवाच शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः। पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम्॥ प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः। न चास्मि पोषणे शक्तो बहुदुःखसमन्वितः॥ परित्यक्तुं न शक्तोऽस्मि दानशक्तिश्च नास्ति मे। कथमत्र मया कार्यं तद् ब्रूहि भगवन् मम॥ वैशम्पायन उवाच मुहूर्तमिव सध्यात्वाधर्मेणान्विष्य तां गतिम्। युधिष्ठिरमुवाचेदंधौम्योधर्मभृतां वरः॥ धौम्य उवाच ततोऽनुकम्पया पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम्। तेषां सविता स्वपिता यथा॥ गत्वोत्तरायणं तेजो रसानुद्धृत्य रश्मिभिः। दक्षिणायनमावृत्तो महीं निविशते रविः॥ क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः। दिवस्तेजः समुद्धृत्य जनयामास वारिणा॥ निषिक्तश्चन्द्रतेजोभिः स्वयोनौ निर्गते रविः। ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि॥ एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम्। पितैष सर्वभूतानां तस्मात् तं शरणं व्रज॥ राजानो हि महात्मानो योनिकर्मविशोधिताः। उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम्॥ भीमेन कार्तवीर्येण वैन्येन नहुषेण च। तपोयोगसमाधिस्थैरुद्धता ह्यापदः प्रजाः॥ तथा त्वमपिधर्मात्मन् कर्मणा च विशोधितः। तप आस्थायधर्मेण द्विजातीन् भर भारत॥ जनमेजय उवाच कथं कुरूणामृषभः स तु राजा युधिष्ठिरः। विप्रार्थमाराधितवान् सूर्यमद्भुतदर्शनम्॥ वैशम्पायन उवाच शृणुष्वावहितो राजशुचिर्भूत्वा समाहितः! क्षणं च कुरु राजेन्द्र सम्प्रवक्ष्याम्यशेषतः॥ धौम्येन तु यथा पूर्वं पार्थाय सुमहात्मने। नामाष्टशतमाख्यातं तच्छृणुष्व महामते॥ धौम्य उवाच सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः। गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः॥ पृथिव्यापश्च तेजश्च खं वायुश्च परायणम्। सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च॥ इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वै वरुणो यमः॥ वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः। धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः॥ कृतं त्रेता द्वापरश्च कलिः सर्तमलाश्रयः। कला काष्ठा मुहूर्ताश्च क्षपा यामस्तथा क्षणः॥ संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः। पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः॥ कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः। वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा॥ भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः। स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः। :॥ अनन्तः कपिलो भानुः कामदः सर्वतोमुखः। जयो विशालो वरदः सर्वधातुनिषेचिता॥ मन:सुपर्णो भूतादिः शीघ्रगः प्राणधारकः। धन्वन्तरिधूमकेतुरादिदेवोऽदितेः सुतः॥ द्वादशात्मारविन्दाक्षः पिता माता पितामहः। स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्॥ देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः। चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः॥ एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः। नामाष्टशतकं चेदं प्रोक्तमेतत् स्वयंभुवा॥ सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम्। वरकनकहुताशनप्रभं प्रणिपतितोऽस्मि हिताय भास्करम्॥ सूर्योदये यः सुसमाहितः पठेत् स पुत्रदारान्धनरत्नसंचयान्। लभेत जातिस्मरतां नरः सदा धृतिं च मेधां च स विन्दते पुमान्॥ इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमना: समाहितः ल्लभेत कामान् मनसा यथेप्सितान्॥ वैशम्पायन उवाच एवमुक्तस्तुधौम्येन तत्कालसदृशं वचः। विप्रत्यागसमाधिस्थः संयतात्मा दृढव्रतः॥ धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम्। पुष्पोपहारैलिभिरर्चयित्वा दिवाकरम्॥ सोऽवगाह जलं राजा देवस्याभिमुखोऽभवत्। योगमास्थायधर्मात्मा वायुभक्षो जितेन्द्रियः॥ गाङ्गेयं वार्युपस्पृश्य प्राणायामेन तस्थिवान्। शुचिः प्रयतवाग् भूत्वा स्तोत्रमारब्धवांस्ततः॥ युधिष्ठिर उवाच त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम्। त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावताम्॥ त्वं गतिः सर्वसांख्यानां योगिनां त्वं परायणम्। अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षुताम्॥ त्वया संधार्यते लोकस्त्वया लोकः प्रकाश्यते। त्वया पवित्रीक्रियते निर्व्याजं पाल्यते त्वया॥ त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः। स्वशाखाविहितैर्मन्त्रैरर्चन्त्यषिगणार्चितम्॥ तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः। सिद्धचारणगन्धर्वा यक्षगुह्यकपन्नगाः॥ त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः। सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वा सिद्धिमागताः॥ उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः। दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः॥ गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः। ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम्॥ वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः। वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः॥ सब्रह्मकेषु लोकेषु सप्तस्वष्यखिलेषु च। न तद्भूतमहं मन्ये यदर्कादतिरिच्यते॥ सन्ति चान्यानि सत्त्वानि वीर्यवन्ति महान्ति च। न त तेषां तथा दीप्तिः प्रभावो वा यथा तव॥ ज्योतीषिं त्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः। त्वयि सत्यं च सत्त्वं च सर्वे भावाश्च सात्त्विका:।४७॥ त्वत्तेजसा कृतं चक्रं सुनाभं विश्वकर्मणा। देवारीणां मदो येन नाशितः शार्ङ्गधन्वना॥ त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम्। सौषधिरसानां च पुनर्वर्षासु मुञ्चसि॥ तपन्त्यन्ये दहन्त्यन्ये गर्जन्त्यन्ये तथा घनाः। विद्योतन्ते प्रवर्षन्ति तव प्रावृषिः रश्मयः॥ न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः। शीतवातार्दितं लोकं यथा तव मरीचयः॥ त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम्। त्रयाणामपि लोकानां हितायैकः प्रवर्तसे॥ तव यादयो न स्यादन्धं जगदिदं भवेत्। न चधर्मार्थकामेषु प्रवर्तेरन् मनीषिणः॥ आधानपशुबन्धेष्टिमन्त्रयज्ञतपःक्रियाः। त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः॥ यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसम्मितम्। तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः॥ मनूनां मनुपुत्राणां जगतोऽमानवस्य च। मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः॥ संहारकाले सम्प्राप्ते तव क्रोधविनिःसृतः। संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते॥ त्वद्दीधितिसमुत्पन्न नानावर्णा महाघनाः। सैरावता: साशनयः कुर्वन्त्याभूतसम्लवम्॥ कृत्वा द्वादशधाऽऽत्मानं द्वादशादित्यतां गतः। संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः॥ त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः। त्वमग्निस्त्वं मनः सूक्ष्म प्रभुस्त्वं ब्रह्म शाश्वतम्॥ त्वं हंसः सविता भानुरंशुमाली वृषाकपिः। विवस्वान् मिहिरः पूषा मित्रोधर्मस्तथैव च॥ सहस्ररश्मिरादित्यस्तपनस्त्वं गवाम्पतिः। मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत् तथा॥ दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः। आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे॥ सप्तम्यामथवा षष्ठ्यां भक्त्या पूजां करोति यः। अनिविण्णोऽनहंकारी तं लक्ष्मीर्भजते नरम्॥ न तेषामापदः सन्ति नाधयो व्याधयस्तथा। ये तवानन्यमनसः कुर्वन्त्यर्चनवन्दनम्॥ सर्वरोगविरहिताः सर्वपापविवर्जिताः। तवद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः॥ त्वं ममापनकामस्य सर्वातिथ्यं चिकीर्षतः। अन्नमन्नपते दातुमभितः श्रद्धयाहसि॥ ये च तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः। माठरारुणदण्डाद्यास्तांस्तान् वन्देऽशनिक्षुभान्॥ क्षुभया सहिता मैत्री याश्चान्या भूतमातरः। ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम्॥ वैशम्पायन उवाच एवं स्तुतो महराजा भास्करो लोकभावनः। ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम्। दीप्यमानः स्ववपुषा ज्वलनिव हुताशनः॥ विवस्वानुवाच यत् तेऽभिलषितं किंचित् तत् त्वं सर्वमवाप्स्यसि। अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः॥ गृहणीष्व पिठरं तानं मया दत्त नराधिप। यावद् वय॑ति पाञ्चाली पात्रेणानेन सुव्रत॥ फलमूलामिषं शाकं संस्कृतं यन्महानसे। चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति॥ इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि। वैशम्पायन उवाच एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत॥ इमं स्तवं प्रयतमनाः समाधिना पठेदिहान्योऽपि वरं समर्थयन्। तत् तस्य दद्याच्च रविर्मनीषितं तदाप्नुयाद् यद्यपि तत् सुदुर्लभम्॥ यश्चेदंधारयेन्नित्यं शृणुयाद् वाप्यभीक्ष्णशः। पुत्रार्थी लभते पुत्रंधनार्थी लभतेधनम्। विद्यार्थी लभते विद्यां पुरुषोऽप्यथवा स्त्रियः॥ उभे संध्ये पठेन्नित्यं नारी वा पुरुषो यदि। आपदं प्राप्य मुच्यते बद्धो मुच्येत बन्धनात्॥ एतद् ब्रह्मा ददौ पूर्वं शक्राय सुमहात्मने। शक्राच्च नारदः प्राप्तोधौम्यस्तु तदनन्तरम्। धौम्याद् युधिष्ठिरः प्राप्य सर्वान् कामानवाप्तवान्।७८।। संग्रामे च जयेन्नित्यं विपुलं चाप्नुयाद् वसु। मुच्यते सर्वपापेभ्यः सूर्यलोकं स गच्छति॥ वैशम्पायन उवाच लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्यधर्मवित्। जचाद पादौधौम्यस्य भ्रातुंश्च परिषस्वजे॥ द्रौपद्या सह संगम्य वन्द्यमानस्तया प्रभुः। महानसे तदानीं तु साधयामास पाण्डवः॥ संस्कृतं प्रसवं याति स्वल्पमन्नं चतुर्विधम्। अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान्॥ भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि। शेषं विघससंज्ञं तु पश्चाद् भुङ्क्ते युधिष्ठिरः॥ युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती। द्रौपद्यां भुज्यमानायां तदन्नं क्षयमेति च। एवं दिवाकरात् प्राप्य दिवाकरसमप्रभः॥ कामान् मनोऽभिलषितान् ब्राह्मणेभ्योऽददात् प्रभुः। पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु। यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः॥ ततः कृतस्वस्त्ययनाधौम्येन सह पाण्डवाः। द्विजसबै परिवृताः प्रययुः काम्यकं वनम्॥ दमयन्त्युवाच गच्छ केशिनि जानीहि क एष रथवाहकः। उपविष्टो रथोपस्थे विकृतो हस्वबाहुकः॥ अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता। पृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते॥ अत्र मे महती शङ्का भवेदेष नलो नृपः। यथा च मनसस्तुष्टिर्हदयस्य च निर्वृतिः॥ ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा। प्रतिवाक्यं च सुश्रोणि बुद्ध्येथास्त्वमनिन्दिते॥ ततः समाहिता त्वा दूती बाहुकमब्रवीत्। दमयन्त्यपि कल्याणी प्रासादस्था [पैक्षत॥ केशिन्युवाच स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम्। दमयन्त्या वचः साधु निबोध पुरुषर्षभ॥ कदा वै प्रस्थिता यूयं किमर्थमिह चागताः। तत् त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति॥ बाहुक उवाच राज्ञा कोसलेन श्रुतः स्वयंवरो महात्मना। द्वितीयो दमयन्त्या वै भविता श्व इति द्विजात्॥ श्रुत्वैतत् प्रस्थितो राजा शतयोजनयायिभिः। हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः॥ केशिन्युवाच अथ योऽसौ तृतीयो व: स कुतः कस्य वा पुनः। त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम्॥ बाहुक उवाच पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः। स नले विद्रुते भद्रे भाङ्गासुरिमुपस्थितः॥ अहमण्यश्वकुशलः सूतत्वे च प्रतिष्ठितः। ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम्॥ केशिन्युवाच अथ जानाति वार्ष्णेयः क्व नु राजा नलो गतः। कथं च त्वयि वा तेन कथितं स्यात् तु बाहुक॥ बाहुक उवाच इहैव पुत्रौ निक्षिप्य नलस्य शुभकर्मणः। गतस्ततो यथाकाम नैष जानाति नैषधम्॥ न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि। गूढश्चरति लोकेऽस्मिन् नष्टरूपे महीपतिः॥ आत्मैव त नलं वेद या चास्य तदनन्तरा। न हि वै स्वानि लिङ्गानि नलः शंसति कर्हिचित्॥ केशिन्युवाच योऽसावयोध्यां प्रथमं गतोऽसौ ब्राह्मणस्तदा। इमानि नारीवाक्यानि कथयानः पुनः पुनः॥ क्व नु त्वं कितवच्छित्त्वा वस्त्रार्धं प्रस्थितो मम। उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय॥ सा वै यथा समादिष्टा तथाऽऽस्ते त्वत्प्रतीक्षिणी दह्यमाना दिवा रात्रौ वस्त्रार्धेनाभिसंवृता॥ तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव। प्रसादं कुरु मे वीर प्रतिवाक्यं वदस्व च॥ तस्यास्तत् प्रियमाख्यानं प्रवदस्व महामते। तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता॥ एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल। यत् पुरा तत् पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति॥ बृहदश्व उवाच एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन। हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने॥ स निगृह्यात्मनो दुःखं दह्यमानो महीपतिः। वाष्पसंदिग्धया वाचा पुनरेवेदपद्रवीत्॥ बाहुक उवाच वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः। आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः॥ रहिता भर्तृभिश्चापि न क्रुध्यन्ति कदाचन। प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः॥ विषमस्थेन मूढेन परिभ्रष्टसुखेन च। यत् सा तेन परित्यक्ता तत्र न क्रोधुमर्हति॥ प्राणयात्रां परिप्रेप्सोः शकुनैर्हतवाससः। आधिभिर्दह्यमानस्य श्यामा न क्रोद्भुमर्हति॥ सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथाविधम्। राज्य भ्रष्टं श्रिया हीनं क्षुधितं व्यसनाप्लुतम्॥ एवं ब्रुवाणस्तद् वाक्यं नलः परमदुर्मनाः। न वाष्यमशकत् सोढुं प्ररुरोद च भारत।॥ ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत्। तत् सर्वं कथितं चैव विकारं तस्य चैव तम्॥ युधिष्ठिर उवाच नात्मानमनुशोचामि नेमान् भ्रातृन् महामुने। हरणं चापि राज्यस्य यथेमां दुपदात्मजाम्॥ द्यूते दुरात्मभिः क्लिष्टा: कृष्णया तारिता वयम्। जयद्रथेन च पुनर्वनाच्चापि हृता बलात्॥ अस्ति सीमन्तिनी काचिद् दृष्टपूर्वापि वा श्रुता। पतिव्रता महाभागा यथेयं दुपदात्मजा॥ मार्कण्डेय उवाच शृणु राजन् कुलस्त्रीणां महाभाग्यं युधिष्ठिर। सर्वमेतद् यथा प्राप्तं सावित्र्या राजकन्यया।॥ आसीन्मनेषु धर्मात्मा राजा परमधार्मिकः। ब्रह्मण्यश्च महात्मा च सत्यसंधो जितेन्द्रियः॥ यज्वा दानपतिर्दक्षः पौरजानपदप्रियः। पार्थिवोऽश्वपति म सर्वभूतहिते रतः॥ क्षमावाननपत्यश्च सत्यवान् विजितेन्द्रियः। अतिक्रान्तेन वयसा संतापमुपजग्मिवान्॥ अपत्योत्पादनार्थं च तीव्र नियममास्थितः। काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः॥ हुत्वा शतसहस्रं स सावित्र्या राजसत्तमः। षष्ठे षष्ठे तदा काले बभूव मितभोजनः॥ एतेन नियमेनासीद् वर्षाण्यष्टादशैव तु। पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात्॥ रूपिणी तु तदा राजन् दर्शयामास तं नृपम्। अग्निहोत्रात् समुत्थाय हर्षेण महतान्विता। उवाच चैनं वरदा वचनं पार्थिवं तदा॥ सावित्र्युवाच ब्रह्मचर्येण शुद्धेन दमेन नियमेन च। सर्वात्मना च भक्त्या च तुष्टास्मि तव पार्थिव॥ वरं वृणीष्वाश्वपते मद्रराज यदीप्सितम्। न प्रमादश्च धर्मेषु कर्तव्यस्ते कथञ्चन॥ अश्वपतिरुवाच अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया। पुत्रा मे बहवो देवि भवेयुः कुलभावनाः॥ तुष्टासि यदि मे देवि वरमेतं वृणोम्यहम्। संतानं परमो धर्म इत्याहुर्मां द्विजातयः॥ सावित्र्युवाच पूर्वमेव मया राजन्नभिप्रायमिमं तव। ज्ञात्वा पुत्रार्थमुक्तो वै भगवांस्ते पितामहः॥ प्रसादाच्चैव तस्मात् ते स्वयम्भुविहिताद् भुवि। कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति॥ उत्तरं च न ते किंचिद् व्याहर्तव्यं कथञ्चन। पितामहनिसर्गेण तुष्टा ह्येतद् ब्रवीमि ते॥ मार्कण्डेय उवाच स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः। प्रसादयामास पुनः क्षिप्रमेतद् भविष्यति॥ अन्तर्हितायां सावित्र्यां जगाम स्वपुरं नृपः। स्वराज्ये चावसद् वीरः प्रजा धर्मेण पालयन्॥ कस्मिंश्चित् तु गते काले स राजा नियतव्रतः। ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे॥ राजपुत्र्यास्तु गर्भः स मालव्या भरतर्षभ। व्यवर्धत तदा शुक्ले तारापतिरिवाम्बरे॥ प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम्। क्रियाश्च तस्या मुदितश्चक्रे च नृपसत्तमः॥ सावित्र्या प्रीतया दत्ता सावित्र्या हुत्या ह्यपि। सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता॥ सा विग्रहवतीव श्रीळवर्धत नृपात्मजा। कालेन चापि सा कन्या यौवनस्था बभूव ह॥ तां सुमध्यां पृथुश्रोणी प्रतिमां काञ्चनीमिव। प्राप्तेयं देवकन्येति दृष्ट्वा सम्मेनिरे जनाः॥ तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा। न कश्चिद् वरयामास तेजसा प्रतिवारितः॥ अथोपोष्य शिर:स्नाता देवतामभिगम्य सा। हुत्वाग्नि विधिवद् विप्रान् वाचयामास पर्वणि॥ ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः। पितुः समीपमगमद् देवी श्रीरिव रूपिणी॥ साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च। कृताञ्जलिर्वरारोहा नृपतेः पार्श्वमास्थिता।॥ यौवनस्थां तां दृष्ट्वा स्वां सुतां देवरूपिणीम्। अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत्॥ तु राजोवाच पुत्रि प्रदानकालस्ते न च कश्चिद् वृणोति माम्। स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः॥ प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम। विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम्॥ श्रुतं हि धर्मशास्त्रेषु पठ्यमानं द्विजातिभिः। तथा त्वमपि कल्याणि गदतो मे वचः शृणु॥ अप्रदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः। मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता॥ इदं मे वचनं श्रुत्वा भर्तुरन्वेषणो त्वर। देवतानां यथा वाच्यो न भवेयं तथा कुरु॥ मार्कण्डेय उवाच एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः। व्यादिदेशानुयात्रं च गम्यतां चेत्यचोदयत्॥ साभिवाद्य पितुः पादौ वीडितेव मनस्विनी। पितुर्वचनमाज्ञाय निर्जगामाविचारितम्॥ सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता। तपोवनानि रम्याणि राजर्षीणां जगाम ह॥ मान्यानां तत्र वृद्धानां कृत्वा पादाभिवादनम्। वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत॥ एवं तीर्थेषु सर्वेषु धनोत्सर्गं नृपात्मजा। कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह॥ श्येन उवाच धर्मात्मानं त्वाहुरेकं सर्वे राजन् महीक्षितः। सर्वधर्मविरुद्धं त्वं कस्मात् कर्म चिकीर्षसि॥ विहितं भक्षणं राजन् पीड्यमानस्य मे क्षुधा। मा रक्षीधर्मलोभेनधर्ममुत्सृष्टवानसि॥ राजोवाच संत्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज। मत्सकाशमनुप्राप्तः प्राणगृनुरयं द्विजः॥ एवमभ्यागतस्येह कपोतस्याभयार्थिनः। अप्रदाने परंधर्मं कथं श्येन न पश्यसि॥ प्रस्पन्दमानः सम्भ्रान्तः कपोतः श्येन लक्ष्यते। मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः॥ यो हि कश्चिद् द्विजान् हन्याद् गां वा लोकस्य मातरम् शरणागतं च त्यजते तुल्यं तेषां हि पातकम्॥ श्येन उवाच आहारात् सर्वभूतानि सम्भवन्ति महीपते। आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः॥ शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम्। न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम्॥ भक्ष्याद् वियोजितस्याद्य मम प्राणा विशाम्पते। विसृज्य कायमेष्यन्ति पन्थानमकुतोभयम्॥ प्रमृते मयिधर्मात्मन् पुत्रदारादि नक्ष्यति। रक्षमाणः कपोतं त्वं बहून् प्राणान् न रक्षसि॥ धर्मं यो बाधतेधर्मो न सधर्मः कुधर्म तत्। अविरोधात् तु योधर्मः सधर्मः सत्यविक्रम॥ विरोधिषु महीपाल निश्चित्य गुरुलाघवम्। न बाधा विद्यते यत्र तंधर्म समुपाचरेत्॥ गुरुलाघवमादायधर्माधर्मविनिश्चये। यतो भूयास्ततो राजन् कुरुष्वधर्मनिश्चयम्॥ राजोवाच बहुकल्याणसंयुक्तं भाषसे विहगोत्तम। सुपर्णः पक्षिराट् किं त्वंधर्मज्ञश्चास्यसंशयम्॥ तथा हिधर्मसंयुक्तं बहु चित्रं च भाषसे। न तेऽस्त्यविदितं किंचिदिति त्वां लक्षयाम्यहम्॥ शरणैषिपरित्यागं कथं साध्विति मन्यसे। आहारार्थं समारम्भस्तव चायं विहंगम॥ शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया। गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा। त्वदर्थमद्य क्रियतां यच्चान्यदिह काक्षसि॥ श्येन उवाच न वराहं न चोक्षाणं न मृगान् विविधांस्तथा। भक्षयामि महाराज किं ममान्येन केनचित्॥ यस्तु मे देवविहितो भक्षः क्षत्रियपुङ्गव। तमुत्सृज महीपाल कपोतमिममेव मे॥ श्यनेः कपोतानत्तीति स्थितिरेषा सनातनी। मा राजन् सारमज्ञात्वा कदलीस्कन्धमाश्रया२०॥ राजोवाच राष्ट्र शिबीनामृद्धं वै ददानि तव खेचर। यं वा कामयसे कामं श्येन सर्वं ददानि ते॥ विनेनं पक्षिणं श्येन शरणार्थिनमागतम्। येनेमं वर्जयेथास्त्वं कर्मणा पक्षिसत्तम। तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम्॥ श्येन उवाच उशीनर कपोते ते यदि स्नेहो नराधिप। आत्मनो मांसमुत्कृत्य कपोततुलयाधृतम्॥ यदा समं कपोतेन तव मांसं नृपोत्तम। तदा देयं तु तन्मह्यं सा मे तुष्टिर्भविष्यति॥ राजोवाच अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे। तस्मात् तेऽद्य प्रदास्यामि स्वमांसं तुलयाधृतम्॥ लोमश उवाच उत्कृत्य स स्वयं मांसं राजा परमधर्मवित्। तोलयामास कौन्तेय कपोतेन समं विभो॥ ध्रियमाणः कपोतस्तु मांसेनात्यतिरिच्यते। पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः॥ न विद्यते यदा मांसं कपोतेन समंधृतम्। तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम्॥ श्येन उवाच इन्द्रोऽहमस्मिधर्मज्ञ कपोतो हव्यवाडयम्। जिज्ञासमानौधर्म त्वां यज्ञवाटमुपागतौ॥ यत् ते मांसानि गात्रेभ्य उत्कृत्तानि विशाम्पते। एषा ते भास्वती कीर्तिर्लोकानभिभविष्यति॥ यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव। तावत् कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः।। इत्येवमुक्त्वा राजानमारुरोह दिवं पुनः। उशीनरोऽपिधर्मात्माधर्मेणावृत्य रोदसी॥ विभ्राजमानो वपुषाप्यारुरोह त्रिविष्टपम्। तदेतत् सदनं राजन् राज्ञस्तस्य महात्मनः॥ पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम्। तत्र वै सततं देवा मनुयश्च सनातनाः। दृश्यन्ते ब्राह्मणै राजन् पुण्यवद्भिर्महात्मभिः॥ वैशम्पायन उवाच तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान्। सिद्धचारणसव्रनां बभूव प्रियदर्शनः॥ शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः। स्वर्यं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत॥ केषांचिदभवद् भ्राता केषांचिदभवत् सखा। ऋषयस्त्वपरे चैनं पुत्रवत् पर्यपालयन्॥ स तु कालेन महता प्राप्य निष्कलुषं तपः। ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ।॥ अमावस्यां तु सहिता ऋषयः संशितव्रताः। ब्रह्मणं द्रष्टुकामास्ते सम्प्रतस्थुर्महर्षयः॥ सम्प्रयातानृषीन् दृष्ट्वा पाण्डुर्वचनमब्रवीत्। भवन्तः क्व गमिष्यन्ति ब्रूत मे वदतां वराः॥ ऋषयः ऊचुः समवायो महानद्य ब्रह्मलोके महात्मनाम्। देवानां च ऋषीणां च पितृणां च महात्मनाम्। वयं तत्र गमिष्यामो द्रष्टुकामाः स्वयम्भुवम्॥ वैशम्पायन उवाच पाण्डुरुत्थाय सहसा गन्तुकामो महर्षिभिः। स्वर्गपारं तितीर्घः स शतशृङ्गादुदङ्मुखः॥ प्रतस्थे सह पत्नीभ्यामब्रुवंस्तं च तापसाः। उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः॥ दृष्टवन्तो गिरौ रम्ये दुर्गान् देशान् बहून् वयम्। विमानशतसम्बाधां गीतस्वरनिनादिताम्॥ आक्रीडभूमिं देवानां गन्धर्वाप्सरसां तथा। उद्यानानि कुबेरस्य समानि विषमाणि च॥ महानदीनितम्बांश्च गहनान् गिरिगह्वरान्। सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः॥ सन्ति क्वचिन्महादर्यो दुर्गाः काश्चिद् दुरासदाः। नातिक्रामेत पक्षी यान् कुत एवेतरे मृगाः॥ वायुरेको हि यात्यत्र सिद्धाश्च परमर्षयः। गच्छन्त्यौ शैलराजेऽस्मिन् राजपुत्र्यौ कथं त्विमे॥ न सीदेतामदुःखा मा गमो भरतर्षभ। पाण्डुरुवाच अप्रजस्य महाभागा न द्वारं परिचक्षते॥ स्वर्गे तेनाभितप्तोऽहमप्रजस्तु ब्रवीमि वः। पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः॥ देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः। ऋणैश्चतुर्भिः संयुक्ता जायन्ते मानवा भुवि॥ पितृदेवर्षिमनुजैर्देयं तेभ्यश्च धर्मतः। एतानि तु यथाकालं यो न बुध्यति मानवः॥ न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम्। यज्ञैस्तु देवान् प्रीणाति स्वाध्यायतपसा मुनीन्।॥ पुत्रैः श्राद्धैः पितॄश्चापि आनृशंस्येन मानवान्। ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः॥ त्रयाणामितरेषां तु नाश आत्मनि नश्यति। पित्र्यादृणादनिर्मुक्त इदानीमस्मि तापसाः॥ इह तस्मात् प्रजाहेतोः प्रजायन्ते नरोत्तमाः। यथैवाहं पितुः क्षेत्रे जातस्तेन महर्षिणा॥ तथैवास्मिन् मम क्षेत्रे कथं वै सम्भवेत् प्रजा। ऋषयः ऊचुः अस्ति वै तव धर्मात्मान् विद्मो देवोपमं शुभम्॥ अपत्यमनघं राजन् वयं दिव्येन चक्षुषा। देवोद्दिष्टं नरव्याघ्र कर्मणेहोपपादय॥ अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान् नरः। तस्मिन् दृष्टे फले राजन् प्रयत्न कर्तुमर्हसि॥ अपत्यं गुणसम्पन्नं लब्धा प्रीतिकरं ह्यसि। वैशम्पायन उवाच तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत्॥ आत्मनो मृगशापेन जानन्नुपहतां क्रियाम्। सोऽब्रवीद् विजने कुन्ती धर्मपत्नी यशस्विनीम्। अपत्योत्पादने यत्नमापदि त्वं समर्थय॥ अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता। इति कुन्ति विदुर्धीराः शाश्वतं धर्मवादिनः॥ इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः। सर्वमेवानपत्यस्य न पावनमिहोच्यते॥ सोऽहमेवं विदित्वैतत् प्रपश्यामि शुचिस्मिते। अनपत्यः शुभाँल्लोकान् न प्राप्स्यामीति चिन्तयन्।३०। मृगाभिशापान्नष्टं मे जननं ह्यकृतात्मनः। नृशंसकारिणो भीरु यथैवोपहतं पुरा॥ इमे वै बन्धुदायादाः षट् पुत्रा धर्मदर्शने। षडेवाबन्धुदायादाः पुत्रास्ताञ्छृणु मे पृथे।॥ स्वयंजातः प्रणीतश्च तत्समः पुत्रिकासुतः। पौन वश्च कानीनः भगिन्यां यश्च जायते॥ दत्तः क्रीतः कृत्रिमश्च उपगच्छेत् स्वयं च यः। सहोढो ज्ञातिरेताच हीनयोनिधृतश्च यः॥ पूर्वपूर्वतमाभावं मत्वा लिप्सेत वै सुतम्। उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि॥ अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति मानवाः। आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत्॥ तस्मात् प्रहेष्याम्यद्य त्वां हीनः प्रजननात् स्वयम्। सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि॥ शृणु कुन्ति कथामेतां शारदण्डायिनी प्रति। सा वीरपत्नी गुरुणा नियुक्ता पुत्रजन्मनि॥ पुष्येण प्रयता स्नाता निशि कुन्ति चतुष्पथे। वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम्। कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत्। तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान्॥ तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात्। मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति॥ संजय उवाच सहदेवमथायान्तं द्रोणप्रेप्सु विशाम्पते। कर्णो वैकर्तनो युद्धे वारयामास भारत॥ सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः। पुनर्विव्याध दशभिर्विशिखैनतपर्वभिः॥२॥ तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम्। सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत्॥ ततोऽन्यद् धनुरादाय माद्रीपुत्रः प्रतापवान्। कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत्॥ तस्य कर्णो हयान हत्वा शरैः संनतपर्वभिः। सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम्॥ विस्थः सहदेवस्तु खङ्ग चर्म समाददे। तदप्यस्य शरैः कर्णो व्यधमत् प्रहसन्निव॥ अथ गुर्वी महाघोरां हेमचित्रां महागदाम्। प्रेषयामास संक्रुद्धो वैकर्तनरथं प्रति॥ तामापतन्ती सहसा सहदेवप्रचोदिताम्। व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत्॥ गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः। शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः॥ ससम्भ्रमं ततस्तूर्णमवप्लुत्य रथोत्तमात्। सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम्॥ रथचक्रं प्रगृह्याजौ मुमोचाधिरथिं प्रति। तदापतद् वै सहसा कालचक्रमिवोद्यतम्॥ शरैरनेकसाहस्रैराच्छिनत् सूतनन्दनः। तस्मिस्तु निहते चक्रे सूतजेन महात्मना।॥ ईषादण्डकयोक्त्रांश्च युगानि विविधानि च। हस्त्यङ्गानि तथाश्वांश्च मृतांश्च पुरुषान् बहून्॥ चिक्षेप कर्णमुद्दिश्य कर्णस्तान् व्यधमच्छरैः। स निरायुधमात्मानं ज्ञात्वा साद्रवतीसुतः॥ वार्यमाणस्तु विशिखैः सहदेवो रणं जहौ। तमभिद्रुत्य राधेयो मुहूर्ताद् भरतर्षभ।॥ अब्रवीत् प्रहसन् वाक्यं सहदेवं विशाम्पते। मा युध्यस्व रणेऽधीर विशिष्टै रथिभिः सह॥ सदृशैयुध्य माद्रेय वचो मे मा विशङ्किथाः। अथैनं धनुषोऽग्रेण तुदन भूयोऽब्रवीद् वचः॥ एषोऽर्जुनो रणे तूर्णं युध्यते कुरुभिः सह। तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे॥ एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः। प्रायात् पाञ्चालपाण्डूनां सैन्यानि प्रदहन्निव॥ वधं प्राप्तं तु माद्रेयं नावधीत् समरेऽरिहा। कुन्त्याः स्मृत्वा वचो राजन् सत्यसंधो महायशाः।। २० सहदेवस्ततो राजन् विमना: शरपीडितः। कर्णवाक्छरतप्तश्च जीवितानिरविद्यत॥ आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः। जनमेजयस्य समरे त्वरायुक्ते महारथः॥ युधिष्ठिर उवाच व्याख्याता राजधर्मेण वृत्तिरापत्सु भारत। कथं स्विद् वैश्यधर्मेण संजीवेद् ब्राह्मणो न वा॥ भीष्म उवाच अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत्। कृषिगोरक्ष्यमास्थाय व्यसने वृत्तिसंक्षये॥ युधिष्ठिर उवाच कानि पण्यानि विक्रीय स्वर्गलोकान्न हीयते। ब्राह्मणो वैश्यधर्मेण वर्तयन् भरतर्षभ।॥ भीष्म उवाच सुरा लवणमित्येव तिलान् केसरिणः पशून्। वृषभान् मधुमांसं च कृतान्नं च युधिष्ठिर॥ सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत्। एतेषां विक्रयात् तात ब्राह्मणो नरकं व्रजेत्॥ अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट्। धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथंचन॥ पक्वेनामस्य निमयं न प्रशंसन्ति साधवः। निमयेत् पक्वमामेन भोजनार्थाय भारत॥ वयं सिद्धमशिष्यामो भवान् साधयतामिदम्। एवं संवीक्ष्य नियमेन्नाधर्मोऽस्ति कथंचन॥ अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः। व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर॥ भवतेऽहं ददानीदं भवानेतत् प्रयच्छतु। रुचितो वर्तते धर्मो न बलात् सम्प्रवर्तते॥ इत्येवं सम्प्रवर्तन्ते व्यवहाराः पुरातनाः। ऋषीणामितरेषां च साधु चैतदसंशयम्॥ युधिष्ठिर उवाच अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः। व्युत्नामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम्॥ राजा त्राता तु लोकस्य कथं च स्यात् परायणम्। एतन्मे संशयं ब्रूहि विस्तरेण नराधिप॥ भीष्म उवाच दानेन तपसा यज्ञैरद्रोहेण दमेन च। ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः॥ तेषां ये वेदबलिनस्तेऽभ्युत्थाय समन्ततः। राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः॥ राज्ञोऽपि क्षीयमाणस्य ब्रह्मैवाहुः परायणम्। तस्माद् ब्रह्मबलेनैव समुत्थेयं विजानता॥ यदा भुवि जयो राजा क्षेमं राष्ट्रेऽभिसंदधेत्। तदा वर्णा यथाधर्मं निविशेयुः कथंचन॥ उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते। सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर।॥ युधिष्ठिर उवाच अथ चेत् सर्वतः क्षत्रं प्रदुष्येद् ब्राह्मणं प्रति। कस्तस्य ब्राह्मणस्त्राता को धर्मः किं परायणम्॥ भीष्म उवाच तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च। अमायया मायया च नियन्तव्यं तदा भवेत्॥ क्षत्रियस्यातिवृत्तस्य ब्राह्मणेषु विशेषतः। ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्मसम्भवम्॥ अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्। तेषां सर्वत्रगं तेः स्वासु योनिषु शाम्यति॥ यदा छिनत्त्ययोऽश्मानग्निश्चापोऽभिगच्छति। क्षत्रं च ब्राह्मणं द्वेशि तदा नश्यन्ति ते त्रयः॥ तस्माद् ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर। समुदीर्णान्यजेयानि तेजांसि च बलानि च॥ ब्रह्मवीर्ये मृदुभूते क्षत्रवीर्ये च दुर्बले। दुष्टेषु सर्ववर्णेषु ब्राह्मणान् प्रति सर्वशः॥ ये तत्र युद्ध कुर्वन्ति त्यक्त्वा जीवितमात्मनः। ब्राह्मणान् परिरक्षन्तो धर्मामात्मानमेव च॥ मनस्विनो मन्युमन्तः पुण्य श्लोका भवन्ति ते। ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणमिष्यते॥ अतिस्विष्टमधीतानां लोकानतितपस्विनाम्। अनाशनाग्न्योर्विशतां शूरा यान्ति परां गतिम्॥ ब्राह्मणस्त्रिषु वर्णेषु शस्त्रं गृह्णन दुष्यति। एवमेवात्मनस्त्यागन्नान्यं धर्मं विदुर्जनाः॥ तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वते। ब्रह्मद्विषो नियच्छन्तस्तेषां नोऽस्तु सलोकता। ब्रह्मलोकजितः स्वर्यान् वीरांस्तान् मनुरब्रवीत्।॥ यथाश्वमेधावभृथे स्नाताः पूता भवन्त्युत। दुष्कृतस्य प्रणाशेन ततः शस्त्रहता रणे॥ भवत्यधर्मो धर्मो हि धर्माधर्मावुभावपि। कारणाद् देशकालस्य देशकालः स तादृशः॥ मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम्। धाः पापानि कुर्वाणा गच्छन्ति परमां गतिम्॥ ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति। आत्मत्राणे वर्णदोषे दुर्दम्यनियमेषु च॥ युधिष्ठिर उवाच अभ्युस्थिते दस्युबले क्षत्रार्थे वर्णसंकरे। सम्प्रमूढेषु वर्णेषु यद्यन्योऽभिभवेद् बली॥ ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम। दस्युभ्योऽथ प्रजा रक्षेद् दण्डं धर्मेण धारयन्॥ कार्यं कुर्यान्न वा कुर्यात् संवार्यो वा भवेन्न वा। तस्माच्छस्त्रं ग्रहीतव्यमन्यत्र क्षत्रबन्धुतः॥ भीष्म उवाच अपारे यो भवेत् पारमप्लवे यः प्लवो भवेत्। शूद्रो वा यदि वाप्यन्यः सर्वथा मानमर्हति॥ यमाश्रित्य नरा राजन् वर्तयेयुर्थथासुखम्। अनाथास्तप्यमानाश्च दस्युभिः परिपीडिताः॥ तमेव पूजयेयुस्ते प्रीत्या स्वमिव बान्धवम्। अभीरभीक्ष्णं कौरव्य कर्ता सन्मानमर्हति॥ किं तैर्येऽनडुहो नोह्याः किं धेन्वा वाप्यदुग्धया। वन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाप्यरक्षता॥ यथा दारुमयो हस्ती यथा चर्ममयो मृगः। यथा ह्यनथः षण्ढो वा पार्थ क्षेत्रं यथोषरम्॥ एवं विप्रोऽनधीयानो राजा यश्च न रक्षिता। मेघो न वर्षते यश्च सर्वथा ते निरर्थकाः॥ नित्यं यस्तु सतो रक्षेदसतश्च निवर्तयेत्। स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम्॥ संजय उवाच दुःशासनबलं हत्वा सब्यसाची महारथः। सिन्धुराज परीप्सन् वै द्रोणानीकमुपाद्रवत्॥ स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम्। कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत्॥ अर्जुन उवाच शिवेन ध्याहि मां ब्रह्मन् स्वस्ति चैव वदस्व मे। भवतप्रसादादिच्छामि प्रवेष्टुं दुर्भिदां चमूम्॥ भवान् पितृसमो मह्यं धर्मराजसमोऽपि च। तथा कृष्णसमश्चैव सत्यमेतद् ब्रवीमि ते॥ अश्वत्थामा यथा तात रक्षणीयस्त्वयानघ। तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम॥ तव प्रसादादिच्छेयं सिन्धुराजानमाहवे। निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे प्रभो॥ संजय उवाच एवमुक्तस्तदाचार्यः प्रत्युवाच स्मयन्निव। मामजित्वा न बीभत्यो शक्यो जेतुं जयद्रथः॥ एतावदुक्त्वा तं द्रोणः शरवातैरवाकिरत्। सारथाश्वध्वजं तीक्ष्णैः प्रहसन् वैससारथिम्॥ ततोऽर्जुनः शरवातान् द्रोणस्यावार्य सायकैः। द्रोणमभ्यद्रवद् बाणैर्घोररूमैर्महत्तरैः। विव्याध चरणे द्रोणमनुमान्य विशाम्यते। क्षत्रधर्मे समास्थाय नवभिः सायकैः पुनः॥ तस्येषूनिषुभिश्छत्त्वा द्रोणो विव्याध तावुभौ। विषाग्निज्वलितप्रख्यैरिषुभिः कृष्णपाण्डवौ॥ इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम्। तस्य चिन्तयतस्त्वेवं फाल्गुनस्य महात्मनः॥ द्रोणः शरैरसम्भ्रान्तो ज्यां विच्छेदाशु वीर्यवान्। विव्याध च हयानस्य ध्वजं सारथिमेव च॥ अर्जुनं च शरैर्वीरः स्मयमानोऽभ्यवाकिरत्। एतस्मिन्नन्तरे पार्थः सज्यं कृत्वा महद् धनुः॥ विशेषयिष्यन्नाचार्ये सर्वास्त्रविदुषां वरः। मुमोच षट्शतान् बाणान् गृहीत्वैकमिव दुतम्॥ पुनः सप्तशतानन्यान् सहस्रं चानिवर्तिनः। चिक्षेपायुतशश्चान्यांस्तेऽनन् द्रोणस्य तां चमूम्॥ तैः सम्यगस्तैर्वलिना कृतिना चित्रयोधिना। मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः॥ विसूताश्वध्वजाः पेतुः संछिन्नायुधजीविताः। रथिनो स्थमुख्येभ्यः सहसा शरपीडिताः॥ चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः। तुल्यरूपा गजा: पेतुर्गिर्यग्राम्बुदवेश्मनाम्॥ पेतुश्वसहस्राणि प्रहतान्यर्जुनेषुभिः। हंसा हिमवतः पृष्ठे वारिविप्रहता इव।॥ स्थाश्वद्विपपत्तयोघाः सलिलौघा इवाद्भुताः। युगान्तादित्यरश्मयाभैः पाण्डवास्त्रशरैर्हताः॥ तं पाण्डवादित्यशरांशुजालं कुरुप्रवीरान् युधि निष्टपन्तम्। स द्रोणमेघः शरवृष्टिवेगैः प्राच्छादयन्मेघ इवार्करश्मीन्॥ अथात्यर्थं विसृष्टेन द्विषतामसुभोजिना। आजघ्ने वक्षसि द्रोणो नाराचेन धनंजयम्॥ स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः। धैर्यमालम्ब्य बीभत्सुयॊणं विव्याध पत्रभिः॥ द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत्। अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः॥ विशेषयिष्यशिष्यं च द्रोणो राजन् पराक्रमी। अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः॥ प्रसक्तान् पततोऽद्राक्षम भारद्वाजस्य सायकान्। मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम्॥ तेऽभ्ययुः समरे राजन् वासुदेवधनंजयौ। द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः॥ तद् दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस्तदा। वासुदेवो महाबुद्धिः कार्यवत्तामचिन्तयत्॥ ततोऽब्रवीद् वासुदेवो धनंजयमिदं वचः। पार्थ पार्थ महाबाहो न न: कालात्ययो भवेत्॥ द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम्। पार्थश्चाप्यब्रवीत् कृष्णं यथेष्टमिति केशवम्॥ ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजम्। परिवृत्तश्च बीभत्सुरगच्छद् विसृजशरान्॥ ततोऽब्रवीत् स्वयं द्रोणः क्वेदं पाण्डव गम्यते। ननु नाम रणे शत्रुमजित्वा न निवर्तसे॥ अर्जुन उवाच गुरुभवान् न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते। न चास्ति स पुमाल्लोके यस्त्वां युधि पराजयेत्॥ संजय उवाच एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः। त्वरायुक्तो महाबाहुस्त्वत्सैन्यं समुपाद्रवत्॥ तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ। अन्वयातां महात्मानौ विशन्तं तावकं बलम्॥ ततो जयो महाराज कृतवर्मा च सात्वतः। काम्बोजश्च श्रुतायुश्च धनञ्जयमवारयन्॥ तेषां दश सहस्राणि रथानामनुयायिनाम्। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः॥ मावेल्लका ललित्याश्च केकया मद्रकास्तथा। नारायणाच गोपालाः काम्बोजानां च ये गणाः॥ कर्णेन विजिताः पूर्वं संग्रामे शूरसम्मताः। भारद्वाजं पुरस्कृत्य हृष्टात्मानोऽर्जुनं प्रति॥ पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम्। त्यजन्तं तुमुले प्राणान् संनद्धं चित्रयोधिनम्॥ गाहमानमनीकानि मातङ्गमिव यूथपम्। महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन्॥ ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्। अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च॥ जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम्। न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितम्॥ त्रिगतैरभवद् युद्धं कृतवैरैः किरीटिनः। महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः॥ ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तमम्। विषयान्तं ततो वीरा दंशिताः पर्यवारयन्॥ रथिनो बद्धतूणीराः सदश्वैः तूणीरा: सदश्वैः समलंकृतैः। परिवार्य हयं राजन् ग्रहीतुं सम्प्रचक्रमुः॥ ततः किरीटी संचिन्त्य तेषां तत्र चिकीर्षितम्। वारयामास तान् वीरान् सान्त्वपूर्वमरिंदमः॥ तदनादृत्य ते सर्वे शरैरभ्यहनस्तदा। तमोरजोभ्यां संछन्नांस्तान् किरीटी न्यवारयत्॥ तानब्रवीत् ततो जिष्णुः प्रहसन्निव भारत। निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव च॥ स हि वीरः प्रयास्यन् वै धर्मराजेन वारितः। हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति॥ स तदा तद् वचः श्रुत्वा धर्मराजस्य धीमतः। तान् निवर्तध्वमित्याह न न्यवर्तन्त चापि ते॥ ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे। विचित्य शरजालेन प्रजहास धनंजयः॥ ततस्ते रथघोषेण स्थनेमिस्वनेन च। पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन्॥ सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम्। शतान्यमुञ्चद् राजेन्द्र लध्वस्त्रमभिदर्शयन्॥ तथैवान्ये महेष्वासा ये च तस्यानुयायिनः। मुमुचुः शरवर्षाणि धनंजयवधैषिणः॥ स तान् ज्यामुखनिर्मुक्तैर्बहुभिः सुबहूशरान्। चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा॥ केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा। युयुधे भ्रातुराय पाण्डवेन यशस्विना॥ तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे। अभ्यन्निशितैर्वाणैर्बीभत्सुः परवीरहा।॥ केतुवर्मण्यभिहते धृतवर्मा महारथः। रथेनाशु समुत्पत्य शरैर्जिष्णुमवाकिरत्॥ तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान्। गुडाकेशो महातेजा बालस्य धृतवर्मणः॥ न संदधानं ददृशे नाददानं च तं तदा। किरन्तमेव स शरान् ददृशे पाकशासनिः॥ स तु तं पूजयामास धृतवर्माणमाहवे। मनसा तु मुहूर्तं वै रणे समभिहर्षयन्॥ तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निवा प्रीतिपूर्वं महाबाहुः प्राणैर्न व्यपरोपयत्॥ स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा। धृतवर्मा शरं दीप्त मुमोच विजये तदा॥ स तेन विजयस्तूर्णमासीद् विद्धः करे भृशम्। मुमोच गाण्डिवं मोहात् तत् पपाताथ भूतले॥ धनुषः पततस्तस्य सव्यसाचिकराद् विभो। बभूव सदृशं रूपं शक्रचापस्य भारत॥ तस्मिन् विपतिते दिवये महाधनुषि पार्थिवः। जहास सस्वनं हास धृतवर्मा महाहवे॥ ततो रोषार्दितो जिष्णुः प्रमृत्य रुधिरं करात्। धनुरादत्त तद् दिव्यं शरवर्ववर्ष च॥ ततो हलहलाशब्दो दिवस्पृगभवत् तदा। नानाविधानां भूतानां तत्कर्माणि प्रशंसताम्॥ ततः सम्प्रेक्ष्य संक्रुद्धं कालान्तकयमोपमम्। जिष्णुं त्रैगर्तका योधाः परीताः पर्यवारयन्॥ अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः। परिववर्गुडाकेशं तत्राद्ध्यद् धनंजयः॥ ततो योधान् जघानाशु तेषां स दश चाष्ट च। महेन्द्रवज्रप्रतिमैरायसैर्बहुभिः शरैः॥ तान् सम्प्रभग्नान् सम्प्रेक्ष्य त्वमाणो धनंजयः। शरैराशीविषाकारैर्जधान स्वनवद्धसन्॥ ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः। दिशोऽभिदुद्रुवू राजन् धनंजयशरार्दिताः॥ तमूचुः पुरुषव्याघ्रं संशप्तकनिषूदनम्। तवास्म किंकराः सर्वे सर्वे वै वशगास्तव॥ आज्ञापयस्व नः पाथै प्रह्वान् प्रेष्यानवस्थितान्। करिष्यामः प्रियं सर्वं तव कौरवनन्दन॥ एतदाज्ञाय वचनं सर्वोस्तानब्रवीत् तदा। जीवितं रक्षत नृपाः शासनं प्रतिगृह्यताम्॥ युधिष्ठिर उवाच नेह पश्यामि विबुधा राधेयममितौजसम्। भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ॥ जुहुवुर्ये शरीराणि रणवह्नौ महारथाः। राजानो राजपुत्राश्च ये मदर्थे हता रणे॥ क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः। तैरप्ययं जितो लोकः कच्चित् पुरुषसत्तमैः॥ यदि लोकानिमान् प्राप्तास्ते च सर्वे महारथाः। स्थितं वित्त हि मां देवा: सहितं तैर्महात्मभिः॥ कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः। न तैरहं विना रंस्ये भ्रातृभिर्जातिभिस्तथा॥ मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि। कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै॥ इदं च परितप्यामि पुनः पुनरहं सुराः। यन्मातुः सदृशौ पादौ तस्याहममितात्मनः॥ दृष्ट्वैव तौ नानुगतः कर्णं परबलार्दनम्। न ह्यस्मान् कर्णसहितान् जयेच्छक्रोऽपि संयुगे॥ तमहं यत्र तत्रस्थं द्रष्टुमिच्छामि सूर्यजम्। अविज्ञातो मया योऽसौ घातितः सव्यसाचिना॥ भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम। अर्जुनं चेन्द्रसंकाशं यमौ चैव यमोपमौ॥ द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम्। न चेह स्थातुमिच्छामि सत्यमेवं ब्रवीमि वः॥ किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः। यत्र ते मम स स्वर्गो नायं स्वर्गो मतो मम॥ देवा ऊचुः यदि वै तत्र ते श्रद्धा गम्यतां पुत्र मा चिरम्। प्रिये हि तव वर्तामो देवराजस्य शासनात्॥ वैशम्पायन इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन्। युधिष्ठिरस्य सुहृदो दर्शयेति परंतप॥ ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः। सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः॥ अग्रतो देवदूतश्च ययौ राजा च पृष्ठतः। पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः॥ तमसा संवृतं घोरं केशशैवलशाद्वलम्। युक्तं पापकृतां गन्धैर्मीसशोणितकर्दमम्॥ दंशोत्पातकभल्लूकमक्षिकामशकावृतम्। इतश्चेतश्च कुणपैः समन्तात् परिवारितम्॥ अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम्। ज्वलनेन प्रदीप्तेन समन्तात् परिवेष्टितम्॥ अयोमुखैश्च काकाद्यैर्गुधैश्च समभिद्रुतम्। सूचीमुखैस्तथा प्रेतैर्विथ्यशैलोपमैर्वृतम्॥ मेदोरुधिरयुक्तैश्च च्छिन्नबाहूरुपाणिभिः। निकृत्तोदरपादैश्च तत्र तत्र प्रवेरितैः॥ स तत्कुणपदुर्गन्धमशिवं लोमहर्षणम्। जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन्॥ ददर्शोष्णोदकैः पूर्णा नदीं चापि सुदुर्गमाम्। असिपत्रवनं चैव निशितं क्षुरसंवृतम्॥ करम्भवालुकास्तप्ता आयसीश्च शिलाः पृथक्। लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः॥ कूटशाल्मलिकं चापि दुःस्पर्श तीक्ष्णकण्टकम्। ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम्॥ स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह। कियदध्वानमस्माभिर्गन्तव्यमिममीदृशम्॥ क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि। देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम्॥ स संनिववृते श्रुत्वा धर्मराजस्य भाषितम्। देवदूतोऽब्रवीच्चैनमेतावद् गमनं तव॥ निवर्तितव्यो हि मया तथासम्युक्तो दिवौकसैः। यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि॥ युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्च्छितः। निवर्तने धृतमनाः पर्यावर्तत भारत॥ स संनिवृत्तो धर्मात्मा दुःखशोकसमाहतः। शुश्राव तत्र वदतां दीना वाचः समन्ततः॥ भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव। अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम्॥ आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः। तव गन्धानुगस्तात येनास्मान् सुखमागमत्॥ ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ। सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम॥ संतिष्ठस्व महाबाहो मुहूर्तमपि भारत। त्वयि तिष्ठति कौरव्य यातनास्मान् न बाधते॥ एवं बहुविधा वाचः कृपणा वेदनावताम्। तस्मिन् देशे स शुश्राव समन्ताद् वदतां नृप॥ तेषां तु वचनं श्रुत्वा दयावान् दीनभाषिणाम्। अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः॥ स ता गिरः पुरस्ताद् वै श्रुतपूर्वा पुनः पुनः। ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः॥ अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः। उवाच के भवन्तो वै किमर्थमिह तिष्ठथ॥ इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे। कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो॥ नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत। द्रौपदी द्रौपदेयाश्च इत्येवं ते विचुक्रुशुः॥ ता वाचः स तदा श्रुत्वा तद्देशसदृशीर्नृप। ततो विममृशे राजा किं त्विदं दैवकारितम्॥ किं तु तत् कलुषं कर्म कृतमेभिर्महात्मभिः। कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया॥ य इमे पापगन्धेऽस्मिन् देशे सन्ति सुदारुणे। नाहं जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम्॥ किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः। तथा श्रिया युतः पापैः सह सर्वैः पदानुगैः॥ महेन्द्र इव लक्ष्मीवानास्ते परमपूजितः। कस्येदानी विकारोऽयं य इमे नरकं गताः॥ सर्वधर्मविदः शूराः सत्यागमपरायणाः। क्षत्रधर्मरताः सन्तो यज्वानो भूरिदक्षिणाः॥ किं नु सुप्तोऽस्मि जागर्मि चेतयामि न चेतये। अहोचित्तविकारोऽयं स्याद् वा मे चित्तविभ्रमः॥ एवं बहुविधं राजा विममर्श युधिष्ठिरः। दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः॥ क्रोधमाहारयच्चैव तीव्र धर्मसुतो नृपः। देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः॥ स तीव्रगन्धसंतप्तो देवदूतमुवाच ह। गम्यतां तत्र येषां त्वं दूतस्तेषामुपान्तिकम्॥ न ह्यहं तत्र यास्यामि स्थितोऽस्मीति निवेद्यताम्। मत्संश्रयादिमे दूताः सुखिनो भ्रातरो हि मे॥ इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता। जगाम तत्र यत्रास्ते देवराजः शतक्रतुः॥ निवेदयामास च तद् धर्मराजचिकीर्षितम्। यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप॥ जनमेजय उवाच । एवं ते मत्स्यनगरे प्रच्छन्नाः कुरुनन्दनाः। अत ऊर्ध्वं महावीर्याः किमकुर्वत वै द्विजः॥ वैशम्पायन उवाच एवं मत्स्यस्य नगरे प्रच्छन्नाः कुरुनन्दनाः। आराधयन्तो राजानं यदकुर्वत तच्छृणु॥ तृणबिन्दुप्रसादाच्च धर्मस्य च महात्मनः। अज्ञातवासमेवं तु विराटनगरेऽवसन्॥ युधिष्ठिरः सभास्तारो मत्स्यानामभवत् प्रियः। तथैव च विराटस्य सपुत्रस्य विशाम्पते॥ स ह्यक्षहृदयज्ञस्तान् क्रीडयामास पाण्डवः। अक्षवत्यां यथाकामं सूत्रबद्धानिव द्विजान्॥ अज्ञातं च विराटस्य विजित्य वसु धर्मराट्। भ्रातृभ्यः पुरुषव्याघ्रो यथार्ह सम्प्रयच्छति॥ भीमसेनोऽपि मांसानि भक्ष्याणि विविधानि च। अतिसृष्टानि मत्स्येन विक्रीणीते युधिष्ठिरे॥ वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः। विक्रीणानस्च सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति॥ सहदेवोऽपि गोपानां वेषमास्थाय पाण्डवः। दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति॥ नकुलोऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम्। तुष्टे तस्मिन् नरपतौ पाण्डवेभ्यः प्रयच्छति॥ कृष्णा तु सर्वान् भर्तृस्तान् निरीक्षन्ती तपस्विनी। यथा पुनरविज्ञाता तथा चरति भामिनी॥ एवं सम्पादयन्तस्ते तदान्योन्यं महारथाः। विराटनगरे चेरुः पुनर्गर्भधृता इव॥ साशङ्का धार्तराष्ट्रस्य भयात् पाण्डुसुतास्तदा। प्रेक्षमाणास्तदा कृष्णामूषुश्छन्ना नराधिप॥ अथ मासे चतुर्थे तु ब्रह्मणः सुमहोत्सवः। आसीत् समृद्धो मत्स्येषु पुरुषाणां सुसम्मतः॥ तत्र मल्लाः समापेतुर्दिग्भ्यो राजन् सहस्रशः। समाजे ब्रह्मणो राजन् यथा पशुपतेरिव॥ महाकाया महावीर्याः कालखजा इवासुराः। वीर्योन्मत्ता बलोदग्रा राज्ञा समभिपूजिताः॥ सिंहस्कन्धकटिग्रीवाः स्वावदाता मनस्विनः। असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसंनिधौ॥ तेषामेको महानासीत् सर्वमल्लानथाह्वयत्। आवल्गमानं तं रङ्गे नोपतिष्ठति कश्चन॥ यदा सर्वे विमनसस्ते मल्ला हतचेतसः। अथ सूदेन तं मल्लं योधयामास मत्स्यराट्।॥ नोद्यमानस्तदा भीमो दुःखेनैवाकरोन्मतिम्। न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम्॥ ततः स पुरुषव्याघ्रः शार्दूलशिथिलश्चरन्। प्रविवेश महारङ्गं विराटमभिपूजयन्॥ बबन्ध कक्षां कौन्तेयस्ततः संहर्षयञ्जनम्। ततस्तु वृत्रसंकाशं भीमो मल्लं समाह्वयत्॥ जीमूतं नाम तं तत्र मल्लं प्रख्यातविक्रमम्। तावुभौ सुमहोत्साहावुभौ भीमपराक्रमौ॥ मत्ताविव महाकायौ वारणौ षष्टिहायनौ। ततस्तौ नरशार्दूलो बाहुयुद्धं समीयतुः॥ वीरौ परमसंहृष्टावन्योन्यजयकाक्षिणौ। आसीत् सुभीमः सम्पातो वज्रपर्वतयोरिव॥ उभौ परमसंहृष्टौ बलेनातिबलावुभौ। अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ॥ उभौ परमसंहष्टौ मत्ताविव महागजौ। कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसरूटैः। संनिपातावधूतैश्च प्रमौथोन्मथनैस्तथा॥ क्षेपणैर्मुष्टिभिश्चैव वराहोद्भूतनि:स्वनैः। तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च॥ शलाकानसखपातैश्च पादोद्भूतैश्च दारुणैः। जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघदनैः॥ तद् युद्धमभवद् घोरमशस्त्रं बाहुतेजसा। बलप्राणेन शूराणां समाजोत्सवसंनिधौ॥ अरज्यत जन: सर्वः सोत्क्रुष्टनिनदोत्थितः। बलिनोः संयुगे राजन् वृत्रवासवयोरिव॥ प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः। आकर्षतुरधान्योन्यं जानुभिश्चापि जघतुः॥ महता भर्त्सयन्तौ परस्परम्। व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ। बाहुभिः समसज्जेतामायसैः परिधैरिव॥ चकर्ष दोर्ध्यामुत्पात्य भीमो मल्लममित्रहा। निनदन्तमभिक्रोशन् शार्दूल इव वारणम्॥ ततः शब्देन समुद्यम्य महाबाहूर्धामयामास वीर्यवान्। ततो मल्लाच मत्स्याश्चं विस्मयं चक्रिरे परम्॥ भ्रामयित्वा शतगुणं गतसत्त्वमचेतनम्। प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः॥ तस्मिन् विनिहते वीरे जीमूते लोकविश्रूते। विराटः परमं हर्षमगच्छद् बान्धवैः सह॥ प्रहर्षात् प्रददौ वित्तं बहु राजा महामनाः। बल्लवाय महारङ्गे यथा वैश्रवणस्तथा॥ एवं स सुबहून् मल्लान् पुरुषांश्च महाबलान्। विनिघ्नन् मत्स्यराजस्य प्रीतिमाहरदुत्तमाम्॥ यदास्य तुल्यः पुरुषो न कश्चित् तत्र विद्यते। ततो व्याप्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत्॥ पुनरन्तःपुरगतः स्त्राणां मध्ये वृकोदरः। योध्यते स विराटेन सिंहैर्मत्तैर्महाबलैः॥ बीभत्सुरपि गीतेन स्वनृत्येन च पाण्डवः। विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः॥ अश्वैर्विनीतैर्जवनस्तत्र तत्र समागतः। तोषयामास राजानं नकुलो नृपसत्तमम्॥ तस्मै प्रदेयं प्रायच्छत् प्रीतो राजा धनं बहु। विनीतान् वृषभान् दृष्ट्वा सहदेवस्य चाभितः। धनं ददौ बहुविधं विराटः पुरुषर्षभः॥ द्रौपदी प्रेक्ष्य तान् सर्वान् क्लिश्यमानान् महारथान्। नातिप्रीतमना राजन् निःश्वासपरमाभवत्॥ एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः। कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा॥ जनमेजय उवाच कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः। अमनुष्यो मनुष्याणां भवता ब्रह्मवादिना॥ नामधेयानि चाप्येषां कथ्यमानानि भागशः। त्वत्तः श्रुतानि मे ब्रह्मन् पाण्डवानां च कीर्तय॥ ते हि सर्वे महात्मानो देवराजपराक्रमाः। त्वथैवांशावतरणे देवभागाः प्रकीर्तिताः॥ एतदिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम्। तेषामाजननं सर्वं वैशम्पायन कीर्तय॥ वैशम्पायन उवाच राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते। चरन् मैथुनधर्मस्थं ददर्श मृगयूथपम्॥ ततस्तां च मृगीं तं च रुक्मपुडखैः सुपत्रिभिः। निर्विभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः॥ स च राजन् महातेजा ऋषिपुत्रस्तपोधनः। भार्यया सह तेजस्वी मृगरूपेण संगतः॥ संसक्तश्च तया मृग्या मानुषीमीरयन् गिरम्। क्षणेन पतितो भूमौ विललापाकुलेन्द्रयः॥ मृग उवाच काममन्युपरीता हि बुद्ध्या विरहिता अपि। वर्जयन्ति नृशंसानि पापेष्वपि रता नराः॥ न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः। विधिपर्यागतानान् प्राज्ञो न प्रतिपद्यते॥ शश्वद्धर्मात्मना मुख्ये कुले जातस्य भारत। कामलोभाभिभूतस्य कथं ते चलिता मतिः॥ पाण्डुरुवाच शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता। राज्ञां मृग न मां मोहात् त्वं गर्हयितुमर्हसि॥ अच्छद्मना मायया च मृगाणां वध इष्यते। स एव धर्मो राज्ञां तु तद्धि त्वं किं नु गर्हसे॥ अगस्त्यः सत्रमासीनश्चकार मृगयामृषिः। आरण्यान् सर्वदेवेभ्यो मृगान् प्रेषन् महावने॥ प्रमाणदृष्टधर्मेण कथमस्मान् विगर्हसे। अगस्त्यस्याभिचारेण युष्माकं विहितो वधः॥ मृग उवाच न रिपून् वै समुद्दिश्य विमुञ्चन्ति नराः शरान्। रन्ध्र एषां विशेषेण वधः काले प्रशस्यते॥ पाण्डुरुवाच प्रमत्तमप्रमत्तं वा विवृतं जन्ति चौजसा। उपायैर्विविधैस्तीक्ष्णैः : कस्मान्मृग विगर्हसे॥ मृग उवाच नाहं जन्तं मृगान् राजन् विगर्हे चात्मकारणात्। मैथुनं तु प्रतीक्ष्यं मे त्वयेहाद्यानृशंस्यतः॥ सर्वभूतहिते काले सर्वभूतेप्सिते तथा। को हि विद्वान् मृगं हन्याच्चरन्तं मैथुनं वने॥ अस्यां मृग्यां च राजेन्द्र हर्षान्मैथुनमाचरम्। पुरुषार्थफलं कर्तुं तत् त्वया विफलीकृतम्॥ पौरवाणां महाराज तेषामक्लिष्टकर्मणाम्। वंशे जातस्य कौरव्य नानुरूपमिदं तव॥ नृशंसं कर्म सुमहत् सर्वलोकविगर्हितम्। अस्वय॑मयशस्यं चाप्यधर्मिष्ठं च भारत॥ स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित्। नार्हस्त्वं सुरसंकाश कर्तुमस्वय॑मीदृशम्॥ त्वया नृशंसकर्तारः पापाचाराश्च मानवाः। निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः॥ किं कृतं ते नरश्रेष्ठ मामिहानागसं जता। मुनिं मूलफलाहारं मृगवेषधरं नृप॥ वसमानमरण्येषु नित्यं शमपरायणम्। त्वयाहं हिंसितो यस्मात् तस्मात् त्वामप्यहं शपे॥ द्वयोर्नृशंसकर्तारमवशं काममोहितम्। जीवितान्तकरो भाव एवमेवागमिष्यति॥ अहं कि किंदमो नाम तपसा भावितो मुनिः। व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम्॥ मृगो भूत्वा मृगैः सार्धं चरामि गहने वने। न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः॥ मृगरूपधरं हत्वा मामेवं काममोहितम्। अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि॥ प्रियया सह संवासं प्राप्य कामविमोहितः। त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि॥ अन्तकाले हि संवासं यया गन्तासि कान्तया। प्रेतराजपुरं प्राप्तं सर्वभूतदुरत्ययम्। भक्त्या मतिमतां श्रेष्ठ सैव त्वानुगमिष्यति॥ वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया। तथा त्वां च सुखं प्राप्तं दुःखमभ्यागमिष्यति॥ वैशम्पायन उवाच एवमुक्त्वा सुदुःखार्तो जीवितात् स व्यमुच्यत। मृगः पाण्डुश्च दुःखार्तः क्षणेन समपद्यत॥ वैशम्पायन उवाच ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी। पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत॥ समाश्वास्य स्नुषे ते च भीष्मं शस्त्रभृतां वरम्। धर्मं च पितृवंशं च मातृवंशं च भाविनी। प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत्॥ शान्तनोधर्मनित्यस्य कौरव्यस्य यशस्विनः। त्वयि पिण्डश्च कीर्तिश्च संतानं च प्रतिष्ठितम्॥ यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम्। यथा चायुर्बुवं सत्ये त्वयि धर्मस्तथा ध्रुवः॥ वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च। विविधास्त्वं श्रुतीर्वेत्थ वेदाङ्गानि च सर्वशः॥ व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये। प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव॥ तस्मात् सुभृशमाश्वस्य त्वयि धर्मभृतां वर। कार्ये त्वां विनियोक्ष्यामि तच्छुत्वा कर्तुमर्हसि॥ मम पुत्रस्तव भ्राता वीर्यवान् सुप्रियश्च ते। बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ॥ इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे। रूपयौवनसम्पन्ने पुत्रकामे च भारत॥ तयोरुत्पादयापत्यं संतानाय कुलस्य नः। मन्नियोगान्महाबाहो धर्मं कर्तुमिहार्हसि॥ राज्ये चैवाभिषिच्यस्व भारताननुशाधि च। दारांश्च कुरु धर्मेण मा धर्मेण मा निमन्जी: पितामहान्॥ वैशम्पायन उवाच तथोच्यमानो मात्रा स सुहृद्धिश्च परंतपः। इत्युवाचाथ धर्मात्मा धर्म्यमेवोत्तरं वचः॥ असंशयं परो धर्मस्त्वया मातरुदाहृतः। राज्यार्थे नाभिषिञ्चयं नोपेयां जातु मैथुनम्। त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम्॥ जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे। स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः॥ परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः। यद् वाप्यधिकमेताभ्यां न तु सत्यं कथंचन॥ त्यजेच पृथिवी गन्धमापश्च रसमात्मनः। ज्योतिस्तथा त्यजेद् रूपं वायुः स्पर्शगुणं त्यजेत्॥ प्रभां समुत्सृजेदर्को धूमकेतुस्तथोप्मताम्। त्यजेच्छब्दं तथाऽऽकाशं सोमः शीतांशुतां त्यजेत्॥१७। विक्रमं वृत्रहा जह्याद् धर्मं जह्याच धर्मराट्। न त्वहं सत्यमुत्स्स्रष्टुं व्यवसेयं कथंचन॥ माता सत्यवती भीष्ममुवाच तदनन्तरम्॥ जानामि ते स्थितिं सत्ये परां सत्यपराक्रमा इच्छन् सृजेथास्त्रील्लोकानन्यांस्त्वं स्वेन तेजसा॥ जानामि चैवं सत्यं तन्मदर्थे यच्च भाषितम्। आपद्धर्मं त्वमावेक्ष्य वह पैतामही धुरम्॥ यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत्। सुहृदश्च प्रहष्येरंस्तथा कुरु परंतप॥ लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम्। धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम्॥ राज्ञि धर्मानवेक्षस्व मा नः सर्वान् व्यनीनशः। सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते॥ शान्तनोरपि संतानं यथा स्यादक्षयं भुवि। तत् ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम्॥ श्रुत्वा तं प्रतिपद्यस्व प्राज्ञैः सह पुरोहितैः। आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च॥ संजय उवाच तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मधे। अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत॥ महत्या सेनया युक्तो दुर्योधनमुपागमत्। राक्षसानां विरूपाणां सहस्रः परिवारितः॥ नानारूपधरैवीरैः पूर्ववैरमनुस्मरन्। तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः॥ किर्मीरश्च महातेजा हैडिम्बश्च सखा तदा। स दीर्घकालसध्युषितं पूर्ववैरमनुस्मरन्॥ विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे। स मत्त इव मातङ्गः संक्रुद्धः इव चोरगः॥ दुर्योधनमिदं वाक्यमब्रवीद् युद्धलालसः। विदितं ते महाराज यथा भीमेन राक्षसाः॥ हिडिम्बबककिर्मीरा निहता मम बान्धवाः। परामर्शश्च कन्याया हिडिम्बायाः कृतः पुरा॥ किमन्यद् राक्षसानन्यानस्मांश्च परिभूय ह। तमहं सगणं राजन् सवाजिरथकुञ्जरम्॥ हैडिम्बि च सहामात्यं हन्तुमभ्यागतः स्वयम्। अद्य कुन्तीसुतान् सर्वान् वासुदेवपुरोगमान्॥ हत्वा सम्भक्षयिष्यामि सर्वैरनुचरैः सह। निवारय बलं सर्वं वयं योत्स्याम पाण्डवान्॥ तस्यैतद् वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा। प्रतिगृह्याब्रवीद् वाक्यं भ्रातृभिः परिवारितः॥ त्वां पुरस्कृत्य सगर्ण वयं योत्स्यामहे परान्। न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः॥ एवमस्त्विति राजानमुक्त्वा राक्षसपुङ्गवः। अभ्ययात् त्वरितो भैमि सहितः पुरुषादकैः॥ दीप्यमानेन वपुषा रथेनादित्यवर्चसा। तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः॥ तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः। ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः॥ तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरखनाः। शतं युक्ता महाकाया मांसशोणितभोजनाः॥ तस्यापि स्थनिर्घोषो महामेघरवोपमः। तस्यापि सुमहचापं दृढज्यं कनकोजवलम्॥ तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः। सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः॥ तस्यापि गोमायुबलाभिगुप्तो बभूव केतुर्व्वलनार्कतुल्यः। स चापि रूपेण घटोत्कचस्य श्रीमत्तमो व्याकुलदीपितास्यः॥ दीप्ताङ्गदो दीप्तकिरीटमाली बद्धस्रगुष्णीषनिबद्धखङ्गः। गदी भुशुण्डी मुसली हली च शरासनी वारणतुल्यवर्णा॥ रथेन तेनानलवर्चसा तदा। विद्रावयन् पाण्डववाहिनीं ताम्। रराज संख्ये परिवर्तमानो विद्युन्माली मेघ इवान्तरिक्ष॥ ते चापि सर्वप्रवरा नरेन्द्रा महाबला वर्मिणश्चर्मिणश्चा हर्षान्विता युयुधस्तस्य राजन् समन्ततः पाण्डवयोधवीराः॥ संजय उवाच ततो दुर्योधनो राजा लोहितायति भास्करे। संग्रामरभसो भीमं हन्तुकामोऽभ्यधावत॥ तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम्। भीमसेनः सुसंक्रुद्ध इदं वचनमब्रवीत्॥ अयं स कालः सम्प्राप्तो वर्षपूगाभिवाञ्छितः। अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम्॥ अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः। द्रौपद्याश्च परिक्लेशं प्रणेष्यामि हते त्वयि॥ यत् पुरा मत्सरी भूत्वा पाण्डवानवमन्यसे। तस्य पापस्य गान्धारे पश्य व्यसनमागतम्॥ कर्णस्य मतमास्थाय सौबलस्य च यत् पुरा। अचिन्त्य पाण्डवान् कामाद् यथेष्टं कृतवानसि॥ याचमानं च यन्मोहाद् दाशार्हमवमन्यसे। उलूकस्य समादेशं यद् ददासि च हृष्टवत्॥ तेन त्वां निहनिष्यामि सानुबन्धं सबान्धवम्। समीकरिष्ये तत् पापं यत् पुरा कृतवानसि॥ एवमुक्त्वा धनुर्घोरं विकृष्योभ्राम्य चासकृत्। समाधत्त शरान् घोरान् महाशनिसमप्रभान्॥ षड्विंशतिमथ संक्रुद्धो मुमोचाशु सुयोधने। ज्वलिताग्निशिखाकारान् वज्रकल्पानजिह्मगान्॥ ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे। चतुर्भिरश्वाञ्जवनाननयद् यमसादनम्॥ द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः। छत्रं चिच्छेद समरे राज्ञस्तस्य नरोत्तम॥ षड्भिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम्। छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः॥ रथाच्च स ध्वजः श्रीमान् नानारत्नविभूषितात्। पपात सहसा भूमौ विद्युज्जलधरादिव॥ ज्वलन्तं सूर्यसंकाशं नागं मणिमयं शुभम्। ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः॥ अथैनं दशभिर्बाणैस्तोत्रैरिव महाद्विपम्। आजघान रणे वीरं स्मयन्निव महारथः॥ ततः स राजा सिन्धूना रथश्रेष्ठो महारथः। दुर्योधनस्य जग्राह पार्णि सत्पुरुषैर्वृतः॥ कृपश्च रथिनां श्रेष्ठः कौरममितौजसम्। आरोपयद् रथं राजन् दुर्योधनममर्षणम्॥ स गाढविद्धो व्यथितो भीमसेनेन संयुगे। निषसाद रथोपस्थे राजन् दुर्योधनस्तदा॥ परिवार्य ततो भीमं जेतुकामो जयद्रथः। रथैरनेकसाहौर्भीमस्यावारयद् दिशः॥ धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान्। केकया द्रौपदेयाश्च तव पुत्रानयोधयन्॥ चित्रसेनः सुचित्रश्च चित्राङ्गश्चित्रदर्शनः। चारुचित्रः सुचारच तथा नन्दोपनन्दकौः॥ अष्टावेते महेष्वासाः सुकुमारा यशस्विनः। अभिमन्युरथं राजन् समन्तात् पर्यवारयन्॥ आजघान ततस्तूर्णमभिमन्युर्महामनाः। एकैकं पञ्चभिर्वाणैः शितैः संनतपर्वभिः॥ :। वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतः। अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम्॥ ववृषुर्मागैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः। स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः॥ अभिमन्युर्महाराज तावकान् समकम्पयत्। यथा देवासुरे युद्धे वज्रपाणिर्महासुरान्॥ विकर्णस्य ततो भल्लान् प्रेषयामास भारत। चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान॥ स तैर्विकर्णस्य रथात् पातयामास वीर्यवान्। ध्वजं सूतं हयांश्चैव नृत्यमान इवाहवे॥ पुनश्चान्याशरान् पीतानकुण्ठाग्राशिलाशितान्। प्रेषयामास संक्रुद्धो विकर्णाय महाबलः॥ ते विकर्णं समासाद्य कङ्कबर्हिणवाससः। भित्तवा देहं गता भूमि ज्वलन्त इव पन्नगाः॥ ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले। विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम्॥ विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः। अभ्यद्रवन्त समरे सौभद्रप्रमुखान् रथान्॥ अभियात्वा तथैवान्यान् रथांस्तान् सूर्यवर्चसः। अविध्यन् समरेऽन्योन्यं संरम्भाद् युद्धदुर्मदाः॥ दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः। ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः॥ अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान् वातरंहसः। जघान् षड्भिरासाद्य सारथिं चाभ्यपातयत्॥ स हताश्वे रथे तिष्ठश्रुतकर्मा महारथः। शक्तिं चिक्षेप संक्रुद्धो महोल्का ज्वलितामिव॥ सा दुर्मुखस्य विमलं वर्म भित्त्वा यशस्विनः। विदार्य प्राविशद् भूमिं दीप्यमाना स्वतेजसा॥ तं दृष्ट्वा विरथं तत्र सुतसोमो महारथः। पश्यतां सर्वसैन्यानां रथमारोपयत् स्वकम्॥ श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव। अभ्ययात् समरे राजन् हन्तुकामो यशस्विनम्॥ तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महास्वनम्। चिच्छेद समरे तूर्णं जयत्सेनः सुतस्तव॥ क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत। तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम्॥ अभ्यपद्यत तेजस्वी सिंहवन्निनदन् मुहुः। शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम्॥ विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः। ननाद सुमहानादं प्रभिन्न इव वारणः॥ अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना। शतानीको जयत्सेनं विव्याध हृदये भृशम्॥ तथा तस्मिन् वर्तमाने दुष्कर्णो भ्रातुरन्तिके। चिच्छेद समरे चापं नाकुलेः क्रोधमूर्च्छितः॥ अथान्यद् धनुरादाय भारसाहमनुत्तमम्। समादत्त शरान् घोराज्शतानीको महाबलः॥ तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः। मुमोचास्मै शितान् बाणाज्वलितान् पन्नगानिव॥ ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष। चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः॥ अश्वान् मनोजवांस्तस्य कर्बुरान् वातरंहसः। जघान निशितैस्तूर्णं सर्वान् द्वादशभिः शरैः॥ अथापरेण भल्लेन सुयुक्तेनाशुपातिना। दुष्कर्णं सुदृढं क्रुद्धो विव्याध हृदये भृशम्॥ स पपात ततो भूमो वज्राहत इव द्रुमः। दुष्कर्णं व्यथितं दृष्ट्वा पञ्च राजन् महारथाः॥ जिघांसन्तः शतानीकं सर्वतः पर्यवारयन्। छाद्यमानं शरव्रातैः शतानीकं यशस्विनम्॥ अभ्यधावन्त संक्रुद्धाः केकयाः पञ्च सोदराः। तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः॥ प्रत्युद्ययुर्महाराज गजानिव महागजाः। दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा॥ शत्रुजयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः। प्रत्युद्याता महाराज केकयान् भ्रातरः समम्॥ रथैर्नगरसंकाशैर्हयैर्युक्तैर्मनोजवैः। नानावर्णविचित्राभिः पताकाभिरलंकृतैः॥ वरचापधरा वीरा विचित्रकवचध्वजाः। विविशुस्ते परं सैन्यं सिंहा इव वनाद् वनम्॥ तेषां सुतमुलं युद्धं व्यतिषक्तरथद्विपम्। अवर्तत महारौद्रं निघ्नतामितरेतरम्॥ अन्योन्यागस्कृतां राजन् यमराष्ट्रविवर्धनम्। मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम्॥ रथिनः सादिनश्चाथ व्यकीर्यन्त सहस्रशः। ततः शान्तनवः क्रुद्धः शरैः संनतपर्वभिः॥ नाशयामास सेनां तां भीष्मस्तेषां महात्मनाम्। पञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम्॥ एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम्। कृत्वाऽवहारं सैन्यानां ययौ स्वशिबिरं नृप॥ धर्मराजोऽपि सम्प्रेक्ष्य धृष्टद्युम्नवृकोदरौ। मूर्ध्नि चैतावुपाघ्राय प्रहृष्टः शिबिरं ययौ॥ वैशम्पायन उवाच एतत् पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम्। जये निराशः पुत्राणां धृतराष्ट्रोऽपतत् क्षितौ॥ तं विसंज्ञं निपतितं सिषिचुः परिचारिकाः। जलेनात्यर्थशीतेन वीजन्त्यः पुण्यगन्धिना॥ पतितं चैनमालोक्य समन्ताद् भरतस्त्रियः। परिवर्महारुजमस्पृशंश्चैव पाणिभिः॥ उत्थाप्य चैनं शनकै राजानं पृथिवीतलात्। आसनं प्रापयामासुर्वाष्पकण्ठ्यो वराननाः॥ आसनं प्राप्य राजा तु मूर्छयाभिपरिप्लुतः। निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः॥ स लब्वा शनकैः संज्ञां वेपमानो महीपतिः। पुनर्गावल्गणिं सूतं पर्यपृच्छद् यथातथम्॥ धृतराष्ट्र उवाच यः स उद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः। अजातशत्रुमायान्तं कस्तं द्रोणादवारयत्॥ प्रभिन्नमिव मातङ्गं यथा क्रुद्धं तरस्विनम्। प्रसन्नवदनं दृष्ट्वा प्रतिद्विरदगामिनम्॥ वासितासंगमे यद्वदजय्यं प्रति यूथपैः। निजधान रणे वीरान् वीरः पुरुषसत्तमः॥ यो होको हि महावीर्यो निर्दहेद् घोरचक्षुषा। कृत्त्रं दुर्योधनबलं धृतिमान् सत्यसंगरः॥ चक्षुर्हणं जये सक्त मिष्वासधरमच्युतम्। दान्तं बहुमतं लोके के शूराः पर्यवारयन्॥ के दुष्प्रधर्षे राजानमिष्वासधरमच्युतम्। समासेदुनरव्याघ्रं कौन्तेयं तत्र मामकाः॥ तरसैवाभिपद्याथ यो वै द्रोणमुपाद्रवत्। यः करोति महत् कर्म शत्रूणां वै महाबलः॥ महाकायो महोत्साहो नागायुतसमो बले। तं भीमसेनमायान्तं के शूराः पर्यवारयन्॥ यदाऽऽयाज्जलदप्रख्यो रथः परमवीर्यवान्। पर्जन्य इव वीभत्सुस्तुमुलामशनीं सृजन्॥ विसृजञ्छरजालानि वर्षाणि मघवानिव। अवस्फूर्जन् दिशः सर्वास्तलनेमिस्वनेन च॥ चापविद्युत्प्रभो घोरो रथगुल्मवलाहकः। स नेमिघोषस्तनितः शरशब्दातिबनधुरः॥ रोषानिलसमुद्भूतो मनोऽभिप्रायशीघ्रगः। मर्मातिगो वाणधरस्तुमुलः शोणितोदकैः॥ सम्लावयन् दिशः सर्वा मानवैरास्तरन् महीम्। भीमनि: स्वनितो रौद्रो दुर्योधनपुरोगमान्॥ युद्धेऽभ्यषिञ्चद् विजयो गापत्रैः शिलाशितैः। गाण्डीवं धारयन् धीमान् कीदृशं वो मनस्तदा।॥ इघुसम्बाधमाकाशं कुर्वन् कपिवरध्वजः। यदाऽऽयात् कथमासीत् तु तदा पार्थं समीक्षताम्॥ कच्चिद् गाण्डीवशब्देन न प्रणश्यति वैबलम्। यद्वः सभैरवं कुर्वन्नर्जुनो भृशमन्वयात्॥ कच्चिन्नापानुदत् प्राणानिषुभिवों धनंजयः। वातो वेगादिवाविध्यन्मेधाशरगणैर्नृपान्॥ को हि गाण्डीवधन्वानं रणे सोढुं नरोऽर्हति। यमुपश्रुत्य सेनाग्रे जन: सर्वो विदीर्यते॥ यत्सेनाः समकम्पन्त यद्वीरानस्पृशद् भयम्। के तत्र नाजहुर्दोणं के क्षुद्राः प्राद्रवन् भयात्॥ के वा तत्र तनूंस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन्। अमानुषाणां जेतारं युद्धेष्वपि धनंजयम्॥ न च वेगं सिताश्वस्य विसहिष्यन्ति मामकाः। गाण्डीवस्य च निर्घोषं प्रावृड्जलदनि:स्वनम्॥ विष्वक्सेनो यस्य यन्ता यस्य योद्धा धनंजयः। अशक्यः स रथो जेतुं मन्ये देवासुरैरपि॥ सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः। मेधावी निपुणो धीमान् युधि सत्यपराक्रमः॥ आरावं विपुलं कुर्वन् व्यथयन् सर्वसैनिकान्। यदाऽऽयान्नकुलो द्रोणं के शूराः पर्यवारयन्॥ आशीविष इव क्रुद्धः सहदेवो यदाभ्ययात्। कदनं करिष्यञ्छत्रूणां तेजसा दुर्जयो युधि॥ आर्यव्रतममोधेषु द्वीमन्तमपराजितम्। सहदेवं तमायान्तं के शूराः पर्यवारयन्॥ यस्तु सौवीरराजस्य प्रमथ्य महतीं चमूम्। आदत्त महिषीं भोजां काम्यां सर्वाङ्गशोभनाम्॥ सत्यं धृतिश्च शौर्ये च ब्रह्मचर्ये च केवलम्। सर्वाणि युयुधानेऽस्मिन् नित्यानि पुरुषर्षभे॥ बलिनं सत्यकर्माणमदीनमपराजितम्। वासुदेवसमं युद्धे वासुदेवादनन्तरम्॥ धनंजयोपदेशेन श्रेष्ठमिष्वस्त्रकर्मणि। पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत्॥ वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम्। रामेण सममस्त्रेषु यशसा विक्रमेण च॥ सत्यं धृतिर्मतिः शौर्यं ब्राह्मं चास्त्रमनुत्तमम्। सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे॥ तमेवंगुणसम्पन्नं दुर्धारमपि दैवतैः। समासाद्य महेष्वासं के शूराः पर्यवारयन्॥ पञ्चालेषूत्तमं वीरमुत्तमाभिजनप्रियम्। नित्यमुत्तमकर्माणमुत्तमौजसमाहवे॥ युक्तं धनंजयहिते ममानार्थमुत्थितम्। यमवैश्रवणादित्यमहेन्द्रवरुणोपमम्॥ महारथं समाख्यातं द्रोणायोद्यतमाहवे। त्यजन्तं तुमुले प्राणान् के शूराः समवारयन्॥ एकोऽपसृत्य चेदिभ्यः पाण्डवान् य: समाश्रितः। धृष्टकेतुं समायान्तं द्रोणं कस्तं न्यवारयत्॥ योऽवधीत् केतुमान् वीरो राजपुत्रं दुरासदम्। अपरान्तगिरिद्वारे द्रोणात् कस्तं न्यवारयत्॥ स्त्रीपुंसयोर्नरव्याघ्रो यः स वेद गुणागुणान्। शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि॥ देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः। द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन्॥ यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनंजयात्। यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्ये च सर्वदा॥ वासुदेवसमं वीर्ये धनंजयसमं बले। तेजसाऽऽदित्यसदृशं बृहस्पतिसमं मतौ॥ अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम्। द्रोणायाभिमुखं यान्तं के शूराः समवारयन्॥ तरुणस्तरुणप्रज्ञः सौभद्रः परवीरहा। यदाभ्यधावद्वै द्रोणं तदाऽऽसीद् वो मनः कथम्॥ द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः। यद् द्रोणमाद्रवन् संख्ये के शूरास्तान् न्यवारयन्॥५१ एते द्वादश वर्षाणि क्रीडामुत्सृज्य बालकाः। अस्त्रार्थमवसन् भीष्मे विभ्रतो व्रतमुत्तमम्॥ क्षत्रंजयः क्षत्रदेवः क्षत्रवर्मा च मानदः। धृष्टद्युम्नात्मजा वीराः के तान् द्रोणादवारयन्॥ शताद् विशिष्टं यं युद्धे सममन्यन्त वृष्णयः। चेकितानं महेष्वासं कस्तं द्रोणादवारयत्॥ वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद् युधि। अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत्॥ वीराः भ्रातरः पञ्च कैकेया धार्मिका: सत्यविक्रमाः। इन्द्रगोपकसंकाशा रक्तवर्मायुधध्वजाः॥ मातृष्वसुः सुता पाण्डवानां जयार्थिनः। तान् द्रोणं हन्तुमायातान् के वीराः पर्यवारयन्॥ यं योधयन्तो राजानो नाजयन् वारणावते। षण्मासानपि संरब्धा जिघांसन्तो युधाम्पतिम्॥ धनुष्मतां वरं शूरं सत्यसंघ महाबलम्। द्रोणात् कस्तं नरव्याघ्रं युयुत्सुं पर्यवारयत्॥ यः पुत्रं काशिराजस्य वाराणस्यां महारथम्। समरे स्त्रीषु गृध्यन्तं भल्लेनापाहरद्रथात्॥ धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम्। युक्तं दुर्योधनानथें सृष्टं द्रोणवधाय च॥ निर्दहन्तं रणे योधान् दारयन्तं च सर्वतः। द्रोणाभिमुखमायान्तं के शूराः पर्यवारयन्॥ उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम्। शैखण्डिनं शस्त्रगुप्तं के च द्रोणादवारयन्॥ य इमां पृथिवीं कृत्स्नां चर्मवत् समवेष्टयत्। महता रथघोषेण मुख्यारिनो महारथः॥ दशाश्वमेधानाजहे स्वन्नपानाप्तदक्षिणान्। निरर्गलान् सर्वमेधान् पुत्रवत् पालयन् प्रजाः॥ गङ्गस्रोतसि यावन्यः सिकता अप्यशेषतः। तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे॥ न पूर्वे नापरे चकुरिदं केचन मानवाः। इतीदं चुकुशुर्देवाः कृते कर्मणि दुष्करे॥ पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु। जातं चापि जनिष्यन्तं द्वितीयं चापि साम्प्रतम्॥ अन्यमौशीनराच्छैव्याद् धुरो वोढारमित्युत। गतिं यस्य न यास्यन्ति मानुषा लोकवासिन.॥ तस्य सप्तारमायान्तं शैब्यं कः समवारयत्। द्रोणायाभिमुखं यत्तं व्यात्ताननमिवान्तकम्॥ विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः। प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन्॥ सद्यो वृकोदराज्जातो महाबलपराक्रमः। मायावी राक्षसो वीरो यस्मान्मम महद् भयम्॥ पार्थानां जयकामं तं पुत्राणां मम कण्टकम्। घटोत्कचं महात्मानं कस्तं द्रोणादवारयत्॥ एते चान्ये च बहवो येषामर्थाय संजय। त्यक्तारः संयुगे प्राणान् किं तेषामजितं युधि॥ येषां च पुरुषव्याघ्रः शाईधन्वा व्यपाश्रयः। हितार्थी चापि पार्थानां कथं तेषां पराजयः॥ लोकानां गुरुरत्यर्थं लोकनाथः सनातनः। नारायणो रणे नाथोदिव्यो दिव्यात्मकः प्रभुः॥ यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः। तान्यहं कीर्तयिष्यामिभक्त्या स्थैर्यार्थमात्मनः॥ भीष्म उवाच यमस्तु यानि श्राद्धानि प्रोवाच शशविन्दवे। तानि मे शृणु काम्यानि नक्षत्रेषु पृथक् पृथक्॥ श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः। अग्नीनाधाय सापत्यो यजेत विगतज्वरः॥ अपत्यकामो रोहिण्यां तेजस्कामो मृगोत्तमे। क्रूरकर्मा ददच्छ्राद्धमार्द्रायां मानवो भवेत्॥ धनकामो भवेन्मर्त्यः कुर्वञ्छ्राद्धं पुनर्वसौ। पुष्टिकामोऽथ पुष्येण श्राद्धमीहेत मानवः॥ आश्लेषायां ददच्छ्राद्धं धीरान् पुत्रान् प्रजायते। ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धमावपन्॥ फल्गुनीषु ददच्छ्राद्धं सुभगः श्राद्धदो भवेत्। अपत्यभागुत्तरासु हस्तेन फलभाग् भवेत्॥ चित्रायां तु ददच्छ्राद्धं लभेद् रूपवतः सुतान्। स्वातियोगे पितॄनर्च्य वाणिज्यमुपजीवति॥ बहुपुत्रो विशाखासु पुत्रमीहन् भवेन्नरः। अनुराधासु कुर्वाणो राजचक्र प्रवर्तयेत्॥ आधिपत्यं व्रजेन्मयो ज्येष्ठायामपवर्जयन्। नरः कुरुकुलश्रेष्ठ ऋद्धो दमपुरःसरः॥ मूले त्वारोग्यमृच्छेत यशोऽऽषाढासु चोत्तमम्। उत्तरासु त्वषाढासु वीतशोककश्चरेन्महीम्॥ श्राद्धं त्वभिजिता कुर्वन् भिषक्सिद्धिमवाप्नुयात्। श्रवणेषु ददच्छ्राद्धं प्रेत्य गच्छेत् स सद्गतिम्॥ राज्यभागी धनिष्ठायां भवेत नियतं नरः। नक्षत्रे वारुणे कुर्वन् भिषक्सिद्धिमवाप्नुयात्॥ पूर्वप्रोष्ठपदाः कुर्वन् बहून् विन्दत्यजाविकान्। उत्तरासु प्रकुर्वाणो विन्दते गाः सहस्रशः॥ बहुकुप्यकृतं वित्तं विन्दते रेवतीं श्रितः। अश्विनीष्वश्वान् विन्देत भरणीष्वायुरुत्तमम्॥ इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस्तथाकरोत्। अक्लेशेनाजयच्चापि मही सोऽनुशशास ह॥ याज्ञवल्क्य उवाच अव्यक्तस्थं परं यत् तत् पृष्टस्तेऽहं नराधिप। परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप॥ यथाऽऽर्षेणेह विधिना चरतावनतेन ह। मयाऽऽदित्यादवाप्तानि यजूंषि मिथिलाधिप॥ महता तपसा देवस्तपिष्णुः सेवितो मया। प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ॥ वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम्। तत् ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः॥ ततः प्रणम्य शिरसा मयोक्तस्तपतां वरः। यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम्॥ ततो मां भगवानाह वितरिष्यामि ते द्विज। सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति॥ ततो मामाह भगवानास्यं स्वं विवृतं कुरु। विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती॥ ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदानघ। अविज्ञानादमर्षाच्च भास्करस्य महात्मनः॥ ततो विदह्यमानं मामुवाच भगवान् रविः। मुहूर्तं सह्यतां दाहस्तत: शीतीभविष्यति॥ शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः। प्रतिष्ठास्यति ते वेदः सखिलः सोत्तरो द्विज॥ कृसनं शतपथं चैव प्रणेष्यसि द्विजर्षभ। तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति॥ प्राप्स्यसे च यदिष्टं तत् सांख्ययोगेप्सितं पदम्। एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत॥ ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ। गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम्॥ ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता। ओङ्कारमादितः कृत्वा मम देवी सरस्वती॥ ततोऽहमयं विधिवत् सरस्वत्यै न्यवेदयम्। तपतां च वरिष्ठाय निषण्णस्तत्परायणः॥ ततः शतपथं कृत्स्नं सरहस्यं ससंग्रहम्। चक्रे सपरिशेषं च हर्षेण परमेण ह॥ कृत्वा चाध्ययन तेषां शिष्याणां शतमुत्तमम्। विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः॥ ततः सशिष्येण मया सूर्येणेव गभस्तिभिः। व्यस्तो यज्ञो महाराज पितुस्तव महात्मनः॥ मिषतो देवलस्यापि ततोऽर्धं हृतवानहम्। स्ववेददक्षिणायार्थे विमर्दे मातुलेन ह॥ सुमन्तुनाथ पैलेन तथा जैमिनिना च वै। पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः॥ दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयानध। तथैव रोमहर्षेण पुराणमवधारितम्॥ बीजमेतत् पुरस्कृत्य देवीं चैव सरस्वतीम्। सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप॥ कर्तुं शतपथं चेदमपूर्वं च कृतं मया। यथाभिलषितं मार्ग तथा तच्चोपपादितम्॥ शिष्याणामखिलं कृत्स्नमनुज्ञातं ससंग्रहम्। सर्वे च शिष्याः शुचयो गताः परमहर्षिताः॥ शाखाः पञ्चदशेमास्तु विद्या भास्करदेशिताः। प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम्॥ किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम्। चिन्तयं स्तत्र चागत्य गन्धर्वो मामपृच्छत॥ विश्वावसुस्ततो राजन् वेदान्तज्ञानकोविदः। चतुर्विंशास्ततोऽपृच्छत् प्रश्नान् वेदस्य पार्थिव॥ पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकी तदा। विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणमेव च॥ ज्ञानं ज्ञेयं तथा ज्ञोऽज्ञः कस्तपा अतपास्तथा। सूर्यातिसूर्य इति च विद्याविद्ये तथैव च॥ वेद्यावेद्यं तथा राजन्नचलं चलमेव च। अपूर्वमक्षयं क्षय्यमेतत् प्रश्नमनुत्तमम्॥ अथोक्तश्च महाराज राजा गन्धर्वसत्तमः। पृष्टवाननुपूर्वेण प्रश्नमर्थविदुत्तमम्॥ मुहूर्तमुष्यतां तावद् यावदेवं विचिन्तये। बाढमित्येव कृत्वा च तूष्णीं गन्धर्व आस्थितः॥ ततोऽनुचिन्तयमहं भूयो देवी सरस्वतीम्। मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धतम्॥ तत्रोपनिषदं चैव परिशेषं च पार्थिव। मध्नामि मनसा तात दृष्ट्वा चान्वीक्षिकी पराम्॥ चतुर्थी राजशार्दूल विद्यैषा साम्परायिकी। उदीरिता मया तुभ्यं पञ्चविंशादधिष्ठिता।॥ अथोक्तस्तु मया राजन् राजा विश्वावसुस्तदा। श्रूयतां यद् भवानस्मान् प्रश्न सम्पृष्टवानिह॥ विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि। विश्वाव्यक्तं परं विद्याद् भूतभव्यभयंकरम्॥ त्रिगुणं गुणकर्तृत्वादविश्वो निष्कलस्तथा। अश्वश्चाश्वा च मिथुनमेवमेवानुदृश्यते॥ अव्यक्तं प्रकृति प्राहुः पुरुषेति च निर्गुणम्। तथैव मित्रं पुरुषं वरुणं प्रकृति तथा॥ ज्ञानं तु प्रकृति प्राहुर्तेयं निष्कलमेव च। अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते॥ कस्तपा अतपाः प्रोक्तः कोऽसौ पुरुष उच्यते। तपास्तु प्रकृति प्राहुरतपा निष्कलः स्मृतः॥ तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते। चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु॥ चलां तु प्रकृति प्राहुः कारणं क्षयसर्गयोः। आक्षेपसर्गयोः कर्ता निश्चलः पुरुषः स्मृतः॥ तथैव वेद्यमव्यक्तमवेद्यः पुरुषस्तथा। अज्ञावुभौ ध्रुवौ चैव अक्षयौ चाप्युभावपि॥ अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः॥ अक्षयत्वात् प्रजनने अजमत्राहुरव्ययम्। अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य च विद्यते॥ गुणक्षयत्वात् प्रकृतिः कर्तृत्वादक्षयं बुधाः। एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी साम्परायिकी॥ विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि। एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः॥ जायन्ते च प्रियन्ते च यस्मिन्नेते यतश्च्युताः। वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम॥ साङ्गोपाङ्गानपि यदि यश्च वेदानधीयते। वेदवेद्यं न जानीते वेदभारवहो हि सः॥ यो घृतार्थी खरीक्षीरं मथेद् गन्धर्वसत्तम। विष्ठां तत्रानुपश्येत न मण्डं न च वै घृतम्॥ तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति। स केवलं मूढमतिर्ज्ञानभारवहः स्मृतः॥ द्रष्टव्यौ नित्यमेवैतो तत्परेणान्तरात्मना। तथास्य जन्मनिधने न भवेतां पुनः पुनः॥ अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम्। परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः॥ यदानुपश्यतेऽत्यन्तमहन्यहनि काश्यप। तदा स केवलीभूतः षड्विंशमनुपश्यति॥ अन्यश्च शाश्वतोऽव्यक्तस्तथान्यः पञ्चविंशकः। तस्य द्वावनुपश्येतां तमेकमिति साधवः॥ ते नैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम्। जन्ममृत्युभयाद् योगाः सांख्याश्च परमैषिणः॥ विश्वावसुरुवाच पञ्चविशं यदेतत् ते प्रोक्तं ब्राह्मणसत्तम। तथा तन्न तथा चेति तद् भवान् वक्तुमर्हति॥ जैगीषव्यस्यासितस्य देवलस्य मया श्रुतम्। पराशरस्य विप्रर्वार्षगण्यस्य धीमतः॥ भृगोः पञ्चशिखस्यास्य कपिलस्य शुकस्य च। गौतमस्यार्टिषेणस्य गर्गस्य च महात्मनः॥ नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः। सनत्कुमारस्य ततः शुक्रस्य च महात्मनः॥ कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम्। तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः॥ दैवतेभ्यः पितृभ्यश्च दैतेयेभ्यस्ततस्ततः। प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत॥ तस्मात् तद् वै भवबुद्ध्या श्रोतुमिच्छामि ब्राह्मण। भवान् प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान्॥ न तवाविदितं किंचिद् भवाञ्चतिनिधिः स्मृतः। कथ्यते देवलोके च पितृलोके च ब्राह्मण॥ ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः। पतिश्च तपतां शश्वदादित्यस्तव भाषिता॥ सांख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च। तथैव योगशास्त्रं च याज्ञवल्क्य विशेषतः॥ निःसंदिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम्। श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा॥ याज्ञवल्क्य उवाच कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम। जिज्ञाससे च मां राजंस्तन्निबोध यथाश्रुतम्॥ अबुध्यमानां प्रकृति बुध्यते पञ्चविंशकः। न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम्॥ अनेन प्रतिबोधेन प्रधानं प्रवदन्ति तत् सांख्ययोगाश्च तत्त्वज्ञा यथाश्रुतिनिदर्शनात्॥ पश्यंस्तथैव चापश्यन् पश्यत्यन्य: सदानघ। षड्विंशं पञ्चविंशं च चतुर्विंशं च पश्यति॥ न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति। पञ्चविंशोऽभिमन्येत नान्योऽस्ति परतो मम॥ न चतुर्विंशको ग्राह्यो मनुजैर्ज्ञानदर्शिभिः। मत्स्यश्चोदकमन्वेति प्रवर्तेत प्रवर्तनात्॥ यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते। स स्नेहात् सहवासाच्च साभिमानाच्च नित्यशः॥ स निमज्जति कालस्य यदैकत्वं न बुध्यते। उन्मज्जति हि कालस्य समत्वेनाभिसंवृतः॥ यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः। तदा स केवलीभूतः षड्विंशमनुपश्यति॥ अन्यश्च राजन्नवरस्तथान्यः पञ्चविंशकः। तत्स्थानाच्चानुपश्यन्ति एक एवेति साधवः॥ ते नैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम्। जन्ममृत्युभयाद् भीता योगाः सांख्याश्च काश्यप।॥ षड्विंशमनुपश्यन्तः शुचयस्तत्परायणाः। यदा स केवलीभूतः षड्विंशमनुपश्यति। तदा स सर्वविद् विद्वान् न पुनर्जन्म विन्दति॥ एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ। बुद्धश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात्॥ पश्यापश्यं यो न पश्येत् क्षेम्यं तत्त्वं च काश्यप। केवलाकेवलं चाद्यं पञ्चविशं परं च यत्॥ विश्वावसुरुवाच तथ्यं शुभं चैतदुक्तं त्वया विभो सम्यक् क्षेम्यं दैवताद्यं यथावत्। स्वस्त्यक्षयं भवतश्चास्तु नित्यं बुद्ध्या सदा बुद्धियुक्तं मनस्ते॥ याज्ञवल्क्य उवाच एवमुक्त्वा सम्प्रयातो दिवं स विभ्राजन् वै श्रीमता दर्शनेन। दृष्टश्च तुष्ट्या परयाभिनन्द्य प्रदक्षिणं मम कृत्वा महात्मा॥ ये ब्रह्मादीनां खेचराणां क्षितौ च चाधस्तात् संवसन्ते नरेन्द्र। तत्रैव तदर्शनं दर्शयन् वै सम्यक् क्षेम्यं ये पथं संश्रिता वै॥ सांख्याः सर्वे सांख्यधर्मे रताश्च तद्वद् योगा योगधर्मे रताश्च। स्तेषामेतदर्शनं ज्ञानदृष्टम्॥ ज्ञानान्मोक्षो जायते राजसिंह नास्त्यज्ञानादेवमाहुर्नरेन्द्र। तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं येनात्मानं मोक्षयेज्जन्ममृत्योः॥ प्राप्य ज्ञानं ब्राह्मणात् क्षत्रियाद् वा वैश्याच्छूद्रादपि नीचादनीक्ष्णम्। श्रद्धातव्यं श्रद्दधानेन नित्यं न श्रद्धिनं जन्ममृत्यू विशेताम्॥ सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च सर्वे नित्यं व्याहरन्ते च ब्रह्मा तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि सर्वं विश्वं ब्रह्म चैतत् समस्तम्॥ ब्रह्मास्यतो ब्राह्मणाः सम्प्रसूता बाहुभ्यां वै क्षत्रियाः सम्प्रसूताः। नाभ्यां वैष्याः पादतश्चापि शूद्राः। सर्वे वर्णा नान्यथा वेदितव्याः॥ अज्ञानतः कर्मयोनि भजन्ते तां तां राजंस्ते तथा यान्त्यभावम्। तथा वर्णा ज्ञानहीनाः पतन्ते घोरादज्ञानात्प्राकृतं योनिजालम्॥ तस्माज्ज्ञानं सर्वतो मार्गितव्यं सर्वत्रस्थं चैतदुक्तं मया ते। तत्स्थो स्तस्मै नित्यं मोक्षमाहुर्नरेन्द्र॥ यत् ते पृष्टं तन्मया चोपदिष्ट याथातथ्यं तद्विशोको भवस्व। राजन् गच्छस्वैतदर्थस्य पारं सम्यक् प्रोक्तं स्वस्ति ते त्वस्तु नित्यम्॥ भीष्म उवाच स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता। प्रीतिमानभवद् राजा मिथिलाधिपतिस्तदा॥ गते मुनिवरे तस्मिन् कृते चापि प्रदक्षिणम्। दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित्॥ गोकोटिं स्पर्शयामास हिरण्यं तु तथैव च। रत्नाञ्जलिमथैकं च ब्राह्मणेभ्यो ददौ तदा॥ विदेहराज्यं च तदा प्रतिष्ठाप्य सुतस्य वै। यतिधर्ममुपासंश्चाप्यवसन्मिथिलाधिपः॥ सांख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः। धर्माधर्मं च राजेन्द्र प्राकृतं परिगर्हयन्॥ अनन्त इति कृत्वा स नित्यं केवलमेव च। धर्माधर्मों पुण्यपापे सत्यासत्ये तथैव च॥ जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत्। व्यक्ताव्यक्तस्य कर्मेदमिति नित्यं नराधिप॥ पश्यन्ति योगाः सांख्याश्च स्वशास्त्रकृतलक्षणाः। इष्टानिष्टविमुक्तं हि तस्थौ ब्रह्म परात्परम्॥ नित्यं तदाहुर्विद्वांसः शुचि तस्माच्छुचिर्भव। दीयते यच्च लभते दत्तं यच्चानुमन्यते॥ ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह। ददात्यव्यक्त इत्येतत् प्रतिगृह्णाति तच्च वै॥ आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्तस्मात्परो भवेत्। एवं मन्यस्व सततमन्यथा मा विचिन्तय॥ यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः। तेन तीर्थानि यज्ञाश्च सेवितव्या विपश्चिता॥ न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन। लभतेऽव्यक्तिकं स्थानं ज्ञात्वा व्यक्तं महीयते॥ तथैव महतः स्थानमाहङ्कारिकमेव च। अहङ्कारात् परं चापि स्थानानि समवाप्नुयात्॥ ये त्वव्यक्तात् परं नित्यं जानते शास्त्रतत्पराः। जन्ममृत्युविमुक्तं च विमुक्तं सदसच्च यत्॥ एतन्मयाऽऽप्तं जनकात् पुरस्तात् तेनापि चाप्तं नृप याज्ञवल्क्यात्। ज्ञानं विशिष्टं न तथा हि यज्ञा ज्ञानेन दुर्गं तरते न यज्ञैः॥ दुर्गं जन्म निधनं चापि राजन् न भौतिकं ज्ञानविदो वदन्ति यज्ञैस्तपोभिर्नियमैर्ऋतैश्च दिवं समासाद्य पतन्ति भूमौ॥ तस्मादुपासस्व परं महच्छुचि शिवं विमोक्षं विमलं पवित्रम्। मुपास्य वै तत्त्वमृषिर्भविष्यसि॥ यदुपनिषदमुपाकरोत् तथासौ जनकनृपस्य पुरा हि याज्ञवल्क्यः। च्छुभममृतत्वमशोकमर्च्छति॥ नारद उवाच दौष्यन्तिं भरतं चापि मृतं सृञ्जय शुश्रुम। कर्माण्यसुकराण्यन्यैः कृतवान् यः शिशुर्वने॥ हिमावदातान् यः सिंहान् नखदंष्ट्रायुधान् बली। निर्वीर्यास्तरसा कृत्वा विचकर्ष बबन्ध च॥ क्रूरांश्चोग्रतरान् व्याघ्रान् दमित्वा चाकरोद्वशे। मन:शिला इव शिलाः संयुक्ता जतुराशिभिः॥ व्यालादींश्चातिबलवान् सुप्रतीकान् गजानपि। दंष्ट्रासु गृह्य विमुखाशुष्कासयानकरोद् वशे॥ महिषानप्यतिबलो बलिनो विचकर्ष ह। सिंहानां च सुदृप्तानां शतान्याकर्षयद् बलात्॥ बलिनः सृमरान् खड्गान् नानासत्त्वानि चाप्युत। कृच्छ्रप्राणं वने बद्ध्वादमयित्वाप्यवासृजत्॥ तं सर्वदमनेत्याहुर्द्विजास्तेनास्य कर्मणा। तं प्रत्यषेधज्जननी मा सत्त्वानि विजीजहि॥ सोऽश्वमेधशतेनेष्ट्वा यमुनामनु वीर्यवान्। त्रिशताश्वान् सरस्वत्यां गङ्गामनु चतुःशतान्॥ सोऽश्वमेधसहस्रेण राजसूयशतेन च। पुनरीजे महायज्ञैः समाप्तवरदक्षिणैः॥ अग्निष्टोमातिरात्राभ्यामिष्ट्वा विश्वजिता अपि। वाजपेयसहस्राणां सहस्रश्च सुसंवृतैः॥ इष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान् घनैः। सहस्रं यत्र पद्यानां कण्वाय भरतो ददौ॥ जाम्बूनदस्य शुद्धस्य कनकस्य महायशाः। यस्य यूपः शतव्यामः परिणाहेन काञ्चनः॥ समागम्य द्विजैः सार्धे सेन्ट्रैर्देवैः समुच्छ्रितः। अलंकृतान् राजमानान् सर्वरत्नैर्मनोहरैः॥ हैरण्यानश्वान् द्विरदान् स्थानुष्ट्रानजाविकम्। दासीदासंघनं धान्यं गाः सवत्साः पयस्विनीः॥ ग्रामान् गृहांश्च क्षेत्राणि विविधांश्च परिच्छदान्। कोटीशतायुतांश्चैव ब्राह्मणेभ्यो ह्यमन्यत॥ चक्रवर्ती ह्यदीनात्मा जितारिॉजितः परैः। स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया॥ पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदाक्षिण्यमभि श्वैत्येत्युदाहरत्॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं व्यासं ततो जयमुदीरेयत्।। वैशम्पायन उवाच षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवनन्दनः। ददर्श विपरीतानि निमित्तानि युधिष्ठिरः॥ ववुर्ताताश्च निर्घाता रूक्षाः शर्करवर्षिणः। अपसव्यानि शकुना मण्डलानि प्रचक्रिरे॥ प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः। उल्काश्चाङ्गारवर्षिण्यः प्रापतन् गगनाद् भुवि॥ आदित्यो रजसा राजन् समवच्छन्नमण्डलः। विरश्मिरुदये नित्यं कबन्धैः समदृश्यत॥ परिवेषाश्च दृश्यन्ते दारुणाश्चन्द्रसूर्ययोः। त्रिवर्णिः श्यामरुक्षान्तास्तथा भस्मारुणप्रभाः॥ एते चान्ये च बहव उत्पाता भयशंसिनः। दृश्यन्ते बहवो राजन् हृदयोद्वेगकारकाः॥ कस्यचित् त्वथ कालस्य कुरुराजो युधिष्ठिरः। शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम्॥ विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः। समानीयाब्रवीद् भ्रातृन् किं करिष्याम इत्युत॥ परस्परं समासाद्य ब्रह्मदण्डबलात् कृतान्। वृष्णीन् विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवाभवन्॥ निधनं वासुदेस्य समुद्रस्येव शोषणम्। वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः॥ मौसलं ते समाश्रित्य दुःखशोकसमन्विताः। विषण्णा हतसंकल्पाः पाण्डवाः समुपाविशन्॥ जनमेजय उवाच कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह। पश्यतो वासुदेवस्य भोजाश्चैव महारथाः॥ वैशम्पायन उवाच घट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान्। अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः॥ जनमेजय उवाच केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका गताः। भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे॥ वैशम्पायन उवाच विश्वामित्रं च कण्वं च नारदं च तपोधनम्। सारणप्रमुखा वीरा ददृशुभरकां गतान्॥ ते तान् साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा। अब्रुवन्नुपसंगम्य दैवदण्डनिपीडिताः॥ इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः। ऋषयः साधु जानीत किमियं जनयिष्यति॥ इत्युक्तास्ते तदा राजन् विप्रलम्भप्रधर्षिताः। प्रत्यब्रुवंस्तान् मुनयो यत् तच्छृणु नराधिप॥ वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम्। वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति॥ येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः। उच्छेत्तारः कुलं वृत्स्नमृते रामजनार्दनौ॥ समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः। जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति॥ इत्यब्रुवन्त ते राजन् प्रलब्धास्तैर्दुरात्मभिः। मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम्॥ तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः। अथाब्रवीत् तदा वृष्णीश्रुत्वैवं मधुसूदनः॥ अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान्। एवमुक्त्वा ह्रषीकशः प्रविवेश पुरं तदा॥ कृतान्तमन्यथा नैच्छत् कर्तुं स जगतः प्रभुः। श्वोभूतेऽथ ततः साम्बो मुसलं तदसूत वै॥ येन वृष्ण्यन्धककुले पुरुषा भस्मसात् कृताः। वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत्॥ असूत शापजं घोरं तच्च राज्ञे न्यवेदयन्। विषण्णरूपस्तद् राजा सूक्ष्मं चूर्णमकारयत्॥ तच्चूर्णं सागरे चापि प्राक्षिपन् पुरुषा नृप। अघोषयंश्च नगरे वचनादाहुकस्य ते॥ जनार्दनस्य रामस्य बभ्रोश्चैव महात्मनः। अद्यप्रभृति सर्वेषु वृष्ण्यन्धककुलेष्विह॥ सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः। यश्च नोऽविदितं कुर्यात् पेयं कश्चिन्नरः क्वचित्॥ जीवन् स शूलमारोहेत् स्वयं कृत्वा सबान्धवः। ततो राजभयात् सर्वे नियमं चक्रिरे तदा। नराः शासनमाज्ञाय रामस्याक्लिष्टकर्मणः॥ जनमेजय उवाच ज्येष्ठानज्येष्ठतां तेषां नामानि च पृथक् पृथक्। धृतराष्ट्रस्य पुत्राणामानुपूर्व्यात् प्रकीर्तय॥ वैशम्पायन उवाच दुर्योधनो युयुत्सुश्च राजन् दुःशासनस्तथा। दुःसहो दुःशलश्चैव जलसंधः समः सहः॥ विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः। दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च॥ विविंशतिर्विकर्णश्च शलः सत्त्वः सुलोचनः। चित्रोपचित्रौ चित्राक्षश्चारुचित्रशरासनः॥ दुर्मदो दुर्विगाहश्च विवित्सुर्विकटाननः। ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ॥५॥ चित्रबाणश्चित्रवर्या सुवर्मा दुर्विरोचनः। अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः॥ भीमवेगो भीमबलो बलाकी बलवर्धनः। उग्रायुधः सुषेणश्च कुण्डोदरमहोदरौ॥ चित्रायुधो निषङ्गी च पाशी वृन्दारकस्तथा। दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः॥ दृढसंधो जरासंधः सत्यसंधः सदःसुवाक्। उग्रश्रवा उग्रसेनः सेनानीर्दुष्पराजयः॥ अपराजितः पण्डितको विशालाक्षो दुराधरः। दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ॥ आदित्यकेतुर्बह्वाशी नागदत्तोऽग्रयाय्यपि। कवची क्रथनः दण्डी दण्डधारो धनुर्ग्रहः॥ उग्रभीमरथौ वीरौ वीरबाहुरलोलुपः। अभयो रौद्रकर्मा च तथा दृढरथाश्रयः॥ अनाधृष्यः कुण्डभेदी विरावी चित्रकुण्डलः। प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्यवान्॥ दीर्घबाहुर्महाबाहु ढोरुः कनकध्वजः। कुण्डाशी विरजाश्चैव दुःशला च शताधिका॥ इति पुत्रशतं राजन् कन्या चैव शताधिका। नामधेयानुपूर्येण विद्धि जन्मक्रमं नृप॥ सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः। सर्वे वेदविदश्चैव सर्वे सर्वास्त्रकोविदाः॥ सर्वेषामनुरूपाश्च कृता दारा महीपते। धृतराष्ट्रेण समये परीक्ष्य विधिवत्रुप॥ दुःशलां चापि समये धृतराष्ट्रो नराधिपः। जयद्रथाय प्रददौ विधिना भरतर्षभ॥ संजय उवाच ततो युधिष्ठिरो द्रोणं दृष्ट्वाऽन्तिकमुपागतम्। महता शरवर्षेण प्रत्यगृह्णादभीतवत्॥ ततो हलहलाशब्द आसीद् यौधिष्ठिरे बले। जिघृक्षपि महासिंहे गजालामिव यूथपम्॥ दृष्ट्वा द्रोणं ततः शूरः सत्यजित् सत्यविक्रमः। युधिष्ठिरमभिप्रेप्सुराचार्यं समुपाद्रवत्॥ तत आचार्यपाञ्चाल्यौ युयुधाते महाबलौ। विक्षोभयन्तौ तत् सैन्यमिन्द्रवैरोचनाविव॥ ततो द्रोणं महेष्वासः सत्यजित् सत्यविक्रमः। अविध्यन्निशिताग्रेण परमास्त्रं विदर्शयन्॥ तथास्य सारथेः पञ्च शरान् सर्पविषोपमान्। अमुञ्चदन्तकप्रख्यान् सम्मुमोहास्य सारथिः ॥ अथास्य सहसाविध्यद्धयान् दशभिराशुगैः। दशभिर्दशभिः क्रुद्ध उभौ च पार्ष्णिसारथी॥ मण्डलं तु समावृत्य विचरन् पृतनामुखे। ध्वजं चिच्छेद च क्रुद्धो द्रोणस्यामित्रकर्षणः॥ द्रोणस्तु तत् समालोक्य चरितं तस्य संयुगे। मनसा चिन्तयामास प्राप्तकालमरिंदमः॥ ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः। अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः॥ स शीघ्रतरमादाय धनुरन्यत् प्रतापवान्। द्रोणमभ्यहनद् राजंस्त्रिशता कङ्कपत्रिभिः॥ दृष्ट्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे। वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमार्दयत्॥ संछाद्यमानं समरे द्रोणं दृष्ट्वा महारथम्। चुक्रुशुः पाण्डवा राजन वस्त्रााणि दुधुवुश्च ह॥ वृकस्तु परमकुद्धो द्रोणं षष्ट्या स्तनान्तरे। विव्याध बलवान् राजेस्तदद्भुतभिवाभवत्॥ द्रोणस्तु शरवर्षेण च्छाद्यमानो महारथः। वेगं चक्रे महावेगः क्रोधादुहृत्य चक्षुषी॥ ततः सत्यजितश्चापं छित्वा द्रोणोवृकस्य च। षभिः ससूतं सहयंशरैर्दोणोऽवधीद् वृकम्॥ अथान्यद् धनुरादाय सत्यजित् वेगवत्तरम्। साश्वं ससूतं विशिखैोणं विव्याघ सध्वजम्॥ स तन्न मसृषे द्रोणः पाञ्चाल्येनार्दितो मृधे। ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान्॥ हयान् ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णसारथी। अवाकिरत् ततो द्रोणः शरवर्षेः सहस्रशः॥ तथा संछिद्यमानेषु कार्मुकेषु पुनः पुनः। पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत्॥ स सत्यजितमालोक्य तथोदीर्णे महाहवे। अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः॥ तस्मिन् हते महामात्रे पञ्चालानां महारथे। अपायाज्जवनैरश्वैर्दोणात् त्रस्तो युधिष्ठिरः॥ पञ्चालाः केकया मत्स्या चेदिकारूषकोसलाः। युधिष्ठिरमभीप्सन्तो दृष्ट्वा द्रोणमुपाद्रवन्॥ ततो युधिष्ठिरं प्रेप्सुराचार्यः शत्रुपूगहा। व्यधमत् तान्यनीकानि तूलराशिमिवानलः॥ निर्दहन्तमनीकानि तानि तानि पुनः पुनः। द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत॥ सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः। षड्भिः ससूतं सहयं द्रोणं विद्ध्वानदद् भृशम्॥ क्रूराय कर्मणे युक्तश्चिकीर्षुः कर्म दुष्करम्। अवाकिरच्छरशतैर्भारद्वाजं महारथम्॥ तस्य चानदतो द्रोणः शिरः कायात् सकुण्डलम्। क्षुरेणापाहरत् तूर्णं ततो मत्स्याः प्रदुद्रुवुः॥ मत्स्याञ्जित्वाऽजयच्चेदीन् करूषान् केकयानपि। पञ्चालान् सृञ्जयान् पाण्डून् भारद्वाजः पुनः पुनः॥२९ तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम्। दृष्ट्वा रुक्मरथं वीरं समकम्पन्त सुंजयाः॥ उत्तमं ह्याददानस्य धनुरस्याशुकारिणः। ज्याघोषो निघ्नतोऽमित्रान् दिक्षु सर्वासु शुश्रुवे॥ नागानश्वान् पदातींश्च रथिनो गजसादिनः। रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः॥ नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये। अश्मवर्षमिवावर्षत् परेषां भयमादधत्॥ सर्वा दिशः समचरत् सैन्यं विक्षोभयनिव। बली शूरो महेष्वासो मित्राणामभयंकरः॥ तस्य विद्युदिवानेषु चापं हेमपरिष्कृतम्। दिक्षु सर्वासु पश्यामो द्रोणस्यामिततेजसः॥ शोभमानां ध्वजे चास्य वेदीमद्राक्ष्म भारत। हिमवच्छिखराकारां चरतः संयुगे भृशम्॥ द्रोणस्तु पाण्डवानी के चकार कदनं महत्। यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः॥ स शूरः सत्यवाक् प्राज्ञो बलवान् सत्यविक्रमः। महानुभाव: कल्पान्ते रौद्रां भीरुविभीषणाम्॥ कवचोर्मिध्वजावर्ती मर्त्यकलापहारिणीम्। गजवाजिमहाग्राहामसिमीनां दुरासदाम्॥ वीरास्थिरार्करां रौद्रां भेरीमुरजकच्छपाम्। चर्मवर्मप्लवां धोरां केशशैवलशाद्वलाम्॥ शरौघिणीं धनुःस्रोतां बाहुपन्नगसंकुलाम्। रणभूमिवहां तीव्रां कुरुसृञ्जयवाहिनीम्॥ मनुष्यशीर्षपाषाणां शक्तिमीना गदोडुपाम्। उष्णीषफेनवसनां विकीर्णान्त्रसरीसृपाम्॥ वीरापहारिणीमुग्रां मांसशोणितकर्दमाम्। हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम्॥ क्रूरां शरीरसंघट्टां सादिनक्रां दुरत्ययाम्। द्रोणः प्रावर्तयत् तत्र नदीमन्तकगामिनीम्॥ क्रव्यादगणसंजुष्टां श्वशृगालगणायुताम्। निशेवितां महारौद्रैः पिशिताशैः समन्ततः॥ तं दहन्तमनीकानि रथोदारं कृतान्तवत्। सर्वेतोऽभ्यद्रवन् द्रोणं कुन्तीपुत्रपुरोगमाः॥ सर्वतः प्रत्यवारयन्। गभसितभिरिवादित्यं तपन्तं भुवनं यथा॥ तं तु शूरं महेश्वासं तावकाऽभ्युद्यतायुधाः। राजानो राजपुत्राश्च समन्तात् पर्यवारयन्॥ ते द्रोणं सहिताः शूराः शिखण्डी त ततो द्रोणं पञ्चभिर्नतपर्वभिः। क्षत्रवर्मा च विंशत्या वसुदानश्च पञ्चभिः॥ उत्तमौजास्त्रिभिर्बाणैः क्षत्रदेवश्च सप्तभिः। सात्यकिश्च शतेनाजौ युधामन्युस्तथाष्टभिः॥ युधिष्ठिरो द्वादशभिद्रोणं विव्याध सायकैः। धृष्टद्युम्नश्च दशभिश्चेकितानस्त्रिभिः शरैः॥ ततो द्रोणः सत्यसंधः प्रभिन्न इव कुञ्जरः। अभ्यतीत्य स्थानीकं दृढसेनमपातयत्॥ ततो राजानमासाद्य प्रहरन्तमभीतवत्। अविध्यन्नवभिः क्षेमं स हतः प्रापतद् रथात्॥ स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन् दिशः। जाता ह्मभवदन्येषां न त्रातव्यः कथञ्चन॥ शिखण्डिनं द्वादशभिर्विंशत्या चौत्तमौजसम्। वसुदानं च भल्लेन प्रेषयद् यमसादनम्॥ अशीत्या क्षत्रवर्माणं षडविंशत्या सुदक्षिणम्। क्षत्रदेवं तु भल्लेन रथनीडादपातयत्॥ युधामन्यु चतुःषष्ट्या त्रिंशता चैव सात्यकिम्। विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत्॥ ततो युधिष्ठिरः क्षिप्रं गुरुतो राजसत्तमः। अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात्॥ तं द्रोणः सधनुष्कं तु साश्वयन्तारमाक्षिणोत्। स हतः प्रापतद् भूमौ रथाज्ज्योतिरिवाम्बरात्॥ तस्मिन् हते राजपुत्रे पञ्चालानां यशस्करे। हत द्रोणं हत द्रोणमित्यासीनिःस्वनो महान्॥ तांस्तथा भृशसंरब्धान् पञ्चालान् मत्स्यकेकयान्। सृञ्जयान् पाण्डवांश्चैव द्रोणो व्यक्षोभयद् बली॥ सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ। वार्धक्षेमिं चैत्रसेनि सेनाबिन्दुं सुवर्चसम्॥ एतांश्चान्यांश्च सुबहून् नानाजनपदेश्वरान्। सर्वान् द्रोणोऽजयद् युद्धे कुरुभिः परिवारितः॥ तावकाश्च महाराज जयं लब्ध्वा महाहवे। पाण्डवेयान् रणे जघ्नुर्द्रवमाणान् समन्ततः॥ ते दानवा इवेन्द्रेण वध्यमाना महात्मना। पञ्चाला: केकया मत्स्याः समकम्पन्त भारत ६५।। जनमेजय उवाच ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम्। अत ऊर्ध्वं ततो ब्रह्मन् किमकुर्वत पाण्डवाः॥ वैशम्पायन उवाच तत्रैव न्यवसन् राजन् निहत्य बकराक्षसम्। अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने॥ ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः। प्रतिश्रयार्थी तद् वेश्म ब्राह्मणस्य जगाम ह॥ स सम्यक् पूजयित्वा तं विप्रं विप्रर्षभस्तदा। ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रतः॥ ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः। उपासांचक्रिरे विप्रं कथयन्तं कथा: शुभाः॥ कथयामास देशांश्च तीर्थानि सरितस्तथा। राज्ञश्च विविधाश्चर्यान् देशांश्चैव पुराणि च॥ स तत्राकथयन् विप्रः कथान्ते जनमेजय। पञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम्॥ धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः। अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे॥ तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः। विस्तरेणैव पप्रच्छुः कथान्ते पुरुषर्षभाः॥ पाण्डवा ऊचुः कथं दुपदपुत्रस्य धृष्टद्युम्नस्य पावकात्। वेदीमध्याच्च कृष्णायाः सम्भवः कथमद्भुतः॥ कथं द्रोणान्महेष्वासात् सर्वाण्यस्त्राण्यशिक्षत। कथं विप्र सखायौ तौ भिन्नौ कस्य कृतेन वा॥ वैशम्पायन उवाच एवं तैश्चोदितो राजन् स विप्रः पुरुषर्षभैः। कथयामास तत् सर्व द्रौपदीसम्भवं तदा॥ याज्ञवल्क्य उवाच न शक्यो निर्गुणस्तात गुणीकर्तुं विशाम्पते। गुणवांश्चाप्यगुणवान् यथातत्त्वं निबोध मे॥ गुणैर्हि गुणवानेन निर्गुणश्चागुणस्तथा। प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः॥ गुणस्वभावस्त्वव्यक्तो गुणान् नैवातिवर्तते। उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः॥ अव्यक्तस्तु न जानीते पुरुषो ज्ञः स्वभावतः। न मत्तः परमोऽस्तीति नित्यमेवाभिमन्यते॥ अनेन कारणेनैतदव्यक्तं स्यादचेतनम्। नित्यत्वाच्चाक्षरत्वाच्च क्षरत्वान्न तदन्यथा।॥ यदाज्ञानेन कुर्वीत गुणसर्ग पुनः पुनः। यदाऽऽत्मानं न जानीते तदाऽऽत्मापि न मुच्यते॥ कर्तृत्वाच्चापि सर्गाणां सर्गधर्मा तथोच्यते। कर्तृत्वाच्चापि योगानां योगधर्मा तथोच्यते॥ कर्तृत्वात् प्रकृतीनां च तथा प्रकृतिधर्मिता॥ कर्तृत्वाच्चापि बीजानां बीजधर्मा तथोच्यते। गुणानां प्रसवत्वाच्च प्रलयत्वात् तथैव च।॥ उपेक्षत्वादनन्यत्वादभिमानाच्च केवलम्। मन्यन्ते यतयः सिद्धा अध्यात्मज्ञा गतज्वराः। अनित्यं नित्यमव्यक्तं व्यक्तमेतद्धि शुश्रुम॥ अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषे तथा। सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः॥ अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसंज्ञकः। यथा मुञ्ज इषीकाणां तथैवैतद्धि जायते॥ अन्यच्च मशकं विद्यादन्यच्चोदुम्बरं तथा। न चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते॥ अन्य एव तथा मत्स्यस्तदन्यदुदकं स्मृतम्। न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः॥ अन्यो ह्यग्निरुखाप्यन्या नित्यमेवमवेहि भोः। न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै॥ पुष्करं त्वन्यदेवात्र तथान्यदुदकं स्मृतम्। न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम्॥ एतेषां सहवासं च निवासं चैव नित्यशः। याथातथ्येन पश्यन्ति न नित्यं प्राकृता जनाः॥ ये त्वन्यथैव पश्यन्ति न सम्यक् तेषु दर्शनम्। ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः॥ सांख्यदर्शनमेतत् ते परिसंख्यानमुत्तमम्। एवं हि परिसंख्याय सांख्याः केवलतां गताः॥ ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम्। अतः परं प्रवक्ष्यामि योगानामनुदर्शनम्॥ बृहदश्व उवाच उत्सृज्य दमयन्ती तु नलो राजा विशाम्पते। ददर्श दावं दह्यन्तं महान्तं गहने वने।॥ तत्र शुश्राव शब्दं वै मध्ये भूतस्य कस्यचित्। अभिधाव नलेत्युच्चैः पुण्यश्लाकेति चासकृत्॥ मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम्। ददर्श नागराजानं शयानं कुण्डलीकृतम्॥ स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा। उवाच मां विद्धि राजन् नागं कर्कोटकं नृप।॥ मया प्रलब्धो ब्रह्मर्षिर्नारदः सुमहातपाः। तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप।॥ तिष्ठ त्वं स्थावर इव यावदेव नल: क्वचित्। इतो नेता हि तत्र त्वं शापान्मोक्ष्यसि मत्कृतात्॥ तस्य शापान शक्तोऽस्मि पदाद् विचलितुं पदम् उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान्॥ सखा च ते भविष्यामि मत्समो नास्ति पन्नगः। लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम्॥ एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः। तं गृहीत्वा नलः प्रायाद् देशं दावविवर्जितम्॥ आकाशदेशमासाद्य विमुक्तं कृष्णवर्मना। उत्स्रष्टुकामं तं नागः पुन: कर्कोटकोऽब्रवीत्॥ पदानि गणयन् गच्छ स्वानि नैषध कानिचित्। तत्र तेऽहं महाबाहो श्रेयोधास्यामि यत् परम्॥ तत: संख्यातुमारब्धमदशद् दशमे पदे। तस्य दष्टस्य तद् रूपं क्षिप्रमन्तरधीयत॥ स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः। स्वरूपधारिणं नागं ददर्श स महीपतिः॥ ततः कर्कोटको नागः सान्त्वयन् नलमब्रवीत्। मया तेऽन्तर्हितं रूपं न त्वां विद्युर्जना इति॥ यत्कृते चासि निकृतो दुःखेन महता नल। विषेण स मदीयेन त्वयि दुःखं निवत्स्यति॥ विषेण संवृतैर्गात्रैर्यावत् त्वां न विमोक्ष्यति। तावत् त्वयि महाराज दुःखं वै स निवत्स्यति॥ अनागा येन निकृतस्त्वमन) जनाधिप। क्रोधादसूययित्वा तं रक्षा मे भवतः कृता॥ न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा। ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप॥ राजन् विषनिमित्ता च न ते पीडा भविष्यति। संग्रमेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि॥ गच्छ राजनित: सूतो बाहुकोऽहमिति ब्रुवन्। समीपमृतुपर्णस्य स हि चैवाक्षनैपुणः॥ अयोध्या नगरी रम्यामद्य वै निषधेश्वर। स तेऽक्षहृदयं दाता राजाश्चहृदयेन वै॥ इक्ष्वाकुकुलजः श्रीमान् मित्रं चैव भविष्यति। भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा।॥ सममेष्यसि दारैस्त्वं मा स्म शोके मनः कृथाः। राज्येन तनयाभ्यां च सत्यमेतद् ब्रवीमि ते॥ स्वं रूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप। संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः॥ अनेन वाससाच्छन्नः स्वं रूपं प्रतिपत्स्यसे। इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुगं तदा॥ एवं नलं च संदिश्य वासो दत्त्वा च कौरव। नागराजस्ततो राजंस्तत्रैवान्तरधीयत।॥ वैशम्पायन उवाच ततः सुबलपुत्रस्तु राजा दुर्योधनश्च ह। दुःशासनश्च कर्णश्च दुष्टं मन्त्रममन्त्रयन्॥ ते कौरव्यमनुज्ञाप्य धृतराष्ट्र नराधिपम्। दहने तु सपुत्रायः कुन्त्या बुद्धिमकारयन्॥ तेषामिङ्गित्तभावज्ञो विदुरस्तत्त्वदर्शिवान्। आकारेण च तं मन्त्रं बुबुधे दुष्टचेतसाम्॥ ततो विदितवेद्यात्मा पाण्डवानां हिते रतः। पलायने मतिं चने कुन्त्याः पुत्रैः सहानघः॥ ततो वातसहां नावं यन्त्रयुक्तां पातकिनीम्। ऊर्मिक्षमा दृढां कृत्वा कुन्तीमिदमुवाच ह॥ एष जातः कुलस्यास्य कीर्तिवंशप्रणाशनः। धृतराष्ट्रः परीतात्मा धर्मं त्यजति शाश्वतम्॥ इयं वारिपथे युक्ता तरङ्गपवनक्षमा। नौर्यया मृत्युपाशात् सपुत्रा मोक्ष्यसे शुभे॥ तच्छ्रुत्वा व्यथिता कुन्ती पुत्रैः सह यशस्विनी। नावमारुह्य गङ्गायां प्रययौ भरतर्षभ॥ ततो विदुरवाक्येन नावं विक्षिप्य पाण्डवाः। धनं चादाय तैर्दत्तमरिष्टं प्राविशन् वनम्॥ निषादी पञ्चपुत्रा तु जातुषे तत्र वेश्मनि। कारणाभ्यागता दग्धा सह पुत्रैरनागसा॥ स च म्लेच्छाधमः पापो दग्धस्तत्र पुरोचनः। वञ्चिताश्च दुरात्मानो धार्तराष्ट्रा: सहानुगाः॥ अविज्ञाता महात्मानो जनानामक्षतास्तथा। जनन्या सह कौन्तेया मुक्ता विदुरमन्त्रिताः॥ ततस्तस्मिन् पुरे लोका नगरे वारणावते। दृष्ट्वा जतुगृहं दग्धमन्वशोचन्त दुःखिताः॥ राज्ञे च प्रेषयामासुर्यथावृत्तं निवेदितुम्। संवृत्तस्ते महान् कामः पाण्डवान् दग्धवानसि॥ सकामो भव कौरव्य भुड्क्ष्व राज्यं सपुत्रकः। तच्छ्रुत्वा धृतराष्ट्रस्तु सह पुत्रेण शोचयन्॥ प्रेतकार्याणि च तथा चकार सह बान्धवैः। पाण्डवानां तथा क्षत्ता भीष्मश्च कुरुसत्तमः :॥ जनमेजय उवाच पुनर्विस्तरशः श्रोतुमिच्छामि द्विजसत्तम। दाहं जतुगृहस्यैव पाण्डवानां च मोक्षणम्॥ सुनृशंसमिदं कर्म तेषां क्रूरोपसंहितम्। कीर्तयस्व यथावृत्तं परं कौतूहलं मम॥ वैशम्पायन उवाच शृणु विस्तरशो राजन् वदतो मे परंतप। दाहं जतुगृहस्यैतत् पाण्डवानां च मोक्षणम्॥ प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम्। दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मनाः॥ ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः। अनेकैरभ्युपायैस्ते जिघांसन्ति स्म पाण्डवान्॥ पाण्डवा अपि तत् सर्वं प्रतिचक्रुर्यथागतम्। उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः॥ गुणैः समुदितान् दृष्ट्वा पौराः पाण्डुसुतांस्तदा। कथयांचक्रिरे तेषां गुणान् संसत्सु भारत॥ राज्यप्राप्तिं च सम्प्राप्त ज्येष्ठं पाण्डुसुतं तदा। कथयन्ति स्म सम्भूय चत्वरेषु सभासु च॥ प्रज्ञाचक्षुरचक्षुष्ट्वाद् धृतराष्ट्रो जनेश्वरः। राज्यं न प्राप्तवान् पूर्वं स कथं नृपतिर्भवेत्॥ तथा शांतनवो भीष्मः सत्यसंधो महाव्रतः। प्रत्याख्याय पुरा राज्यं न स जातु ग्रहीष्यति॥ ते वयं पाण्डवज्येष्ठं तरुण वृद्धशीलिनम्। अभिषिञ्चाम् साध्वद्य सत्यकारुण्यवेदिनम्॥ स हि भीष्मं शांतनवं धृतराष्ट्रं च धर्मवित्। सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन्॥ तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि जल्पताम्। युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः॥ स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे। ईय॑या चापि संतप्तो धृतराष्टमुपागमत्॥ ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः। पौरानुरागसंतप्तः पश्चादिदमभाषत॥ दुर्योधन उवाच श्रुता मे जल्पतां तात पौराणामशिवा गिरः। त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम्॥ मतमेतच्च भीष्मस्य न स राज्यं बुभुक्षति। अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः॥ पितृतः प्राप्तवान् राज्यं पाण्डुरात्मगुणैः पुरा। त्वमन्धगुणसंयोगात् प्राप्तं राज्यं न लब्धवान्॥ स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः। तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्यापि चापरः॥ ते वयं राजवंशेन हीनाः सह सुतैरपि। अवज्ञाता भविष्यामो लोकस्य जगतीपते॥ सततं निरयं प्राप्ताः परपिण्डोपजीविनः। न भवेम यता राजंस्तथा नीतिविधीयताम्॥ यदि त्वं हि पुरा राजन्निदं राज्यमवाप्तवान्। ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने॥ धृतराष्ट्र उवाच साङ्गा वेदा यथान्यायं येनाधीता महात्मना। यस्मिन् साक्षाद् धनुर्वेदो ह्रीनिषेवे प्रतिष्ठितः॥ यस्य प्रसादात् कुर्वन्ति कर्माणि पुरुषर्षभाः। अमानुषाणि संग्रामे देवैरसुकराणि च॥ तस्पिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मणा। नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना॥ नामर्षं तत्र कुर्वन्ति धिक् क्षात्रं धिगमर्षिताम्। पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः॥ श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व संजय। संजय उवाच श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः॥ तूष्णीं बभूवू राजानः सर्व एव विशाम्पते। अर्जुनस्तु कटाक्षेण जिह्यं विप्रेक्ष्य पार्षतम्॥ सबाष्यंमतिनिःश्वस्य धिग्धिगित्येव चाब्रवीत्। युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथापरे॥ आसन् सुव्रीडिता राजन् सात्यकिस्त्वब्रवीदिदम्। नेहास्ति पुरुषः कश्चिद् य इमं पापपूरुषम्। भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम्। एते त्वां पाण्डवाः सर्वे कुत्सयन्ति विकुत्सया॥ कर्मणा तेन पापेन श्वपाकं ब्राह्मण इव। एतत् कृत्वा महत् पापं निन्दितः सर्वसाधुभिः॥ न लज्जसे कथं वक्तुं समिति प्राप्य शोभनाम्। कथं च शतधा जिह्वा न ते मूर्धा च वीर्यते॥ गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे। वाच्चस्त्वमसि पार्थश्च सर्वेश्चान्धकवृष्णिभिः॥ यत् कर्म कलुषं कृत्वा श्लाघसे जनसंसदि। अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन्॥ वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता। कस्त्वेतद् व्यवसेदार्यस्त्वदन्यः पुरुषाधम॥ निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः। सप्तावरे तथा पूर्वे बान्धवास्ते निमज्जिताः॥ यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम्। उक्तवांश्चापि यत् पार्थे भीष्मं प्रति नरर्षभम्॥ तथान्तो विहितस्तेन स्वयमेव महात्मना। तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः॥ नान्यः पाञ्चाल्यपुत्रेभ्यो विद्यते भुवि पापकृत्। स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल॥ शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः। पञ्चालाश्चलिता धर्मात् क्षुद्रा मित्रगुरुदुहः॥ त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः। पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि॥ शिरस्ते पोथयिष्यामि गदया वज्रकल्पया। त्वां च ब्रह्महणं दृष्ट्वा जनः सूर्यमवेक्षते॥ ब्रह्महत्या हि ते पापं प्रायश्चित्तार्थमात्मनः। पाञ्चालक सुदुर्वृत्त ममेव गुरुमग्रतः॥ गुरोर्गुरुं च भूयोऽपि क्षिपन्नैव हि लजसे। तिष्ठ तिष्ठ सहस्वैकं गदापातमिमं मम॥ तव चापि सहिष्येऽहं गदापाताननेकशः। सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम्॥ संरब्धं सात्यकिं प्राह संक्रुद्धः प्रहसन्निव। धृष्टद्युम्न उवाच श्रूयते श्रूयते चेति क्षम्यते चेति माधव॥ सदानार्योऽशुभः साधु पुरुषं क्षेप्तुमिच्छति। क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम्॥ क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते। स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः॥ आकेशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि। यः स भूरिश्रवााश्छिन्नभुजः प्रायगतस्त्वया॥ वार्यमाणेन हि हतस्ततः पापतरं नु किम्। गाहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे॥ विसृष्टशस्रो निहतः किं तत्र क्रूर दुष्कृतम्। अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम्॥ छिन्नबाहुं परैर्हन्यात् सात्यके स कथं वेदत्। निहत्य त्वां पदा भूमौ च विकर्षति वीर्यवान्।॥ किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः। त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः॥ यदा तदा हतः शूरः सौमदत्तिः प्रतापवान्। यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम्॥ किरछरसहस्राणि तत्र तत्र प्रयाम्यहम्। स त्वमेवंविधं कृत्वा कर्म चाण्डालवत् स्वयम्॥ वक्तुमर्हसि वक्तव्यः कस्मात् त्वं परुषाण्यथ। कर्ता त्वं कर्मणो ह्यस्य नाहं वृष्णिकुलाधम॥ पापानां च त्वमावासः कर्मणां मा पुनर्वदा जोषमास्ख न मां भूयो वक्तुमर्हस्यतः परम्॥ अधरोत्तरमेतद्धि यन्मां त्वं वक्तुमर्हसि। अथ वक्ष्यसि मां मौाद् भूयः परुषमीदृशम्॥ गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम्। न चैवं मूर्ख धर्मेण केवलेनैव शक्यते॥ तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम्। वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः॥ द्रौपदी च परिक्लिष्टा तथा धर्मेण सात्यके। प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया॥ सर्वस्वमपकृष्टं च तथाधर्मेण बालिश। अधर्मेणापकृष्टश्च मद्रराजः परेरितः॥ अधर्मेण तथा बाल: सौभद्रो विनिपातितः। इतोऽप्यधर्मेण हतो भीष्मः परपुरंजयः॥ भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः। एवं परैराचरितं पाण्डवेयैश्च संयुगे॥ रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत। दुर्जेयः स परो धर्मस्तथाधर्मश्च दुर्विदः॥ युध्यस्व कौरवैः सार्धं मा गा पितृनिवेशनम्। संजय उवाच एवमादीनि वाक्यानि क्रूराणि परुषाणि च॥ श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत्। तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम्॥ विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः। ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत्॥ न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम्। तमापतन्तं सहसा महाबलममर्षणम्॥ पाञ्चाल्यायाभिसंक्रुद्धमन्तकायान्तकोपमम्। चोदितो वासुदेवेन भीमसेनो महाबलः॥ अवप्लुत्य रथात् तूर्णं बाहुभ्यां समवारयत्। द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली॥ प्रस्पन्दमानमादाय जगाम बलिनं बलात्। स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुङ्गवः॥ निगृहीतः पदे षष्ठे बलेन बलिनां वरः। अवरुह्य रथात् तूर्णं ध्रियमाणं बलीयसा॥ उवाच श्लक्ष्णया वाचा सहदेवो विशाम्पते। अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते॥ परमन्धकवृष्णिभ्यः पञ्चालेभ्यश्च मारिष। तथैवान्धकवृष्णीनां तथैव च विशेषतः॥ कृष्णस्य च तथास्मत्तो मित्रमन्यन्न विद्यते। पञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम्॥ नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः। स भवानीदृशं मित्रं मन्यते च यथा भवान्॥ भवन्तश्च यथास्माकं भवतां च तथा वयम्। स एवं सर्वधर्मज्ञ मित्रधर्ममनुस्मरन्॥ नियच्छ मन्यु पाञ्चाल्यात् प्रशाम्य शिनिपुङ्गवा पार्षतस्य क्षमं त्वं वै क्षमतां पार्वतश्च ते॥ वयं क्षमयिताश्च किमन्यत्र शमाद् भवेत्। प्रशाम्यमाने शैनेय सहदेवेन मारिष॥ पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत्। आसादयतु मामेष धराधरमिवानिलः। यावदस्य शितैर्बाणैः संरम्भं विनयाम्यहम्॥ युद्धश्रद्धां च कौन्तेय जीवितं चास्य संयुगे। किं नु शक्यं मया कर्तुं कार्यं यदिदमुद्यतम्॥ सुमहत् पाण्डुपुत्राणामायान्त्येते हि कौरवाः। अथवा फाल्गुनः सर्वान् वारयिष्यति संयुगे॥ अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः। मन्यते छिन्नबाहुं मां भूरिश्रवसमाहवे॥ उत्सृजैनमहं चैनमेष वा मां हनिष्यति। शृण्वन् पाञ्चालवाक्यानि सात्यकिः सर्पवच्छसन्॥६५ भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली। तौ वृषाविव नर्दन्तौ बलिनौ बाहुशलिनौ॥ त्वरया वासुदेवश्च धर्मराजश्च मारिष। यत्नेन महता वीरौ वारयामासतुस्ततः॥ निवार्य परमेष्वासौ कोपसंरक्तलोचनौ। युयुत्सूनपरान् संख्ये प्रतीयुः क्षत्रियर्षभाः॥ वैशम्पायन उवाच श्रुत्वा पाण्डुसुतान् वीरान् बलोद्रिक्तान् महौजसः। धृतराष्ट्रो महीपालश्चिन्तामगमदातुरः॥ तत आहूय मन्त्रज्ञं राजशास्त्रार्थवित्तमम्। कणिकं मन्त्रिणां श्रेष्ठं धृतराष्ट्रोऽब्रवीद् वचः॥ धृतराष्ट्र उवाच उत्सित्ताः पाण्डवा नित्यं तेभ्योऽसूये द्विजोत्तम। तत्र मे निश्चिततमं संधिविग्रहकारणम्। कणिक त्वं ममाचक्ष्व करिष्ये वचनं तव॥ वैशम्पायन उवाच स प्रसन्नमनास्तेन परिपृष्टो द्विजोत्तमः। उवाच वचनं तीक्ष्णं राजशास्त्रार्थदर्शनम्॥ शृणु राजन्निदं तत्र प्रोच्यमानं मयानघ। न मेऽभ्यसूया कर्तव्या श्रुत्वैव कुरुसत्तम।॥ नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः। अच्छिद्रश्छिद्रदर्शी स्यात् परेषां विवरानुगः॥ नित्यमुद्यतदण्डाद्धि भृशमुद्विजते जनः। तस्मात् सर्वाणि कार्याणि दण्डेनैव विधारयेत्॥ नास्यच्छिद्रं परः पश्येच्छिद्रेण परमन्वियात्। गृहेत् कूर्म इवाङ्गानि रक्षेद् विवरमात्मनः॥ नासम्यक्कृतकारी स्यादुपक्रम्य कदाचन। कण्टको ह्यपि दुश्छिन्न आसावं जनयेच्चिरम्॥ वधमेव प्रशंसन्ति शत्रूणामपकारिणाम्। सुविदीर्णं सुविक्रान्तं सुयुद्धं सुपलायितम्॥ आपद्यापदि काले च कुर्वीत न विचारयेत्। नावज्ञेयो रिपुस्तात दुर्बलौऽपि कथंचन।॥ अल्पोऽप्यग्निर्वनं कृत्स्नं दहत्याश्रयसंश्रयात्। अन्धः स्यादन्धवेलायां वाधिर्यमपि चाश्रयेत्॥ कुर्यात् तृणमयं चापं शयीत मृगशायिकाम्। सान्त्वादिभिरुपायैस्तु हन्याच्छत्रु वशे स्थितम्॥ दया न तस्मिन् कर्तव्या शरणागत इत्युत्। निरुद्विग्नो हि भवति नहताज्जायते भयम्॥ हन्यादमित्रं दानेन तथा पूर्वापकारिणम्। हन्यात् त्रीन् पञ्च सप्तेति परपक्षस्य सर्वशः॥ मूलमेवादितीश्छिन्द्यात् परपक्षस्य नित्यशः। ततः सहायांस्तत्पक्षान् सर्वांश्च तदनन्तरम्॥ छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः। कथं नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ॥ एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः। राजन् नित्यं सपत्नेषु नित्योद्विग्नः समाचरेत्॥ अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः। लोकान् विश्वासयित्वैव ततो लुम्पेद् यथा वृकः॥ असुशं शौचमित्याहुरर्थानामुपधारणे। आनाम्य फलितां शाखां पक्वं पक्वं प्रशातयेत्॥ फलार्थोऽयं समारम्भो लोके पुंसां विपश्चिताम्। वहेदमित्रं स्कन्धेन यावत् कालस्य पर्ययः॥ ततः प्रत्यागते काले भिन्द्याद् घटमिवाश्मनि। अमित्रो न विमोक्तव्यः कृपणं बपि ब्रुवन्॥ कृपा न तस्मिन् कर्तव्या हन्यादेवापकारिणम्। हन्यादमित्रं सान्त्वेन तथा दानेन वा पुनः॥ तथैव भेददण्डाभ्यां सर्वोपायैः प्रशातयेत्। धृतराष्ट्र उवाच कथं सान्त्वेन दानेन भेदैर्दण्डेन वा पुनः॥ अमित्रः शक्यते हन्तुं तन्मे ब्रूहि यथातथम्। कणिक उवाच शृणु राजन् यथावृत्तं वने निवसतः पुरा॥ जम्बुकस्य महाराज नीतिशास्त्रार्थदर्शिनः। अथ कश्चित् कृतप्रज्ञः शृगाल: स्वार्थपण्डितः॥ सखिभिय॑वसत् सार्धं व्याघ्राखुवृकबभ्रुभिः। तेऽपश्यन् विपिने तस्मिन् बलिनं मृगयूथपम्॥ अशक्ता ग्रहणे तस्य ततो मन्त्रममन्त्रयन्। जम्बुक उवाच असकृद् यतितो ह्येष हन्तुं व्याघ्र वने त्वया।॥ युवा वै जवसम्पन्नो बुद्धिशाली न शक्यते। मूषिकोऽस्य शयानस्य चरणौ भक्षयत्वयम्॥ यथैनं भक्षितैः पादैर्व्याघ्रो गृहणातु वै ततः। ततो वै भक्षयिष्यामः सर्वे मुदितमानसाः॥ जम्बुकस्य तु तद् वाक्यं तथा चक्रुः समाहिताः। मूषिकाभक्षितैः पादैर्मृगं व्याघ्रोऽवधीत् तदा॥ दृष्ट्वाचेष्टमानं तु भूमौ मृगकलवरम्। स्नात्वाऽऽगच्छत भद्रं वोरक्षामीत्याह जम्बुकः॥ शृगालवचनात् तेऽपि गताः सर्वे नदी ततः। स चिन्तापरमो भूत्वा तस्थौ तत्रैव जम्बुकः॥ अथाजगाम पूर्वं तु स्नात्वा व्याघ्रो महाबलः। ददर्श जम्बुकं चैव चिन्ताकुलितमानसम्॥ व्याघ्र उवाच किं शोचसि महाप्राज्ञ त्वं नो बुद्धिमतां वरः। अशित्वा पिशितान्यद्य विहरिष्यामहे वयम्॥ जम्वुक उवाच शृणु मे त्वं महाबाहो यद् वाक्यं मूषिकोऽब्रवीत्। धिग् बलं पृगराजस्य मयाद्यायं मृगो हतः॥ माहुबलमाश्रित्य तृप्तिमद्य गमिष्यति। गर्जमानस्य तस्यैवमतो भक्ष्यं न रोचये॥ व्याघ्र उवाच ब्रवीति यदि स ह्येवं काले ह्यस्मिन् प्रबोधितः। स्वबाहुबलमाश्रित्य हनिष्येऽहं वनेचरान्॥ खादिष्ये तत्र मांसानि इत्युक्त्वा प्रस्थितो वनम्। एतस्मिन्नेव काले तु मूषिकोऽप्याजगाम ह॥ तमागतमभिप्रेत्य शृगालोऽप्यब्रववीद् वचः। जम्बुक उवाच शृणु मूषिक भद्रं ते नकुलो यदिहाब्रवीत्॥ मृगमांसं न खादेयं गरमेतन्न रोचते। मूषिकं भक्षयिष्यामि तद् भवाननुमन्यताम्॥ तच्छुत्वा मूषिको वाक्यं संत्रस्तः प्रगतो बिलम्। ततः स्नात्वा स वै तत्र आजगाम वृको नृप॥ तमागतमिदं वाक्यमब्रवीज्जम्बुकस्तदा। मृगराजो हि संक्रुद्धो न ते साधु भविष्यति॥ सकलत्रस्त्विहायाति कुरुष्व यदनन्तरम्। एवं संचेदितस्तेन जम्बुकेन तदा वृकः॥ ततोऽवलुम्पनं कृत्वा प्रयात: पिशिताशनः। एतस्मिन्नेव काले तु नकुलोऽप्याजगाम ह॥ तमुवाच महाराज नकुलं जम्बुको वने। स्वबाहुबलमाश्रित्य निर्जितास्तेऽन्यतो गताः॥ मम दत्त्वा नियुद्धं त्वं भुड्क्ष्व मांसं यथेप्सितम्। नकुल उवाच मृगराजो वृक्श्चैव बुद्धिमानपि मूषिकः॥ निर्जिता यत् त्वया वीरास्तमाद् वीरतरो भवान्। न त्वयाप्युत्सहे योद्धमित्युक्त्वा सोऽप्युपागमत्॥ कणिक उवाच एवं तेषु प्रयातेषु जम्बुको हृष्टमानसः। खादति स्म तदा मांसमेकः सन् मन्त्रनिश्चयात्॥ एवं समाचरन्नित्यं सुखमेधते भूपतिः। भयेन भेदयेद् भीरुं शूरमञ्जलिकर्मणा॥ लुब्धमर्थप्रदानेन समं न्यूनं तथौजसा। एवं ते कथितं राजशृणु चाप्यपरं तथा॥ पुत्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः। रिपुस्थानेषु वर्तन्तो हन्तव्या भूतिमिच्छता॥ शपथेनाप्यरिं हन्यादर्थदानेन वा पुनः। विषेण मायया वापि नोपेक्षते कथंचन। उभौ चेत् संशयोपेतौ श्रद्धावांस्तत्र वर्द्धते॥ गुरोरप्यविलप्तस्य कार्याकार्यमजानतः। उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम्॥ क्रुद्धोऽप्यक्रुद्धरूपः स्यात् स्मितपूर्वाभिभाषिता। न चाप्यन्यमपध्वंसेत् कदाचित् कोपसंयुतः॥ प्रहरिष्यन् प्रियं ब्रूयात् प्रहरन्नपि भारत। प्रहत्य च कृपायीत शोचेत च रुदेत च॥ आश्वासयेच्चापि परं सान्त्वधर्मार्थवृत्तिभिः। अथास्य प्रहरेत् काले यदा विचलिते पथि॥ अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः। स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः॥ यः स्यादनुप्राप्तवधस्तस्यागारं प्रदीपयेत्। अधनान् नास्तिकांश्चौरान विषये स्वे न वासयेत्॥ प्रत्युत्थानासनाद्येन सम्प्रदानेन केनचित्। प्रतिविश्रब्धघाती स्यात् तीक्ष्णदंष्ट्रो निमग्नकः॥ अशस्तेिभ्यः शङ्केत शख्तेिभ्यश्च सर्वशः। अशक्याद् भयमुत्पन्नमपि मूलं निकृन्तति॥ न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्। विश्वासाद् भयमुत्पन्नं मूलान्यपि निकृन्ततिः॥ चारः सुविहित: कार्य आत्मनश्च परस्य वा। पाषण्डांस्तापसादींश्च परराष्ट्रेषु योजयेत्॥ उद्यानेषु विहारेषु देवतायतनेषु च। पानागारेषु रथ्यासुसर्वतीर्थेषु चाप्यथ॥ चत्वरेषु च कूपेषु पर्वतेषु वनेषु च। समवायेषु सर्वेषु सरित्सु च विचारयेत्॥ वाचा भृशं विनीतः स्याद्धदयेन तथा क्षुरः। स्मितपूर्वाभिभाषी स्यात् सृष्टो रौद्राय कर्मणे॥ अञ्जलिः शपथः सान्त्वं शिरसा पादवन्दनम्। आशाकरणमित्येवं कर्तव्यं भूतिमिच्छता॥ सुपुष्पितः स्यादफलः फलवान् स्याद् दुरारुहः। आमः स्यात् पक्वसंकाशो न च जीर्येत कर्हिचित्।। त्रिवर्गे त्रिविधा पीडा ह्यनुबन्धस्तथैव च। अनुबन्धाः शुभा ज्ञेयाः पीडास्तु परिवर्जयेत्॥ धर्मं विचरतः पीडा सापि द्वाभ्यां नियच्छति। अर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिनः॥ अगर्वितात्मा युक्तश्च सान्त्वयुक्तोऽनसूयिता। अवेक्षितार्थः शुद्धात्मा मन्त्रयीत द्विजैः सह॥ कर्मणा येन केनैव मृदुना दारुणेन च। उद्धरेद् दीनमात्मानं समर्थो धर्ममाचरेत्॥ न संशयमनारुह्य नरो भद्राणि पश्यति। संशयं पुनरारुह्य यदि जीवति पश्यति॥ यस्य बुद्धिः परिभवेत् तमतीतेन सान्त्वयेत्। अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम्॥ योऽरिणा सह संधाय शयीत कृतकृत्यवत्। स वृक्षागे यथा सुप्तः पतितः प्रतिबुध्यते॥ मन्त्रसंवरणे यत्नः सदा कार्योऽनसूयता। आकारमभिरक्षेत चारेणाप्यनुपालितः॥ नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम्। नाहत्वा मत्स्यघातीव प्राणोति महतीं श्रियम्॥ कर्शितं व्याधितं क्लिन्नमपानीयमघासकम्। परिविश्वस्तमन्दं च प्रहर्तव्यमरेबलम्॥ नार्थिकोऽर्थिनमभ्येति कृतार्थे नास्ति संगतम्। तस्मात् सर्वाणि साध्यानि सावशेषाणि कारयेत्॥ संग्रहे विग्रहे चैव यत्नः कार्योऽनसूयता। उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता॥ नास्य कृत्यानि बुध्येरन् मित्राणि रिपवस्तथा। आरब्धान्येव पश्येरन् सुपर्यवसितान्यपि॥ भीतवत् संविधातव्यं यावद् भयमनागतम्। आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत्॥ दण्डेनोपनतं शत्रुमनुगृहणाति यो नरः। स मृत्युमुपगृहणीयाद् गर्भमश्वतरी यथाः॥ अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम्। न तु बुद्धिक्षयात् किंचिदतिक्रामेत् प्रयोजनम्॥ उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता। विभज्य देशकालौ च दैवं धर्मादयस्त्रयः। नैःश्रेयसौ तु तौ ज्ञेयौ देशकालाविति स्थितिः॥ तालवत् कुरुते मूलं बालः शत्रुरुपेक्षितः। गहनेऽग्निरिवोत्सृष्टः क्षिप्रं संजायते महान्॥ अग्निं स्तोकमिवात्मानं संधुक्षयति यो नरः। स वर्धमानो ग्रसते महान्तमपि संचयम्॥ आशां कालवतीं कुर्यात् कालं विघ्नेन योजयेत्। विजं निमित्ततो ब्रूयानिमित्तं वापि हेतुतः॥ क्षुरो भूत्वा हरेत् प्राणान् निशितः कालसाधनः। प्रतिच्छन्नो लोमहारी द्विषतां परिकर्तनः॥ पाण्डवेषु यथान्यायमन्येषु च कुरूद्वह। वर्तमानो न मज्जेस्त्वं तथा कृत्यं समाचर॥ सर्वकल्याणसम्पन्नो विशिष्ट इति निश्चयः। तस्मात् त्वं पाण्डुपुत्रेभ्यो रक्षात्मानं नराधिप।९।। भ्रातृव्या बलिनो यस्मात् पाण्डुपुत्रा नराधिप। पश्चात्तापो यथा न स्यात् तथा नीतिर्विधीयताम्॥ वैशम्पायन उवाच एवमुक्त्वा सम्प्रतस्थे कणिकः सवगृहं ततः। धृतराष्ट्रोऽपि कौरव्यः शोकार्तः समपद्यत॥ धृतराष्ट्र उवाच अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः। शौटीर्यमानी पुत्रो मे किमभाषत संजय॥ अत्यर्थं कोपनो राजा जातवैरश्च पाण्डुषु। व्यसनं परमं प्राप्तः किमाह परमाहवे॥ संजय उवाच शृणु राजन् प्रवक्ष्यामि यथावृत्तं नराधिप। राज्ञा यदुक्तं भग्नेन तस्मिन् व्यसन आगते॥ भग्नसक्थो नृपो राजन् पांसुना सोऽवगुण्ठितः। यमयन् मूर्धजास्तत्र वीक्ष्य चैव दिशो दश॥ केशान् नियम्य यत्नेन निःश्वसनुरगो यथा। संरम्भाश्रुपरीताभ्यां नेत्राभ्यामभिवीक्ष्य माम्॥ बाहू धरण्यां निष्यिष्य सुदुर्मत्त इव द्विपः। प्रकीर्णान् मूर्धजान् धुन्वन् दन्तैर्दन्तानुपस्पृशन्॥ गर्हयन् पाण्डवं ज्येष्ठः निःश्वस्येदमथाब्रवीत्। भीष्मे शान्तनवे नाथे कर्णे शस्त्रभृतां वरे॥ गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे। अश्वत्थाम्न तथा शल्ये शूरे च कृतवर्मणि॥ इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः। समयं हतः। एकादशचमूभर्ता सोऽहमेतां दशां गतः॥ कालं प्राप्य महाबाहो न कश्चिदतिवर्तते। आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति संयुगे॥ यथाहं भीमसेनेन व्युत्क्रम्य बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः॥ भूरिश्रवसि कर्णे च भीष्मे द्रोणे च श्रीमति। इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम्॥ येन ते सत्सु निर्वेदं गमिष्यन्ति हि मे मतिः। का प्रीतिः सत्त्वयुक्तस्य कृत्वोपाधिकृतं जयम्॥ को वा समयभेत्तारं बुधः सम्मन्तुमर्हति। अधर्मेण जयं लब्ध्वा को न हृष्येत पण्डितः॥ यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः। किन्नु चित्रमितस्त्वद्य भग्नसक्थस्य यन्मम॥ क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः। प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु॥ एवं कुर्यान्नरो यो हि स वै संजय पूजितः। अभिज्ञौ युद्धधर्मस्य मम माता पिता च मे॥ तौ हि संजय दुःखार्ती विज्ञाप्यौ वचनाद्धि मे। इष्टं भृत्या भृताः सम्यग् भूः प्रशास्ता ससागरा॥ मूर्ध्नि स्थितममित्राणां जीवतामेव संजय। दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम्॥ अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया। मानिता बान्धवाः सर्वे वश्यः सम्पूजितो जनः॥ त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया। आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः॥ आजानेयैस्तथा यातं को नु स्वन्ततरो मया। यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत्॥ प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया। अधीतं विधिवद् दत्तं प्राप्तमायुर्निरामयम्॥ स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया। दिष्ट्या नाहं जितः संख्ये परान् प्रेष्यवदाश्रितः॥ दिष्ट्या मे विपुला लक्ष्मीप॑ते त्वन्यगता विभो। यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम्॥ निधनं तन्मया प्राप्तं को न स्वन्ततरो मया। दिष्ट्या नाहं परावृत्तो वैरात् प्राकृतवन्जितः॥ दिष्ट्या न विमति कांचिद् भजित्वा तु पराजितः। सुप्तं वाथं प्रमत्तं वा यथा हन्याद् विषेण वा॥ एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः। अश्वत्थामा महाभागः कृतवर्मा च सात्वतः॥ कृपः शारद्वतश्चैव वक्तव्या वचनान्मम। अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः॥ विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ। वार्तिकांश्चाब्रवीद् राजा पुत्रस्ते सत्यविक्रमः॥ अधर्माद् भीमसेनेन निहतोऽहं यथा रणे। सोऽहं द्रोणं स्वर्गगतं कर्णशल्यावुभौ तथा॥ वृषसेनं महावीर्यं शकुनि चापि सौबलम्। जलसंधं महावीर्यं भगदत्तं च पार्थिवम्॥ सोमदत्तं महेष्वासं सैन्धवं च जयद्रथम्। दुःशासनपुरोगांश्च भ्रातृनात्मसमांस्तथा॥ दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ। एतांश्चान्यांश्च सुबहून् मदीयांश्च सहस्रशः॥ पृष्ठतोऽनुगमिष्यामि सार्थहीनो यथाऽध्वगः। कथं भ्रातॄन् हताश्रुत्वा भर्तारं च स्वसा मम॥ रोरूयमाणा दुःखार्ता दुःशला सा भविष्यति। स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम॥ गान्धारीसहितश्चैव कां गतिं प्रतिपत्स्यति। नूनं लक्ष्मणमातापि हतपुत्रा हतेश्वरा॥ विनाशं यास्यति क्षिप्रं कल्याणी पृथलोचना। यदि जानाति चार्वाका परिवाड् वाग्विशारदः॥ करिष्यति महाभागो ध्रुवं चापचितिं मम। समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते॥ अहं निधनमासाद्य लोकान् प्राप्स्यामि शाश्वतान्। ततो जनसहस्राणि बाष्पपूर्णानि मारिष॥ प्रलापं नृपतेः श्रुत्वा व्यद्रवन्त दिशो दश। ससागरवना घोरा पृथिवी सचराचरा॥ चचालाथ सनिर्हादा दिशश्चैवाविलाभवन्। ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन्॥ व्यवहारं गदायुद्धे पार्थिवस्य च पातनम्। तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत। ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम्॥ युधिष्ठिर उवाच श्रुतं प्रियमिदं कृष्ण यत् त्वमर्हसि भाषितुम्। तन्येऽमृतरसं पुण्यं मनो ह्लादयति प्रभो॥ बहूनि किल युद्धानि विजयस्य नराधिपैः। पुनरासन् हृषीकेश तत्र तत्र च मे श्रुतम्॥ किं निमित्तं स नित्यं हि पार्थः सुखविवर्जितः। अतीव विजयो धीमन्निति मे दूयते मनः॥ संचिन्तयामि कौन्तेयं रहो जिष्णुं जनार्दन। अतीव दुःखभागी स सततं पाण्डुनन्दनः॥ किं नु नस्य शरीरेऽस्ति सर्वलक्षणपूजिते। अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते॥ अतीवासुखभोगी स सततं कुन्तिनन्दनः। न हि पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किंचन। श्रोतव्यं चेन्मयै तद् वै तन्मे व्याख्यातुमर्हसि॥ इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदुत्तरम्। राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत्॥ न ह्यस्य नृपते किंचित् संश्लिष्टमुपलक्षये। ऋते पुरुषसिंहस्य पिण्डिकेऽस्याधिके यतः॥ स ताभ्यां पुरुषव्याघ्रो नित्यमध्वसु वर्तते। न चान्यदनुपश्यामि येनासौ दुःखभाजनम्॥ इत्युक्तः पुरुषश्रेष्ठस्तदा कृष्णेन धीमता। प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो॥ कृष्णा तु द्रौपदी कृष्णं तिर्यक् सासूयमैक्षत। प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा॥ सख्युः सखा हृषीकेशः साक्षादिव धनंजयः। तत्र भीमादयस्ते तु कुरवो याजकाश्च ये॥ रेमुः श्रुत्वा विचित्रां तां धनंजयकथं शुभाम्। तेषां कथयतामेव पुरुषोऽर्जुनसंकथाः॥ उपायाद् वचनाद् दूतो विजयस्य महात्मनः। सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान्॥ उपायातं नरव्याघ्रं फाल्गुनं प्रत्यवेदयत्। तच्छुत्वा नृपतिस्तस्य हर्षबाध्याकुलेक्षणः॥ प्रियाख्याननिमित्तं वै ददौ बहुधनं तदा। ततो द्वितीये दिवसे महाशब्दो व्यवर्धत॥ आगच्छति नरव्याघ्ने कौरवाणां धुरंधरे। ततो रेणुः समुद्भूतो विवभौ तस्य वाजिनः॥ अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा। तत्र हर्षकरी वाचो नराणां शुश्रुवेऽर्जुनः॥ दिष्ट्यासि पार्थकुशली धन्यो राजा युधिष्ठिरः। कोऽन्यो हि पृथिवीं कृत्स्ना जित्वा हि युधि पार्थिवान्। चारयित्वा हयश्रेष्ठमुपागच्छेदृतेऽर्जुनात्। ये व्यतीता महात्मानो राजानः सगरादयः॥ तेषामपीदृशं कर्म न कदाचन शुश्रुम। नैतदन्ये करिष्यन्ति भविष्या वसुधाधिपाः॥ यत् त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानसि। इत्येवं वदतां तेषां पुंसां कर्णसुखा गिरः॥ शृण्वन् विवेश धर्मात्मा फाल्गुनो यज्ञसंस्तरम्। ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः॥ धृतराष्ट्र पुरस्कृत्य तं प्रत्युद्ययतुस्तदा। सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः॥ भीमादींश्चापि सम्पूज्य पर्यध्वजत केशवम्। तैः समेत्यार्चितस्तांश्च प्रत्याथ यथा विधि॥ विशश्चाम महाबाहुस्तीरं लब्वेव पारगः। एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः॥ मातृभ्यां सहितो धीमान् कुरूनेव जगाम ह। तत्र वृद्धान् यथावत् स कुरूनन्यांश्च पार्थिवान्॥ अभिवाद्य महाबाहुस्तैश्चापि प्रतिनन्दितः। प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम्॥ वैशम्पायन उवाच यथागतं गते शक्रे भ्रातृभिः सह सङ्गतः। कृष्णया चैव बीभत्सुर्धर्मपुत्रमपूजयत्॥ अभिवादयमानं तं मूर्युपाघ्राय पाण्डवम्। हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत्॥ कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव। कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः॥ सम्यग् वा ते गृहीतानि कच्चिदस्त्राणि पाण्डव। कच्चित् सुराधिपः प्रीतो रुद्रो वास्त्राण्यदाद् तव॥ यथा दृष्टश्च ते शक्रो भगवान् वा पिनाकधृक्। यथैवास्त्राण्यवाप्तानि यथैवाराधितश्च ते॥ यथोक्तवांस्त्वां भगवान् शतक्रतुररिंदम। कृतप्रियस्त्वयास्मीति तस्य ते किं प्रियं कृतम्॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते। यथा तुष्टो महादेवो देवराजस्तथानघ॥ यच्चापि वज्रपाणेस्तु प्रियं कृतमरिंदम। एतदाख्याहि मे सर्वमखिलेनधनंजय॥ अर्जुन उवाच शृणु हन्त महाराज विधिना येन दृष्टवान्। शतक्रतुमहं देवं भगवन्तं च शङ्करम्॥ विद्यामधीत्य तां राजस्त्वयोक्तामरिमर्दन। भवता च समादिष्टस्तपसे प्रस्थितो वनम्॥ भृगुतुङ्गमथो गत्वा काम्यकादास्थितस्तपः। एकरात्रोषितः कञ्चिदपश्यं ब्राह्मणं पथि॥ स मामपृच्छत् कौन्तेय क्वासि गन्ता ब्रवीहि मे। तस्मा अवितथं सर्वमब्रुवं कुरुनन्दन॥ स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम। अपूजयत मां राजन् प्रीतिमांश्चाभवन्मयि॥ ततो मामब्रवीत् प्रीतस्तप आतिष्ठ भारत। तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम्॥ ततोऽहं वचनात् तस्य गिरिमारुह्य शैशिरम्। तपोऽतप्यं महाराज मासं मूलफलाशनः॥ द्वितीयश्चापि मे मासो जलं भक्षयतो गतः। निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन॥ अर्श्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा। न च मे हीयते प्राणस्तदद्भुतमिवाभवत्॥ पञ्चमे त्वथ सम्प्राप्ते प्रथमे दिवसे गते। वराहसंस्थितं भूतं मत्समीपं समागमत्॥ निघ्नन् प्रोथेन पृथिवीं विलिखंचरणैरपि। सम्मार्जञ्जठरेणोर्वी विवर्तश्च मुहुर्मुहुः॥ अनु तस्यापरं भूतं महत् कैरातसंस्थितम्। धनुर्बाणासिमत् प्राप्तं स्त्रीगणानुगतं तदा॥ ततोऽहंधनुरादाय तथाक्षय्ये महेषुधी। अताडयं शरेणाथ तद् भूतं लोमहर्षणम्॥ युगपत् तं किरातस्तु विकृष्य बलवद्धनुः। अभ्याजने दृढतरं कम्पयत्रिव मे मनः॥ स तु मामब्रवीद् राजन् मम पूर्वपरिग्रहः। मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया॥ एष ते निशितैर्बाणैर्दप॑ हन्मि स्थिरो भव। सधनुष्मान् महाकायस्ततो मामभ्यभाषत॥ ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः। तं चाहं शरवर्षेण महता समवाकिरम्॥ ततः शरैर्दीप्तमुखैर्यन्त्रितैरनुमन्त्रितैः। प्रत्यविध्यमहं तं तु वजैरिव शिलोच्चयम्॥ तस्य तच्छतधा रूपमभवच्च सहस्रधा। तानि चास्य शरीराणि शरैरहमताडयम्॥ पुनस्तानि शरीराणि एकीभूतानि भारत। अदृश्यन्त महाराज तान्यहं व्यधमं पुनः॥ अणुवृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः। एकीभूतस्तदा राजन् सोऽभ्यवर्तत मां युधि॥ यदाभिभवितुं बाणैर्न च शक्नोमि तं रणे। ततो महास्त्रमातिष्ठं वायव्यं भरतर्षभ॥ न चैनमशकं हन्तुं तदद्भुतमिवाभवत्। तस्मिन् प्रतिहते चास्त्रे विस्मयो मे महानभूत्॥ भूय एव महाराज सविशेषमहं ततः। अस्त्रपूगेन महता रणे भूतमवाकिरम्॥ स्थूणाकर्णभयो जालं शरवर्षमथोल्बणम्। शलभास्त्रमश्मवर्ष समास्थायाहमभ्ययाम्॥ जग्रास प्रसभं तानि सर्वाण्यस्त्राणि मे नृप। तेषु सर्वेषु जग्धेषु ब्रह्मास्त्रं महदादिशम्॥ ततः प्रज्वलितैर्बाणैः सर्वतः सोपचीयते। उपचीयमानश्च मया महास्त्रेण व्यवर्धत।॥ तत: संतापिता लोका मत्प्रसूतेन तेजसा। क्षणेन हि दिशः खं च सर्वतो हि विदीपितम्॥ तदप्यस्त्रं महातेजाः क्षणेनैव व्यशातयत्। ब्रह्मास्त्रे तु हते राजन् भयं मां महदाविशत्॥ ततोऽहंधनुरादाय तथाक्षय्ये महेषुधी। सहसाभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत्॥ हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेषु च। मम तस्य च भूतस्य बाहुयुद्धमवर्तत॥ व्यायाम मुष्टिभिः कृत्वा तलैरपि समागतैः। अपारयंश्च तद् भूतं निश्चेष्टमगमं महीम्॥ ततः प्रहस्य तद् भूतं तत्रैवान्तरधीयत। सह स्त्रीभिर्महाराज पश्यतो मेऽद्धृतोपमम्॥ एवं कृत्वा स भगवांस्ततोऽन्यद् रूपमास्थितः। दिव्यमेव महाराज वसानोऽद्भुतमम्बरम्॥ हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः। स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः॥ अदृश्यत ततः साक्षाद् भगवान् गोवृषध्वजः। उमासहायो व्यालधृग् बहुरूपः पिनाकधूक्॥ स मामभ्येत्य समरे तथैवाभिमुखं स्थितम्। शूलपाणिरथोवाच तुष्टोऽस्मीति परंतप॥ ततस्तद्धनुरादाय तूणौ चाक्षय्यसायको। प्रादान्ममैव भगवान्धारयस्वेति चाव्रवीत्॥ तुष्टोऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते। यत् ते मनोगतं वीर तद् ब्रूहि वितराम्यहम्॥ अमरत्वमपाहाय ब्रूहि यत् ते मनोगतम्। ततः प्राञ्जलिरेदाहमस्त्रेषु गतमानसः॥ प्रणम्य मनसा शर्वं ततो वचनमाददे। भगवान् मे प्रसन्नश्चेदीप्सितोऽयं वरो मम॥ अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित्। ददानीत्येव भगवानब्रवीत् त्र्यम्बकश्च माम्॥ रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव। प्रददौ च मम प्रीत: सोऽस्त्रं पाशुपतं महत्॥ उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम्। न प्रयोज्यं भवेदेतन्मानुषेषु कथञ्चन॥ जगद् विनिर्दहेदेवमल्पतेजसि पातितम्। पीड्यमानेन बलवत् प्रयोज्यं स्याद्धनंजय॥ अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेत्। तदप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम्॥ मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे। उत्सादनममित्राणां परसेनानिकर्तनम्॥ दुरासदं दुष्प्रसह सुरदानवराक्षसैः। अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम्॥ प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीयत॥ वैशम्पायन उवाच श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि। प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम्॥ प्रसमीक्ष्य भवानेतद् वक्तुमर्हति केशव। मामेव हि विशेषेण विभाष्य परिगर्हसे॥ भक्तिवादेन पार्थानामकस्मान्मधुसूदन। भवान् गर्हयते नित्यं किं समीक्ष्य बलाबलम्॥ भवान् क्षत्ता च वाप्याचार्यो वा पितामहः। मामेव परिगर्हन्ते नान्यं कंचन पार्थिवम्॥ न चाहं लक्षये कंचिद् व्यभिचारमिहात्मनः। अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः॥ न चाहं कंचिदत्यर्थमपराधमरिंदम। विचिन्तयन् प्रपश्यामि सुसूक्ष्ममपि केशव॥ प्रियाभ्युपगते द्यूते पाण्डवा मधुसूदन। जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम्॥ यत् पुनर्रविणं किंचित् तत्राजीयन्त पाण्डवाः। तेभ्य एवाभ्यनुज्ञातं तत् तदा मधुसूदन॥ अपराधो न चास्माकं यत् ते द्यूते पराजिताः। अजेया जयतां श्रेष्ठ पार्थाः प्रताजिता वनम्॥ केन वाप्यपराधेन विरुद्ध्यन्त्यरिभिः सह। अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत्॥ किमस्माभिः कृतं तेषां कस्मिन् वा पुनरागसि। धार्तराष्ट्रान् जिघांसन्ति पाण्डवाः संजयैः सह॥ न चापि वयमुग्रेण कर्मणा वचनेन वा। प्रभ्रष्टाः प्रणमामेह भयादपि शतक्रतुम्॥ न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम्। उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण॥ न हि भीष्मकृपद्रोणाः सकर्णा मधुसूदन। देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः॥ स्वधर्ममनुपश्यन्तो यदि माधव संयुगे। अस्त्रेण निधनं काले प्राप्स्यामः स्वर्ग्यमेव तत्॥ मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन। यच्छयीमहि संग्रामे शरतल्पगता वयम्॥ ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे। अप्रणम्यैव शत्रूणां न नस्तप्स्यन्ति माधव॥ कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन्। भयाद् वृत्तिं समीक्ष्यैवं प्रणमेदिह कर्हिचित्॥ उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्। अप्यपर्वणि भज्येत न नमेदिह कर्हिचित्॥ इति मातङ्गवचनं परीप्सन्ति हितेप्सवः। धर्माय चैव प्रणमेद् ब्राह्मणेभ्यश्च मद्विधः॥ अचिन्तयन् कंचिदन्यं यावज्जीवं तथाऽऽचरेत्। एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा॥ राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराभवत्। न स लभ्यः पुनर्जातु मयि जीवति केशव॥ यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन। न्यस्तशस्त्रा वयं ते वाप्युपजीवाम माधव। अप्रदेयं पुरा दत्तं राज्यं परवतो मम॥ अज्ञानाद् वा भयाद्वापि मयि बाले जनार्दन। न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन।॥ ध्रियमाणे महाबाहौ मयि सम्प्रति केशव। तावदप्यपरित्याज्यं भूमेनः पाण्डवान् प्रति॥ युधिष्ठिर उवाच प्रायशो राजलोकस्ते कथितो वदतां वर। वैवस्वतसभायां तु यथा वदसि मे प्रभो॥ वरुणस्य सभायां तु नागास्ते कथिता विभो। दैत्येन्द्राश्चापि भूयिष्ठाः सरितः सागरास्तथा॥ तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा। गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः॥ पितामहसभायां तु कथितास्ते महर्षयः। सर्वे देवनिकायाश्च सर्वशास्त्राणि चैव ह॥ शक्रस्य तु सभायां तु देवाः संकीर्तिता मुने। उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः॥ एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने। कथितस्ते सभायां वै देवेन्द्रस्य महात्मनः॥ किं कर्म तेनाचरितं तपो वा नियतव्रतः। येनासौ सह शक्रेण स्पर्द्धते सुमहायशाः॥ पितृलोकगतश्चैव त्वया विप्र पिता मम। दृष्टः पाण्डुर्महाभागः कथं वापि समागतः॥ किमुक्तवांश्च भगवंस्तन्ममाचक्ष्व सुव्रतः। त्वत्तः श्रोतुं सर्वमिदं परं कौतूहलं हि मे॥ नारद उवाच यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो। तत् तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः॥ (इक्ष्वाकूणां कुले जातस्त्रिशङ्कुर्नाम पार्थिवः। अयोध्याधिपतिर्वीरो विश्वामित्रेण संस्थितः।। तस्य सत्यवती नाम पत्नी केकयवंशजा। तस्यां गर्भः समभवद् धर्मेण कुरुनन्दन॥ सा च काले महाभागा जन्ममासं प्रविश्य वै। कुमारं जनयामास हरिश्चन्द्रमकल्मषम्॥ वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः।) स राजा बलवानासीत् सम्राट् सर्वमहीक्षिताम्। तस्य सर्वे महीपालाः शासनावनताः स्थिताः॥ तेनैकं रथमास्थाय जैत्रं हेमविभूषितम्। शस्त्रप्रतापेन जिता द्वीपाः सप्त जनेश्वर॥ स निर्जित्यमहीं कृत्स्ना सशैलवनकाननाम्। आजहार महाराज राजसूयं महाक्रतुम्॥ तस्य सर्वे महीपाला धनान्याजह्वराज्ञया। द्विजानां परिवेष्टारस्तस्मिन् यज्ञे च तेऽभवन्॥ प्रादाच्च द्रविणं प्रीत्या याचकानां नरेश्वरः। यथोक्तवन्तस्ते तस्मिंस्ततः पञ्चगुणाधिकम्॥ अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तदा। प्रसर्पकाले सम्प्राप्ते नानादिग्भ्यः समागतान्॥ भक्ष्यभोज्यैश्च विविधैर्यथाकामपुरस्कृतैः। रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम्। तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत्॥ एतस्मात् कारणाद् राजन् हरिश्चन्द्रो विराजते। तेभ्यो राजसहस्रेभ्यस्तद् विद्धि भरतर्षभा॥ समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान्। अभिषिक्तश्च शुशुभे साम्राज्येन नराधिप॥ ये चान्ये च महीपाला राजसूयं महाक्रतुम्। यजन्ते ते सहेन्द्रेण मोदन्ते भरतर्षभ।॥ ये चापि निधनं प्राप्ताः संग्रामेष्वपलायिनः। ते तत् सदनमासाद्य मोदन्ते भरतर्षभ॥ ते तपसा ये च तीव्रण त्यजन्तीह कलेवरम्। तत् स्थानं समासाद्य श्रीमन्तो भान्ति नित्यशः॥२२ पिता च त्वाऽऽह कौन्तेय पाण्डुः कौरवनन्दन। हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः॥ विज्ञाय मानुषं लोकमायान्तं मां नराधिप। प्रोवाच प्रणतो भूत्वा वदेथास्त्वं युधिष्ठिरम्॥ समर्थोऽसि महीं जेतुं भ्रातरस्ते स्थिता वशे। राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत॥ त्वयीष्टवति पुत्रेऽहं हरिश्चन्द्रवदाशु वै। मोदिष्ये बहुलाः शश्वत् समाः शक्रस्य संसदि॥ एवं भवतु वक्ष्येऽहं तव पुत्रं नराधिपम्। भूलोकं यदि गच्छेयमिति पाण्डुमथाब्रवम्॥ पुरुषव्याघ्र संकल्पं कुरु पाण्डव। गन्तासि त्वं महेन्द्रस्य पूर्वैः सह सलोकताम्॥ तस्य त्वं बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान्। छिद्राण्यस्य तु वाञ्छन्ति यज्ञना ब्रह्मराक्षसाः॥ युद्धं च क्षत्रशमनं पृथिवीक्षयकारणम्। किंचिदेव निमित्तं च भवत्यत्र क्षयावहम्॥ एतत् संचिन्त्य राजेन्द्र यत् क्षेमं तत् समाचर। अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे॥ भव एधस्व मोदस्व धनैस्तर्पय च द्विजान्। एतत् ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि। आपृच्छे त्वां गमिष्यामि दाशार्हनगरी प्रति॥ वैशम्पायन उवाच एवमाख्याय पार्थेभ्यो नारदो जनमेजय। जगाम तैर्वृतो राजनृषिभिर्यैः समागतः॥ गते तु नारदे पार्थो भ्रातृभिः सह कौरवः। राजसूयं क्रतुश्रेष्ठं चिन्तयामास पार्थिवः॥ युधिष्ठिर उवाच के भोज्या ब्राह्मणस्येह के भोज्याः क्षत्रियस्य ह। तथा वैश्यस्य के भोज्याः के शूद्रस्य च भारत॥ भीष्म उवाच ब्राह्मणा ब्राह्मणस्येह भोज्या ये चैव क्षत्रियाः। वैश्याश्चापि तथा भोज्याः शूद्राश्च परिवर्जिताः॥ ब्राह्मणाः क्षत्रिया वैश्या भोज्या वै क्षत्रियस्य ह। वर्जनीयास्तु वै शूद्राः सर्वभक्षा विकर्मिणः॥ वैश्यास्तु भोज्या विप्राणां क्षत्रियाणां तथैव च। नित्याग्नयो विविक्ताश्च चातुर्मास्यरताश्च ये॥ शूद्राणामथ यो भुङ्क्ते स भुङ्क्ते पृथिवीमलम्। मलं नृणां स पिबति मलं भुङ्क्ते जनस्य च॥ शूद्राणां यस्तथा भुक्ते स भुङ्क्ते पृथिवीमलम्। पृथिवीमलमश्नन्ति ये द्विजाः शूद्रभोजिनः॥ शूद्रस्य कर्मनिष्ठायां विकर्मस्थोऽपि पच्यते। ब्राह्मणः क्षत्रियो वैश्यो विकर्मस्थश्च पच्यते॥ स्वाध्यायनिरता विप्रास्तथा स्वस्त्ययने नृणाम्। रक्षणे क्षत्रियं प्राहुर्वैश्यं पृष्ट्यर्थमेव च॥ करोति कर्म यद् वैश्यस्तद् गत्वा ह्युपजीवति। कृषिगोरक्ष्यवाणिज्यमकुत्सा वैश्यकर्माणि॥ शूद्रकर्म तु यः कुर्यादवहाय स्वकर्म च। स विज्ञेयो यथा शूद्रो न च भोज्य: कदाचन।॥ चिकित्सकः काण्डपृष्ठः पुराध्यक्षः पुरोहितः। सांवत्सरो वृथाध्यायी सर्वे ते शूद्रसम्मिताः॥ शूद्रकर्मस्वथैतेषु यो भुङ्क्ते निरपत्रपः। अभोज्यभोजनं भुक्त्वा भयं प्राप्नोति दारुणम्॥ कुलं वीर्यं च तेजश्च तिर्यग्योनित्वमेव च। स प्रयाति यथा श्वा वै निष्क्रियो धर्मवर्जितः॥ भुक्त चिकित्सकस्यान्नं तदनं च पुरीषवत्। पुंश्चल्यन्नं च मूत्रं स्यात् कारुकानं च शोणितम्॥१४ विद्योपजीविनोऽन्नं च यो भुङ्क्ते साधुसम्मतः। तदप्यन्नं यथा शौद्रं तत् साधुः परिवर्जयेत्॥ विचनीयस्य यो भुङ्क्ते तमाहुः शोणितं ह्रदम्। पिशुनं भोजनं भुङ्क्ते ब्रह्महत्यासमं विदुः॥ असत्कृतमवज्ञातं च भोक्तव्यं कदाचन॥ व्याधि कुलक्षयं चैव क्षिप्रं प्राप्नोति ब्राह्मणः। नगरीरक्षिणो भुङ्क्ते श्वपचप्रवणो भवेत्॥ गोने च ब्राह्मणध्ने च सुरापे गुरुतल्पगे। भुक्त्वान्नं जायते विप्रो रक्षसां कुलवर्धनः॥ न्यासापहारिणो भुक्त्वा कृतने क्लीववर्तिनि। जायते शबरावासे मध्यदेशबहिष्कृते॥ अभोज्याश्चैव भोज्याश्च मया प्रोक्ता यथाविधि। किमन्यदद्य कौन्तेय मत्तस्त्वं श्रोतुमिच्छसि॥ अभोज्याश्चैव भोज्याश्च मया प्रोक्ता यथाविधि। किमन्यदद्य कौन्तेय मत्तस्त्वं श्रोतुमिच्छसि॥ युधिष्ठिर उवाच श्रुतं मे महदाख्यानमेतत् कुरुकुलोद्वह। सुदुष्प्रापं यद् ब्रवीषि ब्राह्मण्यं वदतां वरा॥ विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तमित्युत। श्रूयते वदसे तच्च दुष्प्रापमिति सत्तम॥ वीतहव्यश्च नृपतिः श्रुतो मे विप्रतां गतः। तदेव तावद् गाङ्गेय श्रोतुमिच्छाम्यहं विभो॥ सकेन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तमः। वरेण तपसा वापि तन्मे व्याख्यातुमर्हसि॥ भीष्म उवाच शृणु राजन् यथा राजा वीतहव्यो महायशाः। राजर्षिर्दुर्लभं प्राप्तो ब्राह्मण्यं लोकसत्कृतम्॥ मनोर्महात्मनस्तात प्रजा धर्मेण शासतः। बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः॥ तस्यान्ववाये द्वौ राजन् राजानौ सम्वभूवतुः। हैहयस्तालजंघश्च वत्सस्य जयतां वर॥ हैहयस्य तु राजेन्द्र दशसु स्त्रीषु भारत। शतं बभूव पुत्राणां शूराणामनिवर्तिनाम्॥ तुल्यरूपप्रभावाणां बलिनां युद्धशालिनाम्। धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः॥ काशिष्वपि नृपो राजन् दिवोदासपितामहः। हर्यश्व इति विख्यातो बभूव जयतां वरः॥ स वीतहव्यदायादैरागत्य पुरुषर्षभ। गङ्गायमुनयोर्मध्ये संग्रामे विनिपातितः॥ तं तु हत्वा नरपति हैहयास्ते महारथाः। प्रतिजग्मुः पुरी रम्यां वत्सानामकुतोभया:॥ हर्यश्वस्य च दायादः काशिराजोऽभ्यषिच्यता सुदेवो देवसंकाशः साक्षाद् धर्म इवापरः॥ स पालयामास महीं धर्मात्मा काशिनन्दनः। तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः॥ तमथाजौ विनिर्जित्य प्रतिजग्मुर्यथागतम्। सौदेवस्त्वथ काशीशो दिवोदासोऽभ्यषिच्यत॥ दिवोदासस्तु विज्ञाय वीर्यं तेषां यतात्मनाम्। वाराणसी महातेजा निर्ममे शक्रशासनात्॥ विप्रक्षत्रियसम्बाधां वैश्यशूद्रसमाकुलाम्। नैकद्रव्योच्चयवती समृद्धविपणापणाम्॥ गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तमा गोमत्या दक्षिणे कूले शक्रस्येवामरावतीम्॥ तत्र तं राजशार्दूलं निवसन्तं महीपतिम्। आगत्य हैहया भूयः पर्थधावन्त भारत॥ स निष्क्रम्य ददौ युद्धं तेभ्यो राजा महाबलः। देवासुरसमं घोरं दिवोदासो महाद्युतिः॥ स तु युद्धे महाराज दिनानां दशतीर्दश। हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत्॥ हतयोधस्ततो राजन् क्षीणकोशश्च भूमिपः। दिवोदासः पुरीं त्यक्त्वा पलायनपरोऽभवत्॥ गत्वाऽऽश्रमपदं रम्यं भरद्वाजस्य धीमतः। जगाम शरणं राजा कृताञ्जलिररिन्दम॥ तमुवाच भरद्वाजो ज्येष्ठः पुत्रो बृहस्पतेः। पुरोधाः शीलसम्पन्नो दिवोदासं महीपतिम्॥ किमागमनकृत्यं ते सर्वे प्रब्रूहि मे नृप। यत् ते प्रिय तत् करिष्ये न मेऽत्रास्ति विचारणा।।२५ राजोवाच भगवन् वैतहव्यैर्मे युद्धे वंशः प्रणाशितः। अहमेकः परियूनो भवन्तं शरणं गतः॥ शिष्यस्नेहेन भगवंस्त्वं मां रक्षितुमर्हसि। एकशेषः कृतो वंशो मम तैः पापकर्मभिः॥ भीष्म उवाच तमुवाच महाभागो भरद्वाजः प्रतापवान्। न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम्॥ अहमिष्टिं करिष्यामि पुत्रार्थं ते विशाम्पते। वीतहव्यसहस्राणि येन त्वं प्रहरिष्यसि॥ तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम्। अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः॥ स जातमात्रो ववृधे समाः सद्यस्त्रयोदश। वेदं चापि जगौ कृत्स्नं धनुर्वेदं च भारत॥ योगेन च समाविष्टो भरद्वाजेन धीमता। तेजो लोक्यं स संगृह्य तस्मिन् देशे समाविशत्॥३२ तत: स कवची धन्वी स्तूयमानः सुरर्षिभिः। वन्दिभिर्वन्द्यमानश्च बभौ सूर्य इवोदितः॥ स रथी बद्धनिस्त्रिंशो बभौ दीप्त इवानलः। प्रययौ स धनुर्छन्वन् खड्गी चर्मी शरासनी॥ तं दृष्ट्वा परमं हर्षे सुदेवतनयो ययौ। मेने च मनसा दग्धान् वैतहव्यान् स पार्थिवः॥ ततोऽसौ यौवराज्ये च स्थापयित्वा प्रतर्दनम्। कृतकृत्यं तदाऽऽत्मानं स राजा अभ्यनन्दत॥ ततस्तु वैतहव्यानां वधाय स महीपतिः। पुत्रं प्रस्थापयामास प्रतर्दनमरिंदमम्॥ सरथः स तु संतीर्य गङ्गामाशु पराक्रमी। प्रययौ वीतहव्यानां पुरी परपुरंजयः॥ वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम्। निर्ययुर्नगराकारै रथैः पररथारुजैः॥ निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः। प्रतर्दनं समाजग्मुः शरवर्षेरुदायुधाः॥ शस्त्रैश्च विविधाकारै रथौरैच युधिष्ठिर। अभ्यवर्षन्त राजानं हिमवन्तमिवाम्बुदाः॥ अस्त्रैरस्त्राणि संवार्य तेषां राजा प्रतर्दनः। जघान तान् महातेजा वज्रानलसमैः शरैः॥ कृत्तोत्तमाङ्गास्ते राजन् भल्लैः शतसहस्रशः। अपतन् रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः॥ हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथा प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत॥ ययौ भृगुं च शरणं वीतहव्यो नराधिपः। अभयं च ददौ तस्मै राज्ञे राजन् भृगुस्तदा॥ अथानुपदमेवाशु तत्रागच्छत् प्रतर्दनः। स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत्॥ भो भो केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः। द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति॥ स तं विदित्वा तु भृगुनिश्चक्रामाश्रमात् तदा। पूजयामास च ततो विधिना नृपसत्तमम्॥ उवाच चैन राजेन्द्र किं कार्यं ब्रूहि पार्थिव। स चोवाच नृपस्तस्मै यदागमनकारणम्॥ राजोवाच अयं ब्रह्मन्नितो राजा वीतहव्यो विसर्ग्यताम्। तस्य पुत्रैर्हि मे कृत्स्नो ब्रह्मन् वंशःप्रणाशितः॥ उत्सादितश्च विषयः काशीनां रत्नसंचयः। एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया॥ अस्येदानी वधादद्य भविष्याम्यनृणः पितुः। तमुवाच कृपाविष्टो भृगुर्धर्मभृतां वरः॥ नेहास्ति क्षत्रियः कश्चित् सर्वे हीमे द्विजातयः। एतत् तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः॥ पादावुपस्पृश्य शनैः प्रहृष्टो वाक्यमब्रवीत्। एवमप्यस्मि भगवन् कृतकृत्या न संशयः॥ य एष राजा वीर्येण स्वजातिं त्याजितो मया। अनुजानीहि मां ब्रह्मन् ध्यायस्व च शिवेन माम्।।५५ त्याजितो हि मया जातिमेष राजा भृगूद्वह। ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः॥ यथागतं महाराज मुक्त्वा विषमिवोरगः। भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः॥ वीतहव्यो महाराज ब्रह्मवादित्वमेव च। तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः॥ शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत्। ऋग्वेदे वर्तते चाग्र्या श्रुतिर्यस्य महात्मनः॥ यत्र गृत्समदो राजन् ब्राह्मणैः स महीयते। स ब्रह्मचारी विप्रर्षिः श्रीमान् गृत्समदोऽभवत्॥ पुत्रो गृत्समदस्यापि सुचेता अभवद् द्विजः। वर्चाः सुतेजसः पुत्रो विहव्यस्तस्य चात्मजः॥ विहव्यस्य तु पुत्रस्तु वितत्यस्तस्य चात्मजः। वितत्यस्य सुतः सत्यः संतः सत्यस्य चात्मजः॥ श्रवास्तस्य सुतश्चर्षिः श्रवसश्चाभवत् तमः। तमसश्च प्रकाशोऽभूत् तनयो द्विजसत्तमः। प्रकाशस्य च वागिन्द्रो बभूव जयतां वरः॥ तस्यात्मजश्च प्रमितिर्वेदवेदाङ्गपारगः। घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत॥ प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत। शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः॥ एवं विप्रत्वमगमद् वीतहव्यो नराधिपः। भृगोः प्रसादाद् राजेन्द्र क्षत्रियः क्षत्रियर्षभ॥ तथैव कथितो वंशो मया गार्समदस्तव। विस्तरेण महाराज किमन्यदनुपृच्छसि॥ धृतराष्ट्र उवाच तस्मिन् विनिहते वीरे सैन्धवे सव्यसाचिना। मामका यदकुर्वन्त तन्ममाचक्ष्व संजय॥ संजय उवाच सैन्धवं निहतं दृष्ट्वा रणे पार्थेन भारत। अमर्षवशमापन्न: कृपः शारद्वतस्ततः॥ महता शरवर्षेण पाण्डवं समवाकिरत्। द्रौणिश्चाभ्यद्रवद् राजन् रथमास्थाय फाल्गुनम्॥ तावेतौ रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमौ। उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम्॥ स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः। पीड्यमानः परामार्तिमगमद् रथिनां वरः॥ सोऽजिघांसुर्मुरं संख्ये गुरोस्तनयमवे च। चकाराचार्यकं तत्र कुन्तीपुत्रो धनंजयः॥ अस्त्रैरस्त्राणि संवार्य द्रौणे: शारद्वतस्य च। मन्दवेगानिपूंस्ताभ्यामजिघांसुरवासृजत्॥ ते चापि भृशमभ्यघ्नन् विशिखा: पार्थचोदिताः। बहुत्वात् तु परामाति शराणां तावगच्छताम्॥ अथ शारद्वतो राजन् कौन्तेयशरपीडितः। अवासीदद् रथोपस्थे मूर्छामभिजगाम ह॥ विह्वलं तमभिज्ञाय भर्तारं शरपीडितम्। हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत्॥ तस्मिन् भग्ने महाराज कृपे शारद्वते युधि। अश्वत्थामाप्यपायासीत् पाण्डवेयाद् स्थान्तरम्॥ दृष्ट्वा शारद्वतं पार्थो मूच्छितं शरपीडितम्। रथ एव महेष्वासः सकृपं पर्यदेवयत्॥ अश्रुपूर्णमुखो दीनो वचनं चेदमब्रवीत्। पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान्॥ कुलान्तकरणे पापे जातमात्रे सुयोधने। नीयतां परलोकाय साध्वयं कुलपांसनः॥ अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम्। तदिदं समनुप्राप्तं वचनं सत्यवादिनः॥ तत्कृते ह्यद्य पश्यामि शरतल्पगतं गुरुम्। धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम्॥ को हि ब्राह्मणमाचार्यमभिदुह्येत मादृशः। ऋषिपुत्रो ममाचार्यो द्रोणस्य परमः सखा।॥ एष शेते रथोपस्थे कृपो मद्बाणपीडितः। अकामयानेन मया विशिखैरर्दितो भृशम्॥ अवसीदन् रथोपस्थे प्राणान् पीडयतीव मे। पुत्रशोकाभितप्तेन शरैरभ्यर्दितेन च॥ अभ्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै। शोचयत्येष नियत्तं भूयः पुत्रवधाद्धि माम्॥ कृपणं स्वरथे सन्नं पश्य कृष्ण यथागतम्। उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः॥ प्रयच्छन्तीह ये कामान् देवत्वमुपयान्ति ते। ये च विद्यामुपादाय गुरुभ्यः पुरुषाधमाः॥ प्रन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः। तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम्॥ आचार्य शरवर्षेण रथे सादयता कृपम्। यत् तत् पूर्वमुपाकुर्वन्नत्रं मामब्रवीत् कृपः॥ न कथंचन कौरव्य प्रहर्तव्यं गुराविति। तदिदं वचनं साधोराचार्यस्य महात्मनः॥ नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता। नमस्तस्मै सुपूज्याय गौतमायापलायिने॥ धिगस्तु मम वार्ष्णेय यदस्मै प्रहराम्यहम्। तथा विलयमाने तु सव्यसाचिनि तं प्रति॥ सैन्धवं निहितं दृष्ट्वा राधेयः समुपाद्रवत्। तमापतन्तं राधेयमर्जुनस्य रथं प्रति॥ पाञ्चाल्यौ सात्यकिश्चैव सहसा समुपाद्रवन्। उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः॥ प्रहसन् देवकीपुत्रमिदं वचनमब्रवीत्। एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति॥ न मृष्यति हतं नूनं भूरिश्रवसमाहवे। यत्र यात्येष तत्र त्वं चोदयाश्वान् जनार्दन॥ न सौमदत्तिपदवीं गमयेत् सात्यकिं वृषः। एवमुक्तो महाबाहुः केशवः सव्यसाचिना॥ प्रत्युवाच महातेजाः कालयुक्तमिदं वचः। अलमेष महाबाहुः कर्णायैकोऽपि पाण्डव।॥ किं पुनद्रौपदेयाभ्यां सहितः सात्वतर्षभः। न च तावत् क्षमः पार्थ तव कर्णेन सङ्गरः॥ प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी। त्वदर्थे पूज्यमानैषा रक्ष्यते परवीरहन्॥ अतः कर्णः प्रयात्वत्र सात्वतस्य यथातथा। अहं ज्ञास्यामि कौन्तेय कालमस्य दुरात्मनः। यत्रैनं विशिखैस्तीक्ष्णैः पातयिष्यसि भूतले॥ धृतराष्ट्र उवाच योऽसौ कर्णेन वीरस्य वार्ष्णेयस्य समागमः। हते तु भूरिश्रवसि सैन्धवे च निपातिते॥ सात्यकिश्चापि विरथः कं समारूढवान् रथम्। चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व संजय॥ संजय उवाच हन्त ते वर्तयिष्यामि यथा वृत्तं महारणे। शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः॥ पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो। विजेतव्यो यथा वीरः सात्यकिः सौमदत्तिना॥ अतीतानागते राजन् स हि वेत्ति जनार्दनः। ततः सूतं समाहूय दारुकं संदिदेश ह॥ रथो मे युज्यतां कल्यमिति राजन् महाबलः। न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः॥ मानवा वापि जेतारः कृष्णयोः सन्ति केचन। पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः॥ तयोः : प्रभावमतुलं शृणु युद्धं तु तत् तथा। सात्यकिं विरथं दृष्ट्वा कर्ण चाभ्युद्यतं रणे॥ दध्मौ शङ्ख महानादमाषभेणथ माधवः। दारुकोऽवेत्य सदेशं श्रुत्वा शङ्खस्य च स्वनम्॥ स्थमन्वानयत् तस्मै सुपर्णोच्छ्रितकेतनम्। स केशवस्यानुमते रथं दारुकसंयुतम्॥ आरुरोह शिनेः पौत्रो ज्वलनादित्यसनिभम्। कामगैः शैब्यसुग्रीवमेघपुष्पबलाहकैः॥ हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः। युक्तं समारुह्य च तं विमानप्रतिमं रथम्॥ अभ्यद्रवत् राधेयं प्रवपन् सायकान् बहून्। चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ॥ धनंजयरथं हित्वा राधेयं प्रत्युदीयतुः। राधेयोऽपि महाराज शरवर्ष समुत्सृजन्॥ अभ्यद्रवत् सुसंक्रुद्धो रणे शैनेयमच्युतम्। नैव दैवं न गान्धर्व नासुरं न च राक्षसम्॥ तादृशं भुवि नो युद्धं दिवि वा श्रुतमित्युत। उपारमत तत् सैन्यं सरथाश्वनरद्विपम्॥ तयोर्दृष्ट्वा महाराज कर्म सम्पूढचेतसः। सर्वे च समपश्यन्त तद् युद्धमतिमानुषम्॥ तयोर्तृवरयो राजन् सारथ्यं दारुकस्य च। गतप्रत्यागतावृत्तैर्मण्डलैः संनिवर्तनैः॥ सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः। नभस्तलगताश्चैव देवगन्धर्वदानवाः॥ अतीवावहिता द्रष्टुं कर्णशैनेययो रणम्। मित्रार्थे तौ पराक्रान्तौ शुष्मिणो स्पर्घिनौ रणे॥ कर्णश्चामरसंकाशो युयुधानश्च सात्यकिः। अन्योन्यं तौ महाराज शरवर्षैरवर्षताम्॥ प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः। अमृष्यमाणो निधनं कौरव्यजलसंधयोः॥ कर्णः शोकसमाविष्टो महोरग इव श्वसन्। स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा॥ अभ्यधावत वेगेन पुनः पुनररिंदम। तं तु सक्रोधमालोक्य सात्यकिः प्रत्युयुध्यत॥ महता शरवर्षेण गजं प्रति गजो यथा। तौ समेतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ॥ अन्योन्यं संततक्षाते रणेऽनुपमविक्रमौ। ततः कर्ण शिनेः पौत्रः सर्वपारसवैः शरैः॥ बिभेद सर्वगात्रेषु पुनः पुनररिंदम। सारथिं चास्य भल्लेन रथनीडादपातयत्॥ अश्वांश्च चतुरः श्वेतान् निजघान शितैः शरैः। छित्त्वा ध्वजं रथं चैव शतधा पुरुषर्षभ॥ चकार विस्थं कर्ण तव पुत्रस्य पश्यतः। ततो विमनसो राजंस्तावकास्ते महारथाः॥ वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा। द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन्॥ ततः पर्याकुलं सर्व न प्राज्ञायत किंचन। तथा सात्यकिना वीरे विस्थे सूतजे कृते॥ हाहाकारस्ततो राजन् सर्वसैन्येष्वभून्महान्। कर्णोऽपि विरथो राजन् सात्वतेन कृतः शरैः॥ दुर्योधनरथं तूर्णंमारुरोह विनिःश्वसन्। मानयंस्तव पुत्रस्य बाल्यात् प्रभृति सौहृदम्॥ कृतां राज्यप्रदानेन प्रतिज्ञा परिपालयन्। तथा तु विरथं कर्ण पुत्रांश्च तव पार्थिव॥ दुःशासनमुखान् वीरान् नावधीत् सात्यकिर्वशी। रक्षन् प्रतिज्ञां भीमेन पार्थेन च पुराकृताम्॥ विरथान् विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत्। भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः॥ अनुद्यूते च पार्थेन वध: कर्णस्य संश्रुतः। वधे त्वकुर्वन् यत्नं ते तस्य कर्णमुखास्तदा॥ नाशकुवंस्ततो हन्तुं सात्यकिं प्रवरा रथाः। द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः॥ निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः। काङ्क्षता परलोकं च धर्मराजस्य च प्रियम्॥ कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुतापनः। जितवान् सर्वसैन्यानि तावकानि हसन्निव॥ कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः। शैनेयो वा नरव्याघ्र चतुर्थस्तु न विद्यते॥ धृतराष्ट्र उवाच अजय्यं वासुदेवस्य रथमास्थाय सात्यकिः। विरथं कृतवान् कर्ण वासुदेवसमो युधि॥ दारुकेण समायुक्तः स्वबाहुबलदर्पितः। कचिदन्यं समारूढः सात्यकि: शत्रुतापनः॥ एतदिच्छाम्यहं श्रोतुं कुशलो ह्यासि भाषितुम्। असा तमहं मन्ये तन्ममाचक्ष्व संजय॥ शृणु राजन् यथावृत्तं रथमन्यं महामतिः। दारुकस्यानुजस्तूर्ण कल्पनाविधिकल्पितम्॥ आयसैः काञ्चनैश्चापि पट्टैः संनद्धकूबरम्। तारासहस्रखचितं सिंहध्वजपताकिनम्॥ अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः। सैन्धवैरिन्दुसंकाशैः सर्वशब्दातिगैइँदैः॥ चित्रकाञ्चनसंनाहैर्वाजिमुख्यैर्विशाम्पते। घण्टाजालाकुलरवं शक्तितोमरविद्युतम्॥ युक्तं सांग्रामिकैर्द्रव्यैर्वहुशस्त्रपरिच्छदैः। रथं सम्पादयामास मेघगम्भीरनिःस्वनम्॥ तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत्। दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम्॥ कर्णस्यापि रथं राजशङ्खगोक्षीरपाण्डुरैः। चित्रकाञ्चनसंनाहैः सदश्वर्वेगवत्तरैः॥ हेमकक्ष्याध्वजोपेतं क्लृप्तयन्त्रपताकिनम्। अग्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम्॥ उपाजह्वस्तमास्थाय कर्णोऽप्यभ्यद्रवद् रिपून्। एतत् ते सर्वमाख्यातं यन्ां त्वं परिपृच्छसि॥ भूयश्चापि निबोधेमं तवापनयजं क्षयम्। एकत्रिंशत् तव सुता भीमसेनेन पातिताः॥ दुमुर्ख प्रमुखे कृत्वा सततं चित्रयोधिनम्। शतशो निहताः शूराः सात्वतेतार्जुनेन च॥ भीष्मं प्रमुखतः कृत्वा भगदत्तं च भारत। एवमेष क्षयो वृत्तो राजन् दुर्मन्त्रिते तव॥ वैशम्पायन उवाच युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम्। पुन: पप्रच्छ साम्राज्ये भविष्यां जगतो गतिम्॥ युधिष्ठिर उवाच आश्चर्यभूतं १ प्रतः श्रुतं नो वदतां वर। मुने भार्गव यद् वृत्तं युगादौ प्रभवात्ययम्॥ अस्मिन् कलियुगे त्वस्ति पुनः कौतूहलं मम। समाकुलेषुधर्मेषु किं नु शेषं भविष्यति॥ किंवीर्या मानवास्तत्र किमाहारविहारिणः। किमायुषः किंवसना भविष्यन्ति युगक्षये॥ कां च काष्ठांसमासाद्य पुनः सम्पत्स्यते कृतम्। विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे॥ इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत। रमयन् वृष्णिशार्दूलं पाण्डवांश्च महानृषिः॥ मार्कण्डेय उवाच शृणु राजन् मया दृष्टं यत् पुरा श्रुतमेव च। अनुभूतं च राजेन्द्र देवदेवप्रसादजम्॥ भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ। कलुषं कालमासाद्य कथ्यमानं निबोध मे॥ कृते चतुष्पात् सकलो निर्व्याजोपाधिवर्जितः। वृषः प्रतिष्ठितोधर्मो मनुष्ये भरतर्षभ॥ अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः। त्रेतायां द्वापरेऽर्धेन व्यामिश्रोधर्म उच्यते॥ त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति। तामसं युगमासाद्य तदा भरतसत्तम॥ चतुर्थांशेनधर्मस्तु मनुष्यानुपतिष्ठति। आयुर्वीर्यमथो बुद्धिर्बलं तेजश्च पाण्डव॥ मनुष्याणामनुयुगं ह्रसतीति निबोध मे। राजानो ब्राह्मणा वैश्याः शूद्राश्चैव युधिष्ठिर॥ व्याजैर्धर्म चरिष्यन्तिधर्मवैतंसिका नराः। सत्यं संक्षेप्स्यते लोके नरैः पण्डितमानिभिः॥ सत्यहान्या ततस्तेषामायुरल्पं भविष्यति। आयुषः प्रक्षयाद् विद्यां नांशक्ष्यन्त्युपजीवितुम्॥ विद्याहीनानविज्ञानाल्लोभोऽप्यभिभविष्यति। लोभक्रोधपरा मूढाः कामासक्ताश्च मानवाः॥ वैरबद्धा भविष्यन्ति परस्परवधैषिणः। ब्राह्मणाः क्षत्रिया वैश्याः संकीर्यन्तः परस्परम्॥ शूद्रतुल्या भविष्यन्ति तप:सत्यविवर्जिताः। अन्त्या मध्या भविष्यन्ति मध्याशान्त्या न संशयः।। ईदृशो भविता लोको युगान्ते पर्युपस्थिते। वस्त्राणां प्रवरा शाणीधान्यानां कोरदूषकाः॥ भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये। मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम्॥ गोषु नष्टासु पुरुषा येऽपि नित्यंधृतव्रताः। तेऽपि लोभसमायुक्ता भविष्यन्ति युगक्षये॥ अन्योन्यं परिमुष्णान्तो हिंसयन्तश्च मानवाः। अजपा नास्तिका: स्तेना भविष्यन्ति युगक्षये॥ सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः। ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये॥ श्राद्धे दैवे च पुरुषा येऽपि नित्यंधृतव्रताः। तेऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम्॥ पिता पुत्रस्य भोक्ता च पितुः पुत्रस्तथैव च। अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये॥ न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः। न यक्ष्यन्ति न होष्यन्ति हेतुवादविमोहिताः। निम्नेष्वीहां करिष्यन्ति हेतुवादविमोहिताः॥ निम्ने कृषि करिष्यन्ति योक्ष्यन्तिधुरिधेनुकाः। एकहायनवत्सांश्च योजयिष्यन्ति मानवाः॥ पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा। निसद्वेगो बृहद्वादी न निन्दामुपलप्स्यते॥ म्लेच्छभूतं जगत् सर्वं निष्क्रियं यज्ञवर्जितम्। भविष्यति निरानन्दमनुत्सवमथो तथा॥ प्रायशः कृपणानां हि तथाबन्धुमतामपि। विधवानां च वित्तानि हरिष्यन्तीह मानवाः॥ स्वल्पवीर्यबलाः स्तब्धा लोभमोहपरायणाः। तत्कथादानसंतुष्टा दुष्टानामपि मानवाः॥ परिग्रहं करिष्यन्ति मायाचारपरिग्रहाः। समाह्वयन्तः कौन्तेय राजानः पापबुद्धयः॥ परस्परवधोयुक्ता मूर्खाः पण्डितमानिनः। भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः॥ अरक्षितारो लुब्धाच मानाहङ्कारदर्पिताः। केवलं दण्डरुचयो भविष्यन्ति युगक्षये॥ आक्रम्याक्रम्य साधूनां दारांश्चापिधनानि च। भोक्ष्यन्ते निरनुक्रोशा रुदतामपि भारत॥ न कन्यां याचते कश्चिात्रापि कन्या प्रदीयते। स्वयंग्राहा भविष्यन्ति युगान्ते समुपस्थित्ते॥ राजानश्चाप्यसंतुष्टाः परार्थान् मूढचेतसः। सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते॥ म्लेच्छीभूतं जगत् सर्वं भविष्यति न संशयः। हस्तो हस्तं परिमुषेद् युगान्ते समुपस्थिते॥ सत्यं संक्षिप्यते लोके नरैः पण्डितमानिभिः। स्थविरा बालमतयो बालाः स्थविरबुद्धयः॥ भीरुस्तथा शूरमानी शूरा भीरुविषादिनः। न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते॥ एकाहार्यं युगं सर्वं लोभमोहव्यवस्थितम्। अधर्मो वर्द्धते तत्र न तुधर्मः प्रवर्तते॥ ब्राह्मणाः क्षत्रिया वैश्या न शिष्यन्ति जनाधिप। एकवर्णस्तदा लोको भविष्यति युगक्षये॥ न क्षस्यति पिता पुत्रं पुत्रश्च पितरं तथा। भार्याश्च पतिशुश्रूषां न करिष्यन्ति संक्षय॥ ये यवान्ना जनपदा गोधूमान्नास्तथैव च। तान् देशान् संश्रयिष्यन्ति युगान्ते पर्युपस्थिते॥ स्वैराचाराश्च पुरुषा योषितश्च विशाम्पते। अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते॥ म्लेच्छभूतं जगत् सर्वं भविष्यति युधिष्ठिर। न श्राद्धैस्तर्पयिष्यन्ति दैवतानीह मानवाः॥ न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद् गुरुः। तमोग्रस्तस्तदा लोको भविष्यति जनाधिप।॥ परमायुश्च भविता तदा वर्षाणि षोडश। ततः प्राणान् विमोक्ष्यन्ति युगान्ते समुपस्थिते॥ पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते। सप्तपवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा॥ पत्यौ स्त्री तु तदा राजन् पुरुषो वा स्त्रियं प्रति। युगान्ते राजशार्दूल न तोषमुपयास्यति॥ अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति। न कश्चित् कस्यचिद् दाता भविष्यति युगक्षये॥ अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः। केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये॥ म्लेच्छाचाराः सर्वभक्षा दारुणाः सर्वकर्मसु। भाविनः पश्चिमे काले मुनष्या नात्र संशयः॥ क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम्। युगान्ते भरतश्रेष्ठ वित्तलोभात् करिष्यति॥ ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा। आत्मच्छन्देन वर्तन्ते युगान्ते समुपस्थिते॥ स्वभावात् क्रूरकर्माणश्चान्योन्यमभिशंसिनः। भवितारो जनाः सर्वे सम्प्राप्ते तु युगक्षये॥ आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः। भविता संशये लोके जीवितस्य हि देहिनाम्॥ तथा लोभाभिभूताश्च भविष्यन्ति नरा नृप। ब्राह्मणांश्च हनिष्यन्ति ब्राह्मणस्वोपभोगिनः॥ हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः। त्रातारमलभन्तो वै भ्रमिष्यन्ति महीमिमाम्॥ जीवितान्तकरा: क्रूरा रौद्राः प्राणिविहिंसकाः। यदा भविष्यन्ति नरास्तदा संक्षेप्स्यते युगम्॥ आश्रयिष्यन्ति च नदी: पर्वतान् विषमाणि च। प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह॥ दस्युभिः पीडिता राजन् काका इव द्विजोत्तमाः। कुराजभिश्च सततं करभारप्रपीडिताः॥ धैर्यं त्यक्त्वा महीपाल दारुणे युगसंक्षये। विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः॥ शूद्राधर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः। श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः॥ विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः। एडूकान् पूजयिष्यन्ति वर्जयिष्यन्ति देवताः॥ शूद्राः परिचरिष्यन्ति न द्विजान् युगसंक्षये। आश्रमेषु महर्षीणां ब्राह्मणावसथेषु च॥ देवस्थानेषु चैत्येषु नागानामालयेषु च। एडूकचिला पृथिवीं न देवगृहभूषिता॥ भविष्यति युगे क्षीणे तद् युगान्तस्य लक्षणम्। यदा रौद्राधर्महीना मांसादाः पानपास्तथा॥ भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम्। पुष्पं पुष्पे यदा राजन् फले वा फलमाश्रितम्॥ प्रजास्यति महाराज तदा संक्षेप्स्यते युगम्। अकालवर्षी पर्जन्यो भविष्यति गते युगे॥ अक्रमेण मनुष्याणां भविष्यन्ति तदा क्रियाः। विरोधमथ यास्यन्ति वृषला ब्राह्मणैः सह॥ मही म्लेच्छजनाकीर्णा भविष्यति ततोऽचिरात्। करभारभयाद् विप्रा भजिष्यन्ति दिशो दश॥ निर्विशेषा जनपदास्तथा विष्टिकरार्दिताः। आश्रमानुपलस्यन्ति फलमूलोपजीविनः॥ एवं पर्याकुले लोके मर्यादा न भविष्यति। न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः॥ आचार्योऽपनिधिश्चैव भय॑ते तदनन्तरम्। अर्थयुक्त्या प्रवत्स्यन्ति मित्रसम्बन्धिबान्धवाः॥ अभावः सर्वभूतानां युगान्ते सम्भविष्यति। दिशः प्रज्वलिताः सर्वा नक्षत्राण्यप्रभाणि च॥ ज्योतींषि प्रतिकूलानि वाताः पर्याकुलास्तथा। उल्कापाताश्च बहवो महाभयनिदर्शकाः॥ षड्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति। तुमुलाश्चापि निर्झदा दिग्दाहाश्चापि सर्वशः॥ कबन्धान्तर्हितो भानुरुदयास्तमने तदा। अकालवर्षी भगवान् भविष्यति सहस्रदृक्॥ सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते। अभीक्ष्णं क्रूरवादिन्यः परुषा रुदितप्रियाः॥ भतॄणां वचने चैव न स्थास्यन्ति ततः स्त्रियः। पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये॥ सूदयिष्यन्ति च पतीन् स्त्रियः पुत्रानपाश्रिताः। अपर्वणि महाराज सूर्यं राहुपैष्यति॥ चापि सर्वतः प्रज्वलिष्यति। पानीयं भोजनं चापि याचमानास्तदाध्वगाः॥ न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते। निर्घातवायसा नागाः शकुनाः समृगद्धिजाः॥ रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते। युगान्ते हुतभुक् मित्रसम्बन्धिनश्चापि संत्यक्ष्यन्ति नरास्तदा॥ जनं परिजनं चापि युगान्ते पर्युपस्थिते। अथ देशान् दिशश्चापि पत्तनानि पुराणि च॥ क्रमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते। हा तात हा सुतेत्येवं तदा वाचः सुदारुणाः॥ विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति। ततस्तुमुलसङ्घाते वर्तमाने युगक्षये॥ द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति। ततः कालान्तरेऽन्यस्मिन् पुनर्लोकविवृद्धये॥ भविष्यति पुनर्दैवमनुकूलं यदृच्छया। यदा सूर्यश्च चन्द्रश्च तथा तिष्यबृहस्पती॥ एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम्। कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च॥ प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः। क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम्॥ कल्की विष्णुयशा नाम द्विजः कालप्रचोदितः। उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः॥ सम्भूतः सम्भलग्रामे ब्राह्मणावसथे शुभे। मनसा तस्य सर्वाणि वाहनान्यायुधानि च॥ उपस्थास्यन्ति योधाश्च शस्त्राणि कवचानि च। सधर्मविजयी राजा चक्रवर्ती भविष्यति॥ स चेमं संकुलं लोकं प्रसादमुपनेष्यति। उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः॥ संक्षेपको हि सर्वस्य युगस्य परिवर्तकः। स सर्वत्र गतान् क्षुद्रान् ब्राह्मणैः परिवारितः। उत्सादयिष्यति तदा सर्वम्लेच्छगणान् द्विजः॥ संजय उवाच भूरिस्तु समरे राजशैनेयं रथिनां वरम्। आपतन्तमपासेधत् प्रयाणादिव कुञ्जरम्॥ अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः। विव्याध हृदये तस्य प्रास्रवत् तस्य शोणितम्॥ तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम्। दशभिर्निशितैस्तीक्ष्णैरविध्यत भुजान्तरे॥ तावन्योन्यं महाराज ततक्षाते शरैर्भृशम्। क्रोधसंरक्तनयनौ क्रोधाद् विस्फार्य कार्मुके॥ तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा। क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः॥ तावन्योन्यं और राजन् संछाद्य समवस्थितौ। मुहूर्तं चैव तद् युद्धं समरूपमिवाभवत्॥ ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव। धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः॥ अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः। विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्॥ सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः। धनुरन्यत् समादाय सात्वतं प्रत्यविध्यत॥ स विद्ध्वा सात्वतं बाणैसिभिरेव विशाम्पते। धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव॥ छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्छितः। प्रजहार महावेगां शक्तिं तस्य महोरसि॥ स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात्। लोहिताङ्ग इवाकाशाद् दीप्तरश्मिर्यदृच्छया॥ तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः। अभ्यधावत वेगेन शैनेयं प्रति संयुगे॥ तिष्ठ तिष्ठेति चाभाष्य शैनेयं स नराधिप। अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः॥ तमापतन्तं संरब्धं शैनेयस्य रथं प्रति। घटोत्कचोऽब्रवीद् राजन् नादं मुक्त्वा महारथः॥ तिष्ठ तिष्ठ न मे जीवन् द्रोणपुत्र गमिष्यसि। एष त्वां निहनिष्यामि महिषं षण्मुखो यथा॥ युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे। इत्युक्त्वा क्रोधताम्राक्षो राक्षसः परवीरहा।॥ द्रौणिमभ्यद्रवत् क्रुद्धो गजेन्द्रमिव केसरी। रथाक्षमात्रैरिषुभिरभ्यवर्षद् घटोत्कचः॥ रथिनामृषभं द्रौणिं धाराभिरिव तोयदः। शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः॥ शातयामास समरे तरसा द्रौणिरुत्स्मयन्। ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः॥ समाचिनोद् राक्षसेन्द्रं घटोत्कचमरिंदमम्। स शरैराचितस्तेन राक्षसो रणमूर्धनि॥ व्यकाशत महाराज श्वाविच्छललतो यथा। ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान्॥ शरैरवचकर्तोगौणिं वज्राशनिप्रभैः। क्षुरप्रैरर्धचन्दैश्च नाराचैःसशिलीमुखैः॥ वराहकर्णैर्नालीकैर्विकर्णैश्चाभ्यवीवृषत्। तां शस्रवृष्टिमतुलां वज्राशनिसमस्वनाम्॥ पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः। सुदुःसहां शरै।रैर्दिव्यासप्रतिमन्त्रितैः॥ व्यधमत् सुमहातेजा महाभ्राणीव मारुतः। ततोऽन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत्॥ घोररूपो महाराज योधानां हर्षवर्धनः। ततोऽस्रसंघर्षकृतैर्विस्फुलिङ्गैः समन्ततः॥ बभौ निशामुखे व्योम खद्योतैरिव संवृतम्। स मार्गेणगणैौणिर्दिशः प्रच्छाद्य सर्वतः॥ प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत्। ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मधे॥ विगाढे रजनीमध्ये शक्रप्रह्लादयोरिव। ततो घटोत्कचो बाणैर्दशभिौणिमाहवे॥ जधानोरसि संक्रुद्धः कालज्वलनसंनिभैः। स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः॥ चचाल समरे द्रौणिवार्तनुन्न इव दुमः। स मोहमनुसम्प्राप्तो ध्वजयष्टिं समाश्रितः॥ ततो हाहाकृतं सैन्यं तव सव जनाधिप। हतं स्म मेनिरे सर्वे तावकास्तं विशाम्पते॥ तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे। पञ्चाला: संजयाश्चैव सिंहनादं प्रचक्रिरे॥ प्रतिलभ्य ततः संज्ञामश्वत्थामा महाबलः। धनुः प्रपीड्य वामेन करेणामित्रकर्शनः॥ मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम्। यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम्॥ स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः। विवेश वसुधामुग्रः सपुङ्खः पृथिवीपते॥ सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्। राक्षसेन्द्रः! सुबलवान् द्रौणिना रणशलिना॥ दृष्ट्वा विमूढं हैडिम्बं सारथिस्तु रणाजिरात्। द्रौणे: सकाशात् सम्भ्रान्तस्त्वपनिन्ये त्वरान्वितः॥ तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम्। ननाद सुमहानादं द्रोणपुत्रो महारथः॥ पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत। वपुषातिप्रजज्वाल मध्याह्न इव भास्करः॥ भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति। स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः॥ तं भीमसेनो दशभिः शरैर्विव्याध मारिष। दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत॥ तौ सायकैरवच्छिन्नावदृश्येतां रणाजिरे। मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ॥ 1४४॥ अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः। पञ्चभिर्भरतश्रेष्ठ तिष्ठ तिष्ठेति चाब्रवीत्॥ तस्य भीमो धनुश्छित्त्वा ध्वजं च दशभिः शरैः। विव्याध कौरवश्रेष्ठं नवत्या नवपर्वणाम्॥ ततो दुर्योधनः क्रुद्धो धनुरन्यन्महत्तरम्। गृहीत्वा भरतश्रेष्ठो भीमसेनं शितै शरैः॥ अपीडयद् रणमुखे पश्यतां सर्वधन्विनाम्। तान् निहत्य शरान् भीमो दुर्योधन धनुश्च्युतान्॥ कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्। दुर्योधनस्तु संक्रुद्धो भीमसेनस्य मारिष॥ क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत। अथान्यद् धनुरादाय भीमसेनो महाबलः॥ विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः। तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत्॥ द्वितीयं च तृतीयं च चतुर्थं पञ्चम तथा। आत्तमात्तं महाराज भीमस्य धनुराच्छिनत्॥ तव पुत्रो महाराज जितकाशी मदोत्कटः। स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः॥ शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम्। मृत्योरिव स्वसारं हि दीप्तां वह्निशिखामिव॥ सीमन्तमिव कुर्वन्ती नभसोऽग्निसमप्रभाम्। आप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः॥ पश्यतः सर्वलोकस्य भीमस्य च महात्मनः। ततो भीमो महाराज गदां गुर्वी महाप्रभाम्॥ चिक्षेपाविध्य वेगेन दुर्योधनस्थं प्रति। ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे॥ सारथिं च गदा गुर्वी ममर्दास्य रथं पुनः। पुत्रस्तु तव राजेन्द्र भीमाद् भीतः प्रणश्य च॥ आरुरोह रथं चान्यं नन्दकस्य महात्मनः। ततो भीमो हतं मत्वा तव पुत्रं महारथम्॥ सिंहनादं महच्चक्रे तर्जयन् निशि कौरवान्। तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम्। । ततोऽतिचुक्रुशुः सर्वे ते हाहेति समन्ततः॥ तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम्। भीमसेनस्य नादं च श्रुत्वा राजन् महात्मनः॥ ततो युधिष्ठिर राजा हतं मत्वा सुयोधनम्। अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः॥ पञ्चाला: केकया मत्स्याः संजयाश्च विशाम्पते। सर्वोद्योगेनाभिजग्मुर्दोणमेव युयुत्सया॥ तत्रासीत् सुमहद् युद्धं द्रोणस्याथ परैः सह। घोरे तमसि मग्नानां निजतामितरेतरम्॥ संजय उवाच अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः। अप्रियं वा प्रियं वापि महाराज धनंजयम्॥ ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत। कुत्सयन्निव कौन्तेयमर्जुनं भरतर्षभ॥ मुनिर्यथारण्यगतो भाषसे धर्मसहितम्। न्यस्तदण्डो यथा पार्थं ब्राह्मणः संशितव्रतः॥ क्षतत्राता क्षताज्जीवन क्षन्ता स्त्रीष्वपि साधुषु। क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियः॥ स भवान् क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः। अविपश्चिद् यथा वाचं व्याहरन् नाद्य शोभसे॥ पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः। न चाति वर्तसे धर्मं वेलामिव महोदधिः॥ न पूजयेत् त्वां को न्वद्य यत् त्रयोतशवार्षिकम्। अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे॥ दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते। आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत॥ यत् तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः। द्रौपदी च परामृष्टा सभामानीय शत्रुभिः॥ वनं प्रवाजिताश्चास्म वल्कलाजिनवाससः। अनर्हमाणास्तं भावं त्रयोदश समा: परैः॥ एतान्यमर्षस्थानानि मर्षितानि मयानघ। ! क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम्॥ तमधर्ममपाकृष्टं स्मृत्वाद्य सहितस्त्वया। सानुबन्धान् हनिष्यामि क्षुद्रान् राज्यहरानहम्॥ त्वया हि कथितं पूर्वं युद्धाभ्यागता वयम्। घटामहे यथाशक्तिं त्वं तु नोऽद्य जुगुप्ससे॥ स्वधर्मं नेच्छसे ज्ञातुं मिथ्यावचनमेव ते। भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि॥ वपन् ब्रणे क्षारमिव क्षतानां शत्रुकर्शन। विदीर्यते मे हृदयं त्वया वाक्शल्यपीडितम्॥ अधर्ममेनं विपुलं धार्मिकः सन् न बुद्ध्यसे। यत् त्वमात्मानमस्मांश्च प्रशस्यान् न प्रशंससि॥ वासुदेवे स्थिते चापि द्रोणपुत्रं प्रशंससि। यः कलां षोडशी पूर्णां धनंजय न तेऽर्हति॥ स्वयमेवात्मानो दोषान् ब्रुवाणः किन्न लज्जसे। दारयेयं महीं क्रोधाद् विकिरेयं च पर्वतान्॥ आविध्यैतां बदां गुर्वी भीमां काञ्चनमालिनीम्। गिरिप्रकाशान् क्षितिजान् भञ्जयमनिलो यथा॥ द्रावयेयं शरैश्चापि सेन्द्रान् देवान् समागतान्। सराक्षसगणान् पार्थ सासुरोरगमानवान्॥ स त्वमेवंविधं जानन् भ्रातरं मां नरर्षभ। द्रोणपुत्राद् भयं कर्तुं नार्हस्यमितविक्रम॥ अथवा तिष्ठ बीभत्सो सह सर्वैः सहोदरैः। अहमेनं गदापाणिर्जेष्याम्येको महाहवे॥ ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत्। संक्रुद्धमिव नर्दन्तं हिरण्यकशिपुर्हरिम्॥ धृष्टद्युम्न उवाच बीभत्सो विप्रकर्माणि विदितानि मनीषिणाम्। याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ॥ षष्ठमध्ययनं नाम तेषां कस्मिन् प्रतिष्ठितः। हतो द्रोणो मया ह्येवं किं मां पार्थ विगर्हसे॥ अपक्रान्तः स्वधर्माच क्षात्रधर्मं व्यपाश्रितः। अमानुषेण हन्त्यस्मानस्रेण क्षुद्रकर्मकृत्॥ तथा माया प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम्। माययैव विहन्याद् यो न युक्तं पार्थ तत्र किम्॥ तस्मिस्तथा मया शस्ते यदि द्रौणायनी रुषा। कुरुते भैरवं नादं तत्र किं मम हीयते॥ न चाद्भुतमिदं मन्ये यद द्रौणियुद्धसंज्ञया। घातयिष्यति कौरव्यान् परित्रातुमशक्नुवन्॥ यच मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम्। तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात्॥ यस्य कार्य मकार्यं वा युध्यतः स्यात् समं रणे। तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनंजय॥ यो ह्यनस्रविदो हन्याद् ब्रह्मास्त्रैः क्रोधमूछितः। सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम॥ विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम्। जानन् धर्मार्थतत्त्वज्ञ किं मामर्जुन गर्हसे॥ नृशंसः स मयाऽऽक्रम्य रथ एव निपातितः। तन्मामनिन्द्यं बीभत्सो किमर्थं नाभिनन्दसे॥ कालानलसमं पार्थ ज्वलनार्कविषोपमम्। भीमं द्रोणशिरश्छिन्नं न प्रशंससि मे कथम्॥ योऽसौ ममैव नान्यस्य वान्धवान् युधि जनिवान्। छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः॥ तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया। निषादविषये क्षिप्तं जयद्रथशिरो यथा।॥ अथावधश्च शूत्रणामधर्मः श्रूयतेऽर्जुन। क्षत्रियस्य हि धर्मोऽयं हन्याद्धन्येत वा पुनः॥ स शत्रुनिहतः संख्ये मया धर्मेण पाण्डव। यथा त्वया हतः शूरो भगदत्तः पित्तुः सखा॥ पितामहं रणे हत्वा मन्यसे धर्ममात्मनः। मया शत्रौ हते कस्मात् पापे धर्मं न मन्यसे॥ सम्बन्धावनतं पार्थ न मां त्वं वक्तुमर्हसि। स्वगात्रकृतसोपानं निष्ण्णमिव दन्तिनम्॥ क्षमामि ते सर्वमेव वाग्व्यतिक्रममर्जुन। द्रौपद्या द्रौपदेयानां कृते नान्येन हेतुना॥ कुलक्रमागतं वैरं ममाचार्येण विश्रुतम्। तथा जानात्ययं लोको न यूयं पाण्डुनन्दनाः॥ नानृती पाण्डवो ज्येष्ठो नाहं वाधार्मिकोर्जुन। शिष्यद्रोही हत: पापो युध्यस्व विजयस्तव॥ वैशम्पायन उवाच ययाति: स्वपुरं प्राप्य महेन्द्रपुरसंनिभम्। प्रविश्यान्तःपुरं तत्र देवयानी न्यवेशयत्॥ देवयान्याश्चानुमते सुतां तां वृषपर्वणः। अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत्॥ वृतां दासीसहस्रेण शर्मिष्ठां वार्षपर्वणीम्। वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम्॥ देवयान्या तु सहितः स नृपो नहुषात्मजः। विजहार बहूनब्दान् देववन्मुदितः सुखी॥ ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना। लेभे गर्भं प्रथमतः कुमारं च व्यजायत॥ गते वर्षसहस्र तु शर्मिष्ठा वार्षपर्वणी। ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत्॥ ऋतुकालश्च सम्प्राप्तो न च मेऽस्ति पतिर्वृतः। किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत्॥ देवयानी प्रजातासौ वृथाहं प्राप्तयौवना। यथा तया वृतो भर्ता तथैवाहं वृणोमि तम्॥ राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः। अपीदानी स धर्मात्मा इयान्मे दर्शनं रहः॥ अथ निष्क्रम्य राजासौ तस्मिन् काले यदृच्छया। अशोकवनिकाभ्याशे शर्मिष्ठां प्रेक्ष्य विष्ठितः॥ तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी। प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत्॥ शर्मिष्ठोवाच सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य च। तव वा नाहुष गृहे कः स्त्रियं द्रष्टुमर्हति॥ रूपाभिजनशीलैहि त्वं राजन् वेत्थ मां सदा। सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप॥ ययातिरुवाच वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम्। रूपं च ते न पश्यामि सूच्यग्रमपि निन्दितम्॥ अब्रवीदुशना काव्यो देवयानीं यदावहम्। नेयमाह्वयितव्या ते शयने वार्षपर्वणी॥ शर्मिष्ठोवाच न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन् न विवाहकाले। प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि॥ पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा वदन्ति मिथ्या पतितं नरेन्द्र। एकार्थतायां तु समाहितायां मिथ्या वदन्तं त्वनृतं हिनस्ति॥ ययातिरुवाच राजा प्रमाणं भूतानां स नश्येत मृषा वदन्। अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे॥ शर्मिष्ठोवाच समावेतौ मतौ राजन् पति: सख्याश्च यः पतिः। समं विवाहमित्याहुः सख्या मेऽसि वृतः पतिः॥ ययातिरुवाच दातव्यं याचमानेभ्य इति मे व्रतमाहितम्। त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते॥ शर्मिष्ठोवाच अधर्मात् पाहि मां राजन् धर्मं च प्रतिपादय। त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम्॥ त्रय एवाधना राजन् भार्या दासस्तथा सुतः। यत् ते समधिगच्छन्ति यस्यैते तस्य तद् धनम्॥ देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी। सा चाहं च त्वया राजन् भजनीये भजस्व माम्॥ वैशम्पायन उवाच एवमुक्तस्तु राजा स तथ्यमित्यभिजज्ञिवान्। पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत्॥ स समागम्य शर्मिष्ठां यथाकाममवाप्य च। अन्योन्यं चाभिसम्पूज्य जग्मतुस्तौ यथागतम्॥ तस्मिन् समागमे सुभूः शर्मिष्ठाः चारुहासिनी। लेभे गर्भं प्रथमतस्तस्मानृपतिसत्तमात्॥ प्रजज्ञे च ततः काले राजन् राजीवलोचना। कुमारं देवगर्भाभं राजीवनिभलोचनम्॥ संजय उवाच ततः परानीकसहं व्यूहमप्रतिमं कृतम्। समीक्ष्य कर्णः पार्थनां धृष्टद्युम्मभिरक्षितम्॥ प्रययौ रथघोषेण सिंहनादरवेण च। वादित्राणां च निनदैः कम्पयन्निव मेदिनीम्॥ वेपमान इव क्रोधाद् युद्धशौण्डः परंतपः। प्रतिव्यूह्य महातेजा यथावद् भरतर्षभ।॥ व्यधमत् पाण्डवीं सेनामासुरीं मघवानिव। युधिष्ठिरं चाभ्यहनदपसव्यं चकार ह॥ धृतराष्ट्र उवाच कथं संजय राधेयः प्रत्यव्यूहत पाण्डवान्। धृष्टद्युम्नमुखान् सर्वान् भीमसेनाभिरक्षितान्॥ सर्वानेव महेष्वासानजय्यानमरैरपि। के च प्रपक्षौ पक्षौ वा मम सैन्यस्य संजय॥ प्रविभज्य यथान्यायं कथं वा समवस्थिताः। कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान्॥ कथं चैव महद् युद्धं प्रावर्तत सुदारुणम्। क्व च बूभत्सुरभवद् यत् कर्णोऽयाद् युधिष्ठिरम्॥ को हर्जुनस्य सान्निध्ये शक्तोऽभ्येतुं युधिष्ठिरम्। सर्वभूतानि यो ह्येकः खाण्डवे जितवान् पुरा। कस्तमन्यस्तु राधेयात् प्रतियुद्ध्येजिजीविषुः॥ संजय उवाच शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः। परिवार्य नृपं स्वं संग्रामश्चाभवद् यथा॥ कृपः शारद्वतो राजन् मागधाश्च तरस्विनः। सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः॥ तेषां प्रपक्षे शकुनिरुलूकश्च महारथः। सादिभिर्विमलप्रासैस्तवानीकमरक्षताम्॥ गान्धारिभिरसम्भ्रान्तः पर्वतीयैश्च दुर्जयैः। शलभानामिव वातैः पिशाचैरिव दुर्दशैः॥ चतुस्त्रिंशत्सहस्राणि रथानामनिवर्तिनाम्। संशप्तका युद्धशौण्डा वाम पार्श्वमपालयन्॥ समन्वितास्तव सुतैः कृष्णार्जुनजिघांसवः। तेषां प्रपक्षाः काम्बोजाः शकाश्च यवनैः सह॥ निदेशात् सूतपुत्रस्य सरथाः साश्वपत्तयः। आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम्॥ मध्ये सेनामुखे कर्णोऽप्यवातिष्ठत दंशितः। चित्रवर्माङ्गदः स्त्रग्वी पालयन् वाहिनीमुखम्॥ रक्षमाणैः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः। वाहिनीं प्रमुख वीरः सम्प्रकर्षन्नशोभत॥ अभ्यवर्तन्महाबाहुः सूर्यवैश्वानरप्रभः। महाद्विपस्कन्धगत: पिङ्गाक्ष प्रियदर्शनः॥ दुःशासनो वृतः सैन्यैः स्थितौ व्यूहस्य पृष्ठतः। तमन्वयान्महाराज स्वयं दुर्योधन नृपः॥ चित्रास्त्रैचित्रसंनाहै: सोदयैरभिरक्षितः। रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः॥ अशोभत महाराज देवैरिव शतक्रतुः। अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः॥ नित्यमत्ताश्च मातङ्गाः शूरैर्लेच्छैः समान्विताः । अन्वयुस्तद् स्थानीकं क्षरन्त इव तोयदा॥ ते ध्वजैर्वैजयन्तीभिर्व्वलद्भिः परमायुधैः। सादिभिश्चास्थिता रेजुर्द्रमवन्त इवाचलाः॥ तेषां पदातिनागानां पादरक्षा सहस्रशः। पट्टिशासिधराः शूरा बभूवुरनिवर्तिनः॥ सादिभिः स्यन्दनै गैरधिकं समलङ्कृतेः। स व्यूहराजो विबभौ देवासुरचमूपमः॥ बार्हस्पत्यः सुविहितो नायकेन विपश्चिता। नृत्यतीव महाव्यूहः परेषां भयमादधत्॥ तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः। पत्यश्वरतमातङ्गाः प्रावृषीव बलाहकाः॥ ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः। धनंजयममित्रघ्नमेकवीरमुवाच ह॥ पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे। युक्तं पक्षैः प्रपक्षैश्च परानीकं प्रकाशते॥ तदेतद् वै समालोक्य प्रत्यमित्रं महद् बलम्। यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम्॥ एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नुपमब्रवीत्। यथा भवानाह तथा तत् सर्वेन तदन्यथा।॥ यस्त्वस्य विहितो घातस्तं करिष्यामि भारत। प्रधानवध एवास्य विनाशस्तं करोम्यहम्॥ युधिष्ठिर उवाच तस्मात् त्वमेव राधेयं भीमसेनः सुयोधनम्। वृषसेनं च नकुलः सहदेवोऽपि सौबलम्॥ दुःशासनं शतानीको हार्दिक्यं शिनिपुङ्गवः। धृष्टद्युम्नो द्रोणसुतं स्वयं योत्स्याम्यहं कृपम्॥ द्रौपदेया धार्तराष्ट्रशिष्टान् सह शिखण्डिना। ते ते च तांस्तानहितानस्माकं मन्तु मामकाः॥ संजय उवाच इत्युको धर्मराजेन तथेत्युक्त्वा धनंजयः। व्यादिदेश स्वसैन्यानि स्वयं चागाचमूमुखम्॥ अग्निर्वैश्वानरः पूर्वो ब्रह्मेद्धः सप्तितां गतः। तस्माद् यः प्रथमं जातस्तं देवा ब्राह्मणं विदुः॥ ब्रह्मेशानेन्द्रवरुणान् क्रमशो योऽवहत् पुरा। तमाद्यं रथमास्थाय प्रयातौ केशवार्जुनो॥ अथ तं रथमायान्तं दृष्ट्वात्यद्भुतदर्शनम्। उवाचाधिरथिं शल्यः पुनस्तं युद्धदुर्मदम्॥ अयं सरथ आयातः श्वेताश्वः कृष्णसारथिः। दुर्वारः सर्वसैन्यानां विपाकः कर्मणामिव॥ निघ्नन्नमित्रान् कौन्तैयो यं कर्ण परिपृच्छसि। श्रूयते तुमुलः शब्दो यथा मेघस्वनो महान्॥ ध्रुवमेतौ महात्मनौ वासुदेवधनंजयौ। एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति॥ चक्रनेमिप्रणुन्नेव कम्पते कर्ण मेदिनी। प्रवात्येष महावायुरभितस्तव वाहिनीम्॥ क्रव्यादा व्याहरन्त्येते मृगाः क्रन्दन्ति भैरवम्। पश्य कर्ण महाघोरं भयदं लोमहर्षणम्॥ कबन्धं मेघसंकाशं भानुमावृत्य संस्थितम्। पश्य यूथैर्बहुविधैगाणां सर्वतोदिशम्॥ बलिभिर्दृप्तशार्दूलैरादित्योऽभिनिरीक्ष्यते। पश्य कङ्कांश्च गृध्राश्च समवेतान् सहस्रशः॥ स्थितानभिमुखान् घोरानन्योन्यमभिभाषतः। रञ्जिताश्चामरा युक्तास्तव कर्ण महारथे॥ प्रवराः प्रज्वलन्त्येते ध्वजश्चैव प्रकम्पते। सवेपथून् हयान् पश्य महाकायान् महाजवान्॥ प्लवमानान् दर्शनीयानाकाशे गरुडानिवा ध्रुवमेषु निमित्तेषु भूमिमाश्रित्य पार्थिवाः॥ स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः। शङ्खानां तुमुलः शब्दः श्रूयते लोमहर्षणः॥ आनकानां च राधेय मृदङ्गानां च सर्वशः। बाणशब्दान् बहुविधान् नराश्वरगज वाजिनाम्॥ ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम्। हेमरूप्यप्रसृष्टानां वाससां शिल्पिनिर्मिताः॥ नानावर्णा रथे भान्ति श्वसनेन प्रकम्पिताः। सहेमचन्द्रतारार्काः पताकाः किङ्किणीयुताः॥ पश्य कर्णार्जुनस्यैताः सौदामन्य इवाम्बुदे। ध्वजाः कणकणायन्ते वातेनाभिसमीरिताः॥ विभ्राजन्ति रथे कर्ण विमान दैवते यथा। सपताका रथाश्चैते पञ्चालानां महात्मनाम्॥ पश्य कुन्तीसुतं वीरं बीभत्सुमपराजितम्। प्रधर्षयितुमायान्तं कपिप्रवरकेतनम्॥ एष ध्वजाये पार्थस्य प्रेक्षणीयः समन्ततः। दृश्यते वानरो भीमो द्विषतामघवर्धनः॥ एतचक्रं गदा शाई शङ्खः कृष्णस्य धीमतः। अत्यर्थ भ्राजते कृष्णे कौस्तुभस्तु मणिस्ततः॥ एष शङ्खगदापाणिर्वासुदेवोऽतिवीर्यवान्। वाहयन्नेति तुरगान् पाण्डुरान् वातरंहसः॥ एतत् कूजति गाण्डीवं विकृष्टं सव्यसाचिना। एते हस्तवता मुक्ता घ्नन्त्यमित्राशिताः शराः॥ विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः। एषा भूः कीर्यते राज्ञां शिरोभिरपलायिनाम्॥ एते सुपरिधाकाराः पुण्यगन्धानुलेपनाः। उद्यतायुधशौण्डानां पात्यन्ते सायुधा भुजाः॥ निरस्तनेत्रजिह्वाश्च वाजिनः सह सादिभिः। पतिताः पात्यमानाश्च क्षितौ क्षीणाश्च शेरते॥ एते पर्वतशृङ्गाणां तुल्यरूपा हता द्विपाः। संछिन्नभिन्नाः पार्थेन प्रपतन्त्यद्रयो यथा॥ गन्धर्वनगराकारा रथा हतनरेश्वराः। विमानानीव पुण्यानि स्वर्गिणी नियतन्त्यमी॥ व्याकुलकृतमत्यर्थं पश्य सैन्यं किरीटिना। नानामृगसहस्राणां यूथं केसरिणा यथाय॥ जन्त्येते पार्थिवान् वीराः पाण्डवाः समभिद्रुताः। नागाश्वरथपत्योघांस्तावकान् समभिघ्नतः॥ एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते। ध्वजायं दृश्यते त्वस्य ज्याशब्दश्चापि श्रूयते॥ अद्य द्रक्ष्यसि तं वीरं श्वेताश्चं कृष्णसारथिम्। निघ्नन्तं शात्रवान् संख्ये यं कर्ण परिपृच्छसि॥ अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परंतपौ। वासुदेवार्जुनौ कर्ण द्रष्टास्येकरथे स्थतौ॥ सारथिर्यस्य वार्ष्णेयो गाण्डीवं यस्य कार्मुकम्। तं चेद्धन्तासि राधेन त्वं नो राजा भविष्यसि॥ एष संशप्तकाहूतस्तानेवाभिमुखो गतः। करोति कदनं चैषां संग्रामे द्विषतां बली॥ इति ब्रुवाणं मद्रेश कर्णः प्राहातिमन्युना। पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः॥ एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते। एतदन्तोऽर्जुनः शल्य निमग्नो योधसागरे॥ शल्य उवाच वरुणं कोऽम्भसा हन्यादिन्धनेन च पावकम्। को वानिलं निगृह्णीयात् पिबेद्वा को महार्णवम्।।७६ ईदृग्रुपमहं मन्ये पार्थस्य युधि विग्रहम्। न हि शक्योऽर्जुनो जेतुं युधि सेन्द्रैः सुरासरैः॥ अथवा परितोषस्ते वाचोक्त्वा सुमना भव। न स शक्यो युधा जेतुमन्यं कुरु मनोरथम्॥ बाहुभ्यामुद्धरेद् भूमि दहेत् क्रुद्धः इमा प्रजाः। पातयेत् त्रिदिवाद् देवान् योऽर्जुनं समरे जयेत्॥ पश्य कुन्तीसुतं वीरं भीममकिष्टकारिणम्। प्रभासन्तं महाबाहु स्थितं मेरुमिवापरम्॥ अमर्षी नित्यसंरब्धश्चिर वैरमनुस्मरन्। एष भीमो जयेप्रेप्सुर्युधि तिष्ठति वीर्यवान्॥ एष धर्मभृताः श्रेष्ठो धर्मराजो युधिष्ठिरः। तिष्ठत्यसुकरः संख्ये परैः परपुरञ्जयः॥ एतौ च पुरुषव्याघ्रावश्विनाविव सोदरौ। नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ॥ अमी स्थिता द्रौपदेयाः पञ्च पञ्चाचला इव। व्यवस्थिता योद्धुकामाः सर्वेऽर्जुनसमा युधि॥ एते दुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः। स्फीताः सत्यजितो वीरास्तिष्ठन्ति परमौजसः॥ असाविन्द्र इवासह्यः सात्यकिः सात्वतां पुरः। युयुत्सुरुपयात्यस्मान् क्रुद्धान्तकसमः पुरः॥ इति संवदतोरेव तयोः पुरुषसिंहयोः। ते सेने समसज्जेतां गङ्गायमुनवद् भृशम्॥ वैशंपायन उवाच एतच्छ्रुत्वा तु कौन्तेया ब्राह्मणात् संशितव्रतात्। सर्वे चास्वस्थमनसो बभूवुस्ते महाबलाः॥ ततः कुन्ती सुतान् दृष्ट्वा सर्वास्तद्गतचेतसः। युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी॥ कुन्त्युवाच चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने। रममाणाः पुरे रम्ये लब्धभैक्षा महात्मनः॥ यानीह रमणीयानि वनान्युपवनानि च। सर्वाणि तानि दृष्टानि पुनः पुनररिंदम॥ पुनर्द्रष्टुं हि तानीह प्रीणयन्ति न नस्तथा। भैक्षं च न तथा वीर लभ्यते कुरुनन्दन।॥ ते वयं साधु पञ्चालान् गच्छाम यदि मन्यसे। अपूर्वदर्शनं वीर रमणीयं भविष्यति॥ सुभिक्षाश्चैव पञ्चालाः श्रूयन्ते शत्रुकर्शन। यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुम॥ एकत्र चिरवासश्च क्षमो न च मतो मम। ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे॥ युधिष्ठिर उवाच भवत्या यन्मतं कार्यं तदस्माकं परं हितम्। अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः॥ वैशम्पायन उवाच ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा। उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा॥ तत आमन्त्र्य तं विप्रं कुन्ती राजन् सुतैः सह। प्रतस्थे नगरी रम्यां द्रुपदस्य महात्मनः॥ जनमेजय उवाय तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ। किमकुर्वश्च कुरवः कालेनाभिप्रचोदिताः॥ वैशम्पायन उवाच तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ। धृतराष्ट्रो महाराज संजयं वाक्यमब्रवीत्॥ एहि संजय सर्वं मे आचक्ष्वानवशेषतः। सेनानिवेशे यद् वृत्तं कुरुपाण्डवसेनयोः॥ दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम्। यदहं बुद्ध्यमानोऽपियुद्धदोषान् क्षयोदयान्॥ तथापि निकृतिप्रज्ञं पुत्रं दुर्दूतदेविनम्। न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः॥ भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी। दुर्योधनं समासाद्य पुनः सा परिवर्तते॥ एवं गते वै यद् भावि तद् भविष्यति संजय। क्षत्रधर्मः किल रणे तनुत्यागो हि पूजितः॥ संजय उवाच त्वद्युक्तोऽयमनुप्रश्नो महाराज यथेच्छसि। न तु दुर्योधने दोषमिममाधातुमर्हसि॥ शृणुष्वानवशेषेण वदतो मम पार्थिवा य आत्मनो दुश्चरितादशुभं प्राप्नुयानरः। न स कालं न वा देवानेनसा गन्तुमर्हति॥ महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्। स बध्यः सर्वलोकस्य निन्दितानि समाचरन्॥ निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया। अनुभूताः सहामात्यैनिकृतैरधिदेवने॥ हयानां च गजानां च राज्ञां चामिततेजसाम्। वैशसं समरे वृत्तं यत् तन्मे शृणु सर्वशः॥ स्थिरो भूत्वा महाप्राज्ञ सर्वलोकक्षयोदयम्। यथाभूतं महायुद्धे श्रुत्वा चैकमना भव॥ न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः। अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत्॥ केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया। पूर्वकर्मभिरष्यन्ये तेरैधमेतत् प्रदृश्यते। तस्मादनर्थमापन्नः स्थिरो भूत्वा निशामय॥ संजय उवाच तस्मिन् प्रवृत्ते संग्रामे गजवाजिनरक्षये। शकुनिः सौबलो राजन् सहदेवं समभ्ययात्॥ ततोऽस्यापततस्तूर्णं सहदेवः प्रतापवान्। शरौघान् प्रेषयामास पतङ्गानिव शीघ्रगान्॥ उलूकश्च रणे भीमं विव्याध दशभिः शरैः। शकुनिश्च महाराजं भीमं विद्ध्वा त्रिभिः शरैः॥ सायकानां नवत्या वै सहदेवमवाकिरत्। ते शूराः समरे राजन् समासाद्य परस्परम्॥ विव्यधुनिशितैर्बाणैः कङ्कबर्हिणवाजितैः। स्वर्णपुजैः शिलाधौतेराकर्णप्रहितैः शरैः॥ तेषां चापभुजोत्सृष्टा शरवृष्टिविशाम्पते। आच्छादयद् दिशः सर्वा धारा इव पयोमुचः॥ ततः क्रुद्धो रणे भीमः सहदेवश्च भारत। चेरतुः कदनं संख्ये कुर्वन्तौ सुमहाबलौ॥ ताभ्यां शरशतैश्छन्नं तद् बलं तव भारत। सान्धकारमिवाकाशमभवत् तत्र तत्र ह॥ अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशाम्पते। तत्र तत्र वृतो मार्गो विकर्षद्भिर्हतान् बहून्॥ निहतानां हयानां च सहैव हयसादिभिः। वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष॥ ऋष्टिभिः शक्तिभिश्चैव सासिप्रासपरश्वधैः। संछन्ना पृथिवी जज्ञे कुसुमैः शबला इव॥ योधास्तत्र महाराज समासाद्य परस्परम्। व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम्॥ उत्तनयनै रोषात् संदष्टौष्ठपुटैर्मुखैः। सकुण्डलैर्मही च्छन्ना पद्मकिञ्जल्कसंनिभैः॥ भुजैश्छिन्नैर्महाराज नागराजकरोपमैः। साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वधैः॥ कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि। क्रव्यादगणसंछन्ना घोराभूत् पृथिवी विभो॥ अल्पावशिष्टे सैन्ये तु कौरवेयान् महाहवे। प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम्॥ एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान्। प्रासेन सहदेवस्य शिरसि प्राहरद् भृशम्॥ स विह्वलो महाराज रथोपस्थ उपाविशत्। सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान्॥ सर्वसैन्यानि संक्रुद्धो वारयामास भारत। निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः॥ विनिर्भिद्याकरोचैव सिंहनादमरिंदमः। तेन शब्देन वित्रस्ता: सर्वे सहयवारणाः॥ प्राद्रवन् सहसा भीताः शकुनेश्च पदानुगाः। प्रभग्नानथ तान् दृष्ट्वा राजा दुर्योधनोऽब्रवीत्॥ निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः। इह कीर्ति समाधाय प्रेत्य लोकान् समश्नुते॥ प्राणाञ्जहाति यो धीरो युद्धे पृष्ठमदर्शयन्। एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः॥ पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम्। द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः॥ क्षुब्धसागरसंकाशा: क्षुभिताः सर्वतोऽभवन्। तांस्तथा पुरतो दृष्ट्वा सौबलस्य पदानुगान्॥ प्रत्युद्ययुर्महाराज पाण्डवा विजयोद्यता:। प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशाम्पते॥ शकुनि दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः। धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव॥ अथान्यद् धनुरादाय शकुनिर्युद्धदुर्मदः। विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः॥ उलूकोऽपि महाराज भीमं विव्याध सप्तभिः। सहदेवं च सप्तत्या परीप्सन् पितरं रणे॥ तं भीमसेनः समरे विव्याध नवभिः शरैः। शकुनि च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः॥ हन्यमाना भीमेन नाराचैस्तैलपायितैः। सहदेवं रणे क्रुद्धाश्छादयशरवृष्टिभिः॥ पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः। ततोऽस्यापततः शूराः सहदेवः प्रतापवान्॥ उलूकस्य महाराज भल्लेनापाहरच्छिरः। स जगाम रथाद् भूमि सहदेवेन पातितः॥ रुधिराप्लुतसर्वाङ्गो नन्दयन् पाण्डवान् युधि। पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत॥ साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन्। चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन्॥ सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः। तानपास्य शरान् मुक्ताशरसंधैः प्रतापवान्॥ सहदेवो महाराज धनुश्चिच्छेद संयुगे। छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा॥ प्रगृह्य विपुलं खड़ सहदेवाय प्राहिणोत्। तमापतन्तं सहसा घोररूपं विशाम्पते।॥ द्विधा चिच्छेद समरे सौबलस्य हसन्निव। असिं दृष्ट्वा तथा च्छिन्नं प्रगृह्य महतीं गदाम्॥ प्राहिणोत् सहदेवाय सा मोघा न्यपतद् भुवि। ततः शक्तिं महाघोरां कालरात्रीमिवोद्यताम्॥ प्रेषयामास संक्रुद्धः पाण्डवं प्रति सौबलः। तामापतन्तीं सहसा शरैः कनकभूषणैः॥ त्रिधा चिच्छेद समरे सहदेवो हसन्निव। सा पपात त्रिधा च्छिन्ना भूमौ कनकभूषणा॥ शीर्यमाणा यथा दीप्ता गगनाद् वै शतह्रदा। शक्ति विनिहतां दृष्ट्वा सौबलं च भयार्दितम्॥ दुद्रुवुस्तावका: सर्वे भये जाते ससौबलाः। अथोत्क्रुष्टं महचासीत् पाण्डवैर्जितकाशिभिः॥ धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाभवन्। तान् वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान्॥ शरैरनेकसाहस्रर्वारयामास संयुगे। ततो गान्धारकैर्गुप्तं पुष्टैरश्वैर्जये धृतम्॥ आससाद रणे यान्तं सहदेवोऽथ सौबलम्। स्वमंशमवशिष्टं तं संस्मृत्य शकुनि नृप॥ रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात्। अधिज्यं बलवत् कृत्वा व्याक्षिपन् सुमहद् धनुः॥ स सौबलमभिदुत्य गार्धपत्रैः शिलाशितैः। भृशमभ्यहनत् क्रुद्धस्तोत्रैरिव महाद्विपम्॥ उवाच चैनं मेधावी विगृह्य स्मारयन्निव। क्षत्रधर्मे स्थिरो भूत्वा युध्यस्व पुरुषो भव॥ यत् तदा हृष्यसे मूढ ग्लहन्नक्षैः सभातले। फलमद्य प्रपश्यस्व कर्मणस्तस्य दुर्मते॥ निहत्तास्ते दुरात्मानो येऽस्मानवहसन् पुरा। दुर्योधनः कुलाङ्गारः शिष्टस्त्वं चास्य मातुलः॥ अद्य ते निहनष्यामि क्षुरेणोन्मथितं शिरः। वृक्षात् फलमिवाविद्धं लगुडेन प्रमाथिना॥ एवमुक्त्वा महाराज सहदेवो महाबलः। संक्रुद्धो रणशार्दूलो वेगेनाभिजगाम तम्॥ अभिगम्य सुदुर्धर्षः सहदेवो युधां पतिः। विकृष्य बलवच्चापं क्रोधेन प्रज्वलन्निव॥ शकुनि दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः। छत्रं ध्वजं धनुश्चास्य च्छित्त्वा सिंह इवानदत्॥ छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः। कृतो विद्धश्च बहुभिः सर्वमर्मसु सायकैः॥ ततो भूयो महाराज सहदेवः प्रतापवान्। शकुनेः प्रेषयामास शरवृष्टिं दुरासदाम्॥ ततस्तु क्रुद्ध सुबलस्य पुत्रो माद्रीसुतं सहदेवं विमर्दे। प्रासेन जाम्बूनदभूषणेन जिघांसुरेकोऽभिपपात शीघ्रम्॥ माद्रीसुतस्तस्य समुद्यतं तं प्रासं सुवृत्तौ च भुजौ रणाये। भल्लैस्त्रिभिर्युगपत् संचकर्त ननाद चोचैस्तरसाऽऽजिमध्ये॥ तस्याशुकारी सुसमाहितेन सुवर्णपुढेन दृढायसेन। भल्लेन सर्वावरणातिगेन शिरः शरीरात् प्रममाथ भूयः॥ शरेण कार्तस्वरभूषितेन दिवाकराभेण सुसंहितेन। हृतोत्तमाङ्गो युधि पाण्डवेन पपात भूमौ सुबलस्य पुत्रः॥ स तच्छिरो वेगवता शरेण सुवर्णपुड्वेन शिराशितेन। प्रावेरयत् कुपित पाण्डुपुत्रो यत्तत् कुरूणामनयस्य मूलम्॥ भुजौ सुवृत्तौ प्रचकर्त वीरः पश्चात् कबन्धं रुधिरावसिक्तम्। विस्पन्दमानं निपपात घोरं रथोत्तमात् पार्थिव पार्थिवस्य॥ हृतोत्तमाकं शकुनि समीक्ष्य भूमौ शयानं रुधिराईगात्रमा योधास्त्वदीया भयनष्टसत्त्वा दिशः प्रजग्मुः प्रगृहीतशस्त्राः॥ प्रविदुताः शुष्कमुखा विसंज्ञा गाण्डीवघोषेण समाहताश्चा भयार्दिता भग्नरथाश्वनागाः पदातयश्चैव सधार्तराष्ट्राः॥ ततो रथाच्छुकुनिं पातयित्वा मुदान्विता भारत पाण्डवेयाः। शङ्खान् प्रदध्मुः समरेऽतिहष्टाः सकेशवाः सैनिकान् हर्षयन्तः॥ तं चापि सर्वे प्रतिपूजयन्तो दृष्ट्वा ब्रुवाणाः सहदेवमाजौ। दिष्ट्या हतो नैकृतिको महात्मा सहात्मजो वीर रणे त्वयेति॥ धृतराष्ट्र उवाच यत्तद् वैकर्तनः कर्णो राक्षसश्च घटोत्कचः। निशीथे समसजेतां तद् युद्धमभवत् कथम्॥ कीदृशं चाभवद् रूपं तस्य घोरस्य रक्षसः। स्थश्च कीदृशस्तस्य हयाः सर्वायुधानि च॥ किंप्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा। कीदृशं वर्म चैवास्य शिरस्त्राणं च कीदृशम्॥ पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यासि संजय। संजय उवाच लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः॥ ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः। आकर्णदारितास्यश्च तीक्ष्णदंष्ट्रः करालवान्॥ सुदीर्घताम्रजिह्वोष्ठो लम्बभूः स्थूलनासिकः। नीलाङ्गो लोहितग्रीवो गिरिवर्पा भयंकरः॥ महाकायो महाबाहुर्महाशी। महाबलः। विकृतः परुषस्पर्शो विकटोवृद्धपिण्डकः॥ स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान्। तथैव हस्ताभरणी महामायोऽङ्गदी तथा॥ उरसा धारयन् निष्कमग्निमालां यथाचलः। तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम्॥ तोरणप्रतिमं शुभं किरीटं मूर्ध्यशोभित। कुण्डले बाल सूर्यामे मालां हेममयीं शुभाम्॥ घारयन् विपुलं कांस्यं कवचं च महाप्रभम्। किंकिणीशतनिर्घोषं रक्तध्वजपताकिनम्॥ ऋक्षचौवनद्धाङ्गं नल्वमानं महारथम्। सर्वायुधवरोपेतमास्थितो ध्वजशालिनम्॥ अष्टचक्रसमायुक्तं मेघगम्भीरनिःस्वनम्। मत्तमातङ्गसंकाशा लोहिताक्षा विभीषणाः॥ कामवर्णजवा युक्ता बलवन्तः शतं हयाः। वहन्तो राक्षसं घोरं बालवन्तो जितश्रमाः॥ विपुलाभिः सटाभिस्ते ह्येवमाणा मुहुर्मुहुः। राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः॥ रश्मिभिः सूर्यरश्म्याभैः संजग्राह हयान् रणे। स तेन सहितस्तस्थावरुणेन यथा रविः॥ संसक्त इव चाभ्रेण यथाद्रिमहता महान्। दिवःस्पृक् सुमहान् केतुः स्यन्दनेऽस्य समुच्छ्रितः।। १७ रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः। वासवाशनिनिर्घोषं दृढज्यमतिविक्षिपन्॥ व्यक्तं किष्कुपरीणाहं द्वादशारत्निकार्मुकम्। रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन् दिशः॥ तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात्। तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः॥ अश्रूयत धनुघोंषो विस्फूर्जितमिवाशनेः। तेन वित्रास्यमानानि तव सैन्यानि भारत॥ समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः। तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम्॥ उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत्। ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात्॥ मातङ्ग इव मातङ्गं यूथर्षभमिवर्षभः। स संनिपातस्तुमुलस्तयोरासीद् विशाम्पते॥ कर्णराक्षसयो राजनिन्द्रशम्बरयोरिव। तौ प्रगृह्य महावेगे धनुषी भीमनिःस्वने॥ प्राच्छादयतामन्योन्यं तक्षमाणौ महेषुभिः। ततः पूर्णायतोत्सृष्टैरिषुभिर्नतपर्वभिः॥ न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी। तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ॥ रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः। संछिन्दन्तौ च गात्राणि संदधानौ च सायकान्॥ दहन्तौ च शरोल्काभिर्दुष्प्रेक्ष्यौ च बभूवतुः। तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ॥ व्यभ्राजेतां यथा वारि स्रवन्तौ गैरिकाचलौ। तौ शराग्रविनुन्नाङ्गौ निर्भिन्दन्तौ परस्परम्॥ नाकम्पयेतामन्योन्यं यतमानौ महाद्युती। तत् प्रवृत्तं निशायुद्धं चिरं सममिवाभवत्॥ प्राणयोर्दीव्यतो राजन् कर्णराक्षसयोर्मधे। तस्य संदधतस्तीक्ष्णञ्छरांश्चासक्तमस्यतः॥ धनुर्घोषण वित्रस्ताः स्वे परे च तदाभवन्। घटोत्कचं यदा कर्णो विशेषयति नो नृप॥ ततः प्रादुष्करोद् दिव्यमस्रमस्रविदां वरः। कर्णेन संधितं दृष्ट्वा दिव्यमस्र घटोत्कचः॥ प्रादुश्चक्रे महामायां राक्षसी पाण्डुनन्दनः। शूलमुद्गरधारिण्या शैलपादपहस्तया॥ रक्षसां घोररूपाणां महत्या सेनया वृतः। तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः॥ भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम्। घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः॥ प्रसुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम्। ततोऽश्मवृष्टिरत्युग्रा महत्यासीत् समन्ततः॥ अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः। आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः॥ पतन्त्यविरलाः शूलाः शतघ्यः पट्टिशास्तथा। तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिप।॥ पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः। तत्रैकोऽस्रबलश्लाघी कर्णो मानी च विव्यथे॥ व्यधमच शरैर्मायां तां घटोत्कचनिर्मिताम्। मायायां तु प्रहीणायाममर्षाच घटोत्कचः॥ विससर्ज शरान् घोरान् सूतपुत्रं च आविशन्। ततस्ते रुधिराभ्यक्ता भित्त्वा कर्ण महाहवे॥ विविशुर्धरणी बाणा: संक्रुद्धा इव पन्नगाः। सूतपुत्रस्तु संक्रुद्धो लघुहस्तः प्रतापवान्॥ घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः। घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु॥ चक्रं दिव्यं सहस्रारमगृह्णाद् व्यथितो भृशम्। क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम्॥ चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया। प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः॥ अभाग्यस्येव संकल्पस्तन्मोघमपतद् भुवि। घटोत्कचस्तु संक्रुद्धो दृष्ट्वा चक्रं निपातितम्॥ कर्णं प्राच्छादयद् बाणैः स्वार्भानुरव भास्करम्। सूतपुत्रस्त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः॥ घटोत्कचरथं तूर्णं छादयामास पत्रिभिः। घटोत्कचने क्रुद्धेन गदा हेमाङ्गदा तदा॥ क्षिप्ताऽऽभ्राम्य शरैः सापि कर्णेनाभ्याहतापतत्। ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन्॥ प्रववर्ष महाकायो दुमवर्ष नभस्तलात्। ततो मायाविनं कर्णो भीमसेनसुतं दिवि॥ मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः। तस्य सर्वान् हयान् हत्वा संछिद्य शतधा रथम्॥ अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान्। न चास्यासीदनिर्भिनं गात्रे सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा। न हयान्न रथं तस्य न ध्वजं न घटोत्कचम्॥ दृष्टवन्तः सम समरे शरौघैरभिसंवृतम्। व्यङ्गुलमन्तरम्॥ स तु कर्णस्य तद् दिव्यमस्रमस्रेण शातयन्॥ मायायुद्धेन मायावी सूतपुत्रमयोधयत्। सोऽयोधयत् तदा कर्णं माया लाघवेन च॥ अलक्ष्यमाणानि दिवि शरजालानि चापतन्। भैमसेनिर्महामायो मायया कुरुसत्तम्॥ विचचार महाकायो मोहयन्निव भारत। स तु कृत्वा विरूपाणि वदनान्यशुभानि च॥ अग्रसत् सूतपुत्रस्य दिव्यान्यस्राणि मायया। पुनश्चापि महाकायः संछिन्नः शतधा रणे॥ गतसत्त्वो निरुत्साहः पतितः खाद्ध्यदृश्यत। तं हतं मन्यमानाः स्म प्राणदन् कुरुपुङ्गवाः॥ अथ देहेर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यता पुनश्चापि महाकायः शतशीर्षः शतोदरः॥ व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः। अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः॥ सागरोमिरिवोद्भूतस्तिर्यगूर्ध्वमवर्तत। वसुधां दारयित्वा च पुनरप्सु न्यमजत॥ अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः। सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते॥ क्षितिं खं च दिशश्चैव माययाभ्येत्य दंशितः। गत्वा कर्णरथाभ्याशं व्यचरत् कुण्डलाननः॥ प्राह वाक्यमसम्भ्रान्तः सूतपुत्रं विशाम्पते। तिष्ठेदानी क्व मे जीवन सूतपुत्र गमिष्यसि॥ युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे। इत्युक्त्वा रोषाताम्राक्षं रक्षः क्रूरपराक्रमम्॥ उत्पपातान्तरिक्षं च जहास च सुविस्तरम्। कर्णमभ्यहनच्चैव गजेन्द्रमिव केसरी॥ रथाक्षमात्रैरिषुभिरभ्यवर्षद् घटोत्कचः। रथिनामृषभं कर्णं धाराभिरिव तोयदः॥ शरवृष्टिं च तां कर्णो दूरात् प्राप्तामशातयत्। दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ॥ घटोत्कचस्ततो मायां ससर्जन्तर्हितः पुनः। सोऽभवद् गिरिरत्युचः शिखरैस्तरुसंकटैः॥ शूलप्रासासिमुसलजलप्रस्रवणो महान्। तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम्॥ प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे। स्मयन्निव ततः कर्णो दिव्यमस्रमुदैरयत्॥ ततः सोऽस्रेण शैलेन्द्रो विक्षिप्तौ वै न्यनश्यत। ततः स तोयदो भूत्वा नील: सेन्द्रायुधो दिवि॥ अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत्। अथ संधाय वायव्यमस्रमस्रविदां वरः॥ व्यधमत् कालमेघं तं कर्णो वैकर्तनो वृषः। स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः॥ जघानास्रं महाराज घटोत्कचसमीरितम्। ततः प्रहस्य समरे भैमसेनिर्महाबलः॥ प्रादुश्चक्रे महामायां कर्णं प्रति महारथम्। स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम्॥ घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम्। सिंहशार्दूलसदृशैर्मत्तमातङ्गविक्रमैः॥ गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा। नानाशस्रधरैोरै नाकवचभूषणैः॥ वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम्। दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम्॥ घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः। ननाद भैरवं नादं भीषयन् सर्वपार्थिवान्॥ भूयश्चाञ्जलिकेनाथ सम्मार्गणगणं महत्। कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः॥ अथान्यद् धनुरादाय दृढं भारसहं महत्। विचकर्ष बलात् कर्ण इन्द्रायुधमिवोच्छ्रितम्॥ ततः कर्णो महाराज प्रेषयामास सायकान्। सुवर्णपुलाञ्छत्रुघ्नान् खेचरान् राक्षसान् प्रति॥ तद् बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्। सिंहनेवादितं वन्यं गजानामाकुलं कुलम्॥ विघम्य राक्षसान् बाणैः साश्वसूतगजान् विभुः। ददाह भगवान् वह्निर्भूतानीव युगक्षये॥ स हत्वा राक्षसी सेनां शुशुभे सूतनन्दनः। पुरेव त्रिपुरं दग्ध्वा दिवि देवा महेश्वरः॥ तेषु राजसहस्रेषु पाण्डवेयेषु मारिष। नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिवः॥ ऋते घटोत्कचाद् राजन् राक्षसेन्द्रान्महाबलात्। भीमवीर्यबलोपेतात् क्रुद्धाद वैवस्वतादिव॥ तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत। महोल्काभ्यां यथा राजन् सार्चिषः स्नेहबिन्दवः॥ तलं तलेन संहत्य संदश्य दशनच्छदम्। रथमास्थाय च पुनर्मायया निर्मितं तदा॥ युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः। स सूतमब्रवीत् क्रुद्धः सूतपुत्राय मां वह॥ स ययौ घोररूपेण रथेन रथिनां वरः। द्वैरथं सूतपुत्रेण पुनरेव विशाम्पते॥ स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः। अष्टचक्रां महाघोरामशनि रुद्रनिर्मिताम्॥ द्वियोजनसमुत्सेधां योजनायामविस्तराम्। आयसीं निचितां शूलैः कदम्बमिव केसरैः॥ तामवप्लुत्य जग्राह कर्णो न्यस्य महद् धनुः। चिक्षेप चैनां तस्यैव स्यन्दनात् सोऽवपुप्लुवे॥ साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा। विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः॥ कर्ण तु सर्वभूतानि पूजयामासुरञ्जसा। यदवप्लुत्य जग्राह देवसृष्टां महाशनिम्॥ एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः। ततो मुमोच नाराचान् सूतपुत्रः परंतप॥ अशक्यं कर्तुमन्येन सर्वभूतेषु मानद। यदकार्षीत् तदा कर्णः संग्रामे भीमदर्शने॥ स हन्यमानो नाराचैर्धाराभिरिव पर्वतः। गन्धर्वनगराकारः पुनरन्तरधीयत॥ एवं स वै महाकायो मायया लाघवेन च। अस्राणि तानि दिव्यानि जघान रिपुसूदनः॥ निहन्यमानेष्वस्रेषु मायया तेन रक्षसा। असम्भ्रान्तस्तदा कर्णस्तद् रक्षः प्रत्ययुध्यत॥ निहन्यमानेष्वस्रेषु मायया तेन रक्षसा। असम्भ्रान्तस्तदा कर्णस्तद् रक्षः प्रत्ययुध्यत॥ ततः क्रुद्धो महाराज भैमसेनिर्महाबलः। चकार बहुधाऽऽत्मानं भीषयाणो महारथान्॥ ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः। अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः॥ स कीर्यमाणो विशिखैः कर्णचापच्युतैः शरैः। नागराडिव दुष्प्रेक्ष्यस्तत्रैवान्तरधीयत॥ राक्षसाश्च पिशाचाश्च यातुधानास्तथैव च। शालावृकाश्च बहवो वृकाश्च विकृताननाः॥ ते कर्णं क्षपयिष्यन्तः सर्वतः समुपाद्रवन्। अथैनं वाग्भिरुग्राभिस्रासयांचक्रिरे तदा॥ उद्यतैर्बहुभि।रैरायुधैः शोणितोक्षितैः। तेषामनेकैरेकैकं कर्णो विव्याध सायकैः॥ प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम्। आजघान हयानस्य शरैः संनतपर्वभिः॥ ते भग्ना विक्षताङ्गाश्च भिन्नपृष्ठाश्च सायकैः। वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः॥ स भग्नमायो हैडिम्ब कर्णं वैकर्तनं तदा। एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत॥ धृतराष्ट्र उवाच महानपनयः सूत ममैवात्र विशेषतः। स इदानीमनुप्राप्तो मन्ये संजय शोचतः॥ यद् गतं तद् गतमिति ममासीन्मनसि स्थितम्। इदानीमत्र किं कार्य प्रकरिष्यामि संजय॥ यथा ह्येष क्षयो वृत्तो ममापनयसम्भवः। वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि संजय॥ संजय उवाच कर्णभीमौ महाराज पराक्रान्तौ महाबलौ। बाणवर्षाण्यसृजतां वृष्टिमन्ताविवाम्बुदौ॥ भीमनामाङ्किता बाणा: स्वर्णपुलाः शिलाशिताः। विविशुः कर्णमासाद्य च्छिन्दन्त इव जीवितम्॥ तथैव कर्णनिर्मुक्ता:शरा बर्हिणवाससः। छादयाञ्चकिरे वीरं शतशोऽथ सहस्रशः॥ तयोः शरैर्महाराज सम्पतद्भिः समन्ततः। बभूव तत्र सैन्यानां संक्षोभः सागरोत्तरः॥ भीमचापच्युतैर्बाणैस्तव सैन्यमरिंदम। अवध्यत चमूमध्ये घोरैराशीविषोपमैः॥ वारणैः पतितै राजन् वाजिभिश्च नरैः सह। अदृश्यत मही कार्णा वातभग्नैरिव दुमैः॥ ते वध्यमानाः समरे भीमचापच्युतैः शरैः। प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन्॥ ततो व्युदस्तं तत सैन्यंसिन्धुसौवीरकौरवम्। प्रोत्सारितं महावेगैः कर्णपाण्ड्योः शरैः॥ ते शूरा हतभूयिष्ठा हताश्वरथवारणाः। उत्सृज्य भीमकर्णौ च सर्वतो व्यद्रवन् दिशः॥ नूनं पार्थार्थमेवास्मान् मोहयन्ति दिवौकसः। यत् कर्णभीमप्रभवैर्वध्यते नो बलं शरैः॥ एवं ब्रुवाणा योधास्ते तावका भयपीडिताः। शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः॥ ततः प्रावर्तत नदी घोररूपा रणाजिरे। शूराणां हर्षजननी भीरूणां भयवर्धिनी॥ वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा। संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः॥ सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः। स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः॥ जातरूपपरिष्कारैर्धनुर्भिः सुमहाखनैः। सुवर्णपु?रिषुभिर्नाराचैश्च सहस्रशः॥ कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः। प्रासतोमरसंघातैः खङ्गैश्च सपरश्वधैः॥ सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः। ध्वजैश्च विविधाकारैः शक्तिभिः परिधैरपि॥ शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी। कनकाङ्गदहारैश्च कुण्डलैर्मुकुटैस्तथा॥ वलयैरपविद्धैश्च तत्रैवाङ्गुलिवेष्टकैः। चूडामणिभिरुष्णीषैः स्वर्णसूत्रैश्च मारिष॥ तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत। वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि॥ गजाश्वमनुजैभिन्नैः शोणिताक्तैश्च पत्रिभिः। तैस्तैश्च विविधौर्भिन्नस्तत्र तत्र वसुंधरा॥ पतितैरपविद्धैश्च विबभौ द्यौरिव ग्रहैः। अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम्॥ दृष्ट्वा चारणसिद्धानां विस्मयः समजायत। अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे॥ आसीद् भीमसहायस्य रौद्रमाधिरथर्गतम्। निपातितध्वजरथं हतवाजिनरद्विपम्॥ गजाभ्यां सम्प्रयुक्ताभ्यामासीन्नलवनं यथा। मेघजालनिभं सैन्यमासीत् तव नराधिप॥ विमर्दः कर्णभीमाभ्यामासीच परमो रणे। संजय उवाच हते तस्मिन् महावीर्ये सौभद्रे रथयूथपे। विमुक्तस्थसंनाहाः सर्वे निक्षिप्तकार्मुकाः॥ उपोपविष्टा राजानं परिवार्य युधिष्ठिरम्। तदेव युद्धं ध्यायन्तः सौभद्रगतमानसाः॥ ततो युधिष्ठिरो राजा विललाप सुदुःखितः। अभिमन्यौ हते वीरे भ्रातुः पुत्रेमहारथे॥ द्रोणानीकमसम्बाधं मम प्रियचिकीर्षया। भित्त्वा व्यूहं प्रविष्टोऽसौ गोमध्यमिव केसरी॥ यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे। प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः॥ अत्यन्तशत्रुरस्माकं येन दुःशासनः क्षिप्रं ह्यभिमुखः संख्ये विसंज्ञो विमुखीकृतः॥ स तीर्खा दुस्तरं वीरो द्रोणनीकमहार्णवम्। प्राप्य दौःशासनिं कार्णिः प्राप्तो वैवस्वतक्षयम्॥ कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम्। सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम्॥ किंस्विद् वयमपेतार्थमश्लिष्टमसमञ्जसम्। तावुभौ प्रतिवक्ष्यामो हृषीकेशधनंजयौ॥ शरैः। अहमेव सुभद्रायाः केशवार्जुनयोरपि। प्रियकामो जयाकाक्षी कृतवानिदमप्रियम्॥ न लुब्धो बुध्यते दोषाँ ल्लोभान्मोहात् प्रवर्तते। मधुलिप्सुर्हि नापश्यं प्रपातमहमीदृशम्॥ यो हि भोज्ये पुरुकार्यो यानेषु शयनेषु च। भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः॥ कथं हि बालस्तरुणो युद्धानामविशारदः। सदश्व इव सम्बाधे विषमे क्षेममर्हति॥ नो चेद्धि वयमप्येनं महीमनु शयीमहि। बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा॥ अलुब्धो मतिमान् ह्रीमान् क्षमावान् रूपवान् बली। वपुष्मान् मानकृद् वीरः प्रियः सत्यपराक्रमः॥ यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः। निवातकवचाञ्जने कालकेयांश्च वीर्यवान्॥ महेन्द्रशत्रवो येन हिरण्यपुरवासिनः। अक्ष्णोनिमेषमात्रेण पौलोमाः सगणा हताः॥ परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः। तस्यास्माभिर्न शकितस्त्रातुमप्यात्मजो बली॥ तु सुमहत् प्राप्तं धार्तराष्ट्रान् महाबलान्। पार्थः पुत्रवधात् क्रुद्धः कौरवाशोषयिष्यति॥ क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयमातुरः। व्यक्तं दुर्योधनो दृष्ट्वाशोचन् हास्यति जीवितम्॥ न मे जयः प्रीतिकरो न राज्यं न चामरत्वं न सुरैः सलोकता। इमं समीक्ष्याप्रतिवीर्यपौरुषं निपातितं देववरात्मजात्मजम्॥ द्रौपद्युवाच अशोच्यत्वं कुतस्तस्य यस्या भर्ता युधिष्ठिरः। जानन् सर्वाणि दुःखानि किं मां त्वं परिपृच्छसि॥ यन्मां दासीप्रवादेन प्रातिकामी तदानयत्। सभापरिषदो मध्ये तन्मां दहति भारत।।२ पार्थिवस्य सुता नाम का नु जीवति मादृशी। अनुभूयेदृशं दुःखमन्यत्र द्रौपदी प्रभो॥ वनवासगतायाश्च सैन्धवेन दुरात्मना। परामर्शो द्वितीयो वै सोढुमुत्सहते तु का॥ मत्स्यराजसमक्षं तु तस्य धूर्तस्य पश्यतः। कीचकेन परामृष्टा का नु जीवति मादृशी॥ एवं बहुविधैः क्लेशैः क्लिश्यमानां च भारत। न मां जानासि कौन्तेय किं फलं जीवितेन मे॥ योऽयं राज्ञो विराटस्य कीचको नाम भारत। सेनानी: पुरुषव्याघ्रः श्यालः परमदुर्मतिः॥ स मां सैरन्ध्रवेषेण वसन्ती राजवेश्मनि। नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै॥ तेनोपमन्त्र्यमाणाया वधाहेण सपत्नहन्। कालेनेव फलं पक्वं हृदयं मे विदीर्यते॥ भ्रातरं च विगर्हस्व ज्येष्ठं दुर्दूतदेविनम्। यस्यास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम्॥ को हि राज्यं परित्यज्य सर्वस्वं चात्मना सह। प्रव्रज्यायैव दीव्येत विना दुर्दूतदेविनम्॥ यदि निष्कसहस्रेण यच्चान्यत् सारवद् धनम्। सायम्प्रातरदेविष्यदपि संवत्सरान् बहून्॥ रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम्। अश्वाश्वतरसङ्घांश्च न जातु क्षयमावहेत्॥ सोऽयं द्यूतप्रवादेन श्रियः प्रत्यवरोपितः। तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन्।।१४। दश नागसहस्राणि हयानां हेममालिनाम्। यं यान्तमनुयान्तीह सोऽयं द्यूतेन जीवति॥ रथाः शतसहस्राणि नृपाणाममितौजसाम्। उपासन्त महाराजमिन्द्रप्रस्थे युधिष्ठिरम्॥ शतं दासीसहस्राणां यस्य नित्यं महानसे। पात्रीहस्तं दिवारात्रमतिथीन् भोजयन्त्युत॥ एष निकसहस्राणि प्रदाय ददतां वरः। द्यूतजेन ह्यनर्थेन महता समुपाश्रितः॥ एवं हि स्वरसम्पन्ना बहवः सूतमागधाः। सायम्प्रातरुपातिष्ठन् सुमृष्टमणिकुण्डलः॥ सहस्रमृषयो यस्य नित्यमासन् सभासदः। तपःश्रुतोपसम्पन्नाः सर्वकामैरुपस्थिताः॥ अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः। त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः॥ अप्रतिग्राहिणां चैव यतीनामूर्ध्वरेतसाम्। दश चापि सहस्राणि सोऽयमास्ते नरेश्वरः॥ आनृशंस्यमनुक्रोशं संविभागस्तथैव च। यस्मिन्नेतानि सर्वाणि सोऽयमास्ते नरेश्वरः॥ अन्धान् वृद्धांस्तथानाथान् बालान् राष्ट्रेषु दुर्गतान्। बिभर्ति विविधान् राजा धृतिमान् सत्यविक्रमः। संविभागमना नित्यमानृशंस्याद् युधिष्ठिरः॥ स एष निरयं प्राप्तो मत्स्यस्य परिचारकः। सभायां देविता राज्ञः कङ्को ब्रूते युधिष्ठिरः॥ इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः। आसन् बलिभृतः सर्वे सोऽद्यान्यै तिमिच्छति॥ पार्थिवाः पृथिवीपाला यस्यासन् वशवर्तिनः। स वशे विवशो राजा परेषामद्य वर्तते॥ प्रताप्य पृथिवीं सर्वां रश्मिमानिव तेजसा। सोऽयं राज्ञो विराटस्य सभास्तारो युधिष्ठिरः॥ यमुपासन्त राजानः सभायामृषिभिः सह। तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम्॥ सदस्यं यमुपासीनं परस्य प्रियवादिनम्। दृष्ट्वा युधिष्ठिरं कोपो वर्धते मामसंशयम्॥ अतदर्ह महाप्राज्ञं जीवितार्थेऽभिसंस्थितम्। दृष्ट्वा कस्य न दुःखं स्याद् धर्मात्मानं युधिष्ठिरम्॥ उपास्ते स्म सभायां यं कृत्स्ना वीर वसुन्धरा। तमुपासीनमप्यन्यं पश्य भारत भारतम्॥ एवं बहुविधैर्दुःखैः पीड्यमानामनाथवत्। शोकसागरमध्यस्थां किं मां भीम न पश्यसि॥ भीष्म उवाच एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूजकः। अत्यन्तश्रीमति कुले जातः प्राज्ञो बहुश्रुतः॥ मैत्रेय उवाच असंशयं महाप्राज्ञ यथैवात्थ तथैव तत्। अनुज्ञातश्च भवता किंचिद् ब्रूयामहं विभो॥ व्यास उवाच यद् यदिच्छसि मैत्रेय यावद् यावद् यथा यथा। ब्रूहि तत्त्वं महाप्राज्ञ शुश्रूषे वचनं तव॥ मैत्रेय उवाच निर्दोषं निर्मलं चैवं वचनं दानसंहितम्। विद्यातपोभ्यां हि भवान् भावितात्मा न संशयः॥ भवतो भावितात्मत्वाल्लाभोऽयं सुमहान् मम। भूयो बुद्ध्यानुपश्यामि सुसमृद्धतपा इव॥ अपि नो दर्शनादेव भवतोऽभ्युदयो भवेत्। मन्ये भवत्प्रसादोऽयं तद्धि कर्म स्वभावतः॥ तपः श्रुतं च योनिश्चाप्यतेद् ब्राह्मण्यकारणम्। त्रिभिर्गुणैः समुदितस्ततो भवति वै द्विजः॥ अस्मिंस्तृप्ते च तृप्यन्ते पितरो दैवतानि च। न हि श्रुतवतां किंचिदधिकं ब्राह्मणादृते॥ अन्धं स्यात् तम एवेदं न प्रज्ञायेत किंचन। चातुर्वण्र्यं न वर्तेत धर्माधर्मावृतानृते॥ यथा हि सुकृलभे क्षेत्रे फलं विन्दति मानवः। एवं दत्त्वा श्रुतवति फलं दाता समश्नुते॥ ब्राह्मणश्चेन्न विन्देत श्रुतवृत्तोपसंहितः। प्रतिग्रहीता दानस्य मोघं स्याद् धनिनां धनम्॥ अदनविद्वान् हन्त्यन्नमद्यमानं च हन्ति तम्। तं चान्नं पाति यश्चान्नं स हन्ता हन्यतेऽबुधः॥ प्रभुन्नमदन् विद्वान् पुनर्जनयतीश्वरः। स चान्नाज्जायते तस्मात् सूक्ष्म एष व्यतिक्रमः॥ यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः। न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः॥ यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः। तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते॥ ये योनिशुद्धाः सततं तपस्यभिरता भृशम्। दानाध्ययनसम्पन्नास्ते वै पूज्यतमाः सदा॥ तैर्हि सद्धिः कृतः पन्थास्तेन यातो न मुह्यते। ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः॥ मार्कण्डेय उवाच काश्यपो ाथ वासिष्ठः प्राणश्च प्राणपुत्रकः। अग्निराङ्गिरसश्चैव च्यवनस्त्रिषु वर्चकः॥ अचरन्त तपस्तीव्र पुत्रार्थे बहुवार्षिकम्। पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम्॥ महाव्यातिभिातः पञ्चभिस्तैस्तदा त्वथ। जज्ञे तेजो महार्चिष्मान् पञ्चवर्णः प्रभावनः॥ समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा। त्वड्नेत्रे च सुवर्णाभे कृष्णे जङ्ग्रे च भारत॥ पञ्चवर्णः स तपसा कृतस्तै पञ्चभिर्जनैः। पाञ्चजन्यः श्रुतो देवः पञ्चवंशकरस्तु सः॥ दशवर्षसहस्राणि तपस्तप्त्वा महातपाः। जनयत् पावकं घोरं पितॄणां स प्रजाः सृजन्॥ बृहद् स्थन्तरं मूों वक्त्राद् वा तरसाहरौ। शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत्॥ बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह। एतान् सष्ट्वा ततः पञ्च पितृणामसृजत् सुतान्॥ बृहद्रथस्य प्रणिधिः काश्यपस्य महत्तरः। भानुरङ्गिरसो धीरः पुत्रो वर्चस्य सौभरः॥ प्राणस्य चानुदात्तस्तु व्याख्याताः पञ्चविंशतिः। देवान् यज्ञमुषश्चान्यान् सृजत् पञ्चदशोत्तरान्॥ सुभीममतिभीमं च भीमं भीमबलाबलम्। एतान् यज्ञमुषः पञ्च देवानां ह्यसृजत् तपः॥ सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम्। मित्रधर्माणमित्येतान् देवानभ्यसृजत् तपः॥ सुरप्रवीरं वीरं च सुरेशं च सुवर्चसम्। सुराणामपि हन्तारं पञ्चैतानसृजत् तपः॥ त्रिविधं संस्थिता होते पञ्च पञ्च पृथक् पृथक्। मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः॥ तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्धविः। स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च॥ बहिर्वेद्यां तदादानं कुशलैः सम्प्रवर्तितम्। तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत्॥ चितोऽग्निरुद्वहन् यज्ञं पक्षाभ्यां तान् प्रबाधते। मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम्॥ बृहदुक्थस्तपस्यैव पुत्रो भूमिमुपाश्रितः। अग्निहोत्रे हूयमाने पृथिव्यां सद्रिरिज्यते॥ रथन्तरश्च तपसः पुत्रोऽग्निः परिपठ्यते। मित्रविन्दाय वै तस्य हविरध्वर्यवो विदुः॥ मुमुदे परमप्रीत: सह पुत्रैर्महायशाः॥ युधिष्ठिर उवाच किमर्थं सहसा विथ्यः प्रवृद्धः क्रोधमूर्छितः। एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने॥ लोमश उवाच अद्रिराजं महाशैलं मेरुं कनकपर्वतम्। उदयास्तमने भानुः प्रदक्षिणमवर्तत॥ तं तु दृष्ट्वा विध्यः शैल: सूर्यमथाब्रवीत्। यथा हि मेरुर्भवता नित्यशः परिगम्यते॥ प्रदक्षिणश्च क्रियते मामेवं कुरु भास्कर। एवमुक्तस्ततः सूर्यः शैलेन्द्र प्रत्यभाषत॥ नाहमात्मेच्छया शैलं करोम्येनं प्रदक्षिणम्। एष मार्गः प्रदिष्टो मे यैरिदं निर्मितं जगत्॥ एवमुक्तस्ततः क्रोधात् प्रवृद्धः सहसाचलः। सूर्याचन्द्रमसोर्मागं रोद्भुमिच्छन् परंतप॥ ततो देवाः सहिताः सर्व एव विन्ध्यं समागम्य महाद्रिराजम्। निवारयामासुरुपायतस्तं न च स्म तेषां वचनं चकार॥ अथाभिजग्मुर्मुनिमाश्रमस्थं तपस्विनधर्मभृतां वरिष्ठम्। अगस्त्यमत्यद्भुतवीर्यवन्तं तं चार्थमूचुः सहिताः सुरास्ते॥ देवा ऊचुः सूर्याचन्द्रमसोर्मागं नक्षत्राणां गतिं तथा। शैलराजो वृणोत्येष विन्ध्यः क्रोधवशानुगः॥ तं निवारयितुं शक्तो नान्यः कश्चिद् द्विजोत्तम्। ऋते त्वां हि महाभाग तस्मादेनं निवारय॥ तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात्। सोऽभिगम्याब्रवीद् विन्ध्यं सदारः समुपस्थितः॥ मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम। दक्षिणामभिगन्तास्मि दिशं कार्येण केनचित्॥ यावदागमनं मह्यं तावत् त्वं प्रतिपालय। निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः॥ एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन। अद्यापि दक्षिणाद् देशाद् वारुणिर्न निवर्तते॥ एतत् ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते। अगस्त्यस्य प्रभावेण यन्मां त्वं परिपृच्छसि॥ कालेयास्तु यथा राजन् सुरैः सर्वैर्निषूदिताः। अगस्त्याद् वरमासाद्य तन्मे निगदतः शृणु॥ त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत्। किमर्थमभियाताः स्थ वरं मत्तः कमिच्छथा एवमुक्तास्ततस्तेन देवता मुनिमब्रुवन्॥ एवं त्वयेच्छाम कृतं हि कार्य महार्णवं पीयमानं महात्मन्। ततो वधिष्याम सहानुबन्धान् कालेयसंज्ञान् सुरविद्विषस्तान्॥ त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत्। करिष्ये भवतां कामं लोकानां च महत् सुखम्।।१९। एवमुक्त्वा ततोऽगच्छत् समुद्रं सरितां पतिम्। ऋषिभिश्च तपःसिद्धैः सार्धं देवैश्च सुव्रत॥ समुद्रं भीमनिः मनुष्योरगगन्धर्वयक्षकिंपुरुषास्तथा। अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम्॥ ततोऽभ्यगच्छन् सहिताः :स्वनम्। नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना॥ हसन्तमिव फेनौधैः स्खलन्तं कन्दरेषु च। नानाग्राहसमाकीर्णं नानाद्विजगणान्वितम्॥ अगस्त्यसहिता देवाः सगन्धर्वमहोरगाः। ऋषयश्च महाभागाः समासेदुर्महोदधिम्॥ ऋषय ऊचुः पजापतेरुत्तरवेदिरुच्यते सनातनं राम समन्तपञ्चकम्। समीजिरे यत्र पुरा दिवौकसो वरेण सत्रेण महावरप्रदाः॥ पुरा च राजर्षिवरेण धीमता बहूनि वर्षाण्यमितेन तेजसा। प्रकृष्टमेतत् कुरुणा महात्मना ततः कुरुक्षेत्रमितीह पप्रथे॥ राम उवाच किमर्थं कुरूणां कृष्टं क्षेत्रमेतन्महात्मना। एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः॥ ऋषय ऊचुः पुरा किल कुरुं राम कर्षन्त सततोत्थितम्। अभ्येत्य शक्रस्त्रिदिवात् पर्यपृच्छत कारणम्॥ इन्द्र उवाच किमिदं वर्तते राजन् प्रयत्नेन परेण च। राजर्षे किमभिप्रेत्य येनेयं कृष्यते क्षितिः॥ कुरुरुवाच इह ये पुरुषाः क्षेत्रे मरिष्यन्ति शतक्रतो। ते गमिष्यन्ति सुकृताँल्लोकान् पापविवर्जितान्॥ अवहस्य ततः शक्रो जगाम त्रिदिवं पुनः। राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुधराम्॥ आगम्यागम्य चैवेनं भूयोभूयोऽवहस्य च। शतक्रतुरनिर्विण्णं पृष्ट्वा पृष्ट्वा जगाम ह॥ यदा तु तपसोगेण चकर्ष वसुधां नृपः। ततः शक्रोऽब्रवीद् देवान् राजर्षेर्यचिकीर्षितम्॥ एतच्छ्रुत्वाब्रुवन् देवाः सहस्राक्षमिदं वचः। अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति॥ आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत्। अलं खेदेन भवतः क्रियतां वचनं मम॥ मानवा ये निराहारा देहं त्यक्ष्यन्तन्द्रिताः। युधि वा निहता: सम्यगपि तिर्यग्गता नृप॥ ते स्वर्गभाजो राजेन्द्र भविष्यन्ति महामते। तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह।।॥ ततस्तमभ्यनुज्ञाप्य प्रहष्टेनान्तरात्मना। जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः॥ एवमेदतद् यदुश्रेष्ठं कृष्टं राजर्षिणा पुरा। शक्रेण चाभ्यनुज्ञातं ब्रह्माद्यैश्च सुरैस्तथा॥ नातः परतरं पुण्यं भूमेः स्थानं भविष्यति। इह तप्स्यन्ति ये केचित्तपः परमकं नरा॥ देहत्यागेन ते सर्वे यास्यन्ति ब्रह्मणः क्षयम्। ये पुनः पुण्यभाजो वै दानं दास्यन्ति मानवाः॥ तेषां सहस्रगुणितं भविष्यत्यचिरेण वै। ये चेह नित्यं मनुजा निवत्स्यन्ति शुभैषिणः॥ यमस्य विषयं ते तु न द्रक्ष्यन्ति कदाचन। यक्ष्यन्ति ये च क्रतुभिर्महद्भिर्मनुजेश्वराः॥ तेषां त्रिविष्टपे वासो यावद्भूमिर्धरिष्यति। अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः॥ कुरुक्षेत्रनिबद्धां वै तां शृणुष्व हलायुध। पांसवोऽपि कुरुक्षेत्राद् वायुना समुदीरिताः। अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्॥ सुरर्षभा ब्राह्मणसत्तमाश्च तथा नृगाद्या नरदेवमुख्याः। इष्ट्वा महाहैः क्रतुभिर्नृसिंहा संत्यज्य देहान् सुगति प्रपन्नाः॥ तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानां च मचक्रुकस्य च। एतत् कुरुक्षेत्रसमन्तपञ्चक प्रजापतेरुत्तरवेदिरुच्यते॥ शिवं महापुण्यमिदं दिवौकसां सुसम्मतं सर्वगुणैः समन्वितम्। अतश्च सर्वे निहता नृपा रणे यास्यन्ति पुण्यां गतिमक्षयां सदा॥ इत्युवाच स्वयं शक्रः सह ब्रह्मादिभिस्तदा। तचानुमोदितं सर्वं ब्रह्मविष्णुमहेश्वरैः॥ वैशम्पायन उवाच प्रवेशने तु पार्थानां जनानां पुरवासिनाम्। दिदृक्षूणां सहस्राणि समाजग्मुः सहस्रशः॥ स राजमार्गः शुशुभे समलंकृतचत्वरः। यथा चन्द्रोदये राजन् वर्धमानो महोदधिः॥ गृहाणि राजमार्गेषु रत्नवन्ति महान्ति च। प्राकम्पन्तेव भारेण स्त्रीणां पूर्णानि भारत॥ ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम्। भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ॥ धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान्। उपतिष्ठसि कल्याणि महर्षीनिव गौतमी॥ तव कर्माण्यमोघानि व्रतचर्या च भाविनि। इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः॥ प्रशंसावचनस्तासां मिथ:शब्दैश्च भारत। प्रीतिजैश्च तदा शब्दैः पुरमासीत् समाकुलम्॥ तमतीत्य यथायुक्तं राजमार्ग युधिष्ठिरः। अलंकृतं शोभमानमुपायाद् राजवेश्म ह॥ ततः प्रकृतयः सर्वाः पौरा जानपदास्तदा। ऊचुः कर्णसुखा वाचः समुपेत्य ततस्ततः॥ दिष्ट्या जयसि राजेन्द्र शत्रूञ्छत्रुनिषूदन। दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च।॥ भव नस्त्वं महाराज राजेह शरदां शतम्। प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं तथा॥ एवं राजकुलद्वारि मङ्गलैरभिपूजितः। आशीर्वादान् द्विजैरुक्तान् प्रतिगृह्य समन्ततः॥ प्रविश्य भवनं राजा देवराजगृहोपमम्। श्रद्धाविजयसंयुक्तं रथात् पश्चादवातरत्॥ प्रविश्याभ्यन्तरं श्रीमान् दैवतान्यभिगम्य च। पूजयामास रत्नैश्च गन्धमाल्यैश्च सर्वशः॥ निश्चक्राम ततः श्रीमान् पुनरेव महायशाः। ददर्श ब्राह्मणांश्चैव सोऽभिरूपानवस्थितान्॥ स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः। शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा॥ तांस्तु वै पूजयामास कौन्तेयो विधिवद् द्विजान्। धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च।॥ सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा। गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः॥ ततः पुण्याहघोषोऽभूद् दिवं स्तब्ध्वेव भारत। सुहृदां प्रीतिजननः पुण्यः श्रुतिसुखावहः॥ हंसवद् विदुषां राजन् द्विजानां तत्र भारती। शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा॥ ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः। जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप॥ निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः। राजानं ब्राह्मणच्छद्या चार्वाको राक्षसोऽब्रवीत्॥ तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः। साक्षः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः॥ वृतः सर्वैस्तथा विप्रैराशीर्वादविवक्षुभिः। परःसहनै राजेन्द्र तपोनियमसंवृतः॥ स दुष्टः पापमाशंसुः पाण्डवानां महात्मनाम्। अनामन्त्र्यैव तान् विप्नांस्तमुवाच महीपतिम्॥ चार्वाक उवाच इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि। धिग् भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै॥ किं तेन स्याद्धि कौन्तेय कृत्वेमं ज्ञातिसंक्षयम्। घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम्॥ इति ते वै द्विजाः श्रुत्वा तस्य दुष्टस्य रक्षसः। विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः॥ ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः। वीडिताः परमोद्विग्नास्तूष्णीमासन् विशाम्पते॥ युधिष्ठिर उवाच प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः। प्रत्यासन्नव्यसनिनं न पां धिक्कर्तुमर्हथ।॥ वैशम्पायन उवाच ततो राजन् ब्राह्मणास्ते सर्व एव विशाम्पते। ऊचुनैतद् वचोऽस्माकं श्रीरस्तु तव पार्थिव॥ जजुश्चैव महात्मानस्ततस्तं ज्ञानचक्षुषा। ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः॥ ब्राह्मणा ऊचु: एव दुर्योधनसखा चार्वाको नाम राक्षसः। परिव्राजकरूपेण हितं तस्य चिकीर्षति॥ वयं ब्रूमो न धर्मात्मन् व्येतु ते भयमीदृशम्। उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह॥ वैशम्पायन उवाच ततस्ते ब्राह्मणाः सर्वे हुंकारैः क्रोधमूर्छिताः। निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम्॥ पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम्। महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव॥ पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम्। राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः॥ पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम्। राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः॥ वैशम्पायन उवाच वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा। महारतेषु छन्नेषु मासा दश समाययुः॥ याज्ञसेनी सुदेष्णां तु श्रुश्रूषन्ती विशाम्पते। आवसत् परिचारार्हा सुदुःखं जनमेजय॥ तथा चरन्ती पाञ्चाली सुदेष्णाया निवेशने। तां देवीं तोषयामास तथा चान्त:पुरस्त्रियः॥ तस्मिन् वर्षे गतप्राये कीचकस्तु महाबलः। सेनापतिविराटस्य ददर्श दुपदात्मजाम्॥ तां दृष्ट्वा देवगर्भाभां चरन्ती देवतामिव। कीचकः कामयामास कामबाणप्रपीडितः॥ स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै। प्रहसन्निव सेनानीरिदं वचनमब्रवीत्॥ नेयं मया जातु पुरेह दृष्टा राज्ञो विराटस्य निवेशने शुभा। रूपेण चोन्मादयतीव मां भृश गन्धेन जाता मदिरेव भामिनी॥ का देवरूपा हृदयङ्गमा शुभे ह्याचक्ष्व मे कस्य कुतोऽत्र शोभने। चित्तं हि निर्मध्य करोति मां वशे न चान्यदत्रौषधमस्ति मे मतम्॥ अहो तवेयं परिचारिका शुभा प्रत्यग्ररूपा प्रतिभाति मामियम्। अयुक्तरूपं हि करोति कर्म ते प्रशास्तु मां यच्च ममास्ति किंचन॥ प्रभूतनागाश्वरथं महाजनं समृद्धियुक्तं बहुपानभोजनम्। मनोहरं काञ्चचित्रभूषणं गृहं महच्छोभयतामियं मम॥ स्ततः समभ्येत्य नराधिपात्मजाम्। उवाच कृष्णामभिसान्त्वयंस्तदा मृगेन्द्रकन्यामिव जम्बुको वने॥ का त्वं कस्यासि कल्याणि कुतो वा त्वं वरानने। प्राप्ता विराटनगरं तत् त्वमाचक्ष्व शोभने।॥ रूपमङ्गयं तथा कान्तिः सौकुमार्यमनुत्तमम्। कान्त्या विभाति वक्त्रं ते शशाङ्क इव निर्मलम्।।१३। नेत्रे सुविपुले सुभ्र पद्मपत्रनिभे शुभे। वाक्यं ते चारुसर्वाङ्गि परपुष्टरुतोपमम्॥ एवंरूपा मया नारी काचिदन्या महीतले। न दृष्टपूर्वा सुश्रोणि यादृशी त्वमनिन्दिते॥ लक्ष्मी: पद्मालया का त्वमथ भूतिः सुमध्यमे। ह्रीः श्रीः कीर्तिरथो कान्तिरासां का त्वं वरानने।।१६। अतीवरूपिणी किं त्वमनङ्गाङ्गविहारिणी। अतीव भ्राजसे सुभ्र प्रभेवेन्दोरनुत्तमा॥ अपिचेक्षणपक्ष्माणां स्मितं ज्योत्स्नोपमं शुभम्। दिव्यांशुरश्मिभिर्वृत्तं दिव्यकान्तिमनोरमम्॥ निरीक्ष्य वक्त्रचन्द्रं ते लक्ष्यानुपमया युतम्। कृत्स्ने जगति को नेह कामस्य वशगो भवेत्॥ हारालंकारयोग्यौ तु स्तनौ चोभौ सुशोभनौ। सुजातौ सहितौ लक्ष्म्या पीनौ वृत्तौ निर गै॥ कुड्मलाम्बुरुहाकारौ तव सुभ्रु पयोधरौ। कामप्रतोदाविव मां तुदतश्चारुहासिनि॥ वलीविभङ्गचतुरं स्तनभारविनामितम्। कराग्रसम्मितं मध्यं तवेदं तनुमध्यमे॥ दृष्ट्वैव चारु जघनं सरित्पुलिनसंनिभम्। कामव्याधिरसाध्यो मामप्याक्रामति भामिनि॥ जज्वाल चाग्निमदनो दावाग्निरिव निर्दयः। त्वत्सङ्गमाभिसंकल्पविवृद्धो मां दहत्ययम्॥ आत्मप्रदानवर्षेण संगमाम्भोधरेण च। शमयस्व वरारोहे ज्वलन्त मन्मथानलम्॥ मच्चित्तोन्मादनकरा मन्मथस्य शरोत्कराः। त्वत्संगमाशानिशितास्तीवाः शशिनिभानने। मां विदार्य हृदयमिदं निर्दयवेगिताः॥ प्रविष्टा ह्यसितापाङ्गि प्रचण्डाश्चण्डदारुणाः। अत्युन्मादसमारम्भाः प्रीत्युन्मादकरा मम। आत्मप्रदानसम्भोगैर्मामुद्धर्तुमिहार्हसि॥ चित्रमाल्याम्बरधरा सर्वाभरणभूषिता। कामं प्रकामं सेव त्वं मया सह विलासिनि॥ । नार्हसीहासुखं वस्तुं सुखार्हा सुखवर्जिता। प्राप्नुह्यनुत्तमं सौख्यं मत्तस्त्वं मत्तगामिनि॥ स्वादून्यमृतकल्पानि पेयानि विविधानि च। पिबमाना मनोज्ञानि रममाणा यथासुखम्॥ भोगोपचारान् विविधान् सौभाग्यं चाप्यनुत्तमम्। पानं पिब महाभागे भोगैश्चानुत्तमैः शुभैः॥ इदं हि रूपं प्रथमं तवान निरर्थकं केवलमद्य भामिनि। अधार्यमाणा स्रगिवोत्तमा शुभा न शोभसे सुन्दरि शोभना सती॥ दारान् मम ये त्यजामि पुरातना भवन्तु दास्यस्तव चारुहासिनि। अहं च ते सुन्दरि दासवत् स्थितः सदा भविष्ये वशगो वरानने॥ द्रौपद्युवाच अप्रार्थनीयामिह मां सूतपुत्राभिमन्यसे। निहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिणीम्॥ परदारास्मि भद्रं ते न युक्तं तव साम्प्रतम्। दयिता: प्राणिनां दारा धर्मं समनुचिन्तय॥ परदारे न ते बुद्धिर्जातु कार्या कथंचन। विवर्जनं ह्यकार्याणामेतत् सुपुरुषव्रतम्॥ मिथ्याभिगृनो हि नरः पापात्मा मोहमास्थितः। अयशः प्राप्नुयाद् घोरं महद् वा प्राप्नुयाद् भयम्॥३७ वैशम्पायन उवाच एवमुक्तस्तु सैरन्ध्या कीचकः काममोहितः। जानन्नपि सुदुर्बुद्धिः परदाराभिमर्शने।॥ दोषान् बहून् प्राणहरान् सर्वलोकविगर्हितान्। प्रोवाचेदं सुदुर्बुद्धिद्रौपदीमजितेन्द्रियः॥ नार्हस्येवं वरारोहे प्रत्याख्यातुं वरानने। मां मन्मथसमाविष्टं त्वत्कृते चारुहासिनि॥ प्रत्याख्याय च मां भीरु वशगं प्रियवादिनम्। नूनं त्वमसितापाङ्गि पश्चात्तापं करिष्यसि॥ अहं हि सुभ्र राज्यस्य कृत्स्नस्यास्य सुमध्यमे। प्रभुर्वासयिता चैव वीर्ये चाप्रतिमः क्षितौ॥ पृथिव्यां मत्समो नास्ति कश्चिदन्यः पुमानिह। रूपयौवनसौभाग्यैर्भोगैश्चानुत्तमैः शुभैः॥ सर्वकामसमृद्धेषु भोगेष्वनुपमेष्विह। भोक्तव्येषु च कल्याणि कस्माद् दास्ये रता ह्यसि॥ मया दत्तमिदं राज्यं स्वामिन्यसि शुभानने। भजस्व मां वरारोहे भुक्ष्व भोगाननुत्तमान्॥ एवमुक्ता तु सा साध्वी कीचकेनाशुभं वचः। कीचकं प्रत्युवाचेदं गर्हयन्त्यस्य तद् वचः॥ सैरभ्युवाच मा सूतपुत्र मुह्यस्व माद्य त्यक्ष्यस्व जीवितम्। जानीहि पञ्चभि।रैर्नित्यं मामभिरक्षिताम्॥ न चाप्यहं त्वया लभ्या गन्धर्वाः पतयो मम। ते त्वां निहन्युः कुपिता: साध्वलं मा व्यनीनशः॥४८ अशक्यरूपं पुरुषैरध्वानं गन्तुमिच्छसि। यथा निश्चेतनो बालः कूलस्थ: कूलमुत्तरम्। तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि॥ अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः समुद्रपारं यदि वा प्रधावसि। तथापि तेषां न विमोक्षमर्हसि प्रमाथिनो देवसुता हि खेचराः।॥ त्वं कालरात्रीमिव कश्चिदातुरः किं मां दृढं प्रार्थयसेऽद्य कीचक। श्चन्द्र जिघृक्षुरिव मन्यसे हि माम्॥ तेषां प्रियां प्रार्थयतो न ते भुवि गत्वा दिवं वा शरणं भविष्यति। न वर्तते कीचक ते दृशा शुभं या तेन संजीवनमर्थयेत् सा॥ अर्जुन उवाच ततो मामतिविश्वस्तं संरूढशरविक्षतम्। देवराजो विगृह्येदं काले वचनमब्रवीत्॥ दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत। न त्वाभिभवितुं शक्तो मानुषो भुवि कश्चन॥ भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः। संग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम्॥ इदं च मे तनुत्राणं प्रायच्छन्मघवान् प्रभुः। अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम्॥ देवदत्तं च मे शङ्ख पुनः प्रादान्महारवम्। दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह॥ ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च। प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च॥ एवं सम्पूजितस्तत्र सुखमसम्युषितो नृप। इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह॥ ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह। समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते॥ एवमिन्द्रस्य भवने पञ्च वर्षाणि भारत। उषितानि मया राजन् स्मरता द्यूतजं कलिम्॥ ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम्। गन्धमादनपादस्य पर्वतस्यास्य मूर्धनि।॥ युधिष्ठिर उवाच दिष्ट्याधनंजयास्त्राणि त्वया प्राप्तानि भारत। दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः॥ दिष्ट्या च भगवान् स्थाणुर्देव्या सह परंतप। साक्षाद् दृष्टः स्वयुद्धेन तोषितश्च त्वयानघ॥ दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ। दिष्ट्या वर्धामहे पार्थ दिष्ट्यासि पुनरागतः॥ अद्य कृत्स्नां महीं देवीं विजितां पुरमालिनीम्। मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान्॥ इच्छामि तानि चास्त्राणि द्रष्टुं दिव्यानि भारत। यैस्तथा वीर्यवन्तस्ते निवातकवचा हताः॥ अर्जुन उवाच श्वः प्रभाते भवान् द्रष्टा दिव्यान्यस्त्राणि सर्वशः। निवातकवचा घोरा यैर्मया विनिपातिताः॥ वैशम्पायन उवाच एवमागमनं तत्र कथयित्वाधनंजयः। भ्रातृभिः सहितः सर्वै रजनी तामुवास ह॥ ब्रह्मोवाच अहंकारात् प्रसूतानि महाभूतानि पञ्च वै। पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्॥ तेषु भूतानि मुह्यन्ति महाभूतेषु पञ्चसु। शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च॥ महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते। सर्वप्राणभृतां धीरा महदभ्युद्यते भयम्॥ यद् यस्माज्जायते भूतं तत्र तत् प्रविलीयते। लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम्॥ ततः प्रलीने सर्वस्मिन् भूते स्थावरजङ्गमे। स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन॥ शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः। क्रियाः करणनित्याः स्युरनित्या मोहसंज्ञिताः॥ लोभप्रजनसम्भूता निर्विशेषा ह्यकिंचनाः। मांसशोणितसंघाता अन्योन्यस्पोपजीविनः॥ बहिरात्मान इत्येते दीनाः कृपणजीवनः। प्राणापानावुदानश्च समानो व्यान एव च॥ अन्तरात्मनि चाप्येते नियताः पञ्च वायवः। वाड्मनोबुद्धिभिः सार्द्धमिदमष्टात्मकं जगत्॥ त्वध्राणश्रोत्रचढूंषि रसना वाक् च संयताः। विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी॥ अष्टौ यस्याग्नयो ह्येते न दहन्ते मनः सदा। स तद् ब्रह्म शुभं याति तस्माद् भूयो न विद्यते॥ एकादश च यान्याहुरिन्द्रियाणि विशेषतः। अहंकारात् प्रसूतानि तानि वक्ष्याम्यहं द्विजाः॥ श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी। पादौ पायुरुपस्थश्च हस्तौ वाग् दशमी भवेत्॥ इन्द्रियग्राम इत्येष मन एकादशं भवेत्। एतं ग्रामं जयेत् पूर्वं ततो ब्रह्म प्रकाशते॥ बुद्धीन्द्रियाणि पञ्चाहुः पञ्चकर्मेन्द्रियाणि च। श्रोत्रादीन्यपि पञ्चाहुद्धियुक्तानि तत्त्वतः॥ अविशेषाणि चान्यानि कर्मयुक्तानि यानि तु। उभयत्र मनो ज्ञेयं बुद्धिस्तु द्वादशी भवेत्॥ इत्युक्तानीन्द्रियाण्येतान्येकादश यथाक्रमम्। मन्यन्ते कृतमित्येवं विदित्वा तानि पण्डिताः॥ अतः परं प्रवक्ष्यामि सर्वं विविधमिन्द्रियम्। आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते॥ अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम्। द्वितीयं मारुतो भूतं त्वगध्यात्म च विश्रुता॥ स्पष्टव्यमधिभूतं च विद्युत् तत्राधिदैवतम्। तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते॥ अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम्। चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममुच्यते॥ अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम्। पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममुच्यते॥ अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम्। एषु पञ्चसु भूतेषु त्रिषु यश्च विधिः स्मृतः॥ अतः परं प्रवक्ष्यामि सर्वं विविधमिन्द्रियम्। पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः॥ अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम्। अवाग्गतिरपानश्च पायुरध्यात्ममुच्यते॥ अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम्। प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते॥ अधिभूतं तथा शुक्र दैवतं च प्रजापतिः। हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः॥ अधिभूतं च कर्माणि शक्रस्तत्राधिदैवतम्। वैश्वदेवी तत: पूर्वा वागध्यात्ममिहोच्यते॥ वक्तव्यमधिभूतं च बह्विस्तत्राधिदैवतम्। अध्यात्मं मन इत्याहुः पञ्चभूतात्मचारकम्॥ अधिभूतं च संकल्पश्चन्द्रमाश्चाधिदैवतम्। अहंकारस्तथाध्यात्म सर्वसंसारकारकम्॥ अभिमानोऽधिभूतं च रुद्रस्तत्राधिदैवतम्। अध्यात्मं बुद्धिरित्याहुः घडिन्द्रियविचारिणी॥ अधिभूतं तु मन्तव्यं ब्रह्मा तत्राधिदैवतम्। त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते॥ स्थलमास्तथाऽऽकाशं जन्म चापि चतुर्विधम्। अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च॥ चतुर्धा जन्म इत्येतद् भूतग्रामस्य लक्ष्यते। अपराण्यथ भूतानि खेचराणि तथैव च॥ अण्डजानि विजानीयात् सर्वाश्चैव सरीसृपान्। स्वदेजाः कृमयः प्रोक्ता जन्तवश्च यथाक्रमम्॥ जन्म द्वितीयमित्येजज्जघन्यतरमुच्यते। भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात्॥ उद्भिज्जानि च तान्याहुर्भूतानि द्विजसत्तमाः। द्विपादबहुपादानि तिर्यग्गतिमतीनि च॥ जरायुजानि भूतानि विकृतान्यपि सत्तमाः। द्विविधा खलु विज्ञेया ब्रह्मयोनिः सनातनी॥ तपः कर्म च यत्पुण्यमित्येष विदुषां नयः। विविधं कर्म विज्ञेयमिज्या दानं च तन्मखे॥ जातस्याध्ययनं पुण्यमिति वृद्धानुशासनम्। एतद् यो वेत्ति विधिवद् युक्तः स स्याद् द्विजर्षभाः।। विमुक्तः सर्वपापेभ्य इति चैव निवोधता यथावदध्यात्मविधिरेष वः कीर्तितो मया॥ ज्ञानमस्य हि धर्मज्ञाः प्राप्तं ज्ञानवतामिह। इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च। सर्वाण्येतानि संधाय मनसा सम्प्रधारयेत्॥ क्षीणे मनसि सर्वस्मिन् च जन्मसुखमिष्यते। ज्ञानसम्पन्नसत्त्वानां तत् सुखं विदुषां मतम्॥ अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम्। निवृत्तिं सर्वभूतेषु मृदुना दारुणेन च॥ गुणागुणमनासङ्गमेकचर्यमनन्तरम्। एतद् ब्रह्ममयं वृत्तमाहुरेकपदं सुखम्॥ विद्वान् कूर्म इवाङ्गानि कामान् संहत्य सर्वशः। विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा॥ कामानात्मनि संयम्य क्षीणतृष्णः समाहितः। सर्वभूतसुहृन्मित्रो ब्रह्मभूयाय कल्पते॥ इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम्। मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते॥ यथाग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते। तथेन्द्रियनिरोधेन महानात्मा प्रकाशते॥ यदा पश्यति भूतानि प्रसन्नात्माऽऽत्मनो हृदि। स्वयंज्योतिस्तदा सूक्ष्मात् सूक्ष्मं प्रन्पोत्यनुत्तमम्॥ अग्नी रूपं पयः स्रोतो वायुः स्पर्शनपेव च। मही पङ्कधरं घोरमाकाशश्रवणं तथा॥ रोगशोकसमाविष्टं पञ्चस्रोतःसमावृतम्। पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम्॥ रजस्वलमथादृश्यं त्रिगुणं च त्रिधातुकम्। संसर्गाभिरतं मूढं शरीरमिति धारणा॥ दुश्चरं सर्वलोकेऽस्मिन् सत्त्वं प्रति समाश्रितम्! एतदेव हि लोकेऽस्मिन् कालचक्र प्रवर्तते॥ एतन्महार्णवं घोरमगाधं मोहसंज्ञितम्। विक्षिपेत् संक्षिपेच्चैव बोधयेत् सामरं जगत्॥ कामं क्रोध भयं लोभमभिद्रोहमथानृतम्। इन्द्रियाणां निरोधेन सतस्त्यजति दुस्त्यजान्॥ यस्यैते निर्जिता लोके त्रिगुणाः पञ्चधातवः। व्योमि तस्य परं स्थानमानन्त्यमथ लभ्यते॥ पञ्चेन्द्रियमहाकूलां मनोवेगमहोदकाम्। नदीं मोहह्रदां तीर्खा कामक्रोधावुभौ जयेत्॥ स सर्वदोषनिर्मुक्तस्ततः पश्यति तत्परम्। मनो मनसि संधाय पश्यन्नात्मानमात्मनि॥ सर्ववित् सर्वभूतेषु विन्दत्यात्मानमात्मनि। एकधा बहुधा चैव विकुर्वाणस्ततस्ततः॥ ध्रुवं पश्यति रूपाणि दीपाद् दीपशतं यथा। स वै विष्णुश्च वरुणोऽग्निः प्रजापतिः॥ स हि धाता विधाता च स प्रभुः सर्वतोमुखः। हृदयं सर्वभूतानां महानात्मा प्रकाशते॥ तं विप्रसंघाश्च सुरासुराश्च यक्षाः पिशाचाः पितरो वयांसि। रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव सदा स्तुवन्ति॥ सुपर्ण उवाच यस्मादुत्तार्यते पापाद् यस्मान्निःश्रेयसोऽश्नुते। अस्मादुत्तारणबलादुत्तरेत्युच्यते द्विज॥ उत्तरस्य हिरण्यस्य परिवापश्च गालव। मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः॥ अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ। नासौम्यो नाविधेयात्मा नाधर्मो वसते जनः॥ अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः। बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः॥ अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः। प्रकृत्या पुरुषः सार्धं युगान्ताग्निसमप्रभः॥ न स दृश्यो मुनिगणैस्तथा देवैः सवासवैः। गन्धर्वयक्षसिद्धैर्वा नरनारायणादृते॥ अत्र विष्णुः सहस्राक्षः सहस्रचरणोऽव्ययः। सहस्रशिरसः श्रीमानेकः पश्यति मायया।॥ अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत। अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम्॥ प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम। अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया॥ अत्र कामश्च रोषश्च शैलचोमा च सम्बभुः। अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव॥ आधिपत्येन कैलासे धनदोऽप्यभिषेचितः। अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः॥ अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ। अत्र सौगन्धिकवनं नैर्ऋतैरभिरक्ष्यते॥ शाद्वलं कदलीस्कन्धमत्र संतानका नगाः। अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम्॥ विमानान्यनुरूपाणि कामभोग्यानि गालव। अत्र ते ऋषयः सप्त देवी चारुन्धती तथा॥ वैशम्पायन उवाच पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः। अभिवाद्यः ततो राजन्निदं वचनमब्रवीत्॥ भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती। अस्मिन् यज्ञे भवन्तो मामनुगृहणन्तु सर्वशः॥ इदं वः सुमहच्चैव यदिहास्ति धनं मम। प्रणयन्तु भवन्तो मां यथेष्टमभिमन्त्रिताः॥ एवमुक्त्वा स तान् सर्वान् दीक्षितः पाण्डवाग्रजः। युयोज स यथायोगमधिकारेष्वनन्तरम्॥ भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत्। परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान्॥ राज्ञां तु प्रतिपूजार्थं संजयं स न्ययोजयत्। कृताकृतपरिज्ञाने भीष्मद्रोणौ महामती॥ हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे। दक्षिणानां च वै दाने कृपं राजा न्ययोजयत्॥ तथान्यान् पुरुषव्याघ्रांस्तस्मिंस्तस्मिन् न्ययोजयत्। वाह्निको धृतराष्ट्रश्च सोमदत्तो जयद्रथः। नकुलेन समानीताः स्वामिवत् तत्र रेमिरे॥ क्षत्ता व्ययकरस्त्वासीद् विदुरः सर्वधर्मावेत्। दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः॥ चरणक्षालने कृष्णो ब्राह्मणानां स्वयं ह्यभूत। सर्वलोकसमावृत्तः पिप्रीषुः फलमुत्तमम्॥ द्रष्टुकामाः सभां चैव धर्मराजं युधिष्ठिरम्। न कश्चिदाहरत् तत्र सहस्रावरमर्हणम्॥ रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयत् कथं तु मम कौरव्यो रत्नदानैः समाप्नुयात्॥ यज्ञमित्येव राजनः स्पर्धमाना ददुर्धनम्। भवनैः सविमानाप्रैः सोदर्बलसंवृतैः॥ लोकराजविमानैश्च ब्राह्मणावसथैः सह। कृतैरावसथैर्दिव्यैर्विमानप्रमिमैस्तथा।॥ विचित्रै रत्नवद्भिश्च ऋद्ध्या परमया युतैः। राजभिश्च समावृत्तैरतीव श्रीसमृद्धिभिः। अशोभत सदो राजन् कौन्तेयस्य महात्मनः॥ ऋद्ध्या तु वरुणं देवं स्पर्धमानो युधिष्ठिरः। षडग्निनाथ यज्ञेन सोऽयजद् दक्षिणावता॥ सर्वाञ्जनान् सर्वकामैः समृद्धैः समतर्पयत्। अन्नवान् बहुभक्ष्यश्च भुक्तवज्जनसंवृतः। रत्नोपहारसम्पन्नो बभूव स समागमः॥ इडाज्यहोमाहुतिभिर्मत्रशिक्षाविशारदैः। तस्मिन् हि ततृपुर्देवास्तते यज्ञे महर्षिभिः॥ यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः। ततृपुः सर्ववर्णाश्च तस्मिन् यज्ञे मुदान्विताः॥ संजय उवाच ततो दुर्योधनो दृष्ट्वा भीमसेनं तथागतम्। प्रत्युद्ययावदीनात्मा वेगेन महता नदन् ॥ समापेततुरन्योन्यं शृङ्गिणौ वृषभाविव। महानिर्घातघोषचं प्रहाराणामजायत॥ अभवच तयोर्युद्धं तुमुलं लोमहर्षणम्। जिगीषतोर्यथान्योन्यमिन्द्रप्रह्लादयोरिव॥ रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ। ददृशाते महात्मानौ पुष्पिताविव किंशुकौ॥ तथा तस्मिन् महायुद्धे वर्तमाने सुदारुणे। खद्योतसंधैरिव खं दर्शनीयं व्यरोचत॥ तथा तस्मिन् वर्तमाने संकुले तुमुले भृशम्। उभावपि परिश्रान्तौ युध्यमानावरिंदमौ॥ तौ मुहूर्तं समाश्वस्य पुनरेव परंतपौ। अभ्यहारयतान्योन्यं सम्प्रगृह्य गदे शुभे॥ तौ तु दृष्ट्वा महावी? समाश्वस्तौ नरर्षभौ। बलिनौ वारणौ यद्वद्वासितार्थे मदोत्कटौ॥ समानवी? सम्प्रेक्ष्य प्रगृहीतगदावुभौ। विस्मयं परमं जग्मुर्देवगन्धर्वमानवाः॥ प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ। संशयः सर्वभूतानां विजये समपद्यत॥ समागम्य ततो भूयो भ्रातरो बलिनां वरौ। अन्योन्यस्यन्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति॥ यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम्। ददृशुः प्रेक्षका राजन् रौद्री विशसनीं गदाम्॥ आविद्ध्यतो गदां तस्य भीमसेनस्य संयुगे। शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत॥ आविद्ध्यन्तमरिं प्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम्। गदामतुलवेगां तां विस्मितः सम्बभूवह॥ चरंश्च विविधानं मार्गान् मण्डलानि च भारत। अशोभत तदा वीरो भूय एव वृकोदरः॥ तौ परस्परमासाद्य यत्तावन्योन्यरक्षणे। मार्जाराविव भक्षार्ये ततक्षाते मुहुर्मुहुः॥ अचरद् भीमसेनस्तु मार्गान् बहुविधांस्तथा। मण्डलानि विचित्राणि गतप्रत्यागतानि च।॥ अस्त्रयन्त्राणि चित्राणि स्थानानि विविधानि च। परिमोक्षं प्रहाराणां वर्जनं परिधावनम्॥ अभिद्रवणमाक्षेपमवस्थानं सविग्रहम्। परिवर्तनसंवर्तमवप्लुतमुपप्लुतम्॥ उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ। एवं तौ विचरन्तौ तु परस्परमविध्यताम्॥ वञ्जयानौ पुनश्चैव चेरतुः कुरुसत्तमौ। विक्रीडन्तौ सुबलिनौ मण्डलानि विचेरतुः॥ तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः। गदाभ्यां सहसान्योन्यमाजघ्नतुररिंदमौ॥ परस्परं समासाद्य दंष्ट्राभ्यां द्विरदौ यथा। अशोभेतां महाराज शोणितेन परिप्लुतौ॥ एवं तदभवद् युद्धं घोररूपं परंतप। परिवृत्तेऽहनि क्रूर वृत्रवासवयोरिव॥ गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली। दक्षिणं मण्डलं राजन् भीमसेनोऽभ्यवर्तत॥ सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत। तथा तु चरतस्तस्य भीमस्य रणमूर्धनि॥ दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत्। आहतस्तु ततो भीमः पुत्रेण तव भारत।॥ आविद्धयत गदां गुर्वी प्रहारं तमचिन्तयन्। इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम्॥ ददृशुस्ते महाराज भीमसेनस्य तां गदाम्। आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः॥ समुद्यम्य गदां घोरां प्रत्यविध्यत् परंतपः। गदामारुतवेगेन तव पुत्रस्य भारत॥ शब्द आसीत् सुतुमुलस्तेजश्च समजायत। स चरन् विविधान् मार्गान् मण्डलानि च भागशः।। समशोभत तेजस्वी भूयो भीमात् सुयोधनः। आविद्धा सर्ववेगेन भीमेन महती गदा॥ सधूमं सार्चिषं चाग्निं मुमोचोग्रमहास्वना। आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः॥ अद्रिसारमयीं गुर्वीमाविध्यन् बहशोभता गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः॥ भयं विवेश पाण्डूंस्तु सर्वानेव ससोमकान्। तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः॥ गदाभ्यां सहसान्योन्यमाजघ्नतुररिंदमौ। तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा॥ अशोभेतां महाराज शोणितेन परिप्लुतौ। एवं तदभवद् युद्धं घोररूपमसंवृतम्॥ परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव। दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः॥ चरंश्चित्रतरान् मार्गान् कौन्तेयमभिदुद्रुवे। तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम्॥ अतिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम्। सविस्फुलिङ्गो नि दस्तयोस्तत्राभिघातजः॥ प्रादुरासीन्महाराज सृष्टयोर्वज्रयोरिव। वेगवत्या तया तत्र भीमसेनप्रमुक्तया॥ निपतन्त्या महाराज पृथिवी समकम्पत। तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे॥ मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात्। स सव्यं मण्डलं राजा उद्भ्राम्य कृतनिश्चयः॥ आजम्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया। तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः॥ नाकम्पत महाराज तदद्भुतमिवाभवत्। आश्चर्यं चापि तद् राजन् सर्वसैन्यान्यपूजयन्॥ यद् गदाभिहतो भीमो नाकम्पत पदात् पदम्। ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम्॥ दुर्योधनाय व्यसृजद् भीमो भीमपराक्रमः। तं प्रहारमसम्भ्रान्तो लाघवेन महाबलः॥ मोघं दुर्योधनश्चक्रे तत्राभूद् विस्मयो महान्। सा तु मोघा गदा राजन् पतन्ती भीमचोदिता॥ चालयामास पृथिवी महानिर्घातनि:स्वना। आस्थाय कौशिकान् मार्गानुत्पतन् स पुनः पुनः॥ गदानिपातं प्रज्ञाय भीमसेनं च वञ्चितम्। वञ्चयित्वा तदा भीमं गदया कुरुसत्तमः॥ ताडयामास संक्रुद्धो वक्षोदेशे महाबलः। गदया निहतो भीमो मुह्यमानो महारणे॥ नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव। तस्मिंस्तथा वर्तमाने राजन् सोमकपाण्डवाः॥ भृशोपहतसंकल्या न हृष्टमनसोऽभवन्। स तु तेन प्रहारेण मातङ्ग इव रोहितः॥ हस्तिवद्धस्तिसंकाशमभिदुद्राव ते सुतम्। ततस्तु तरसा भीमो गदया तनयं तव॥ अभिदुद्राव वेगेन सिंहो वनगजं यथा। उपसृत्य तु राजानं गदामोक्षविशारदः॥ आविध्यत गदां राजन् समुद्दिश्य सुतं तव। अताडयद् भीमसेनः पार्श्वे दुर्योधनं तदा॥ स विह्वलः प्रहारेण जानुभ्यामगमन्महीम्। तस्मिन् कुरुकुलश्रेष्ठे जानुभ्यामवनीं गते॥ उदतिष्ठत् ततो नादः संजयानां जगत्पते। तेषां तु निनदं श्रुत्वा संजयानां नरर्षभः॥ अमर्षाद् भरतश्रेष्ठ पुत्रस्ते समकुप्यता उत्थाय तु महाबाहुर्महानाग इव श्वसन्॥ दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत। ततः स भरतश्रेष्ठो गजापाणिरभिद्रवन्॥ प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे। स महात्मा महात्मानं भीमं भीमपराक्रमः॥ अताडयच्छवदेशे न चचालाचलोपमः। स भूयः शुशुभे पार्थस्ताडितो गदया रणे। उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्जरः॥ ततो गदां वीरहणीमयोमयां प्रगृह्य वज्राशनितुल्यानि:स्वनाम्। अताडयच्छत्रुममित्रकर्षणो बलेन विक्रम्य धनंजयाग्रजः॥ स भीमसेनाभिहतस्तवात्मजः पपात संकम्पितदेहबन्धनः। सुपुष्पितो मारुतवेगताडितो वने यथा शाल इवावघूर्णितः॥ ततः प्रणेदुर्जहषुश्च पाण्डवाः समीक्ष्य पुत्रं पतितं क्षितौ तव। ततः सुतस्ते प्रतिलभ्य चेतनां समुत्पपात द्विरदो यथा ह्रदात्॥ स पार्थिवो नित्यममर्षितस्तदा महारथः शिक्षितवत् परिभ्रमन्। अताडयत् पाण्डवमग्रतः स्थितं स विह्वलाङ्गो जगतीमुपास्पृशत्॥ स सिंहनादं विननाद कौरवो निपात्य भूमौ युधि भीममोजसा। बिभेद चैवाशनितुल्यमोजसा गदानिपातेन शरीररक्षणम्॥ ततोऽन्तरिक्षे निनदो महानभूद् दिवौकसामप्सरसां च नेदुषाम्। पपात चौचैरमरप्रवेरितं विचित्रपुष्पोत्करवर्षमुत्तमम्॥ ततः परानाविशदुत्तमं भयं समीक्ष्य भूमौ पतितं नरोत्तमम्। अहीयमानं च बलेन कौरवं निशाम्य भेदं सुदृढस्य वर्मणः॥ ततो मुहूर्तादुपलभ्य चेतनां प्रमृज्य वक्त्रं रुधिराक्तमात्मनः। धृति समालम्व्य विवृत्य लोचने बलेन संस्तभ्य वृकोदरः स्थितः॥ संजय उवाच शृणु राजन्नवहितो यथावृत्तो महान् क्षयः। कुरूणां पाण्डवानां च समासाद्य परस्परम्॥ निहते सूतपुत्रे तु पाण्डवेन महात्मना। विद्रुतेषु च सैन्येष समानीतेषु चासकृत्॥ घोरे मनुष्यदेहानामाजौ नरवर क्षये। यत्तत् कर्णे हते पार्थः सिंहनादमथाकरोत्॥ तदा तव सुतान् राजन् प्राविशत् समुहद् भयम्। न संधातुमनीकानि न चैवाथ पराक्रमे॥ आसीद् बुद्धिर्हते कर्णे तव योधस्य कस्यचित्। वणिजो नावि भिन्नायामगाधे विप्लवा इव॥ अपारे पारमिच्छन्तो हते द्वीपे किरीटिना। सूतपुत्रे हते राजन् वित्रस्ताः शरविक्षताः॥ अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव। भग्नशृङ्गा इव वृषा: शीर्णदंष्ट्रा इवोरगाः॥ प्रत्युपायाम सायाह्ने निर्जिता सव्यसाचिना। हतप्रवीरा स्विस्ता निकृत्ता निशितैः शरैः॥ सूतपुत्रे हते राजन् पुत्रास्ते प्राद्रवंस्ततः। विध्वस्तकवचाः सर्वे कांदिशीका विचेतसः॥ अन्योन्यमभिनिघ्नन्तो वीक्षमाणा भयाद् दिशः। मामेव नूनं बीभत्सुर्मामेव च वृकोदरः॥ अभियातीति मन्वाना: पेतुर्मम्लुश्च भारत। अश्वानन्ये गजानन्ये स्थानन्ये महारथाः॥ आरुह्य जवसम्पन्ना पादातान् प्रजहुर्भयात्। कुञ्जरैः स्यन्दना भग्नाः सादिनश्च महारथैः॥ पदातिसंघाश्चाश्वोधैः पलायद्भिर्भृशं हताः। व्यालतस्करसंकीर्णे सार्थहीना यथा वने॥ तथा त्वदीया निहते सूतपुत्रे तदाभवन्। हतारोहास्तथा नागाश्छिन्नहस्तास्तथापरे॥ सर्वं पार्थमयं लोकमपश्यन् वै भयार्दिताः। तान् प्रेक्ष्य द्रवतः सर्वान् भीमसेनभयार्दितान्॥ दुर्योधनोऽथ स्वं सूतं हा हा कृत्वैवमब्रवीत्। नातिक्रमिष्यते पार्थो धनुष्पाणिमवस्थितम्॥ जघने युद्धमानं मां तूर्णमश्वान् प्रचोदय। समरे युद्धमानं हि कौन्तेयं मां धनंजयः॥ नोत्सहेताप्यतिक्रान्तुं वेलामिव महार्णवः। अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम्॥ निहत्य शिष्टाशत्रूश्च कर्णस्यानृण्यमाप्नुयाम्। तच्छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः॥ सूतो हेमपरिच्छन्नाशनैरश्वानचोदयत्। गजाश्वरथहीनास्तु पादाताश्चैव मारिष॥ पञ्चविंशतिसाहस्राः प्राद्रवशनकैरिव। तान् भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः॥ बलेन चतुरङ्गेण परिक्षिप्याहनच्छरैः। प्रत्ययुध्यंस्तु ते सर्वे भीमसेनं सपार्षतम्॥ पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी। अक्रुद्ध्यत रणे भीमस्तैर्मधे प्रत्यवस्थितैः॥ सोऽवतीर्य रथात्तूर्णं गदापाणिरयुध्यता न तान् रथस्थो भूमिष्ठान् धर्मापेक्षी वृकोदरः॥ योधयामास कौन्तेयो भुजवीर्यमुपाश्रितः। जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम्॥ न्यवधीत् तावकान् सर्वान् दण्डपाणिरिवान्तकः। पदातयो हि संरब्धास्त्यक्तजीवितबान्धवाः॥ भीममभ्यद्रवन् संख्ये पतङ्गा इव पावकम्। आसाद्य भीमसेनं ते संरब्धा युद्धदुर्मदाः॥ विनेदुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम्। श्येनवद् व्यचरद् भीमः खड्डेन गदया तथा॥ पञ्चविंशतिसाहस्रास्तावकानां व्यपोथयत्। हत्वा तत् पुरुषानीकं भीमः सत्यपराक्रमः॥ धृष्टद्युम्नं पुरस्कृस्य पुनस्तस्थौ महाबलः। धनंजयो स्थानीकमन्वपद्यत वीर्यवान्॥ माद्रीपुत्रो च शकुनि सात्यकिश्च महाबलः। जवेनाभ्यपतन् हृष्टा नन्तो दौर्योधनं बलम्॥ तस्याश्ववाहान् सुवहूंस्ते निहत्य शितैः शरैः। तमन्वधावंस्त्वरितास्तत्र युद्धमवर्तत॥ ततो धनंजयो राजन् रथानीकमगाहत। विश्रुतं त्रिषु लोकेषु गाण्डीवं व्याक्षिपन् धनुः॥ कृष्णसारथिमायन्तं दृष्ट्वा श्वेतहयं रथम्। अर्जुनं चापि योद्धारं त्वदीयाः प्राद्रवन् भयात्॥ विप्रहीनरथाश्वाश्च शरैश्च परिवारिताः। पञ्चविंशतिसाहस्राः पार्थमार्छन् पदातयः॥ हत्वा तत् पुरुषानीकं पञ्चालानां महारथः। भीमसेनं पुरस्कृत्य नचिरात् प्रत्यदृश्यत॥ महाधनुर्धरः श्रीमानमित्रगणमर्दनः। पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महायशाः॥ पारावतसवर्णाश्वं कोविदारवरध्वजम्। धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन् भयात्॥ गान्धारराजं शीघ्रास्त्रमनुसृत्य यशस्विनौ। अचिरात् प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी॥ चेकितानः शिखण्डी च द्रौपदेयाश्च मारिष । हत्वा त्वदीयं सुमहत् सैन्यं शङ्खानथाधमन्॥ ते सर्वे तावकान् प्रेक्ष्य द्रवतो वै पराङ्मुखान्। अभ्यधावन्त निघ्नन्तो वृषाञ्जित्वा वृषा इव॥ सेनावशेषं तं दृष्ट्वा तव पुत्रस्य पाण्डवः। अवस्थितं सव्यसाची चुक्रोध बलावन्नृप॥ तत एनं शरै राजन् सहसा समवाकिरत्। रजसा चोद्गतेनाथ न स्म किंचन दृश्यते॥ अन्धकारीकृते लोके शरीभूते महीतले। दिशः सर्वा महाराज तावकाः प्राद्रवन् भयात्॥ भज्यमानेषु सर्वेषु कुरुराजो विशाम्पते। परेषामात्मनश्चैव सैन्ये ते समुपाद्रवत्॥ ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान्। युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः॥ त एनमभिगर्जन्तं सहिताः समुपाद्रवन्। नानाशस्त्रसृजः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः॥ दुर्योधनोऽप्यसम्भ्रान्तस्तानरीन् व्यधमच्छरैः। तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम्॥ यदेनं पाण्डवाः सर्वे न शेकुरतिवर्तितुम्। नातिदूरापयातं च कृतबुद्धिः पलायने॥ दुर्योधनः स्वकं सैन्यमपश्यद् भृशविक्षतम्। ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः॥ हर्षयन्निव तान् योधास्ततो वचनमब्रवीत्। न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च॥ यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः। स्वल्पं चैव बलं तेषां कृष्णौ च भृशविक्षतौ॥ यदि सर्वेऽत्र तिष्ठामो ध्रुवं नो विजयो भवेत्। विप्रयातांस्तु वो भिन्नान् पाण्डवाः कृतकिल्विषान्।। ५३ अनुसृत्य हनिष्यन्ति श्रेयोः न समरे वधः। सुखः सांग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम्॥ मृतो दुःखं न जानीते प्रेत्य चानन्त्यमश्नुते। शृण्वन्तु क्षत्रिया: सर्वे यावन्तोऽत्र समागताः॥ द्विषतो भीमसेनस्य वशमेष्यथ विद्रुताः। पितामहैराचरितं न धर्मं हातुमर्हथ॥ नान्यत् कर्मास्ति पापीयः क्षत्रियस्य पलायनात्। न युद्धधर्माच्छेयान् हि पन्थाः स्वर्गस्य कौरवाः॥ सुचिरेणार्जिताँल्लोकान् सद्यो युद्धात् समश्रुते। तस्य तद् वचनं राज्ञः पूजयित्वा महारथाः॥ पुनरेवामभ्यवर्तन्त क्षत्रियाः पाण्डवान् प्रति। पराजयममृष्यन्तः कृतचित्ताश्च विक्रमे॥ ततः प्रववृते युद्धं पुनरेव सुदारुणम्। तावकानां परेषां च देवासुररणोपमम्॥ युधिष्ठिरपुरोगांश्च सर्वसैन्येन पाण्डवान्। अन्वधावन्महाराज पुत्रो दुर्योधनस्तव॥ जनमेजय उवाच यत् तत् तदा महद् ब्रह्मल्लँलोमशो वाक्यमब्रवीत्। इन्द्रस्य वचनादेव पाण्डुपुत्रं युधिष्ठिरम्॥ यच्चापि ते भयं तीव्र न च कीर्तयसे क्वचित्। तच्चाप्यपहरिष्यामि धनंजय इतो गते॥ किं न तज्जपतां श्रेष्ठ कर्णं प्रति महद् भयम्। आसीन्न च स धर्मात्मा कथयामास कस्यचित्।।३। वैशम्पायन उवाच अहं ते राजशार्दूल कथयामि कथामिमाम्। पृच्छतो भरतश्रेष्ठ शुश्रूषस्व गिरं मम॥ द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे। पाण्डूनां हितकृच्छक्र: कर्ण भिक्षितुमुद्यतः॥ अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः। कुण्डलार्थे महाराज सूर्यः कर्णमुपागतः॥ महार्हे शयने वीरं स्पास्तरणसंवृते। शयानमतिविश्वस्तं ब्रह्मण्यं सत्यवादिनम्॥ स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान्। कृपया परयाऽऽविष्टः पुत्रस्नेहाच्च भारत॥ ब्राह्मणो वेदविद् भूत्वा सूर्यो योगर्द्धिरूपवान्। हितार्थमब्रवीत् कर्णं सान्त्वपूर्वमिदं वचः॥ कर्ण मद्वचनं तात शृणु सत्यभृतां वर। ब्रुवतोऽद्य महाबाहो सौहृदात् परमं हितम्॥ उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया। ब्राह्मणच्छद्मना कर्ण कुण्डलापजिहीर्षया॥ विदितं तेन शीलं ते सर्वस्य जगतस्तथा। यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे॥ तु वै त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितम्। वित्तं यच्चान्यदप्याहुन प्रत्याख्यासि कस्यचित्॥ त्वां चैवंविधं ज्ञात्वा स्वयं पाकशासनः। आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम्॥ तस्मै प्रयाचमानाय न देये कुण्डले त्वया। अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम्॥ कुण्डलार्थे ब्रुवंस्तात कारणैर्बहुभिस्त्वया। अन्यैर्बहुविधैर्वित्तैः सन्निवार्यः पुनः पुनः॥ रत्नैः स्त्रीभिस्तथा गोभिर्धनैर्बहुविधैरपि। निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरन्दरः॥ यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे। आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपैष्यसि॥ कवचेन समायुक्तः कुण्डलाभ्यां च मानद। अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम॥ अमृतादुत्थितं ह्येतदुभयं रत्नसम्भवम्। तस्माद् रक्ष्यं त्वया कर्ण जीवितं चेत् प्रियं तव॥ कर्ण उवाच को मामेवं भवान् प्राह दर्शयन् सौहृदं परम्। कामया भगवन् ब्रूहि को भवान् द्विजवेषधृक्॥ ब्राह्मण उवाच अहं तात सहस्रांशुः सौहृदात् त्वां निदर्शये। कुरुष्वैतद् वचो मे त्वमेतच्छ्रेयः परं हि ते॥ कर्ण उवाच श्रेय एव ममात्यन्तं यस्य मे गोपतिः : प्रभुः। प्रवक्ताद्य हितान्वेषी शृणु चेदं वचो मम॥ प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम्। न निवार्यो व्रतास्मादहं यद्यस्मि ते प्रियः॥ व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नं विभावसो। यथाहं द्विजमुख्येभ्यो दद्यां प्राणानपि ध्रुवम्॥ यद्यागच्छति मां शक्रो ब्राह्मणच्छद्यना वृतः। हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम्॥ दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम्। न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता।॥ मद्विधस्य यशस्यं हि न युक्तं प्राणरक्षणम्। युक्तं हि यशसा युक्तं मरणं लोकसम्मतम्॥ सोऽहमिन्द्राय दास्यामि कुण्डले सह वर्मणा। यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति॥ हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम्। तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति॥ वृणोमि कीर्ति लोके हि जीवितेनापि भानुमन्। कीर्तिमानश्नुते स्वर्ग हीनकीर्तिस्तु नश्यति॥ कीर्तिर्हि पुरुषं लोके संजीवयति मातृवत्। अकीर्तिर्जीवितं हन्ति जीवतोऽपि शरीरिणः॥ अयं पुराणः श्लोको हि स्वयं गीतो विभावसो। धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य ह॥ पुरुषस्य परे लोके कीतिरेव परायणम्। इह लोके विशुद्धा च कीर्तिरायुर्विवर्द्धनी॥ सोऽहं शरीरजे दत्त्वा कीर्ति प्राप्स्यामि शाश्वतीम् दत्त्वा च विधिवद् दानं ब्राह्मणेभ्यो यथाविधि।॥ हुत्वा शरीरं संग्रामे कृत्वा कर्म सुदुष्करम्। विजित्य च परानाजौ यशः प्राप्स्यामि केवलम्॥ भीतानामभयं दत्त्वा संग्रामे जीवितार्थिनाम्। वृद्धान् बालान् द्विजातींश्च मोक्षयित्वा महाभयात्॥ प्राप्स्यामि परमं लोके यशः स्वर्ग्यमनुत्तमम्। जीवितेनापि मे रक्ष्या कीर्तिस्तद् विद्धि मे व्रतम्॥ सोऽहं दत्त्वा मघवते भिक्षामेतामनुत्तमाम्। ब्राह्मणच्छदिने देव लोके गन्ता परां गतिम्॥ श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्॥ अहिंसां सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्। दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्॥ तेजः क्षमाः धृतिः शौचमद्रोहो नातिमानिता। भवन्ति सम्पदं दैवीमभिजातस्य भारत॥ दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च। अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्॥ दैवी सम्पद् विमोक्षाय निबन्धायासुरी मता। मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव॥ द्वौ भूतस! लोकेऽस्मिन् दैव आसुर एव च। दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु॥ प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः। न शौचं नापि चाचारो न सत्यं तेषु विद्यते॥ असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्। अपरस्परसम्भूतं किमन्यत् कामहैतुकम्॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः। प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥ काममाश्रित्य दुष्पुरं दम्भमानमदान्विताः। मोहाद् गृहीत्वासद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः॥ चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः। कामोपभोगपरमा एतावदिति निश्चिताः॥ आशापाशशतैर्बद्धाः कामक्रोधपरायणाः। ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान्॥ इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्। इदमस्तीदमपि मे भविष्यति पुनर्धनम्॥ असौ मया हतः शत्रुर्हनिष्ये चापरानपि। ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी॥ आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया। अक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥ अनेकचित्तविभ्रान्ता मोहजालसमावृताः। प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ॥ आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः। यजयन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्॥ अहंकारं बलं दर्प कामं क्रोधं च संश्रिताः। मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः॥ तानहं द्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि। मामप्राप्यैव कौन्तेय ततो यान्त्यधमा गतिम्॥ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः। काम: क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत्॥ एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः। आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्॥ यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः। न स सिद्धिमवाप्नोति न सुखं न परां गतिम्॥ तस्माच्छास्त्रं प्रमाण ते कार्याकार्यव्यवस्थितौ। ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि॥ लोमश उवाच परदारेषु ये सक्ता अकृत्वा दारसंग्रहम्। निराशाः पितरस्तेषां श्राद्धकाले भवन्ति वै॥ परदाररतिर्यश्च यश्च वन्ध्यामुपासते। ब्रह्मस्वं हरते यश्च समदोषा भवन्ति ते॥ असम्भाष्या भवन्त्येते पितॄणां नात्र संशयः। देवताः पितरश्चैषां नाभिनन्दन्ति तद्धविः॥ तस्मात् परस्य वै दारांस्त्यजेद् वन्थ्यां च योषितम्। ब्रह्मस्वं हि नर्तव्यमात्मनो हितमिच्छता॥ श्रूयतां चापरं गुह्यं रहस्यं धर्मसंहितम्। श्रद्दधानेन कर्तव्यं गुरूणां वचनं सदा॥ द्वादश्यां पौर्णमास्यां च मासि मासि घृताक्षतम्। ब्राह्मणेभ्यः प्रयच्छेत तस्य पुण्यं निबोधत॥ सोमश्च वर्धते तेन समुद्रश्च महोदधिः। अश्वमेधचतुर्भागं फलं सृजाति वासवः॥ दानेनतेन तेजस्वी वीर्यवांश्च भवेन्नरः। प्रीतश्च भगवान् सोम इष्टान् कामान् प्रयच्छति॥ श्रूयतां चापरो धर्म: सरहस्यो महाफलः। इदं कलियुगं प्राप्य मनुष्याणां सुखावहः॥ कल्यमुत्थाय यो मर्त्यः स्नातः शुक्लेन वाससा। तिलपात्रं प्रयच्छेत ब्राह्मणेभ्यः समाहितः॥ तिलोदकं च यो दद्यात् पितॄणां मधुना सह। दीपकं कृसरं चैव श्रूयतां तस्य यत् फलम्॥ तिलपात्रे फलं प्राह भगवान् पाकशासनः। गोप्रदानं च यः कुर्याद् भूमिदानं च शाश्वतम्॥ अग्निष्टोमं च यो यज्ञं यजेत बहुदक्षिणम्। तिलपात्रं सहैतेन समं मन्यन्ति देवताः॥ तिलोदकं सदा श्राद्धे मन्यन्ते पितरोऽक्षयम्। दीपे च कृसरे चैव तुष्यन्तेऽस्य पितामहाः॥ स्वर्गे च पितृलोके च पितृदेवाभिपूजितम्। एवमेतन्मयोद्दिष्टमृषिदृष्टं पुरातनम्॥ युधिष्ठिर उवाच सर्वेषामुपवासानां यच्छ्रेयः सुमहत्फलम्। यच्चाप्यसंशयं लोके तन्मे त्वं वक्तुमर्हसि॥ भीष्म उवाच शृणु राजन् यथा गीतं स्वयमेव स्वयम्भुवा। यत् कृत्वा निर्वृतो भूयात् पुरुषो नात्र संशयः॥ द्वादश्यां मार्गशीर्षे तु अहोरात्रेण केशवम्। अाश्वमेधं प्राप्नोति दुष्कृतं चास्य नश्यति॥ तथैव पौषमासे तू पूज्यो नारायणेति च। वाजपेयमवाप्नोति सिद्धिं च परमां व्रजेत्॥ अहोरात्रेण द्वादश्यां माघमासे तु माधवम्। राजसूयमवाप्नोति कुलं चैव समुद्धरेत्॥ तथैव फाल्गुने मासि गोविन्देति च पूजयन्। अतिरात्रमवाप्नोति सोमलोकं च गच्छति॥ अहोरात्रेण द्वादश्यां चैत्रे विष्णुरिति स्मरन्। पौण्डरीकमवाप्नोति देवलोकं च गच्छति॥ वैशाखमासे द्वादश्यां पूजयन् मधुसूदनम्। अग्निष्टोममवाप्नोति सोमलोकं च गच्छति॥ अहोरात्रेण द्वादश्यां ज्येष्ठे मासि त्रिविक्रमम्। गवां मेधमवाप्नोति अप्सरोभिश्च मोदते॥ आषाढे मासि द्वादश्यां वामनेति च पूजयन्। नरमेधमवाप्नोति पुण्यं च लभते महत्॥ अहोरात्रेण द्वादश्यां श्रावणे मासि श्रीधरम्। पञ्चयज्ञानवाप्नोति विमानस्थश्च मोदते॥ तथा भाद्रपदे मासि हृषीकेशेति पूजयन्। सौत्रामणिमवाप्नोति पूतात्मा भवते च हि॥ द्वादश्यामाश्विने मासि पद्मनाभेति चार्चयन्। गोसहस्रफलं पृण्यं प्राप्नुयान्नात्र संशयः॥ द्वादश्यां कार्तिके मासि पूज्य दामोदरेति च। गवां यज्ञमवाप्नोति पुमान् स्त्री वा न संशयः॥ अर्चयेत् पुण्डरीकाक्षमेवं संवत्सरं तु यः। जातिस्मरत्वं प्राप्नोति विन्द्याद् बहु सुवर्णकम्॥ अहन्यहनि तद्भावमुपेन्द्रं योऽधिगच्छति। समाप्ते भोजयेद् विप्रानथवा दापयेद् घृतम्॥ अतः परं नोपवासो भवतीति विनिश्चयः। उवाच भगवान् विष्णुः स्वयमेव पुरातनम्॥ उवाच भगवान् विष्णुः स्वयमेव पुरातनम्॥ युधिष्ठिर उवाच असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शनाः। ईदृशान् पुरुषांस्तात कथं विद्यामहे वयम्॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरांतनम्। व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर॥ पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः। परहिंसारति: क्रूरो बभूव पुरुषाधमः॥ स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम्। गोमायुत्वं च सम्प्राप्तो दूषितः पूर्वकर्मणा॥ संस्मृत्य पूर्वभूतिं च निर्वेदं परमं गतः। न भक्षयति मांसानि परैरुपहृतान्यपि॥ अहिंस्रः सर्वभूतेषु सत्यवाक् सुदृढव्रतः। स चकार यथाकालमाहारं पतितैः फलैः॥ श्मशाने तस्य चावासो गोमायोः सम्मतोऽभवत्। जन्मभूम्यनुरोधाच्च नान्यवासमरोचयत्॥ तस्य शौचममृष्यन्तस्ते सर्वे सहजातयः। चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः॥ वसन् पितृवने रौद्रे शौचे वर्तितुमिच्छसि। इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः॥ तत्समानो भवास्माभिर्भोज्यं दास्यामहे वयम्। भुक्षव शौचं परित्यज्य यद्धि भुक्तं सदास्तु ते॥ इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः। मधुरैः प्रसृतैर्वार्यहेतुमद्भिरनिष्ठुरैः॥ अप्रमाणा प्रसूतिर्मे शीलतः क्रियते कुलम्। प्रार्थयामि च तत्कर्म येन विस्तीर्यते यशः॥ श्मशाने यदि मे वासः समाधिर्मे निशम्यताम्। आत्मा फलति कर्माणि नाश्रमो धर्मकारणम्॥ आश्रमे यो द्विजं हन्याद् गां वा दद्यादनाश्रमे। किं तु तत्पातकं न स्यात् तद्वा दत्तं वृथा भवेत्॥ भवन्तः स्वार्थलोभेन केवलं भक्षणे रताः। अनुबन्धे त्रयो दोषास्तान् न पश्यन्ति मोहिताः॥ अप्रत्ययकृतां गामर्थापनयदूषिताम्। इह चामुत्र चानष्टां तस्माद् वृत्तिं न रोचये॥ तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः। कृत्वाऽऽत्मसदृशीं पूजां साचिव्येऽवरयत् स्वयम्।। शार्दूल उवाच सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह। ब्रियन्तामीप्सिताभोगाः परिहार्याश्च पुष्कलाः॥ तीक्ष्णा इति वयं ख्याता भवन्तं ज्ञापयामहे। मृदुपूर्वं हितं चैव श्रेयश्चाधिगमिष्यसि॥ अथ सम्पूज्य तद् वाक्यं मृगेन्द्रस्य महात्मनः। गोमायुः संश्रितं वाक्यं बभाषे किंचिदानतः॥ गोमायुरुवाच सदृशं मृगराजैतत् तव वाक्यं मदन्तरे। यत् सहायान् मृगयसे धर्मार्थकुशलाशुचीन्॥ न शक्यं ह्यनमात्येन महत्त्वमनुशासितुम्। दुष्टामात्येन वा वीर शरीरपरिपन्थिना॥ सहायाननुरक्तांश्च नयज्ञानुपसंहितान्। परस्परमसंसृष्टान् विजिगीषूनलोलुपान्॥ अनतीतोपधान् प्राज्ञान् हिते युक्तान् मनस्विनः। पूजयेथा महाभाग यथाऽऽचार्यान् यथा पितृन्।॥ न त्वेव मम संतोषाद् रोचतेऽन्यन्मृगाधिप। न कामये सुखान् भोगानैश्वर्यं च तदाश्रयम्॥ न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः। ते त्वां विभेदयिष्यन्ति दुःशीलाश्च मदन्तरे॥ सश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम्। कृतात्मा सुमहाभागः पापकेष्वष्यदारुणः॥ दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः। कृती चामोधकर्तासि भाग्यैश्च समलंकृतः॥ किं तु स्वेनास्मि संतुष्टो दुःखवृत्तिरनुष्ठिता। सेवायां चापि नाभिज्ञः स्वच्छन्देन वनचरः॥ राजोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम्। व्रतचर्या तु नि:संगा निर्भया वनवासिनाम्॥ नृपेणाहूयमानस्य यत् तिष्ठति भयं हृदि। न तत् तिष्ठति तुष्टानां वने मूलफलाशिनाम्॥ पानीयं वा निरायासं स्वाइन्नं वा भयोत्तरम्। विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः॥ अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपः। उपघातैर्यथा भृत्या दूषिता निधनं गताः॥ यदि त्वेतन्मया कार्यं मृगेन्द्र यदि मन्यसे। समयं कृतमिच्छामि वर्तितव्यं यथा मयि॥ मदीया माननीयास्ते श्रोतव्यं च हितं वचः। कल्पित्ता या च मे वृत्तिः सा भवेत् त्वयि सुस्थिरा।।३५ न मन्त्रयेयमन्यैस्ते सचिवैः सह कर्हिचित्। नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि॥ एक एकेन संगम्य रहो ब्रूयां हितं वचः। न च ते ज्ञातिकार्येषु प्रष्टव्योऽहं हिताहिते।॥ मया सम्मन्त्र्य पश्चाच्च न हिंस्याः सचिवास्त्वया। मदीयानां च कुपितो मा त्वं दण्डं निपातयेः॥ एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः। प्राप्तवान् मतिसाचिव्यं गोमायुर्व्याघ्रयोनितः॥ तं तथा सुकृतं दृष्ट्वा पूज्यमान स्वकर्मसु। प्राद्विषन् कृतसंघाताः पूर्वभृत्या मुहुर्मुहुः॥ धनेन महता मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रसाद्य च। दोषैस्तु समतां नेतुमैच्छन्नशुभबुद्धयः॥ अन्यथा झुषिताः पूर्वं परद्रव्याभिहारिणः। अशक्ताः किञ्चिदादातुं द्रव्यं गोमायुयन्त्रिताः॥ व्युत्थानं च विकाङ्क्षद्भिः कथाभिः प्रतिलोभ्यते। चैव बुद्धिरस्य विलोभ्यते॥ न चापि स महाप्राज्ञस्तस्माद् धैर्याच्चचाल ह। अथास्य समयं कृत्वा विनाशाय तथा परे॥ ईप्सितं तु मृगेन्द्रस्य मांसं यत् यत्र संस्कृतम्। अपनीय स्वयं तद्धि तैय॑स्तं तस्य वेश्मनि॥ यदर्थं चाप्यपहृतं येन तच्चैव मन्त्रितम्। तस्य तद् विदितं सर्वं कारणार्थं च मर्षितम्॥ समयोऽयं कृतस्तेन साचिव्यमुपगच्छता। नोपघातस्त्वया कार्यों राजन् मैत्रीमिहेच्छता॥ भीष्म उवाच क्षुधितस्य मृगेन्द्रस्य भोक्तुमभ्युत्थितस्य च। भोजनायोपहर्तव्यं तन्मांसं नोपदृश्यते॥ मृगराजेन चाज्ञप्तं दृश्यतां चोर इत्युत। कृतकैश्चापि तन्मांसं मृगेन्द्रायोपवर्णितम्॥ सचिवेनापनीतं ते विदुषा प्राज्ञमानिना। सरोषस्त्वथ शार्दूलः श्रुत्वा गोमायुचापलम्॥ बभूवामर्षितो राजा वधं चास्य व्यरोचयत्। छिद्रं तु तस्य तद् दृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः॥ सर्वेषामेव सोऽस्माकं वृत्तिभङ्गे प्रवर्तते। निश्चित्यैव पुनस्तस्य ते कर्माण्यपि वर्णयन्।॥ इदं तस्येदृशं कर्म किं तेन न कृतं भवेत्। श्रुतश्च स्वामिना पूर्वं यादृशो नैव तादृशः॥ वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः। धर्मच्छद्या ह्ययं पापो वृथाचारपरिग्रहः॥ कार्यार्थ भोजनार्थेषु व्रतेषु कृतवाश्रमम्। यदि विप्रत्ययो ह्येष तदिदं दर्शयाम ते॥ तन्मांसं चैव गोमायोस्तैः क्षणादाशु ढौकितम्। मांसापनयनं ज्ञात्वा व्याघ्रः श्रुत्वा च तद्वचः॥ आज्ञापयामास तदा गोमायुर्वध्यतामिति। शार्दूलस्य वचः श्रुत्वा शार्दूलजननी ततः॥ मृगराजं हितैर्वाक्यैः सम्बोधयितुमागमत्। पुत्र नैतत् त्वया ग्राह्यं कपटारम्भसंयुतम्॥ कर्मसंघर्षजैर्दोषैर्दुष्येताशुचिभिः शुचिः। नोच्छ्रितं सहते कश्चित् प्रक्रिया वैरकारिका॥ शुचेरपि हि युक्तस्य दोष एव निपात्यते। मुनेरपि वनस्थस्य स्वानि कर्माणि कुर्वतः॥ उत्पाद्यन्ते त्रयः पक्षा मित्रोदासीनशत्रवः। लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः॥ मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः। अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपिणः॥ बहवः पण्डिता मूर्खा लुब्धा मायो जीविनः। कुर्युर्दोषमदोषस्य बृहस्पतिमतेरपि॥ शून्यात् तच्च गृहान्मांसं यद्यप्यपहृतं तव। नेच्छते दीयमानं च साधु तावद् विमृश्यताम्॥ असभ्या: सभ्यसंकाशा: सभ्याश्चासभ्यदर्शनाः। दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम्॥ तलवद् दृश्यते व्योम खद्योतो हव्यवाडिव। न चैवास्ति तलं व्योम्नि खद्योते न हुताशनः॥ तस्मात् प्रत्यक्षदृष्टोऽपि युक्तो ह्यर्थः परीक्षितुम्। परीक्ष्य ज्ञापयत्रर्थान पश्चात् परितप्यते॥ न दुष्करमिदं पुत्र यत् प्रभुर्घातयेत् परम्। श्लाघनीया यशस्या च लोके प्रभवतां क्षमा॥ स्थापितोऽयं त्वया पुत्र सामन्तेष्वपि विश्रुतः। दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत्॥ दूषितं परदोषैर्हि गृहीते योऽन्यथा शुचिम्। स्वयं संदूषितामात्यः क्षिप्रमेव विनश्यति॥ तस्मादप्यरिसंघाताद् गोमायोः कश्चिदागतः। धर्मात्मा तेन चाख्यातं यथैतत् कपटं कृतम्॥ ततो विज्ञातचरित: सत्कृत्य स विमोक्षितः। परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः॥ अनुज्ञाप्य मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित्। तेनामर्षेण संतप्तः प्रायमासितुमैच्छत॥ शार्दूलस्तं तु गोमायुं स्नेहात् प्रोत्फुल्ललोचनः। अवारयत् स धर्मिष्ठ पूजया प्रतिपूजयन्॥ तं स गोमायुरालोक्य स्नेहादागतसम्भ्रमम्। उवाच प्रणतो वाक्यं बाष्पगद्गदया गिरा॥ पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः। परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि॥ असंतुष्टाश्च युताः स्थानान्मानात् प्रत्यवरोपिताः। स्वयं चोपहृता भृत्या ये चाप्युपहिताः परैः॥ परिक्षीणाश्च लुब्धाश्च क्रुद्धा भीताः प्रतारिताः। हतस्वा मानिनो ये च त्यक्तादाना महेप्सवः॥ संतापिताश्च ये केचिद् व्यसनौघप्रतीक्षिणः। अन्तर्हिता: सोपहितास्ते सर्वे परसाधनाः॥ अवमानेन युक्तस्य स्थानभ्रष्टस्य वा पुनः कथं यास्यसि विश्वासमहं तिष्ठामि वा कथम्॥ समर्थ इति संगृह्य स्थापयित्वा परीक्षितः। कृतं च समय भित्त्वा त्वयाहमवमानितः॥ प्रथमं यः समाख्यातः शीलवानिति संसदि। न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता॥ एवं चावमतस्येह विश्वास मे न यास्यसि। त्वयि चापेतविश्वासे ममोद्वेगो भविष्यति॥ शंकितस्त्वमहं भीतः परच्छिद्रानुदर्शिनः। अस्निग्धाश्चैव दुस्तोषा: कर्म चैतद् बहुच्छलम्॥ दुःखेन श्लिष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते। भिन्ना श्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते॥ कश्चिदेव हिते भर्तुर्दृश्यते न परात्मनोः। कार्यापेक्षा हि वर्तन्ते भावस्निग्धाः सुदुर्लभाः॥ सुदु:खं पुरुषज्ञानं चित्तं ह्येषां चलाचलम्। समर्थो वाप्यशङ्को वा शतेष्वेकोऽधिगम्यते॥ अकस्मात् प्रक्रिया नृणामकस्माच्चापकर्षणम्। शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवम्॥ भीष्म उवाच एवंविधं सान्त्वमुक्त्वा धर्मकामार्थहेतुमत्। प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात्॥ अगृह्यानुनयं तस्य मृगेन्द्रस्य च बुद्धिमान्। गोमायुः प्रायमास्थाय त्यक्त्वा देहं दिवं ययौ॥ वैशम्पायन उवाच एतस्मिन्नेव काले तु यथासम्प्रत्ययं कविः। विदुरः प्रेषयामास तद् वनं पुरुषं शुचिम्॥ स गत्वा तु यधोद्देशं पाण्डवान् ददृशे वने। जनन्या सह कौरव्य मापयानान् नदीजलम्॥ विदितं तन्महाबुद्धेर्विदुरस्य महात्मनः। ततस्तस्यापि चारेण चेष्टितं पापचेतसः॥ ततः प्रवासितो विद्वान् विदुरेण नरस्तदा। पार्थानां दर्शयामास मनोमारुतगामिनीम्॥ सर्ववातसहां नावं यन्त्रयुक्तां पताकिनीम्। शिवे भागीरथीतीरे नरैर्विस्त्रम्भिभिः कृताम्॥ ततः पुनरथोवाच ज्ञापकं पूर्वचोदितम्। युधिष्ठिर निबोधेदं संज्ञार्थं वचनं कवेः॥ कक्षघ्नः शिशिरघ्नश्च महाकक्षे विलौकसः। न हन्तीत्येवमात्मानं यो रक्षति स जीवति॥ तेन मां प्रेषितं विद्धि विश्वस्तं संज्ञयानया! भूयश्चैवाह मां क्षत्ता विदुरः सर्वतोऽर्थवित्॥ कर्णं दुर्योधनं चैव भ्रातृभिः सहितं रणे। शकुनि चैव कौन्तेय विजेतासि न संशयः॥ इयं वारिपथे युक्ता नौरप्सु सुखगामिनी। मोचयिष्यति वः सर्वानस्माद् देशान्न संशयः॥ अथ तान् व्यथितान् दृष्ट्वा सह मात्रा नरोत्तमान्। नावमारोष्य गङ्गायां प्रस्थितानब्रवीत् पुनः॥ विदुरो मूर्युपाघ्राय परिष्वज्य वचो मुहुः। अरिष्टं गच्छताव्यग्राः पन्थानमिति चाब्रवीत्॥ इत्युक्त्वा स तु तान् वीरान् पुमान् विदुरचोदितः। तारयामास राजेन्द्र गङ्गां नावा नरर्षभान्॥ तारयित्वा ततो गङ्गां पारं प्राप्तांश्च सर्वशः। जयाशिषः प्रयुज्याथ यथागतमगाद्धि सः॥ पाण्डवाश्च महात्मानः प्रतिसंदिश्य वै कवेः। गङ्गामुत्तीर्य वेगेन जग्मुर्मूढमलक्षिताः॥ सौतिरुवाच एतत्ते कथितं सर्वममृतं मथितं तथा। यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः॥ यं निशम्य तदा कदूर्विनतामिदमब्रवीत्। उच्चैःश्रवा हि किं वर्णो भद्रे प्रब्रूहि मा चिरम्॥ विनतोवाच श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे। ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे॥ कदूरुवाच कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते। एहि सार्धं मया दीव्य दासीभावाय भामिनि॥ सौतिरुवाच एवं ते समयं कृत्वा दासीभावाय वै मिथः। जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह॥ ततः पुत्रसहस्रं तु कर्जिा चिकीर्षती। आज्ञापयामास तदा वाला भूत्वाचनप्रभाः॥ आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा। नावपद्यन्त ये वाक्यं ताशशाप भुजंगमान्॥ सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति। जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः॥ शापमेनं तु शुश्राव स्वयमेव पितामहः। अतिक्रूरं समुत्सृष्टं कवा दैवादतीव हि॥ सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत। बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया॥ तिग्मवीर्यविषा होते दन्दशूका महाबलाः। तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च॥ युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम्। अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये॥ तेषां प्राणान्तिकी दण्डो दैवेन विनिपात्यते। एवं संभाष्य देवस्तु पूज्य कदूं च तां तदा॥ आहूय कश्यपं देव इदं वचनमब्रवीत्। यदेते दन्दशूकाश्च सर्पा जातस्त्वयानघ॥ विषोल्बणा महाभोगा मात्रा शप्ताः परंतप। तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन॥ दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम्। इत्युक्त्वा सृष्टिकृदेवस्तं प्रसाद्य प्रजापतिम्। प्रादाद्विषहरी विद्यां कश्यपाय महात्मने॥ अर्जुन उवाच संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्। त्यागस्य च हृषीकेश पृथक् केशिनिषूदन॥ श्रीभगवानुवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः। सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः॥ त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः। यज्ञदानतपःकर्म न त्याज्यमिति चापरे॥ मे तत्र त्यागे भरतसत्तम। त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः॥ यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्। यज्ञो दान तपश्चैव पावनानि मनीषिणाम्॥ एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च। कर्तव्यानीति में पार्थ निश्चितं मतमुत्तमम्॥ निश्चयं शृणु नियतस्य तु संन्यासः कर्मणो नोपपद्यते। मोहात् तस्य परित्यागस्तामसः परिकीर्तितः॥ दुःखमित्येव यत् कर्म कायक्लेशभयात् त्यजेत्। स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्॥ कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन। सङ्गत्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः॥ न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते। त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः॥ न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः। यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते॥ अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्। भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्॥ पञ्चैतानि महाबाहो कारणानि निबोध मे। सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्॥ अधिष्ठान तथा कर्ता करणं च पृथग्विधम्। विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्॥ शरीरवाड्मनोभिर्यत् कर्म प्रारभते नरः। न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः॥ तत्रैवं सति कर्तारमात्मानं केवलं तु यः। पश्यत्यकृतबुद्धित्यान्न स पश्यति दुर्मतिः॥ यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते। हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते॥ ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना। करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः॥ ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः। प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि॥ सर्वभूतेषु येनैकं भावमव्ययमीक्षते। अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्॥ पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्॥ यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम्। अतत्त्वार्थवदल्पं च तत् तामसमुदाहृतम॥ नियतं सङ्गरहितमरागद्वेषतः कृतम्। अफलप्रेप्सुना कर्म यत्तत् सात्त्विकमुच्यते॥ यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः। क्रियते बहुलायासं तद् राजसमुदाहृतम्॥ अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम्। मोहादारभ्यते कर्म यत्तत् तामसमुच्यते॥ मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः। सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते॥ रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः। हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः॥ अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः। विषादी दीर्घसूत्री च कर्ता तामस उच्यते॥ बुद्धेर्थेदं धृतेश्चैव गुणतस्त्रिविधं शृणु। प्रोच्यमानमशेषेण पृथक्त्वेन धनंजयः॥ प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये। बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥ यया धर्ममधर्मं च कार्य चाकार्यमेव च। अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी॥ अधर्मं धर्ममिति या मन्यते तमसाऽवृता। सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी॥ धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी॥ यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन। प्रसङ्गेन फलाकाक्षी धृतिः सा पार्थ राजसी॥ यया स्वप्नं भयं शोकं विषादं मदमेव च। न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी॥ सुखं त्विदानी त्रिविधं शृणु मे भरतर्षभ। अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छति॥ यत्तदने विषमिव परिणामेऽमृतोपमम्। तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्॥ विषयेन्द्रियसंयोगाद् यत्तदचेऽमृतोपमम्। परिणामे विषमिव तत् सुखं राजसं स्मृतम्॥ यदग्रे चानुबन्धे च सुखं मोहनमात्मनः। निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्॥ न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्त्व प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः॥ ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप। कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः॥ शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च। ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्॥ शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्। दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्॥ कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्। परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्॥ स्वे स्वे कर्मण्यभिरतः संसिद्धि लभते नरः। स्वकर्मनिरतः सिद्धि यथा विन्दति तच्छृणु।॥ यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः॥ श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्। स्वभावनियतं कर्म कुर्वन् नाप्नोति किल्बिषम्॥ सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्। सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः॥ असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धि परमां संन्यासेनाधिगच्छति॥ सिद्धि प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे। समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा॥ बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च। शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौव्युदस्य च॥ विविक्तसेवी लध्वाशी यतवाक्कायमानसः। ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः॥ अहंकार बलं दर्प कामं क्रोधं परिग्रहम्। विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते॥ ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समः सर्वेषु भूतेषु मद्भक्ति लभते पराम्॥ भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्॥ सर्वकर्माण्यपि सदा कुर्वाणो मद्यपाश्रयः। मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्॥ चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः। बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव॥ मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि। अथ चेत् त्वमहंकारान्न श्रोष्यसि विनक्ष्यसि॥ यदहंकारमाश्रित्य न योत्स्य इति मन्यसे। मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति॥ स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा। कर्तुनेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत्॥ ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया॥ तमेव शरणं गच्छ सर्वभावेन भारत। तत्प्रसादात् परां शान्ति स्थान प्राप्स्यसि शाश्वतम्॥ इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया। विमृश्यैतदशेषेण यथेच्छसि तथा कुरु॥ सर्वगुह्यतमं भूयः शृणु मे परमं वचः। इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥ सर्वधर्मान् परित्यज्य मामेकं शरणं व्रजा अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥ इदं ते नातपस्काय नाभक्ताय कदाचन। न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति॥ य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति। भक्तिं मयि परां मामेवैष्यत्यसंशयः॥ न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः। भविता न च मे तस्मादन्यः प्रियतरो भुवि॥ अध्येष्यते च य इमं धर्म्यं संवादमावयोः। ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः॥ श्रद्धावाननसूयश्च शृणुयादपि यो नरः। सोऽपि मुक्तः शुभाँल्लोकान् प्राप्नुयात् पुण्यकर्मणाम्।। कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा। कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनंजय॥ अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत। स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव॥ संजय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः। संवादमिममश्रौषमद्भुतं रोमहर्षणम्॥ व्यासप्रसादाच्छ्रुतवानेतद् गुह्यमहं परम्। योगयोगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम्॥ राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम्। केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः॥ तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः। विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीविजयो भूतिर्बुवा नीतिर्मतिर्मम॥ संजय उवाच न्यवर्तत॥ तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम्। दुर्योधन महाराज वारयामास सर्वशः॥ योधांश्च स्वबलं चैव समन्ताद् भरतर्षभ। क्रोशतस्तव पुत्रस्य न स्म राजन् ततः पक्षः प्रपक्षश्च शकुनिश्चापि सौबलः। तदा सशस्त्राः कुरवो भीममभ्यद्रवन् रणे॥ कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान् सराजकान्। पद्रराजमुवाचेदं याहि भीमरथं प्रति॥ एवमुक्तश्च कर्णेन शल्यो मद्राधिपस्तदा। हंसवर्णान् हयान्ग्रयान् प्रैषीद् यत्र वृकोदरकः॥ ते प्रेरिता महाराज शल्येनाहवशोभिना। भीमसेनरथं प्राप्य समसज्जन्त वाजिनः॥ दृष्ट्वा कर्ण समायान्तं भीमः क्रोधसमन्वितः। मतिं चक्रे विनाशाय कर्णस्य भरतर्षभ॥ सोऽब्रवीत् सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम्। यूयं रक्षत राजानं धर्मात्मानं युधिष्ठिरम्॥ संशयान्महतो मुक्तं कथंचित प्रेक्षतो मम। अग्रतो मे कृता राजा छिन्नसर्वपरिच्छदः॥ दुर्योधन प्रीत्यर्थं राधेयेन दुरात्मना। अन्तमद्य गमिष्यामि तस्य दुःखस्य पार्षतः॥ हन्तास्यद्य रणे कर्णं स वा मां निहनिष्यति। संग्रामेण सुघोरेण सत्यमेतद् ब्रवीमि ते॥ राजानमद्य भवतां न्यासभूतं ददानि वै। तस्य संरक्षणे सर्वे यतध्वं विगतज्वराः॥ एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति। सिंहनादेन महता सर्वाः संनादयन् दिशः॥ दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम्। सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः॥ शल्य उवाच पश्य कर्णं महाबाहुं संक्रुद्धं पाण्डुनन्दनम्। दीर्घकालार्जित क्रोधं मोक्तुकामं त्वयि ध्रुवम्॥ ईदृशं नास्य रूपं मे दृष्ट पूर्व कदाचन। अभिमन्यौ हते कर्ण राक्षसे च घटोत्कचे॥ त्रैलोक्यस्य समस्तस्य शक्ताः क्रुद्धो निवारणे। बिभूति सदृशं रूपं युगान्ताग्निसमप्रभम्॥ संजय उवाच इति ब्रुवति राधेयं मद्राणामीश्वरे नृप। अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः॥ अथागतं तु सम्प्रेक्ष्य भीमं युद्धाभिनन्दिम्। अब्रवीद् वचनं शल्यं राधेयं प्रहसन्निव॥ यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर। भीमसेनं प्रति विभो तत् सत्यं नात्र संशयः॥ एष शूरच वीरश्च क्रोधनश्च वृकोदरः। निरपेक्ष शरीरे च प्राणतश्च बलाधिकः॥ अज्ञातवासं वसता विराटनगरे तदा। द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात्॥ तु गूढभावं समाश्रित्य कीचकः सगणो हतः। सोऽद्य संग्रामशिरसि संनद्धः क्रोधमूर्छितः॥ किं करोद्यतदण्डेन मृत्युनापि व्रजेद् रणम्। चिरकालाभिलाषितो मामयं मनोरथः॥ अर्जुनं समरे हन्यां मां वा हन्याद् धनंजयः। स मे कदाचिदद्यैव भवेद् भीमसमागमात्॥ निहते भीमसेने वा यदि वा विस्थीकृते। अभियास्यति मां पार्थस्तन्मे साधु भविष्यति॥ अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं सम्प्रधारया एतच्छ्रुत्वा तु वचनं राधेयस्यामितौजसः॥ उवाच वचनं शल्यः सूतपुत्रं तथागतम्। अभियाहि महाबाहो भीमसेनं महाबलम्॥ निरस्य भीमसेनं तु ततः प्राप्स्यसि फाल्गुनम्। यस्ते कामोऽभिलषितश्चिरात् प्रभृति हृद्गतः॥ स वै सम्पत्स्यते कर्ण सत्यमेतद् ब्रवीमि ते। एवमुक्ते ततः कर्णः शल्यं पुनरभाषतः॥ हन्ताऽहमर्जुन संख्ये मां वा हन्याद् धनंजयः। युद्धे मनः समाधाय याहि यत्र वृकोदरः॥ संजय उवाच ततः प्रायाद् रथेनाशु शल्यस्तत्र विशाम्पते। यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम्॥ ततस्तूर्यनिनादश्च भेरीणां च महास्वनः। उदितष्ठच राजेन्द्र कर्णभीमसमागमे॥ भीमसेनोऽथ संक्रुद्धस्तस्य सैन्यं दुरासदम्। नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद् बली॥ स संनिपातस्तुमुलो घोररूपो विशाम्पते। आसीद् रौद्रो महाराज कर्णपाण्डवयोर्मधे॥ ततो मुहूर्ताद् राजेन्द्र पाण्डवः कर्णमाद्रवत्। समापतन्तं सम्प्रेक्ष्य कर्णो वैकर्तनो वृषः॥ आजघान सुसंक्रुद्धो नाराचेन स्तनान्तरे। पुनश्चैनममेयात्मा शरवर्षैरवाकिरत्॥ स विद्धः सूतपुत्रेण छादयामास पत्रिभिः। विव्याध निशितैः कर्णं नवभिनतपर्वभिः॥ तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिभिः। अथैनं छिन्नधन्वानं प्रत्यविध्यत् स्तनान्तरे॥ नाराचेनं सुतीक्ष्णेन सर्वावरणभेदिना। सोऽन्यत् कार्मुकमादाय सूतपुत्रं वृकोदरः॥ राजन् मर्मसु मर्मज्ञो विव्याध निशितैः शरैः। ननाद बलवन्नादं कम्पयन्निव रोदसी॥ तं कर्णः पञ्चविंशत्या नाराचेन समार्पयत्। मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम्॥ ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्छितः। संरम्भाषताम्राक्षः सूतपुत्रवधेप्सया॥ स कार्मुके महावेगं भारतसाधनमुक्तमम्। गिरीणामपि भेत्तारं सायकं समयोजयत्॥ विकृत्यबलवच्चापमाकर्णादतिमारुतिः। तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया॥ स विसृष्टो बलवता बाणो वनाशनिस्वनः। अदारयद् रणे कर्णं वज्रवेगो यथाचलम्॥ स भीमसेनाभिहत:सूतपुत्रः कुरूद्वह। निषसाद रथोपस्थे विसंज्ञः पृतनापतिः॥ ततो मद्राधिपो दृष्ट्वा विसंज्ञं सूतनन्दनम्। अपोवाह रथेनाजौ कर्णमाहवशोभिनम्॥ ततः पराजिते कर्णे धातराष्ट्रीं महाचमूम्। व्यद्रावदयद् भीमसेनो यथेन्द्रो दानवान् पुरा॥ संजय उवाच सर्वथा विरथः कर्णः पुनर्भीमेन निर्जितः। रथमन्यं समास्थाय पुनर्विव्याध पाण्डवम्॥ महागजाविवासाद्य विषाणाप्रैः परस्परम्। शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः॥ अथ कर्णः शरव्रातैर्भीमसेनं समार्पयत्। ननाद च महानादं पुनर्विव्याध चोरसि॥ तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः। पुनर्विव्याध सप्तत्या शराणां नतपर्वणाम्॥ कर्ण तु नवभिर्भीमो भित्त्वा राजन् स्तनान्तरे। ध्वजमेकेन विव्याध सायकेन शितेन ह॥ सायकानां ततः पार्थस्रिषष्ट्या प्रत्यविध्यत। तोत्रैरिव महानागं कशभिरिव वाजिनम्॥ सोऽतिविद्धो महाराज पाण्डवेन यशस्विना। सृक्किणी लेलिहन् वीरः क्रोधरक्तान्तलोचनः॥ ततः शरं महाराज सर्वकायावदारणम्। प्राहिणोद् भीमसेनाय बलायेन्द्र इवाशनिम्॥ स निर्भिद्य रणे पार्थ सूतपुत्रधनुश्च्युतः। अगच्छद् दारयन् भूमिं चित्रपुलः शिलीमुखः॥ ततो भीमो महाबाहुः क्रोधसंरक्तलोचनः। वज्रकल्पां चतुष्किष्कुंगुवीं रुक्माङ्गदां गदाम्॥ प्राहिणोत् सूतपुत्राय षडस्रामविचारयन्। तया जघानाधिरथेः सदश्वान् साधुवाहिनः॥ गदया भारतः क्रुद्धो वज्रणेन्द्र इवासुरान्। ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ॥ ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनच्छरैः। हताश्वसूतमुत्सृज्य सरथं पतितध्वजम्॥ विस्फारयन् धनुः कर्णस्तस्थौ भारत दुर्मनाः। तत्राद्भुतमपश्याम राधेयस्य पराक्रसम्॥ विरथो रथिनां श्रेष्ठो वारयामास यद् रिपुम्। विरथं तं नरश्रेष्ठं दृष्ट्वाऽऽधिरथिमाहवे॥ दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम्। एष दुर्मुख राधेयो भीमेन विरथीकृतः॥ तं रथेन नरश्रेष्ठ सम्पादय महारथम्। ततो दुर्योधनवचः श्रुत्वा भारत दुर्मुखः॥ त्वरमाणोऽभ्ययात् कर्ण भीमं चावारयच्छरैः। दुर्मुखं प्रेक्ष्य संग्रामे सूतपुत्रपदानुगम्॥ वायुपुत्रः प्रहृष्टोऽभूत् सृक्किणी परिसंलिहन्। ततः कर्ण महाराज वारयित्वा शिलीमुखैः॥ दुर्मुखाय रथं तूर्ण प्रेषयामास पाण्डवः। तस्मिन् क्षणे महाराज नवभिनतपर्वभिः॥ सुमुखैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम्। ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते॥ आस्थितः प्रबभौ राजन् दीप्यमान इवांशुमान्। शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम्॥ दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्त नाभ्यवर्तत। तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम्॥ दीर्घमुष्णं श्वसन वीरो न किंचित् प्रत्यपद्यत। तस्मिंस्तु विवरे राजन् नाराचान् गार्धवाससः॥ प्राहिणोत् सूतपुत्राय भीमसेनश्चतुर्दश। ते तस्य कवचं भित्त्वा स्वर्णचित्रं महौजसः॥ हेमपुङ्खा महाराज व्यशोभन्त दिशो दश। अपिबन् सूतपुत्रस्य शोणितं रक्तभोजनाः॥ क्रुद्धा इव मनुष्येन्द्र भुजङ्गाः कालचोदिताः। प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः॥ अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः। तं प्रत्यविध्यद् राधेयो जाम्बूनदविभूषितैः॥ चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन्। ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः॥ प्राविशन् मेदिनी भीमाः क्रौचं पत्ररथा इव। ते व्यरोचन्त नारावाः प्रविशन्तो वसुंधराम्॥ गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः। स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः॥ सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा। स भीमनिभिरायत्त: सूतपुत्रं पतत्रिभिः॥ सुवर्णवेर्विव्याध सारथिं चास्य सप्तभिः। स विह्वलो महाराज कर्णो भीमशराहतः॥ प्राद्रवज्जवनैरश्वै रणं हित्वा महाभयात्। भीमसेनस्तु विस्फार्यं चापं हेमपरिष्कृतम्॥ आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः॥ विदुर उवाच राजन् नि:संशयं श्रेयो वाच्यस्त्वमसि बान्धवैः। न त्वशुश्रूषमाणे वै वाक्यं सम्प्रतिष्ठिति॥ प्रियं हितं च तद् वाक्यमुक्तवान् कुरुसत्तमः। भीष्मः शांतनवो राजन् प्रतिगृहणसि तन्न च॥ तथा द्रोणेन बहुधा भाषितं हितमुत्तमम्। तच्च राधासुतः कर्णो मन्यते न हितं तव॥ चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम्। आभ्यां पुरुषसिंहाभ्यं यो वा स्यात् प्रज्ञयाधिकः॥ इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च। समौ च त्वयि राजेन्द्र तथा पाण्डुसुतेषु च॥ धर्मे चानवरौ राजन् सत्यतायां च भारत। रामाद् दाशरथेश्चैव गयाच्चैव न संशयः॥ न चोक्तवन्तावश्रेय पुरस्तादपि किंचन। न चाप्यपकृतं किंचिदनयोर्लक्ष्यते त्वयि॥ तावभौ पुरुषव्याघ्रावनागसि नृपे त्वयि। न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ॥ प्रज्ञावन्तौ नरश्रेष्ठावस्मॅिल्लोके नराधिप। त्वन्निमित्तपतो नेमौ किंचिज्जिा वदिष्यतः॥ इति मे नैष्ठिकी बुद्धिवर्तते कुरुनन्दन। न चार्थहेतोर्धर्मौ वक्ष्यतः पक्षसंश्रितम्॥ एतद्धि परमं श्रेयो मन्येऽहं तव भारत। दुर्योधनप्रभृतयः पुत्रा राजन् यथा तव॥ तथैव पाण्डवेयास्ते पुत्रा राजन् न संशयः। तेषु चेदहितं किंचिन्मन्त्रयेयुरतद्विदः॥ मन्त्रिणस्ते न च श्रेयः प्रपश्यन्ति विशेषतः। अथ ते हृदये राजन् विशेष: स्वेषु वर्तते। ते॥ अन्तरस्थं वितृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम्॥ एतदर्थमिमौ राजन् महात्मानौ महाद्युती। नोचतुर्विवृतं किंचिन्न ह्येष तव निश्चयः॥ यच्चाप्यशक्यतां तेषामहतुः पुरुषर्षभौ। तत् तथा पुरुषव्याघ्र तव तद् भद्रमस्तु कथं हि पाण्डवः श्रीमान् सव्यसाची धनंजयः। शक्यो विजेतुं संग्रामे राजन् मघवतापि हि॥ भीमसेनो महाबाहुर्नागायुतबलो महान्। कथं स्म युधि शक्येत विजेतुममरैरपि॥ तथैव कृतिनौ युद्धे यमौ यमसुताविव। कथं विजेतुं शक्यौ तौ रणे जीवितुमिच्छता॥ यस्मिन् धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः। नित्यानि पाण्डवे ज्येष्ठे स जीयेत रणे कथम्॥ येषां पक्षधरो रामो येषां मन्त्री जनार्दनः। किं न तैरजितं संख्ये येषां पक्षे च सात्यकिः॥ द्रुपदः श्वशुरो येषां येषां श्यालाश्च पार्षताः। धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः॥ सोऽशक्यतां च विज्ञाय तेषामग्रे च भारता दायाद्यतां च धर्मेण सम्यक् तेषु समाचर॥ इदं निर्दिष्टमयशः पुरोचनकृतं महत्। तेषामनुग्रहेणाद्य राजन् प्रक्षालयात्मनः॥ तेषामनुग्रहश्चायं सर्वेषां चैव नः कुले। जीवितं च परं श्रेयः क्षत्रस्य च विवर्धनम्॥ दुपदोऽपि महान् राजा कृतवैस्च नः पुरा। तस्य संग्रहणं राजन् स्वपक्षस्य विवर्धनम्॥ बलवन्तश्च दाशार्हा बहवश्च विशाम्पते। यतः कृष्णस्ततः सर्वे यतः कृष्णस्ततो जयः॥ यच्च साम्नैव शक्येत कार्यं साधयितुं नृप। को दैवशप्तस्तत् कार्यं विग्रहेण समाचरेत्॥ श्रुत्वा च जीवतः पार्थान् पौरजानपदा जनाः। बलवद् दर्शने हृष्टास्तेषां राजन् प्रियं कुरु॥ दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः। अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः॥ उक्तमेतत् पुरा राजन् मया गुणवतस्तव। दुर्योधनापराधेन प्रजेयं वै विनक्ष्यति॥ वैशम्पायन उवाच तेन विक्रममाणेन ऊरुवेगसमीरितम्। वनं सवृक्षविटपं व्याघूर्णितमिवाभवत्॥ जङ्घावातो ववौ चास्य शुचिशुक्रागमे यथा। आवर्जितलतावृक्षं मार्ग चक्रे महाबलः॥ स मृद्गन् पुष्पितांश्चैव फलितांश्च वनस्पतीन्। अवरुज्य ययौ गुल्मान् पथस्तस्य समीपजान्॥ स रोषित इव क्रुद्धो वने भञ्जन् महादुमान्। त्रिप्रस्त्रुतमदः शुष्मी षष्टिवर्षी मतङ्गराट्॥ गच्छतस्तस्य वेगेन तार्क्ष्यमारुतरंहसः। भीमस्य पाण्डुपुत्राणां मूछेव समजायत।॥ असकृच्चापि संतीर्य दूरपारं भुजप्लवैः। पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात् तदा॥ कृच्छ्रेण मातरं चैव सुकुमारी यशस्विनीम्। अवहत् स तु पृष्ठेन रोधस्सु विषमेषु च॥ अगमच्च वनोद्देशमल्पमूलफलोदकम्। क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभ।॥ घोरा समभवत् संध्या दारुणा मृगपक्षिणः। अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः॥ शीर्णपर्णफलै राजन् बहुगुल्मक्षुपैर्दुमैः। भग्नावभग्नभूयिष्ठेर्नानाद्रुमसमाकुलैः॥ ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः। नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया॥ न्यविशन्त हि ते सर्वे निरास्वादे महावने। ततस्तृषापरिक्लान्ता कुन्ती पुत्रानथाब्रवीत्॥ माता सती पाण्डवानां पञ्चानां मध्यतः स्थिता। तृष्णया हि परीतास्मि पुत्रान् भृशमथाब्रवीत्॥ तच्छ्रुत्वा भीमसेनस्य मातृस्नेहात् प्रजल्पितम्। कारुण्येन मनस्तप्तं गमनायोपचक्रमे॥ ततो भीमो वनं घोरं प्रविश्य विजनं महत्। न्यग्रोधं विपुलच्छायं रमणीयं ददर्श ह॥ तत्र निक्षिप्य तान् सर्वानुवाच भरतर्षभः। पानीयं मृगयामीह विश्रमध्वमिति प्रभो॥ एते रुवन्ति मधुरं सारसा जलचारिणः। ध्रुवमत्र जलस्थानं महच्चेति मतिर्मम॥ अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत। जगाम तत्र यत्र स्म सारसा जलचारिणः॥ स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ। तेषामर्थे च जग्राह भ्रातृणां भ्रातृवत्सलः। उत्तरीयेण पानीयमानयामास भारत॥ गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति। शोकदुःखपरीतात्मा निःशश्वासोरगो यथा॥ स सुप्तां मातरं दृष्ट्वा भ्रातूंश्च वसुधातले। भृशं शोकपरीतात्मा विललाप वृकोदरः॥ अतः कष्टतरं किं नु द्रष्टव्यं हि भविष्यति। यत् पश्यामि महीसुप्तान् भ्रातृनद्य सुमन्दभाक्॥ शयनेषु परार्येषु ये पुरा वारणावते। नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले॥ स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः। कुन्तिराजसुतां कुन्तीं सर्वलक्षणपूजिताम्॥ स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः। तथैव चास्मज्जननीं पुण्डरीकोदरप्रभाम्॥ सुकुमारतरामेनां महार्हशयनोचिताम्। शयानां पश्यतायेह पृथिव्यामतथोचिताम्॥ धर्मादिन्द्राच्च वाताच्च सुषुवे या सुतानिमान्। सेयं भूमौ परिश्रान्ता शेते प्रासादशायिनी॥ किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम्। योऽहमद्य नरव्याघ्रान् सुप्तान् पश्यामि भूतले॥ त्रिषु लोकेषु यो राज्यं धर्मनित्योऽर्हते नृपः। सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत् कथम्॥ अयं नीलाम्बुदश्यामो नरेष्वप्रतिमोऽर्जुनः। शेते प्राकृतवद् भूमौ दुःखतरं नु किम्॥ अश्विनाविव देवानां याविमौ रूपसम्पदा। तौ प्राकृतवदद्यमौ प्रसुप्तौ धरणीतले॥ ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः। स जीवेत सुखं लोके ग्रामद्रुम इवैकजः॥ एको वृक्षो हि यो ग्रामे भवेत् पर्णफलान्वितः। चैत्यो भवति निर्मातिरर्चनीयः सुपूजितः॥ येषां च बहवः शूरा ज्ञातयो धर्ममाश्रिताः। ते जीवन्ति सुखं लोके भवन्ति च निरामयाः॥ बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः। जीवन्त्यन्योन्याश्रित्य दुमाः काननजा इव॥ वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना। विवासिता न दग्धाश्च कथंचिद् दैवसंश्रयात्॥ तस्मान्मुक्तः वयं दाहादिमं वृक्षमुपाश्रिताः। कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम्॥ सकामो भव दुर्बुद्धे धार्तराष्ट्राल्पदर्शन। नूनं देवाः प्रसन्नास्ते नानुज्ञां मे युधिष्ठिरः॥ प्रयच्छति वधे तुभ्यं तेन जीवसि दुर्मते। नन्वद्य त्वां सहामात्यं सकर्णानुजसौबलम्॥ गत्वा क्रोधसमाविष्टः प्रेषयिष्ये यमक्षयम्। किं नु शक्यं मया कर्तुं यत् ते न क्रुध्यते नृपः॥ धर्मात्मा पाण्डवश्रेष्ठः पापाचारः युधिष्ठिरः। एवमुक्त्वा महाबाहुः क्रोधसंदीप्तमानसः॥ करं करेण निष्षिष्य निःश्वसन् दीनमानसः। पुनर्दीनमना भूत्वा शान्तार्चिरिव पावकः॥ भ्रातृन् महीतले सुप्तानवैक्षत वृकोदरः। विश्वस्तानिव संविष्टान् पृथग्जनसमानिव॥ नातिदूरेग नगरं वनादस्माद्धि लक्षये। जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम्॥ पास्यन्तीमे जलं पश्चात् प्रतिबुद्धा जितक्लमाः। इति भीमो व्यवस्यैव जजागार स्वयं तदा॥ संजय उवाच तयोः संवदतोरेवं कृष्णदारुकयोस्तथा। सात्यगाद् रजनी राजन्नथ राजाऽनवबुध्यत॥ पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः। वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम्॥ नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः। कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः॥ मृदङ्गा झर्झरा भेर्यः एणवानकगोमुखाः। आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः॥ एवमेतानि सर्वाणि तथान्यान्यपि भारत। वादयन्ति सुसंहृष्टाः कुशलाः साधुशिक्षिताः॥ स मेघसमनि?षो महाशब्दोऽस्पृशद् दिवम्। पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत्॥ प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे। उत्थायावश्यकार्यार्थं ययौ स्नानगृहं नृपंः॥ ततः शुक्लाम्बराः स्नातास्तरुणाः शतमष्ट च। स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुएतस्थिरे॥ भद्रासने सूपविष्टः परिधायाम्बरं लघु। सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः॥ उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः। आप्लुतः साधिवासेन जलेन स सुगन्धिना॥ राजहंसनिभं प्राप्य उष्णीषं शिथिलार्पितम्। जलक्षयनिमित्तं वै वेष्टयामास मूर्धनि॥ हरिणा चन्दनेनाङ्गमुपलिप्य महाभुजः। स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः।। जजाप जप्यं कौन्तेय सतां मार्गमनुष्ठितः। तत्राग्निशरणं दीप्तं प्रविवेश विनीतवत्॥ समिद्भिः सपवित्राभिरग्निमाहुतिभिस्तथा। मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात् ततः॥ द्वितीयां पुरुषव्याघ्रः कक्ष्यां निर्गम्य पार्थिवः। ततो वेदविदो वृद्धानपश्यद् ब्राह्मणर्षभान्॥ दान्तान् वेदव्रतस्नातान् स्नातानवभृथेषु च। सहस्रानुचरान् सौरान् सहस्रं चाप्ट चापरान्॥ अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः। तान् द्विजान् मधुसर्पि• फलैः श्रेष्ठैः सुमङ्गलैः॥ प्रादात् काञ्चनमेकैकं निष्कं विप्राय पाण्डवः। अलंकृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः॥ तथा गा: कपिला दोन्ध्री: सवत्साः पाण्डुनन्दनः। हेमशृङ्गा रौप्यखुरा दत्त्वा चक्रे प्रदक्षिणम्॥ स्वस्तिकान् वर्धमानांश्च नन्द्यावर्ताश्च काञ्चनान्। माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम्॥ पूर्णान्यक्षतपात्राणि रुचकं रोचनास्तथा। स्वलंकृताः शुभाः कन्या दधिसर्पिर्मधूदकम्॥ मङ्गल्यान् पक्षिणश्चैव यच्चान्यदपि पूजितम्। दृष्ट्वास्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यां ततोऽगमत्।। ततस्तस्यां महाबाहोस्तिष्ठतः परिचारकाः। सौवर्णं सर्वतोभद्रं मुक्तावैदूर्यमण्डितम्॥ पराास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत्। विश्वकर्मकृतं दिव्यसुपजहुर्वरासनम्॥ तत्र तस्योपविष्टस्य भूषणानि महात्मनः। उपाजहुर्महार्हाणि प्रेष्याः शुभ्राणि सर्वशः॥ मुक्ताभरणवेषस्य कौन्तेयस्य महात्मनः। रूपमासीन्महाराज द्विषतां शोकवर्धनम्॥ चामरैश्चन्द्ररश्म्याभैहेमदण्डैः सुशोभनैः। दोधूयमानैः शुशुभे विद्युद्भिरिव तोयदः॥ संस्तूयमानः सूतैश्च वन्द्यमानश्च बन्दिभिः। उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः॥ ततो मुहूर्तादासीत् तु स्यन्दनानां स्वनो महान्। नेमियोपश्च रथिनां सुरघोषश्च वाजिनाम्॥ ह्रादेन गजघण्टानां शङ्खानां निनदेन च। नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी॥ ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः। शिरसा वन्दनीयं तमभिवाद्य जनेश्वरम्॥ कुण्डली बद्धनिस्त्रिंशः संनद्धकवचो युवा। अभिप्रणम्य शिरसा द्वा:स्थो धर्मात्मजाय वै॥ न्यवेदयद्धृषीकेशमुपयान्तं महात्मने। सोऽब्रवीत् पुरुषव्याघ्रः स्वागतेनैव माधवम्॥ अयं चैवासनं चास्मै दीयतां परमार्चितम्। ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने। पूजयामास विधिवद् धर्मराजो युधिष्ठिरः॥ लोमश उवाच भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भारत। समीपे सरसस्तस्य तपस्तेपे महाद्युतिः॥ स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव। अतिष्ठत चिरं कालमेकदेशे विशाम्पते॥ स वल्मीकोऽभवदृषिर्लताभिरिव संवृतः। कालेन महता राजन् समाकीर्णाः पिपीलिकैः॥ तथा स संवृतोधीमान् मृत्पिण्ड इव सर्वशः। तप्यते स्म तपो घोरं वल्मीकेन समावृतः॥ अथ दीर्घस्य कालस्य शर्याति म पार्थिवः। आजगाम सरो रम्यं विहर्तुमिदमुत्तमम्॥ तस्य स्त्रीणां सहस्राणि चत्वार्यासन् परिग्रहे। एकैव च सुता सुभ्रः सुकन्या नाम भारत॥ सा सखीभिः परिवृता दिव्याभरणभूषिता। चंक्रम्यमाणा वल्मीकं भार्गवस्य समासदत्॥ सा वै वसुमतीं तत्र पश्यन्ती सुमनोरमाम्। वनस्पतीन् विचिन्वन्ती विजहार सखीवृता॥ रूपेण वयसा चैव मदनेन मदेन च। बभञ्ज वनवृक्षाणां शाखा: परमपुष्पिताः॥ तां सखीरहितामेकामेकवस्त्रामलंकृताम्। ददर्श भार्गवोधीमांश्चरन्तीमिव विद्युतम्॥ तां पश्यमानो विजने स रेमे परमद्युतिः। क्षामकण्ठश्च विप्रर्षिस्तपोबलसमन्वितः॥ तामाबभाषे कल्याणी सा चास्य न शृणोति वै। ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी॥ कौतूहलात् कण्टकेन बुद्धिमोहबलात्कृता। किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने॥ अक्रुध्यत् स तया विद्धे नेत्रे परममन्युमान्। ततः शर्यातिसैन्यस्य शकृन्मूत्रे समावृणोत्॥ ततो रुद्धे शकृन्मूत्रे सैन्यमानाह दुःखितम्।। तथागतमभिप्रेक्ष्य पर्यपृच्छत् स पार्थिवः॥ तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः। केनापकृतमद्येह भार्गवस्य महात्मनः॥ ज्ञातं वा यदि वाज्ञातं तद् द्रुतं ब्रूत मा चिरम्। तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम्॥ सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु। ततः स पृथिवीपल: साम्ना चोग्रेण च स्वयम्॥ पर्यपृच्छत् सुहृद्वर्गं पर्यजानन्न चैव ते। आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम्॥ पितरं दुःखितं दृष्ट्वा सुकन्येदमथाब्रवीत्। मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत्॥ खद्योतवदभिज्ञातं तन्मया विद्धधमन्तिकात्। एतच्छ्रुत्वा तु वल्मीकं शर्यातिस्तूर्णमभ्ययात्॥ तत्रापश्यत् तपोवृद्धं वयोवृद्धं च भार्गवम्। अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः॥ अज्ञानाद् बालया यत् ते कृतं तत् क्षन्तुमर्हसि। ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा॥ अपमानादहं विद्धो ह्यनया दर्पपूर्णया। रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम्॥ तामेव प्रतिगृह्याहं राजन् दुहितरं तव। क्षस्यामीति महीपाल सत्यमेतद् ब्रवीमि ते॥ लोमश उवाच ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन्। ददौ दुहितरं तस्मै च्यवनाय महात्मने॥ प्रतिगृह्य च तां कन्यां भगवान् प्रससाद ह। प्राप्त प्रसादो राजा वै ससैन्यः पुरमाव्रजत्॥ सुक्नयापि पतिं लब्ध्वा तपस्विनमनिन्दिता। नित्यं पर्यचरत् प्रीत्या तपसा नियमेन च॥ अग्नीनामतिथीनां च शुश्रूषुरनसूयिका। समाराधयत क्षिप्रं च्यवनं सा शुभानना॥ संजय उवाच ते सेने शिबिरं गत्वा न्यविशेतां विशाम्पते। यथाभागं यथान्यायं यथागुल्मं च सर्वशः॥ कृत्वावहारं सैन्यानां द्रोणः परमदुर्मनाः। दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत्॥ उक्तमेतन्मया पूर्वं न तिष्ठति धनंजये। शक्यो ग्रहीतुं संग्रामे देवैरपि युधिष्ठिरः॥ इति तद् वः प्रयततां कृतं पार्थेन संयुगे। मा विशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ॥ अपनीते तु योगेन केनचिच्छ्वेतवाहने। तत एष्यति मे राजन् वशमेष युधिष्ठिरः॥ कश्चिदाहूय तं संख्ये देशमन्यं प्रकर्षतु। तमजित्वा न कौन्तेयो निवर्तेत कथंचन॥ एतस्मिन्नन्तरे शून्ये धर्मराजमहं नुप। ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः॥ अर्जुनेन विहीनस्तु यदि नोत्सृजते रणम्। मामुपायान्तमालोक्य गृहीतं विद्धि पाण्डवम्॥ एवं तेऽहं महाराज धर्मपुत्रं युधिष्ठिरम्। समानेष्यामि सगणं वशमद्य न संशयः॥ यदि तिष्ठति संग्रामे मुहूर्तमपि पाण्डवः। अथापयाति संग्रामाद् विजयात् तद् विशिष्यते॥ संजय उवाच द्रोणस्य तद् वचः श्रुत्वा त्रिगर्ताधिपतिस्तदा। भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत्॥ वयं विनिकृता राजन् तदा गाण्डीवधन्वना। अनाग:स्वपि चागस्तत् कृतमस्मासु तेन वै॥ ते वयं स्मरमाणास्तान् विनिकारान् पृथग्विधान्। क्रोधाग्निना दह्यमाना न शेमहि सदा निशि॥ स नो दिष्ट्यास्त्रसमपन्नश्चक्षुर्विषयमागतः। कर्तारः स्म वयं कर्म यच्चिकीर्षाम हृद्गतम्॥ भवतश्च प्रियं यत् स्यादस्माकं च यशस्करम्। वयमेनं हनिष्यामो निकृश्यायोधनाद् बहिः॥ अद्यास्त्वनर्जुना भूमिरत्रिगर्ताऽथ वा पुनः। सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति॥ एवं सत्यरथश्चोक्त्वा सत्यवर्मा च भारत। सत्यव्रतश्च सत्येषुः सत्यकर्मा तथैव च॥ सहिता भ्रातरः पञ्च स्थानामयुतेन च। न्यवर्तन्त महाराज कृत्वा शपथमाहवे॥ मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः। सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः॥ मावेल्लकैललित्यैश्च सहितो मद्रकैरपि। रथानामयुतेनैव सोऽगमद् भ्रातृभिः सह॥ नानाजनपदेभ्यश्च स्थानामयुतं पुनः। समुत्थितं विशिष्टानां शपथार्थमुपागमत्॥ ततो ज्वलनमान→ हुत्वा सर्वे पृथक् पृथक्। जगृहुः कुशचीराणि चित्राणि कवचानि च॥ ते च बद्धतनुत्राणा धृताक्ताः कुशचीरिणः। मौवींमेखलिनो वीराः सहस्रशतदक्षिणाः॥ यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः। योक्ष्यमाणास्तदाऽऽत्मानं यशसा विजयेन च।॥ ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः। प्राप्याँल्लोकान् सुयुद्धेन क्षिप्रमेव यियासवः॥ ब्राह्मणांस्तर्पयित्वा च निश्कान् दत्त्वा पृथक् पृथक्। गाश्च वासांसि च पुन: समाभाष्य परस्परम्॥ प्रज्वाल्य कृष्णवनिमुपागम्य रणव्रतम्। तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः॥ शृण्वतां सर्वभूतानामुच्चैर्वाचो बभाषिरे। सर्वे धनंजयवधे प्रतिज्ञां चापि चक्रिरे॥ ये वै लोकाश्चावतिनां ये चैव ब्रह्मघातिनाम्। मद्यपस्य च ये लोका गुरुदाररतस्य च॥ ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः। शरणागतं च त्यजतो याचमानं तथा मतः॥ अगारदाहिनां चैव ये च गां निजतामपि। अपकारिणां च ये लोका ये च ब्रह्मद्विषामपि॥ स्वभार्यामृतुकालेषु मोहाद् वै नाभिगच्छताम्। श्राद्धमैथुनिकानां च ये चाप्यात्मापहारिणाम्॥ न्यासापहारिणां ये च श्रुतं नाशयतां च ये। क्लीबेन युध्यमानानां ये च नीचानुसारिणाम्॥ नास्तिकानां च ये लोकायेऽग्निमातृपितृत्यजाम्। तानाप्नुयामहे लोकान् ये च पापकृतामपि॥ यद्यहत्वा वयं युद्धे निवर्तेम धनंजयम्। तेन चाभ्यर्दितास्त्रासाद् भवेम हि पराङ्मुखाः॥ यदि त्वसुकरं लोके कर्म कुर्याम संयुगे। इष्टॉल्लोकान् प्राप्तुमानो वयमद्य न संशयः॥ एवमुक्त्वा तदा राजंस्तेऽभ्यवर्तन्त संयुगे। आट्ठयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति॥ आहूतस्तैर्नरव्याप्रैः पार्थः परपुरंजय। धर्मराजमिदं वाक्यमपदान्तरमब्रवीत्॥ आहूतो न निवर्तेयमिति मे व्रतमाहितम्। संशप्तकाश्च मां राजन्नाह्वयन्ति महामृधे॥ एष च भ्रातृभिः सार्धं सुशर्माऽऽह्वयते रणे। वधाय सगणस्यास्य मामनुज्ञातुमर्हसि॥ नैतच्छकोमि संसोढुमाह्वान पुरुषर्षभ। सत्यं ते प्रतिजानामि हतान् विद्धि परान् युधि॥ युधिष्ठिर उवाच श्रुतं ते तत्त्वतस्तात यद् द्रोणस्य चिकीर्षितम्। यथा तदनृतं तस्य भवेत् तत् त्वं समाचर॥ द्रोणो हि बलवाञ्छूरः कृतास्त्रश्च जितश्रमः। प्रतिज्ञातं च तेनैतद् ग्रहणं मे महारथ॥ अर्जुन उवाच अयं वै सत्यजिद् राजन्नद्य त्वां रक्षिता युधि। ध्रियमाणे च पाञ्चाल्ये नाचार्यः काममाप्स्यति॥ हते तु पुरुषव्याघ्ने रणे सत्यजिति प्रभो। सर्वैरपि समेतैर्वा न स्थातव्यं कथंचन॥ संजय उवाच अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फाल्गुनः। प्रेम्णा दृष्टश्च बहुधा ह्याशिषश्चास्य योजिताः॥ विहायैनं ततः पार्थस्त्रिगर्तान् प्रत्ययाद् बली। क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव॥ ततो दोर्योधनं सैन्यं मुदा परमया युतम्। ऋतेऽर्जुनं भृशं क्रुद्ध धर्मराजस्य निग्रहे॥ ततोऽन्योन्येन ते सैन्ये समाजग्मतुरोजसा। गङ्गासरय्वौ वेगेन प्रावृषीवोल्वणोदके॥ वायु रुवाच किंचिद् धर्मं प्रवक्ष्यामि मानुषाणां सुखावहम्। सरहस्याश्च ये दोषास्ताशृणुध्वं समाहिताः॥ अग्निकार्यं च कर्तव्यं परमान्नेन भोजनम्। दीपकश्चापि कर्तव्यः पितॄणां सतिलोदकः॥ एतेन विधिना मर्त्यः श्रद्दधानः समाहितः। चतुरो वार्षिकान् मासान् यो ददाति तिलोदकम्॥ भोजनं च यथाशक्त्या ब्राह्मणे वेदपारगे। पशुबधशतस्येह फलं प्राप्नोति पुष्कलम्॥ इदं चैवापरं गुह्यमप्रशस्तं निबोधत। अग्नेस्तु वृषलो नेता हविर्मूढाश्च योषितः॥ मन्यते धर्म एवेति स चाधर्मेण लिप्यते। अग्नयस्तस्य कुप्यन्ति शूद्रयोनि स गच्छति॥ पितरश्च न तुष्यन्ति सह देवैर्विशेषतः। प्रायश्चित्तं तु यत् तत्र ब्रुवतस्तन्निबोध मे॥ यत् कृत्वा तु नरः सम्यक् सुखी भवति विज्वरः। गवां मूत्रपुरीषेण पयसा च घृतेन च॥ अग्निकार्यं त्र्यहं कुर्यात्रिराहारः समाहितः। ततः संवत्सरे पूर्णे प्रतिगह्णन्ति देवताः॥ हृष्यन्ति पितरश्चास्य श्राद्धकाल उपस्थिते। एष ह्यधर्मो धर्मश्च सरहस्यः प्रकीर्तितः॥ मानां स्वर्गकामानां प्रेत्य स्वर्गसुखावहः॥ वैशम्पायन उवाच ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत्। उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः॥ नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान्। अधर्मश्च परो राजन् पारुष्यं च निरर्थकम्॥ न हि धर्मं परं जातु नावबुध्येत पार्थिवः। भीष्मः शान्तनवस्त्वेनं मावमंस्थास्त्वमन्यथा॥ पश्य चैतान् महीपालांस्त्वत्तो वृद्धतरान् बहून्। मृष्यन्ते चार्हणां कृष्णे तद्वत् त्वं क्षन्तुमर्हसि॥ वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम्। न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः॥ भीष्म उवाच नास्मै देयो ह्यनुनयो नायमर्हति सान्त्वनम्। लोकवृद्धतमे कृष्णे योऽर्हणां नाभिमन्यते॥ क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः। यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः॥ अस्यां हि समितौ राज्ञामेकमप्यजितं युधि। न पश्यामि महीपालं सात्वतीपुत्रतेजसा॥ न हि केवलमस्माकमयमर्च्यतमोऽच्युतः। त्रयाणामपि लोकानामर्चनीयो महाभुजः॥ कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः। जगत् सर्वं च वार्ष्णेय निखिलेन प्रतिष्ठितम्॥ तस्मात् सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान्। एवं वक्तुं न चार्हस्त्वं मा ते भूद् बुद्धिरीदृशी॥ ज्ञानवृद्धा मया राजन् बहवः पर्युपासिताः। तेषां कथयतां शौरेरहं गुणवतो गुणान्॥ समागतानामश्रौषं बहून् बहुमतान् सताम्। कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः॥ बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे। न केवलं वयं कामाच्चेदिराज जनार्दनम्॥ न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथंचन। अर्चामहेऽर्चितं सद्भिर्भुवि भूतसुखावहम्॥ यशः शौर्यं जयं चास्य विज्ञायार्चा प्रयुञ्जमहे। न च कश्चिदिहास्माभिः सुबालोऽप्यपरीक्षितः॥ गुणवृद्धानतिक्रम्य हरिरर्च्यतमो मतः। ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः॥ वैश्यानां धान्यधनवाञ्छूद्राणामेव जन्मतः। पूज्यतायां च गोविन्दे हेतू द्वावपि संस्थितौ॥ वेदवेदाङ्गविज्ञानं बलं चाभ्यधिकं तथा। नृणां लोके हि कोऽन्योऽस्ति विशिष्टः केशवादृते॥ दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा। सन्नतिः श्रीकृतिस्तुष्टिः पुष्टिश्च नियताच्युते॥ तमिमं गुणसम्पन्नमार्यं च पितरं गुरुम्। अर्घ्यमर्चितमर्चाहँ सर्वे संक्षन्तुमर्हथ॥ ऋत्विग् गुरुस्तथाऽऽचार्यः स्नातको नृपतिः प्रियः। सर्वमेतद्धृषीकेशस्तस्मादभ्यर्चितोऽच्युतः॥ कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः। कृष्णस्य हि कृते विश्वमिदं भूतं चराचरम्॥ एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः। परश्च सर्वभूतेभ्यस्तस्मात् पूज्यतमोऽच्युतः॥ बुद्धिर्मनो महद् वायुस्तेजोऽम्भः खं मही च या। चतुर्विधं च यद् भूतं सर्वं कृष्णे प्रतिष्ठितम्॥ आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये। दिशश्च विदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम्॥ अग्निहोत्रमुखा वेदा गायत्री छन्दसां मुखम्। राजा मुखं मनुष्याणां नदीनां सागरो मुखम्॥ नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम्। पर्वतानां मुखं मेरुर्गरुडः पततां मुखम्॥ ऊर्ध्वं तिर्यगधश्चैव यावती जगतो गतिः। सदेवकेषु लोकेषु भगवान् केशवो मुखम्॥ अयं तु पुरुषो बालः शिशुपालो न बुध्यते। सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते॥ यो हि धर्मं विचिनुयादुत्कृष्टं मतिमन् नरः। स वै पश्येद् यथा धर्मं न तथा चेदिराडयम्॥ सवृद्धबालेष्वथवा पार्थिवेषु महात्मसु। को नाईं मन्यते कृष्णं को वाप्येनं न पूजयेत्॥ अथैनां दुष्कृतां पूजां शिशुपालो व्यवस्यति। दुष्कृतायां यथान्यायं तथायं कर्तुमर्हति॥ शल्य उवाच अथ तामब्रवीद् दृष्ट्वा नहुषो देवराट् तदा। त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते॥ भजस्व मां वरारोहे पतित्वे वरवर्णिनि। एवमुक्ता तु सा देवी नहुषेण पतिव्रता॥ प्रावेपत भयोद्विग्ना प्रवाते कदली यथा। प्रणम्य सा हि ब्रह्माणं शिरसा तु कृताञ्जलिः॥ देवराजमथोवाच नहुषं घोरदर्शनम्। कालमिच्छाम्यहं लब्धं त्वत्तः कंचित् सुरेश्वर॥ न हि विज्ञायते शक्रः किंवा प्राप्तः क्व वा गतः। तत्त्वमेतत् तु विज्ञाय यदि न ज्ञायते प्रभो॥ ततोऽहं त्वामुपस्थास्ये सत्यमेतद् ब्रवीमि ते। एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत्॥ नहुष उवाच एवं भवतु सुश्रोणि यथा मामिह भाषसे। ज्ञात्वा जागमनं कार्यं सत्यमेतदनुस्मरेः॥ नहुषेण विसृष्टा च निश्चक्राम ततः शुभा। बृहस्पतिनिकेतं च सा जगाम यशस्विनी॥ तस्याः संश्रुत्यं च वचो देवाश्चाग्निपुरोगमाः। चिन्तयामासुरेकाग्राः शनार्थं राजसत्तम॥ देवदेवेन सङ्गम्य विष्णुना प्रभविष्णुना। ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः॥ ब्रह्मवध्याभिभूतो वै शक्रः सुरगणेश्वरः। गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः॥ रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्। त्वद्वीर्यनिहते वृत्रे वासवो ब्रह्महत्यया।॥ वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिशा तेषां तद् वचनं श्रुत्वा देवानां विष्णुरब्रवीत्॥ मामेव यजतां शक्रः पावयिष्यामि वज्रिणम्। पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः॥ पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः। स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः॥ किंचित् कालमिदं देवा मर्षयध्वमतन्द्रिताः। श्रुत्वा विष्णोः शुभां सत्यां वाणी ताममृतोपमाम्॥ ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः। यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः॥ तत्राश्वमेधः सुमहान् महेन्द्रस्य महात्मनः। ववृते पावनार्थं वै ब्रह्महत्यापहो नृप॥ विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च। पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर॥ संविभज्य च भूतेषु विसृज्य च सुरेश्वरः। विज्वरो धूतपाप्मा च वासवोऽभवदात्मवान्॥ अकम्पन्नहुषं स्थानादं दृष्ट्वा बलनिषूदनः। तेजोनं सर्वभूतानां वरदानाच्च दुःसहम्॥ ततः शचीपतिर्देवः पुनरेव व्यनश्यत। अदृश्यः सर्वभूतानां कालाकाक्षी चचार ह॥ प्रनष्टे तु ततः शक्रे शची शोकसमन्विता। हा शक्रेति तदा देवी विललाप सुदुःखिता।॥ यदि दत्तं यदि हुतं गुरवस्तोषिता यदि। एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि॥ पुण्यां चेमामहं दिव्या प्रवृत्तामुत्तरायणे। देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः॥ प्रयता च निशां देवीमुपातिष्ठत तत्र सा! प्रतिव्रतात्वात् सत्येन सोपश्रुतिमथाकरोत्॥ यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे। इत्याहोपश्रुतिं देवीं सत्यं सत्येन दृश्यताम्॥ युधिष्ठिर उवाच कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ। श्री: पद्मा वसते नित्यं तन्मे ब्रूहि पितामह॥ भीष्म उवाच अत्र ते वर्णयिष्यामि यथावृत्तं यथाश्रुतम्। रुक्मिणी देवकीपुत्रसंनिधौ पर्यपृच्छत॥ नारायणस्याङ्गतां ज्वलन्ती दृष्ट्वा श्रियं पद्मसमानवर्णाम्। कौतूहलाद् विस्मितचारु नेत्रा पप्रच्छ माता मकरध्वजस्य॥ कानीह भूतान्युपसेवसे त्वं संतिष्ठसे कानिव सेवसे त्वम्। तानि त्रिलोकेश्वरभूतकान्ते तत्त्वेन मे ब्रूहि महर्षिकल्पे॥ एवं तदा श्रीरभिभाष्यमाणा देव्या समक्षं गरुडध्वजस्य। उवाच वाक्यं मधुराभिधानं मनोहरं चन्द्रमुखी प्रसन्ना॥ श्रीरुवाच वसामि नित्यं सुभगे प्रगल्भे दक्षे नरे कर्मणि वर्तमाने। अक्रोधने देवपरे कृतज्ञे जितेन्द्रिये नित्यमुदीर्णसत्त्वे॥ नाकर्मशीले पुरुषे वसामि न नास्तिके साङ्गरिके कृतघ्ने। न भिन्नवृत्ते न नृशंसवर्णे न चापि चौरे न गुरुष्वसूये॥ ये चाल्पतेजोबलसत्त्वमानाः क्लिश्यन्ति कृप्यन्ति च यत्र तत्र। न चैव तिष्ठामि तथाविधेषु नरेषु संगुप्तमनोरथेषु॥ यश्चात्मनि प्रार्थयते न किञ्चिद् यश्च स्वभावोपहतान्तरात्मा। तेष्वल्पसंतोषपरेषु नित्यं नरेषु नाहं निवसामि सम्यक्॥ स्वधर्मशीलेषु च धर्मविस्तु वृद्धोपसेवानिरते च दान्ते। कृतात्मनि क्षान्तिपरे समर्थे क्षान्तासु दान्तासु तथाबलासु॥ सत्यस्वभावार्जवसंयुत्तासु वसामि देवद्विजपूजिकासु॥ प्रकीर्णभाण्डामनपेक्ष्यकारिणी सदा च भर्तुः प्रतिकूलवादिनीम्॥ मेवंविधां तां परिवर्जयामि। पापामचोक्षामवलेहिनीं च व्ययेतधैर्य कलहप्रिया च।।१२। निद्राभिभूतां सततं शयानां एवंविधां तां परिवर्जयामि। सत्यासु नित्यं प्रियदर्शनासु सौभाग्ययुक्तासु गुणान्वितासु॥ वसामि नारीषु पतिव्रतासु कल्याणशीलासु विभूषितासु। यानेषु कन्यासु विभूषणेषु यज्ञेषु मेघेषु च वृष्टिमत्सु॥ वसामि फुल्लासु च पद्मिनीषु नक्षत्रवीथीषु च शारदीषु। गजेषु गोष्ठेषु तथाऽऽसनेषु सर:सु फुल्लोत्पलपङ्कजेषु।।१५। नदीषु हंसस्वननादितासु क्रौञ्चावघुष्टस्वरशोभितासु। विकीर्णकूलद्रुमराजितासु तपस्विसिद्धद्विजसेवितासु।।१६। वसामि नित्यं सुबहूदकासु सिंहैर्गजैश्चाकुलितोदकासु। मत्ते गजे गोवृषभे नरेन्द्र सिंहासने सत्पुरुषेषु नित्यम्।।१७। यस्मिन् जनो हव्यभुजं जुहोति गोब्राह्मणं चार्चति देवताश्च। काले च पुष्पैर्बलयः क्रियन्ते तस्मिन् गृहे नित्यमुपैमि वासम्॥ स्वाध्यायनित्येषु सदा द्विजेषु क्षत्रे च कृष्याभिरते सदैव। वैश्ये च धर्माभिरते वसामि शूद्रे शुश्रूषणनित्ययुक्ते॥ नारायणे त्वेकमना वसामि सर्वेण भावेन शरीरभूता। तस्मिन् हि धर्मः सुमहान् निविष्टो ब्रह्मण्यता चात्र तथा प्रियत्वम्॥ नाहं शरीरेण वसामि देवि नैवं मया शक्यमिहाभिधातुम्। भावेन यस्मिन् निवसामि पुंसि स वर्धते धर्मयशोर्थकामैः॥ युधिष्ठिर उवाच के पूज्याः के नमस्कार्याः कथं वर्तेते केषु च। किमाचारः कीदृशेषु पितामह न रिष्यते॥ भीष्म उवाच ब्राह्मणानां परिभवः सादयेदपि देवताः। ब्राह्मणांस्तु नमस्कृत्य युधिष्ठिर न रिष्यते॥ ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत्। ते हि लोकानिमान् सर्वान् धारयन्ति मनीषिणः॥ ब्राह्मणा: सर्वलोकानां महान्तो धर्मसेतवः। धनत्यागाभिरामाश्च वाक्संयमरताश्च ये॥ रमणीयाश्च भूतानां निधानं च धृतव्रताः। प्रणेतारश्च लोकाना शास्त्राणां च यशस्विनः॥ तपो येषा धनं नित्यं वाक् चैव विपुलं बलम्। प्रभवश्चैव धर्माणां धर्माज्ञाः सूक्ष्मदर्शिन॥ धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेतवः। यान् समाश्रित्य जीवन्ति प्रजाः सर्वाश्चतुर्विधाः॥ पन्थानः सर्वनेतारो यशवाहाः सनातनाः। पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा॥ धुरि ये नावसीदन्ति विषये सद्गवा इव। पित्रुदेवातिथिमुखा हव्यकव्याग्रभोजिनः॥ भोजनादेव लोकांस्त्रींस्त्रायन्ते महतो भयात्। दीप: सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि॥ सर्वशिक्षा श्रुतिधना निपुणा मोक्षदर्शिनः। गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तिकाः॥ आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः। परमावरविशेषज्ञा गन्तारः परमां गतिम्॥ विमुक्ता धूतपाप्मानो निर्द्वन्द्वा निष्परिग्रहाः। मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः॥ चन्दने मलपङ्के च भोजनेऽभोजने समाः। समं येषां दुकूलं च तथा क्षौमाजिनानि च॥ तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि। शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः॥ अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्। लोकानन्यान् सृजेयुस्ते लोकपालांश्च कोपिताः॥ अपेयः सागरो येषामपि शापान्महात्मनाम्। येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति॥ देवानामपि ये देवाः कारणं कारणस्य च। प्रमाणस्य प्रमाणं च कस्तानभिभवेद् बुधः॥ येषां वृद्धश्च बालश्च सर्वः सम्मानमहीति। तपोविद्याविशेषात्तु मानयन्ति परस्परम्॥ अविद्वान् ब्राह्मणो देवः पात्रं वै पावनं महत्। विद्वान् भूयस्तरो देवः पूर्णसागरसंनिभः॥ अवद्विांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत्। प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत्॥ श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति। हविर्यज्ञे च विधिवद् गृह एवातिशोभते॥ एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु। सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम्॥ युधिष्ठिर उवाच कर्मणां च समस्तानां शुभानां भरतर्षभ। फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः॥ भीष्म उवाच हन्त ते कथयिष्यामि यन्मां पृच्छसि भारत। रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर। या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता॥ येन येन शरीरेण यद्यत् कर्म करोति यः। तेन तेन शरीरेण तत्तत् फलमुपाश्नुते॥ यस्यां यस्यामवस्थायां यत् करोति शुभाशुभम्। तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि॥ न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह। ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च॥ चक्षुर्दद्यान्मनो दद्याद् वाचं दद्याच्च सूनृताम्। अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः॥ यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते। श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्॥ स्थण्डिलेषु शयानानां गृहाणि शयनानि च। चीरवल्कलसंवीते वासांस्याभरणानि च॥ वाहनानि च यानानि योगात्मनि तपोधने। अग्नीनुपश्यानस्य राज्ञः पौरुषमेव च॥ रसानां प्रतिसंहारे सौभाग्यमनुगच्छति। आमिषप्रतिसंहारे पशून् पुत्रांश्च विन्दति॥ अवाशिरास्तु यो लम्बेदुदवासं च यो वसेत्। सततं चैकशायी य: स लभेतेप्सितां गतिम्॥ पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम्। दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः॥ वीरासनं वीरशय्यां वीरस्थानमुपागतः। अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा।॥ धनं लभेत दानेन मौनेनाज्ञां विशाम्पते। उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम्॥ रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते। फलमूलाशिनो राज्यं स्वर्ग: पर्णाशिनां भवेत्॥ प्रायोपवेशिनो राजन् सर्वत्र सुखमुच्यते। गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः॥ स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत्। स्वर्ग सत्येन लभते दीक्षया कुलमुत्तमम्॥ सलिलाशी भवेद् यस्तु सदाग्निः संस्कृतो द्विजः। मनुं साधयतो राज्यं नाकपृष्ठमनाशके॥ उपवासं च दीक्षायामभिषेकं च पार्थिव। कृत्वा द्वादश वर्षाणि वीरस्थानाद् विशिष्यते॥ धीत्य सर्ववेदान् वै सद्यो दुःखाद् विमुच्यते। मानसं हि चरन् धर्मं स्वर्गलोकमुपाश्नुते।।२ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः। योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्।। यथा धेनुसहस्त्रेषु वत्सो विन्दति मातरम्। एवं पूर्वकृतं कर्म कर्तारमनुगच्छति॥ अचोद्यमानानि यथा पुष्पाणि च फलानि च। स्वकालं नातिवर्तन्ते तथा कर्म पुरा कृतम्॥ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः। चक्षुःश्रोत्रे च जीर्येते तृष्णैका न तु जीर्यते॥ येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः। प्रीणाति मातरं येन पृथिवी तेन पूजिता॥ येन प्रीणात्युपाध्यायं तेन स्याद् ब्रह्म पूजितम्। सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः। अनादृतास्तु यस्यैते सर्वास्तस्याफला: क्रियाः॥ वैशम्पायन उवाच भीष्मस्यैतद् वचः श्रुत्वा विस्पताः कुरुपुङ्गवाः। आसन् प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा॥ यन्मन्त्रे भवति वृथोपयुज्यमाने यत् सोमे भवति वृथाभिषूयमाणे। यच्चाग्नौ भवति वृथाभिहूयमाने तत् सर्वं भवति वृथाभिधीयमाने॥ इत्येतदृषिणा प्रोक्तमुक्तवानस्मि यद् विभो। शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि॥ मार्कण्डेय उवाच अत्रैव च सरस्वत्या गीतं परपुरंजय। पृष्टया मुनिना वीर शृणु तायेणधीमता॥ तार्क्ष्य उवाच किं नु श्रेयः पुरुषस्येह भद्रे कथं कुर्वन् न च्यवते स्वधर्मात्। आचक्ष्व मे चारुसर्वाङ्गि कुर्यां त्वया शिष्टो न च्यवेयं स्वधर्मात्॥ कथं वाग्निं जुहुयां पूजये वा कस्मिन् काले केनधर्मो न नश्येत्। एतत् सर्वं सुभगे प्रब्रवीहि यथा लोकान् विरजाः संचरेयम्॥ मार्कण्डेय उवाच एवं पृष्टा प्रीतियुक्तेन तेन शुश्रूषुमीक्ष्योत्तमबुद्धियुक्तम्। तालुं विप्रंधर्मयुक्तं हितं च सरस्वती वाक्यमिदं बभाषे॥ सरस्वत्युवाच यो ब्रह्म जानाति यथाप्रदेश स्वाध्यायनित्यः शुचिरप्रमत्तः। सवै पारं देवलोकस्य गन्ता सहामरैः प्राप्नुयात् प्रीतियोगम्॥ तत्र स्म रम्या विपुला विशोकाः सुपुष्पिताः पुष्करिण्यः सुपुण्याः। अकर्दमा मीनवत्यः सुतीर्था हिरण्मयैरावृताः पुण्डरीकैः॥ तासां तीरेष्वासते पुण्यभाजो महीयमानाः पृथगप्सरोभिः। हिरण्यवर्णाभिरतीव हृष्टाः॥ परं लोकं गोप्रदास्त्वाप्नुवन्ति दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति। वासो दत्त्वा चान्द्रमसं तु लोकं दत्त्वा हिरण्यममरत्वमेति॥ धेनुं दत्त्वा सुप्रभां सुप्रदोहां कल्याणवत्सामपलायिनीं च। स्तावद् वर्षाण्यासते देवलोके॥ अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्यम्। धुरन्धरं बलवन्तं युवानं प्राप्नोति लोकान् दशधेनुदस्य॥ ददाति यो वै कपिलां सचैलां कांस्योपदोहां द्रविणैरुत्तरीयैः। तैस्तैर्गुणैः कामदुहाथ भूत्वा नरं प्रदातारमुपैति सा गौः॥ स्तावत् फलं भवति गोप्रदाने। मासप्तमं तारयते परत्र॥ सदक्षिणां काञ्चनचारुशृङ्गी कांस्योपदोहां द्रविणैरुत्तरीयैः। धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति।॥ स्वकर्मभिर्दानसंनिरुद्ध तीव्रान्धकारे नरके सम्पतन्तम्। महार्णवे नौरिव वातयुक्ता दानं गवां तारयते परत्र॥ यो ब्राह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे। ददाति दानं विधिना च यश्च स लोकमाप्नोति पुरंदरस्य॥ यः सप्त वर्षाणि जुहोति तार्क्ष्य हव्यं त्वग्नौ नियतः साधुशीलः। सप्तावरान् सप्त पूर्वान् पुनाति पितामहानात्मना कर्मभिः स्वैः॥ तार्क्ष्य उवाच माचक्ष्व मे पृच्छतश्चानुरूपे। त्वयानुशिष्टोऽहमिहाद्य विद्यां यदग्निहोत्रस्य व्रतं पुराणम्॥ सरस्वत्युवाच ब्रह्मविज्जुहुयानाविपश्चित्। बुभुत्सवः शुचिकामा हि देवा नाश्रद्दधानाद्धि हविर्जुषन्ति॥ नाश्रोत्रियं देवहव्ये नियुञ्ज्यान्मोघं पुरा सिञ्चति तादृशो हि। अपूर्वमश्रोत्रियमाह ता न तादृग् जुहुयादग्निहोत्रम्॥ कृशाश्च ये जुह्वति श्रद्दधानाः सत्यव्रता हुतशिष्टाशिनश्च। वै गवां लोकं प्राप्य ते पुण्यगन्धं पश्यन्ति देवं परमं चापि सत्यम्॥ तार्क्ष्य उवाच क्षेत्रज्ञभूतां परलोकभावे कर्मोदये बुद्धिमतिप्रविष्टाम्। प्रज्ञां च देवीं सुभगे विमृश्य पृच्छामि त्वां का ह्यसि चारुरूपे॥ सरस्वत्युवाच अग्निहोत्रादहमभ्यागतास्मि विप्रर्षभाणां संशयच्छेदनाय। त्वत्संयोगादहमेतब्रुवं भावे स्थिता तथ्यमर्थं यथावत्॥ तार्थ्य उवाच न हि त्वया सदृशी काचिदस्ति विभ्राजसे ह्यतिमात्रं यथा श्रीः। रूपं च ते दिव्यमनन्तकान्ति प्रज्ञां च देवीं सुभगे बिभर्षि॥ सरस्वत्युवाच श्रेष्ठानि यानि द्विपदां वरिष्ठ यज्ञेषु विद्वन्नुपपादयन्ति। तैरेव चाहं सम्प्रवृद्धा भवामि चाप्यायिता रूपवती च विप्र॥ यच्चापि द्रव्यमुपयुज्यते ह वानस्पत्यमायसं पार्थिवं वा। दिव्येन रूपेण च प्रज्ञया च तेनैव सिद्धिरिति विद्धि विद्वन्॥ तार्क्ष्य उवाच इदं श्रेयः परमं मन्यमाना व्यायच्छन्ते मुनयः सम्प्रतीताः। आचक्ष्व मे तं परमं विशोकं मोक्षं परं यं प्रविशन्तिधीराः। सांख्या योगा परमं यं विदन्ति परं पुराणं तमहं न वेद्मि॥ सरस्वत्युवाच तं वै परं वेदविदः प्रपन्नाः परं परेभ्यः प्रथितं पुराणम्। स्तपोधना वीतशोका विमुक्ताः॥ तस्याथ मध्ये वेतसः पुण्यगन्धः सहाशाखो विपुलो विभाति। तस्य मूलात् सरितः प्ररवन्ति मधूदकप्रावणा: सुपुण्याः॥ शाखां शाखां महानद्यः संयान्ति सिकताशयाः। धानापूपा मांसशाकाः सदा पायसकर्दमाः॥ यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः। ईजिरे क्रतुभिः श्रेष्ठैस्तत् पदं परमं मम॥ दुर्योधन उवाच न भेतव्यं महाराज न शोच्या भवता वयम्। समर्थाः स्म पराञ्जेतुं बलिनः समरे विभो॥ वने प्रवाजितान् पार्थान् यदाऽऽयान्मधुसूदनः। महता बलचक्रेण परराष्ट्रावमर्दिना॥ केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षतः। राजानश्चान्वयुः पार्थान् बहवोऽन्येऽनुयायिनः॥ इन्द्रप्रस्थस्य चादूरात् समाजग्मुर्महारथाः। व्यगर्हयंश्च संगम्य भवन्तं कुरुभिः सह॥ ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम्। कृष्णप्रधानाः संहत्य पर्युपासन्त भारत॥ प्रत्यादानं च राज्यस्य कार्यमूचुर्नराधिपाः। भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः॥ श्रुत्वा चैवं मयोक्तास्तु भीष्मद्रोणकृपास्तदा। ज्ञातिक्षयभयाद् राजन् भीतेन भरतर्षभ॥ ततः स्थास्यन्ति समये पाण्डवा इति मे मतिः। समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति॥ ऋते च विदुरात् सर्वे यूयं वध्या मता मम। धृतराष्ट्रस्तु धर्मज्ञो न वध्यः कुरुसत्तमः॥ समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः। एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे॥ तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम्। प्राणान् वा सम्परित्यज्य प्रतियुध्यामहे परान्॥ प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः। युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः॥ विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः। धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः॥ प्रणिपाते न दोषोऽस्ति सन्धिनः शाश्वतीः समाः। पितरं त्वेव शोचामि प्रज्ञानेनं जनाधिपम्॥ मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम्। कृतं हि तव पुत्रैश्च परेषामवरोधनम्। मत्प्रियार्थं पुरैवैतद् विदितं ते नरोत्तम॥ ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः। वैरं प्रतिकरिष्यन्ति कुलोच्छेदन पाण्डवाः॥ ततो द्रोणोऽब्रवीद् भीष्मः कृपो द्रौणिश्च भारत। मत्वा मां महतीं चिन्तामास्थितं व्यथितेन्द्रियम्॥ अभिदुग्धाः परे चेन्नो न भेतव्यं परंतप। असमर्थाः परे जेतुमस्मान् युधि समास्थितान्॥ एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान्। आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः॥ पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः। मृते पितर्यतिक्रुद्धो रथेनैकेन भारत॥ जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः। ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात्॥ स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे। परान् विजेतुं तस्मात् ते व्येतु भीर्भरतर्षभ॥ इत्येषां निश्चयो ह्यासीत् तत्कालेऽमिततेजसाम्। पुरा परेषां पृथिवी कृतस्नाऽऽसीद् वशवर्तिनी॥ अस्मान् पुनरमी नाद्य समर्था जेतुमाहवे। छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः॥ अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ। एकार्थाः सुखदुःखेषु समानीताश्च पार्थिवाः॥ अप्यग्नि प्रविशेयुस्ते समुद्रं वा परंतप। मदर्थं पार्थिवाः सर्वे तद् विद्धि कुरुसत्तम॥ उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम्। विलपन्तं बहुविधं भीतं परविकत्थने॥ एषां ह्येकैकशो राज्ञां समर्थः पाण्डवान् प्रति। आत्मानं मन्यते सर्वो व्येतु ते भयमागतम्॥ जेतुं समग्रां सेनां मे वासवोऽपि न शक्नुयात्। हन्तुमक्षय्यरूपेयं ब्रह्मणोऽपि स्वयम्भुवः॥ युधिष्ठिरः पुरं हित्वा पञ्च ग्रामान् स याचति। भीतो हि मामकात् सैन्यात् प्रभावाच्चैव मे विभो।।३० समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम्। तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्सि भारत॥ मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन। नासीत् कश्चिदतिक्रान्तो भवति न च कश्चन॥ युक्तो दुःखोषितश्चाहं विद्यापारगतस्तथा। तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित्॥ दुर्योधनसमो नास्ति गदायामिति निश्चयः। संकर्षणस्य भद्रं ते यत् तदैनमुपावसम्॥ युद्धे संकर्षणसमो बलेनाभ्यधिको भुवि। गदाप्रहारं भीमो मे न जातु विषहेद् युधि।॥ एकं प्रहारं यं दद्यां भीमाय रुषितो नृप। स एवैनं नयेद् घोरः क्षिप्रं वैवस्वतक्षयम्॥ इच्छेयं च गदाहस्तं राजन् दुष्टुं वृकोदरम्। सुचिरं प्रार्थितो ह्येष मम नित्य मनोरथः॥ गदया निहतो ह्याजौ मया पार्थो वृकोदरः। विशीर्णगात्रः पृथिवीं परासुः प्रपतिष्यति॥ गदाप्रहाराभिहतो हिमवानपि पर्वतः। सकृन्मया विदीर्येत गिरिः शतसहस्रधा॥ स चाप्येतद् विजानाति वासुदेवार्जुनौ तथा। दुर्योधनसमो नास्ति गदायामिति निश्चयः॥ तत् ते वृकोदरमयं भयं व्येतु महाहवे। व्यपनेष्याम्यहं ह्येनं मा राजन् विमना भव॥ तस्मिन् मया हते क्षिप्रमर्जुनं बहवो रथाः। तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षम॥ भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा। प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः॥ एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान्। समेतास्तु क्षणैनैतान् नेष्यन्ति यमसादनम्। समग्रा पार्थिवो सेना पार्थमेकं धनंजयम्॥ कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते। शरवातैस्तु भीष्मेण शतशो निचितोऽवशः॥ द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम्। पितामहोऽपि गाङ्गेयः शान्तनोरधि भारत॥ ब्रह्मर्षिसदृशो जज्ञे देवैरपि सुदुःसहः। न हन्ता विद्यते चापि राजन् भीष्मस्य कश्चन॥ पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि। ब्रह्मर्षेच भरद्वाजाद् द्रोणो द्रोण्यामजायत॥ द्रोणाज्जज्ञे महाराज द्रौणिश्च परमास्त्रवित्। कृपश्चाचार्यमुख्योऽयं महर्षे!तमादपि॥ शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः। अयोनिजास्त्रयो होते पिता माता च मातुलः॥ अश्वत्थाम्नो महाराज स च शूरः स्थितो मम। सर्व एते महाराज देवकल्पा महारथाः॥ शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ। नैतेषामर्जुनः शक्त एकैकं प्रति वीक्षितुम्॥ सहितास्तु नरव्याघ्रा हनिष्यन्ति धनंजयम्। भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम॥ अनुज्ञातश्च रामेण मत्समोऽसीति भारत। कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे॥ ते शच्यर्थं महेन्द्रेण याचितः स परंतपः। अमोघया महाराज शक्त्या परमभीमया॥ तस्य शक्त्योपगूढस्य कस्माज्जीवेद् धनंजयः। विजयो मे ध्रुवं राजन् फलं पाणाविवाहितम्॥ अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः। अह्ना टेकेन भीष्मोऽयं प्रयुतं हन्ति भारत॥ तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि। संशप्तकानां वृन्दानि क्षत्रियाणां परंतप॥ अर्जुनं वयमस्मान् वा निहन्यात् कपिकेतनः। तं चालमिति मन्यन्ते सव्यसाचिवधे धृताः॥ पार्थिवाः स भवांस्तेभ्यो हकस्माद् व्यथते कथम्। भीमसेने च निहते कोऽन्यो युध्येत भारत॥ परेषां तन्ममाचक्ष्व यदि वेत्थ परंतप। पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः॥ परेषां सप्त ये राजन् योधाः सारं बलं मतम्। अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः॥ द्रौणिर्विकर्तनः कर्णः सोमदत्तोऽथ बाह्निकः। प्राग्ज्योतिषाधिपः शल्य आवन्त्यौ च जयद्रथः॥ दुःशासनो दुर्मुखश्च दुःसहश्च विशाम्पते। श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः॥ शलो भूरिश्रवाश्चैव विकर्णश्च तवात्मजः। अक्षौहिण्यो हि मे राजन् दशैका च समाहृताः। न्यूनाः परेषां सप्तैव कस्मान्मे स्यात् पराजयः॥ बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः। परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी॥ गुणहीनं परेषां च बहु पश्यामि भारत। गुणोदयं बहुगुणमात्मनश्च विशाम्पते॥ एतत् सर्वं समाज्ञाय बलाग्यं मम भारत। न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि॥ इत्युक्त्वा संजयं भूयः पर्यपृच्छत भारत। विवित्सुः प्राप्तकालानि ज्ञात्वा परपुरंजयः॥ वैशम्पायन उवाच ततो दिशः सम्प्रविहृत्य पार्था मृगान् वराहान् महिषांश्च हत्वा। धनुर्धराः श्रेष्ठतमाः पृथिव्यां पृथक् चरन्तः सहिता बभूवुः॥ ततो मृगज्यालगणानुकीर्ण महावनं तद् विहगोपघुष्टम्। भ्रातूंश्च तानभ्यवदद् युधिष्ठिरः श्रुत्वा गिरो व्याहरतां मृगाणाम्॥ आदित्यदीप्तां दिशमभ्युपेत्य मृगा द्विजाः क्रूरमिमे वदन्ति। आयासमुचं प्रतिवेदयन्तो महावनं शत्रुभिर्बाध्यमानम्॥ मनो हि मे दूयति दह्यते च। रुद्धूयते प्राणपतिः शरीरे॥ सरः सुपर्णेन हृतोरगं यथा राष्ट्रं यथाराजकमात्तलक्ष्मि। एवंविधं मे प्रतिभाति काम्यकं शौण्डैर्यथा पीतरसश्च कुम्भः॥ महाजवैर्वाजिभिरुह्यमानाः। स्तदाऽऽश्रमायाभिमुखा बभूवुः॥ तेषां तु गोमायुरनल्पघोषो निवर्ततां वाममुपेत्य पार्श्वम्। प्रव्याहरत् तत् प्रविमृश्य राजा प्रोवाच भीमं च धनंजयं च॥ यथा वदत्येष विहीनयोनिः शालावृको वाममुपेत्य पार्श्वम्। सुव्यक्तमस्मानवमन्य पापैः कृतोऽभिमर्दः कुरुभिः प्रसह्य॥ इत्येव ते तद् वनमाविशन्तो महत्यरण्ये मृगयां चरित्वा। बालामपश्यन्त तदा रुदन्ती धात्रेयिकां प्रेष्यवधू प्रियायाः॥ तामिन्द्रसेनस्त्वरितोऽभिसृत्य रथादवप्लुत्य ततोऽभ्यधावत्। प्रोवाच चैनां वचनं नरेन्द्र धात्रेयिकामन्तितरस्तदानीम्॥ किं रोदिषि त्वं पतिता धरण्यां किं ते मुखं शुष्यति दीनवर्णम्। कच्चिन्न पापैः सुनृशंसकृद्भिः प्रमाथिता द्रौपदी राजपुत्री॥ अचिन्त्यरूपा सुविशालनेत्रा शरीरतुल्या कुरुपुङ्गवानाम्। यद्येव देवी पृथिवीं प्रविष्टा दिवं प्पपन्नाप्यश्चवा समुद्रम्॥ तस्या गमिष्यन्ति पदे हि पार्था यथा हि संतप्यति धर्मपुत्रः। को हीदृशानामरिमर्दनानां क्लेशक्षमानामपराजितानाम्॥ दनुत्तमं रत्नमिव प्रमूढः। न बुध्यते नाथवतौमिहाद्य बहिश्चरं हृदयं पाण्डवानाम्॥ कस्याद्य कायं प्रतिभिद्य घोरा महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः। मा त्वं शुचस्तां प्रति भीरु विद्धि यथाद्य कृष्णा पुनरेष्यतीति॥ निहत्य सर्वान् द्विषतः समग्रान् पार्थाः समेष्यन्त्यथा याज्ञसेन्या। अथाब्रवीच्चारु मुखं प्रमृज्य धात्रेयिका सारथिमिन्द्रसेनम्॥ जयद्रथेनापहृता प्रमथ्य पञ्चेन्द्रकल्पान् परिभूय कृष्णा। तिष्ठन्ति वानि नवान्यमूनि वृक्षाश्च न म्लान्ति तथैव भग्नाः॥ आवर्तयध्वं ह्यनुयात शीघ्रं न दूरयातैव हि राजपुत्री। संनह्यध्वं सर्व एवेन्द्रकल्पा महान्ति चारूणि च दंशनानि॥ गृणीत चापानि महाधनानि शरांश्च शीघ्रं पदवीं चरध्वम्। पुरा हि निर्भर्त्सनदण्डमोहिता प्रमोहचित्ता वदनेन शुष्यता॥ ददाति कस्मैचिदनर्हते तनुं वराज्यपूर्णामिव भस्मनि स्रुचम्। पुरा तुषाग्नाविव हूयते हविः पुरा श्मशाने स्रगिवापविद्ध्यते॥ पुरा च सोमोऽध्वरगोऽवलिाते शुना यथा विप्रजने प्रमोहिते। महत्यरण्ये मृगयां चरित्वा पुरा शृगालो नलिनी विगाहते॥ मा वः प्रियायाः सुनसं सुलोचनं चन्द्रप्रभाच्छं वदनं प्रसन्नम्। स्पृश्याच्छुभं कश्चिदकृत्यकारी श्वा वै पुरोडाशमिवाध्वरस्थम्। एतानि वान्यनुयात शीनं मा वः कालः क्षिप्रमिहात्यगाद् वै॥ युधिष्ठिर उवाच भद्रे प्रतिक्राम नियच्छ वाचं मास्मत्सकाशे परुषाण्यवोचः। राजानो वा यदि वा राजपुत्रा बलेन मत्ता वञ्चनां प्राप्नुवन्ति॥ वैशम्पायन उवाच एतावदुक्त्वा प्रययुर्हि शीघ्रं तान्येच वान्यनुवर्तमानाः। मुहुर्महालवदुच्छ्वसन्तो ज्यां विक्षिपन्तश्च महाधनुर्यः॥ मुद्भूतं वै वाजिखुरप्रणुन्नम्। पदातीनां मध्यगतं च धौम्यं विक्रोशन्तं भीममभिद्रवेति॥ ते सान्त्व्य धौम्यं परिदीनसत्त्वाः सुखं भवानेत्विति राजपुत्राः। श्येना यथैवामिषसम्प्रयुक्ता जवेन तत् सैन्यमथाभ्यधावन्।॥ तेषां महेन्द्रोपमविक्रमाणां संरब्धानां धर्षणाद् याज्ञसेन्याः। क्रोधः प्रजज्वाल जयद्रथं च दृष्ट्वा प्रियां तस्य रथे स्थितां च॥ प्रचुकुशुश्चाप्यथ सिन्धुराज वृकोदरश्चैव धनंजयश्च। स्ततो दिशः सम्मुमुहुः परेषाम्॥ धृतराष्ट्र उवाच भगवन् नाहमप्येतद् रोचये द्यूतसम्भवम्। मन्ये तद्विधिनाऽऽकृष्य कारितोऽस्मीति वै मुने॥ नैतद् रोचयते भीष्मो न द्रोणो विदुरो न च। गान्धारी नेच्छति द्यूतं तत्र मोहात् प्रवर्तिमम्॥ परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्। पुत्रस्नेहेन भगवञ्जानन्नपि प्रियव्रत॥ व्यास उवाच वैचित्रवीर्य नृपते सत्यमाह यथा भवान्। दृढं विद्मः परं पुत्रं परं पुत्रान्न विद्यते॥ इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः। अन्यैः समृद्धैरप्यर्थैर्न सुतान्मन्यते परम्॥ अत्र ते कीर्तयिष्यामि महदाख्यानमुत्तमम्। सुरभ्याश्चैव संवादमिन्द्रस्य च विशाम्पते।॥ त्रिविष्टपगता राजन् सुरभी प्रारुदत् किल। गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत॥ इन्द्र उवाच किमिदं रोदिषि शुभे कच्चित् क्षेमं दिवौकसाम्। मानुषेष्वथ वा गोषु नैतदल्पं भविष्यति॥ सुरभिरुवाच विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिप। अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक॥ पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम्। प्रतोदेनाभिनिघ्नन्तं लागलेन च पीडितम्॥ निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप। कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम। एकस्तत्र बलोपेतोधुरमुद्वहतेऽधिकाम्॥ अपरोऽप्यबलप्राणः कृशोधमनिसंततः। कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव॥ वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः। नैव शक्नोति तं भारमुद्वोढुं पश्य वासव॥ ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता। अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती॥ शक्र उवाच तव पुत्रसहस्रेषु पीड्यमानेषु शोभने। किं कृपायितवत्यत्र पुत्र एकत्र हन्यति॥ सुरभिरुवाच यदि पुत्रसहस्राणि सर्वत्र समतैव मे। दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा॥ व्यास उवाच तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मित;। जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्जम्॥ प्रववर्ष च तत्रैव सहसा तोयमुल्बणम्। कर्षकस्याचरन् विघ्नं भगवान् पाकशासनः॥ तद् यथा सुरभिः प्राह समवेतास्तु ते तथा। सुतेषु राजन् सर्वेषु हीनेष्वभ्यधिका कृपा॥ यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रका विदुरश्च महाप्राज्ञः स्नेहादेतद् ब्रवीम्यहम्॥ चिराय तव पुत्राणां शतमेकश्च भारत। पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः। कथं जीवेयुरत्यन्तं कथं वर्धयुरित्यपि। इति दीनेषु पार्थेषु मनो मे परितप्यते॥ यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि। दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः॥ वैशम्पायन उवाच ततः पूर्वापरे सैन्ये समीक्ष्य भगवानृषिः। सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः॥ भविष्यति रणे घोर भरतानां पितामहः। प्रत्यक्षदर्शी भगवान् भूतभव्यभविष्यवित्॥ वैचित्रवीर्यं राजानं स रहस्यं ब्रवीदिदम्। शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा॥ व्यास उवाच राजन् परीतकालास्ते पुत्राश्चान्ये च पार्थिवाः। ते हिंसन्तीव संग्रामे समासाद्येतरेतरम्॥ तेषु कालपरीतेषु विनश्यत्स्वेव भारत। कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः॥ यदि चेच्छसि संग्रामे द्रष्टुमेतान् विशाम्पते। चक्षुर्ददानि ते पुत्र युद्धं तत्र निशामय॥ धृतराष्ट्र उवाच न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम। युद्धमेतत् त्वशेषेण शृणुयां तव तेजसा॥ वैशम्पायन उवाच एतस्मिन् नेच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति। वराणामीश्वरो व्यासः संजयाय वरं ददौ॥ एष ते संजयो राजन् युद्धमेतद् वदिष्यति। एतस्य सर्वसंग्रामे न परोक्षं भविष्यति॥ चक्षुषा संजयो राजन् दिव्येनैव समन्वितः। कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति॥ प्रकाशं वाप्रकाशं वा दिवा वा यदि वा निशि। मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः॥ नैनं शस्त्राणि छेत्स्यन्ति नैनं बाधिष्यते श्रमः। गावल्गणिरयं जीवन् युद्धादस्माद् विमोक्ष्यते॥ अहं तु कीर्तिपेतेषां कुरूणां भरतर्षभ। पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः॥ दिष्टमेतन्नरव्याघ्र नाभिशोचितुमर्हसि। न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः॥ वैशम्पायन उवाच एवमुक्त्वा स भगवान् कुरूणां प्रपितामहः। पुनरेव महाभागो धृतराष्ट्रमुवाच ह॥ इह युद्धे महाराज भविष्यति महान् क्षयः। तथेह च निमित्तानि भयदान्युपलक्षये॥ श्येनागृध्राश्च काकाश्च कङ्काश्च सहिता बकैः। सम्पतन्ति नगाग्रेषु समवायांश्च कुर्वते॥ अभ्यग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः। क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम्॥ निर्दयं चाभिवाशन्तो भैरवा भयवेदिनः। कङ्काः प्रयान्ति मध्येन दक्षिणामभितो दिशम्॥ उभे पूर्वापरे संध्ये नित्यं पश्यामि भारत। उदयास्तमने सूर्य कबन्धैः परिवारितम्॥ श्वेतलोहितपर्यन्ताः कृष्णग्रीवा: सविद्युतः। विवर्णाः परिघाः संधौ भानुमन्तमवारयन्।॥ ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षयम्। अहोरात्रं मया दृष्टं तद् भयाय भविष्यति॥ अलक्ष्यः प्रभयाहीनः पौर्णमासी च कार्तिकीम्। चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णनभस्तले॥ स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः। राजानो राजपुत्राश्च शूराः परिघबाहवः॥ अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः। प्रणादं युद्ध्यतो रात्रो रौद्रं नित्यं प्रलक्षये॥ देवताप्रतिमाश्चैव कम्पन्ति च हसन्ति च। वमन्ति रुधिरं चास्यैः खिद्यन्ति प्रपतन्ति च॥ अनाहता दुन्दुभयः प्रणदन्ति विशाम्पते। अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः॥ कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा। सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः॥ गृहीतशस्त्राः क्रोशन्ति चर्मिणो वाजिपृष्ठगाः। अरुणोदये प्रदृश्यन्ते शतशः शलभव्रजाः॥ उभे संध्ये प्रकाशन्ते दिशां दाहसमन्विते। पर्जन्यः पांसुवर्षी च मांसवर्षी च भारत॥ या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसम्मता। अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः॥ रोहिणी पीडयन्नेष स्थितो राजशनैश्चरः। व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद् भयम्॥ अनभ्रे महाघोरः स्तनितः श्रूयते स्वनः। वाहनानां च रुदतां निपतन्त्यश्रुबिन्दवः॥ युधिष्ठिर उवाच धन्या धन्या इति जनाः सर्वेऽस्मान् प्रवदन्त्युत। न दुःखिततरः कश्चित् पुमानस्माभिरस्ति ह॥ लोकसम्भावितैर्दुःखं यत् प्राप्तं कुरुसत्तम। प्राप्य जाति मनुष्येषु देवैरपि पितामह॥ कदा वयं करिष्यामः संन्यासं दुःखसंज्ञकम्। दुःखमेतच्छरीराणां धारणं कुरुसत्तम॥ विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः। इन्द्रियार्थैर्गुणैश्चैव अष्टाभिश्च पितामह॥ न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः। कदा वयं गमिष्यामो राज्यं हित्वा परंतप॥ भीष्म उवाच नास्त्यनन्तं महाराज सर्वं संख्यानगोचरः। पुनर्भावोऽपि विख्यातो नास्ति किंचिदिहाचलम्॥ न चापि मन्यसे राजन्नेष दोषः प्रसङ्गतः। उद्योगादेव धर्मज्ञा कालेनैव गमिष्यथ।॥ नरेशेऽयं सततं देही नृपते पुण्यपापयोः। तत एव समुत्थेन तमसा रुध्यतेऽपि च॥ यथाञ्जमनयो वायुः पुनर्मानःशिलं रजः। अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन् दिशः॥ तथा कर्मफलैर्देही रञ्जितस्तमसाऽऽवृतः। विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते॥ ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः। व्यपोहति तदा ब्रह्म प्रकाशति सनातनम्॥ अयत्नसाध्यं मुनयो वदन्ति ये चापि मुक्तास्त उपासितव्याः। त्वया च लोकेन च सामरेण तस्मान्नमस्यामि महर्षिसङ्घान्॥ अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप। यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम्॥ निर्जितेनासहायेन हृतराज्येन भारत। अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम्॥ भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत्। काचित् पराजितस्याद्य न व्यथा तेऽस्ति दानव।१५।। वृत्र उवाच सत्येन तपसा चैव विदित्वासंशयं ह्यहम्। न शोचामि न हृष्यामि भूतानामागतिं गतिम्॥ कालसंचोदिता जीवा मज्जन्ति नरकेऽवशाः। परितुष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः॥ क्षपयित्वा तु तं कालं गणितं कालचोदिताः। सावशेषेण कालेन सम्भवन्ति पुनः पुनः॥ तिर्यग्योनिसहस्राणि गत्वा नरकमेव च। निर्गच्छन्त्यवशा जीवाः कामबन्धनबन्धनाः॥ एवं संसरमाणानि जीवान्यहमदृष्टवान्। यथा कर्म तथ लाभ इति शास्त्रनिदर्शनम्॥ तिर्यग् गच्छन्ति नरकं मानुष्यं दैवमेव च। सुखदुःखे प्रिये द्वेष्ये चरित्वा पूर्वमेव ह॥ कृतान्तविधिसंयुक्तः सर्वो लोकः प्रपद्यते। गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा॥ कालसंख्यानसंख्यातं सृष्टिस्थितिपरायणम्। तं भाषमाणं भगवानुशना प्रत्यभाषत। धीमान् दुष्टप्रलापांस्त्वं तात कस्मात् प्रभाषसे॥ वृत्र उवाच प्रत्यक्षमेतद् भवतस्तथान्येषां मनीषिणाम्। मया यज्जयलुब्धेन पुरा तप्तं महत् तपः॥ गन्धानादाय भूतानां रसांश्च विविधानपि। अवर्धं त्रीन् समाक्रम्य लोकान् वै स्वेन तेजसा॥ ज्वालामालापरिक्षिप्तो वैहायसचरस्तथा। अजेयः सर्वभूतानामासं नित्यमपेतभीः॥ ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः। धृतिमास्थाय भगवन् न शोचामि ततस्त्वहम्॥ युयुत्सुना महेन्द्रेण पुंसा सार्धं महात्मना। ततो मे भगवान् दृष्टो हरिर्नारायणः प्रभुः॥ वैकुण्ठः पुरुषोऽनन्तः शुक्लो विष्णुः सनातनः। मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः॥ नूनं तु तस्य तपसः सावशेषमिहास्ति वै। यदहं प्रष्टुमिच्छामि भगवन् कर्मणः फलम्॥ ऐश्वर्यं वै महद् ब्रह्म वर्णे कस्मिन् प्रतिष्ठितम्। निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम्॥ कस्माद् भूतानि जीवन्ति प्रवर्तन्ते तथा पुनः। किंवा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः॥ केन वा कर्मणा शक्यमथ ज्ञानेन केन वा। तदवाप्तुं फलं विप्र तन्मे व्याख्यातुमर्हसि॥ इतीदमुक्तः स मुनिस्तदानीं प्रत्याह यत्तच्छृणु राजसिंह। मनन्यचित्तः सह सोदरीयैः॥ इतीदमुक्तः स मुनिस्तदानीं प्रत्याह यत्तच्छृणु राजसिंह। मनन्यचित्तः सह सोदरीयैः॥ संजय उवाच हते सुदक्षिणे राजन् वीरे चैव श्रुतायुधे। जवेनाभ्यद्रवन् पार्थं कुपिताः सैनिकास्तव॥ अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः। अभ्यवर्षेस्ततो राजशरवर्षेर्धनंजयम्॥ तेषां षष्टिशतानन्यान् प्रामथ्नात् पाण्डवः शरैः। ते स्म भीताः पलायन्ते व्याघ्रात् क्षुद्रमृगा इव॥ ते निवृत्ताः पुनः पार्थं सर्वतः पर्यवारयन्। रणे सपनान् निघ्नन्तं जिगीषन्तं परान् युधि॥ तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः। शिरांसि पातयामास बाहूंश्चापि धनंजयः॥ शिरोभिः पातितैस्तत्र भूमिरासीनिरन्तरा। अभ्रच्छायेव चैवासीत् ध्वाक्षगृघ्रबलैयुधि॥ तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ। श्रुतायुश्चाच्युतायुश्च धनंजयमयुध्यताम्॥ बलिनो स्पर्धिनौ वीरो कुलजौ बाहुशालिनौ। तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम्॥ त्वरायुक्तौ महाराज प्रार्थयानौ महद् यशः। अर्जुनस्य वधप्रेप्सू पुत्रार्थ तव धन्विनौ॥ तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् । पूरयामासतुः क्रुद्धौ तटागं जलदौ यथा॥ श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनंजयम्। आजघान रथश्रेष्ठः पीतेन निशितेन च॥ सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः। जगाम परमं मोहं मोहयन् केशवं रणे॥ एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः। शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम्॥ क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः। पार्थोऽपि भृशंसंविद्धो ध्वजयष्टिं समाश्रितः॥ ततः सर्वस्य सैन्यस्य तावकस्य विशाम्पते। सिंहनादो महानासीद्धतं मत्वा धनंजयम्॥ कृष्णश्च भृशसंतप्तो दृष्ट्वा पार्थं विचेतनम्। आश्वासयत् सुहृद्याभिर्वाग्भिस्तत्र धनंजयम्॥ ततस्तौ रथिनां श्रेष्ठौ लब्धलक्ष्यौ धनंजयम्। वासुदेवं च वार्ष्णेयं शरवर्षेः समन्ततः॥ सचक्रकूबररथं साश्वध्वजपताकिनम्। अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत्॥ प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत। प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा॥१९ संछन्नं शरजालेन रथं दृष्ट्वा सकेशवम्। शत्रु चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ॥ प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः। तस्मादासन् सहस्राणि शराणां नतपर्वणाम्॥ ते जघ्नुस्तौ महेष्वासौ ताभ्यां मुक्तांश्च सायकान्। विचेरुराकाशगताः पार्थबाणविदारिताः॥ प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः। प्रतस्थे तत्र तत्रैव योधयन् वै महारथान्॥ तौ च फाल्गुनबाणौधैर्विबाहुशिरसौ कृतौ। वसुधामन्वपद्येतां वातनुन्नाविव दुभौ॥ श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः। लोकविस्मापनमभूत् समुद्रस्येव शोषणम्॥ ततयोः पदानुगान् हत्वा पुनः पञ्चाशतं रथान्। प्रत्यगाद् भारती सेनां निघ्नन् पार्थो वरान् वरान्॥ श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम्। नियतायुश्च संक्रुद्धो दीर्घायुश्चैव भारत॥ पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः। किरन्तोविविधान् बाणान् पितृव्यसनकर्शितौ॥ तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः। प्रेषयत् परमकुद्धो यमस्य सदनं प्रति॥ लोडयन्तमनीकानि द्विपं पद्मसरो यथा। नाशक्नुवन् वारयितुं पार्थं क्षत्रियपुङ्गवाः॥ अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन्। क्रुद्धाः सहस्रशो राजशिक्षिता हस्तिसादिनः॥ दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः। प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः॥ तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः। निचकर्त शिरांस्युग्रो बाहूनपि सुभूषणान्॥ तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः। वभौ कनकपाषाणा भुजगैरिव संवृतां॥ बाहवोविशिखैश्छिन्नाः शिरांस्युन्मथितानि च। पतमानान्यदृश्यन्त दुमेभ्य इव पक्षिणः॥ शरैः सहस्रशो विद्धा द्विपाः प्रसृतशोणिताः। अदृश्यन्ताद्रयः काले गौरिकाम्बुस्रवा इव॥ निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः। गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः॥ नानावेषधरा राजन् नानाशस्त्रौघसंवृताः। रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः॥ शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः। सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः॥ चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः। भृशं त्रस्ताश्व बहवः स्वानेव प्रमृदुर्गजाः॥ सान्तरायुधिनश्चैव द्विपास्तीक्ष्णविषोपमाः। विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः॥ यवनाः पारदाश्चैव शकाश्च सह बाह्निकैः। काकवर्णा दुराचाराः स्त्रीलोकाः कलहप्रियाः॥ द्राविडास्तत्र युध्यन्ते मत्तमातङ्गविक्रमाः। गोयोनिप्रभवाम्लेच्छा: कालकल्पाः प्रहारिणः॥ दातिसारा दरदाः पुण्ड्राश्चैव सहस्रशः। तेन शक्याः स्म संख्यातुं व्रात्याः शतसहस्रशः॥ अभ्यवर्षन्त ते सर्वे पाण्डवं निशितैः शरैः। अवाकिरंश्च के म्लेच्छा नानायुद्धविशारदाः॥ तेषामपि ससर्जाशु शरवृष्टिं धनंजयः। सृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः॥ अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनंजयः। मुण्डार्धमुण्डाञ्जटिलानशुचीञ्जटिलाननान्॥ म्लेच्छानशातयत् सर्वान् समेतानस्त्रतेजसा। शरैश्च शतशो विद्धास्ते संघा गिरिचारिणः। प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः॥ गजाश्वसादिम्लेच्छानां पतितानां शितैः शरैः। बलाः कंका वृका भूमावपिबन् रुधिरं मुदा॥ पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसंक्रमाम्। शरवर्षप्लवां घोरां केशशैवलशाद्वलाम्। प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम्॥ छिन्नाङ्गुलीक्षुद्रमत्स्यां युगान्ते कालसंनिभाम्। प्राकरोद् गजसम्बाधां नदीमुत्तरशोणिताम्॥ देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम्। यथास्थलं च निम्नं च न स्याद् वर्षति वासवे॥ तथासीत् पृथिवी सर्वा शोणितेन परिप्लुता। षट्सहस्रान् हयान् वीरन् पुनर्दशशतान् वरान्॥ प्राहिणोन्मृत्युलोकाय क्षत्रियान् क्षत्रियर्षभः। शरैः सहस्रशोविद्धा विधिवत्कल्पिता द्विपाः॥ शेरते भूमिमासाद्य शैला वज्रहता इव। सवाजिरथमातङ्गान् निजन् व्यचरदर्जुनः॥ प्रभिन्न इव मातङ्गो मृद्गन् नलवनं यथा। भूरिदुमलतागुल्मं शुष्केन्धनतृणोलपम्॥ निर्दहेदनलोऽरण्यं यथा वायुसमीरितः। सेनारण्यं तव तथा कृष्णानिलसमीरितः॥ शरार्चिरदहत् क्रुद्धः पाण्डवाग्निर्धनंजयः। शून्यान् कुर्वन रथापस्थान् मानवै: संस्तरन् महीम्॥५८ प्रानृत्यदिव सम्बाधे चापहस्तो धनंजयः। वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम्॥ प्राविशद् भारती सेनां संकुद्धो वै धनंजयः। तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत्॥ तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः। न्यपातयद्धयाशीघ्रं यतमानस्य मारिष॥ धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे। अम्बष्ठस्तु गदां गृह्य कोपपर्याकुलेक्षणः॥ आससाद रणे पार्थे केशवं च महारथम्। ततः सम्प्रहरन् वीरो गदामुद्यम्य भारत॥ रथमावार्य गदया केशवं समताडयत्। गदया ताडितं दृष्ट्वा केशवं परवीरहा॥ अर्जुनोऽभृशं क्रुद्धः सोऽम्बष्ठं प्रति भारत। तत शरैर्हेमपुकैः सगदं रथिनां वरम्॥ छादयामास समरे मेघः सूर्यमिवोदितम्। अथापरैः शरैश्चापि गदां तस्य महात्मनः॥ अचूर्णयत् तदा पार्थस्तदद्भुतमिवाभवत्। अथ तां पतितां दृष्ट्वा गृह्यान्यां च महागदाम्॥ अर्जुनं वासुदेवं च पुनः पुनरताडयत्। तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ॥ चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा। स पपात हतो राजन् वसुधामनुनादयन्।॥ इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः। स्थानीकावगाढच वारणाश्वशतैर्वृतः। अदृश्यत तदा पार्थो धनैः सूर्य इवावृतः॥ वैशम्पायन उवाच अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत्। राजानमभिसम्प्रेक्ष्य सर्वधर्मभृतां वरम्॥ अनुरुथ्य महाप्राज्ञो भ्रातुश्चित्तमरिन्दम। व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता॥ नकुल उवाच विशाखयूपे देवानां सर्वेषामग्नयश्चिताः। तस्माद् विद्धि महाराज देवाः कर्मफले स्थिताः॥ अनास्तिकानां भूतानां प्राणदाः पितरश्च ये। तेऽपि कर्मैव कुर्वन्ति विधि सम्प्रेक्ष्य पार्थिव॥ वेदवादापविद्धांस्तु तान् विद्धि भृशनास्तिकान्। न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु॥ देवयानेन नाकस्य पृष्ठमाप्नोति भारत। अत्याश्रमानयं सर्वानित्याहुर्वेदनिश्चयाः॥ ब्राह्मणाः श्रुतिसम्पन्नास्तान् निबोध नराधिप। वित्तानि धर्मलब्धानि ऋतुमुख्येष्ववासृजन्॥ कृतात्मा स महाराज स वै त्यागी स्मृतो नरः॥ अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः। आत्मत्यागी महाराज स त्यागी तामसो मतः॥ अनिकेतः परिपतन् वृक्षमूलाश्रयो मुनिः। अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः॥ क्रोधहर्षावनादृत्य पैशुन्यं च विशेषतः। विप्रो वेदानधीते यः स त्यागी पार्थ उच्यते॥ आश्रमांस्तुलया सर्वान् धृतानाहुर्मनीषिणः। एकतश्च त्रयो राजन् गृहस्थाश्रम एकतः॥ समीक्ष्य तुलया पार्थ कामं स्वर्गं च भारत। अयं पन्था महर्षीणामियं लोकविदां गतिः॥ इति यः कुरुते भावं स त्यागी भरतर्षभ। न य: परित्यज्य गृहान् वनमेति विमूढवत्॥ यदा कामान् समीक्षेत धर्मवैतंसिको नरः। अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराट्॥ अभिमानकृतं कर्म नैतत् फलवदुच्यते। त्यागयुक्तं महाराज सर्वमेव महाफलम्॥ शमो दमस्तथा धैर्यं सत्यं शौचमथार्जवम्। यज्ञो धृतिश्च धर्मश्च नित्यमा! विधिः स्मृतः॥ पितृदेवातिथिकृते समारम्भोऽत्र शस्यते। अत्रैव हि महाराज त्रिवर्गः केवलं फलम्॥ एतस्मिन् वर्तमानस्य विधावप्रतिषेधिते। त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित्॥ असृजद्धि प्रजा राजन् प्रजापतिरकल्मषः। मां यक्ष्यन्तीति धर्मात्मा यज्ञैर्विविधदक्षिणैः॥ वीस्थश्चैव वृक्षांश्च यज्ञार्थं वै तथौषधीः। पशृंश्चैव तथा मेध्यान् यज्ञार्थानि हवींषि च॥ गृहस्थाश्रमिणस्तच्च यज्ञकर्म विरोधकम्। तस्माद् गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा॥ तत् सम्प्राप्य गृहस्था ये पशुधान्यधनान्विताः। न यजन्ते महाराज शाश्वतं तेषु किल्बिषम्॥ स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथा परे। अथापरे महायज्ञान् मनस्येव वितन्वते॥ एवं मनःसमाधानं मार्गमातिष्ठतो नृप। द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः॥ स रत्नानि विचित्राणि संहृतानि ततस्ततः। मखेष्वनभिसंत्यज्य नास्तिक्यमभिजल्पसि॥ कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप। राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः॥ ये चान्ये ऋतवस्तात ब्राह्मणैरभिपूजिताः। तैर्यजस्व महीपाल शक्रो देवपतिर्यथा॥ राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम्। अशरण्यः प्रजानां यः स राजा कलिरुच्यते॥ अश्वान् गाश्चैव दासीश्च करेणूश्च स्वलंकृताः। ग्रामाजनपदांश्चैव क्षेत्राणि च गृहाणि च॥ अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः। वयं ते राजकलयो भविष्याम विशाम्पते॥ अदातारो शरण्याश्च राजकिल्विषभागिनः। दोषाणामेव भोक्तारो न सुखानां कदाचन॥ अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम्। तीर्थेष्वनभिसम्लुत्य प्रव्रजिष्यसि चेत् प्रभो॥ छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम्। लोकयोरुभयोर्धष्टो ह्यन्तराले व्यवस्थितः॥ अन्तर्बहिश्च यत् किंचिन्मनोव्यासङ्गकारकम्। परित्यज्य भवेत् त्यागी न हित्वा प्रतितिष्ठति॥ एतस्मिन् वर्तमानस्य विधावप्रतिषेधिते। ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित्॥ निहत्य शत्रूस्तरसा समृद्धान् शक्रो यथा दैत्यबलानि संख्ये। कः पार्थ शोचेन्निरतः स्वधर्मे पूर्वैः स्मृते पार्थिव शिष्टजुष्टे॥ क्षात्रेण धर्मेण पराक्रमेण जित्वा महीं मन्त्रविद्ध्यः प्रदाय। नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता न शोचितव्यं भवताद्य पार्थ॥ वैशम्पायन उवाच सा तु कन्या महाराज ब्राह्मणं संशितव्रतम्। तोषयामास शुद्धेन मनसा संशितव्रता॥ प्रातरेष्याम्यथेत्युक्त्वा कदाचिद् द्विजसत्तमः। तत आयाति राजेन्द्र सायं रात्रावथो पुनः॥ तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः। पूजयामास सा कन्या वर्धमानैस्तु सर्वदा॥ अन्नादिसमुदाचाराः शय्यासनकृतस्तथा। दिवसे दिवसे तस्य वर्धते न तु हीयते॥ निर्भर्त्सनापवादैश्च ततैवाप्रियया गिरा। ब्राह्मणस्य पृथा राजन् न चकाराप्रियं तदा॥ व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः। सुदुर्लभमपि ह्यन्नं दीयतामिति सोऽब्रवीत्॥ कृतमेव च तत् सर्वं यथा तस्मै न्यवेदयत्। शिष्यवत् पुत्रवच्चैव स्वसृवच्च सुसंयता॥ यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा। प्रीतिमुत्पादयामास कन्यारत्नमनिन्दिता।॥ तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः। अवधानेन भूयोऽस्याः परं यत्नमथाकरोत्॥ तां प्रभाते च सायं च पिता पप्रच्छ भारत। अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया॥ तं सा परममित्येव प्रत्युवाच यशस्विनी। तत: प्रीतिमवापायां कुन्तिभोजो महामनाः॥ ततः संवत्सरे पूर्णे यदासौ जपतां वरः। नापश्यद् दुष्कृतं किंचित् पृथायाः सौहृदे रतः॥ तः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत्। प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे॥ वरान् वृणीष्व कल्याणि दुरापान् मानुषैरिह। यैस्त्वं सीमन्तिनी: सर्वा यशसाभिभविष्यसि॥ कुन्त्युवाच कृतानि मम सर्वाणि यस्या मे वेदवित्तम। त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम॥ ब्राह्मण उवाच यदि नेच्छसि मत्तस्त्वं वरं भद्रे शुचिस्मिते। इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम्॥ यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि। तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति॥ अकामो वा सकामो वा स समेष्यति ते वशे। विबुधो मत्रसंशान्तो भवेद् भृत्य इवानतः॥ वैशम्पायन उवाच न शशाक द्वितीयं सा प्रत्याख्यातुमनिन्दिता। तं वै द्विजातिप्रवरं तदा शापभयानृप॥ ततस्तामनवद्याङ्गीं चाहयामास स द्विजः। मन्त्रग्राम तदा राजन्नथर्वशिरसि श्रुतम्॥ तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह। उषितोऽस्मि सुखं राजन् कन्यया परितोषितः॥ तव गेहेषु विहितः सदा सुप्रतिपूजितः। साधयिष्यामहे तावदित्युक्त्वान्तरधीयत।२२।। स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा। बभूव विस्मयाविष्टः पृथां च समपूजयत्॥ संजय उवाच ततः कर्ण पुरस्कृत्य त्वदीया युद्धदुर्मदाः। पुनरावृत्य संग्रामं चक्रुर्देवासुरोपमम्॥ द्विरदनरथाश्वशङ्खशब्दैः परिहृषिता विविधैश्च शस्त्रपातैः। द्विरदरथपदातिसादिसंघाः परिकुपिताभिमुखाः प्रजजिरे ते॥ रिषुभिरनेकविधैश्च सूदिताः। द्विरदरथहया महाहवे वरपुरुषैः पुरुषाश्च वाहनैः॥ कमलदिनकरेन्दुसंनिभैः सितदशडनैः सुमुखाक्षिनासिकैः। रुचिरमुकुटकुण्डलैर्मही पुरुषशिरोभिरुपस्तृता बभौ॥ नखरभुशुण्डिगदाशतैर्हताः। द्विरदनरहयाः सहस्रशो रुधिरनदीप्रवहास्तदाभवन्॥ प्रहतरथनराश्वकुञ्जरं प्रतिभयदर्शनमुल्बणव्रणम्।ष तदहितहतमाबभौ बलं पितृपतिराष्ट्रमिव प्रजाक्षये॥ स्तव च सुताः सुरसूनुसंनिभाः। अमितबलपुरः सरा रणे कुरुवृषभाः शिनिपुत्रमभ्ययुः॥ तदतिरुधिरभीममावभौ पुरुषवराश्वरद्विपाकुलम्। लवणजलसमुद्धतस्वनं बलमसुरामरसैन्यसप्रभम्॥ स्त्रिदशवरावरजोपमं युधि। दिनकरकिरणप्रभैः पृषत्कै रवितनयोऽभ्यहनच्छिनिप्रवीरम्॥ तमपि सरथवाजिसारथि शिनिवृषभो विविधैः शरैस्तवरना भुजगविषसमप्रभै रणे पुरुषवरं समवास्तृणोत् तदा॥ शिनिवृषभशरैर्निपीडितं तव सुहृदो वसुषेणमभ्ययुः। त्वरितमतिरथा रथर्षभं द्विरदरथाश्वपदातिभिः सह॥ तदुदधिनिभमाद्रवद् बलं त्वरिततरैः समभिद्रुतं परैः। दुपदसुतमुखैस्तदाभवत् पुरुषरथाश्वगजक्षयो महान्॥ अथ पुरुषवौर कृताह्निको भवमभिपूज्य यथाविधि प्रभूम्। अरिवधकृतनिश्चयौ दुतं तव बलमर्जुनकेशवौ सृतौ॥ जलदनिनदनि:स्वनं रथं पवनविधूतपताककेतनम्। सितहयमुपयान्तमन्तिकं कृतमनसो ददृशुस्तदाऽरयः॥ अथ विस्फार्य गाण्डीवं रथे नृत्यनिवार्जुन:। शरसम्बाधमकरोत् खं दिशः प्रदिशस्तथा॥ रथान् विमानप्रतिमान् मजयन् सायुधध्वजान्। ससारथींस्तदा बाणैरभ्राणीवानिलोऽवधीत्॥ गजान् गजप्रयन्तुंश्च वैजयन्तायुधध्वजान्। सादिनोऽश्वांश्च पत्तीश्च शरैर्निन्ये यमक्षयम्॥ तमन्तकमिव क्रुद्धमनिवार्य महारथम्। दुर्योधनऽभ्ययादेको निनन् बाणैरजिह्मगैः॥ तस्यार्जुनो धनुः सूतमश्वान् केतुं च सायकैः। हत्वा सप्तभिरेकेन छत्रं चिच्छेद पत्रिणा॥ नवमं च समाधाय व्यसृजत् प्राणघातिनम्। दुर्योधनायेषुवरं त द्रौणिः सप्ताच्छिनन्त्॥ ततो द्रौणिर्धनुश्छित्त्वा हत्वा चाश्वरथाशरैः। कृपस्यापि तदत्युग्रं धनुचिच्छेद पाण्डवः॥ हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वांस्तदावधीत्। दुःशासनस्येष्वसनं छित्त्वा राधेयमभ्ययात्॥ अथ सात्यकिमुत्सृज्य त्वरन् कर्णोऽर्जुनं त्रिभिः। विद्ध्वा विव्याध विंशत्या कृष्णं पार्थं पुनः पुनः॥ न ग्लानिरासीत् कर्णस्य क्षिपतः सायकान् बहून्। रणे विनिघ्नतः शत्रून् क्रुद्धस्येव शतक्रतोः॥ अथ सात्यकिरागत्य कर्ण विद्ध्वाशितैः शरैः। नवत्या नवभिश्चोग्रैः शतेन पुनरार्पयत्॥ ततः प्रवीरा पार्थानां सर्वे कर्णमपीडयन्। युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः॥ उत्तमौजा युयुत्सुश्च यमौ पार्घत एव च। चेदिकारूषमत्स्यानां केकयाना च यद् बलम्॥ चेकितानश्च बलवान् धर्मराजश्च सुव्रतः। एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमः॥ परिवार्य रणे कर्ण नानाशस्त्रैवाकिरन्। भाषन्तो वाग्भिस्याभिः सर्वे कर्णवधे घृताः॥ तां शस्त्रवृष्टि बहुधा कर्णश्छित्त्वा शितैः शरैः। अपोवाहास्त्रवीर्येण द्रमं भक्त्वे मारुतः॥ रथिन: समहामात्रान् गजानश्वान् ससादिनः। पत्तिव्रातांश्च संक्रुद्धो निघ्नन् कर्णो व्यदृश्यत॥ तद् वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा। विशस्त्रपत्रदेहासु प्राय आसीत् पराङ्मुखम्॥ अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुन। दिशं खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः॥ मुसलानीव सम्पेतुः परिधा इव चिषवः। शतघ्य इव चाप्यन्ये वज्राण्युग्राणि चापरे॥ तैर्वध्यमानं तत् सैन्यं सपत्तश्वरथद्विपम्। निमीलिताक्षमत्यर्थं बभ्राम च ननाद च॥ निष्कैवल्यं तदा युद्धं प्रापुरश्वनरद्विपाः। हन्यमानाः शरैरार्तास्तदा भीताः प्रदुद्रुवः॥ त्वदीयानां तदा युद्धे संसक्तानां जयैषिणाम्। गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान्॥ तमसा च महाराज रजसा च विशेषतः न किंचत् प्रत्यपश्याम शुभं वा यदि वाशुभम्॥ ते त्रसन्तो महेष्वासा रात्रियुद्धस्य भारत। अपयानं ततश्चकुः सहिताः सर्वयोधिभिः॥ कौरवेष्वपयातेषु तदा राजन् दिनक्षये। जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः॥ वादित्रशब्दैर्विविधेः सिंहनादैः सगर्जितैः। परानुपहसन्तश्च स्तुवन्तश्चाच्युतार्जुनौ॥ कृतेऽवहारे तैवीरैः सैनिकाः सर्व एव ते। आशीर्वाचः पाण्डवेषु प्रायुञ्जन्त नरेश्वराः॥ ततः कृतेऽवहारे च परदृष्टास्तत्र पाण्डवाः। निशाया शिविरं गत्वा न्यवसन्त नरेश्वराः॥ ततो रक्षः पिशाचाच श्वापदाश्चैव संघशः। जग्मुरायोधनं धोरं रुद्रस्याक्रीडासंनिभम्।॥ भीष्म उवाच पुनरेव तु तं शक्रः प्रहसन्निदमब्रवीत्। निःश्वसन्तं यथा नागं प्रव्याहाराय भारत॥ शक्र उवाच यत् तद् यानसहस्रेण ज्ञातिभिः परिवारितः। लोकान् प्रतापयन् सर्वान् यास्यस्मानवितर्कयन्॥ दृष्ट्वा सुकृपणां चेमामवस्थामात्मनो बले। ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि॥ प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान्। विनिपातमिमं बाह्यं शोचस्याहो न शोचसि॥ बलिरुवाच अनित्यमुपलक्ष्येह कालपर्यायधर्मतः। तस्माच्छक न शोचामि सर्वं ह्येवेदमन्तवत्॥ अन्वन्त इमे देहा भूतानां च सुराधिप। तेन शक न शोचामि नापराधादिदं मम॥ जीवितं च शरीरं च जात्यैव सह जायते। उमे सह विवर्धते उभे सह विनश्यतः॥ न हीदृशमहं भावमवशः प्राप्य केवलम्। यदेवमभिजानामि का व्यथा मे विजानतः॥ भूतानां निधनं निष्ठा स्रोतसामिव सागरः। नैतत् सम्यग्विजानन्तो नरा मुह्यन्ति वज्रधृक्॥ य त्वेवं नाभिजानन्ति रजोमोहपरायणाः। ते कृच्छं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति॥ बुद्धिलाभात् तु पुरुषः सर्वं तुदति किल्बिषम्। विपाप्मा लभते सत्त्वं सत्त्वस्थः सम्प्रसीदति॥ ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः। कृपणाः परितप्यन्ते तैरथैरभिचोदिताः॥ अर्थसिद्धिमनर्थं च जीवितं मरणं तथा। सुखदुःखफले चैव न दृष्मि न च कामये॥ हतं हन्ति हतो ह्येव यो नरो हन्ति कञ्चन। उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः॥ हत्वा जित्वा च मघवन् यः कश्चित् पुरुषायते। अकर्ता होव भवति कर्ता ह्येव करोति तत्॥ को हि लोकस्य कुरुते विनाशप्रभवावुभौ। कृतं हि तत् कृतेनैव कर्ता तस्यापि चापरः॥ पृथिवी ज्योतिराकाशमापो वायुश्च पञ्चमः। एतद्योनीनि भूतानि तत्र का परिदेवना॥ महाविद्योऽल्पविद्यश्च बलवान् दुर्बलश्च यः। दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः॥ सर्वं काल: समादत्ते गम्भीरः स्वेन तेजसा। तस्मिन् कालवशं प्राप्ते का व्यथा मे विजानतः॥ दग्धमेवानुदहति हतमेवानुहन्यते। नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः॥ नास्य द्वीप: कुतः पारो नावारः सम्प्रदृश्यते। नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन्॥ यदि मे पश्यतः कालो भूतानि न विनाशयेत्। स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते॥ तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे। बिभ्रतं गार्दभं रूपमागत्य परिगर्हसे॥२३॥ इच्छन्नहं विकुर्यां हि रूपाणि बहुधाऽऽत्मनः। विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे॥ कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति। कालेन विहितं सर्वं मा कृथाः शक्र पौरुषम्॥ पुरा सर्वं प्रव्यथितं मयि क्रुद्धे पुरंदर। अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम्॥ त्वमप्येवमवेक्षस्व माऽऽत्मना विस्मयं गमः। प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन।॥ कौमारमेव ते चित्तं तथैवाद्य यथा पुरा। समवेक्षस्व मघवन् बुद्धिं विन्दस्व नैष्ठिकीम्॥ देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः। आसन् सर्वे मम वशे नत् सर्वं वेत्थ वासव॥ नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः॥ । नाहं तदनुशोचामि नात्मभ्रंशं शचीपते। एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे॥ दृश्यते हि कुले जातो दर्शनीयः प्रतापवान्। दुःखं जीवन् सहामात्यो भवितव्यं हि तत् तथा॥ दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते। सुखं जीवन् सहामात्यो भवितव्यं हि तत् तथा॥ कल्याणी रूपसम्पन्ना दुर्भगा शक्र दृश्यते। अलक्षणा विरूपा च सुभगा दृश्यते परा॥ नैतदस्मत्कृतं शक्र नैतच्छक त्वया कृतम्। यत् त्वमेवंगतो जिन् यच्चाप्येवंगता वयम्॥ न कर्म भविताप्येतत् कृतं मम शतक्रतो। ऋद्धिर्वाप्यथवा नद्धिः पर्यायकृतमेव तत्॥ पश्यामि त्वां विराजत्वं देवराजमवस्थितम्। श्रीमन्तं द्युतिमन्तं च गर्जमानं ममोपरि॥ एवं नैव न चेत् कालो मामाक्रम्य स्थितो भवेत्। पातयेयमहं त्वाद्य सवज्रमपि मुष्टिना॥ न तु विक्रमकालोऽयं शान्तिकालोऽयमागतः। कालः स्थापयते सर्वं काल: पचति वै तथा॥ मां चेदभ्यागतः कालो दानवेश्वरपूजितम्। गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति॥ द्वादशानां तु भवतामादित्यानां महात्मनाम्। तेजांस्येकेन सर्वेषां देवराज धृतानि मे॥ अहमेवोद्वहाम्यापो विसृजामि च वासव। तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च॥ संरक्षामि विलुम्पामि ददाम्यहमथाददे। संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः॥ तदद्य विनिवृत्तं मे प्रभुत्वममराधिप। कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे॥ नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते। पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया॥ मासमासार्धवेश्मानमहोरात्राभिसंवृतम्। ऋतुद्वारं वर्षमुखमायुर्वेदविदो जनाः॥ आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया। अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा॥ गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा। अनादिनिधनं चाहुरक्षरं क्षरमेव च॥ सत्त्वेषु लिङ्गमावेश्य निर्लिङ्गमपि तत् स्वयम्। मन्यन्ते ध्रुवमेवैनं ये जनास्तत्त्वदर्शिनः॥ भूतानां तु विपर्यासं कुरुते भगवानिति। न ह्येतावद् भवेद् गम्यं न यस्मात् प्रभवेत् पुनः॥ गतिं हि सर्वभूतानामगत्वा क्व गमिष्यति। यो धावता न हातव्यस्तिष्ठन्नपि न हीयते॥ तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा। आहुश्चै केचिदग्नि केचिदाहुः प्रजापतिम्॥ ऋतून् मासार्धमासांश्च दिवसांश्च क्षणांस्तथा। पूर्वाह्लमपराहं च मध्याह्नमपि चापरे॥ मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा। तं कालमिति जानीहि यस्य सर्वमिदं वशे॥ बहूनीन्द्रसहस्राणि समतीतानि वासव। बलवीर्योपपन्नानि यथैव त्वं शचीपते।॥ त्वामप्यतिबलं शक्र देवराज बलोत्कटम्। प्राप्ते काले महावीर्यः कालः संशमयिष्यति॥ य इदं सर्वमादत्ते तस्माच्छक स्थिरो भव। मया त्वया च पूर्वेश्च न स शक्योऽतिवर्तितुम्॥ योमतां प्राप्य जानीषे राज्यश्रियमनुत्तमाम्। स्थिता मयीति तन्मिथ्या नैषा होकत्र तिष्ठति॥ स्थिता हीन्द्र सहस्रेषु त्वद्विशिष्टतमेष्वियम्। मां च लोला परित्यज्य त्वामगाद् विबुधाधिप॥ मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि। त्वामप्येवंविधं ज्ञात्वा क्षिप्रमन्यं गमिष्यति॥ संजय उवाच तस्मिंस्तु निहते शूरे शाल्वे समिति शोभने। तवाभज्यद् बलं वेगाद् वातेनेव महाद्रुमः॥ तत् प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः। दधार समरे शूरः शत्रुसैन्यं महाबलः॥ सन्निवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे। शैलोपमं स्थिरं राजन् कीर्यमाणं शरैर्युधि॥ ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह। निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम्॥ तत्राश्चर्यमभूद् युद्धं सात्वतस्य परैः सह। यदेको वारयामास पाण्डुसेनां दुरासदाम्॥ तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे। सिंहनादः प्रहृष्टानां दिविस्पृक् सुमहानभूत्॥ तेन शब्देन वित्रस्ताः पञ्चालान् भरतर्षभ। शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः॥ स समासाद्य राजानं क्षेमधूर्ति महाबलम्। सप्तभिर्निशितैर्बाणैरनयद् यमसादनम्॥ तमायान्तं महाबाहुं प्रवपन्तं शिताशरान्। जवेनाभ्यपतद् धीमान् हार्दिक्यः शिनिपुङ्गवम्॥ सात्वतौ च महावी? धन्विनौ रथिनां वरौ। अन्योन्यमभिधावेतां शस्त्रप्रवरधारिणौ॥ पाण्डवाः सहपञ्चाला योधाश्चान्ये नृपोत्तमाः। प्रेक्षकाः समपद्यन्त तयोघरि समागमे॥ नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ। अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्जरौ॥ चरन्तौ विविधान् मार्गान् हार्दिक्यशिनिपुङ्गवौ। मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम्॥ चापवेगबलोद्धृतान् मार्गणान् वृष्णिसिंहयोः। आकाशे समपश्याम पतङ्गानिव शीघ्रगान्॥ तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः। अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान्॥ स दीर्घबाहुः संक्रुद्धस्तोत्रादित इव द्विपः। अष्टभिः कृतवर्माणमविद्ध्यत् परमेषुभिः॥ ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः। सात्यकि त्रिभिराहत्य धनुरेकेन चिच्छिदे॥ निकृत्तं तद् धनुः श्रेष्ठमपास्य शिनिपुङ्गवः। अन्यदादत्त वेगेन शैनेयः सशरं धनुः॥ तदादाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम्। आरोग्य च धनुः शीघ्रं महावीर्यो महाबलः॥ अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा। कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात्॥ ततः सुनिशितैर्बाणैर्दशभिः शिनिपुङ्गवः। जघान सूतं चाश्वांश्च ध्वजं च कृतवर्मणः॥ ततो राजन् महेष्वासः कृतवर्मा महारथः। हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम्॥ रोषेण महताऽऽविष्टः शूलमुद्यम्य मारिष। चिक्षेप भुजवेगेन जिघांसुः शिनिपुङ्गवम्॥ तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः। चूर्णितं पातयामास मोहयन्निव माधवम्॥ ततोऽपरेण भल्लेन हृद्येनं समताडयत्। स युद्धे युयुधानेन हताश्वो हतसारथिः॥ कृतवर्मा कृतस्तेन धरणीमन्वपद्यत। तस्मिन् सात्यकिना वीरे द्वैरथे विरथीकृते॥ समपद्यत सर्वेषां सैन्यानां सुमहद् भयम्। पुत्रस्य तव चात्यर्थं विषादः समजायत॥ हतसूते हताश्वे तु विरथे कृतवर्मणि। हताश्वं च समालक्ष्य हतसूतमरिंदम॥ अभ्यधावत् कृपो राजञ्जिघांसुः शिनिपुङ्गवम्। तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम्॥ अपोवाह महाबाहुं तूर्णमायोधनादपि। शैनेयेऽधिष्ठिते राजन् विरथे कृतवर्मणि॥ दुर्योधनबलं सर्वं पुनरासीत् पराङ्मुखम्। तत् परे नान्वबुध्यन्त सैन्येन रजसा वृताः॥ तावकाः प्रद्रुता राजन् दुर्योधनमृते नृपम्। दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्वबलमन्तिकात्॥ जवेनाभ्यपत् तूर्णं सर्वांश्चैको न्यवारयत्। पाण्डूंश्च सर्वान् संक्रुद्धो धृष्टद्युम्नं च पार्षतम्॥ शिखण्डिनं द्रौपदेयान् पञ्चालाना च ये गणाः। केकयान् सोमकांश्चैव सृञ्जयांश्चैव मारिष॥ असम्भ्रमं दुराधर्षः शितैर्वाणैरवाकिरत्। अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः॥ यथा यज्ञे महानग्निमन्त्रपूतः प्रकाशवान्। तथा दुर्योधनो राजा संग्रामे सर्वतोऽभवत्॥ तं परे नाभ्यवर्तन्त मा मृत्युमिवाहवे। अथान्यं रथमास्थाय हार्दिक्यः समपद्यत॥ नारद उवाच नाभागमम्बरीषं च मृतं सृञ्जय शुश्रुम यः सहस्रं सहस्राणां राज्ञां चैकस्त्वयोधयत्॥ जिगीषमाणाः संग्रामे समन्ताद् वैरिणोऽभ्ययुः। अस्त्रयुद्धविदो घोराः सृजन्तश्चाशिवा गिरः॥ बललाघवशिक्षाभिस्तेषां सोऽस्त्रबलेन च। छत्रायुधध्वजरथांश्छित्त्वा प्रासान् गतव्यथः॥ त एनं मुक्तसंनाहाः प्रार्थयन् जीवितैषिणः। शरण्यमीयुः शरणं तवास्म इति वादिनः॥ स तु तान् वशगान् कृत्वा जित्वा चेमां वसुन्धराम्। ईजे यज्ञशतैरिष्टैर्यथाशास्त्रं तथाऽनध॥ बुभुजुः सर्वसम्पन्नमन्नमन्ये जनाः सदा। तस्मिन् यज्ञे तु विप्रेन्द्राः संतृप्ताः परमार्चिताः॥ मोदकान् पूरिकापूपान् स्वादुपूर्णाश्च शष्कुलीः। करम्भान् पृथुमृद्वीका अन्नानि सुकृतानि च॥ सूपान् मैरेयकापूपान् रागखाण्डवपानकान्। मृष्टान्नानि सुयुक्तानि मृदूनि सुरभीणि च॥ घृतं मधु पयस्तोयं दधीनि रसवन्ति च। फलं मूलं च सुस्वादु द्विजास्तत्रोपभुञ्जते॥ मादनीयानि पापानि विदित्वा चात्मनः सुखम्। अपिबन्त यथाकामं पानया गीतवादितैः॥ तत्र स्म गाथा गायन्ति क्षीबा हृष्टाः पठन्ति च। नाभागस्तुतिसंयुक्ता ननृतुश्च सहस्रशः॥ तेषु यज्ञेष्वम्बरीषो दक्षिणामत्यकालयत्। राज्ञां शतसहस्राणि दश प्रयुतयाजिनाम्॥ हिरण्यकवचान् सर्वाश्वेतच्छत्रप्रकीर्णकान्। हिरण्यस्यन्दनारूढान् सानुयात्रपरिच्छदान्॥ ईजानो वितते यज्ञे दक्षिणामत्यकालयत्। मूर्धाभिषिक्तांश्च नृपान् राजपुत्रशतानि च॥ सदण्डकोशनिचयान् ब्राह्मणेभ्यो ह्ममन्यत। नैवं पूर्वे जनाचकुर्न करिष्यन्ति चापरे॥ यदम्बरीषो नृपतिः करोत्यमितदक्षिणः। इत्येवमनुमोदन्ते प्रीता यस्य महर्षयः॥ स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयजवानमदाक्षिण्यमभि श्वैत्येत्युदाहरत्॥ सूत उवाच एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन। अपश्यतां समायाते उच्चैःश्रवसमन्तिकात्॥ यं तं देवगणाः सर्वे हृष्टरूपमपूजयन्। मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्॥ अमोघबलमश्वानामुत्तमं जगतां वरम्। श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्॥ शौनक उवाच कथं तदमृतं देवैर्मथितं क्व च शंस मे। यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः॥ सौतिरुवाच ज्वलन्तमचलं मेलं तेजोराशिमनुत्तमम्। आक्षिपन्तं प्रभां भानो:स्वशृंगैःकाञ्चनोज्वलैः॥ कनकाभरणं चित्रं देवगन्धर्वसेवितम्। अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः॥ व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम्। नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्॥ अगम्यं मनसाऽप्यन्यैर्नदीवृक्षसमन्वितम्। नानापतगसबैश्च नादितं सुमनोहरैः॥ तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम्। अनन्तकल्पमुद्विद्धं सुरा: सर्वे महौजसः।॥ ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः। अमृताय समागम्य तपोनियमसंयुताः॥ तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्। चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः॥ देवैरसुरसंड्बैश्च मथ्यतां कलशोदधिः। भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ॥ सर्वोषधी: समावाप्य सर्वरत्नानि चैव ह। मन्यध्वमुदधिं देवा वेत्स्यध्वममृतं ततः॥ वैशम्पायन उवाच इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बलः। विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि॥ तत्र ह्यमरराजोऽसावीजे ऋतुशतेन च। बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम्॥ निरन्लान् सजारूथ्यान् सर्वान् विविधदक्षिणान्। आजहार क्रतूंस्तत्र यथोक्तान् वेदपारगैः॥ तान् क्रतून् भरतश्रेष्ठ शतकृत्वो महाद्युतिः। पूरयामास विधिवत् ततः ख्यातः शतक्रतुः॥ तस्य नाम्ना च तत् तीर्थं शिवं पुण्यं सनातनम्। इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम्॥ उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः। ब्राह्मणान् पूजयित्वा च सदाच्छादनभोजनैः॥ शुभं तीर्थवरं तस्माद् रामतीर्थं जगाम ह यत्र रामो महाभागो भार्गवः सुमहातपाः॥ असकृत् पृथिवीं जित्वा हतक्षत्रियपुङ्गवाम्। उपाध्यायं पुरस्कृत्य कश्यपं मुनिसत्तमम्॥ अयज वाजपेयेन सोऽश्वमेधशतेन च। प्रददौ दक्षिणां चैव पृथिवीं वै ससागराम्॥ दत्त्वा च दानं विविधं नानारत्नसमन्वितम्। सगोहस्तिकदासीकं साजावि गतवान् वनम्॥ पुण्ये तीर्थवरे तत्र देवब्रह्मर्षिसेविते। मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत्॥ यत्रानयामास तदा राजसूयं महीपते। पुत्रोऽदितेर्महाभागो वरुणो वै सितप्रभः॥ तत्र निर्जित्य संग्रामे मानुषान् देवतास्तथा। वरं क्रतुं समाजहे वरुणः परवीरहा॥ तस्मिन् क्रतुवरे वृत्ते संग्राम: समजायत। देवानां दानवानां च त्रैलोक्यस्य भयावहः॥ राजसूये ऋतुश्रेष्ठे निवृत्ते जनमेजय। जायते सुमहाघोर: संग्रामः क्षत्रियान् प्रति॥ तत्रापि लागली देव ऋषीनभ्यर्च्य पूजया। इतरेभ्योऽप्यदाद् दानमर्थिभ्यः कामदो विभुः॥ वनमाली ततो हृष्टः स्तूयमानो महर्षिभिः। तस्मादादित्यतीर्थं च जगाम कमलेक्षणः॥ यत्रेष्टवा भगवाज्योतिर्भास्करो राजसत्तम। ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत॥ तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः। विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह। द्वैपायनः शुकश्चैव कृष्णाश्च मधुसूदनः। यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशाम्पते॥ एते चान्ये च बहवो योगसिद्धाः सहस्रशः। तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परंतप॥ तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ। आप्लुत्य भरतश्रेष्ठ तीर्थप्रवर उत्तमे॥ द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत। सम्प्राप्य परमं योगं सिद्धिं च परमां गतः॥ असितो देवलश्चैव तस्मिन्नेव महातपाः। परमं योगमास्थाय ऋषिर्योगमवाप्तवान्॥ शुक उवाच वर्तमानस्थैवात्र वानप्रस्थाश्रमे यथा। योक्तव्योऽऽत्मा कथं शक्त्या वेद्यं वै कासता परम्॥ व्यास उवाच प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम्। यत्कार्यं परमार्थ तदिहैकमनाः शृणु॥ तु कषायं पाचयित्वाऽऽशु श्रेणिस्थानेषु च त्रिषु। प्रव्रजेच्च परं स्थानं पारिवाज्यमनुत्तमम्॥ तद् भवानेवमभ्यस्य वर्ततां श्रूयतां तथा। एक एव चरेद् धर्मं सिद्ध्यर्थमसहायवान्॥ एकश्चरति यः पश्यन् न जहाति न हीयते। अनग्निरनिकेतश्च ग्राममन्नार्थमाश्रयेत्॥ अश्वस्तनविधाता स्यान्मुनिर्भावसमाहितः। लध्वाशी नियताहारः सकृदन्ननिषेविता॥ कपालं वृक्षमूलानि कुचैलमसहायता। उपेक्षा सर्वभूतानामेतावद् भिक्षुलक्षणम्॥ यस्मिन् वाचः प्राविशन्ति कूपे त्रस्ता द्विपा इव। न वक्तारं पुनर्यान्ति कैवल्याश्रमे वसेत्॥ नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित्। ब्राह्मणानां विशेषेण नैव ब्रूयात् कथंचन॥ यद् ब्राह्मणस्य कुशलं तदेव सततं वदेत्। तूष्णीमासीत निन्दायां कुर्वन् भैषज्यमात्मनः॥ येन पूर्णमिवाकाशं भवत्येकेन सर्वदा। शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः॥ येन केनचिदाच्छन्नो येन केनचिदाशितः। यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः॥ अहेरिव गणाद् भीतः सौहित्यानरकादिव। कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः॥ न क्रुद्ध्येन प्रहृष्येच्च मानितोऽमानितश्च यः। सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः॥ नाभिनन्देत मरणं नाभिनन्देत जीवितम्। कालमेघ प्रतीक्षते निदेशं भृतको यथा॥ अनभ्याहतचित्त स्यादनभ्याहतवाग् भवेत्। निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम्॥ अभयं सर्वभूतेभ्यो भूतानामभयं ततः। तस्य मोहाद् विमुक्तस्य भयं नास्ति कुतश्चन॥ यथा नागपदेऽन्यानि पदानि पदगामिनाम्। सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे॥ एवं सर्वमहिंसायां धर्मार्थमपिधीयते। अमृतः स नित्यं वसति यो हिंसां न प्रपद्यते॥ अहिंसकः समः सत्यो धृतिमान् नियतेन्द्रियः। शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम्॥ एवं प्रज्ञानतृप्तस्य निर्भयस्य निराशिषः। न मृत्युरतिगो भावः स मृत्युमधिगच्छति॥ विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत् स्थितम्। अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः॥ जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च। अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः॥ निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्। निर्मुक्तं बन्धनैः सर्वैस्तं देवा ब्राह्मणं विदुः॥ सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखस्य भृशं त्रसन्ते। तेषां भयोत्पादनजातखेदः कुर्यान्न कर्माणि हि श्रद्दधानः॥ दानं हि भूताभयदक्षिणायाः सर्वाणि दानान्यधितिष्ठतीह। तीक्ष्णां तनुं यः प्रथमं जहाति सोऽऽनन्त्यमाप्नोत्यभयं प्रजाभ्यः॥ उत्तान आस्येन हविर्जुहोति लोकस्य नाभिर्जगतः प्रतिष्ठा। तस्याङ्गमङ्गानि कृताकृतं च वैश्वानरः सर्वमिदं प्रपेदे॥ प्रादेशमाने हृदि निःसृतं यत् तस्मिन् प्राणानात्मयाजी जुहोति। तस्याग्निहोत्रं हुतमात्मसंस्थं सर्वेषु लोकेषु सदेवकेषु॥ देवं त्रिधातुं त्रिवृतं सुपर्णं ये विद्युरग्रयां परमात्मतां च। ते सर्वलोकेषु महीयमाना देवाः समाः सुकृतं वदन्ति॥ मथो निरुक्तं परमार्थतां च। सर्वं शरीरात्मनि यः प्रवेद तस्यैव देवाः स्पृहयन्ति नित्यम्॥ भूमावसक्तं दिवि चाप्रमेयं हिरण्मयं योऽण्डजमण्डमध्ये। पतत्रिणं पक्षिणमन्तरिक्ष यो वेद भोग्यात्मनि रश्मिदीप्तः॥ आवर्तमानमजरं विवर्तनं षण्णाभिकं द्वादशारं सुपर्व। यस्येदमास्ये परियाति विश्वं तत्कालचक्रं निहितं गुहायाम्॥ यः सम्प्रसादो जगतः शरीरं सर्वान्स लोकानधिगच्छतीह। स्ते वै तृप्तास्तर्पयन्त्यास्यमस्य॥ तेजोमयो नित्यमयः पुराणो लोकाननन्तानभयानुपैति। भूतानि यस्मान्न वसन्ते कदाचित्स भूतानां न त्रसते कदाचित्॥ अगर्हणीयो न च गर्हतेऽनयान्स वै विप्रः परमात्मानमीक्षेत्। विनीतमोहो व्यपनीतकल्मषो न चेह नामुत्र च सोऽन्नमृच्छति॥ अरोषमोहः समलोष्टकाञ्चनः प्रहीणकोशो गतसंधिविग्रहः। श्वरन्नुदासीनवदेष भिक्षुकः॥ संजय उवाच ते किरन्तः शरवातान् सर्वे यत्ताः प्रहारिणः। त्वरमाणा महाराज युयुधानमयोधयन्॥ तं द्रोणः सप्त सप्तत्या जघान निशितैः शरैः। दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः॥ विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः। विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा॥ दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः। चित्रसेनश्च शैनेय द्वाभ्यां विव्याध मारिष॥ दुर्योधनश्च महता शरवर्षेण माधवम्। अपीडयद्रणे राजशूराश्चान्ये महारथाः॥ सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः। तान् प्रत्यविध्यद्वाष्णैयः पृथक् पृथगजिह्मगैः॥ भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिः शरैः। विकर्णे पञ्चविंशत्या चित्रसेनं च सप्तभिः॥ दुर्मर्षणं द्वादशभिरष्टाभिश्च विविंशातेम। सत्यव्रतं च नवभिर्विजयं दशभिः शरैः॥ ततो रुक्मांगदं चारं विधुन्वानो महारथः। अभ्ययात् सात्यकिस्तूर्णं पुत्रं तव महारथम्॥ राजानं सर्वलोकस्य सर्वलोकमहारथम्। शरैरभ्याहनगढं ततो युद्धमभूत्तयोः॥ विमुञ्चन्तौ शरांस्तीक्ष्णान् संदधानौ च सायकान्। अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ॥ सात्यकिः कुरुराजने निर्विद्धो बह्वशोभत। अस्रवदुधिरं भूरि स्वरसं चन्दनो यथा॥ सात्वतेन च बाणौधैर्निर्विद्धस्तनयस्तव। शातकुंभमयापीडो बभौ यूप इवोच्छ्रितः॥ माधवस्तु रणे राजन् कुरुराजस्य धन्विनः। धनुश्चिच्छेद समरे क्षुरप्रेण हसन्निव॥ अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत्। निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा॥ नामृष्यत रणे राजा शत्रोविजयलक्षणम्। अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम्॥- विव्याध सात्यकिं तूर्णे सायकानां शतेन ह। सोऽतिविद्धो बलवता तव पुत्रेण धन्विना॥ अमर्षवशमापन्नस्तव पुत्रमपीडयत्। पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः॥ सात्यकि शरवर्षेण छादयामासुरोजसा। स च्छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः॥ एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः। दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः॥ प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम्। नागं मणिमयं चैव शरैर्ध्वजमपातयत्॥ हत्वा तु चतुरो वाहांश्चतुर्भिनिशितैः शरैः। सारथिं पातयामास क्षुरप्रेण महायशाः॥ एतस्मिन्नन्तरे चैव कुरुराजं महारथम्। अवाकिरच्छरैर्हष्टो बहुभिर्मर्मभेदिभिः॥ स वध्यमानः समरे शैनेयस्य शरोत्तमैः। प्राद्रवत् सहसा राजन् पुत्रो दुर्योधनस्तव॥ आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः। हाहाभूतं जगश्चासीद् दृष्ट्वा राजानमाहवे॥ ग्रस्यमानं सात्यकिना खे सोममिव राहुणा। तं तु शब्दमथ श्रुत्वा कृतवर्मा महारथः॥ अभ्ययात् सहसा तत्र यत्रास्ते माधवः प्रभुः। विधुन्वानो धनुः श्रेष्ठं चोदयंश्चैव वाजिनः॥ भर्त्सयन् सारथिं चाग्रे याहि याहीति सत्वरं। तमापतन्तं संप्रेक्ष्य व्यादितास्यमिवान्तकम्॥ युयुधानो महाराज यन्तारमिदमब्रवीत्। कृतवर्मा रथेनैष द्रुतमापतते शरी॥ प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम्। ततः प्रजविताश्वेन विधिवत् कल्पितेन च॥ आससाद रणे भोज प्रतिमानं धनुष्मताम्। ततः परमसंक्रुद्धौ ज्वलिताविव पावकौ॥ समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ। कृतवर्मा तु शैनेयं षड्विशत्या समार्पमत्॥ निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य पञ्चभिः। चतुरश्चतुरो वाहांश्चतुर्भिः परमेषुभिः॥ अविध्यत् साधुदान्तान् वै सैन्धवान् सात्वतस्य हि। रुक्मध्वजो रुक्मपृष्ठं महद् विस्फार्य कार्मुकम्॥ रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खरवारयत्। ततोऽशीतिं शिनेः पौत्रः सायकान् कृतवर्मणे॥ प्राहिणोत् त्वरया युक्तो द्रष्टकामो धनंजयम्। सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः॥ समकम्पत दुर्घर्षः क्षितिकम्पे यथाचलः। त्रिषष्ट्या चतुरोऽस्याश्वान् सप्तभिः सारथिं तथा॥ विव्याध निशितैस्तूर्णं सात्यकिः सत्यविक्रमः। सुवर्णपुङ्ख विशिखं समाधाय च सात्यकिः॥ व्यसृजत् तं महाज्वालं संक्रुद्धमिव पन्नगम्। सोऽविध्यत् कृतवर्माणं यमदण्डोपमः शरः॥ जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत्। अभ्यगाद धरणीमुनो रुधिरेण समुक्षितः॥ संजातरुधिरश्चाजौ सात्वतेषुभिरर्दितः। सशरं धनुरुत्सृज्य न्यपतत् स्यन्दनोत्तमात्॥ स सिंहदंष्ट्रो जानुभ्यां पतितोऽमितविक्रमः। शरादितः सात्यकिना रथोपस्थे नरर्षभः॥ सहस्रबाहुसदृशमक्षोभ्यमिव सागरम्। निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः॥ खङ्गशक्तिधनुःकीर्णो गजाश्वरथसंकुलाम्। प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः॥ प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुङ्गवः। अभ्यगाद्वाहिनीं हित्वावृत्रहेवासुरींचमूम्॥ समाश्वस्य च हार्दिक्यो गृह्य चान्यन्महद् धनुः। तस्थौ स तत्र बलवान् वारयन् युधि पाण्डवान्॥ समाश्वस्य च हार्दिक्यो गृह्य चान्यन्महद् धनुः। तस्थौ स तत्र बलवान् वारयन् युधि पाण्डवान्॥ मार्कण्डेय उवाच तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले। कृतपौर्वाणिकाः सर्वं समेयुस्ते तपोधनाः॥ तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः। धुमत्सेनाय नातृप्यन् कथयन्तः पुनः पुनः॥ ततः प्रकृतयः सर्वाः शाल्वेभ्योऽभ्यागता नृप। आचख्युनिहतं चैव स्वेनामात्येन तं द्विषम्॥ तं मन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम्। न्यवेदयन् यथावृत्तं विद्रुतं च द्विषद्बलम्॥ ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति। सचक्षुर्वाप्यचक्षुर्वा स नो राजा भवत्विति॥ अनेन निश्चयेनेह वयं प्रस्थापिता नृप। प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम्॥ प्रयाहि राजन् भद्रं ते घुष्टस्ते नगरे जयः। अध्यास्स्व चिररात्राय पितृपैतामहं पदम्॥ चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम्। मूर्धा निपतिताः सर्वे विस्मयोत्फुल्ललोचनाः॥ ततोऽभिवाद्य तान् वृद्धान् द्विजानाश्रमवासिनः। तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति॥ शैब्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा। नरयुक्तेन यानेन प्रययौ सेनया वृता॥ ततोऽभिषिषिचुः प्रीत्या धुमत्सेनं पुरोहिताः। पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन्॥ ततः कालेन महता सावित्र्याः कीर्तिवर्धनम्। तद् वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम्॥ भ्रातृणां सौदराणां च तथैवास्याभवच्छतम्। मद्राधिपस्याश्वपतेर्मालब्यां सुमहद् बलम्॥ एवमात्मा पिता माता श्वश्रूः श्वशुर एव च। भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात् समुद्भुतम्॥ तथैवैषा हि कल्याणी द्रौपदी शीलसम्मता। तारयिष्यति वः सर्वान् सावित्रीव कुलाङ्गना॥ वैशम्पायन उवाच एवं स पाण्डवस्तेन अनुनीतो महात्मना। विशोको विज्वरो राजन् काम्यके न्यवसत् तदा॥ यश्चेदं शृणुयाद् भक्त्या सावित्र्याख्यानमुत्तमम्। स सुखी सर्वसिद्धार्थो न दुःखं प्राप्नुयानरः॥ जनमेजय उवाच कथमार्टिषेणो भगवान् विपुलं तप्तवांस्तपः। सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा॥ देवापिश्च कथं ब्रह्मन् विश्वामित्रश्च सत्तम। तन्ममाचक्ष्व भगवन् परं कौतूहलं हि मे॥ वैशम्पायन उवाच पुरा कृतयुगे राजन्नार्टिषेणो द्विजोत्तमः। वसन् गुरुकले नित्यं नित्यमध्ययने रतः॥ तस्य राजन् गुरुकुले वसतो नित्यमेव च। समाप्ति नागमद् विद्या नापि वेदा विशाम्पते।॥ स निर्विणस्ततो राजंस्तपस्तेपे महातपाः। ततो वै तपसा तेन प्राप्य वेदाननुत्तमान्॥ वरान् प्रादात् त्रीनेव स विद्वान् वेदयुक्तश्च सिद्धश्चाप्यषिसत्तमः। तत्र तीर्थे सुमहातपाः॥ अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः। आप्लुतो वाजिमेधस्य फलं प्राप्स्यति पुष्कलम्॥ अद्यप्रभृति नैवात्र भयं व्यालाद् भविष्यति। अपि चाल्पेन कालेन फलं प्राप्स्यति पुष्कलम्॥ एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः। एवं सिद्धः स भगवानार्टिषेणः प्रतापवान्॥ तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान्। देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्मह ॥ तथा च कौशिकस्तान् तपोनित्यो जितेन्द्रियः। तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान्॥ गाधिर्नाम महानासीत् क्षत्रियः प्रथितो भुवि। तस्य पुत्रोऽभवद् राजन् विश्वामित्रः प्रतापवान्॥ स राजा कौशिकस्तात महायोग्यभवत् किला स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः॥ देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः। न गन्तव्यं महाप्राज्ञ त्राहि चास्मान् महाभयात्॥ एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्ततः। विश्वस्य जगतो गोप्ता भविष्यति सुतो मम॥ इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च। जगाम त्रिदिवं राजनं विश्वामित्रोऽभवन्नृपः॥ न स शक्नोति पृथिवीं यत्नवानपि रक्षितुम्। ततः शुश्राव राजा स राक्षसेभ्यो महाभयम्॥ निर्ययौ नगराचापि चतुरङ्गबलान्वितः। स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात्॥ तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान् बहून्। ततस्तु भगवान् विप्रो वसिष्ठोऽऽश्रममभ्ययात्॥ ददृशोऽथ ततः सर्वं भज्यमानं महावनम्। तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः॥ सृजस्व शवरान् घोरानिति स्वां गामुवाच ह। तथोक्ता साऽसृजद् धेनुः पुरुषान् घोरदर्शनान्॥ ते तु तद्बलमासाद्य बभञ्जुः सर्वतोदिशम्। तच्छुत्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः॥ तपः परं मन्यमानस्तपस्येव मनो दधे। सोऽस्मिंस्तीर्थवरे राजन् सरस्वत्याः समाहितः॥ नियमैश्चोपवासैश्च कर्षयन् देहमात्मनः। जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत्॥ तथा स्थाण्डिलशायी च ये चान्ये नियमाः पृथक्। असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे॥ न चास्य नियमाद् बुद्धिरपयाति महात्मनः। ततः परेण यत्नेन तप्त्वा बहुविधं तपः॥ तेजसा भास्कराकारो गाधिजः समपद्यत। तपसा तु तथा युक्तं विश्वामित्रं पितामहः॥ अमन्यत महातेजा वरदो वरमस्य तत्। स तु ववे वरं राजन् स्यामहं ब्राह्मणास्त्विति॥ तथेति चाब्रवीद् ब्रह्मा सर्वलोकपितामहः। स लम्वा तपसोग्रेण ब्राह्मणत्वं महायशाः॥ विचचार महीं कृत्स्नां कृतकामः सुरोपमः। अथ वस्त्राण्यलङ्कारं भक्ष्यं पेयं च शोभनम्॥ अददन्मुदितो राजन् पूजयित्वा द्विजोत्तमान्। तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु॥ पयस्विनीस्तथा धेनूर्यानानि शयनानि च। ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात्। यत्र तेपे तपस्तीव्र दाल्भ्यो बक इति श्रुतिः॥ वैशम्पायन उवाच एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः। वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान् महीक्षितः॥ तेषां मनुजसिंहानां पञ्चानाममितौजसाम्। बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी॥ ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः। बभूव परमप्रीता नागैर्भोवती यथा॥ वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु। व्यवर्धन् कुरवः सर्वे हीनदोषा: सुखान्विताः॥ अथ दीर्घेण कालेन ब्राह्मणस्य विशाम्पते। कस्यचित् तस्करा जह्वः केचिद् गा नृपसत्तम॥ ह्रियमाणे धने तस्मिन् ब्राह्मणः क्रोधमूर्च्छितः। आगम्य खाण्डवप्रस्थमुद क्रोशत् स पाण्डवान्॥ ह्रियते गोधनं क्षुदैर्नृशंसैरकृतात्मभिः। प्रसह्य चास्मद्विषयादभ्यधावत पाण्डवाः॥ ब्राह्मणस्य प्रशान्तस्य हविर्ध्वाक्षैः प्रलुप्यते। शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्दति॥ अरक्षितारं राजानं बलिषड्भागहारिणम्। तमाहुः सर्वलोकस्य समग्रं पापचारिणम्॥ ब्राह्मणस्वे हृते चौरेर्धर्मार्थे च विलोपिते। रोरूयमाणं च मयि क्रियतामस्त्रधारणम्॥ वैशम्पायन उवाच रोरूयमाणस्याभ्याशे भृशं विप्रस्य पाण्डवः। तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनंजयः॥ श्रुत्वैव च महाबाहुर्मा भैरित्याह तं द्विजम्। आयुधानि च यत्रावसन् पाण्डवानां महात्मनाम्॥ कृष्णया सह तत्रास्ते धर्मराजो युधिष्ठिरः। सम्प्रवेशाय चाशक्तो गमनाय च पाण्डवः॥ तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः। आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः॥ ह्रियमाणे धने तस्मिन् ब्राह्मणस्य तपस्विनः। अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चयः॥ उपक्षेपणजोऽधर्मः सुमहान् स्यान्महीपतेः। यद्यस्य रुदतां द्वारि न करोम्यद्य रक्षणम्॥ अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे। प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत्॥ अनादृत्य तु राजानं गते मयि न संशयः। अजातशत्रोर्नृपतेर्मम चैवानृतं भवेत्॥ अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम। सर्वमन्यत् परिहतं धर्षणात् तु महीपतेः॥ अधर्मो वै महानस्तु वने वा मरणं मम। शरीरस्य विनाशेन धर्म एव विशिष्यते॥ एवं विनिश्चित्य ततः कुन्तीपुत्रो धनंजयः। अनुप्रविश्य राजानमापृच्छ्य च विशाम्पते॥ धनुरादाय संहृष्टो ब्राह्मण प्रत्यभाषत। ब्राह्मणागम्यतां शीघ्रं यावत् परधनैषिणः॥ न दूरे ते गताः क्षुद्रास्तावद् गच्छावहे सह। यावनिवर्तयाम्यद्य चौरहस्ताद् धनं तव॥ सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी। शरैर्विध्वस्य तांश्चौरानवजित्य च तद् धनम्॥ ब्राह्मणं समुपाकृत्य यशः प्राप्य च पाण्डवः। ततस्तद् गोधनं पार्थो दत्त्वा तस्मै द्विजातये॥ आजगाम पुरं वीरः सव्यसाची धनंजयः। सोऽभिवाद्य गुरून् सर्वान् सर्वैश्चाप्यभिनन्दितः॥ धर्मराजमुवाचेदं व्रतमादिश मे प्रभो। समयः समतिक्रान्तो भवत्संदर्शने मया।॥ वनवासो गमिष्यामि समयो ह्येष नः कृतः। इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम्॥ कथमित्यब्रवीद् वाचा शोकार्तः सज्जमानया। युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम्॥ उवाच दीनो राजा च धनंजयमिदं वचः। प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ॥ अनुप्रवेशे यद् वीर कृतवांस्त्वं मम प्रियम्। सर्वं तदनुजानामि व्यलीकं न च मे हृदि॥ गुरोरनुप्रवेशो हि नोपघातो यवीयसः। यवीयसोऽनुप्रवेशो ज्येष्ठभ्य विधिलोपकः॥ निवर्तस्व महाबाहो कुरुष्व वचनं मम। न हि ते धर्मलोपोऽस्ति न च ते धर्षणा कृता॥ अर्जुन उवाच न व्याजेन चरेद् धर्ममिति मे भवतः श्रुतम्। न सत्याद् विचलिष्यामि सत्येनायुधमालभे॥ वैशम्पायन उवाच सोऽभ्यनुज्ञाय राजानं वनचर्याय दीक्षितः। वने द्वादश वर्षाणि वासायानुजगाम ह॥ युधिष्ठिर उवाच आनृशंस्यस्य धर्मज्ञ गुणान् भक्तजनस्य च। श्रोतुमिच्छामि धर्मज्ञ तन्मे ब्रूहि पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। वासवस्य च संवादं शुकस्य च महात्मनः॥ विषये काशिराजस्य ग्रामानिष्क्रम्य लुब्धकः। सविषं काण्डमादाय मृगयामास वै मृगम्॥ तत्र चामिषलुब्धेन लुब्धकेन महावने। अविदूरे मृगान् दृष्ट्वा बाणः प्रतिसमाहितः॥ तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा। महान् वनतरुस्तत्र विद्धो मृगजिघांसया॥ स तीक्ष्णविषदिग्धेन शरेणातिवलात् क्षतः। उत्सृज्य फलपत्राणि पादपः शोषमागतः॥ तस्मिन् वृक्षे तथाभूते कोटरेषु चिरोषितः। न जहाति शुको वासं तस्य भक्त्या वनस्पतेः॥ निष्प्रचारो निराहारो ग्लान: शिथिलवागपि। कृतज्ञः सह वृक्षण धर्मात्मा सोऽप्यशुष्यत॥ तमुदारं महासत्त्वमतिमानुषचेष्टितम्। समदुःखसुखं दृष्ट्वा विस्मित: पाकशासनः॥ ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः। तिर्यग्योनावसम्भाव्यमानृशंस्यमवस्थितः॥ अथवा नात्र चित्रं हि अभवद् वासवस्य तु। प्राणिनामपि सर्वेषां सर्वं सर्वत्र दृश्यते॥ ततो ब्राह्मणवेषेण मानुषं रूपमास्थितः। अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह॥ शुक भो पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजा त्वया। पृच्छे त्वां शुकमेनं त्वं कस्मान्न त्यजसि दुमम्॥ अथ पृष्टः शुकः प्राह मूर्धा समभिवाद्य तम्। स्वागतं देवराज त्वं विज्ञातस्तपसा मया॥ ततो दशशताक्षेण साधु साध्विति भाषितम्। अहो विज्ञानमित्येवं मनसा पूजितस्ततः॥ तमेवं शुभकर्माणं शुकं परमधार्मिकम्। विजानन्नपि तां प्रीतिं पप्रच्छ बलसूदनः॥ निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम्। किमर्थं सेवसे वृक्षं यदा महदिदं वनम्॥ अन्येऽपि बहवो वृक्षाः पत्रसंच्छन्नकोटराः। पर्याप्तसंचारा विद्यन्तेऽस्मिन् महावने॥ गतायुषमसामर्थ्य क्षीणसारं हतश्रियम्। विमृश्य प्रज्ञया धीर जहीमं स्थविरं दुमम्॥ भीष्म उवाच तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम्। शुभाः पर्या सुदीर्घमतिनिःश्वस्य दीनो वाक्यमुवाच ह॥ अनतिक्रमणीयानि दैवतानि शचीपते। यत्राभवत् तव प्रश्नस्तन्निबोध सुराधिप॥ अस्मिन्नहं दुमे जातः साधुभिश्च गुणैर्युतः। बालभावेन संगुप्तः शत्रुभिश्च न धर्षितः॥ किमनुक्रोश्य वैफल्यमुत्पादयसि मेऽनघ। आनृशंस्याभियुक्तस्य भक्तस्यानन्यगस्य च॥ अनुक्रोशो हि साधूनां महद्धर्मस्य लक्षणम्। अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति॥ त्वमेव दैवतैः सर्वैः पृच्छसे धर्मसंशयात्। अतस्त्वं देवदेवानामाधिपत्ये प्रतिष्ठितः॥ नार्हसे मां सहस्त्राक्ष दुमं त्याजयितुं चिरात्। समर्थमुपजीव्येमं त्यजेयं कथमद्य वै॥ तस्य वाक्येन सौम्येन हर्षित: पाकशासनः। शुकं प्रोवाच धर्मात्मा आनृशंस्येन तोषितः॥ वरं वृणीष्वेति तदा स च वने वरं शुकः। आनृशंस्यपरो नित्यं तस्य वृक्षस्य सम्भवम्॥ विदित्वा च दृढां भक्तिं तां शुके शीलसम्पदम्। प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान्॥ ततः फलानि पत्राणि शाखाश्चापि मनोहराः। शुकस्य दृढभक्तित्वाच्छ्रीमतां प्राप स दुमः॥ शुकश्च कर्मणा तेन आनृशंस्यकृतेन वै। आयुषोऽन्ते महाराज प्राप शक्रसलोकताम्॥ एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः। सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः॥ शिशुपाल उवाच स मे बहुमतो राजा जरासंधो महाबलः। योऽनेन युद्धं नेयेष दासोऽयमिति संयुगे॥ केशवेन कृतं कर्म जरासंधवधे तदा। भीमसेनार्जुनाभ्यां च कस्तत् साध्विति मन्यते॥ अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना। दृष्टः प्रभावः कृष्णेन जरासंधस्य भूपतेः॥ येन धर्मात्मनाऽऽत्मानं ब्रह्मण्यमविजानता। नेषितं पाद्यमस्मै तद् दातुमग्रे दुरात्मने।॥ भुज्यतामिति तेनोक्ताः कृष्णभीमधनंजयाः। जरासंधेन कौरव्य कृष्णेन विकृतं कृतम्॥ यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे। कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति॥ इदं त्वाश्चर्यभूतं मे यदिमे पाण्डवास्त्वया। अपकृष्टाः सतां मार्गान्प्रन्यन्ते तच्च साध्विति॥ अथ वा नैतदाश्चर्यं येषां त्वमसि भारत। स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः॥ वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु। चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान्॥ तथा पद्मप्रतीकाशे स्वभावायतविस्तृते। क्रोधाभिताम्राक्षे रक्ते नेत्रे बभूवतुः॥ त्रिशिखां भृकुटीं चास्य ददृशुः सर्वपार्थिवाः। भूयः ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव॥ दन्तान् संदशतस्तस्य कोपाद् ददृशुराननम्। युगान्ते सर्वभूतानि कालस्येव जिघत्सतः॥ उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम्। भीष्म एव महाबाहुर्महासेनमिवेश्वरः॥ तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत। गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः॥ नातिचक्राम भीष्मस्य स हि वाक्यमरिंदमः। समुवृत्तो घनापाये वेलामिव महोदधिः॥ शिशुपालस्तु संक्रुद्धे भीमसेने जनाधिप। नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः॥ उत्पतन्तं तु वेगेन पुन: पुनररिंदमः। न स तं चिन्तयामास सिंहः क्रुद्धो मृगं यथा।॥ प्रहसंश्चाब्रवीद् वाक्यं चेदिराजः प्रतापवान्। भीमसेनमभिक्रुद्धं दृष्ट्वा भीमपराक्रमम्॥ मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपाः। मत्प्रभावविनिर्दग्धं पतङ्गमिव वह्निना॥ ततश्चेदिपतेर्वाक्यं श्रुत्वा तत् कुरुसत्तमः। भीमसेनमुवाचेदं भीष्मो मतिमतां वरः॥ वैशम्पायन उवाच युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तदा। नान्तरं ददृशू राज्ये पुरुषाः प्रणयं प्रति॥ यदा तु कौरवो राजा पुत्रं सस्मार दुर्मतिम्। तदा भीमं हृदा राजन्नपध्याति स पार्थिवः॥ तथैव भीमसेनोऽपि धृतराष्ट्र जनाधिपम्। नामर्षयत राजेन्द्र सदैव दुष्टवद्धदा॥ अप्रकाशान्यप्रियाणि चकारास्य वृकोदरः। आज्ञा प्रत्यहरच्चापि कृतज्ञैः पुरुषैः सदा॥ स्मरन् दुर्मन्त्रितं तस्य वृत्तान्यप्यस्य कानिचित्। अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत्॥ संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः। स्मृत्वा दुर्योधनं शत्रु कर्णदुःशासनावपि॥ प्रोवाचेदं सुरंब्धो भीमः स परुषं वचः। अन्धस्य नृपतेः पुत्रा मया परिघबाहुना॥ नीता लोकममुं सर्वे नानाशस्त्रास्त्रयोधिनः। इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ॥ ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः। ताविमौ चन्दनेनाक्तौ चन्दना) च मे भुजौ॥ याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः। एताश्चान्याश्च विविधाः शल्यभूता नराधिपः॥ वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत्। सा च बुद्धिमती देवी कालपर्यायवेदिनी॥ गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे। ततः पञ्चदशे वर्षे समतीते नराधिपः॥ राजा निर्वेदमापेदे भीमवाग्बाणपीडितः। नान्वबुध्यत तद् राजा कुन्तीपुत्रो युधिष्ठिरः॥ श्वेताश्वो वाथ कुन्ती वा द्रौपदी वा यशस्विनी। माद्रीपुत्रौ च धर्मज्ञौ चित्तं तस्यान्ववर्तताम्॥ राज्ञस्तु चित्तं रक्षन्तौ नोचतुः किञ्चिदप्रियम्। ततः समानयामास धृतराष्ट्रः सुहृज्जनम्॥ वाष्पसंदिग्धमन्यर्थमिदमाह च तान् भृशम्। धृतराष्ट्र उवाच विदितं भवतामेतद् यथा वृत्तः कुरुक्षयः॥ ममापराधात् तत् सर्वमनुज्ञातं च कौरवैः। योऽहं दुष्टमतिं मन्दो ज्ञातीनां भयवर्धनम्॥ दुर्योधनं कौरवाणामाधिपत्यऽभ्यषेचयम्। यच्चाहं वासुदेवस्य नाश्रौषं वाक्यमर्थवत्॥ वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः। पुत्रस्नेहाभिभूतस्तु हितमुक्तो मनीषिभिः॥ विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च। पदे पदे भगवता व्यासेन च महात्मना॥ संजयेनाथ गान्धार्या तदिदं तप्यते च माम्। यच्चाहं पाण्डुपुत्रेषु गुणवत्सु महात्मसु॥ न दत्तवाश्रियं दीप्तां पितृपैतामहीमिमाम्। विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः॥ एतच्छ्रेयस्तु परमममन्यत जनार्दनः। सोऽहमेतान्यलीकानि निवृत्तान्यान्मनस्तदा।।२३। हृदये शल्यभूतानि धारयामि सहस्रशः। विशेषतस्तु पश्यामि वर्षे पञ्चदरोऽद्य वै॥ अस्य पापस्य शुद्ध्यर्थं नियतोऽस्मि सुदुर्मतिः। चतुर्थे नियते काले कदाचिदपि चाष्टमे॥ तृष्णाविनयनं भुजे गान्धारी वेद तन्मम। करोत्याहारमिति मां सर्वः परिजनः सदा॥ युधिष्ठिरभयादेति भृशं तप्यति पाण्डवः। भूमौ शये जप्यपरो दर्भेष्वजिनसंवृतः॥ नियमव्यपदेशेन गान्धारी च यशस्विनी। हतं शतं तु पुत्राणां ययोर्युद्धेऽपलायिनाम्॥ नानुतप्यामि तच्चाहं क्षत्रधर्म हि ते विदुः। इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः॥ भद्रं ते यादवीमातर्वचश्चेदं निबोध मे। सुखमसम्युषितः पुत्र त्वया सुपरिपालितः॥ महादानानि दत्तानि श्राद्धानि च पुनः पुनः। प्रकृष्टं च यया पुत्र पुण्यं चीर्णं यथाबलम्॥ गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम्। द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः॥ समतीता नृशंसास्ते स्वधर्मेण हता युधि। न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन॥ सर्वे शस्त्रभृतां लोकान् गतास्तेऽभिमुखं हताः। आत्मनस्तु हितं पुण्यं प्रतिकर्तव्यमद्य वै॥ गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि। त्वं तु शस्त्रभृतां श्रेष्ठः सततं धर्मवत्सलः॥ राजा गुरुः प्राणभृतां तस्मादेतद् ब्रवीम्यहम्। अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम्॥ चीरवल्कलभृद् राजन् गान्धार्या सहितोऽनया। तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः॥ उचितं नः कुले तात सर्वेषां भरतर्षभ। पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप॥ तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन्। पल्या सहानया वीर चरिष्यामि तपः परम्॥ त्वं चापि फलभाक् तात तपसः पार्थिवो ह्यसि। फलभाजो हि राजानः कल्याणस्येतरस्य वा॥ युधिष्ठिर उवाच न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप। धिङ्नामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम्॥ योऽहं भवन्तं दुःखार्तमुपवासकृशं भृशम्। जिनाहारं क्षितिशयं न विन्दे भ्रातृभिः सह॥ अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना। विश्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथाः॥ किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा। यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान्॥ पीडितं चापि जानामि राज्यमान्मानमेव च। अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर॥ भवान् पिता भवान् माता भवान् नः परमो गुरुः। भवता विप्रहीणा वै क्व नु तिष्ठामहे वयम्॥ औरसो भवतः पुत्रो युयुत्सुनृपसत्तम। अस्तु राजा महाराज यमन्यं मन्यते भवान्॥ अहं वनं गमिष्यामि प्रशासतु। न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि॥ नाहं राजा भवान् राजा भवतः परवानहम्। कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे॥ भवान् राज्य न मन्युर्हदि नः कश्चित् सुयोधनकृतेऽनघ। भवितव्यं तथा तद्धि वयं चान्ये च मोहिताः॥ वयं पुत्रा हि भवतो यथा दुर्योधनादयः। गान्धारी चैव कुन्ती च निर्विशेषे मते मम॥ स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि। पृष्ठतस्त्वनुयास्यामि सत्यमात्मानमालभे॥ इयं हि वसूसम्पूर्णा मही सागरमेखला। भवता विप्रहीणस्य न मे प्रीतिकरी भवेत्॥ भवदीयमिदं सर्वं शिरसा त्वां प्रसादये। त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः॥ भवितव्यमनुप्राप्तो मन्ये त्वं वसुधाधिप। दिष्ट्या शुश्रूषमाणस्त्वां मोक्षिष्ये मनसो ज्वरम्।।५५ धृतराष्ट्र उवाच तापस्ये मे मनस्तात वर्तते कुरुनन्दन। उचितं च कुलेऽस्माकमरण्यगमनं प्रभो॥ चिरमसम्युषितः पुत्र चिरं शुश्रूषितस्त्वया। वृद्धं मामप्यनुज्ञातुमर्हसि त्वं नराधिप॥ वैशम्पायन उवाच इत्युक्त्वा धर्मराजानं वेपमानं कृताञ्जलिम्। उवाच वचनं राजा धृतराष्ट्रोऽम्बिकासुतः॥ संजयं च महात्मानं कृपं चापि महारथम्। अनुनेनुमिहेच्छामि भवद्भिर्वसुधाधिपम्॥ म्लायते मे मनो हीदं मुखं च परिशुष्यति। वयसा च प्रकृष्टेन वाग्व्यायामेन चैव ह॥ इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरुद्वहः। गान्धारी शिश्रिये धीमान् सहसैव गतासुवत्॥ तं तु दृष्ट्वा समासीनं विसंज्ञमिव कौरवम्। आर्ति राजागमत् तीव्रां कौन्तेयः परवीरहा॥ युधिष्ठिर उवाच यस्य नागसहस्रेण शतसंख्येन वै बलम्। सोऽयं नारी व्यपाश्रित्य शेते राजा गतासुवत्॥ आयसी प्रतिमा येन भीमसेनस्य सा पुरा। चूर्णीकृता बलवता सोऽबलामाश्रितः स्त्रियम्॥ धिगस्तु मामधर्मज्ञं धिग् बुद्धिं धिक् च मे श्रुतम्। यत्कृते पृथिवीपाल: शेतेऽयमतथोचितः॥ अहमप्युपवत्स्यामि यथैवायं गुरुर्मम। यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी॥ वैशम्पायन उवाच ततोऽस्य पाणिना राजन् जलशीतेन पाण्डवः। उरो मुखं च शनकैः पर्यमार्जत धर्मवित्॥ तेन रत्नौषधिमता पुण्येन च सुगन्धिना। पाणिस्पर्शन राज्ञः स राजा संज्ञामवाप ह॥ धृतराष्ट्र उवाच स्पृश मां पाणिना भूयः परिष्वज च पाण्डव। जीवामीवातिसंस्पर्शात् तव राजीवलोचन॥ मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप। पाणिभ्यां हि परिस्प्रष्टुं प्रीणनं हि महन्मम॥ अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे। येनाहं कुरुशार्दूल शक्नोमि न विचेष्टितुम्॥ व्यायामश्चायमत्यर्थे कृतस्त्वामभियाचता। ततो ग्लानमनास्तात नष्टसंज्ञ इवाभवम्॥ तवामृतरसप्रख्यं हस्तस्पर्शमिमं प्रभो। लब्धा संजीवितोऽस्मीति मन्ये कुरुकुलोद्वह॥ वैशम्पायन उवाच एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत। पस्पर्श सर्वगात्रेषु सौहार्दात् तं शनैस्तदा॥ उपलभ्य ततः प्राणान् धृतराष्ट्रो महीपतिः। बाहुभ्यां सम्परिष्वज्य मूर्ध्याजिघ्रत पाण्डवम्॥ विदुरादयश्च ते सर्वे रुरुदुदुःखिता भृशम्। अतिदुःखात् तु राजानं नोचुः किंचन पाण्डवम्॥ गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम्। दुःखान्यधारयाद् राजन् मैवमित्येव चाब्रवीत्॥ इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः। नेत्रैरागतविक्लेदैः परिवार्य स्थिताऽभवन्॥ अथाब्रवीत् पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम्। अनुजानीहि मां राजस्तापस्ये भरतर्षभ॥ ग्लायते मे मनस्तात भूयो भूयः प्रजल्पतः। न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि॥ तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम्। सर्वेषामेव योधानामार्तनादो महानभूत्॥ दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम्। उपवासपरिश्रान्तं त्वगस्थिपरिवारणम्॥ धर्मपुत्रः स्वपितरं परिष्वज्य महाप्रभुम्। शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत्॥ न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा। यथा तव प्रियं राजंश्चिकीर्षामि परंतप॥ यदि चाहमनुग्राह्यो भवतो दयितोऽपि वा। क्रियतां तावदाहारस्ततो वेत्स्याम्यहं परम्॥ ततोऽब्रवीन्महातेजा धृतराष्ट्रो युधिष्ठिरम्। अनुज्ञातस्त्वया पुत्र भुजीयामिति कामये॥ इति ब्रुवति राजेन्द्र धृतराष्ट्रे युधिष्ठिरम्। ऋषिः सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत्।।८७। वैशम्पायन उवाच अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम्। आपृच्छे त्वां गमिष्यामि पुनरेष्यामि चाप्यहम्॥ उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति। यियक्षमाणेषु पुरा दानवेषु मया कृतम्॥ चित्रं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति। सभायां सत्यसंधस्य यदासीद् वृषपर्वणः॥ आगमिष्यामि तद् गृह्य यदि तिष्ठति भारत। ततः सभां करिष्यामि पाण्डवस्य यशस्विनीम्॥ मनः प्रह्लादिनी चित्रां सर्वरत्नभूषिताम्। अस्ति बिन्दुसरस्युग्रा गदा च कुरुनन्दन॥ निहिता भावयाम्येवं राज्ञा हत्वा रणे रिपून्। सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा॥ सा वै शतसहस्रस्य सम्मितां शत्रुघातिनी। अनुरूपा च भीमस्य गाण्डीवं भवतो यथा॥ वारुणश्च महाशङ्खो देवदत्त: सुघोषवान्। सर्वमेतत् प्रदास्यामि भवते नात्र संशयः॥ इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीची दिशं गतः। अथोत्तरेण कैलासान्मनाकं पर्वतं प्रति॥ हिरण्यशृङ्गः सुमहान् महामणिमयो गिरिः। रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः॥ द्रष्टुं भागीरथीं गङ्गामुवास बहुलः समाः। यत्रेष्टं सर्वभूतानामीश्वरेण महात्मना॥ आहृताः क्रतवो मुख्याः शतं भरतसत्तम। यत्र यूपा मणिमयाश्चैत्याश्चापि हिरण्मयाः॥ शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः। अष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः॥ यत्र भूतपतिः सृष्ट्वा सर्वान् लोकान् सनातनः। उपास्यते तिग्मतेजाः स्थितो भूतैः सहस्रशः॥ नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः। उपासते यत्र सत्रं सहस्रयुगपर्यये॥ यत्रेष्टं वासुदेवेन सत्रैर्वर्षगणान् बहून्। श्रद्दधानेन सततं धर्मसम्प्रतिपत्तये॥ सुवर्णमालिनो युपाश्चैत्याश्चाप्यतिभास्वराः। ददौ यत्र सहस्राणि प्रयुतानि च केशवः॥ तत्र गत्वा स जग्राह गदां शङ्ख च भारत। स्फाटिकं च सभाद्रव्यं यदासीद् वृषपर्वणः॥ किंकरैः सह रक्षोभिर्यदरक्षन्महद् धनम्। तदगृहणान्मयस्तत्र गत्वा सर्वं महासुरः॥ तदाहृत्य च तां चक्रे सोऽसुरोऽप्रतिमा सभाम्। विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम्॥ यदां च भीमसेनाय प्रवरां प्रददौ तदा। देवदत्तं चार्जुनाय शङ्खप्रवरमुत्तमम्॥ यस्य शङ्खस्य नादेन भूतानि प्रचकम्पिरे। सभा च सा महाराज शातकुम्भमयदुमा॥ दशकिष्कुसहस्राणि समन्तादायताभवत्। यथा वह्नर्यथार्कस्य सोमस्य च यथा सभा॥ भ्राजमाना तथात्यर्थं दधार परमं वपुः। अभिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम्॥ प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा। नवमेघप्रतीकाशा दिवमावृत्य विष्ठिता। आयता विपुला रम्या विपाप्मा विगतक्लमा॥ उत्तमद्रव्यसम्पन्ना रत्नप्रकारतोरणा। बहुचित्रा बहुधना सुकृता विश्वकर्मणा।॥ न दाशार्ही सुधर्मा वा ब्रह्मणो वाथ तादृशी। सभा रूपेण सम्पन्ना यां चक्रे मतिमान् मयः॥ तां स्म मयेनोक्ता रक्षन्ति च वहन्ति च। सभामष्टौ सहस्राणि किंकरा नाम राक्षसाः॥ अन्तरिक्षचरा घोरा महाकाया महाबलाः। रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः॥ तस्यां सभायां नलिनी चकाराप्रतिमां मयः। वैदूर्यपत्रविततां मणिनालमयाम्बुजाम्॥ पद्मसौगन्धिकवतीं नानाद्विजगणायुताम्। पुष्पितैः पङ्कजैश्चित्रां कूतैर्मत्स्यैश्च काञ्चनैः। चित्रस्फटिकसोपानां निष्पङ्कसलिलां शुभाम्॥ मन्दानिलसमुद्भूतां मुक्ताबिन्दुभिराचिताम्। महामणिशिलापट्टबद्धपर्यन्तवेदिकाम्॥ मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः। दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात् प्रपतन्त्युत॥ तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः। आसन् नानाविधा लोलाः शीतच्छाया मनोरमाः॥३४ काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः। हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः॥ जलजानां च पद्यानां स्थलजानां च सर्वशः। मारुतो गन्धमादाय पाण्डवान् स्म निषेवते॥ ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः। निष्ठितां धर्मराजाय मयो राजन् न्यवेदयत्॥ भीष्म उवाच एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः। सहस्रमेकपादेन ततो ध्याने व्यतिष्ठत॥ तं सहस्रावरे काले शक्रो द्रष्टुमुपागमत्। तदेव च पुनर्वाक्यमुवाच बलवृत्रहा॥ मतङ्ग उवाच इदं वर्षसहस्रं वै ब्रह्मचारी समाहितः। अतिष्ठमेकपादेन ब्राह्मण्यं प्राप्नुयां कथम्॥ शक्र उवाच चण्डालयोनौ जातेन नावाप्यं वै कथंचन। अन्यं कामं वृणीष्व त्वं मा वृथा तेऽस्त्वयं श्रमः॥ एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः। अध्यतिष्ठद्गयां गत्वा सोऽङ्गुष्ठेन शतं समाः॥ सुदुर्वहं वहन् योगं कृशो धमनिसंततः। त्वगस्थिभूतो धर्मात्मा स पपातेति नः श्रुतम्॥ तं पतन्तमभिदुत्य परिजग्राह वासवः। वराणामीश्वरो दाता सर्वभूतहिते रतः॥ शक्र उवाच मतङ्ग ब्राह्मणत्वं ते विरुद्धमिह दृश्यते। ब्राह्मण्यं दुर्लभतरं संवृतं परिपन्थिभिः॥ पूजयन् सुखपाप्नोति दुःखमाप्नोत्यपूजयन्। ब्राह्मणः सर्वभूतानां योगक्षेमसमर्पिता॥ ब्राह्मणेभ्योऽनुतृप्यन्ते पितरो देवतास्तथा। ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते॥ ब्राह्मणः कुरुते तद्धि यथा यद् यच्च वाञ्छति। बह्वीस्तु संविशन् योनीर्जायमानः पुनः पुनः॥ पर्याये तात कस्मिंश्चिद् ब्राह्मण्यमिह विन्दति। तदुत्सृज्येह दुष्प्रापं ब्राह्मण्यमकृतात्मभिः॥ मतङ्ग उवाच अन्यं वरं वृणीष्व त्वं दुर्लभोऽयं हि ते वरः। किं मां तुदसि दुःखार्तं मृतं मारयसे च माम्॥ त्वां तु शोचामि यो लब्वा ब्राह्मण्यं न बुभूषसे। ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैः शतक्रतो॥ सुदुर्लभं सदावाप्य नानुतिष्ठन्ति मानवाः। यः पापेभ्यः पापतमस्तेषामधम एव सः॥ ब्राह्मण्यं यो न जानीते धनं लब्वेव दुर्लभम्। दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम्॥ दुरावापमवाप्यैतन्नानुतिष्ठन्ति मानवाः। एकारामो ह्यहं शक्र निर्द्वन्द्वो निष्परिग्रहः॥ अहिंसादममास्थाय कथं नार्हामि विप्रताम्। दैवं तु कथमेतद् वै यदहं मातृदोषतः॥ एतामवस्थां सम्प्राप्तो धर्मज्ञः सन् पुरंदर। नूनं दैवं न शक्यं हि पौरुषेणातिवर्तितुम्॥ यदर्थे यत्नवानेव न लभे विप्रतां विभो। एवंगते तु धर्मज्ञ दातुमर्हसि मे वरम्।॥ भीष्म उवाच यदि तेऽमनुग्राह्यः किंचिद् वा सुकृतं मम। वृणीष्वेति तदा प्राह ततस्तं बलवृत्रहा॥ मतङ्ग उवाच चोदितस्तु महेन्द्रेण मतङ्गः प्राब्रवीदिदम्। यथा कामविहारी स्यां कामरूपी विहङ्गमः॥ ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम्। यथा ममाक्षया कीर्तिर्भवेच्चापि पुरंदर॥ शक्र उवाच कर्तुमर्हसि तद् देव शिरसा त्वां प्रसादये। छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि॥ कीर्तिश्च तेऽतुला वत्स त्रिषु लोकेषु यास्यति। एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत॥ प्राणांस्त्यक्त्वा मतङ्गोऽपि सम्प्राप्तः स्थानमुत्तमम्। एवमेतत् परं स्थानं ब्राह्मण्यं नाम भारत। तच्च दुष्प्रापमिह वै महेन्द्रवचनं यथा॥ वैशम्पायन उवाच ततः संवादिते तस्मिन्ननुज्ञातो धनंजयः। गतां रैवतके कन्यां विदित्वा जनमेजयः॥शा वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम्। कृष्णस्य मतमादायः प्रययौ भरतर्षभः॥ रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि। शैव्यसुग्रीवयुक्तेन किरूिणीजालमालिना॥ सर्वशस्त्रोपपन्नेन जीमूतरवनादिना। ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना॥ संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान्। मृगयाव्यपदेशेन प्रययौ पुरुषर्षभः॥ सुभद्रा त्वथ शैलेन्द्रमभ्ययैव रैवतम्। दैवतानि च सर्वाणि ब्राह्मणान् स्वस्ति वाच्य च॥ प्रदक्षिणं गिरेः कृत्वा प्रययौ द्वारका प्रति। तामभिदुत्य कौन्तेयः प्रसह्यारोपयद् स्थम्। सुभद्रां चारुसर्वाङ्गी कामबाणप्रपीडितः॥ ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम्। रथेन काञ्चना न प्रययौ स्वपुरं प्रति॥ ह्वियमाणां तु तां दृष्ट्वा सुभद्रां सैनिका जनाः। विक्रोशन्तोऽद्रवन् सर्वे द्वारकामभितः पुरीम्॥ ते समासाद्य सहिताः सुधर्मामभितः सभाम्। सभापालस्य तत् सर्वमाचख्युः पार्थविक्रमम्॥ तेषां श्रुत्वा सभापालो भेरी सांनाहिकी ततः। समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम्॥ क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा। अन्नपानमपास्याथ समापेतुः समन्ततः॥ तत्र जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च। मणिविदुमचित्राणि ज्वलिताग्निप्रभाणि च॥ भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः। सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः॥ तेषां समुपविष्टानां देवानामिव संनये। आचख्यौ चेष्टितं जिष्णोः सभापाल: सहानुगः॥ तच्छ्रुत्वा वृष्णिवीरास्ते मदसंरक्तलोचनाः। अमृष्यमाणाः पार्थस्य समुत्पेतुरहंकृताः॥ योजयवं रथानाशु प्रासानाहरतेति च। धनूंषि च महार्हाणि कवचानि बृहन्ति च॥ सूतानुच्चुक्रुशुः केचिद् रथान् योजयतेति च। स्वयं च तुरगान् केचिदयुञ्जन् हेमभूषितान्॥ रथेष्वानीयमानेषु कवचेषु ध्वजेषु च। अभिक्रन्दे नृवीराणां तदासीत् तुमुलं महत्॥ वनमाली ततः क्षीबः कैलासशिखरोपमः। नीलवासा मदोसिक्त इदं वचनमब्रवीत्॥ किमिदं कुरुथाप्रज्ञास्तूष्णीभूते जनार्दने। अस्य भावमविज्ञाय संक्रुद्धा मोघगर्जिताः॥ एष तावदभिप्रायमाख्यातु स्वं महामतिः। यदस्य रुचिरं कर्तुं तत् कुरुध्वमतन्द्रिताः॥ ततस्ते तद् वचः श्रुत्वा ग्राह्यरूपं हलायुधात्। तूष्णीम्भूतास्ततः सर्वे साधु साध्विति चाब्रुवन्॥ समं वचो निशम्यैव बलदेवस्य धीमतः। पुनरेव सभामध्ये सर्वे ते समुपाविशन्॥ ततोऽब्रवीद् वासुदेवं वचो रामः परंतपः। किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन॥ सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत। न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः॥ को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हसि। मन्यमानः कुले जातमात्मानं पुरुषः क्वचित्॥ इच्छन्नेव हि सम्बन्धं कृतं पूर्वं च मानयन्। को हि नाम भवेनार्थी साहसेन समाचरेत्॥ सोऽवमन्य तथास्माकमनादृत्य च केशवम्। प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः॥ कथं हि शिरसो मध्ये कृतं तेन पदं मम। मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः॥ अद्य निष्कौरवामेकः करिष्यामि वसुंधराम्। न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः॥ तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम्। अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा॥ युधिष्ठिर उवाच कथं धर्मे स्थातुमिच्छन् राजा वर्तेत धार्षिकः। पृच्छामि त्वं कुरुश्रेष्ठ तन्मे ब्रूहि पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता॥ राजा वसुमना नाम ज्ञानवान् धृतिमाशुचिः। महर्षि परिपप्रच्छ वामदेवं तपस्विनम्॥ येन वृत्तेन वै तिष्ठन् न हीयेयं स्वधर्मतः॥ तमब्रवीद् वामदेवस्तेजस्वी तपतां वरः। हेमवर्णं सुखासीनं ययातिमिव नाहुषम्॥ वासुदेव उवाच धर्ममेवानुवर्तस्व न धर्माद् विद्यते परम्। धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम्॥ अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः। वृद्ध्यां च कुरुते बुद्धिं स धर्मेण विराजते॥ अधर्मदर्शी यो राजा बलादेव प्रवर्तते। क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ॥ असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा। सहैव परिवारेण क्षिप्रमेवावसीदति॥ अर्थानामननुष्ठाता कामचारी विकत्यनः। अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति॥ अथाददानः कल्याणमनसूयुर्जितेन्द्रियः। वर्धते मतिमान् राजा स्त्रोतोभिरिव सागरः॥ न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः। बुद्धितो मित्रतश्चापि सततं वसुधाधिपः॥ एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता। एतानि शृण्वल्लभते यशः कीर्ति श्रियं प्रजाः॥ एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः। अर्थान् समीक्ष्य भजते स ध्रुवं महदश्नुते॥ अदाता ह्यनतिस्नेहो दण्डेनावर्तयन् प्रजाः। साहसप्रकृती राजा क्षिप्रमेव विनश्यति॥ अथ पापकृतं बुद्ध्या न च पश्यत्यबुद्धिमान्। अकीर्त्याभिसमायुक्तो भूयो नरकमश्नुते॥ अथ मानयितुर्दाम्नः श्लक्ष्णस्य वशवर्तिनः। व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः॥ यस्य नास्ति गुरुर्धर्मे न चान्यानपि पृच्छति। सुखतन्त्रोऽर्थलाभेषु न चिरं सुखमश्नुते॥ गुरुप्रधानो धर्मेषु स्वयमर्थानवेक्षिता। धर्मप्रधानो लाभेषु स चिरं सुखमश्नुते॥ धृतराष्ट्र उवाच एवं बहुगुणं सैन्यमेवं प्रविचितं बलम्। व्यूढमेवं यथान्यायमेवं बहु च संजय॥ नित्यं पूजितमस्माभिरभिकामं च नः सदा। प्रौढमत्यद्भुताकारं पुरस्ताद् दृष्टविक्रमम्॥ नातिवृद्धमबालं च नाकृशं नातिपीवरम्। लघुवृत्तायतप्रायं सारगात्रपनामयम्॥ आत्तसंनाहसंछन्नं बहुशस्त्रपरिच्छदम्। शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम्॥ आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते। सम्यक्प्रहरणे याने व्यपयाने च कोविदम्॥ नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम्। परीक्ष्य च यथान्यायं वेतनेनोपपादितम्॥ न गोष्ठ्या नोपकारेण न सम्बन्धनिमित्ततः। नानाहूतं नाप्यभृतं मम सैन्यं बभूव ह॥ कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम्। कृतमानोपचारं च यशखि च मनखि च॥ सचिवैश्चापरैर्मुख्यैर्बहुभिः पुण्यकर्मभिः। लोकपालोपमैस्तात पालितं नरसत्तमैः॥ बहुभिः पार्थिवैर्गुप्तस्मत्प्रियचिकार्युभिः। अस्मानभिसृतैः कामात् सबलैः सपदानुगैः॥ महोदधिमिवापूर्णमापगभिः समन्ततः। अपक्षैः पक्षिसंकाशे रथैरश्वैश्च संवृतम्॥ प्रभिन्नकरटैश्चैव द्विरदैरावृतं महत्। यदहन्यत मे सैन्यं किमन्यद् भागधेयतः॥ योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम्। क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम्॥ ध्वजभूषणसम्बाघरत्नोपलसुसंचितम्। वाहनैरभिधावद्भिर्वायुवेगविकम्पितम्॥ द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम्। जलसंधमहाग्राहं कर्णचन्द्रोदयोद्धतम्॥ गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे। संजयैकरथेनैव युयुधाने च मामकम्॥ तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि। सात्वते च रथोदारे मम सैन्यस्य संजय॥ तौ तत्र समतिक्रान्तौ दृष्ट्वातीव तरखिनौ। सिन्धुराजं तु सम्प्रेक्ष्य गाण्डीवस्येषुगोचरे॥ किं नु वा कुरवः कृत्यं विदधुः कालचोदिताः। दारुणैकायने कालं कथं वा प्रतिपेदिरे॥ ग्रस्तान् हि कौरवान् मन्ये मृत्युना तात संगतान्। विक्रमोऽपि रणे तेषां न तथा दृश्यते हि वै॥ अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ। न च वारयिता कश्चित् तयोरस्तीह संजय॥ भृताश्च बहवो योधाः परीक्ष्यैव महारथाः। वेतनेन यथासोगं प्रियवादेन चापरे॥ असत्कारभृतस्तात मम सैन्ये न विद्यते। कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम्॥ न चायोधोऽभवत् कश्चिन्मम सैन्ये तु संजय। अल्पदानभृतस्तात तथा चाभृतको नरः॥ पूजितो हि यथाशक्त्या दानमानासनैर्मया। तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः॥ ते च प्राप्यैव संग्रामे निर्जिताः सव्यसाचिना। शैनेयन परामृष्टाः किमन्यद् भागधेयतः॥ रक्ष्यते यश्च संग्रामे ये च संजय रक्षिणः। एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः॥ अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम्। पुत्रो मम भृशं मूढः किं कार्य प्रत्यपद्यत॥ सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीवत्। किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत॥ सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथितसत्तमौ। दृष्ट्वा कां वै धृति युद्धे प्रत्यपद्यन्त मामकाः॥ दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम्। शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः॥ दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च। पलायमानांश्च कुरून् मन्ये शोचन्ति पुत्रकाः॥ विदुतान् रथिनो दृष्ट्वा निरुत्साहान् द्विषजये। पलायनकृतोत्साहान् मन्ये शोचन्ति पुत्रकाः॥ शून्यान् कृतान् रथोपस्थान् सात्वतेनार्जुनेन च। हतांश्च योधान् संदृश्य मन्ये शोचन्ति पुत्रकाः॥ व्यश्वनागरथान् दृष्ट्वा तत्र वीरान् सहस्रशः। धावमानान् रणे व्यग्रान् मन्ये शोचन्ति पुत्रकाः॥ महानागान् विद्रवतो दृष्ट्वार्जुनशराहतान्। पतितान् पततश्चान्यान् मन्ये शोचन्ति पुत्रकाः॥ विहीनांश्च कृतानश्वान् विस्थांश्च कृतान् नरान्। तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः॥ हयौधान् निहतान् दृष्ट्वा द्रवमाणांस्ततस्ततः। रणे माधवपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः॥ पत्तिसंघान् रणे दृष्ट्वा धावमानांश्च सर्वशः। निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः॥ द्रोणस्य समतिक्रान्तावनीकमपराजितौ। क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः॥ सम्मूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनंजयौ। प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ॥ तस्मिन् प्रविष्टे पृतनां शिनीनां प्रवरे रथे। भोजानीकं व्यतिक्रान्ते किमकुर्वत कौरवाः।। तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु। कथं युद्धमभूत् तत्र तन्ममाचक्ष्व संजय॥ द्रोणो हि बलवाश्रेष्ठः कृतास्त्रो युद्धदुर्मदः। पञ्चालास्ते महेष्वासं प्रत्यविध्यन् कथं रणे॥ पद्धवैरास्ततो द्रोणे धनंजयजयैषिणा। भारद्वाजसुतस्तेषु दृढवैरो महारथः॥ अर्जुनश्चापि यचक्रे सिन्धुराजवधं प्रति। तन्मे सर्व समाचक्ष्व कुशलो ह्यसि संजय॥ संजय उताच आत्मापराधात् सम्भूतं व्यसनं भरतर्षभ। प्राप्य प्राकृतवद् वीर न त्वं शोचितुमर्हसि॥ पुरा यदुच्यसे प्राज्ञैः सुहृद्भिर्विदुरादिभिः। मा हार्षीः पाण्डवान् राजनिति तन्न त्वया श्रुतम्॥ सुहृदां हितकामानां वाक्यं यो न शृणोति ह। समहद् व्यसनं प्राप्य शोचते वैयथाभवान्॥ याचितोऽसि पुरा राजन् दाशार्हेण शमं प्रति। न च तं लब्धवान् कामं त्वत्तः कृष्णोमहायशाः॥ तव निगुर्णतां ज्ञात्वा पक्षपातं सुतेषु च। द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम्॥५ तव जिह्ममभिप्रायं विदित्वा पाण्डवान् प्रति। आप्रिलापांश्च बहून् मनुजाधिपसत्तम॥ सर्वलोकस्य तत्त्वज्ञः सर्वलोकेश्वरः प्रभुः। वासुदेवस्ततो युद्धं कुरूणामकरोन्महत्॥ आत्मापराधात् सुमहान् प्राप्तस्ते विपुलः क्षयः। नैनं दुर्योधने दोषं कर्तुमर्हसि मानद॥ न हि ते सुकृतं किंचिदादौ मध्ये च भारत। दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः॥ तस्मादवस्थितो भूत्वा ज्ञात्वा लोकस्य निर्णयम्। शृणु युद्धं यथावृत्तं घोरं देवासुरोपमम्॥ प्रविष्टे तव सैन्यं त शैनेय सत्यविक्रमे। भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव॥ आगच्छतस्तान् सहसा क्रुद्धरूपान् सहानुगान्। दधारैको रणे पाण्डून् कृतवर्मा महारथः॥ यथोद्वत्तं वारयते वेला वै सलिलार्णवम्। पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत्॥ तत्राद्भुतमपश्याम हार्दिक्यस्य पराक्रमम्। यदेनं सहिताः पार्था नातिचक्रमुराहवे॥ ततो भीमस्त्रिभिर्विद्धवा कृतवर्माणमाशुगैः। शङ्ख दध्मौ महाबाहुर्हर्पयन् सर्वपाण्डवान्॥ सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः। शतेन नकुलश्चापि हार्दिक्यं समविध्यत॥ द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः। धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत्॥ विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः। शिखण्डी चैव हार्दिक्यं विद्धवा पञ्चभिराशुगैः॥ पुनर्विव्याध विंशत्या सायकानां हसन्निव। कृतवर्मा ततो राजन् सर्वतस्तान् महारथान्॥ एकैकं पञ्चभिर्विद्धवा भीमं विव्याध सप्तभिः। धनुर्ध्वजं चास्य तथा रथाद् भूमावपातयत्॥ अथैनं छिन्नधन्वानं त्वरमाणो महारथः। आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः॥ स गाढविद्धो बलवान् हार्दिक्यस्य शरोत्तमैः। चचाल स्थमध्यस्थः क्षितिकम्पे यथाचलः॥ भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः। विसृजन्तः शरान् राजन् कृतवर्माणमार्दयन्॥ तं कथा कोष्ठकीकृत्य रथवंशेन मारिष। विव्यधुः सायकैईष्टा रक्षार्थ मारुतेर्पधे॥ प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः। शक्तिं जग्राह समरे हेमदण्डामयस्मयीम्॥ चिक्षेप च रथात् तूर्ण कृतवर्मरथं प्रति। सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा॥ कृतवर्माणमभितः प्रजज्वाल सुदारुणा। तामापतन्ती सहसा युगान्ताग्निसमप्रभाम्॥ द्वाभ्यां शराभ्यां हार्दिक्यो निजघान द्विधा तदा। सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा॥ द्योतयन्ती दिशो राजन् महोल्केव नभश्चयुता। शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वैभृशम्॥ ततोऽन्यद् धनुरादाय वेगवत् सुमहास्वनम्। भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत्॥ अथैनं पञ्चभिर्बाणैराजधान स्तनान्तरे। भीमो भीमबलो राजंस्त्व दुर्मत्रितेन च॥ भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष। रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे॥ ततः क्रुद्धस्त्रिभिर्बाणैभीमसेनं हसन्निव। अभिहत्य दृढं युद्धे तान् सर्वान् प्रत्यविध्यत॥ त्रिभिस्त्रिभिर्महेष्वासो यतमानान् महारथान्। तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः॥ शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः। धनुश्चिच्छेद समरे प्रहसन्निव सात्वतः॥ शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरः। असिं जग्राह समरे शतचन्द्रं च भाखरम्॥ भ्रामयित्वा महचर्म चामीकरविभूषितम्। तमसिं प्रेषयामास कृतवर्मरथं प्रति॥ स तस्य सशरं चापं छित्त्वा राजन् महानसिः। अभ्यगाद् धरणी राजंश्च्युतं ज्योतिरिवाम्बरात्॥ एतस्मिन्नेव काले तु त्वरमाणं महारथाः। विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे॥ अथान्यद् धनुरादाय त्यक्त्वा तच महद् धनुः। विशीर्ण भरतश्रेष्ठ हार्दिक्याः परवीरहा॥ विव्याध पाण्डवान् युद्धे त्रिभिस्त्रिभिरजिह्मगैः। शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च॥ धनुरन्यत् समादाय शिखण्डी तु महायशाः। अवारयन् कूर्मनखैराशुगैर्हकित्मजम्॥ ततः क्रुद्धो रणे राजन् हृदिकस्यात्मसम्भवः। अभिदुद्राव वेगेन याज्ञसेनिं महारथम्॥ भीष्मस्य समरे राजन् मृत्योर्हतुं महात्मनः। विदर्शयन् बलं शूरः शार्दूल इव कुञ्जरम्॥ तौ दिशां गजसंकाशौ ज्वलिताविव पावकौ। समापेततुरन्योन्यं शरसङ्घररिंदमौ॥ विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान्। विसृजन्तौ च शतशो गभस्तीनिव भास्वरौ॥ तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ। युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव॥ कृतवर्मा च समरे याज्ञसेनिं महारथम्। विद्ध्वेषुभिस्त्रिसप्तस्या पुनर्विव्याघ सप्तभिः॥ स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्। विराज्य सशरं चापं मूर्च्छयाभिपरिप्लुतः॥ तं विषण्णं रणे दृष्ट्वा तावकाः पुरुषर्षभ। हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह॥ शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम्। अपोवाह रणाद् यन्ता त्वरमाणो महारथम्॥ सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम्। परिव्रवू रथैस्तूर्णं कृतवर्माणमाहवे॥ तत्राद्भुतं परं चक्रे कृतवर्मा महारथः। यदेकः समरे पार्थान् वारयामास सानुगान्॥ पार्थाञ्जित्वाजयचेदीन् पञ्चालान् सृञ्जयानपि। केकयांश्च महावीर्यान् कृतवर्मा महारथः॥ ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः। इतश्चेतश्च धावन्तो नैव चक्रुतिं रणे॥ जित्वा पाण्डुसुतान् युद्धे भीमसेनपुरोगमान्। हार्दिक्यः समरेऽतिष्ठद् विधूम इव पावकः॥ ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः। विमुखाः समपद्यन्त शरवृष्टिभिरार्दिताः॥ वैशम्पायन उवाच वनं प्रविष्टष्वथ पाण्डवेषु प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः। धर्मात्मानं विदुरमगाधबुद्धिं सुखासीनो वाक्यमुवाच राजा॥ धृतराष्ट्र उवाच प्रज्ञा च ते भार्गवस्येव शुद्धा धर्म च त्वं परमं वेत्थ सूक्ष्मम्। समश्च त्वं सम्मतः कौरवाणां पथ्यं चैषां मम चैव ब्रवीहि॥ एवंगते विदुर यदद्य कार्य पौराश्च मे कथमस्मान् भजेरन्। स्तत्त्वं ब्रूयाः साधु कार्याणि वेत्सि॥ विदुर उवाच त्रिवर्गोऽयंधर्ममूलो नरेन्द्र राज्यं चेदंधर्ममूलं वदन्ति। धर्मे राजन् वर्तमानः स्वशक्त्या पुत्रान सर्वान् पाहि पाण्डोः सुतांश्च॥ स वैधर्मो विप्रलब्धः सभायां पापात्मभिः सौबलेयप्रधानैः। आहूय कुन्तीसुतमक्षवत्यां पराजैषीत् सत्यसंधं सुतस्ते॥ छेषस्याहं परिपश्याम्युपायम्। मुक्तो लोके प्रतितिष्ठेत साधु॥ तद् वै सर्वं पाण्डुपुत्रा लभन्तां यत् तद् राजन्नभिसृष्टं त्वयाऽऽसीत्। एषधर्मः परमो यत् स्वकेन राजा तुष्येन्न परस्वेषु गृध्येत्॥ यशो न नश्येज्ज्ञातिभेदश्च न स्याद् धर्मो न स्यानैव चैवं कृते त्वाम्। एतत् कार्यं तव सर्वप्रधान तेषां तुष्टिः शकुनेश्चावमानः॥ देतद् राजंस्त्वरमाणः कुरुष्व। तथैतदेवं न करोषि राजन् ध्रुवं कुरूणां भविता विनाशः॥ न हि क्रुद्धो भीमसेनोऽर्जुनो वा शेषं कुर्याच्छात्रवाणामनीके। येषां योद्धा सव्यसाची कृतास्त्रो धनुर्येषां गाण्डिवं लोकसारम्॥ येषां भीमो बाहुशाली च योद्धा तेषां लोके किं नु न प्राप्यमस्ति। उक्तं पूर्वं जातमात्रे सुते ते मया यत् ते हितमासीत् तदानीम्॥ पुत्रं त्यजेममहितं कुलस्य हितं परं न च तत् त्वं चकर्थ। मेवं कर्ता परितप्तासि पश्चात्॥ यद्येतदेवमनुमन्ता सुतस्ते सम्प्रीयमाणः पाण्डवैरेकराज्यम्। न चेन्निगृहणीष्व सुतं सुखाय॥ दुर्योधनं त्वहितं वै निगृह्य पाण्डोः पुत्रं कुरुष्वाधिपत्ये। अजातशत्रुर्हि विमुक्तरागो धर्मेणेमां पृथिवीं शास्तु राजन्॥ दुःशासनो ततो राजन् पार्थिवाः सर्व एव वैश्या इवास्मानुपतिष्ठन्तु सद्यः। दुर्योधनः शकुनिः सूतपुत्रः प्रीत्या राजन् पाण्डुपुत्रान् भजन्तु॥ याचतु भीमसेनं सभामध्ये दुपदस्यात्मजां च। युधिष्ठिरं त्वं परिसान्त्वयस्व राज्ये चैनं स्थापयस्वाभिपूज्य॥ मेतत् कृत्वा कृतकृत्योऽसि राजन्॥ धृतराष्ट्र उवाच मिह प्रोक्तं पाण्डवान् प्राप्य मां च। मेतत् सर्वं मम नावैति चेतः॥ इदं त्विदानी गत एव निश्चितं तेषामर्थे पाण्डवानां यदास्थ! तेनाद्य मन्ये नासि हितो ममेति कथं हि पुत्रं पाण्डवार्थे त्यजेयम्॥ असंशयं तेऽपि ममैव पुत्रा दुर्योधनस्तु मम देहात् प्रसूतः। स्वं वै देहं परहेतोस्त्यजोत को नु ब्रूयात् समतामन्ववेक्ष्य॥ स मां जिह्यं विदुर सर्वं ब्रवीषि मानं च तेऽहमधिकंधारयामि। यथेच्छकं गच्छ वा तिष्ठ वा त्वं सुसान्त्व्यमानाप्यसती स्त्री जहाति॥ वैशम्पायन उवाच दन्तर्वेश्म सहसोत्थाय राजन्। नेदमस्तीत्यथ विदुरो भाषमाणः सम्प्राद्रवद् यत्र पार्था बभूवुः॥ युधिष्ठिर उवाच अस्मानभिातांस्तात भयार्ताञ्छरणैषिणः। कौरवान् विषमप्राप्तान् कथं ब्रूयास्त्वमीदृशम्॥ यदा तु भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर। प्रसक्तानि च वैराणि कुलधर्मो न नश्यति॥ कश्चिज्ज्ञातीनां बाह्यः पोथयते कुलम्। न मर्षयन्ति तत् सन्तो बाह्येनाभिप्रधर्षणम्॥ जानात्येष हि दुर्बुद्धिरस्मानिह चिरोषितान्। स एवं परिभूयास्मानकादिदमप्रियम्॥ दुर्योधनस्य ग्रहणाद् गन्धर्वेण बलात् प्रभो। स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम्॥ शरणं च प्रपन्नानां त्राणार्थं च कुलस्य च। उत्तिष्ठत नरव्याघ्राः सज्जीभवत मा चिरम्॥ अर्जुनश्च यमौ चैव त्वं च वीरापराजितः। मोक्षयध्वं नरव्याघ्रा ह्रियमाणं सुयोधनम्॥ एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः। धृतराष्ट्रस्य पुत्राणां विमलाः काञ्चनध्वजाः॥ सस्वनानधिरोहध्वं नित्यसज्जानिमान् रथान्। इन्द्रसेनादिभिः सूतैः कृतशस्त्रैरधिष्ठितान्॥ एतानास्थाय वै यत्ता गन्धर्वान् यो माहवे। सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः॥ य एव कश्चिद् राजन्यः शरणार्थमिहागतम्। परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर॥ क इहार्यो भवेत् त्राणमभिधावेति नोदितः। प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम्॥ वरप्रदानं राज्यं च पुत्रजन्म च पाण्डवाः। शत्रोच मोक्षणं क्लेशात् त्रीणि चैकं च तत्समम्॥ किं चाप्यधिकमेतस्माद् यदापन्नः सुयोधनः। त्वद्वाहुबलमाश्रित्य जीवितं परिमार्गते॥ स्वयमेव प्रधावेयं यदि न स्याद् वृकोदर। विततो मे क्रतुर्वीर न हि मेऽत्र विचारणा॥ साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम्। तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन॥ न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ। पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम्॥ अथासौ मृदुयुद्धेन न मुञ्चेद् भीम कौरवान्। सर्वोपायैविमोच्यास्ते निगृह्य परिपन्थिनः॥ एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर। वैताने कर्मणि तते वर्तमाने च भारत॥ वैशम्पायन उवाच अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनंजयः। प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम्॥ अर्जुन उवाच यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान्। अद्य गन्धर्वराजस्य भूमि: पास्यति शोणितम्॥ अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः। कौरवाणां तदा राजन् पुनः प्रत्यागतं मनः॥ वैशम्पायन उवाच ततः कदाचिद् दुर्वासाः सुखासीनांस्तु पाण्डवान्। भुक्त्वा चावस्थितां कृष्णां ज्ञात्वा तस्मिन् वने मुनिः।१ अभ्यागच्छत् परिवृतः शिप्यैरयुतसम्मितैः। दृष्ट्वाऽऽयान्तं तमतिथिं स च राजा युधिष्ठिरः॥ जगामाभिमुखः श्रीमान् सह भ्रातृभिरच्युतः। तस्मै बद्धवाञ्जलिं सम्यगुपवेश्य वरासने॥ विधिवत् पूजयित्वा तमातिथ्येन न्यमन्त्रयत्। आह्निकं भगवन् कृत्वा शीघ्रमेहीति चाब्रवीत्॥ जगाम च मुनिः सोऽपि स्नातुं शिष्यैः सहानघः। भोजयेत् सहशिष्यं मां कथमित्यविचिन्तयन्॥ न्यमज्जत् सलिले चापि मुनिसङ्घः समाहितः। एतस्मिन्नन्तरे राजन् द्रौपदी योषितां वरा॥ चिन्तामवाप परमामन्नहेतोः पतिव्रता। सा चिन्तयन्ती च यदा नान्नहेतुमविन्दत॥ मनसा चिन्तयामास कृष्णं कंसनिषूदनम्। कृष्ण कृष्ण महाबाहो देवकीनन्दनाव्यया॥ वासुदेव जगन्नाथ प्रणतातिविनाशन। विश्वात्मन् विश्वजनक विश्वहर्तः प्रभोऽव्यय॥ प्रपन्नपाल गोपाल प्रजापाल परात्पर। आकृतीनां च चित्तीनां प्रवर्तक नतास्मि ते॥ वरेण्य वरदानन्त अगतीनां गतिर्भव। पुराणपुरुष प्राणमनोवृत्त्याद्यगोचर॥ सर्वाध्यक्ष पराध्यक्ष त्वामहं शरणं गता। पाहि मां कृपया देव शरणागतवत्सल॥ नीलोत्पलदलश्याम पद्मगर्भारुणेक्षण। पीताम्बरपरीधान लसत्कौस्तुभभूषण॥ त्वमादिरन्तो भूतानां त्वमेव च परायणम्। परात्परतरं ज्योतिर्विश्वात्मा सर्वतोमुखः॥ त्वामेवाहुः परं बीजं निधानं सर्वसम्पदाम। त्वया नाथेन देवेश सर्वापद्भ्यो भयं न हि॥ दुःशासनादहं पूर्व सभायां मोचिता यथा। तथैव संकटादस्मान्मामुद्धर्तुमिहार्हसि॥ वैशम्पायन उवाच एवं स्तुतस्तदा देवः कृष्णया भक्तवत्सलः। द्रौपद्याः संकटं ज्ञात्वा देवदेवो जगत्पतिः॥ पार्श्वस्थां शयने त्यक्त्वा रुक्मिणी केशवः प्रभुः। तत्राजगाम त्वरितो ह्यचिन्त्यगतिरीश्वरः॥ ततस्तं द्रौपदी दृष्ट्वा प्रणम्य परया मुदा। अब्रवीद् वासुदेवाय मुनेरागमनादिकम्॥ ततस्तामब्रवीत् कृष्णः क्षुधितोऽस्मि भृशातुरः। शीघ्रं भोजय मां कृष्णे पश्चात् सर्वं करिष्यसि॥ निशम्य तद्वचः कृष्णा लज्जिता वाक्यमब्रवीत्। स्थाल्यां भास्करदत्तायामन्नं मद्भोजनावधि॥ भुक्तवत्यस्म्यहं देव तस्मादन्नं न विद्यते। ततः प्रोवाच भगवान् कृष्णां कमललोचनः॥ कृष्णे न नर्मकालोऽयं क्षुच्छ्रमेणातुरे मयि। शीघ्रं गच्छ मम स्थालीमानीय त्वं प्रदर्शय॥ इति निर्बन्धतः स्थालीमानाय्य स यदूद्वहः। स्थाल्याः कण्ठेऽथ संलग्नं शाकानं वीक्ष्य केशवः॥ उपयुज्याब्रवीदेनामनेन हरिरीश्वरः। विश्वात्मा प्रीयतां देवस्तुष्टश्चास्त्विति यज्ञभुक्॥ आकारय मुनीन् शीघ्रं भोजनायेति चाब्रवीत्। सहदेवं महाबाहुः कृष्णः कलेशविनाशनः॥ ततो जगाम त्वरितः सहदेवो महायशाः। आकारितुं तु तान् सर्वान् भोजनार्थं नृपोत्तम॥ स्नातुं गतान् देवनद्यां दुर्वासः प्रभृतीन् मुनीन्। ते चावतीर्णाः सलिले कृतवन्तोऽघमर्षणम्॥ दृष्ट्वोद्गारान् सान्नरसांस्तृप्त्या परमया युताः। उत्तीर्य सलिलात् तस्माद् दृष्टवन्तः परस्परम्॥ दुर्वाससमभिप्रेक्ष्य ते सर्वे मुनयोऽब्रुवन्। राज्ञा हि करायित्वान्नं वयं स्नातुं समागताः॥ आकण्ठतृप्ता विप्रर्षे किंस्विद् भुञ्जामहे वयम्। वृथा पाकः कृतोऽस्माभिस्तत्र किं करवामहे॥ दुर्वासा उवाच वृथा पाकेन राजर्षेरपराधः कृतो महान्। मास्मानधाक्षुर्दृष्ट्वैव पाण्डवाः क्रूरचक्षुषा॥ स्मृत्वानुभावं राजर्षेरम्बरीषस्य धीमतः। बिभेमि सुतरां विप्रा हरिपादाश्रयाज्जनात्॥ पाण्डवाश्च महात्मानः सर्वे धर्मपरायणाः। शूराश्च कृतविद्याश्च वतिनस्तपसि स्थिताः॥ सदाचाररता नित्यं वासुदेवपरायणाः। क्रुद्धास्ते निर्दहेयुर्वै तूलराशिमिवानलः। तत एतानपृष्ट्वैव शिष्याः शीघ्रं पलायत॥ वैशम्पायन उवाच इत्युक्तास्ते द्विजाः सर्वे मुनिना गुरुणा तदा। पाण्डवेभ्यो भृशं भीता दुद्रुवुस्ते दिशो दश॥ सहदेवो देवनद्यामपश्यन् मुनिसत्तमान्। तीर्थेष्वितस्ततस्तस्या विचचार गवेषयन्॥ तत्रस्थेभ्यस्तापसेभ्यः श्रुत्वा तांश्चैव विद्रुतान्। युधिष्ठिरमथाभ्येत्य तं वृत्तान्तं न्यवेदयत्॥ ततस्ते पाण्डवाः सर्वे प्रत्यागमनकाक्षिणः। प्रतीक्षन्तः कियत्कालं जितात्मानोऽवतस्थिरे॥ निशीथेऽभ्येत्य चाकस्मादस्मान् स छलयिष्यति कथं च निस्तरेमास्मात् कृच्छ्राद् दैवोपसादितात्॥ इति चिन्तापरान् दृष्ट्वा निःश्वसन्तो मुहुर्मुहुः। उवाच वचनं श्रीमान् कृष्णः प्रत्यक्षतां गतः॥ श्रीकृष्ण उवाच भवतामापदं ज्ञात्वा ऋषेः परमकोपनात्। द्रौपद्या चिन्तितः पार्था अहं सत्वरमागतः॥ न भयं विद्यते तस्मादृषेर्दुर्वाससोऽल्पकम्। तेजसा भवतां भीतः पूर्वमेव पलायितः॥ धर्मनित्यास्तु ये केचिन्न ते सीदन्ति कहिचित्। आपृच्छे वो गमिष्यामि नियतं भद्रमस्तु वः॥ वैशम्पायन उवाच श्रुत्वेरितं केशवस्य बभूवुः स्वस्थमानसाः। द्रौपद्या सहिताः पार्थास्तमूचुर्विगतज्वराः॥ त्वया नाथेन गोविन्द दुस्तरामापदं विभो। तीर्णाः प्लवमिवासाद्य मज्जमाना महार्णवे॥ स्वस्ति साधय भद्रं ते इत्याज्ञातो ययौ पुरीम्। पाण्डवाश्च महाभाग द्रौपद्या सहिताः प्रभो॥ ऊषुः प्रहष्टमनसो विहरन्तो वनाद् वनम्। इति तेऽभिहितं राजन् यत् पृष्टोऽहमिह त्वया॥ एवंविधान्यलीकानि धार्तराष्ट्रैर्दुरात्मभिः। पाण्डवेषु वनस्थेषु प्रयुक्तानि वृथाभवन्॥ धृतराष्ट्र उवाच यथा संशप्तकैः सार्धमर्जुनस्याभवद् रणः। अन्येषां च महीपानां पाण्डवैस्तद् ब्रवीहि मे॥ अश्वत्थाम्नस्तु यद् युद्धमर्जुनस्य च संजय। अन्येषां च महीपानां पाण्डवैस्तद् ब्रवीहि मे॥ संजय उवाच शृणु राजन् यथा वृत्तं संग्राम ब्रुवतो मम। वीराणां शत्रुभिः सार्धं देहपाप्मासुनाशनम्॥ पार्थः संशप्तकबलं प्रविश्यार्णवसंनिभम्। व्यक्षोभयदमित्रधो महावात इवार्णवम्॥ शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनंजयः। पूर्णचन्द्राभवक्त्राणि स्वक्षिभूदशनानि च ॥ संतस्तार क्षितिं क्षिप्रं विनालैनलिनैरिव। सुवृत्तानायतान् पुष्टांश्चंदनागुरुभूषितान्॥ सायुधान् सतलत्रांश्च पञ्चचास्योरगसंनिभान्। बाहून् क्षुरैरमित्राणां चिच्छेद समरेऽर्जुनः॥ धुर्यान् धुर्यगतान् सूतान ध्वजाश्चापानि सायकान्। पाणीन् सरत्नानसकृद भल्लैश्चिच्छेद पाण्डवः॥ रथान् द्विपान् हयांश्चैव सारोहानर्जुनो युधि। शरैरनेकसाहौनिन्ये राजन् यमक्षयम्॥ तं प्रवीराः सुसंरब्धा नर्दमाना इवर्षभाः। वासितार्थमिव क्रुद्धमभिद्रुत्य मदोत्कटाः॥ निघ्नन्तमभिजनुस्ते शरैः शृङ्गैरिवर्षभाः। तस्य तेषां च तद् युद्धमभवल्लोमहर्षणम्॥ त्रैलोक्यविजये यद्वद् दैत्यानां सह वज्रिणा। अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः॥ इषुभिर्बहुभिस्तूर्णं विद्ध्वा प्राणाञ्जहार सः। छिन्नत्रिवेणुतक्राक्षान् हययोधान्ससारथीन्॥ विद्ध्वस्तायुधतूणीरान् समुन्मथितकेतनान्। संछिन्नयोक्ररश्मीकान् विवरूथान विकूबरान्॥ विस्त्रस्तबन्धुरयुगान् विस्त्रस्ताक्षप्रमण्डलान्। रथान् विशकलीकुर्वन् महाभ्राणीव मारुतः॥ विस्मापयन् प्रेक्षणीयं द्विषतां भयवर्धनम्। महारथसहस्रस्य समं कर्माकरोज्जयः॥ सिद्धदेवर्षिसंघाश्च चारणाश्चापि तुष्टुवुः। देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन्॥ केशवार्जुनयोर्मूनि प्राह वाचशरोरिणी। चन्द्राग्न्यनिलसूर्याणां कान्तिदीप्तिबलद्युतीः॥ यौ सदा बिभ्रतुर्वीराविमौ तौ केशवार्जुनौ। ब्रह्मेशानाविवाजय्यौ वीरावेकरथे स्थितौ॥ सर्वभूतवरौ वीरौ नरनारायणाविमौ। इत्येतन्महदाश्चर्य दृष्ट्वा श्रुत्वा च भारत॥ अश्वत्थामा सुसंयत्तः कृष्णावभ्यद्रवद् रणे। अथ पाण्डवमस्यन्तममित्रघ्नकराज्छरान्॥ सेषुणा पाणिनाऽऽहूय प्रहसन द्रौणिरब्रवीत्। यदि मा मन्यसे वीर प्राप्तमर्हमिहातिथिम्॥ ततः सर्वात्मना त्वद्य युद्धातिथ्यं प्रयच्छ मे। एवमाचार्यपुत्रेण समाहूतो युयुत्सया॥ बहु मेनेऽर्जुनीऽऽत्मानमिति चाह जनार्दनम् संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम्॥ यदत्रानन्तरं प्राप्तं शंस मे तद्धि माधव। आतिथ्यकर्माभ्युत्थाय दीयतां यदि मन्यसे॥ एवमुक्तोऽवहत् पार्थं कृष्णो द्रोणात्मजान्तिके। जैत्रेण विधिनाऽऽहूतं वायुरिन्द्रमिवाध्वरे॥ तमामन्त्र्यैकमनसं केशवो द्रौणिमब्रवीत्। अश्वत्थामन् स्थिरो भूत्वा प्रहराशु सहस्व च॥ निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम्। सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जयाजयौ॥२८ यामभ्यर्थयसे मोहाद् दिव्यां पार्थस्य सक्रियाम्। तामाप्नुमिच्छन युध्यस्व स्थिरो भूत्वाद्य पाण्डवम्।। २९ इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः। विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः॥ तस्यार्जुनः सुसंक्रुद्धस्त्रिभिर्बाणैः शरासनम्। चिच्छेद चान्यदादत्त द्रौणिर्घोरतरं धनुः॥ सज्यं कृत्वा निमेषाच विव्याधार्जुनकेशवो। त्रिभिः शतैर्वासुदेवं सहस्रेण च पाण्डवम्॥ ततः शरसहस्राणि प्रयुतान्यर्बुदानि च। ससृजे द्रौणिरायस्तः संस्तभ्य च रणेऽर्जुनम्॥ इषुधेर्धनुषश्चैव ज्यायाश्चैवाथ मारिष। बाह्वोः कराभ्यामुरसो वदनघ्राणनेत्रतः॥ कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमवर्मभ्य एव च। रथध्वजेभ्यश्च शरा निष्पेतुर्ब्रह्मवादिनः॥ शरजालेन महता विद्ध्वा माधवयाण्डवौ। ननाद मुदितो द्रौणिर्महामेघौघनिःस्वनम्॥ तस्य तं निनदं श्रुत्वा पाण्डवोऽच्युतमब्रवीत्। पश्य माधव दौरात्म्यं गुरुपुत्रस्य मां प्रति॥ वधं प्राप्तौ मन्यते नौ प्रावेश्य शरवैश्मनि। एषोऽस्मि हन्मि संकल्प शिक्षया च बलेन च॥ अश्वत्थाम्नः शरानस्तान् छित्त्वैकैकं त्रिधा त्रिधा। व्यधमद् भरतश्रेष्ठो नीहारमिव मारुतः॥ तत: संशप्तकान् भूयः साश्वसूतस्थद्विपान्। ध्वजपत्तिगणानुग्रैर्बाणैवर्विव्याध पाण्डवः॥ ये ये दद्दशिरे तत्र यद्यद्रूपास्तदा जनाः। ते ते तत्र शरैर्व्याप्त मेनिरिऽऽत्मानमात्मना॥ ते गाण्डीवप्रमुक्तास्तु नानारूपाः पतत्रिणः। क्रोशे साग्रे स्थितान् प्रन्ति द्विपाश्चं पुरुषान् रणे॥४२ भल्लैश्छिन्नाः करा: पेतुः करिणां मदवर्षिणाम्। यथा वने परशुभिर्निकृत्ता: सुमहाद्रुमाः॥ पश्चात्तु शैलवत् पेतुस्ते गजाः सह सादिभिः। वज्रिवज्रप्रमथिता यथैवाद्रिचयास्तथा॥ गन्धर्वनगराकारान् रथांश्चैव सुकल्पितान्। विनीतैर्जनैयुक्तानास्थितान् युद्धदुर्मदैः॥ शरैर्विशकलीकुर्वन्नमित्राभ्यवीवृषत्। स्वलंकृतानश्वसादीन् पत्तींश्चाहन धनंजयः॥ धनंजययुगान्तकः संशप्तकमहार्णवम्। व्यशोषयत दुःशोषं तीक्ष्णैः शरगभस्तिभिः॥ पुनद्रौणि महशैलं नाराचैर्वज्रसंनिभैः। निर्बिभेद महावेगेस्त्वरन् वज्रीस पर्वतम्॥ तमाचार्यसुतः क्रुद्धः साश्वयन्तारमाशुगैः। युयुत्सुरागमद्योढुं पार्थस्तानच्छिनच्छरान्॥ ततः परमसंक्रुद्धः पाण्डवेऽस्त्राण्यवासृजत्। अश्वत्थामाभिरूपाय गृहानतिथये यथा।॥ अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात्। अपाडक्तेयानिव त्यक्त्वा दाता पाडक्तेयमर्थिनम्॥ राम उवाच ममापराधात् तैः क्षुदैर्हतस्त्वं तात बालिशैः। कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः॥ धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे। मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः॥ किं नु तैर्न कृतं पापं यैर्भवास्तपसि स्थितः। अयुध्यमानो वृद्धः सन् हतः शरशतैः शितैः॥ किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च। अयुध्यमानं धर्मज्ञमेकं हत्वानपत्रपाः॥ विलप्यैवं सकरुणं बहु नानाविधं नृप। प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः॥ ददाह पितरं चाग्नौ रामः परपुरंजयः। प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत॥ संक्रुद्धोऽतिबलः संख्ये शस्त्रमादाय वीर्यवान्। जनिवान् कार्तवीर्यस्य सुतानेकोऽन्तकोपमः॥ तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ। तांश्च सर्वानवामृद्गाद् रामः प्रहरता वरः॥ त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः। समन्तपञ्चके पञ्च चकार रुधिरहदान्॥ स तेषु तर्पयामास भृगुन् भृगुकुलोद्वहः। साक्षाद् ददर्श चर्चीकं स च रामं न्यवारयत्॥ ततो यज्ञेन महता जामदग्न्यः प्रतापवान्। तर्पयामास देवेन्द्रमृत्विग्भ्यः प्रददौ महीम्॥ वेदी चाप्यददद्वैमी कश्यपाय महात्मने। दशव्यामायतां कृत्वा नवोत्सेधां विशाम्पते॥ तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा। व्यभजस्ते तदा राजन् प्रख्याताः खाण्डवायनाः॥ स प्रदाय महीं तस्मै कश्यपाय महात्मने। अस्मिन् महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः॥ एवं वैरमभूत् तस्य क्षत्रियैर्लोकवासिभिः। पृथिवी चापि विजिता रामेणामिततेजसा॥ वैशम्पायन उवाच ततश्चतुर्दशी रामः समयेन महामनाः। दर्शयामास तान् विप्रान्धर्मराजं च सानुजम्॥ स तमानर्च राजेन्द्र भ्रातृभिः सहितः प्रभुः। द्विजानां च परां पूजां चक्रे नृपतिसत्तमः॥ अर्चित्वा जामदग्न्यं स पूजितस्तेन चोदितः। महेन्द्र उष्य तां रात्रि प्रययौ दक्षिणामुखः॥ वैशम्पायन उवाच प्रकृतीनां च तद् वाक्यं देशकालोपबृंहितम्। श्रुत्वा युधिष्ठिरो राजा चोत्तरं प्रत्यभाषत॥ धन्याः पाण्डुसुता नूनं येषां ब्राह्मणपुङ्गवाः। तथ्यान् वाप्यथवातथ्यान् गुणानाहुः समागताः॥ अनुग्राह्या वयं नूनं भवतामिति मे मतिः। यदेवं गुणसम्पन्नानस्मान् बूथ विमत्सराः॥ धृतराष्ट्रो महाराजः पिता मे दैवतं परम्। शासनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाक्षिभिः॥ एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत्। अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा॥ यदि चाहमनुग्राह्यो भवतां सुहृदां तथा। धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुमर्हथ॥ एष नाथो हि जगतो भवतां च मया सह। अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च॥ एतन्मनसि कर्तव्यं भविद्भर्वचनं मम। अनुज्ञाप्याथ तान् राजा यथेष्टं गम्यतामिति॥ पौरजानपदान् सर्वान् विसृज्य कुरुनन्दनः। यौवराज्येन कौन्तेयं भीमसेनमयोजयत्॥ मन्त्रे च निश्चये चैव षाड्गुण्यस्य च चिन्तने। विदुरं बुद्धिसम्पन्न प्रीतिमान् स समादिशत्॥ कृताकृतपरिज्ञाने तथाऽऽयव्ययचिन्तने। संजयं योजयामास वृद्धं सर्वगुणैर्युतम्॥ बलस्य परिमाणे च भक्तवेतनयोस्तथा। नकुलं व्यादिशद् राजा कर्मणां चान्ववेक्षणे॥ परचक्रोपरोधे च दुष्टानां चावमर्दने। युधिष्ठिरो महाराज फाल्गुनं व्यादिदेश ह॥ द्विजानां देवकार्येषु कार्येष्वन्येषु चैव हा धौम्यं पुरोधसां श्रेष्ठं नित्यमेव समादिशत्॥ सहदेवं समीपस्थं नित्यमेव समादिशत्। तेन गोप्यो हि नृपतिः सर्वावस्थो विशाम्पते॥ यान् यानमन्यद् योग्यांश्च येषु येष्विह कर्मसु। तांस्तास्तेष्वेव युयुजे प्रीयमाणो महीपतिः॥ विदुरं संजयं चैव युयुत्सुं च महामतिम्। अब्रवीत् परवीरघ्नो धर्मात्मा धर्मवत्सलः॥ उत्थायोत्थाय तत् कार्यमस्य राज्ञः पितुर्मम। सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथायथम्॥ पौरजानपदानां च यानि कार्याणि सर्वशः। राजानं समनुज्ञाप्य तानि कर्माणि भागशः॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्।। वैशम्पायन उवाच स्तदाभिमन्योर्मुदिताः स्वपक्षाः। विश्रम्य रात्रावुषसि प्रतीताः सभां विराटस्य ततोऽभिजग्मुः॥ सभा तु सा मत्स्यपतेः समृद्धा मणिप्रवेकोत्तमरत्नचित्रा। न्यस्तासना माल्यवती सुगन्धा तामभ्ययुस्ते नरराजवृद्धाः॥ दुभौ विराटदुपदौ नरेन्द्रौ। वृद्धौ च मान्यौ पृथिवीपतीनां पित्रा समं रामजनार्दनौ च॥ पाञ्चालराजस्य समीपतस्तु शिनिप्रवीरः सहरौहिणेयः। मत्स्यस्य राज्ञस्तु सुसंनिकृष्टो जनार्दनश्चैव युधिष्ठिरश्च॥ सुताश्च सर्वे दुपदस्य राज्ञो भीमार्जुनौ माद्रवतीसुतौ च। प्रद्युम्नसाम्बौ च युधि प्रवीरौ विराटपुत्रैश्च सहाभिमन्युः॥ सर्वे च शूराः पितृभिः समाना वीर्येण रूपेण बलेन चैव। उपाविशन् द्रौपदेयाः कुमारा: सुवर्णचित्रेषु वरासनेषुः॥ तथोपविष्टेषु महारथेषु विराजमानाभरणाम्बरेषु। रराज सा राजवती समृद्धा ग्रहैरिव द्यौर्विमलैरुपेता॥ तत: कथास्ते समवाययुक्ताः कृत्वा विचित्राः पुरुषप्रवीराः। तस्थुर्मुहूर्तं परिचिन्तयन्तः कृष्णं नृपास्ते समुदीक्षमाणाः॥ कथान्तमासाद्य च माधवेन संघट्टिताः पाण्डवकार्यहेतोः। ते राजसिंहाः सहिता ह्यशृण्वन् वाक्यं महार्थं सुमहोदयं च॥ श्रीकृष्ण उवाच सर्वैर्भवद्भिर्विदितं यथायं युधिष्ठिरः सौबलेनाक्षवत्याम्। जितो निकृत्यापहृतं च राज्यं वनप्रवासे समयः कृतश्च।॥ शक्तैविजेतुं तरसा महीं च सत्ये स्थितैः सत्यरथैर्यथावत्। पाण्डोः सुतैस्तग्र व्रतमग्ररूपं वर्षाणि षट् सप्त च चीर्णमग्र्यैः॥ मज्ञायमानैर्भवतां समीपे। महात्मभिश्चापि वने निविष्टम्॥ एतैः परप्रेष्यनियोगयुक्त रिच्छद्भिराप्तं स्वकुलेन राज्यम्। एवंगते धर्मसुतस्य राज्ञो दुर्योधनस्यापि च यद्धितं स्यात्॥ तच्चिन्तयध्वं कुरुपुङ्गवानां धर्म्यं च युक्तं च यशस्करं च। अधर्मयुक्तं न च कामयेत राज्यं सुराणामपि धर्मराजः॥ धर्मार्थयुक्तं तु महीपतित्वं ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत्। पित्र्यं हि राज्यं विदितं नृपाणां यथापकृष्टं धृतराष्ट्रपुत्रैः॥ मिथ्योपचारेण यथा ह्यनेन कृच्छ्रे महत् प्राप्तमसह्यरूपम्। न चापि पार्थो विजितो रणे तैः स्वतेजसा धृतराष्ट्रस्य पुत्रैः॥ रभीप्सतेऽनामयमेव तेषाम्। यत् तु स्वयं पाण्डुसुतैर्विजित्य समाहृतं भूमिपतीन् प्रपीड्य॥ तत् प्रार्थयन्ते पुरुषप्रवीराः कुन्तीसुता माद्रवतीसुतौ च। बालास्त्विमे तैर्विविधैरुपायैः सम्प्रार्थिता हन्तुममित्रसंघैः॥ राज्यं जिहीर्षद्भिरसद्भित्रैः सर्वं च तद् वो विदितं यथावत्। तेषां च लोभं प्रसमीक्ष्य वृद्धं धर्मज्ञतां चापि युधिष्ठिरस्य॥ सम्बन्धितां चापि समीक्ष्य तेषां मर्ति कुरुध्वं सहिताः पृथक् च। इमे च सत्येऽभिरताः सदैव तं पालयित्वा समयं यथावत्॥ अतोऽन्यथा तैरुपचर्यमाणा हन्युःसमेतान् धृतराष्ट्रपुत्रान्। तैर्विप्रकारं च निशम्य कार्ये सुहृज्जनास्तान् परिवारयेयुः॥ युद्धेन बाधेयुरिमांस्तथैव तैर्बाध्यमाना युधि तांश्च हन्युः। स्तेषां जयोयेति भवेन्मतं वः॥ स्तेषां विनाशाय यतेयुरेव। न ज्ञायते किं न करिष्यतीति॥ अज्ञायमाने च मते परस्य किं स्यात् समारभ्यतमं मतं वः। तस्मादितो गच्छतु धर्मशील: शुचिः कुलीनः पुरुषोऽप्रमत्तः॥ दूतः समर्थः प्रशमाय तेषां राज्यार्धदानाय युधिष्ठिरस्य। निशम्य वाक्यं तु जनार्दनस्य धर्मार्थयुक्तं मधुरं समं च॥ समाददे वाक्यमथाग्रजोऽस्य सम्पूज्य वाक्यं तदतीव राजन्॥ लोमश उवाच समुद्रं ते समाश्रित्य वारुणं निधिसम्भसः। कालेयाः सम्प्रवर्तन्त त्रैलोक्यस्य विनाशने॥ ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन्। आश्रमेषु च ये सन्ति पुण्येष्वायतनेषु च॥ वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः। अशीतिः शतमष्टौ च नव चान्ये तपस्विनः॥ च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम्। फलमूलाशनानां हि मुनीनां भक्षितं शतम्॥ एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा। भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः॥ वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिषूदिताः। एवं क्रमेण सर्वांस्तानाश्रमान् दानवास्तदा॥ निशायां परिबाधन्ते मत्ता भुजबलाश्रयात्। कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान् बहून्॥ न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम। एवं प्रवृत्तान् दैत्यांस्तांस्तापसेषु तपस्विषु॥ प्रभाते समदृश्यन्त नियताहारकर्शिताः। महीतलस्था मुनयः शरीरैर्गतजीवितैः॥ क्षीणमांसैविरुधिरैर्विमज्जान्त्रैविसंधिभिः। आकीर्णैराबभौ भूमिः शङ्खानामिव राशिभिः॥ कलशैविप्रविबैश्च सुवैर्भग्नैस्तथैव च। विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता॥ नि:स्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम्। जगदासीनिरुत्साहं कालेयभयपीडितम्॥ एवं संक्षीयमाणाश्च मानवा मनुजेश्वर। आत्मत्राणपराभीताः प्राद्रवन्त दिशो भयात्॥ केचिद् गुहा: प्रविविशुर्निर्झरांश्चापरे तथा। अपरे मरणोद्विग्ना भयात् प्राणान् समुत्सृजन्॥ केचिदत्र महेष्वासाः शूराः परमहर्षिताः। मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे॥ न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान्। श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च॥ जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये। आजग्मुः परमामाति त्रिदशा मनुजेश्वर॥ समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे। शरण्यं शरणं देवं नारायणमजं विभुम्॥ तेऽभिगम्य नमस्कृत्य वैकुण्ठमपराजितम्। ततो देवाः समस्तास्ते तदोचुर्मधुसूदनम्॥ त्वं न स्रष्टा च भर्ता च हर्ता च जगतः प्रभो। त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच् नेङ्गति॥ त्वया भूमिः पुरा नष्टा समुद्रात् पुष्करेक्षण। वाराहं वपुराश्रित्य जगदर्थे समुद्धृता॥ आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा। नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम॥ अवध्यः सर्वभूतानां बलिश्चापि महासुरः। वामनं वपुराश्रित्य त्रैलोक्याद् भ्रंशितस्त्वया॥ असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः। यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः॥ एवमादीनि कर्माणि येषां संख्या न विद्यते। अस्माकं भयभीतानां त्वं गतिर्मधुसूदन॥ तस्मात् त्वां देवदेवेश लोकार्थं ज्ञापयामहे। रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात्॥ धृतराष्ट्र उवाच अहो खलु महद् दुःखं कृच्छ्रवासश्च तस्य ह। कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर॥ स देशः क्व नु यत्रासौ वसते धर्मसंकटे। कथं वा स विमुच्येत नरस्तस्मान्महाभयात्॥ एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तदा। कृपा मे महती जाता तस्याभ्युद्धरणेन हि॥ विदुर उवाच उपमानामिदं राजन् मोक्षविद्भिरुदाहृतम्। सुकृतं विन्दते येन परलोकेषु मानवः॥ उच्यते यत् तु कान्तारं महासंसार एव सः। वनं दुर्गं हि यच्चैतत् संसारगहनं हि तत्॥ ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः। या सा नारी बृहत्काया अध्यतिष्ठत तत्र वै॥ तामाहुस्तु जरां प्राज्ञा रूपवर्णविनाशिनीम्। यस्तत्र कूपो नृपते स तु देहः शरीरिणाम्॥ यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः। अन्तकः सर्वभूतानां देहिनां सर्वहार्यसौ॥ कूपमध्ये च या जाता वल्ली यत्र स मानवः। प्रताने लम्बते लग्नो जीविताशा शरीरिणाम्॥ स यस्तु कूपवीनाहे तं वृक्षं परिसर्पति। षड्वक्त्रः कुञ्जरो राजन् स तु संवत्वरः स्मृतः॥ मुखानि ऋतवो मासाः पादा द्वादश कीर्तिताः। ये तु वृक्षं निकृन्तन्ति मूषिकाः सततोत्थिताः॥ रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः। ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः॥ यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम्। तांस्तु कामरसान् विद्याद् यत्र मन्जन्ति मानवाः॥ एवं संसारचक्रस्य परिवृत्तिं विदुर्बुधाः। येन संसारचक्रस्य पाशांश्छिन्दन्ति वै बुधाः॥ संजय उवाच अथ त्विदानीं तुमले विमर्दे द्विषद्भिरको बहुभिः समावृतः। महारणे सारथिमित्युवाच भीमश्चमूं वाहय धार्तराष्ट्रीम्॥ त्वं सारथे याहि जवेन वाहैनृयाम्येतान् धार्तराष्ट्रान् यमाय। संचोदितो भीमसेनेन चैवं स सारथिः पुत्रबलं त्वदीयम्॥ प्रायात् ततः सत्वरमुग्रवेगो यतो भीमस्तद् बलं गन्मुमैच्छत। ततोऽपरे नागरथाश्वपत्तिभिः प्रत्युद्ययुस्तं कुरवः समन्तात्॥ भीमस्य वाहाण्यमुदारवेगं समन्ततो बाणगणैर्निजघ्नुः। ततः शरानापततो महात्मा चिच्छेद बाणैस्तपनीयपुखैः॥ ते वै निपेतुस्तपनीयपुङ्खा द्विधा त्रिधा भीमशरैर्निकृताः। ततो राजन् नगरथाश्वयूनां भीमहतानां वरराजमध्ये॥ घोरो निनादः प्रबभौ नरेन्द्र वजाहतानामिव पर्वतानाम्। ते वध्यमानाश्च नरेन्द्रमुख्या निर्भिद्यन्तो भीमशरप्रवेकैः॥ भीमं समन्तात् समरेऽभ्यरोहन् वृक्षं शकुन्ता इव जातपक्षाः। ततोऽभियाते तव सैन्ये स भीमः प्रादुश्चके वेगमनन्तवेगः॥ भूतान्तकृत काल इवात्तदण्डः। तस्यातिवेगस्य रणेऽतिवेगं नाशक्नुवन् वारयितुं त्वदीयाः॥ व्यात्ताननस्यापततो यथैव कालस्य काले हरतः प्रजा वै। ततो बलं भारत भारतानां प्रदह्यमानं समरे महात्मना॥ भीतं दिशोऽकीर्यत भीमनुन्नं महानिलेनाभ्रगणा यथैव। ततो धीमान् सारथिमबभीद् बली स भीमसेनः पुनरेव हृष्टः॥ सूताभिजानीहि स्वकान् परान् वा रथान् ध्वजांश्चापततः समेतान्। न्मा सैन्यं स्वं छादयिष्ये पृषत्कैः॥ अरीन् विशोकाभिनिरीक्ष्य सर्वतो मनस्तु चिन्ता प्रदुनोति मे भृशम्। राजाऽऽतुरो नागमद् यत् किरीटी बहूनि दुःखान्यभियातोऽस्मि सूत॥ एतद् दुःखं सारथे धर्मराजो यन्मां हित्वा यातवाशत्रुमध्ये। नैनं जीवं नाद्य जानाम्यजीवं बीभत्सुं वा तन्ममाद्यातिदुःखम्॥ सोऽहं द्विषत्सैन्यमुदग्रकल्पं विनाशयिष्ये परमप्रतीतः। एतत्रिहत्याजिमध्ये समेतं प्रीतो भविष्यामि सह त्वयाद्य॥ सर्वांस्तूणान् सायकानामवेक्ष्य किं शिष्टं स्यात् सायकानां रथे मे। का वा जातिः किं प्रमाणं च तेषां ज्ञात्वा व्यक्तं तत् समाचक्ष्व सूत॥ विशोक उवाच षण्मार्गणानामयुतानि वीर क्षुराश्च भल्लाश्च तथायुताख्याः। नाराचानां द्वे सहस्रे च वीर त्रीण्येव च प्रदराणां स्म पार्थ॥ अस्तायुधं पाण्डवेयावशिष्टं न यद् वहेच्छकटं षड्गवीयम्। एतद् विद्वन् मुञ्च सहस्रशोऽपि गदासिबाहुद्रविणं च तेऽस्ति॥ प्रासाश्च मुद्गरा शक्तयस्तोमराश्च मा भैषीस्त्वं सङ्ख्यादायुधानाम्॥ भीमसेन उवाच सूताद्यैनं पश्य भीमप्रयुक्तैः संछिन्दद्धिः पार्थिवानां सुवेगैः। छन्नं बाणैराहवं घोररूपं नष्टादित्यं मृत्युलोकेन तुल्यम्॥ अद्यैतद् वै विदितं पार्थिवानां भविष्यति ह्याकुमारं च सूत। निमग्नो वा समरे भीमसेन एकः कुरून् वा समरे व्यजैषीत्॥ सर्वे संख्ये कुरवो निष्पतन्तु मां वा लोकाः कीर्तयन्त्वाकुमारम्। सर्वानेकस्तानहं पातयिष्ये ते वा सर्वे भीमसेनं तुदन्तु॥ आशास्तारः कर्म चाप्युत्तमं ये तन्मे देवाः केवलं साधयन्तु। आयात्विहाद्यार्जुनः शस्त्रघाती शकस्तूर्णं यज्ञ इवोपहूतः॥ मेते कस्माद् विद्रवन्ते नरेन्द्राः। व्यक्तं धीमान् सव्यसाची नराग्र्यः सैन्यं ह्येतच्छादयात्याशु बाणैः॥ पश्य ध्वजांश्च द्रवतो विशोक नागान् हयान् पत्तिसंघांश्च संख्ये। रथान् विकीर्णाशरशक्तिताडितान् पश्यस्वैतान् रथिनश्चैव सूत॥ आपूर्यते कौरवी चाप्यभीक्ष्णं सेना ह्यसौ सुभृशं हन्यमाना। प्रेस्ता शरैः काञ्चनबर्हिबाजैः॥ एते द्रवन्ति स रथाश्वनागाः पदातिसङ्घातिमर्दयन्तः। सम्मुह्यमानाः कौरवाः सर्व एव द्रवन्ति नागा इव दाहभीताः२६॥ हाहाकृताश्चैव रणे विशोक मुञ्चन्ति नादान् विपुलान् गजेन्द्राः॥ विशोक उवाच किं भीम नैनं त्वमिहाशृणोषि विस्फारितं गाण्डिवस्यातिघोरम्। क्रुद्धेन पार्थेन विकृष्यतोऽद्य कचिन्नेमौ तव की विनष्टौ॥ सर्वे कामाः पाण्डव ते समृद्धाः कपिसी दृश्यते हस्तिसैन्ये। नीलाद घनाद् विद्युतमुचरन्तीं तथा पश्य विस्फुरन्ती धनुाम्॥ कपिसौ वीक्षते सर्वतो वै ध्वजाग्रमारुद्य धनंजयस्य। वित्रासयन् रिपुसघान् विमर्दे बिभेम्यस्मादात्मनैवाभिवीक्ष्य॥ विभ्राजते चातिमात्रं किरीटं विचित्रमेतच्च धनंजयस्य। दिवाकराभो मणिरेष दिव्यो विभ्राजते चैव किरीटसंस्थः॥ पार्श्वे भीमं पाण्डुराभ्रप्रकाशं पश्यस्व शङ्ख देवदत्त सुघोषम्। अभीषुहस्तस्य जनार्दनस्य विगाहमानस्य चमूं परेषाम्॥ रविप्रभं वज्रनाभं क्षुरान्तं पार्थे स्थितं पश्य जनार्दनस्य। चक्रं यशोवर्धनं केशवस्य सदार्चितं यदुभिः पश्य वीर॥ महाद्विपानां सरलट्ठमोपमाः करा निकृत्ताः प्रपतन्त्यमी क्षुरैः। किरीटिना तेन पुनः ससादिनः शरैर्निकृत्ताः कुलिशैरिवाद्रयः॥ तथैव कृष्णस्य च पाञ्चजन्यं महार्हमेतं द्विजराजवर्णम्। कौन्तेय पश्योरसि कौस्तुभं च जाज्वल्यमानं विजया स्त्रजं च॥ ध्रुवं रथाय्यः समुपैति पार्थो विद्रावयन् सैन्यमिदं परेषाम्। हयैर्महाहै रथिनां वरिष्ठः॥ विदारितान् पश्य पतन्त्यमी यथा। तवानुजेनामरराज तेजसा महावनानीव सुपर्णवायुना॥ चतुःशतान् पश्य रथानिमान् हतान् सवाजिसूतान् समरे किरीटिना। महेषुभिः सप्तशतानि दन्तिनां पदातिसादींश्च रथाननेकशः॥ अयं समभ्येति तवान्तिकं बली निघ्नन् कुरूंचित्र इव ग्रहोऽर्जुनः। समृद्धकामोऽसि हतास्तवाहिता बलं तवायुश्च चिराय वर्धताम्॥ भीमसेन उवाच ददानि ते ग्रामवरांश्चतुर्दश प्रियाख्याने सारथे सुप्रसन्नः। दासीशतं चापि रथांश्च विंशति यदर्जुनं वेदयसे विशोक॥ युधिष्ठिर उवाच ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन। वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः॥ वासुदेव उवाच शृणुष्वावहितो राजन् द्विजानां भरतर्षभ। यथा तत्त्वेन वदतो गुणान् वै कुरुसत्तम॥ द्वारवत्यां समासीनं पुरा मां कुरुनन्दन। प्रद्युन्म: परिपप्रच्छ ब्राह्मणैः परिकोपितः॥ किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन। ईश्वरत्वं कुतस्तेषामिहैव च परत्र च॥ सदा द्विजातीन् सम्पूज्य किं फलं तत्र मानद। एतद् ब्रूहि स्फुटं सर्वे सुमहान् संशयोऽत्र मे॥ इत्युक्ते वचने तस्मिन् प्रद्युम्नेन तथा त्वहम्। प्रत्यब्रुवं महाराज यत् तच्छृणु समाहितः॥ व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे। एते हि सोमराजान ईश्वराः सुखदुःखयोः॥ अस्मिल्लोकै रौक्मिणेय तथामुष्मिंश्च पुत्रका ब्राह्मणप्रमुखं सौम्यं न मेऽत्रास्ति विचारणा॥ ब्राह्मणप्रतिपूजायामायुः कीर्तिर्यशो बलम्। लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूजकाः॥ त्रिवर्गे चापवर्गे च यश:श्रीरोगशान्तिषु। देवतापितृपूजासु संतोष्याश्चैव नो द्विजाः॥ तत्कथं वै नाद्रियेयमीश्वरोऽस्मीति पुत्रका मा ते मन्युर्महाबाहो भवत्वत्र द्विजान् प्रति॥ ब्राह्मणा हि महद्भूतमस्मिल्लोके परत्र चा भस्म कुयुर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः॥ अन्यानपि सृजेयुश्च लोकालोकेश्वरांस्तथा। कथं तेषु न वर्तेरन् सम्यग् ज्ञानात् सुतेजसः॥ अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः। चीरवासा बिल्वदण्डी दीर्घश्मश्रुः कृशो महान्॥ दीर्धेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि। स स्वैरं चरते लोकान् ये दिव्या ये च मानुषाः॥ इमां गाथां गायमानश्चत्वरेषु सभासु च। दुर्वाससं वासयेत् को ब्राह्मणं सत्कृतं गृहे।॥ रोषणः सर्वभूतानां सूक्ष्मेऽप्यपकृते कृते। परिभाषां च मे श्रुत्वा को नु दद्यात् प्रतिश्रयम्॥ यो मां कश्चिद् वासयीत न स मां कोपयेदिति। यस्मान्नाद्रियते कश्चित् ततोऽहं समवासयम्॥ स सम्भुङ्क्ते सहस्राणां बहूनामन्नमेकदा। एकदा सोऽल्पकं भुङ्क्ते न चैवैति पुनर्गृहान्॥ अकस्माच्च प्रहसति तथाकस्मात् प्ररोदिति। न चास्य वयसा तुल्यः पृथिव्यामभवत् तदा॥ अथ स्वावसथं गत्वा स शय्यास्तरणानि च। कन्याश्चालंकृता दग्ध्वा ततो व्यपगतः पुनः॥ अथ मामब्रवीद् भूयः स मुनिः संशितव्रतः। कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः॥ तदैव तु मया तस्य चित्तज्ञेन गृहे जनः। सर्वाण्यन्नानि पानानि भक्ष्याश्चोच्चावचास्तथा॥ भवन्तु सत्कृतानीह पूर्वमेव प्रचोदितः। ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम्॥ तं भुक्त्वैव स तु क्षिप्रं ततो वचनमब्रवीत्। क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह॥ अविमृश्यैव च ततः कृतवानस्मि तत् तथा। तेनोच्छिष्टेन गात्राणि शिरश्चैवाभ्यमक्षयम्॥ स ददर्श तदाभ्याशे मातरं ते शुभाननाम्। तामपि स्मयमानां स पायसेनाभ्यलेपयम्॥ मुनिः पायसदिग्धाङ्गी रथे तूर्णमयोजयत्। तमारुह्य रथं चैव निर्ययौ स गृहान्मम॥ अग्निवर्णो ज्वलन् धीमान् स द्विजो रथधुर्यवत्। प्रतोदेनातुदद् वाला रुक्मिणी मम पश्यतः॥ न च मे स्तोकमप्यासीद् दुःखीमीर्ष्याकृतं तदा। तथा स राजमार्गेण महता निर्ययौ बहिः॥ तद् दृष्ट्वा महदाश्चर्ये दाशार्हा जातमन्यवः। तत्राजल्पन् मिथः केचित् समाभाष्य परस्परम्॥ ब्राह्मणा एव जायेरन् नान्यो वर्णः कथंचन। को ह्येनं रथमास्थाय जीवेदन्यः पुमानिह॥ आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरो द्विजः। ब्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः॥ तस्मिन् व्रजति दुर्धर्षे प्रास्खलद् रुक्मिणी पथि। तन्नामर्षयत श्रीमांस्ततस्तूर्णमचोदयत्॥ ततः परमसंक्रुद्धो रथात् प्रस्कन्ध स द्विजः। पदातिरुत्पथेनैव प्राद्रवद् दक्षिणामुखः॥ तमत्पथेन धावन्तमन्वधावं द्विजोत्तमम्। तथैव पायसादिग्धः प्रसीद भगवन्निति॥ ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह। जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज॥ न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत। प्रीतोऽस्मि तव गोविन्द वृणु कामान् यथेप्सितान्।।३८ प्रसन्नस्य च मे तात पश्य व्युष्टिं यथाविधि। यावदेव मनुष्याणामन्ने भावो भविष्यति॥ यथैवान्ने तथा तेषां त्वयि भावो भविष्यति। यावच्च पुण्या लोकेषु त्वयि कीर्तिर्भविष्यति॥ त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे। सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन॥ यत्ते भिन्नं च दग्धं य यच्च किंचिद् विनाशितम्। सर्वं तथैव द्रष्टासि विशिष्टं वा जनार्दन॥ यावदेतत् प्रलिप्तं ते गात्रेषु मधुसूदन। अतो मृत्युभयं नास्ति यावदिच्छसि चाच्युत॥ न तु पादतले लिप्ते कस्मात्ते पुत्रकाद्य वै। नैतन्मे प्रियमित्येवं स मां प्रीतोऽब्रवीत् तदा॥ इत्युक्तोऽहं शरीरं स्वं ददर्श श्रीसमायुतम्। रुक्मिणी चाब्रवीत् प्रीत: सर्वस्त्रीणां वरं यश:।४५ कीर्ति चानुत्तमां लोके समवाप्स्यसि शोभने। न त्वां जरा वा रोगो वा वैवयं चापि भाविनि।।४६ स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधयिष्यसि। षोडशानां सहस्राणां वधूनां केशवस्य ह॥ वरिष्ठा च सलोक्या च केशवस्य भविष्यसि। तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत्॥ प्रस्थितः सुमहातेजा दुर्वासाग्निरिव ज्वलन्। एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव॥ इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत। तस्मिन्नन्तर्हिते चाहमुपांशुव्रतमाचरम्॥ यत्किचिद् ब्राह्मणो ब्रूयात् सर्वं कुर्यामिति प्रभो। एतद् व्रतमहं कृत्वा मात्रा ते सह पुत्रक॥ ततः परमहष्टात्मा प्राविशं गृहमेव च। प्रविष्टमात्रश्च गृहे सर्वं पश्यामि तनवम्॥ यद् भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रका ततोऽहं विस्मयं प्राप्तः सर्वे दृष्ट्वा नवं दृढम्॥ अपूजयं च मनसा रौक्मिणेय सदा द्विजान्। इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ॥ माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा। तथा त्वमपि कौन्तेय ब्राह्मणान् सततं प्रभो॥ पूजयस्व महाभागान् वाग्भिर्दानैश्च नित्यदा। एवं व्युष्टिमहं प्राप्तो ब्राह्मणस्य प्रसादजाम्। यच्च मामाह भीष्मोऽयं तत्सत्यं भरतर्षभ॥ मार्कण्डेय उवाच तस्मिञ्जाते महासत्त्वे महासेने महाबले। समुत्तस्थुर्महोत्पाता घोररूपाः पृथग्विधाः॥ स्त्रीपुंसोर्विपरीतं च तथा द्वन्द्वानि यानि च। ग्रहा दीप्ता दिशः खं च ररास च मही भृशम्॥ ऋषयश्च महाघोरान् दृष्ट्वोत्पातान् समन्ततः। अकुर्वञ्छान्तिमुद्विग्ना लोकानां लोकभावनाः॥ निवसन्ति वने ये तु तस्मिश्चैत्ररथे जनाः। तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहितो महान्॥ संगम्य षड्भिः पत्नीभिः सप्तर्षिणामिति स्म ह। अपरे गरुडीमाहुस्त्वयानर्थोऽयमाहृतः॥ यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती। न तु तत् स्वाहया कर्म कृतं जानाति वै जनः॥ सुपर्णी तु वचः श्रुत्वा ममायं तनयस्तिवति। उपगम्य शनैः स्कन्दमाहाहं जननी तव॥ अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम्। तत्यजुः षट् तदा पत्नीविना देवीमरुन्धतीम्॥ षड्भिरेव तदा जातमाहुस्तद्वनवासिनः। सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत॥ अहं जाने नैतदेवमिति राजन् पुनः पुनः। विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः॥ पावकं कामसंतप्तमदृष्टः पृष्ठतोऽन्वगात्। तत् तेन निखिलं सर्वमवबुद्धं यथातथम्॥ विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः। स्तवं दिव्यं सम्प्रचक्रे महासेनस्य चापि सः॥ मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश। जातकर्मादिकास्तस्य क्रियाश्चक्रे महामुनिः॥ षड्वक्त्रस्य तु माहात्म्यं कुक्कुटस्य तु साधनम् शक्त्या देव्याः साधनं च तथा पारिषदामपि॥ विश्वामित्रश्चाकारैतत् कर्म लोकहिताय वै। तस्मादृषिः कुमारस्य विश्रामित्रोऽभवत् प्रियः॥ अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः। अब्रवीच्च मुनीन् सर्वान् नापराध्यन्ति वै स्त्रियः॥ श्रुत्वा तु तत्त्वतस्तस्मात् ते पत्नीः सर्वतोऽत्यजन् मार्कण्डेय उवाच स्कन्दं श्रुत्वा तदा देवा वासवं सहिताऽब्रुवन्॥ अविषाबलं स्कन्दं जहि शक्राशु माचिरम्। यदि वा न निहंस्येनं देवेन्द्रोऽयं भविष्यति॥ त्रैलोक्यं संनिगृह्यास्मांस्त्वां च शक्र महाबल। स तानुवाच व्यथितो बालोऽयं सुमहाबलः॥ स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत्। न बालमुत्सहे हन्तुभिति शक्रः प्रभाषते॥ तेऽब्रुवन् नास्ति ते वीर्यं यत् एवं प्रभाषसे। सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः॥ कामवीर्या जन्तु चैनं तथेत्युक्त्वा च ता ययुः। तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः॥ अशक्योऽयं विचन्त्यैवं तमेव शरणं ययुः। ऊचुश्चैनं त्वमस्माकं पुत्रो भव महाबल॥ अभिनन्दस्व नः सर्वाः प्रस्नुताः स्नेहविक्लवाः। तासां तद् वचनं श्रुत्वा पातुकाम: स्तनान् प्रभुः॥ ताः सम्पूज्य महासेन: कामांश्चासां प्रदाय सः। अपश्यदग्निमायान्तं पितरं बलिनां बली॥ स तु सम्पूजजितस्तेन सह मातृगणेन ह। परिवार्य महासेनं रक्षमाणः स्थितः शिवः॥ सर्वासां या तु मातृणां नारी क्रोधसमुद्भवा। धात्री स्वपुत्रवत् स्कन्दं शूलहस्ताभ्यरक्षत॥ लोहितस्योदधेः कन्या क्रूरा लोहितभोजना। परिष्वज्य महासेनं पुत्रवत् पर्यरक्षत॥ अग्निर्भूत्वा नैगमेयश्छागवक्त्रो बहुप्रजः। रमयामास शैलस्थं बालं क्रीडनकैरिव॥ संजय उवाच तद् बलं सुमहद् दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान्। दधारैको रणे राजन् वृषसेनोऽस्त्रमायया॥ शरा दश दिशो मुक्ता वृषसेनेन संयुगे। विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान्॥ तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः। भानोरिव महाराज धर्मकाले मरीचयः॥ तेनार्दिता महाराज रथिनः सादिनस्तथा। निपेतुरुवा॒ सहसा वातभग्ना इव द्रुमाः॥ हयौघांश्च रथौघांश्च गजौघांश्च महारथः। अपातयद् रणे राजशतशोऽथ सहस्रशः॥ दृष्ट्वा तमेकं समरे विचरन्तमभीतवत्। सहिताः सर्वराजानः परिवठ्ठः समन्ततः॥ नाकुलिस्तु शतानीको वृषसेनं समभ्ययात्। विव्याध चैनं दशभिनौराचैर्मर्मभेदिभिः॥ तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत्। तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः॥ कर्णात्मजं शरवातैरदृश्यं चक्रुरञ्जसा। तान् नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः॥ छादयन्तो महाराज द्रोपदेयान् महारथान्। शरैर्नानाविधै स्तूर्णं पर्वताञ्जलदा इव॥ तान् पाण्डवाः प्रत्यगृहंस्त्वरिताः पुत्रगृद्धिनः। पञ्चाला: केकया मत्स्याः सृञ्जयाचोद्यतायुधाः॥ तद् युद्धमभवद् घोरं सुमहल्लोमहर्षणम्। त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः॥ एवं युयुधिरे वीराः संरब्धाः कुरुपाण्डवाः। परस्परमुदीक्षन्तः परस्परकृतागसः॥ तेषां दशरे कोपाद् वपूंष्यमिततेजसाम्। युयुत्सूनामिवाकाशे पतत्रिवरभोगिनाम्॥ भीमकर्णकृपद्रोणद्रोणिपार्षतसात्यकैः। बभासे स रणोद्देश: कालसूर्य इवोदितः॥ तदाऽऽसीत् तुमुलं युद्धं निघ्नतामितरेतरम्। महाबलानां बलिभिर्दानवानां यथा सुरैः॥ ततो युधिष्ठिरानीकमुद्धतार्णवनि:स्वनम्। त्वदीयमवधीत् सैन्यं सम्प्रदुतमहारथम्॥ तत् प्रभग्नं बलं दृष्ट्वा शत्रुभि शमर्दितम्। अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत॥ ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः। प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत्॥ तमाविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः। तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत्॥ चक्ररक्षः कुमारस्तु पञ्चालानां यशस्करः। दधार द्रोणमायान्तं वेलेव सरितां पतिम्॥ द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम्। सिंहनादरवो ह्यासीत् साधु साध्विति भाषितम्॥ कुमारस्तु ततो द्रोणं सायकेन महाहवे। विव्याधोरसि संक्रुद्धः सिंहवच्च नदन् मुहुः॥ संवार्य च रणे द्रोणं कुमारस्तु महाबलः। शरैरनेकसाहौः कृतहस्तो जितश्रमः॥ तं शूरमार्यव्रतिनं मन्त्रास्त्रेषु कृतश्रमम्। चक्ररक्षं परामृनात् कुमारं द्विजपुङ्गवः॥ समध्यं प्राप्य सैन्यानां सर्वा:प्रविचरन् दिशः। तव सैन्यस्य गोप्ताऽऽसीद् भारद्वाजोद्विजर्षभः॥ शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्। नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः॥ युधिष्ठिरं द्वादशभिद्रौपदेयांस्त्रिभिस्त्रिभिः। सात्यकि पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः॥ व्यक्षोभयद् रणे योधान् यथा मुख्यमभिद्रवन्। अभ्यवर्तत सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्॥ युगन्धरस्ततो राजन् भारद्वाजं महारथम्। वारयामास संक्रुद्धं वातोद्धतमिवार्णवम्॥ युधिष्ठिरं स विद्ध्वा तु शरैः संनतपर्वभिः। युगन्धरं तु भल्लेन रथनीडादपातयत्॥ ततो विराटद्रुपदौ केकया: सात्यकिः शिबिः। व्याघ्रदत्तश्च पाञ्चाल्य: सिंहसेनश्च वीर्यवान्॥ एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम्। आवब्रुस्तस्य पन्थानं किरन्तः सायकान् बहून्॥ व्याघ्रदत्तस्तुपाञ्चाल्योद्रोणं विव्याघ मार्गणैः। पञ्चाशता शितै राजंस्तत उच्चुक्रुशुर्जनाः॥ त्वरितं सिंहसेनस्तु द्रोण विद्ध्वा महारथम्। प्राहसत् सहसा हृष्टस्त्रासयन् व महारथान्॥ ततो विस्फार्य नयने धनुर्ध्यामवमृज्य च। तलशब्दं महत् कृत्वा द्रोणस्तं समुपाद्रवत्॥ ततस्तु सिंहसेनस्य शिरः कायात् सकुण्डलम्। व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामाहरबली॥ तान् प्रमथ्य शरवातैः पाण्डवानां महारथान्। युधिष्ठिररथाभ्याशे तस्थौ मृत्युरिवान्तकः॥ ततोऽभवन्महाशब्दो राजन् यौधिष्ठिरे बले। हतो राजेति योधानां समीपस्थे यतव्रते॥ अब्रुवन् सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम्। अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति॥ अस्मिन् मुहूर्ते द्रोणस्तु पाण्डवं गृह्य हर्षितः। आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे॥ एवं संजल्पतां तेषां तावकानां महारथः। आयाज्जवेन कौन्तेयो रथघोषेण नादयन्॥ शोणितोदां रथावर्ती कृत्वा विशसने नदीम्। शुरास्थिचयसंकीर्णां प्रेतकूलापहारिणीम्॥ तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम्। नदीमुत्तीर्थ वेगेन कुरून् विद्राव्य पाण्डवः॥ ततः किरीटी सहसा द्रोणानीकमुपाद्रवत्। छादयन्निषुजालेन महता मोहयन्निव॥ शीघ्रमभ्यस्यतो बाणान् संदधानस्य चानिशम्। नान्तरं ददृशे कश्चित् कौन्तेयस्य यशस्विनः॥ न दिशो नान्तरिक्षं च न द्यौर्नेव च मेदिनी। अदृश्यन्त महाराज बाणभूता इवाभवन्॥ नादृश्यत तदा राजंस्तत्र किंचन संयुगे। बाणान्धकारे महति कृते गाण्डीवधन्वना॥ सूर्ये चास्तमनुप्राप्ते तमसा चाभिसंवृते। नाज्ञायत तदा शत्रुर्न सुहन च कश्चन॥ ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः। तान् विदित्वा पुनस्त्रस्तानयुद्धमनसः परान्॥ स्वान्यनीकानि बीभत्सुः शनकैरवहारयत्। ततोऽभितुष्टुवुः पार्थे प्रहृष्टाः पाण्डुसंजयाः॥ पञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः। एवं स्वशिबिरं प्रायाज्जित्वा शत्रून् धनंजयः॥ पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः॥ वज्रप्रवालस्फटिकैश्च मुख्यैः। चित्रे रथे पाण्डुसुतो बभासे नक्षत्रचित्रे वियतीव चन्द्रः॥ संजय उवाच मध्यन्दिने महाराज संग्रामः समपद्यत। लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः॥ गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम्। व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः॥ सम्ममर्द च तत् सैन्यं पिता देवव्रतस्तव। धान्यानामिव लूनानां प्रकरं गोगणा इव॥ धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा। भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम्॥ धृष्टद्युम्नं ततो विध्वा विराटं च शरैस्त्रिभिः। दुपदस्य च नाराचं प्रेषयामास भारत॥ तेन विद्धा महेष्वासा भीष्मेणामित्रकर्षिणा। चुक्रुधुः समरे राजन् पादस्पृष्टा इवोरगाः॥ शिखण्डी तं च विव्याध भरतानां पितामहम्। स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः॥ धृष्टद्युम्नस्तु समरे क्रोधेनाग्निरिव ज्वलन्। पितामहं त्रिभिर्बाणैर्वाह्वोरुरसि चार्पयत्॥ द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः। शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः॥ सोऽतिविद्धो महाराज शोणितौघपरिप्लुतः। वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ॥ तान् प्रत्यविध्यद् गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः। द्रुपदस्य च भल्लेन धनुचिच्छेद मारिष॥ सोऽन्यत् कार्मुकमादाय भीष्मं विव्याध पञ्चभिः। सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि॥ तथा भीमो महाराज द्रौपद्याः पञ्च चात्मजाः। केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः॥ अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरपुरोगमाः। रिरक्षिषन्तः पाञ्चाल्यं धृष्टद्युम्नपुरोगमाः॥ तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः। प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप॥ तत्रासीत् सुमहद् युद्धं तव तेषां च संकुलम्। नराश्वरथनागानां यमराष्ट्रविवर्धनम्॥ रथी रथिनमासाद्य प्राहिणोद् यमसादनम्। तथेतरान् समासाद्य नरनागाश्वसादिनः॥ अनयन् परलोकाय शरैः संनतपर्वभिः। शरैश्च विविधैर्पोरैस्तत्र तत्र विशाम्पते॥ रथास्तु रथिभि_ना हतसारथयस्तथा। विप्रदुताश्चाः समरे दिशो जग्मुः समन्ततः॥ मृदन्तस्ते नरान् राजन् हयांश्च सुबहून् रणे। वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः॥ रथिनश्च स्थैींना वर्मिणस्तेजसा युताः। कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषणाः॥ देवपुत्रसमाः सर्वे शौर्ये शक्रसमा युधि। ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम्॥ सर्वलोकेश्वराः शूरास्तत्र तत्र विशाम्पते। विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः।।२३। दन्तिनश्च नरश्रेष्ठ हीनाः परमसादिभिः। मृदन्तः स्वान्यनीकानि निपेतुः सर्वशब्दगाः॥ चर्मभिश्चामरैश्चत्रैः पताकाभिश्च मारिष। छत्रैः सिहतैर्हमदण्डैश्चामरैश्च समन्ततः॥ विशीर्णैविप्रधावन्तो दृश्यन्ते स्म दिशो दश। नवमेघप्रतीकाशा जलदोपमनिःस्वनाः॥ तथैव दन्तिभिहींना गजारोहा विशाम्पते। प्रधावन्तोऽन्वदृश्यन्त तव तेषां च संकुले॥ नानादेशसमुत्थांतुरगान हेमभूषितान्। वातायमानानद्राक्षं शतशोऽथ सहस्रशः॥ अश्वारोहान् हतैरश्चैर्ग्रहीतासीन् समन्ततः। द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे॥ गजो गजं समासाद्य द्रवमाणं महाहवे। ययौ प्रमृद्य तरसा पादातान् वाजिनस्तथा॥ तथैव च रथान् राजन् प्रममर्द रणे गजः। रथाश्चैव समासाद्य पतितांस्तुरगान् भुवि॥ व्यमृद्न् समरे राजंस्तुरगाश्च नरान् रणे। एवं ते बहुधा राजन् प्रत्यमृद्न् परस्परम्॥ तस्मिन् रौद्रे तथा युद्धे वर्तमाने महाभये। प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी॥ अस्थिसंघातसम्बाधा केशशैवलशाद्वला। रथह्रदा शरावर्ता हयमीना दुरासदा॥ शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला। कवचोष्णीषफेनौघा धनुर्वेगासिकच्छपा॥ पताकाध्वजवृक्षाढ्या महँकूलापहारिणी। क्रव्यादहंससंकीर्णा यमराष्ट्रविवर्धनी॥ तां नदी क्षत्रियाः शूरा रथनागहयप्लवैः। प्रतेरुर्बहवो राजन् भयं त्यक्त्वा महारथाः॥ अपोवाह रणे भीरून् कश्मलेनाभिसंवृतान्। यथा वैतरणी प्रेतान् प्रेतराजपुरं प्रति॥ प्राक्रोशन् क्षत्रियास्तत्र दृष्ट्वा तद् वैशसं महत्। दुर्योधनापराधेन गच्छन्ति क्षत्रियाः क्षयम्॥ गुणवत्सु कथं द्वेषं धृतराष्ट्रो जनेश्वरः। कृतवान् पाण्डुपुत्रेषु पापात्मा लोभमोहितः॥ एवं बहुविधा वाचः श्रूयन्ते स्म परस्परम्। पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः॥ ता निशम्य ततो वाचः सर्वयोधैरुदाहृताः। आगस्कृत् सर्वलोकस्य पुत्रो दुर्योधनस्तव॥ भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत। युध्यध्वमनहंकाराः किं चिरं कुरुथेति च॥ ततः प्रववृत्ते युद्धं कुरूणां पाण्डवैः सह। अक्षद्यूतकृतं राजन् सुघोरं वैशसं तदा॥ यत् पुरा न निगृह्णासि वार्यमाणो महात्मभिः। वैचित्रवीर्य तस्येदं फलं पश्य सुदारुणम्॥ न हि पाण्डुसुता राजन् ससैन्याः सपदानुगाः। रक्षन्ति समरे प्राणान् कौरवा वापि संयुगे॥ एतस्मात् कारणाद् घोरो वर्तते स्वजनक्षयः। दैवाद् वा पुरुषव्याघ्र तव चापनयानृप॥ वैशम्पायन उवाच श्रुत्वा स राजा राजर्षेरिन्द्रद्युम्नस्य तत् तदा। मार्कण्डेयान्महाभागात् स्वर्गस्य प्रतिपादनम्॥ युधिष्ठिरो महाराज पुनः पप्रच्छ तं मुनिम्। कीदृशीषु ह्यवस्थासु दत्त्वा दानं महामुने॥ इन्द्रलोकं त्वनुभवेत् पुरुषस्तद् द्रवीहि मे। गार्हस्थ्येऽप्यथवा बाल्ये यौवने स्थविरेऽपि वा। यथा फलं समश्याति तथा त्वं कथयस्व मे॥ मार्कण्डेय उवाच वृथा जन्मानि चत्वारि वृथा दानानि षोडश। वृथा जन्म ह्यपुत्रस्य ये च धर्मबहिष्कृताः॥ परपाकेषु येऽश्नन्ति आत्मार्थं च पचेत् तु यः। पर्यश्नन्ति वृथा ये च तदसत्यं प्रकीर्त्यते।५॥ आरूढपतिते दत्तमन्यायोपहृतं च यत्। व्यर्थंतु पतिते दानं ब्राह्मणे तस्करे तथा॥ गुरौ चानृतिके पापे कृतघ्ने ग्रामयाजके। वेदविक्रयिणे दत्तं तथा वृषलयाजके॥ ब्रह्मबन्धुषु यद् दत्तं यद् दत्तं वृषलीपतौ। स्त्रीजनेषु च यद् दत्तं व्यालग्राहे तथैव च॥ परिचारकेषु यद् दत्तं वृथा दानानि षोडश। तमोवृतस्तु यो दद्याद् भयात् क्रोधात् तथैव च।॥ भुङ्क्ते च दानं तत् सर्वं गर्भस्थस्तु नरः सदा। ददद् दानं द्विजातिभ्यो वृद्धभावेन मानवः॥ तस्मात् सर्वास्ववस्थासु सर्वदानानि पार्थिव दातव्यानि द्विजातिभ्यः स्वर्गमार्गजिगीषया॥ युधिष्ठिर उवाच चातुर्वर्ण्यस्य सर्वस्य वर्तमानाः प्रतिग्रहे। केन विप्रा विशेषेण तारयन्ति तरन्ति च॥ मार्कण्डेय उवाच जपैर्मन्त्रैश्च होमैश्च स्वाध्यायाध्ययनेन च। नावं वेदमयीं कृत्वा तारयन्ति तरन्ति च॥ ब्राह्मणांस्तोषयेद् यस्तु तुष्यन्ते तस्य देवताः। वचनाच्चापि विप्राणां स्वर्गलोकमवाप्नुयात्॥ पितृदैवतपूजाभिर्ब्राह्मणाभ्यर्चनेन च। अनन्तं पुण्यलोकं तु गन्तासि त्वं न संशयः॥ श्लेष्मादिभिर्व्याप्ततनुम्रियमाणो विचेतनः। ब्राह्मणा एव सम्पूज्याः पुण्यं स्वर्गमभीप्सता।१६।। श्राद्धकाले तु यत्नेन भोक्तव्या ह्यजुगुप्सिताः। दुर्वर्णः कुनखी कुष्ठी मायावी कुण्डगोलकौ॥ वर्जनीयाः प्रयलेन काण्डपृष्ठाश्च देहिनः। जुगुप्सितं हि यच्छ्राद्धं दहत्यग्निरिवेन्धनम्॥ ये ये श्राद्धे न युज्यन्ते मूकान्धबधिरादयः। तेऽपि सर्वे नियोक्तव्या मिश्रिता वेदपारगैः॥ प्रतिग्रहश्च वै देयः शृणु यस्य युधिष्ठिर। प्रदातारं तथाऽऽत्मानं यस्तारयति शक्तिमान्॥ तस्मिन् देयं द्विजे दानं सर्वागमविजानता। प्रदातारं यथाऽऽत्मानं तारयेद् यः स शक्तिमान्॥ न तथा हविषो होमैन पुष्पैर्नानुलेपनैः। अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिभोजने॥ तस्मात् त्वं सर्वयत्नेन यतस्वातिथिभोजने। पादोदकं पादघृतं दीपमन्नं प्रतिश्रयम्॥ प्रयच्छन्ति तु ये राजन् नोपसर्पन्ति ते यमम्। देवमाल्यापनयनं द्विजोच्छिष्टावमार्जनम्॥ आकल्प: परिचर्या च गात्रसंवाहनानि च। अत्रैकैकं नृपश्रेष्ठ गोदानाद्ध्यतिरिच्यते॥ कपिलायाः प्रदानात् तु मुच्यते नात्र संशयः। तस्मादलंकृतां दद्यात् कपिलां तु द्विजातये॥ श्रोत्रियाय दरिद्राय गृहस्थायाग्निहोत्रिणे। पुत्रदाराभिभूताय तथा ह्यनुपकारिणे॥ एवंविधेषु दातव्या न समृद्धेषु भारत। को गुणो भरतश्रेष्ठ समृद्धेष्वभिवर्जितम्॥ एकस्यैका प्रदातव्या न बहूनां कदाचन। सा गौर्विक्रयमापन्ना हन्यात् त्रिपुरुषं कुलम्॥ न तारयति दातारं ब्राह्मणं नैव नैव तु। सुवर्णस्य विशुद्धस्य सुवर्णं यः प्रयच्छति॥ सुवर्णानां शतं तेन दत्तं भवति शाश्वतम्। अनड्वाहं तु यो दद्याद् बलवन्तं धुरंधरम्॥ स लिस्तरति दुर्गाणि स्वर्गलोकं च गच्छति। वसुन्धरां तु यो दद्याद् द्विजाय विदुरात्मने।॥ दातारं ह्यनुगच्छन्ति सर्वे कामाभिवाञ्छिताः। पृच्छन्ति चात्र दातारं वदन्ति पुरुषा भुवि॥ अध्वनि क्षीणगात्राश्च पांसुपादावगुण्ठिताः। तेषामेव श्रमार्तानां यो ह्यन्नं कथयेद् बुधः॥ अन्नदातृसमः सोऽपि कीयंते नात्र संशयः। तस्मात् त्वं सर्वदानानि हित्वान्नं सम्प्रयच्छ हा॥ न हीदृशं पुण्यफलं विचित्रमिह विद्यते। यथाशक्ति च यो दद्यादन्नं विप्रेषु संस्कृतम्॥ स तेन कर्मणाऽऽमोति प्रजापतिसलोकताम्। अन्नमेव विशिष्टं हि तस्मात् परतरं न च॥ अन्नं प्रजापतिश्चोक्तः स च संवत्सरो मतः। संवत्सरस्तु यज्ञोऽसौ सर्वं यज्ञे प्रतिष्ठितम्॥ तस्मात् सर्वाणि भूतानि स्थावराणि चराणि च। तस्मादन्नं विशिष्टं हि सर्वेभ्य इति विश्रुतम्॥ येषां तटाकानि महोदकानि वाप्यश्च कूपाश्च प्रतिश्रयाश्च। अन्नस्य दानं मधुरा च वाणी यमस्य ते निर्वचना भवन्ति॥ धान्यं श्रमेणार्जितवित्तसंचितं विप्रे सुशीले च प्रयच्छते यः। वसुन्धरा तस्य भवेत् सुतुष्टा धारां वसूनां प्रतिमुञ्चतीव॥ अन्नदाः प्रथमं यान्ति सत्यवाक् तदनन्तरम्। अयाचितप्रदाता च समं यान्ति त्रयो जनाः॥ वैशम्पायन उवाच कौतूहलसमुत्पन्नः पर्यपृच्छद् युधिष्ठिरः। मार्कण्डेयं महात्मानं पुनरेव सहानुजः॥ यमलोकस्य चाध्वानमन्तरं मानुषस्य च। कीदृशं किम्प्रमाणं वा कथं वा तन्महामुने। तरन्ति पुरुषाश्चैव केनोपायेन शंस मे॥ मार्कण्डेय उवाच सर्वगुह्यतमं प्रश्न पवित्रमृषिसंस्तुतम्। कथयिष्यामि ते राजन् धर्म्य धर्मभृतां वर॥ षडशीतिसहस्राणि योजनानां नराधिप। यमलोकस्य चाध्वानमन्तरं मानुषस्य च॥ आकाशं तदपानीयं घोरं कान्तारदर्शनम्। न तत्र वृक्षच्छाया वा पानीयं केतनानि च॥ विश्रमेद् यत्र वै श्रान्तः पुरुषोऽध्वनि कर्शितः। नीयते यमदूतैस्तु यमस्याज्ञाकरैर्बलात्॥ नराः स्त्रियस्तथैवान्ये पृथिव्यां जीवसंज्ञिताः। ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव॥ हयादीनां प्रकृष्टानि तेऽध्वानं यान्ति वै नराः। संनिवार्यातपं यान्ति छत्रेणैव हि छत्रदाः॥ तृप्ताश्चैवान्नदातारो ह्यतृप्ताश्चाप्यनन्नदाः। वस्त्रिणो वस्त्रदा यान्ति अवस्त्रा यान्त्यवस्त्रदाः॥ हिरण्यदाः सुखं यान्ति पुरुषास्त्वभ्यलंकृताः। भूमिदास्तु सुखं यान्ति सर्वैः कामैः सुतर्पिताः॥ यान्ति चैवापरिक्लिष्टा नराः सस्यप्रदायकाः। नराः सुखतरं यान्ति विमानेषु गृहप्रदाः॥ पानीयदा ह्यतृषिताः प्रहृष्टमनसो नराः। पन्थानं द्योतयन्तश्च यान्ति दीपप्रदाः सुखम्॥ गोप्रदास्तु सुखं यान्ति निर्मुक्ताः सर्वपातकैः। विमानैर्हससंयुक्तैर्यान्ति मासोपवासिनः॥ तथा बर्हिप्रयुक्तैश्च षष्ठरात्रोपवासिनः। त्रिरात्रं क्षपते यस्तु एकभक्तेन पाण्डव॥ अन्तरा चैव नाश्नाति तस्य लोका ह्यनामयाः। पानीयस्य गुणा दिव्याः प्रेतलोकसुखावहाः॥ तत्र पुष्पोदका नाम नदी तेषां विधीयते। शीतलं सलिलं तत्र पिबन्ति ह्यमृतोपमम्॥ ये च दुष्कृतकर्माणः पूयं तेषां विधीयते। एवं नदी महाराज सर्वकामप्रदा हि सा॥ तस्मात् त्वमपि राजेन्द्र पूजयनान् यथाविधि। अध्वनि क्षीणगात्रश्च पथि पांसुसमन्वितः॥ पृच्छते ह्यन्नदातारं गृहमायाति चाशया। तं पूजयाथ यत्नेन सोऽतिथिर्ब्राह्मणश्च सः॥ तं यान्तमनुगच्छन्ति देवाः सर्वे सवासवाः। तस्मिन् सम्पूजिते प्रीता निराशा यान्त्यपूजिते॥ तस्मात् त्वमपि राजेन्द्र पूजयैनं यथाविधि। एतत् ते शतशः प्रोक्तं किं भूयः श्रोतुमिच्छसि॥ युधिष्ठिर उवाच पुनः पुनरहं श्रोतुं कथां धर्मसमाश्रयाम्। पुण्यामिच्छामि धर्मज्ञ कथ्यमानां त्वया विभो॥ मार्कण्डेय उवाच धर्मान्तरं प्रति कथां कथ्यमानां मया नृप। सर्वपापहरां नित्यं शृणुष्वावहितो मम॥ कपिलायां तु दत्तायां यत् फलं ज्येष्ठपुष्करे। तत् फलं भरतश्रेष्ठ विप्राणां पादधावने॥ द्विजपादोदकक्लिन्ना यावत् तिष्ठति मेदिनी। तावत् पुष्करपर्णेन पिबन्ति पितरो जलम्॥ स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः। पितरः पादशौचेन अन्नाद्येन प्रजापतिः॥ यावद् वत्सस्य वै पादौ शिरश्चैव प्रदृश्यते। तस्मिन् काले प्रदातव्या प्रयत्नेनान्तरात्मना॥ अन्तरिक्षगतो वत्सो यावद् योन्यां प्रदृश्यते। तावद् गौ पृथिवी ज्ञेया यावद् गर्भं न मुञ्चति॥ यावन्ति तस्या रोमाणि वत्सस्य च युधिष्ठिर। तावद् युगसहस्राणि स्वर्गलोके महीयते॥ सुवर्णनासां यः कृत्वा सुखुरां कृष्णधेनुकाम्। तिलैः प्रच्छादितां दद्यात् सर्वरत्नैरलंकृताम्॥ प्रतिग्रहं गृहीत्वा यः पुनर्ददति साधवे। फलानां फलमश्नाति तदा दत्त्वा च भारत॥ ससमुद्रगुहा तेन सशैलवनकानना। चतुरन्ता भवेद् दत्त पृथिवी नात्र संशयः॥ अन्तर्जानुशयो यस्तु भुङ्क्ते संसक्तभाजनः। यो द्विजः शब्दरहितं स क्षमस्तारणाय वै॥ अपानपा न गदितास्तथान्ये ये द्विजातयः। जपन्ति संहितां सम्यक् ते नित्यं तारणक्षमाः॥ हव्यं कव्यं च यत् किंचित् सर्वं तच्छ्रोत्रियोऽर्हति। दत्तं हि श्रोत्रिये साधौ ज्वलितेऽग्नौ यथा हुतम्॥ मन्युप्रहरणा विप्रा न विप्राः शस्त्रयोधिनः। निहन्युर्मन्युना विप्रा वज्रपाणिरिवासुरान्॥ धर्माश्रितेयं त कथा कथितेयं तवानघ। यां श्रुत्वा मुनयः प्रीता नैमिषारण्यवासिनः॥ वीतशोकभयक्रोधा विपाप्मानस्तथैव च। श्रुत्वेमां तु कथां राजन् न भवन्तीह मानवाः॥ युधिष्ठिर उवाच किं तच्छौचं भवेद् येन विप्रः शुद्धः सदा भवेत्। तदिच्छामि महाप्राज्ञ श्रोतुं धर्मभृतां वर॥ मार्कण्डेय उवाच वाक् शौचं कर्मशौचं च यच्च शौचं जलात्मकम्। त्रिभिः शौचैरुपेतो यः स स्वर्गी नात्र संशयः॥ सायं प्रातश्च संध्यां यो ब्राह्मणोऽभ्युपसेवते। प्रजपन् पावनी देवीं गायत्री वेदमातरम्॥ स तया पावितो देव्या ब्राह्मणो नष्टकिल्बिषः। न सीदेत् प्रतिगृहणनो महीमपि ससागराम्॥ ये चास्य दारुणाः केचिद् ग्रहाः सूर्यादयो दिवि। ते चास्य सौम्या जायन्ते शिवाः शिवतराः सदा॥ चैनं दारुणाः पिशिताशनाः। घोररूपा महाकाया धर्षयन्ति द्विजोत्तमम्॥ नाध्यापनाद् याजनाद् वा अन्यस्माद् वा प्रतिग्रहात्। दोषो भवति विप्राणां ज्वलिताग्निसमा द्विजाः॥ सर्वे नानुगतं दुर्वेदा वा सुवेदा वा प्राकृताः संस्कृतास्तथा। ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः॥ यथा श्मशाने दीप्तौजाः पावको नैव दुष्यति। एवं विद्वानविद्वान् वा ब्राह्मणो दैवतं महत्॥ प्राकारैश्च पुरद्वारैः प्रासादैश्च पृथग्विधैः। नगराणि न शोभन्ते हीनानि ब्राह्मणोत्तमैः॥ वेदाढ्या वृत्तसम्पन्ना ज्ञानवन्तस्तपस्विनः। यत्र तिष्ठति वै विप्रास्तन्नाम नगरं नृप॥ व्रजे वाप्यथवारण्ये यत्र सन्ति बहुश्रुताः। तत् तन्नगरमित्याहुः पार्थ तीर्थं च तद् भवेत्॥ रक्षितारं च राजानं ब्राह्मणं च तपस्विनम्। अभिगम्याभिपूज्याथ सद्यः पापात् प्रमुच्यते॥ पुण्यतीर्थाभिषेकं च पवित्राणां च कीर्तनम्। सद्भिः सम्भाषणं चैव प्रशस्तं कीर्त्यते बुधैः॥ साधुसङ्गमपूतेन वाक्सुभाषितवारिणा। पवित्रीकृतमात्मानं सन्तो मन्यन्ति नित्यशः॥ त्रिदण्डधारणं मौनं जटाभारोऽथ मुण्डनम्। वल्कलाजिन संवेष्टं व्रतचर्याभिषेचनम्॥ अग्निहोत्रं वने वासः शरीरपरिशोषणम्। सर्वाण्येतानि मिथ्या स्युर्यदि भावो न निर्मलः॥ न दुष्करमनाशित्वं सुकर ह्यशनं विना। विशुद्धिं चक्षुरादीनां षण्णामिन्द्रियगामिनाम्॥ विकारि तेषां राजेन्द्र सुदुष्करकरं मनः। ये पापानि न कुर्वन्ति मनोवाक्कर्मबुद्धिभिः। ते तपन्ति महात्मानो न शरीरस्य शोषणम्॥ न ज्ञातिभ्यो दया यस्य शुक्लदेहोऽविकल्मषः। हिंसा सा तपसस्तस्य नानाशित्वं तपः स्मृतम्॥ तिष्ठन् गृहे चैव मुनिर्नित्यं शुचिरलंकृतः। यावज्जीवं दयावांश्च सर्वपापैः प्रमुच्यते॥ न हि पापानि कर्माणि शुद्ध्यन्त्यनशनादिभिः। सीदत्यनशनादेव मांसशोणितलेपनः॥ अज्ञातं कर्म कृत्वा च क्लेशो नान्यत् प्रहीयते। नाग्निर्दहति कर्माणि भावशून्यस्य देहिनः॥ पुण्यादेव प्रव्रजन्ति शुद्ध्यन्त्यनशनानि च। न मूलफलभक्षित्वान्न मौनान्नानिलाशनात्॥ शिरसो मुण्डनाद् वापि न स्थानकुटिकासनात्। न जटाधारणाद् वापि न तु स्थण्डिलशय्यया॥ नित्यं ह्यनशनाद् वापि नाग्निशुश्रूषणादपि। न चोदकप्रवेशेन न च क्षमाशयनादपि॥ ज्ञानेन कर्मणा वापि जरामरणमेव च। व्याधयश्च प्रहीयन्ते प्राप्यते चोत्तमं पदम्॥ बीजानि ह्यग्निदग्धानि न रोहन्ति पुनर्यथा। ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संयुज्यते पुनः॥ आत्मना विप्रहीणानि काष्ठकुड्योपमानि च। विनश्यन्ति न संदेहः फेनानीव महार्णवे॥ आत्मानं विन्दते येन सर्वभूतगुहाशयम्। श्लोकेन यदि वार्धेन क्षीणं तस्य प्रयोजनम्॥ व्यक्षरादभिसंधाय केचिच्छ्लोकपदाङ्कितैः। शतैरन्यैः सहस्रश्च प्रत्ययो मोक्षलक्षणम्॥ नायं लोकोऽस्ति न परो न सुखं संशयात्मनः। ऊचुर्ज्ञानविदो वृद्धाः प्रत्ययो मोक्षलक्षणम्॥ विदितार्थस्तु वेदानां परिवेद प्रयोजनम्। उद्विजेत् स तु वेदेभ्यो दावाग्नेरिव मानवः॥ शुष्कं तर्कं परित्यज्य आश्रयस्व श्रुतिं स्मृतिम्। एकाक्षराभिसम्बद्धं तत्त्वं हेतुभिरिच्छसि। बुद्धिर्न तस्य सिद्ध्येत साधनस्य विपर्ययात्॥ वेदपूर्वं वेदितव्यं प्रयत्नात् तद् वै वेदस्तस्य वेदः शरीरम्। वेदस्तत्त्वं तत्समासोपलब्धौ क्लीबस्त्वात्मा तत् स वेद्यस्य वेद्यम्॥ वेदोक्तमायुर्देवानामाशिषश्चैव कर्मणाम्। फलत्यनुयुगं लोके प्रभावश्च शरीरिणाम्॥ इन्द्रियाणां प्रसादेन तदेतत् परिवर्जयेत्। तस्मादनशनं दिव्यं निरुद्धेन्द्रियगोचरम्॥ तपसा स्वर्गगमनं भोगो दानेन जायते। ज्ञानेन मोक्षो विज्ञेयस्तीर्थस्नानादधक्षयः॥ वैशम्पायन उवाच एवमुक्तस्तु राजेन्द्र प्रत्युवाच महायशाः। भगवन् श्रोतुमिच्छामि प्रधानविधिमुत्तमम्॥ मार्कण्डेय उवाच यत् त्वमिच्छसि राजेन्द्र दानधर्मं युधिष्ठिर। इष्टं चेदं सदा मह्यं राजन् गौरवतस्तथा॥ शृणु दानरहस्यानि श्रुतिस्मृत्युदितानि च। छायायां करिणः श्राद्धं तत् कर्णपरिवीजिते। दश कल्पायुतानीह न क्षीयेत युधिष्ठिर॥ जीवनाय समाक्लिन्नं वसु दत्त्वा महीयते। वैश्यं तु वासयेद् यस्तु सर्वयज्ञैः स इष्टवान्॥ प्रतिस्रोतश्चित्रवाहाः पर्जन्योऽन्नानुसंचरन्। महाधुरि यथा नावा महापापैः प्रमुच्यते॥ विप्लवे विप्रदत्तानि दधिमस्त्वक्षयाणि च। पर्वसु द्विगुणं दानमृतौ दशगुणं भवेत्॥ अयने विषुवे चैव षडशीतिमुखेषु च। चन्द्रसूर्योपरागे च दत्तमक्षयमुच्यते॥ ऋतुषु दशगुणं वदन्ति दत्तं शतगुणमृत्वयनादिषु ध्रुवम्। र्विषुवति चाक्षयमश्नुते फलम्॥ नाभूमिदो भूमिमश्नाति राजन् नायानदो यानमारुह्य याति। यान् यान् कामान् ब्राह्मणेभ्यो ददाति तांस्तान् कामान् जायमानः स भुङ्क्ते॥ अग्नेरपत्यं प्रथमं सुवर्ण भूवैष्णवी सूर्यसुताश्च गावः। लोकास्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गाश्च महीं च दद्यात्॥ परं हि दानान्न बभूव शाश्वत्तं भव्यं त्रिलोके भवते कुतः पुनः। तस्मात् प्रधानं परमं हि दानं वदन्ति लोकेषु विशिष्टबुद्धयः॥ वसिष्ठ उवाच एवमप्रतिबुद्धत्वादबुद्धजनसेवनात्। सर्गकोटिसहस्राणि पतनान्तानि गच्छति॥ धाम्ना धामसहस्राणि मरणान्तानि गच्छति। तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च।॥ चन्द्रमा इव भूतानां पुनस्तत्र सहस्रशः। लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान्॥ कला पञ्चदशी योनिस्तद्धाम प्रतिबुध्यते। नित्यमेतद् विजानीहि सोमं वै षोडशी कलाम्॥ कलायां जायतेऽजस्रं पुनः पुनरबुद्धिमान्। धाम तस्योपयुञ्जन्ति भूय एवोपजायते॥ षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम्। न तूपयुज्यते देवैर्देवानुपयुनक्ति सा॥ एतामक्षपयित्वा हि जायते नृपसत्तम। सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते॥ तदेव षोडशकलं देहमव्यक्तसंज्ञकम्। ममायमिति मन्वानस्तत्रैव परिवर्तते॥ पञ्चविंशो महानात्मा तस्यैवाप्रतिबोधनात्। विमलस्य विशुद्धस्य शुद्धाशुद्धनिषेवणात्॥ अशुद्ध एव शुद्धात्मा तादृग् भवति पार्थिव। अबुद्धसेवनाच्चापि बुद्धोऽऽप्यबुद्धतां व्रजेत्॥ तथैवाप्रतिबुद्धोऽपि विज्ञेयो नृपसत्तम। प्रकृतेस्त्रिगुणायास्तु सेवनात् त्रिगुणो भवेत्॥ भीष्म उवाच पुनर्भरतवंशस्य हेतुं संतानवृद्धये। वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु॥ ब्राह्मणो गुणवान् कश्चिद् धनेनोपनिमन्त्र्यताम्। विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत् प्रजाः॥ वैशम्पायन उवाच ततः सत्यवती भीष्मं वाचा संसजमानया। विहसन्तीव सनीडमिदं वचनमब्रवीत्॥ सत्यवती उवाच सत्यमेतन्महाबाहो यथा वदसि भारत। विश्वासात् ते प्रवक्ष्यामि संतानाय कुलस्य नः॥ न ते शक्यमनाख्यातुमापद्धर्मं तथाविधम्। त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः॥ तस्मानिशम्य सत्यं मे कुरुष्व यदनन्तरम्। धर्मयुक्तस्य धर्मार्थं पितुरासीत् तरी मम॥ सा कदाचिदहं तत्र गता प्रथमयौवनम्। अथ धर्मविदां श्रेष्ठः परमर्षिः पराशरः॥ आजगाम तरी धीमांस्तरिष्यन् यमुना नदीम्। स तार्यमाणो यमुनां मामुपेत्याब्रवीत् तदा॥ सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं वचः। उक्तं जन्म कुलं मह्यमस्मि दाशसुतेत्यहम्॥ तमहं शापभीता च पितुर्भीता च भारत। वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे॥ अभिभूय स मां बालां तेजसा वशमानयत्। तमसा लोकमावृत्य नौगतामेव भारत॥ मत्स्यगन्धो महानासीत् पुरा मम जुगुप्सितः। तमपास्य शुभं गन्धमिमं प्रादात् स मे मुनिः॥ ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम्। द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि॥ पाराशर्यो महायोगी स बभूव महानृषिः। कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः॥ यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः। लोके व्यासत्वमापेदे कार्यात् कृष्णत्वमेव च॥ सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः। समुत्पन्नः स तु महान् सह पित्रा ततो गतः॥ स नियुक्तो मया व्यक्तं त्वया चाप्रतिमद्युतिः। भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति॥ स हि मामुक्तवांस्तत्र स्मरेः कृच्छ्रेषु मामिति। तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि॥ तव हनुमते भीष्म नियतं स महातपाः। विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति॥ वैशम्पायन उवाच महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत्। धर्ममर्थं च कामं च त्रीनेतान् योऽनुपश्यति॥ अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम्। कामं कामानुबन्धं च विपरीतान् पृथक् पृथक्॥ यो विचिन्त्य धिया धीरो व्यवस्यति स बुद्धिमान्। तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः॥ उक्तं भवत्या यच्छ्रेयस्तन्मह्यं रोचते भृशम्। वैशम्पायन उवाच ततस्तस्मिन् प्रतिज्ञाते भीष्मेण कुरुनन्दन॥ कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम्। स वेदान् विब्रुवन् धीमान् मातुर्विज्ञाय चिन्तितम्॥ प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन। तस्मै पूजां ततः कृत्वा सुताय विधिपूर्वकम्॥ परिष्वज्य च बाहुभ्यां प्रस्रवैरभ्यषिञ्चता मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तु॥ तामद्भिः परिषिच्यार्ता महर्षिरभिवाद्य च। मातरं पूर्वज: पुत्रो व्यासो वचनमब्रवीत्॥ भवत्या यदभिप्रेतं तदहं कर्तुमागतः। शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव॥ तस्मै पूजां ततोऽकार्षीत् पुरोधाः परमर्षये। स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम्॥ पूजितो मन्त्रपूर्वं तु विधिवत् प्रीतिमाप सः। तमासनगतं माता पृष्ट्वा कुशलमव्ययम्॥ सत्यवत्यथ वीक्ष्यैनमुवाचेदमनन्तरम्। मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे॥ तेषां पिता यथा स्वामी तथा माता न संशयः। विधानविहितः सत्यं यथा मे प्रथमः सुतः॥ विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः। यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः॥ भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे। अयं शान्तनवः सत्यं पालयन् सत्यविक्रमः॥ बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने। स त्वं व्यपेक्षया भ्रातुः संतानाय कुलस्य च॥ भीष्मस्य चास्य वचनानियोगाच्च ममानघ। अनुक्रोशाच भूतानां सर्वेषां रक्षणाय च॥ आनृशंस्याच यद् ब्रूयां तच्छुत्वा कर्तुमर्हसि। यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे॥ रूपयौवनसम्पन्ने पुत्रकामे च धर्मतः। तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक॥ अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च। व्यास उवाच वेत्थ धर्मं सत्यवति परं चापरमेव च॥ तथा तव महाप्राज्ञे धर्मे प्रणिहिता मतिः। तस्मादहं त्वन्नियोगाद् धर्ममुद्दिश्य कारणम्॥ ईप्सितं ते करिष्यामि दृष्टं ह्येतत् सनातनम्। भ्रातुः पुत्रान् प्रदास्यामि मित्रावरुणयोः समान्॥ व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया। संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः॥ न हि मामव्रतोपेता उपेयात् काचिदङ्गना। सत्यवत्युवाच सद्यो यथा प्रपद्येते देव्यौ गर्भं तथा कुरु॥ अराजकेषु राष्ट्रेषु प्रजानाथा विनश्यति। नश्यन्ति च क्रियाः सर्वा नास्ति वृष्टिर्न देवता॥ कथं चाराजकं राष्ट्र शक्यं धारयितुं प्रभो। तस्माद् गर्भ समाधत्स्व भीष्मः संवर्धयिष्यति॥ व्यास उवाच यदि पुत्रः प्रदातव्यो मया भ्रातुरकालिकः। विरूपतां मे सहतां तयोरेतत् परं व्रतम्॥ यदि मे सहते गन्धं रूपं वेषं तथा वपुः। अद्यैव गर्भ कौसल्या विशिष्टं प्रतिपद्यताम्॥ वैशम्पायन उवाच एवमुक्त्वा महातेजा व्यासः सत्यवतीं तदा। शयने सा च कौसल्या शुचिवस्त्रा ह्यलंकृता॥ समागमनमाका दिति सोऽन्तर्हितो मुनिः। ततोऽभिगम्य सा देवी स्नुषां रहसि संगताम्॥ धर्म्यमर्थसपायुक्तमुवाच वचनं हितम्। कौसल्ये धर्मतन्त्रं त्वां यद् ब्रवीमि निबोध तत्॥ भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात्। व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम्॥ भीष्मो बुद्धिमदान्मह्यं कुलस्यास्य विवृद्धये। सा च बुद्धिस्त्वय्यधीना पुत्रि प्रापय मां तथा॥ नष्टं च भारतं वंशं पुनरेव समुद्धर। पुत्रं जनय सुश्रोणि देवराजसमप्रभम्॥ स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः। सा धर्मतोऽनुनीयैनां कथंचिद् धर्मचारिणीम्। भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा॥ वैशम्पायन उवाच अजिनानि विधु-वन्तः करकांश्च द्विजर्षभाः। ऊचुस्ते भीर्न कर्तव्या वयं योत्स्यामहे परान्॥ तानेवं वदतो विप्रानर्जुनः प्रहसन्निव। उवाच प्रेक्षका भूत्वा यूयं तिष्ठथ पार्श्वतः॥ अहमेनानजिह्मात्रैः शतशो विकिरज्छरैः। वारयिष्यामि संक्रुद्धान् मन्त्रैराशीविपानिव॥ इति तद् धनुरानम्य शुल्कावाप्तं महाबलः। भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः॥ ततः कर्णमुखान् दृष्ट्वा क्षत्रियान् युद्धदुर्मदान्। सम्पेततुरभीतौ तौ गजौ प्रतिगजानिव॥ ऊचुश्च वाचः परुपास्ते राजानो युयुत्सवः। आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः॥ इत्येवमुक्त्वा राजानः सहसा दुद्रुबुद्धिजान्। ततः कर्णो महातेजा जिष्णुं प्रति ययौ रणे॥ युद्धार्थी वासिताहेतोर्गजः प्रतिगजं यथा। भीमसेनं ययौ शल्य मद्राणामीश्वरो बली॥ दुर्योधनादयः सर्वे ब्राह्मणैः सह संगताः। मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे॥ ततोऽर्जुनः प्रत्यविध्यदापतन्तं शितैः शरैः। कर्णं वैकर्तनं श्रीमान् विकृष्य बलवद् धनुः॥ तेषां शराणां वेगेन शितानां तिग्मतेजसाम्। विमुह्यमानो राधेयो यत्नात् तमनुधावति॥ तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ। अयुध्येतां सुसंरब्धावन्योन्यविजिगीषिणौ॥ कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे। इति शूरार्थवचनैरभाषेतां परस्परम्॥ ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि। ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत्॥ अर्जुनेन प्रयुक्तांस्तान् बाणान् वेगवतस्तदा। प्रतिहत्य ननादोच्चैः सैन्यानि तदपूजयन्॥ कर्ण उवाच तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे। अविषादस्य चैवास्य शस्त्रास्त्रविजयस्य च॥ किं त्वं साक्षाद् धनुर्वेदो रामो वा विप्रसत्तम। अथ साक्षाद्धरिहयः साक्षाद् वा विष्णुरच्युतः॥ आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः। विप्ररूपं विधायेदं मन्ये मां प्रतियुध्यसे॥ न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः। पुमान् योधयितुं शक्तः पाण्डवाद् वा किरीटिनः॥ वैशम्पायन उवाच तमेवं वादिनं तत्र फाल्गुनः प्रत्यभाषत। नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान्॥ ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः। ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात्॥ स्थितोऽस्म्यद्य रणे जेतुं त्वां वै वीर स्थिरो भव। एवमुक्तस्तु राधेयो युद्धात् कर्णो न्यवर्तत॥ ब्राह्यं तेजस्तदाजय्यं मन्यमानो महारथः। अपरस्मिन् वनोद्देशे वीरौ शल्यवृकोदरौ॥ बलिनौ युद्धसम्पन्नौ विद्यया च बलेन च। अन्योन्यमाह्वयन्तौ तु मत्ताविव महागजौ॥ मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम्। प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः॥ आचकर्षतुरन्योन्यं मुष्टिभिश्चापि जघ्नतुः। ततश्चटचटाशब्दः सुघोरो ह्यभवत् तयोः॥ पाषाणसम्पातनिभैः प्रहारैरभिजघ्नतुः। मुहूर्तं तौ तदान्योन्यं समरे पर्यकर्षताम्॥ ततो भीमः समुक्षिप्य बाहुभ्यां शल्यमाहवे। अपातयत् कुरुश्रेष्ठो ब्राह्मणा जहसुस्तदा॥ तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः। यच्छल्यं पातितं भूमौ नावधीद् बलिनं बली॥ पातिते भीमसेनेन शल्ये कर्णे च शरूिते। शरूिताः सर्वराजानः परिवर्तृकोदरम्॥ ऊचुश्च सहितास्तत्र साध्विमौ ब्राह्मणर्षभौ। विज्ञायेतां क्वजन्मानौ क्वनिवासौ तथैव च॥ को हि राधासुतं कर्णं शक्तो योधयितुं रणे। अन्यत्र रामाद् द्रोणाद्वा पाण्डवाद्वा किरीटिनः॥ कृष्णाद् वा देवकीपुत्रात् कृपाद् वापि शरद्वतः। को वा दुर्योधनः शक्तः प्रतियोधयितुं रणे॥ तथैव मद्राधिपति शल्यं बलवतां वरम्। बलदेवादृते वीरात् पाण्डवाद् वा वृकोदरात्॥ वीराद् दुर्योधनाद् वान्यः शक्तः पातयितुं रणे। क्रियतामवहारोऽस्माद् युद्धाद् ब्राह्मणसंवृतात्॥ ब्राह्मणा हि सदा रक्ष्याः सापराधापि नित्यदा। अथैनानुपलभ्येह पुनर्योत्स्याम हृष्टवत्॥ तांस्तथावादिनः सर्वान् प्रसमीक्ष्य क्षितीश्वरान्। अथान्यान् पुरुषांश्चापि कृत्वा तत् कर्म संयुगे॥ वैशम्पायन उवाच तत् कर्म भीमस्य समीक्ष्य कृष्ण: कुन्तीसुतौ तौ परिशरूमानः। निवारयामास महीपतींस्तान् धर्मेण लब्धेत्यनुनीय सर्वान्॥ एवं ते विनिवृत्तास्तु युद्धाद् युद्धविशारदाः। यथावासं ययुः सर्वे विस्मिता राजसत्तमाः॥ वृत्तो प्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता। इति ब्रुवन्तः प्रययुर्ये तत्रासन् समागताः॥ ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः। कृच्छ्रेण जग्मतुस्तौ तु भीमसेनधनंजयौ॥ विमुक्तौ जनसम्बाधाच्छत्रुभिः परिवीक्षितौ। कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः॥ पौर्णमास्यां घनर्मुक्तौ चन्द्रसूर्याविवोदितौ। तेषां माता बहुविधं विनाशं पर्यचिन्तयत्॥ अनागच्छत्सु पुत्रेषु भैक्षकालेऽभिगच्छति। धार्तराष्ट्रर्हता न स्युर्विज्ञाय कुरुपुङ्गवाः॥ मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः। विपरीतं मतं जातं व्यासस्यापि महात्मनः॥ इत्येवं चिन्तयामास सुतस्नेहावृता पृथा। ततः सुप्तजनप्राये दुर्दिने मेघसम्प्लुते॥ महत्यथापराहणे तु घनैः सूर्य इवावृतः। ब्राह्मणैः प्राविशत् तत्र जिष्णुर्भार्गववेश्म तत्॥ संजय उवाच श्रुत्वा तु रथनिर्घोषं सिंहनादं च संयुगे। अर्जुनः प्राह गोविन्दं शीघ्र नोदय वाजिनः॥ अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमब्रवीत्। एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः॥ तं यान्तमश्चैर्हिमशङ्खवणैः सुवर्णमुक्तामणिजालनद्धैः। जम्भं जिघासुं प्रगृहीतवज्रं जयाय देवेन्द्रमिवोगमन्युम्॥ रथाश्वमातङ्गपदातिसंघा बाणस्वनैमिखुरस्वनैश्च। संनादयन्तो वसुधां दिशश्च क्रुद्धा नृसिंहा जयमभ्युदीयुः॥ तेषां च पार्थस्य च मारिषसीद् देहासुपापक्षपणं सुयुद्धम्। त्रैलोक्यहेतोरसुरैर्यथाऽऽसीद् देवस्य विष्णोर्जयतां वरस्य॥ देकः प्रचिच्छेद किरीटमाली। क्षुरार्धचन्द्रैर्निशितैश्च भल्लैः शिरांसि तेषां बहुधा च बाहून्॥ नश्वान् रथान् पत्तिगणान् द्विपांश्च। ते पेतुरुवा॒ बहुधा विरूपा वातप्रणुन्नानि यथा वनानि॥ सुवर्णजालावतता महागजाः सवैजयन्तीध्वजयोधकल्पिताः। श्चकाशिरे प्रज्वलिता यथाचलाः॥ विदार्थं नागाश्वरथान् धनंजयः शरोत्तमैर्वासववज्रसंनिभैः। द्रुतं ययौ कर्णजिघांसया तथा यथा मरुत्वान् बलभेदने पुरा॥ ततः स पुरुषव्याघ्रस्तव सैन्यमरिंदमः। प्रविवेश महाबाहुर्मकरः सागरं यथा॥ तं हृष्टास्तावका राजन् स्थपत्तिसमन्विताः। गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन्॥ तेषामापततां पार्थमारावः सुमहानभूत्। सागरस्येव क्षुब्धस्य यथा स्यात् सलिलस्वनः॥ ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः। अभ्यद्रवन्त संग्रामे त्यक्त्वा प्राणकृतं भयम्॥ तेषामापततां तत्र शरवर्षाणि मुञ्चताम्। अर्जुनो व्यधमत् सैन्यं महावातो घनामिव॥ तेऽर्जुन सहिता भूत्वा रथवंशैः प्रहारिणः। अभियाय महेष्वासा विव्यधुर्निशतैः शरैः॥ ततोऽर्जुनः सहस्राणि रथावारणवाजिनाम्। प्रेषयामास विशिखैर्यमस्य सदनं प्रति॥ ते वध्यमाना समरे पार्थचापच्युतैः शरैः। तत्र यत्र स्म लीयन्ते भये जाते महारथाः॥ तेषां चतुःशतान् वीरान् यतमानान् महारथान्। अर्जुनो निशितेर्बाणैरनयद् यमसादनम्॥ ते वध्यमानाः समरे नानालिङ्गै शितैः शरैः। अर्जुनं समभित्यज्य दुद्रुवुर्वे दिशो दश॥ तेषां शब्दो महानासीद् द्रवतां वाहिनीमुखे। महौघस्येव जलधेर्गिरिमासाद्य दीर्यतः॥ तां तु सेनां भृशं विद्ध्वा द्रावयित्वार्जुनः शरैः। प्रायादभिमुखः पार्थः सूतानीकं हि मारिष॥ तस्य शब्दो महानासीत् परानभिमुखस्य वै। गरुडस्येव पततः पन्नगार्थे यथा पुर॥ तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः। भभूव परमप्रीतः पार्थदर्शनलालसः॥ श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान्। त्यक्त्वा प्राणान् महाराज सेनां तव ममर्द ह॥ स वायुवीर्यप्रतिमो वायुवेगसमो जवे। वायुवद् व्यचरद् भीमो वायुपुत्रः प्रतापवान्॥ तेनार्धमाना राजेन्द्र सेना तव विशाम्पते। व्यभ्रश्यत महाराज भिन्ना नौरिव सागरे॥ तां तु सेनां तदा भीमो दर्शयन् पाणिलाघवम्। शरैरवचकतॊग्रैः प्रेषयिष्यन् यमक्षयम्॥ तत्र भारत भीमस्य बलं दृष्ट्वाऽतिमानुषम्। व्यभ्रमन्त रणे योधाः कालस्येव युगक्षये॥ तथादितान् भीमबलान् भीमसेनेन भारत। दृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत्॥ सैनिकांश्च महेष्वासान् योधांश्च भरतर्षभ। समादिशन् रणे सर्वान् हत भीममिति स्म ह॥ तस्मिन् हते हतं मन्ये पाण्डुसैन्यमशेषतः। प्रतिगृह्य च तामाज्ञां तव पुत्रहस्य पार्थिवाः॥ भीमं प्रच्छादयामासुः शरवर्षेः समन्ततः। गजाश्च बहुला राजन् नराश्च जयगृद्धिनः॥ रथे स्थिताश्च राजेन्द्र परिवब्रुर्वृकोदरम्। स तैः परिवृतः शरैः राजन् समन्ततः॥ शुशुभे भरतश्रेष्ठो नक्षत्रैरिव चन्द्रमाः। परिवेषी यथा सोमः परिपूर्णो विराजते॥ स रराज तथा संख्ये दर्शनीयो नरोत्तमः। निर्विशेषो महाराज यथा हि विजयस्तथा।॥ तस्य ते पार्थिवाः सर्वे शरवृष्टिं समासृजन्। क्रोधरक्तेक्षणाः शूरा हन्तुकामा वृकोदरम्॥ तां विदार्य महासेनां शरैः संनतपर्वभिः। निश्चकाम रणाद् भीमो मत्स्यो जालादिवाम्भसि॥३७ हत्वा दशसहस्राणि गजानामनिवर्तिनाम्। नृणां शतसहस्रे द्वे द्वे शते चैव भारत॥ पञ्च चाश्वसहस्राणि रथानां शतमेव च। हत्वा प्रास्यन्दयद् भीमो नदी शोणितवाहिनीम्॥ शोणितोदां रथावर्ता हस्तिग्राहसमाकुलाम्। नरमीनाश्वनक्रान्तां केशशैबलशाद्वलाम्॥ संछिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम्। ऊस्याहां मजपङ्का शीर्षोपलसमावृताम्॥ धनुष्काशां शरावापां गदापरिधकेतनाम्। हंसच्छत्रध्वजोपेतामुष्णीषवरफेनिलाम्॥ हारपद्माकरां चैव भूमिरेणूर्मिमालिनीम्। आर्यवृत्तवतां संख्ये सुतरां भीरुदुस्तराम्॥ योधग्राहवतीं संख्ये वहन्तीं यमसादनम्। क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम्॥ यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः। तथा दुस्तरणी घोरां भीरूणां भयवर्धिनीम्॥ यतो यतः पाण्डवेयः प्रविष्टो रथसत्तमः। ततस्ततोऽघातयत योधाशतसहस्रशः॥ एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे। दुर्योधन महाराज शकुनि वाक्यमब्रवीत्॥ जहि मातुलं संग्रामे भीमसेनं महाबलम्। अस्मिञ्जिते जितं मन्ये पाण्डवेयं महाबलम्॥ ततः प्रायान्महाराज सौबलेयः प्रतापवान्। रणाय महते युक्तो भ्रातृभिः परिवारितः॥ स समासाद्य संग्रामे भीमं भीमपराक्रमम्। वारयामास तं वीरो वेलेव मकरालयम्॥ संन्यवर्तत तं भीमो वार्यमाण: शितैः शरैः। शकुनिस्तस्य राजेन्द्र वामपार्श्वे स्तनान्तरे॥ प्रेषयामास नाराचान् रुक्मपुङ्खाशिलाशितान्। वर्म भित्वा तु ते घोराः पाण्डवस्य महात्मनः॥ न्यमञ्जन्त महाराज कङ्कबर्हिणवाससः। सोऽतिविद्धो रणे भीमः शरं रुक्मविभूषितम्॥ प्रेषयामास स रुषा सौबलं प्रति भारत। तमायान्तं शरं घोरं शकुनिः शत्रुतापनः॥ चिच्छेद सप्तधा राजन् कृतहस्तो महाबलः। तस्मिन् निपतिते भूमौ भीमः क्रुद्धो विशामप्ते॥ धनुश्चिच्छेद भल्लेन सौबलस्य हसन्निव। तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान्॥ अन्यदादाय वेगेन धनुर्भल्लांश्च षोडश। तैस्तस्य तु महाराज भल्लैः संनतपर्वभिः॥ द्वाभ्यां स सारथिं ह्या द् भीमं सप्तभिरेव च। ध्वजमेकेन चिच्छेद द्वाभ्यां छत्रं विशाम्पते॥ चतुर्भिश्चतुरो वाहान् विव्याध सुबलात्मजः। ततः क्रुद्धो महाराज भीमसेनः प्रतापवान्॥ शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम्। सा भीमभुजनिर्मुक्ता नागजिह्वेव चञ्चला॥ निपपात रणे तूर्णं सौबलस्य महात्मनः। ततस्तामेव संगृह्य शक्तिं कनकभूषणाम्॥ भीमसेनाय चिक्षेप क्रुद्धरूपो विशाम्पते। सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः॥ निपपात तदा भूमौ यथा विद्युन्नभश्च्युता। अथोत्क्रुष्टं महाराज धार्तराष्ट्रः समन्ततः॥ न तु तं ममृषे भीमः सिंहनादं तरस्विनाम्। अन्यद् गृह्य धनुः सज्यं त्वरमाणो महाबलः॥ मुहूर्तादिव राजेन्द्र च्छादयामास सायकैः। सौबलस्य बलं संख्ये त्यक्त्वाऽऽत्मानं महाबलः॥६५ तस्याश्वांश्चतुरो हत्वा सूतं चैव विशाम्पते। ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी॥ हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः। तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन्॥ शरैश्च बहुधा राजन् भीममार्च्छत् समन्ततः। प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान्॥ धनुश्चिच्छेद संक्रुद्धो विव्याध च शतैः शरैः। सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः॥ निपपात तदा भूमौ किंचित्प्राणो नराधिपः। ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशाम्पते॥ अपोवाह रथेनाजी भीमसेनस्य पश्यतः। रथस्थे तु नरव्याने धार्तराष्ट्राः पराङ्मुखाः॥ प्रदुद्रुवुर्दिशो भीता भीमाजाते महाभये। सौबले निर्जिते राजन् भीमसेनेन धन्विना॥ भयेन महताऽऽविष्टः पुत्रो दुर्योधनस्तव। अपायाजवनैरश्वैः सापेक्षो मातुलं प्रति॥ पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत। विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः॥ तान् दृष्ट्वा विद्रुतान् सर्वान् धार्तराष्ट्रान् पराङ्मुखान्। जवेनाभ्यापतद् भीमः किरशरशतान् बहून्॥ ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः। कर्णमासाद्य समरे स्थिता राजन् समन्ततः॥ स हि तेषां महावीर्यो द्वीपोऽभूत सुमहाबलः। भिन्ननौका यथा राजन् द्वीपमासाद्य निर्वृताः॥ भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये। तथा कर्णं समासाद्य तावकाः पुरुषर्षभ॥ समाश्वस्ता: स्थिता राजन् सम्प्रहृष्टाः परस्परम्। समाजग्मुश्च युद्धाय मृत्यु कृत्वा निवर्तनम्॥ वैशम्पायन उवाच इत्युक्त्वानुपयौ पार्थं हयं कामविहारिणम्। न्यवर्तत ततो वाजी येन नागाह्वयं पुरम्॥ तं निवृत्तं तु शुश्चाव चारणैव युधिष्ठिरः। श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाऽभवत्॥ विजयस्य च तत् कर्म गान्धारविषये तदा। श्रुत्वा चान्येषु देशेषु स सुप्रीतोऽभवत् तदा॥ एतस्मिन्नेव काले तु द्वादशी माघमासिकीम्। इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः॥ समानाय महातेजाः सर्वान् भ्रातृन् महीपतिः। भीमं च नकुलं चैव सहदेवं च कौरव॥ प्रोवाचेदं वचः काले तदा धर्मभृतां वरः। आमत्र्य वदतां श्रेष्ठो भीमं प्रहरतां वरम्॥ आयाति भीमसेनासौ सहाश्वेन तवानुजः। यथा मे पुरुषाः प्राहुर्ये धनंजयसारिणः॥ उपस्थितश्च कालोऽयमभितो वर्तते हयः। मार्य च पौर्णमासीयं मास: शेषो वृकोदर॥ प्रस्थाप्यन्तां हि विद्वांसो ब्राह्मणा वेदपारगाः। वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम्॥ इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम्। हृष्टः श्रुत्वा गुडाकेशमायान्तं पुरुषर्षभम्॥ ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह। ब्राह्मणानग्रतः कृत्वा कुशलान् यज्ञकर्मणि॥ तं स शालचयं श्रीमत् सप्रतोलीसुघट्टितम्। मापयामास कौरव्यो यज्ञवाट यथाविधि॥ प्रासादशतसम्बाधं मणिप्रवरकुट्टिमम्। कारयामास विधिवद्धरत्नविभूषितम्॥ स्तम्भान् कनकचित्रांश्च तोरणानि बृहन्ति च। यज्ञायतनदेशेषु दत्त्वा शुद्धं च काननम्॥ अन्तःपुराणां राज्ञां च नानादेशसमीयुषाम्। कारयामास धर्मात्मा तत्र तत्र यथाविध॥ ब्राह्मणानां च वेश्मानि नानादेशसमीयुषाम्। कारयामास कौन्तेयो विधिवत् तान्यनेकशः॥ तथा सम्प्रेषयामास दूतान् नृपतिशासनात्। भीमसेनो महाबाहो राज्ञामक्लिष्टकर्मणाम्॥ ते प्रियार्थं कुरुपतेराययुर्नृपसत्तम। रत्नान्यने कान्यादाय स्त्रियोऽश्वानायुधानि च॥ तेषां निविशतां तेषु शिबिरेषु महात्मनाम्। नर्दतः सागरस्येव दिवस्पृगभवत् स्वतः॥ तेषामभ्यागतानां च स राजा कुरुवर्धनः। व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः॥ वाहनानां च विविधाः शाला: शालीक्षुगोरसैः। उपेता भरतश्रेष्ठो व्यादिदेश स धर्मराट्॥ तथा तस्मिन् महायज्ञे धर्मराजस्य धीमतः। समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः॥ ये च द्विजाति प्रवरास्तत्रासन् पृथिवीपते। समाजग्सुः सशिष्यास्तान् प्रतिजग्राह कौरवः॥ सर्वोश्च ताननुययौ यावदावसथान् प्रति। स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः॥ ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा। कृत्स्नं यज्ञविधिं राज्ञो धर्मज्ञाय न्यवेदयन्॥ तच्छ्रुत्वा धर्मराजस्तु कृतं सर्वमतन्द्रितः। हृष्टरूपोऽभवद् राजा सह भ्रातृभिरादृतः॥ वैशम्पायन उवाच तस्मिन् यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः। हेतुवादान् बहूनाहुः परस्परजिगीषवः॥ ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम्। देवेन्द्रस्येव विहितं भीमसेनेन भारता॥ ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते। शय्यासनविहारांश्च सुबहून् रत्नसंचयान्॥ घटान् पात्री: कटाहानि कलशान् वर्धमानकान्। न हि किंचिदसौवर्णमपश्यन् वसुधाधिपाः॥ यूपांश्च शास्त्रपठितान् दारवान् हेमभूषितान्। उपक्लृप्तान् यथाकालं विधिवद् भूरिवर्चसः॥ स्थलजा जलजा ये च पशवः केचन प्रभो। सर्वानेव समानीतानपश्यंस्तत्र ते नृपाः॥ पाश्चैव महिषीश्चैव तथा वृद्धस्त्रियोऽपि च। औदकानि च सत्त्वानि श्वापदानि वयांसि च॥ जरायुजाण्डजातानि स्वेदजान्युद्धिदानि च। पर्वतानूपजातानि भूतानि ददृशुश्च ते११३४॥ एवं प्रमुदितं सर्वे पशुगोधनधान्यतः। यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागताः॥ ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत्। पूर्णे शतसहस्त्रे तु विप्राणां तत्र भुञ्जताम्॥ दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत। विननादासकृच्चापि दिवसे दिवसे गते॥ एवं स ववृते यज्ञो धर्मराजस्य धीमतः। अन्नस्य सुबहून् राजनुत्सर्गान् पर्वतोपमान्॥ दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदान् जनाः। जम्बूद्वीपो हि सकलो नानाजनपदायुतः॥ राजन्नदृश्यतैकस्थो राजस्तस्य महामखे। जत्र जातिसहस्राणि पुरुषाणां ततस्ततः॥ गृहीत्वा भाजनान् जग्मुर्बहूनि भरतर्षभ। स्रग्विणश्चापि ते सर्वे सुमृष्टमाणकुण्डला:॥ पर्यवेषन द्विजातीस्ताशतशोऽथ सहस्रशः। विविधान्यन्नपानानि पुरुषा येऽनुयायिनः। ते वै नृपोपभोज्यानि ब्राह्मणानां ददुश्च ह॥ राजन्नदृश्यतैकस्थो राजस्तस्य महामखे। जत्र जातिसहस्राणि पुरुषाणां ततस्ततः॥ गृहीत्वा भाजनान् जग्मुर्बहूनि भरतर्षभ। स्रग्विणश्चापि ते सर्वे सुमृष्टमाणकुण्डला:॥ पर्यवेषन द्विजातीस्ताशतशोऽथ सहस्रशः। विविधान्यन्नपानानि पुरुषा येऽनुयायिनः। ते वै नृपोपभोज्यानि ब्राह्मणानां ददुश्च ह॥ कपिल उवाच वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतः कृताः। द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्॥ शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति। शरीरमेतत् कुरुते यद् वेदे कुरुते तनुम्॥ कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः। आनन्त्यमत्र बुद्ध्यदं कर्मणां तद् ब्रवीमि ते॥ अनागममनैतिचं प्रत्यक्षं लोकसाक्षिकम्। धर्म इत्येव ये यज्ञान् वितन्वन्ति निराशिषः॥ उत्पन्नत्यागिनोऽलुब्धाः कृपासूयाविवर्जिताः। धनानामेष वै पनास्तीर्थेषु प्रतिपादनम्॥ अनाश्रिताः पापकर्म कदाचित् कर्मयोगिनः। मन:संकल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः॥ अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः। ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः॥ आसन् गृहस्था भूयिष्ठा अव्युत्क्रान्ताः स्वकर्मसु। राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि॥ समा ह्यार्जवसम्पन्नाः संतुष्टा ज्ञाननिश्चयाः। प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे॥ पुरस्ताद् भावितात्मानो यथावच्चरितव्रताः। चरन्ति धर्म कृच्छेऽपि दुर्गे चैवापि संहताः॥ संहत्य धर्मं चरतां पुराऽऽसीत् सुखमेव तत्। तेषां नासीद् विधातव्यं प्रायश्चित्तं कथंचन॥ सत्यं हि धर्ममास्थाय दुराधर्षतमा मताः। न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः॥ य एव प्रथमः कल्पस्तमेवाभ्याचरन् सह। तेषां नासीद् विधातव्यं प्रायश्चित्तं कदाचन॥ तस्मिन् विधौ स्थितानां हि प्रायश्चित्तं न विद्यते। दुर्बलात्मन उत्पन्न प्रायश्चित्तमिति श्रुतिः॥ एवं बहुविधा विप्राः पुराणा यज्ञवाहनाः। विद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः॥ यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः। तेषां यज्ञाश्च वेदाश्च कर्माणि च यथागमम्॥ आगमाच यथाकाले संकल्पाच यथाक्रमम्। अपेतकामक्रोधानां दुश्चराचारकर्मणाम्॥ स्वकर्मभिः संशितानां प्रकृत्या शंसितात्मनाम्। ऋजूनां शमनित्यानां स्वेषु कर्मसु वर्तताम्॥ सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः। तेषामदीनसत्त्वानां दुश्चराचारकर्मणाम्॥ स्वकर्मभिः सम्भृतानां तपो घोरत्वमागतम्। तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम्॥ अशक्नुवद्भिश्चरितुं किंचिद् धर्मेषु सूक्ष्मताम्। निरापद्धर्म आचारो ह्यप्रमादोऽपराभवः॥ सर्ववर्णेषु जातेषु नासीत कश्चिद् व्यतिक्रमः। व्यस्तमेकं चतुर्धा हि ब्राह्मणा आश्रमं विदुः॥ तं सन्तो विधिवत् प्राप्य गच्छन्ति परमां गतिम्। गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः॥ गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः। त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः॥ नक्षत्राणीव धिष्ण्येषु बहवस्तारकागणाः। आनन्त्यमुपसम्प्राप्ताः संतोषादिति वैदिकम्॥ यद्यागच्छन्ति संसारं पुनर्योनिषु तादृशाः। न लिप्यन्ते पापकृत्यैः कदाचित् कर्मयोनितः॥ एवमेव ब्रह्मचारी शुश्रूषुर्घोरनिश्चयः। एवं युक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत्॥ कमैवं पुरुषस्याह शुभं वा यदि वाशुभम्। एवं पक्वकषायाणामानन्त्येन श्रुतेन च।॥ सर्वमानन्त्यमासीद् वै एवं नः शाश्वती श्रुतिः। तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम्॥ चतुर्थोपनिषद् धर्म: साधारण इति स्मृतिः। संसिद्धैः साध्यते नित्यं ब्राह्मणैर्नियतात्मभिः॥ संतोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते। अपवर्गमतिनित्यो यतिधर्मः सनातनः॥ साधारणः केवलो वा यथाबलमुपासते। गच्छतां गच्छतां क्षेमं दुर्बलोऽत्रावसीदति। ब्रह्मणः पदमन्विच्छन् संसारान्मुच्यते शुचिः॥ स्यूमरश्मिरुवाच ये भुञ्जते ये ददते यजन्तेऽधीयते च ये। मात्राभिरुपलब्धाभिर्ये वा त्यागं समाश्रिताः॥ एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः। एतदाचक्ष्व मे ब्रह्मन् यथातत्त्वेन पृच्छतः॥ कपिल उवाच परिग्रहाः शुभाः सर्वे गुणतोऽभ्युदयाश्च ये। न तु त्यागसुखं प्राप्ता एतत् त्वमपि पश्यसि॥ स्यूमरश्मिरुवाच भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः। आश्रमाणां च सर्वेषां निष्ठायामैक्यमुच्यते॥ एकत्वेन पृथक्त्वेन विशेषो नात्र दृश्यते। तद् यथावद् यथान्यायं भगवान् प्रब्रवीतु मे॥ कपिल उवाच शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः। कषाये कर्मभिः पक्वे रसज्ञाने च तिष्ठति।॥ आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम्। अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा शमस्तथा॥ पन्थानो ब्रह्मणस्त्वेते एतैः प्राप्नोति यत्परम्। तद् विद्वाननुबुद्ध्येत मनसा कर्मनिश्चयम्॥ यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः। गतिं गच्छन्ति संतुष्टास्तामाहुः परमां गतिम्॥ वेदांश्च वेदितव्यं च विदित्वा च यथास्थितिम्। एवं वेदविदित्याहुरतोऽन्यो वातरेचकः॥ सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम्। वेदे हि निष्ठा सर्वस्य यद् यदस्ति च नास्ति च॥ एषैव निष्ठा सर्वत्र यत् तदस्ति च नास्ति च। एतदन्त च मध्यं च सच्चासच्च विजानतः॥ समाप्तं त्याग इत्येव सर्ववेदेषु निष्ठितम्। संतोष इत्यनुगतमपवर्गे प्रतिष्ठितम्॥ ऋतं सत्यं विदितं वेदितव्यं सर्वस्यामा स्थावरं जङ्गमं च। सर्वं सुखं यच्छिवमुत्तरं च ब्रह्माव्यक्तं प्रभवश्चाव्ययं च॥ तेजः क्षमा शान्तिरनामयं शुभं तथाविधं व्योम सनातनं ध्रुवम्। स्तस्मै नमो ब्रह्मणे ब्राह्मणाय॥ दानवा ऊचुः भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह। शूरैः परिवृतो नित्यं तथैव च महात्मभिः॥ अकार्षीः साहसमिदं कस्मात् प्रायोपवेशनम्। आत्मत्यागी ह्यधो याति वाच्यतां चायशस्करीम्॥ न हि कार्यविरुद्धेषु बहुपापेषु कर्मसु। मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ नियच्छैनां म.। राजन् धर्मार्थसुखनाशिनीम्। यशः प्रतापवीर्यघ्नीं शत्रूणां हर्षवर्धनीम्॥ श्रूयतां तु प्रभो तत्त्वं दिव्यतां चात्मनो नृप। निर्माणं च शरीरस्य ततो धैर्यमवाप्नुहि॥ पुरा त्वं तपसास्माभिर्लब्धो राजन् महेश्वरात्। पूर्वकायश्च पूर्वस्ते निर्मितो वलासंचयैः॥ अस्त्रैरभेद्यः शस्त्रैश्चाप्यधः कायश्च तेऽनघ। कृतः पुष्पमयो देव्या रूपतः स्त्रीमनोहरः॥ एवमोश्वरसंयुक्तस्तव देहो नृपोत्तम। देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः॥ क्षत्रियाच महावीर्या भगदत्तपुरोगमाः। दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून्।॥ तदलं ते विषादेन भयं तव न विद्यते। साहाय्यार्थं च ते वीराः सम्भूता भुवि दानवाः॥ भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः। यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः॥ नैव पुत्रान् न च भ्रातृन् न पितॄन् न च बान्धवान्। नैव शिष्यान् न च ज्ञातीन् न बालान् स्थविरान् न च।। युधि सम्प्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम। नि:स्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि॥ प्रहरिष्यन्ति विवशा: स्नेहमुत्सृज्य दूरतः। हृष्टाः पुरुषशार्दूला: कलुषीकृतमानसाः। अविज्ञानविमूढाश्च दैवाच्च विधिनिर्मितात्॥ व्याभाषमाणाश्यान्योन्यं न मे जीवन् विमोक्ष्यसे सर्वे शस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः॥ श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम्। तेऽपि पञ्च महात्मानः प्रतियोत्स्यन्ति पाण्डवाः॥ वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः। दैत्यरक्षोगणाश्चैव सम्भूताः क्षत्रयोनिषु॥ योत्स्यन्ति युधि विक्रम्य शत्रुभिस्त्व पार्थिव। गदाभिर्मुसलैः शूलैः शस्त्रैरुच्चावचैस्तथा॥ यच्च तेऽन्तर्गतं वीर भयमर्जुनसम्भवम्। तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै॥ हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः। तद् वैरं संस्मरन् वीर योत्स्यते केशवार्जुनौ॥ स ते विक्रमशौटीरो रणे पार्थं विजेष्यति। कर्णः प्रहरतां श्रेष्ठः सर्वांश्चारीन् महारथः॥ ज्ञात्वैतच्छद्मना वली रक्षार्थं सव्यसाचिनः। कुण्डले कवचं चैव कर्णस्यापहरिष्यति॥ तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः। नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति॥ प्रख्यातास्तेऽर्जुनं वीरं हनिष्यन्ति च मा शुचः। असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप॥ मा विषादं गमस्तस्मान्नैतत्त्वय्युपपद्यते। विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव॥ गच्छ वीर न ते बुद्धिरन्या कार्या कथञ्चन। त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः॥ वैशम्पायन उवाच एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम्। समाश्वास्य च दुर्धर्षं पुत्रवद् दानवर्षभाः॥ स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत। गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ॥ तैर्विसृष्टं महाबाहुं कृत्या सैवानयत् पुनः। तमेव देशं यत्रासौ तदा प्रायमुपाविशत्॥ प्रतिनिक्षिप्य त वीरं कृत्या समभिपूज्य च। अनुज्ञाता च राज्ञा सा तथैवान्तरधीयत॥ गतायामथ तस्यां तु राजा दुर्योधनस्तदा। स्वप्नभूतमिदं सर्वमचिन्तयत भारत॥ विजेष्यामि रणे पाण्डूनिति चास्याभवन्मतिः। कर्ण संशप्तकांश्चैव पार्थस्यामित्रघातिनः॥ अमन्यत वधे युक्तान् समर्थांश्च सुयोधनः। एवमाशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः॥ विनिजये पाण्डवानामभवद् भरतर्षभ। कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना॥ अर्जुनस्य वधे क्रूरां करोति स्म तदा मतिम्। संशप्तकाच ते वीरा राक्षसाविष्टचेतसः॥ रजस्तमोभ्यामाक्रान्ता: फाल्गुनस्य वधैषिणः। भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः॥ न तथा पाण्डुपुत्राणां स्नेहवन्तो विशाम्पते। न चाचचक्षे कस्मैचिदेतद् राजा सुयोधनः॥ दुर्योधनं निशान्ते च कर्णो वैकर्तनोऽब्रवीत्। स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद् वचः॥ न मृतो जयते शत्रूञ्जीवन् भद्राणि पश्यति। मृतस्य भद्राणि कुतः कौरवेय कुतो जयः॥ न कालोऽद्य विषादस्य भयस्य मरणस्य वा। परिष्वज्याब्रवीच्चैनं भुजाभ्यां स महाभुजः॥ उत्तिष्ठ राजन् किं शेषे कस्माच्छोचसि शत्रुइन्। शत्रुन् प्रताप्य वीर्येण स कथं मृत्युमिच्छसि॥ अथवा ते भयं जातं दृष्ट्वार्जुनपराक्रमम्। सत्यं ते प्रतिजानामि वधिष्यामि रणेऽर्जुनम्॥ गते त्रयोदशे वर्षे सत्येनायुधमालभे। आनयिष्याम्यहं पार्थान् वशं तव जनाधिप॥ एवमुक्तस्तु कर्णेन दैत्यानां वचनात् तथा। प्रणिपातेन चाप्येषामुदतिष्ठत् सुयोधनः॥ दैत्यानां तद् वचः श्रुत्वा हदि कृत्वा स्थिरां मतिम्। ततो मनुजशार्दूलो योजयामास वाहिनीम्॥ रथनागाश्वकलिला पदातिजनसंकुलाम्। गगौघप्रतिमा राजन् सा प्रयाता महाचमूः॥ श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः। स्थैर्नागैः पदातैश्च शुशुभेऽतीव संकुला॥ व्यपेताभ्रघने काले द्यौरिवाव्यक्तशारदी। जयाशीभिर्द्विजेन्द्रैः स स्तूयमानोऽधिराजवत्॥ गृहणन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः। सुयोधनो ययावचे श्रिया परमया ज्वलन्।॥ कर्णेन सार्धं राजेन्द्र सौबलेन च देविना। दुःशासनादयश्चास्य भ्रातरः सर्व एव ते॥ भूरिश्रवाः सोमदत्तो महाराजश्च बाह्निकः। स्थैर्नानाविधाकारैर्हयैर्गजधरैस्तथा॥ प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः। कालेनाल्पेन राजेन्द्र स्वपुरं विविशुस्तदा॥ अष्टक उवाच चरन् गृहस्थः कथमेति धर्मान् कथं भिक्षुः कथमाचार्यकर्मा। वानप्रस्थः सत्पथे संनिविष्टो बहून्यस्मिन् सम्प्रति वेदयन्ति॥ ययातिरुवाच आहूताध्यायी गुरुकर्मस्वचोद्यः पूर्वोत्थायी चरमं चोपशायी। मृदुर्दान्तो धृतिमानप्रमत्तः ध्यायशील: सिध्यति ब्रह्मचारी॥ धर्मागतं प्राप्य धनं यजेत दद्यात् सदैवातिथीन् भोयजेच्च। अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत् पुराणी॥ स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी। तादृङ्मुनिः सिद्धिमुपैति मुख्यां वसन्नरण्ये नियताहारचेष्टः॥ अशिल्पजीवी गुणवांश्चैव नित्यं जितेन्द्रियः सर्वतो विप्रयुक्तः। श्चरन् देशानेकचरः स भिक्षुः॥ रात्र्या यया वाभिजिताच लोका भवन्ति कामाभिजिताः सुखाचा नरण्यसंस्थो भवितुं यतात्मा॥ दशैव पूर्वान् दश चापरांश्च ज्ञातीनथात्मानमथैकविंशम्। अरण्यवासी सुकृते दधाति विमुच्यारण्ये स्वशरीरधातून्॥ अष्टक उवाच कतिस्विदेव मुनयः कति मौनानि चाप्युत। भवन्तीति तदाचक्ष्व श्रोतुच्छिामहे वयम्॥ ययातिरुवाच अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः। ग्रामे वा वसतोऽरण्यं स मुनिः स्याजनाधिप॥ अष्टक उवाच कथंस्विद् वसतोऽरण्ये ग्रामो भवति पृष्ठतः। ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः॥ ययातिरुवाच न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत्। तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः॥ अनग्निरनिकेतश्चाप्यगोत्रचरणो मुनिः। कौपीनाच्छादनं यावत् तावदिच्छेच चीवरम्॥ यावत् प्राणाभिसंधानं तावदिच्छेच भोजनम्। तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः॥ यस्तु कामान् परित्यज्य त्यक्तकर्मा जितेन्द्रियः। आतिष्ठेच मुनिर्मीनं स लोके सिद्धिमाप्नुयात्॥ धौतदन्तं कृत्तनखं सदा स्नातमलंकृतम्। असितं सितकर्माणं कस्तमर्हति नार्चितुम्॥ तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः। स च लोकमिमं जित्वा लोकं विजयते परम्॥ यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः। अथ लोकमिमं जित्वा लोकं विजयते परम्॥ आस्येन तु यदाहारं गोवन्मृगयते मुनिः। अथास्य लोकः सर्वोऽयं सोऽमृतत्वाय कल्पते॥ सौतिरुवाच स चापि च्यवनो ब्रह्मम्भार्गवोऽजनयत्सुतम्। सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्॥ प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत्। रुरुः प्रमद्वरायां तु शुनकं समजीजनत्॥ तस्य ब्रह्मन् रुरोः सर्वं चरितं भूरितेजसः। विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः॥ ऋषिरासीन्महान्पूर्वं तयोविद्यासमन्वितः। स्थूलकेश इति ख्यातः सर्वभूतहिते रतः॥ एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान्। गन्धर्वराजो विप्रर्षे विश्वावसुरिति स्मृतः॥ अप्सरा मेनका तस्य तं गर्भं भृगुनन्दन। उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति॥ उत्सृज्य चैव तं गर्भ नद्यास्तीरे जगाम सा। अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा॥ कन्यामरगर्भाभा ज्वलन्तीमिव च श्रिया। तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः॥ स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम्। स तां दृष्ट्वा तदा कन्यां स्थूलकेशो महाद्विजः॥ जग्राह च मुनिश्रेष्ठः कृपाविष्टः पुपोष च। ववृधे सा वरारोहा तस्याश्रमपदे शुभे॥ जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम्। स्थूलकेशो महाभागश्चकार सुमहानृषिः॥ प्रमदाभ्यो वरा सा तु सत्त्वरूपगुणान्विता। ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः॥ तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम्। बभूव किल धर्मात्मा मदनोहतस्तदा॥ पितरं सखिभिः सोऽथ श्रावयामास भार्गवम्। प्रमतिश्चाभ्ययाचत्तां स्थूलकेशं यशस्विनम्॥ ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम्। विवाहं स्थापयित्वाऽग्रे नक्षत्रे भगदैवते॥ ततः कतिपयाहस्य विवाहे समुपस्थिते। सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी॥ नापश्यत्संप्रसुप्तं वै भुजंगं तिर्यगायतम्। पदा चैनं समाक्रामन्मुमूर्षुःकालचोदिता॥ स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा। विषोपलिप्तान्दशनाम्भृशमङ्गे न्यपातयत्॥ सा दष्टा तेन सर्पण पपात सहसा भुवि। विवर्णा विगतश्रीका भ्रष्टाभरणचेतना॥ निरानन्दकरी तेषां बधूनां मुक्तमूर्धजा। व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाऽभवत्॥ प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता। भूयो मनोहरतरा बभूव तनुमध्यमा॥ ददर्श तां पिता चैव ये चैवान्ये तपस्विनः। विचेष्टमानां पतितां भूतले पद्मवर्चसम्॥ ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः। स्वस्त्यात्रेयो महाजानुः कुशिकः शंखमेखलः॥ उद्दालकः कठश्चैव श्वेतश्चैव महायशाः। । भरद्वाजः कौणकुत्स्य आर्टिषेणोऽथ गौतमः॥ प्रमति: सहपुत्रेण तथाऽन्ये वनवासिनः। तां ते कन्यां व्यसुं दृष्ट्वा भुजंगस्य विषार्दिताम्।। रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ। ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा।॥ वैशम्पायन उवाच स शत्रुसेनां तरसा प्रणुद्य गास्ता विजित्याथ धनुर्धरा. गोषु प्रयातासु दुर्योधनायाभिमुखं प्रयातो भूयो रणं सोऽभिचिकीर्षमाणः॥ जवेन मत्स्यान् किरीटिनं कृतकार्यं च मत्वा। दुर्योधनायाभिमुखं प्रयातं कुरुप्रवीराः सहसा निपेतुः॥ तेषामनीकानि बहूनि गाढं व्यूढानि दृष्ट्वा बहुलध्वजानि। मत्स्यस्य पुत्रं द्विषतां निहन्ता वैराटिमामन्त्र्य ततोऽभ्युवाच॥ एतेन तूर्णं प्रतिपादयेमान् श्वेतान् हयान् काञ्चनरश्मियोक्त्रान्। जवेन सर्वेण कुरु प्रयत्नमासादयेऽहं कुरुसिंहवृन्दम्॥ गजो गजेनेव मया दुरात्मा योद्धं समाकाङ्क्षति सूतपुत्रः। तमेव मां प्रापय राजपुत्र दुर्योधनापाश्रयजातदर्पम्॥ स तैर्हयैर्वातजवैर्वृहद्धिः पुत्रो विराटस्य सुवर्णकः। व्यध्वंसयत् तद् रथिनामनीकं ततोऽवहत् पाण्डवमाजिमध्ये॥ तं चित्रसेनो विशिखैर्विपाठः संग्रामजिच्छत्रुसहो जयश्च। प्रत्युद्ययुर्भारतमापतन्तं महारथाः कर्णमभीप्समानाः॥ ततः स तेषां पुरुषप्रवीरः शरासनार्चिः शरवेगतापः। वातं रथानामदहत् समन्युर्वनं यथाग्निः कुरुपुङ्गवानाम्॥ तस्मिंस्तु युद्धे तुमुले प्रवृत्ते पार्थ विकर्णोऽतिरथं रथेन। विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजमससाद॥ ततो विकर्णस्य धनुर्विकृष्य जाम्बूनदाङ्मयोपचितं दृढज्यम्। च्छिन्नध्वजः सोऽप्यपयाज्ज्वेन।॥ तं शात्रवाणां गणबाधितारं कर्माणि कुर्वन्तममानुपाणि। शत्रुतपः पार्थममृष्यमाण: समार्दयच्छर वर्षेण पार्थम्॥ स तेन राज्ञातिरथेन विद्धो विगाहमानो ध्वजिनी कुरूणाम्। शतपं पञ्चभिराशु विद्धा 'ततोऽस्य सूतं दशभिर्जघान॥ ततः स विद्धो भरतर्षभेण बाणेन गात्रावरणातिगेन। गतासुराजौ निपपात भूमौ नगो नगाग्रादिव वातरुग्णः॥ नरर्षभास्तेन नरर्षभेण वीरा रणे वीरतरेण भग्नाः। चकम्पिरे वातवशेन काले प्रकम्पितानीव महावनानि॥ तास्तु पार्थेन नरप्रवीरा गतासवोर्त्यां सुषुपुः सुवेषाः। वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन संख्ये॥ सुवर्णकार्णायसवर्मनद्धा नागा यता हैमवता: प्रवृद्धाः। तथा स शत्रून् समरे विनिघ्नन्। गाण्डीवधन्वा पुरुषप्रवीरः॥ चचार संख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते। प्रकीर्णपर्णानि यथा वसन्ते विशातयित्वा पवनोऽम्बुदांश्च॥ तथा सपत्नान् विकिरन् किरीटी चचार संख्येऽतिरथो रथेन। शोणाश्ववाहस्य हयान् निहत्य वैकर्तनभ्रातुरदीनसत्त्वः। एकेन संग्रामजितः शरेण किरीटमाली।॥ तस्मिन् हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यमथाददानः। प्रगृह्य दन्ताविव नागराजो महर्षभं व्याघ्र इवाभ्यधावत्॥ (कर्तनः शीघ्रमथो जघान। शिरो जहाराथ विव्याध गात्रेषु हयांश्च सर्वान् विराटपुत्रं च करे निजघ्ने॥ तमापतन्तं सहसा किरीटी वैकर्तनं वै तरसाभिपत्य। प्रगृह्य वेगं न्यपतज्जवेन नागं गरुत्मानिव चित्रपक्षः॥ तावुत्तमौ सर्वधनुर्धराणां महाबलौ सर्वसपत्नसाहौ। कर्णस्य पार्थस्य निशम्य युद्धं दिदृक्षमाणाः कुरवोऽभितस्थुः॥ स पाण्डवस्तूर्णमुदीर्णकोपः कृतागसं कर्णमुदीक्ष्य हर्षात्। मन्तर्दधे घोरशरौघवृष्ट्या॥ ततः सुविद्धाः सरथाः सनागा योधा विनेदुर्भरतर्षभाणाम्। अन्तर्हिता भीष्ममुखाः सहाश्वाः किरीटिना कीर्णरथाः पृषत्कैः॥ छराज्छरौघैः प्रतिहत्य वीरः। तस्थौ महात्मा सधनुः सबाणः सविस्फुलिङ्गोऽग्निरिवाशु कर्णः॥ ततस्त्वभूद् वै तलतालशब्दः सशङ्खभेरीपणवप्रणादः। प्रक्ष्वेडितज्यातलनिस्वनं तं वैकर्तनं पूजयतां कुरूणाम्॥ ध्वजोत्तमांसाकुलभीषणान्तम्। गाण्डीवनिर्हादकृतप्रणादं किरीटिनं प्रेक्ष्य ननाद कर्णः॥ स चापि वैकर्तनमर्दयित्वा साश्वं ससूतं सरथं पृषत्कैः। तमाववर्ष प्रसभं किरीटी पितामहं द्रोणकृपौ च दृष्ट्वा॥ (कर्तनो मेघ इवाभ्यवर्षत्। तथैव कर्णं च किरीटमाली संछादयामास शितैः पृषत्कैः॥ तयोः सुतीक्ष्णान् सृजतोः शरौधान् महाशरौघास्त्रविवर्धने रणे। रथे विलग्नाविव चन्द्रसूर्यो घनान्तरेणानुददर्श लोकः॥ अथाशुकारी चतुरो हयांश्च विव्याध को निशितैः किरीटिनः। त्रिभिश्च यन्तारममृष्यमाणो विव्याध तूर्णं त्रिभिरस्य केतुम्॥ ततोऽभिविद्धः समरावमर्दी प्रबोधितः सिंह इव प्रसुप्तः। मजिह्मगैः कर्णमियाय जिष्णुः॥ शरास्त्रवृष्ट्या निहतो महात्मा प्रादुश्चकारातिमनुष्यकर्म। र्लोकानिमान् सूर्यं इवांशुजालैः॥ स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान् निशितान् निषङ्गात्। आकर्णपूर्णं च धनुर्विकृष्य विव्याध गात्रेष्वथ सूतपुत्रम्॥ अंथास्य बाहूरुशिरोललाट ग्रीवां वराङ्गानि परावमर्दी। शितैश्च बाणैर्युधि निर्बिभेद गाण्डीवमुक्तैरशनिप्रकाशैः॥ स पार्थमुक्तैरिषुभिः प्रणुन्नो गजो गजेनेव जितस्तरस्वी। विहाय संग्रामशिरः प्रयातो वैकर्तनः पाण्डवबाणतप्तः॥ भीष्म उवाच एवमुक्तः प्रत्युवाच तं मुनि जनमेजयः। गीं भवान् गर्हयते निन्द्यं निन्दति मां पुनः॥ धिक्कार्यं मां धिक्कुरुते तस्मात् त्वाहं प्रसादये। सर्वं हीदं दुष्कृतं मे ज्वलाम्यग्नाविवाहितः॥ स्वकर्माण्यभिसंधाय नाभिनन्दति मे मनः। प्राप्यं घोरं भयं नूनं मया वैवस्वतादपि॥ तत्तु शल्यमनिर्हत्य कथं शक्ष्यामि जीवितुम्। सर्वं मन्यु विनीय त्वमभि मां वद शौनक॥ महानासं ब्राह्मणानां भूयो वक्ष्यामि साम्प्रतम्। अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम्॥ न हि नो ब्रह्मशप्तानां शेषं भवितुमर्हति। स्तुतीरलभमानानां संविदं वेदनिश्चितान्॥ निर्विद्यमानः सुभृशं भूयो वक्ष्यामि शाश्वतम्। भूयश्चैवाभिरक्षन्तु निर्धनान् निर्जना इव॥ न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथञ्चन। आपातान् प्रतितिष्ठन्ति पुलिन्दशबरा इव॥ अविज्ञायैव मे प्रज्ञा बालस्येव स पण्डितः। पुत्रस्य प्रीतिमान् भव शौनक॥ शौनक उवाच किमाश्चर्यं यदप्राज्ञो बहु कुर्यादसाम्प्रतम्। इति वै पण्डितो भूत्वा भूतानां नानुकुप्यते॥ ब्रह्मन् पितेव प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान्। जगतीस्थानिवांद्रिस्थः प्रज्ञया प्रतिपत्स्यति॥ न चोपलभ्यते तेन न चाश्चर्याणि कुर्वते। निविण्णात्मा परोक्षो वा धिक्कृतः पूर्वसाधुषु॥ विदितं भवतो वीर्यं माहात्म्यं वेद आगमे। कुरुष्वेह यथाशान्ति ब्रह्मा शरणमस्तु ते॥ तद् वै पारत्रिकं तात ब्राह्मणानामकुप्यताम्। अथवा तप्यसे पापे धर्ममेवानुपश्य वै॥ जनमेजय उवाच अनुतप्ये च पापेन न च धर्मं विलोपये। बुभूधू भजमानं च प्रीतिमान् भव शौनक॥ शौनक उवाच छित्त्वा दम्भं च मानं च प्रीतिमिच्छामि ते नृप। सर्वभूतहितं तिष्ठ धर्मं चैव प्रतिस्मरन्॥ न भयान्न च कार्पण्यान्न लोभात् त्वामुपाहये। तां मे दैवीं गिरं सत्यां शृणु त्वं ब्राह्मणैः सह॥ सोऽहं न केनचिच्चार्थी त्वां च धर्मादुपाह्वये। क्रोशतां सर्वभूतानां हाहा धिगिति जल्पताम्॥ वक्ष्यन्ति मामधर्मज्ञं त्यक्ष्यन्ति सुहृदो जनाः। ता वाचः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशम्॥ केचिदेव महाप्राज्ञाः प्रतिज्ञास्यन्ति तत्त्वतः। जानीहि मत्कृतं तात ब्राह्मणान् प्रति भारत।॥ यथा ते मत्कृते क्षेमं लभन्ते ते तथा कुरु। प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप॥ जनमेजय उवाच नैव वाचा न मनसा पुनर्जातु न कर्मणा। द्रोग्धास्मि ब्राह्मणान् विप्र चरणावपि ते स्पृशे॥ वैशम्पायन उवाच स गत्वा हास्तिनपुरं नकुलः समितिंजयः। भीष्ममामन्त्रयाञ्चक्रे धृतराष्ट्रं च पाण्डवः॥ सत्कृत्यामन्त्रतास्तेन आचार्यप्रमुखास्ततः। प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरः सराः॥ संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा। अन्ये च शतशस्तुष्टैर्मनोभिर्भरतर्षभ॥ द्रष्टकामाः सभां चैव धर्मराजं च पाण्डवम्। दिग्भ्यः सर्वे समापेतुः क्षत्रियास्तत्र भारत॥ समुपादाय रत्नानि विविधानि महान्ति च। धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः॥ दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते। गान्धारराजः सुबलः शकुनिश्च महाबलः॥ अचलो वृषकश्चैव कर्णश्च राथिनां वरः। तथा शल्यश्च बलवान् बाह्निकश्च महाबलः॥ सोमदत्तोऽथ कौरव्यो भूरिभूरिश्रवाः शलः। अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः॥ यक्षसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः। प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महारथः॥ स तु सर्वैः सहम्लेच्छैः सागरानूपवासिभिः। राजानो राजा चैव बृहद्बलः॥ पर्वतीयाच पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा। आकर्षाः कुन्तलाश्चैव मालवाश्चान्ध्रकास्तथा॥ द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा। कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः॥ वालिकाश्चापरे शूरा राजानः नः सर्व एव ते। विराटः सह पुत्राभ्यां मावेल्लश्च महाबलः॥ राजानो राजपुत्राश्च नानाजनपदेश्वराः। शिशुपालो महावीर्यः सह पुत्रेण भारत॥ आगच्छत् पाण्डवेयस्य यज्ञं समरदुर्मदः। रामश्चैवानिरुद्धश्च कश्च सहसारण:॥ गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान्। उल्मुको निशद्दश्चैव वीरश्चाङ्गावहस्तथा॥ वृष्णयो निखिलाश्चान्ये समाजग्मुर्महारथाः। एते चान्ये च बहवो राजानो मध्यदेशजाः॥ आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम्। ददुस्तेषामावसथान् धर्मराजस्य शासनात्॥ बहुभक्ष्यान्वितान् राजन् दीर्घिकावृक्षशोभितान्। तथा धर्मात्मजः पूजां चक्रे तेषां महात्मनाम्॥ सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान् नृपाः। कैलासशिखर प्रख्यान् मनोज्ञान् द्रव्यभूषितान्॥ सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः। सुवर्णजालसंवीतान् मणिकुट्टिमभूषितान्॥ सुखारोहणसोपानान् महासनपरिच्छदान्। स्रग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः॥ हंसेन्दुवर्णसदृशानायोजनसुदर्शनान्। असम्बाधान् समद्वारान् युतानुच्चावचैर्गुणैः॥ बहुधातुनिबद्धाङ्गान् हिमवच्छिखरानिव। विश्रान्तास्ते ततोऽपश्यन् भूमिपा भूरिदक्षिणम्॥ वृतं सदस्यैर्बहुभिर्धर्मराज युधिष्ठिरम्। तत् सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महर्षिभिः। भाजते स्म तट राजन् नाकपृष्ठं यथामरैः॥ संजय उवाच ततः कर्णः कुरुषु प्रदुतेषु वरूथिना श्वेतहयेन राजन्। पाञ्चालपुत्रान् व्यधमत् सूतपुत्रो महेषुभिर्वात इवाभ्रसंघान्॥ सूतं रथादञ्जलिकैर्निपात्य जघान चाश्वाञ्जनमेजयस्या रवाकिरद् धनुषी चाप्यकृन्तत्॥ जघानाश्वांस्तरसा तस्य संख्ये। हत्वा चाश्वान् सात्यकेः सूतपुत्रः कैकेयपुत्रं न्यवधीद् विसोकम्॥ तमभ्यधावनिहते कुमारे कैकेयसेनापतिरुप्रकर्मा। शरैर्विधुिन्वन् भृशमुग्रवेगैः कर्णात्मजं चाप्यहनत् प्रसेनम्॥ तस्यार्धचन्द्रस्त्रिभिरुचकर्त प्रहस्य बाहू तच शिरश्च कर्णः। स स्यन्दनाद् गामगमद् गतासुः परश्वधैः शाल इवावरुग्णः॥ हताश्वमञ्जोगतिभिः प्रसेनः शिनिप्रवीरं निशितैः पृषत्कैः। प्रच्छाद्य नृत्यन्निव कर्णपुत्रः शैनेयबाणाभिहतः पपात॥ पुत्रे हते क्रोधपरीतचेताः कर्णः शिनीनामृषभं जिघांसुः। हतोऽसि शैनेय इति ब्रुवन् स व्यवासृजद् बाणममित्रसाहम्॥ तमस्य चिच्छेद शरं शिखण्डी त्रिभिस्त्रिभिश्च प्रतुतोद् कर्णम्। शिखण्डिनः कार्मुकं च ध्वजं च छित्त्वा क्षुगभ्यां न्यपतत् सुजातः॥ शिखण्डिनं षड्भिरविध्यदुग्रो धार्टद्युम्नेः स शिरश्चोचकर्त। तथाभिनत् सुतसोमं शरेण सुसंशितेनाधिरथिर्महात्मा॥ अथाक्रन्दे तुमुले वर्तमाने धार्टद्युम्ने निहते तत्र कृष्णः। अपाञ्चाल्यं क्रियते याहि पार्थ कर्ण जहीत्यब्रवीद् राजसिंह॥ ततः प्रहस्याशु नरप्रवीरो रथं रथेनाधिरथेगाम्। रभ्याहतानां रथयूथपेन॥ विस्फार्य गाण्डीवमथोग्रघोषं ज्यया समाहत्य तले भृशं च। बाणान्धकारं सहसैव कृत्वा जघान नागाश्वरथध्वजांश्च॥ प्रतिश्रुतिः प्राचरदन्तरिक्ष गुहा गिरीणामपतन् वयांसि। यन्मण्डलज्येन विजृम्भामाणो रौद्रे मुहुर्तेऽभ्यपतत् किरीटी॥ तं भीमसेनोऽनुययौ रथेन पृष्ठे रक्षन् पाण्डवमेकवीरः। तौ राजपुत्रौ त्वरितौ रथाभ्यां कर्णाय यातावरिभिर्विषक्तौ॥ तत्रान्तरे श्चक्रे युद्धं सोमकान् सम्प्रमृद्गन्। रथाश्वमातङ्गगणाञ्जघान प्रच्छादयामास शरैर्दिशश्च॥ तमुत्तमौजा जनमेजयश्च क्रुद्धौ युधामन्युशिखण्डिनौ च। कण बिभिदुः सहिताः पृषत्कैः संनर्दमानाः सह ते पञ्च पाञ्चालरथप्रवीरा वैकर्तनं कर्णमभिद्रवन्तः। पार्षतेन।॥ धैर्यात् कृतात्मानमिवेन्द्रियार्थाः॥ स्तूर्ण पताकाश्च निकृत्य बाणैः। कर्णस्ततः सिंह इवोन्ननाद॥ तस्यास्यस्तानभिनिध्नतश्च ज्याबाणहस्तस्य धनुःस्वेनन। त्यनीव मत्वा जनता व्यषीदत्॥ स शक्रचापप्रतिमेन धन्वना भृशायतेनाधिरथिः शरान् सृजन्। बभौ रणे दीप्तमरीचिमण्डलो यथांशुमाली परिवेषवांस्तथा॥ च्छितैः शरैः षड्भिरथोत्तमौजसम्। गैस्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ॥ पराजिताः पञ्च महारथास्तु ते महाहवे सूतसुतेन मारिष। निरुद्यमास्तस्थुरमित्रनन्दना यथेन्द्रियार्थात्मवता पराजिताः॥ निमज्जतस्तानथ कर्णसागरे विपन्ननावो वणिजो यथार्णवे। उद्दधिरे नौभिरिवार्णवाद् स्थैः सुकल्पितैद्रौपदिजाः स्वमातुलान्॥ निकृत्य कर्णप्रहितानिघून बहून। स्तवात्मजं ज्येष्ठमविध्यदष्टभिः॥ कृपोऽथ भोजश्च तवात्मजस्तथा स्वयं च कर्णो निशितैरताडयत्। स तैश्चतुर्भिर्युयुधे यदूत्तमो दिगीश्वरैर्दैत्यपतिर्यथा तथा॥ समाततेनेष्वसनेन कूजता भृशायतेनामितबाणवर्षिणा। बभूव दुर्धर्षतरः स सात्यकिः शरन्नभोमध्यगतो यथा रविः॥ पुनः समास्थाय रथान् सुदंशिताः शिनिप्रवीरं जुगुपुः परंतपाः। समेत्य पाञ्चालमहारथा रणे मरुद्गणाः शक्रमिवारिनिग्रहे॥ ततोऽभवद् युद्धमतीव दारुणं तवाहितानां तव सैनिकैः सह। रथाश्चमातङ्गविनाशनं तथा यथा सुराणामसुरैः पुराभवत्॥ रथा द्विपा वाजिपदातयस्तथा भवन्ति नानाविधशस्त्रवेष्टिताः। विनेदुराती व्यसवोऽपतंस्तथा॥ तथागते भीममभीस्तवात्मजः ससार राजावरजः किरशरैः। तमभ्यधावत् त्वरितो वृकोदरो महारुरुं सिंह इवाभिपोदिवान्॥ ततस्तयोयुद्धमतीव दारुणं प्रदीव्यतोः प्राणदुरोदरं द्वयोः। रूदग्रयोः शम्बरशक्रयोर्यथा॥ निजघ्नतुस्तावितरेतरं भृशम्। सकृत्प्रभिन्नाविव वासितान्तरे महागजौ मन्मथसक्तचेतसौ॥ तवात्मजस्याथ वृकोदरस्त्वरन् धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत्। ललाटमप्यस्य बिभेद पत्रिणा शिराश्च कायात् प्रजहार सारथेः॥ स राजपुत्रोऽन्यदवाय कार्मुकं वृकोदरं द्वादशभिः पराभिनत्। स्वयं नियच्छंस्तुरगानजिह्मगैः शरैश्च भीमं पुनरष्यवीवृषत्॥ ततः शरं सूर्यमरीचिसप्रभं सुवर्णवज्रोत्तमरत्नभूषितम्। महेन्द्रवज्राशनिपातदुःसहं मुमोच भीमाङ्गविदारणक्षमम्॥ स तेन निर्विद्धतनुर्वृकोदरो निपातितः स्त्रस्ततनुर्गतासुवत्। प्रसार्य बाहू रथवर्यमाश्रितः पुनः स संज्ञामुपलभ्य चानदत्॥ मार्कण्डेय उवाच आपस्य मुदिता भार्या सहस्य परमा प्रिया। भूपतिर्भुवभर्ता च जनयत् पावकं परम्॥ भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम्। आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु॥ महतां चैव भूतानां सर्वेषामिह यः पतिः। भगवान् स महातेजा नित्यं चरति पावकः॥ अग्निहपति म नित्यं यज्ञेषु पूज्यते। हुतं वहति यो हव्यमस्य लोकस्य पावकः॥ अपां गर्भो महाभागः सत्त्वभुग् यो महाद्भुतः। भूपतिर्भुवभर्ता च महतः पतिरुच्यते॥ दहन् मृतानि भूतानी तस्याग्निर्भरतोऽभवत्। अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु॥ स वह्निः प्रथमो नित्यं देवैरन्विष्यते प्रभुः। आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात्॥ देवास्तत्रापि गच्छन्ति मार्गमाणा यथादिशम्। दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत्॥ देवानां वह हव्यं त्वमहं वीर सुदुर्बलः। अथ त्वं गच्छ मध्वक्षं प्रियमेतत् कुरुष्व मे॥ प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत्। मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत्। भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम्॥ अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद् वचः।११।। अनुनीयमानो हि भृशं देववाक्याद्धि तेन सः। नैच्छद् वोढुं हविः सोढुं शरीरं चापि सोऽत्यजत्॥ स तच्छरीरं संत्यज्य प्रविवेश धरां तदा। भूमिं स्पृष्टासृजद् धातून पृथक् पृथगतीव हि॥ पूयात् स गन्धं तेजश्च अस्थिभ्यो देवदारु च। श्लेष्मणः स्फाटिकं तस्य पित्तान्मारकतं तथा॥ यकृत् कृष्णायसं तस्य त्रिभिरेव वभुः प्रजाः। नखास्तस्याभ्रपटलं शिराजलानि विदुमम्॥ शरीराद् विविधाश्चान्ये धातवोऽस्याभवन् नृप। एवं त्यक्त्वा शरीरं च परमे तपसि स्थितः॥ भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा। भृशं जज्वाल तेजस्वी तपसाऽऽप्यायित: शिखी।॥ दृष्ट्वा ऋषि भयाच्चापि प्रविवेश महार्णवम्। तस्मिन् नष्टे जगद् भीतमथर्वाणमथाश्रितम्। अर्चयामासुरेवैनमथर्वाणं सुरादयः॥ अथर्वा त्वसृजल्लोकानात्मनाऽऽलोक्य पावकम्। मिषतां सर्वभूतानामुन्ममाथ महार्णवम्॥ एवमग्निर्भगवता नष्टः पूर्वमथर्वणा। आहूतः सर्वभूतानां हव्यं वहति सर्वदा॥ एवं त्वजनयद् धिष्ण्यान् वेदोक्तान् विबुधान् बहून्। विचरन् विविधान् देशान् भ्रममाणस्तु तत्र वै॥ सिन्धुनदं पञ्चनदं देविकाथ सरस्वती। गङ्गा च शतकुम्भा च सरयूर्गण्डसाह्वया॥ चर्मग्वती मही चैव मेध्या मेधातिथिस्तदा। ताम्रवती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी॥ तमसा नर्मदा चैव नदी गोदावरी तथा। वेणोपवेणा भीमा च वडवा चैव भारत॥ भारती सुप्रयोगा च कावेरी मुर्मुरा तथा। तुड़वेणा कृष्णवेणा कपिला शोण एव च॥ एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः। अद्भुतस्य प्रिया भार्या तस्य पुत्रो विभूरसिः॥ यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव तु। अत्रेचाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः॥ अत्रिः पुत्रान् स्रष्टुकामस्तानेवात्मन्यधारयत्।२८॥ तस्य तद्ब्रह्मणः कार्यान्निर्हरन्ति हुताशनाः। एवमेते महात्मानः कीर्तितास्तेऽग्नयो मया।॥ अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः। अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम्॥ तादृशं विद्धि सर्वेषामेको ह्येषु हुताशनः। एक एवैष भगवान् विज्ञेयः प्रथमोऽङ्गिराः॥ बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा। इत्येष वंशः सुमहानग्नीनां कीर्तितो मया। योऽर्चितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम्॥ वासुदेव उवाच तां तूपयातो राजेन्द्र शाल्व: सौभपतिस्तदा। प्रभूतनरनागेन बलेनोपविवेश ह॥ समे निविष्टा सा सेना प्रभूतसलिलाशये। चतुरङ्गबलोपेता शाल्वराजाभिपालिता॥ वर्जयित्वा श्मशानानि देवताऽऽयतनानि च। वल्मीकांश्चैत्यवृक्षांश्च तन्निविष्टमभूद् बलम्॥ अनीकानां विभागेन पन्थानः संवृताऽभवन्। प्रवणाय च नैवासञ्छाल्वस्य शिविरे नृप।॥ सर्वायुधसमोपेतं सर्वशस्त्रविशारदम्। रथनागाश्वकलिलं पदातिध्वजसंकुलम्॥ तुष्टपुष्टबलोपेतं वीरलक्षणलक्षितम्। विचित्रध्वजसन्नाहं विचित्ररथकार्मुकम्॥ संनिवेश्य च कौरव्य द्वारकायां नरर्षभ। अभिसारयामास तदा वेगेन पतगेन्द्रवत्॥ तदापतन्तं संदृश्य बलं शाल्वपतेस्तदा। निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः॥ असहन्तोऽभियानं तच्छाल्वराजस्य कौरव। चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः॥ ते रथैर्दशिताः सर्वे विचित्राभरणध्वजाः। संसक्ताः शाल्वराजस्य बहुभिर्योधपुङ्गवैः॥ गृहीत्वा कार्मुकं साम्बः शाल्वस्य सचिवं रणे। योधयामास संहृष्टः क्षेमवृद्धिं चमूपतिम्॥ तस्य बाणमयं वर्ष जाम्बवत्याः सुतो महत्। मुमोच भरतश्रेष्ठ यथा वर्ष सहस्रदृक्॥ तद् बाणवर्षं तुमुलं विषेहे स चमूपतिः। क्षेमवृद्धिर्महाराज हिमवानिव निश्चलः॥ ततः साम्बाय राजेन्द्र क्षेमवृद्धिरपि स्वयम्। मुमोच मायाविहितं शरजालं महत्तरम्॥ ततो मायामयं जालं माययैव विदीर्य सः। साम्बः शरसहस्रेण रथमस्याभ्यवर्षत॥ ततः स विद्धः साम्बेन क्षेमवृद्धिश्चमूपतिः। अयायाज्जवनैरश्वैः साम्बबाणप्रपीडितः॥ तस्मिन् विप्रदुते क्रूर शाल्वस्याथ चमूपतौ। वेगवान् नाम दैतेयः सुतं मेऽभ्यद्रवद् बली॥ अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्बहः। वेगं वेगवतो राजस्तस्थौ वीरो विधारयन्॥ स वेगवति कौन्तेय साम्बो वेगवती गदाम्। चिक्षेप तरसा वीरो व्याविद्ध्य सत्यविक्रमः॥ तया त्वभिहतो राजन् वेगवान् न्यपतद् भुवि। वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः॥ तस्मिन् विनिहते वीरे गदानुन्ने महासुरे। प्रविश्य महतीं सेनां योधयामास मे सुतः॥ चारुदेष्णोन संसक्तो विविन्थ्यो नाम दानवः। महारथः समाज्ञातो महाराज महाधनुः॥ ततः सुतुमुलं युद्धं चारुदेष्णविविध्ययोः। वृत्रवासवयो राजन् यथा पूर्वं तथाभवत्॥ अन्योन्यस्याभिसंक्रुद्धावन्योन्यं जनतुः शरैः। विनदन्तौ महारावान् सिंहाविव महाबलौ॥ रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम्। अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम्॥ स विविन्ध्याय सक्रोधः समाहूय महारथः। चिक्षेप मे सुतो राजन् स गतासुरथापतत्॥ विविध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम्। कामगेन स सौभेन शाल्वः पुनरुपागमत्।॥ ततो व्याकुलितं सर्वं द्वारकावासि तद् बलम्। दृष्ट्वा शाल्वं महाबाहो सौभस्थं नृपते तदा॥ ततो निर्याय कौरव्य अवस्थाप्य च तद् बलम्। आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत्॥ सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि। निवारयन्तं संग्रामे बलात् सौभं सराजकम्॥ अहं सौभपतेः सेनामायसैर्भुजगैरिव। धनुर्भुजविनिर्मुक्तैर्नाशयाम्यद्य यादवाः॥ आश्वसध्वं न भी: कार्या सौभराडद्य नश्यति। मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति॥ एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन। विष्ठितं तद् बलं वीर युयुधे च यथासुखम्॥ भीष्म उवाच यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः। मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत॥ स यथानुशशासैनमुतथ्यो ब्रह्मवित्तमः। तत् ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर॥ उतथ्य उवाच धर्माय राजा भवति न कामकरणाय तु। मान्धातरिति जानीहि राजा लोकस्य रक्षिता॥ राजा चरति चेद् धर्मं देवत्वायैव कल्पते। स चेदधर्मं चरति नरकायैव गच्छति॥ धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति। तं राजा साधु यः शास्ति स राजा पृथिवीपतिः॥ राजा परमधर्मात्मा लक्ष्मीवान् धर्म उच्यते। देवाश्च नहीं गच्छन्ति धर्मो नास्तीति चोच्यते॥ स्वधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते। तदेव मङ्गलं लोकः सर्वः समनुवर्तते॥ उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान्। भयमाहुर्दिवारानं यदा पापो न वार्यते॥ ममेदमिति नैवैतत् साधूनां तात धर्मतः। वै व्यवस्था भवति यदा पापो न वार्यते॥ नैव भार्या न पशवो न क्षेत्रं न निवेशनम्। संदृश्येत मनुष्याणां यदा पापबलं भवेत्॥ देवा: पूजां न जानन्ति न स्वधां पितरस्तदा। न पूज्यन्ते ह्यतिथयो यदा पापो न वार्यते॥ न वेदानधिगच्छन्ति व्रतवन्तो द्विजातयः। न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते॥ वृद्धानामिव सत्त्वानां मनो भवति विह्वलम्। मनुष्याणां महाराज यदा पापो न वार्यते॥ उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम्। असृजन् सुमहद् भूतमयं धर्मो भविष्यति॥ यस्मिन् धर्मो विराजेत तं राजानं प्रचक्षते। यस्मिन् विलीयते धर्मस्तं देवा वृषलं विदुः॥ वृषो हि भगवान् धर्मो यस्तस्य कुरुते ह्यलम्। वृषं तं विदुर्देवास्तस्माद्धर्मं विवर्धयेत्॥ धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा। तस्मिन् ह्रसति ह्रीयन्ते तस्माद् धर्मं न लोपयेत्॥ धनात् स्त्रवति धर्मो हि धारणाद् वेति निश्चयः। अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः॥ प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयम्भुवा। तस्मात् प्रवर्तयेद् धर्म प्रजानुग्रहकारणात्॥ तस्माद्धि राजशार्दूल धर्मः श्रेष्ठतरः स्मृतः। स राजा यः प्रजाः शास्ति साधुकृत् पुरुषर्षभ॥ कामक्रोधावनादृत्य धर्ममेवानुपालय। धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम॥ धर्मस्य ब्राह्मणो योनिस्तस्मात् पूजयेत् सदा। ब्राह्मणानां च मान्धातः कुर्यात् कामानमत्सरी॥ तेषां ह्यकामकरणाद् राज्ञः संजायते भयम्। मित्राणि न च वर्धन्ते तथामित्रीभवन्त्यपि॥ ब्राह्मणानां सदासूयाद् बाल्याद् वैरोचनो बलिः। अथास्माच्छीरपाक्रामद् यास्मिन्नासीत् प्रतापिनी॥ ततस्तस्मादपाक्रम्य सागच्छत् पाकशासनम्। अथ सोऽन्वतपत् पश्चाच्छ्रियं दृष्ट्वा पुरन्दरे॥ एतत् फलमसूयाया अभिमानस्य वा विभो। तस्माद् बुध्यस्व मान्धातर्मा त्वां जह्यात् प्रतापिनी॥ दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः। तेन देवासुरा राजन् नीता: सुबहवो व्ययम्॥ राजर्षयश्च बहवस्तथा बुध्यस्व पार्थिव। राजा भवति तं जित्वा दासस्तेन पराजितः॥ स यथा दर्पसहितमधर्मं नानुसेवते। तथा वर्तस्व मान्धातश्चिरं चेत् स्थातुमिच्छसि॥ मत्तात्प्रमत्तात् पौगण्डादुन्मत्ताच्च विशेषतः। तदभ्यासादुपावर्त संहितानां च सेवनात्॥ निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः। पर्वताद् विषमाद् दुर्गाद्धस्तिनोऽश्वात् सरीसृपात्॥ एतेभ्यो नित्ययत्तः स्यान्नक्तंचर्यां च वर्जयेत्। अत्यागं चाभिमानं च दम्भं क्रोधं च वर्जयेत्॥ अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च। परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः॥ कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात्। अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः॥ एते चान्ये च जायन्ते यदा राजा प्रमाद्यति। तस्माद् राज्ञा विशेषेण वर्तितव्यं प्रजाहिते॥ क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान्। अधर्माः सम्प्रवर्धन्ते प्रजासंकरकारकाः॥ अशीते विद्यते शीतं शीते शीतं न विद्यते। अवृष्टिरतिवृष्टिश्च व्याधिश्चाप्याविशेत् प्रजाः॥ नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथागते। उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः॥ अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति। प्रजाश्च तस्य क्षीयन्ते ततः सोऽनुविनश्यति॥ द्वावाददाते ह्येकस्य द्वयोः सुबहवोऽपरे। कुमार्यः सम्प्रलुप्यन्ते तदाहुपदूषणम्॥ ममेदमिति नैकस्य मनुष्येष्ववतिष्ठति। त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति॥ धृतराष्ट्र उवाच यदिदं भारतं वर्षं यत्रेदं मूर्च्छितं बलम्। यत्रातिमात्रलुब्धोऽयं पुत्रो दुर्योधनो मम॥ यत्र गृद्धाः पाण्डुपुत्रा यत्र मे सज्जते मनः। एतन्मे तत्त्वमाचक्ष्व त्वं हि मे बुद्धिमान् मतः॥ संजय उवाच न तत्र पाण्डवा गृद्धाः शृणु राजन् वचो मम। गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः॥ अपरे क्षत्रियाश्चैव नानाजनपदेश्वराः। गृद्धा भारते वर्षे न मृष्यन्ति परस्परम्॥ ये अत्र ते कीर्तयिष्यामि वर्ष भारत भारतम्। प्रियमिन्द्रस्य देवस्य मनोवैवस्वतस्य च॥ पृथोस्तु राजन् वैन्यस्य तथेक्ष्वाकोर्महात्मनः। ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च॥ तथैव मुचुकुन्दस्य शिबैरौशीनरस्य च। ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा॥ कुशिकस्य त दुर्धर्ष गाधेश्चैव महात्मनः। सोमकस्य त दुर्धर्ष दिलीपस्य तथैव च॥ अन्येषां च महाराज क्षत्रियाणां बलीयसाम्। सर्वेषामेव राजेन्द्र प्रियं भारत भारतम्॥ तत् ते वर्षं प्रवक्ष्यामि यथायथमरिन्दम। शृणु मे गदतो राजन् यन्मां त्वं परिपृच्छसि॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि। विध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः॥ तेषां सहस्रशो राजन् पर्वतास्ते समीपतः। अविज्ञाताः सारवन्तो विपुलाचित्रसानवः॥ अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः। आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो॥ नदी पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम्। गोदावरी नर्मदां च बाहुदां च महानदीम्॥ शतदूं चन्द्रभागां च यमुनां च महानदीम्। दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम्॥ नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम्। इरावती वितस्तां च पयोष्णीं देविकामपि॥ वेदस्मृतां वेदवती त्रिदिवामिक्षुलां कृमिम्। करीषिणी चित्रवाहां चित्रसेनां च निम्नगाम्॥ गोमती धूतपापां च वन्दनां च महानदीम्। कौशिकीं त्रिदिवां कृत्या निचितां लोहितारणीम्॥ रहस्यां शतकुम्भां च सरयूं च तथैव च। चर्मण्वतीं वेत्रवती हस्तिसोमां दिशं तथा॥ शरावती पयोष्णीं च वेणां भीमरथीमपि। कावेरी चुलुकां चापि वाणीं शतबलामपि॥ नीवारामहितां चापि सुप्रयोगां जनाधिप। पवित्रां कुण्डली सिन्धुं राजनीं पुरमालिनीम्॥ पूर्वाभिरामां वीरां च भीमामोघवती तथा। पाशाशिनी पापहरां महेन्द्रां पाटलावतीम्॥ करीषिणीमसिक्नी च कुशचीरां महानदीम्। मकरी प्रवरां मेनां हेमां घृतवतीं तथा॥ पुरावतीमनुष्णां च शैब्यां कापी च भारत। सदानीरामधृष्या च कुशधारां महानदीम्॥ सदाकान्तां शिवां चैव तथा वीरमतीमपि। वस्त्रां सुवस्त्रां गौरी च कम्पनां सहिरण्वतीम्॥ वरां वीरकरां चापि पञ्चमी च महानदीम्। रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम्॥ उपेन्द्रा बहुलां चैव कुवीरामम्बुवाहिनीम्। विनदी पिञ्जलां वेणा तुङ्गवेणां महानदीम्॥ विदिशां कृष्णवेणां च ताम्रां च कपिलामपि। खलु सुवामां वेदाश्वां हरिश्रावां महापगाम्॥ शीघ्रां च पिच्छिलां चैव भारद्वाजी च निम्नगाम्। कौशिकी निम्नगां शोणां बाहुदामथ चन्द्रमाम्॥ दुर्गा चित्रशिलां चैव ब्रह्मवेध्यां बृहद्वतीम्। यवक्षामथ रोहीं च तथा जाम्बूनदीमपि।॥ सुनसां तमसां दासी वसामन्यां वराणसीम्। नीलां घृतवतीं चैव पर्णाशां च महानदीम्॥ मानवीं वृषभां चैव ब्रह्ममेध्यां बृहनीम्। एताश्चान्याश्च बहुधा महानद्यो जनाधिप॥ सदा निरामयां कृष्णां मन्दगां मदवाहिनीम्। ब्राह्मणी च महागौरी दुर्गामपि च भारत॥ चित्रोपलां चित्ररथां मञ्जुलां वाहिनी तथा। मन्दाकिनी वैतरणी कोषां चापि महानदीम्॥ शुक्तिमतीमनङ्गां च तथैव वृषसाह्वयाम्। लोहित्यां करतोयां च तथैव वृषकाह्वयाम्॥ कुमारीमृषिकुल्यां च मारिषां च सरस्वतीम्। मन्दाकिनीं सुषुण्यां च सर्वां गङ्गां च भारत॥ विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः। तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः॥ इत्येताः सरितो राजन् समाख्याता यथास्मृति। अत उर्ध्वं जनपदान् निबोध गदतो मम॥ तत्रेमे कुरुपाञ्चाला: शाल्वा माद्रेयजाङ्गलाः। शूरसेनाः पुलिन्दाश्च बोधा मालास्तथैव च॥ मत्स्याः कुशल्या: सौशल्या:कुन्तयः कान्तिकोसलाः। चेदिमत्स्यकरूषाश्च भोजाः सिन्धुपुलिन्दकाः॥ उत्तमाश्वदशार्णाश्च मेकलाश्चोत्कलैः सह। पञ्चाला: कोसलाश्चैव नैकपृष्ठा धुरंधराः॥ गोधा मद्रकलिङ्गाश्च काशयोऽपरकाशयः। जठराः कुक्कुराश्चैव सदशार्णाश्च भारत॥ कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः। गोमन्ता मण्डकाः सण्डा विदर्भा रूपवाहिकाः॥ अश्मकाः पाण्डुराष्ट्राश्च गोपराष्ट्राः करीतयः। अधिराज्यकुशाद्याश्च मल्लराष्ट्रं च केवलम्॥ वारवास्यायवाहाश्चचक्राश्चक्रातयः शकाः। विदेहा मगधाः स्वक्षा मलजा विजयास्तथा॥ अङ्गा वङ्गा कलिङ्गाश्च यकृल्लोमान एव च। मल्ला: सुदेष्णाः प्रह्लादामाहिकाः शशिकास्तथा।।४६। बाह्निका वाटधानाश्च आभीराः कालतोयकाः। अपरान्ताः परान्ताश्च पञ्चालाश्चर्ममण्डलाः॥ अटवीशिखराश्चैव मेरुभूताश्च मारिष। उपावृत्तानुपावृत्ताः स्वराष्ट्राः केकयास्तथा॥ कुन्दापरान्ता माहेयाः कक्षा सामुद्रनिष्कुटाः। अन्ध्राश्च बहवो राजन्नन्तगिर्यास्तथैव च॥ बहिगिर्याङ्गमलजा मगधा मानवर्जकाः। समन्तराः प्रावृषेया भार्गवाश्च जनाधिप॥ पुण्ड्रा भर्गाः किराताश्च सुदृष्टा यामुनास्तथा। शका निषादा निषधास्तथैवानर्तनैर्ऋताः॥ दुर्गाला: प्रतिमत्स्याश्च कुन्तलाः कोसलास्तथा। तीरग्रहाः शूरसेना ईजिकाः कन्यकागुणाः॥ तिलभारा मसीराश्च मधुमन्तः सुकन्दकाः। काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकान्तथा॥ अभीसारा उलूताश्च शैवला बालिकास्तथा। दार्वी च वानवा दर्वा वातजामर थोरगाः॥ बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः। वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा॥ वनायवो दशापार्श्वरोमाणः कुशबिन्दवः। कच्छा गोपालकक्षाश्च जाङ्गलाः कुरुवर्णकाः॥ किराता बर्वराः सिद्धा वैदेहास्ताम्रलिप्तकाः। ओण्ड्राम्लेच्छाः सैसिरिध्राः पार्वतीयाश्च मारिष॥ अथापरे जनपदा दक्षिणा भरतर्षभ। द्रविडाः केरलाः प्राच्या भूषिका वनवासिकाः॥ कर्णाटका महिषका विकल्पा मूषकास्तथा। शिल्लिकाः कुन्तलाश्चैव सौहृदा नभकाननाः॥ कौकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः। समङ्गाः करकाश्चैव कुकुराङ्गारमारिषाः॥ ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः शाल्वसेनयः। व्यूका: कोकबकाः प्रोष्ठाः समवेगवशास्तथा॥ तथैव विन्ध्यचुलिकाः पुलिन्दा वल्कलैः सह। मालवा बल्लवाश्चैव तथैवापरबल्लवाः॥ कुलिन्दाः कालदाश्चैव कुण्डलाः करटास्तथा। मूषकाः स्तनबालाश्च सनीपा घटसुंजयाः॥ अठिदाः पाशिवाटाश्च तनयाः सुनयास्तथा। ऋषिका विदभाः काकास्तङ्गणाः परतङ्गणाः॥ उत्तराश्चापरम्लेच्छा: क्रूरा भरतसत्तम। यवनाचीनकाम्बोजा दारुणा म्लेच्छजातयः॥ सकृद्ग्रहा: कुलत्थाश्च हूणाः पारसिकैः सह। तथैव रमणाश्चीनास्तथैव दशमालिकाः॥ क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च। शूद्राभीराश्च दरदाः काश्मीराः पशुभिः सह॥ खाशीराश्चान्तचाराश्च पल्हवा गिरिगह्वराः। आत्रेयाः सभरद्वाजास्तथैव स्तनपोषिकाः॥ प्रोषकाश्च कलिङ्गाश्च किरातानां च जातयः। तोमरा हन्यमानाश्च तथैव करभञ्जकाः॥ एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च। उद्देशमात्रेण मया देशाः संकीर्तिता विभो॥ यथागुणबलं चापि त्रिवर्गस्य महाफलम्। दुह्येत धेनुः कामधुग् भूमिः सम्यगनुष्ठिताः॥ तस्यां गृद्ध्यन्ति राजानः शूरा धर्मार्थकोविदाः। ते त्यजन्त्याहवे प्राणान् वसुगृद्धास्तरस्विनः॥ देवमानुषकायानां कामं भूमिः परायणम्। अन्योन्यस्यावलुम्पन्ति सारमेया यथाऽमिषम्॥ राजानो भरतश्रेष्ठ भोक्तुकामा वसुंधराम्। न चापि तृप्ति: कामानां विद्यतेऽद्यापि कस्यचित्।।७४। तस्मात् परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः। साम्ना भेदेन दानेन दण्डेनैव च भारत॥ पिता भ्राता च पुत्राश्च खं द्योश्च नरपुङ्गव। भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शना॥ धृतराष्ट्र उवाच भरद्वाजं कथं युद्धे युयुधानो न्यवारयत्। संजयाचक्ष्व तत्त्वेन परं कौतुहलं हि मे॥ शृणु राजन् महाप्राज्ञ संग्राम लोमहर्षणम्। द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः॥ वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष। अभ्यद्रवत् स्वयं द्रोणः सात्यकिं सत्यविक्रमम्॥ तमापतन्तं सहसा भारद्वाजं महारथम्। सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत्॥ द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः। अविध्यत् पञ्चभिस्तूर्णं हेमपुङ्खैः शरैः शितैः॥ ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः। अभ्ययुर्धरणी राजश्वसन्त इव पन्नगाः॥ दीर्घबाहुरभिक्रुद्धस्तोत्रादित इव द्विपः। द्रोणं पञ्चशताविध्यन्नाराचैरग्निसंनिभैः॥ भारद्वाजो रणे विद्धो युयुधानेन सत्वरम्। सात्यकि बहुभिर्बाणैर्यतमानमविध्यत॥ ततः क्रुद्धो महेष्वासो भूय एव महाबलः। सात्वतं पीडयामास शरेणानतपर्वणा॥ स वध्यमानः समरे भारद्वाजेन सात्यकिः। नान्वपद्यत कर्तव्यं किञ्चदेव विशाम्पते॥ विषण्णवदनश्चापि युयुधानोऽभवननृप। भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताशरान्॥ तं तु सम्प्रेक्ष्य ते पुत्राः सैनिकाश्च विशाम्पते। प्रहृष्टमनसो भूत्वा सिंहवद् व्यनदन् मुहुः॥ तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम्। युधिष्ठिरोऽब्रवीद् राजा सर्वसैन्यानि भारत॥ एष वृष्णिवरो वीरः सात्यकिः सत्यविक्रमः। ग्रस्यते युधि वीरेण भानुमानिव राहुणा॥ अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते। धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिपः॥ अभिद्रव दुतं द्रोणं किमु तिष्ठसि पार्षत। न पश्यसि भयं द्रोणाद् घोरं नः समुपस्थितम्॥ असौ द्रोणो महेष्वासो युयुधानेन संयुगे। क्रीडते सूत्रवद्धन पक्षिणा बालको यथा॥ तत्रैव सर्वे गच्छन्तु भीमसेनपुरोगमाः। तत्रैव सहिताः सर्वे युयुधानरथं प्रति॥ पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः। सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम्॥ एवमुक्त्वा ततो राजा सर्वसैन्येन भारत। अभ्यद्रवद् रणे द्रोणं युयुधानस्य कारणात्॥ तत्रारावो महानासीद् द्रोणमेकं युयुत्सताम्। पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः॥ ते समेत्य नरव्याघ्रा भारद्वाजं महारथम्। अभ्यवर्षशरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः॥ स्मयन्नेव तु तान् वीरान् द्रोणः प्रत्यग्रहीत् स्वयम्। अतीथीनागतान् यद्वत् सलिलेनासनेन च॥ तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः। अतिथेयं गृहं प्राप्य नृपतेऽतिथयो यथा॥ भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम्। मध्यंदिनमनुप्राप्तं सहस्रांशुमिव प्रभो॥ तांस्तु सर्वान् महेष्वासान् द्रोणः शस्त्रभृतांवरः। अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान्॥ वध्यमाना महाराज पाण्डवाः सृञ्जयास्तथा। त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः॥ द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः। गभस्तय इवार्कस्य प्रतपन्तः समन्ततः॥ तस्मिन् द्रोणेन निहताः पञ्चालाः पञ्चविंशतिः। महारथाः समाख्याता धृष्टद्युम्नस्य सम्मताः॥ पाण्डूनां सर्वसैन्येषु पञ्चालानां तथैव च। द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान् वगन्।॥ केकयानां शतं हत्वा विद्राव्य च समन्ततः। द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः॥ पञ्चालान् सृञ्जयान् मत्स्यान् केकयांश्च नराधिप। द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः॥ तेषां समभवच्छब्दो विद्धानां द्रोणसायकैः। वनौकसामिवारण्ये व्याप्तानां धूम्रकेतुना॥ तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन् नृप। एते द्रवन्ति पञ्चलाः पाण्डवाश्च ससैनिकाः॥ तं तथा समरे द्रोणं निघ्नन्तं सोमकान् रणे। न चाप्यभिययुः केचिदपरे नैव विव्यधुः॥ वर्तमाने तथा रौद्रे तस्मिन् वीरवरक्षये। अशृणोत् सहसा पार्थः पाञ्चजन्यस्य निःस्वनम्॥ पूरितो वासुदेवेन शङ्खराट् स्वनते भृशम्। युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु॥ नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति। गाण्डीवस्य च निषि विप्रणष्टे समन्ततः॥ कश्मलाभिहतो राजा चिन्तयामास पाण्डवः। न नूनं स्वस्ति पार्थाय यथा नदति शङ्खराट्॥ कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः। एवं स चिन्तयित्वा तु व्याकुलेनान्तरात्मना॥ अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत। वाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः। कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुङ्गवम्॥ युधिष्ठिर उवाच यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः। साम्पराये सुहृत्कृत्ये तस्य कालोऽयमागतः॥ सर्वेष्वपि च योधेषु चिन्तयशिनिपुङ्गव। त्वत्तः सुहृत्तमं कञ्चिन्नाभिजानामि सात्यके॥ यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः। स कार्ये साम्पराये तु नियोज्य इति मे मतिः॥ यथा च केशवो नित्यं पाण्डवानां परायणम्। तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः॥ सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि। अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि॥ स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे। कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ॥ त्वं हि सत्यव्रतः शूरो मित्राणामभयङ्करः। लोके विख्यायसे वीर कर्मभिः सत्यवागिति॥ यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत् तनुम्। पृथिवीं च द्विजातिभ्यो यो दद्यात् स समा भवेत्।।४९ श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः। दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि॥ एवं त्वामपि धर्मात्मन् प्रयाचेऽहं कृताञ्जलिः। पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो॥ एक एव सदा कृष्णो मित्राणामभयङ्करः। रणे संत्यजति प्राणान् द्वितीयस्त्वं च सात्यके॥ विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः। शूर एव सहाय: स्यान्नेतरः प्रकृतो जनः॥ ईदृशे तु परामर्दै वर्तमानस्य माधव। त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते॥ श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः। मम संजनयन् हर्षं पुनः पुनरकीर्तयत्॥ लघुहस्तश्चित्रयोधी तथा लघुपराक्रमः। प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे।॥ महास्कन्धो महोरस्को महाबाहुर्महाहनुः। महाबलो महावीर्यः स महात्मा महारथः॥ शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे। युयुधानः सहायो मे प्रमथिष्यति कौरवान्॥ अस्मदर्थं च राजेन्द्र संनह्येद् यदि केशवः। रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः॥ गदो वा सारणो वापि साम्यो वा सह वृष्णिभिः। सहायार्थं महाराज संग्रामोत्तममूर्धनि॥ तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम्। साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्यो हि तत्समः।।६१ इति द्वैतवने तात मामुवाच धनंजयः। परोक्षे त्वद्गुणांस्तथ्यान् कथयन्नार्यसंसदि॥ तस्य त्वमेवं संकल्पं न वृथा कर्तुमर्हसि। धनंजयस्य वार्ष्णेय मम भीमस्य चोभयोः॥ यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति। तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान्॥ न तत् सोहृदमन्येषु मया शैनेय लक्षितम्। यथा त्वमस्मान् भजसे वर्तमानानुपप्लवे॥ सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च। सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव॥ सत्यस्य च महाबाहो अनुकम्पार्थमेव च। अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि॥ सुयोधनो हि सहसा गतो द्रोणेन दंशितः। पूर्वमेवानुयातास्ते कौरवाणां महारथाः॥ सुमहान् निनदश्चैव श्रूयते विजयं प्रति। स शैनेय जवेनाशु गन्तुमर्हसि मानद॥ भीमसेनो वयं चैव संयत्ताः सहसैनिकाः। द्रोणमावारयिष्यामो यदि त्वां प्रति यास्यति॥ पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे। महान्तं च रणे शब्दं दीर्यमाणां च भारतीम्॥ महामारुतवेगेन समुद्रमिव पर्वसु। धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना॥ रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह। सैन्यं रज:समुद्भूतमेतत् सम्परिवर्तते॥ संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः। अत्यन्तोपचितैः शूरैः फाल्गुनः परवीरहा॥ नैतद् बलमसंवार्य शक्यो जेतुं जयद्रथः। एते हि सैन्धवस्यार्थे सर्वे संत्यक्तजीविताः॥ शरशक्तिध्वजवरं हयनागसमाकुलम्। पश्यैतद् धार्तराष्ट्राणामनीकं सुदुरासदम्॥ शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान्। सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा॥ नागानां शृणु शब्दं च पत्तीनां च सहस्रशः। सादिनां द्रवतां चैव शृणु कम्पयतां महीम्॥ पुरस्तात् सैन्धवानीकं द्रोणानीकं च पृष्ठतः। बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत्॥ अपर्यन्ते बले मग्नो जह्यादपि च जीवितम्। तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः॥ सर्वथाहमनुप्राप्तः सुकृच्छं त्वयि जीवति। श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः॥ लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम्। सूर्योदये महाबाहुर्दिवसश्चातिवर्तते॥ तन्न जानामि वार्ष्णेय यदि जीवति वा न वा। कुरूणां चापि तत् सैन्यं सागरप्रतिमं महत्॥ एक एव च बीभत्सुः प्रविष्टस्तात भारतीम्। अविषह्यां महाबाहुः सुरैरपि महाहवे॥ न हि मे वर्तते बुद्धिरद्य युद्धे कथंचन। द्रोणोऽपि रभसो युद्धे मम पीडयते बलम्॥ प्रत्यक्षं ते महाबाहो यथाऽसौ चरति द्विजः। युगपच्च समेतानां कार्याणां त्वं विचक्षणः॥ महार्थं लघुसंयुक्तं कर्तुमर्हसि मानद। तस्य मे सर्वकार्येषु कार्यमेतन्मतं महत्॥ अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे। नाहं शोचामि दाशार्ह गोप्तारं जगतः पतिम्॥ स हि शक्तो रणे तात त्रील्लोकानपि संगतान्। विजेतुं पुरुषव्याघ्रः सत्यमेतद् ब्रवीमि ते॥ किं पुनर्धार्तराष्ट्रस्य बलमेतत् सुदुर्बलम्। अर्जुनस्त्वेष वार्ष्णेय पीडितो बहुभिर्युधि॥ प्रजह्यात् समरे प्राणांस्तस्माद् विन्दामि कश्मलम्। तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा॥ तादृशस्येदृशे काले कादृशेनाभिनोदितः। रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ॥ प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः। अस्त्रे नारायणसम: संकर्षणसमो बले॥ वीरतायां नरव्याघ्र धनंजयसमो ह्यसि। भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम्॥ त्वामेव पुरुषव्याघ्रं लोके सन्तः प्रचक्षते। नाशक्यं विद्यते लोके सात्यकेरिति माधव॥ तत् त्वां यदभिवक्ष्यामि तत् कुरुष्व महाबल। सम्भावना हि लोकस्य मम पार्थस्य चोभयोः॥ नान्यथा तां महाबाहो सम्प्रकर्तुमिहार्हसि। परित्यज्य प्रियान् प्राणान् रणे चर विभीतवत्॥ न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम्। अयुद्धमनवस्थानं संग्रामे च पलायनम्॥ भीरूणामसतां मार्गो नैष दाशार्हसेवितः। तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुङ्गव॥ वासुदेवो गुस्श्चापि तव पार्थस्य धीमतः। कारणद्वयमेतद्धि जानंस्त्वामहमब्रुवम्॥ मावमंस्था वचो मह्यं गुरुस्तव गुरोर्बाहम्। वासुदेवमतं चैव मम चैवार्जुनस्य च॥ सत्यमेतन्मयोक्तं ते याहि यत्र धनंजयः। एतद् वचनमाज्ञाय मम सत्यपराक्रम॥ प्रविशैतद् बलं तात धार्तराष्ट्रस्य दुर्मतेः। प्रविश्य च यथान्यायं संगम्य च महारथैः। यथार्हमात्मनः कर्म रणे सात्वत दर्शय॥ युधिष्ठिर उवाच असंतोषः प्रमादश्च मदो रागोऽप्रशान्तता। बलं मोहोऽभिमानश्चाप्युद्वेगश्चैव सर्वशः॥ एभिः पाप्मभिराविष्टो राज्यं त्वमभिकाङ्क्षसे। निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव॥ य इमामखिलां भूमि शिष्यादेको महीपतिः। तस्याप्युदरमेकं वै किमिदं त्वं प्रशंससि॥ नाह्ना पूरयितुं शक्यां न मासैर्भरतर्षभ। अपूर्यां पूरयन्निच्छामायुषापि न शक्नुयात्॥ यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति।। अल्पाहारतया त्वग्निं शमयौदर्यमुत्थितम्॥ आत्मोदरकृतेऽप्राज्ञः करोति विघसं बहु। जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम्॥ मानुषान् कामभोगांस्त्वमैश्वर्यं च प्रशंससि। अभोगिनोऽबलाश्चैव यान्ति स्थानमनुत्तमम्॥७॥ योगः क्षेमश्च राष्ट्रस्य धर्माधर्मों त्वयि स्थितौ। मुच्यस्व महतो भारात् त्यागमेवाभिसंश्रय॥ एकोदरकृते व्याघ्रः करोति विघसं बहु। तमन्येऽप्युपजीवन्ति मन्दा लोभवशा मृगाः॥ विषयान् प्रतिसंगृह्य संन्यासं कुरुते यतिः। न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा॥ पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा। अब्भक्षैर्वायुभक्षैश्च तैरयं नरको जितः॥ यस्त्विमां वसुधां कृत्स्ना प्रशासेदखिलां नृपः। तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः॥ संकल्पेषु निरारम्भो निराशो निर्ममो भव। अशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम्॥ निरामिषा न शोचन्ति शोचसि त्वं किमामिषम्। परित्यज्यामिषं सर्वं मृषावादात् प्रमोक्ष्यसे॥ पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ। ईजानाः पितृयानेन देवयानेन मोक्षिणः॥ तपसा ब्रह्मचर्येण स्वाध्यायेन महर्षयः। विमुच्य देहांस्ते यान्ति मृत्योरविषयं गताः॥ आमिषं बन्धनं लोके कर्मेहोक्तं तथामिषम्। ताभ्यां विमुक्तः पापाभ्यां पदमाप्नोति तत् परम्॥ अपि गाथां पुरा गीतां जनकेन वदन्त्युत। निर्द्वन्द्वेन विमुक्तेन मोक्षं समनुपश्यता॥ अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन। मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन॥ प्रज्ञाप्रासादमारुह्य अशोचशोचतो जनान्। जगतीस्थानिवाद्रिस्थो मन्दबुद्धीनवेक्षते॥ दृश्यं पश्यति यः पश्यन् स चक्षुष्मान् स बुद्धिमान्। अज्ञातानां च विज्ञानात् सम्बोधाद् बुद्धिरुच्यते।।२शा यस्तु वाचं विजानाति बहुमानमियात् स वै। ब्रह्मभावप्रपन्नानां वैद्यानां भावितात्मनाम्॥ यदा भूतपृथग्भावमेकस्थमनुपश्यति। तत एव च विस्तारं ब्रह्म सम्पद्यते तदा॥ ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पचेतसः। नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम्॥ होत्रवाहन उवाच रामं द्रक्ष्यसि भद्रे त्वं जामदग्न्यं महावने। उग्रे तपसि वर्तन्तं सत्यसंधं महाबलम्॥ महेन्द्रं वै गिरिश्रेष्ठं रामो नित्यमुपास्ति ह। ऋषयो वेदविद्वांसो गन्धर्वाप्सरसस्तथा।। तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम। अभिवाद्य च तं मूर्धां तपोवृद्धं दृढव्रतम्॥ ब्रूयाचैनं पुनर्भद्रे यत् ते कार्यं मनीषितम्। मयि संकीतिते रामः सर्वं तत् ते करिष्यति॥ मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे। जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः॥ एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने। अकृतव्रणः प्रादुरासीद् रामस्यानुचरः प्रियः॥ ततस्ते मुनयः सर्वे समुत्तस्थुः सहस्रशः। स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः॥ ततो दृष्ट्वा कृतातिथ्यमन्योन्यं ते वनौकसः। सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम्॥ ततस्ते कथयामासुः कथास्तास्ता मनोरमाः। धन्या दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः॥ ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः। राम श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम्॥ क्व सम्प्रति महाबाहो जामदग्न्यः प्रतापवान्। अकृतव्रण शक्यो वै दुष्टुं वेदविदां वरः॥ अकृतव्रण उवाच भवन्तमेव सततं रामः कीर्तयति प्रभो। सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव॥ इह रामः प्रभाते श्वो भवितेति मतिर्मम। द्रष्टास्येनमिहायान्तं तवं दर्शनकाझ्या॥ इयं च कन्या राजर्षे किमर्थं वनमागता। कस्य चेयं तव च का भवतीच्छामि वेदितुम्॥ होत्रवाहन उवाच दौहित्रीयं मम विभो काशिराजसुता प्रिया। ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ॥ इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता। अम्बिकाम्बालिके कन्ये कनीयस्यौ तपोधन॥ समेतं पार्थिवं क्षत्रं काशिपूर्यां ततोऽभवत्। कन्यानिमित्तं विप्रर्षे तत्रासीदुत्सवो महान्॥ ततः किल महावीर्यो भीष्मः शान्तनवो नृपान्। अधिक्षिप्य महातेजास्तिस्रः कन्या जहारताः॥ निर्जित्य पृथिवीपालानथं भीष्मो गजाह्वयम्। आजगाम विशुद्धात्मा कन्याभिः सह भारतः॥ सत्यवत्यै निवेद्याथ विवाहं समनन्तरम्। भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः॥ तं तु वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम्। अब्रवीत् तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ॥ मया शाल्वपतिर्वीरो मनसाभिवृतः पतिः। न मामर्हसि धर्मज्ञ दातुं भ्रात्रेऽन्यमानसाम्॥ तच्छ्रुत्वा वचनं भीष्मः सम्मन्त्र्य सह मन्त्रिभिः। निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः॥ अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः। कन्येयं मुदिता तत्र काले वचनमब्रवीत्॥ विसर्जिताऽस्मि भीष्मेण धर्मं मां प्रतिपादय। मनसाभिवृतः पूर्वं मया त्वं पार्थिवर्षभ॥ प्रत्याचख्यौ च शाल्वोऽस्याश्चारित्रस्याभिशङ्कितः। सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम्॥ मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात्। अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते॥ अम्बोवाच भगवन्नेवमेवेह यथाऽऽह पृथिवीपतिः। शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः॥ न झुत्सहे स्वनगरं प्रतियातुं तपोधन। अपमानभयाच्चैव व्रीडया च महामुने॥ यत् तु मां भगवान् रामो वक्ष्यति द्विजसत्तम। तन्मे कार्यतमं कार्यमिति मे भगवन् मतिः॥ धृतराष्ट्र उवाच निनदन्तं तथा तं तु भीमसेनं महाबलम्। मेघस्तनितनिर्घोष के वीराः पर्यवारयन्॥ न हि पश्याम्यहं तं वै त्रिषु लोकेषु कंचन। क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे॥ गदां युयुत्समानस्य कालस्येवेह संजय। न हि पश्याम्यहं युद्धे यस्तिष्ठेदग्रतः पुमान्॥ रथं रथेन यो हन्यात् कुञ्जरं कुञ्जरेण च। कस्तस्थ समरे स्थाता साक्षादपि पुरंदरः॥ क्रुद्धस्य भीमसेनस्य मम पुत्रान् जिघांसतः। दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः॥ भीमसेनदवाग्नेस्तु मम पुत्रांस्तृणोपमान्। प्रधक्षतो रणमुखे केऽतिष्ठन्नग्रतो नराः॥ काल्यमानांस्तु पुत्रान् मे दृष्ट्वा भीमेन संयुगे। कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन्॥ न मेऽर्जुनाद् भयं तादृक् कृष्णान्नापि च सात्वतात्। हुतभुग्जन्मनो नैव यादृग्मीमाद् भयं मम॥ भीमवह्नेः प्रदीप्तस्य मम पुत्रान् दिधक्षतः। के शूराः पर्यवर्तन्त तन्ममाचक्ष्व संजय॥ संजय उवाच तथा तु नर्दमानं तं भीमसेनं महाबलम्। तुमुलेनैव शब्देन कर्णोऽप्यभ्यद्रवद्बली॥ व्याक्षिपन् सुमहचातमतिमात्रममर्षणः। कर्णः सुयुद्धमाकाङ्क्षन् दर्शयिष्यन् बलं मृधे॥ रुरोध मार्ग भीमस्य वातस्येव महीरुहः। भीमोऽपि दृष्ट्वा सावेगं पुरो वैकर्तनं स्थितम्॥ चुकोप बलवद्वीरश्चिक्षेपास्य शिलाशितान्। तान् प्रत्यगृह्णात् कर्णोऽपि प्रतीपं प्रापयच्छरान्॥ ततस्तु सवर्याधानां यततां प्रेक्षतां तदा। प्रावेपन्निव गात्राणि कर्णभीमसमागमे॥ रथिनां सादिनां चैन तयोः :श्रुत्वा तलखनम्। भीमसेनस्य निनदं श्रुत्वा घोरं रणाजिरे॥ खं च भूमिं च संरुद्धां मेनिरे क्षत्रियर्षभाः। पुनरिण नादेन पाण्डवस्य महात्मनः॥ समरे सर्वयोधानां धनूंष्यभ्यपतन् क्षितौ। शस्त्राणि न्यपतन् दोर्थ्यः केषांचिचासवोऽद्रवन्॥ वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रवुः। वाहनानि च सर्वाणि बभूवुर्विमनांसि च॥ प्रादुरासन् निमित्तानि घोराणि सुबहून्युत। गृध्रकङ्कबलैश्चासीदन्तरिक्षं समावृतम्॥ तस्मिन् सुतुमले राजन् कर्णभीमसमागमे। ततः कर्णस्तु विंशत्या शराणां भीममार्दयत्।॥ विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः। प्रहस्य भीमसेनोऽपि कर्ण प्रत्याद्रवद् रणे॥ सायकानां चतुःष्ट्या क्षिप्रकारी महायशाः। तस्य कर्णो महेष्वासः सायंकाश्चतुरोऽक्षिपत्॥ असम्प्राप्तांश्च तान् भीमः सायकैर्नप्तपर्वभिः। चिच्छेद बहुधा राजन् दर्शयन् पाणिलाघवम्॥ तं कर्णश्छादयामास शरवातैरनेकशः। संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः॥ चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः। विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः॥ अथान्यद् धनुरादाय सज्यं कृत्वा च सूतजः। विव्याध समरे भीमं भीमकर्मा महारथः॥ तस्य भीमो भृशं क्रुद्धस्त्रीशरान् नतपर्वणः। निचखानोरसि क्रुद्धः सूतपुत्रस्य वेगतः॥ तैः कर्णोऽराजत शरैरुरोर्मध्यगतैस्तदा। महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ।॥ सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः। धातुप्रस्यन्दिनः शैलाद् यथा गैरिकधातवः॥ किंचिद् विचलितः कर्णः सुप्रहाराभिपीडितः। आकर्णपूर्णमाकृष्य भीमं विव्याध सायकैः॥ चिक्षेप च पुनर्बाणाशतशोऽथ सहस्रशः। स शरैरर्दितस्तेन कर्णेन दृढधन्विना। धनुर्ध्यामच्छिनत् तूर्ण भीमस्तस्य क्षुरेण ह॥ सारथिं चास्य भल्लेन रथनीडादपातयत्। वाहांश्च चतुरस्तस्य व्यंसूश्चक्रे महारथः॥ हताश्वात् तु रथात् कर्णः समाप्लुत्य विशाम्पते। स्यन्दनं वृषसेनस्य तूर्णमापुप्लुवे भयात्॥ निर्जित्य त रणे कर्ण भीमसेनः प्रतापवान्। ननाद बलवान् नादं पर्जन्यनिनदोपमम्॥ तस्य तं निन्दं श्रुत्वा प्रहृष्टोऽभूद् युधिष्ठिरः। कर्ण पराजितं मत्वा भीमसेनेन संयुगे॥ समन्ताच्छङ्कुनिनदं पाण्डुसेनाकरोत् तदा। शत्रुसेनाध्वनि श्रुत्वा तावका ह्यनदन् भृशम्॥ स शङ्खबाणनिनदैर्हर्षाद् राजा स्ववाहिनीम्। चक्रे युधिष्ठिरः संख्ये हर्षनादैश्च संकुलाम्॥ गाण्डीवं व्याक्षिपत् पार्थः कृष्णोऽप्यन्जमवादयत्। तमन्तर्धाय निनदं भीमस्य नदतो ध्वनिः। अश्रूयत तदा राजन् सर्वसैन्येषु दारुणः॥ ततो व्यायच्छतामस्त्रैः पृथक् पृथगजिह्मगैः। मृदुपूर्व तु राधेयो दृढपूर्व तु पाण्डवः॥ वैशम्पायन उवाच शरतल्पगतं भीष्मं वृद्धं कुरुपितामहम्। उपगम्य महाप्राज्ञः पर्यपृच्छद् युधिष्ठिरः॥ युधिष्ठिर उवाच अङ्गानां रूपसौभाग्यं प्रियं चैव कथं भवेत्। धर्मार्थकामसंयुक्तः सुखभागी कथं भवेत्॥ भीष्म उवाच मार्गशीर्षस्य मासस्य चन्द्रे मूलेन संयुते। पादौ मूलेन राजेन्द्र जंघायामथ रोहिणीम्॥ अश्चिन्यां सक्थिनी चैव उरू चाषाढयोस्तथा। गुह्यं तु फाल्गुनी विद्यात् कृत्तिका कटिकास्तथा।॥ नाभिं भाद्रपदे विद्याद् रेवत्यामक्षिमण्डलम्। पृष्ठमेव धनिष्ठासु अनुराधोत्तरास्तथा॥ बाहुभ्यां तु विशाखासु हस्तौ हस्तेन निर्दिशेत्। पुनर्वस्वङ्गुली राजन्नाश्लेषासु नखास्तथा॥ ग्रीवां ज्येष्ठा च राजेन्द्र श्रवणेन तु कर्णयोः। मुखं पुष्येण दानेन दन्तोष्ठौ स्वातिरुच्यते॥ हासं शतभिषां चैव मघां चैवाथ नासिकाम्। नेत्रे मृगशिरो विद्याल्ललाटे मित्रमेव तु॥ भरण्यां तु शिरो विद्यात् केशानार्दो नराधिप। समाप्ते तु घृतं दद्याद् ब्राह्मणे वेदपारगे॥ सुभगो दर्शनीयश्च ज्ञानभाग्यथ जायते। जायते परिपूर्णाङ्गः पौर्णमास्येव चन्द्रमाः॥ वैशम्पायन उवाच ततः प्रज्वलिते वह्नौ शाईकास्ते सुदुःखिताः। व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम्॥ निशम्य पुत्रकान् बालान् माता तेषां तपस्विनी। जरिता शोकदुःखाती विललाप सुदुःखिता॥ जरितोवाच अयमग्निर्दहन् कक्षमित आयाति भीषणः। जगत् संदीपयन् भीमो मम दुःखविवर्धनः॥ इमे च मां कर्षयन्ति शिशवो मन्दचेतसः। अबर्दाश्चरङ्गीनाः पूर्वेषां नः परायणाः॥ त्रासयंश्चायमायाति लेलिहानो महीरुहान्। अजातपक्षाश्च सुता न शक्ताः सरणे मम॥ आदाय च न शक्नोमि पुत्रांस्तरितुमात्मना। न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे॥ कं तु जह्यामहं पुत्रं कमादाय व्रजाम्यहम्। किं न मे नु मे स्यात् कृतं कृत्वा मन्यध्वं पुत्रकाः कथम्।७।। चिन्तयानां विमोक्षं वो नाधिगच्छामि किंचन। छादयिष्यामि वो गात्रैः करिष्ये मरणं सह॥ जरितारौ कुलं ह्येतज्ज्येष्ठत्वेन प्रतिष्ठितम्। सारिसृक्कः प्रजायेत पितॄणां कुलवर्धनः॥ स्तम्बमित्रस्तपः कुर्याद् द्रोणो ब्रह्मविदां वरः। इत्येवमुक्त्वा प्रययौ पिता वो निर्वृणः पुरा॥ कमुपादाय शक्येयं गन्तुं कष्टापदुत्तमा। किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला। नापश्यत् स्वधिया मोक्षं स्वसुतानां तदानलात्॥ वैशम्पायन उवाच एवं ब्रुवाणां शास्तेि प्रत्यूचुरथ मातरम्। स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट॥ अस्मास्विह विनष्टेषु भवितारः सुतास्तव। त्वयि मातर्विनष्टायां न नः स्यात् कुलसंततिः॥ अन्ववैश्यैतदुभयं क्षेमं स्याद् यत् कुलस्य नः। तद् वै कर्तुं परः कालो मातरेष भवेत् तव॥ मा त्वं सर्वविनाशाय स्नेहं कार्षीः सुतेषु नः। न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः॥ जरितोवाच इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः। तदाविशध्वं त्वरिता वढेरत्र न वो भयम्॥ ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकः। एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः॥ तत एष्याम्यतीतेऽग्नौ विहन्तुं पांसुसंचयम्। रोचतामेष वो वादो मोक्षार्थं च हुताशनात्॥ शाईका ऊचुः अबर्हान् मांसभूतान् नः क्रव्यादाखुर्विनाशयेत्। पश्यमाना भयमिदं प्रवेष्टुं नाा शक्नुमः॥ कथमग्निर्न ने धक्ष्येत् कथमाखु नाशयेत्। कथं न स्यात् पिता मोघः कथं माता ध्रियेत नः॥ बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम्। अन्ववेक्ष्यैतदुभयं श्रेयान् दाहो न भक्षणम्॥ गर्हितं मरणं नः स्यादाखुना भक्षिते बिले। शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात्॥ वैशम्पायन उवाच सैन्धवैरभवद् युद्धं ततस्तस्य किरीटिनः। हतशेषैर्महाराज हतानां च सुतैरपि॥ तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम्। प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम्॥ अश्वं च तं परामृश्य विषयान्ते विषोपमाः। न भयं चक्रिरे पार्थाद् भीमसेनादनन्तरात्॥ तेऽविदूराद् धनुष्पाणिं यज्ञियस्य हयस्य च। बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम्॥ ततस्ते तं महावीर्या राजानः पर्यवारयन्। जिगीषन्तो नरव्याघ्र पूर्वं विनिकृता युधि॥ ते नामान्यपि गोत्राणि कर्माणि विविधानि च। कीर्तयन्तस्तदा पार्थं शरवषैरवाकिरन्॥ ते किरन्तः शरवातान् बारणप्रतिवारणान्। रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन्॥ ते समीक्ष्य च तं कृष्णमुग्रकर्माणमाहवे। सर्वे ययुधिरे वीरा रथस्थास्तं पदातिनम्॥ ते तमाजन्जिरे वीरं निवातकवचान्तकम्। संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च।॥ ततो रथसहस्रेण हयानामयुतेन च। कोष्ठकीकृत्य बीभत्सुं प्रहृष्टमनसोऽभवन्॥ तं स्मरन्तो वधं वीरा: सिन्धुराजस्य चाहवे। जयद्रथस्य कौरव्य समरे सव्यसाचिना॥ ततः पर्जन्यवत् सर्वे शरवृष्टीरवासृजन्। तै: कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा॥ स शरैः समवच्छन्नश्चकाशे पाण्डवर्षभः। पञ्जरान्तरसंचारी शकुन्त इव भारत॥ ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते। त्रैलोक्यमभवद् राजन् रविरासीच्च निष्प्रभः॥ ततो ववौ महाराज मारुतो लोमहर्षणः। राहुरग्रसदादित्यं युगपत् सोममेव च॥ उल्काश्च जधिरे सूर्यं विकीर्यन्त्यः समन्ततः। वेपथुश्चाभवद् राजन् कैलासस्य महागिरेः॥ मुमुचुः श्वासमत्युष्णं दुःखशोकसमन्विताः। सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च॥ शशं चाशु विनिर्भिद्य मण्डलं शशिनोऽपतत्। विपरीता दिशश्चापि सर्वा धूमाकुलास्तथा॥ रासभारुणसंकाशा धनुष्मन्तः सविद्युतः। आवृत्य गगनं मेघा मुमुचुर्मोसशोणितम्॥ एवमासीत् तदा वीरे शरवर्षेण संवृते। फाल्गुने भरतश्रेष्ठ तद्युतमिवाभवत्।॥ तस्य तेनावकीर्णस्य शरजालेन सर्वतः। मोहात् पपात गाण्डीवमावापश्च करादपि।॥ तस्मिन् मोहमनुप्राप्ते शरजालं महत् तदा। सैन्धवा मुमुचुस्तूर्णं गतसत्त्वे महारथे॥ ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः। सर्वे वित्रस्तमनसस्तस्य शान्तिकृतोऽभवन्॥ ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च। ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः॥ ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव। तस्थावचलवद् धीमान् संग्रामे परमास्त्रवित्॥ विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः। यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः॥ ततः स शरवर्षाणि प्रत्यमित्रान् प्रति प्रभुः। ववर्ष धनुषा पार्थो वर्षाणीव पुरंदरः॥ ततस्ते सैन्धवा योधाः सर्व एव सराजकाः। नादृश्यन्त शरैः कीर्णाः शलभैरिव पादपाः॥ तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः । मुमुचुश्चाश्रु शोकार्ताः शुशुचुश्चापि सैन्धवाः॥ तांस्तु सर्वान् नरव्याघ्रः सैन्धवान् व्यचरत् बली। अलातचक्रवद् राजशरजालैः समार्पयत्॥ तदिन्द्रजालप्रतिम बाणजालममित्रहा। विसृज्य दिक्षु सर्वासु महेन्द्र इव वज्रभृत्॥ मेघजालनिभं सैन्यं विदार्य शरवृष्टिभिः। विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः॥ कृष्ण उवाच मूर्जा निपत्य नियतस्तेजःसंनिचये ततः। परमं हर्षमागत्य भगवन्तमथाब्रुवम्॥ धर्मे दृढत्वं युधि शत्रुघातं यशस्तथाग्र्यं परमं बलं च। योगप्रियत्वं तव संनिकर्ष वृणे सुतानां च शतं शतानि॥ एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शङ्करः। ततो मां जगतो माता धारिणी सर्वपावनी॥ उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः। दत्तो भगवता पुत्रः साम्बो नाम तवानघ।॥ मत्तोऽप्यष्टौ वरानिष्टान् गृहाण त्वं ददामि ते। प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन।॥ द्विजेष्वकोपं पितृतः प्रसाद शतं सुतानां परमं च भोगम्। कुले प्रीतिं मातृतश्च प्रसाद शमप्राप्तिं प्रवृणे चापि दाक्ष्यम्॥ उमा उवाच एवं भविष्यत्यमरप्रभाव नाहं मृषा जातु वदे कदाचित्। भार्यासहस्राणि च षोडशैव तासु प्रियत्वं च तथाक्षयं च॥ प्रीतिं चाग्र्यां बान्धवानां सकाशाद् ददामि तेऽहं वपुषः काम्यतां च। भोक्ष्यन्ते वै सप्ततिं वै शतानि गृहे तुभ्यमतिथीनां च नित्यम्॥ एवं दत्त्वा वरान् देवो मम देवी च भारत। अन्तर्हितः क्षणे तस्मिन् सगणो भीमपूर्वज॥ एतदत्यद्भुतं पूर्वं ब्राह्मणायातितेजसे। उपमन्यवे मया कृत्स्नं व्याख्यातं पार्थिवोत्तम। नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत॥ उपमन्युरुवाच नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः। नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे॥ वैशम्पायन उवाच धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपाण्डवाः। अभ्ययुर्धातरः सर्वे गान्धारी सह केशवाः॥ ततो ज्ञात्वा हतामित्रं युधिष्ठिरमुपागतम्। गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता॥ तस्याः पापमभिप्रायं विदित्वा पाण्डवान् प्रति। ऋषिः सत्यवतीपुत्रः प्रागेव समबुध्यत॥ स गङ्गायामुपस्पृश्य पुण्यगन्धि पयः शुचि। तं देशमुपसम्पेदे परमर्षिर्मनोजवः॥ दिव्येन चक्षुषा पश्यन् मनसा तद्गतेन च। सर्वप्राणभृतां भावं स तत्र समबुध्यत॥ स स्नुषामब्रवीत् काले कल्यवादी महातपाः। शापकालमवाक्षिप्य शमकालमुदीरयन्॥ न कोपः पाण्डवे कार्यो गान्धारि शमभाप्नुहि! वचो निगृह्यतामेतच्छृणु चेदं वचो मम॥ उक्तास्यष्टादशाहानि पुत्रेण जयमिच्छता। शिवमाशास्व मे मातयुध्यमानस्य शत्रुभिः॥ सा तथा याच्यमाना त्वं काले काले जयैषिणा। उक्तवत्यसि गान्धारि यतो धर्मस्ततो जयः॥ न चाप्यतीतां गान्धारि वाचं ते वितथामहम्। स्मरामि भाषमाणायास्तथा प्राणिहिता ह्यसि॥ विग्रहे तुमुले राज्ञां गत्वा पारमसंशयम्। जितं पाण्डुसुतैर्युद्धे नूनं धर्मस्ततोऽधिकः॥ क्षमाशीला पुरा भूत्वा साद्य न क्षमसे कथम्। अधर्मं जहि धर्मज्ञे यतो धर्मस्ततो जयः॥ स्वं च धर्म परिस्मृत्य वाचं चोक्ता मनस्विनि। कोपं संयच्छ गान्धारि मैवं भूः सत्यवादिनि॥ भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः। पुत्रशोकेन तु बलान्मनो विह्वलतीव मे॥ यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया। तथैव धृतराष्ट्रेण रक्षितव्या यथा त्वया॥ दुर्योधनापराधेन शकुनेः सौबलस्य च। कणंदुःशासनाभ्यां च कृतोऽयं कुरुसंक्षयः॥ नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः। नकुलः सहदेवश्च नैव जातु युधिष्ठिरः॥ युध्यमाना हि कौरव्याः कृन्तमानाः परस्परम्। निहताः सहिताश्चान्यैस्तच नास्त्यप्रियं मम॥ किं तु कर्माकरोद् भीमो वासुदेवस्य पश्यतः। दुर्योधनं समाहूय गदायुद्धे महामनाः॥ शिक्षयाभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे। अधो नाभ्याः प्रहतवांस्तन्मे कोपमवर्धयत्॥ कथं नु धर्म धर्मज्ञैः समुद्दिष्टं महात्मभिः। त्यजेयुराहवे शूराः प्राणहेतोः कथंचन॥ कर्ण उवाच या नः श्रुता मनुष्येषु स्त्रियो रूपेण सम्मताः। तासामेतादृशं कर्म न कस्याश्चन शुश्रुम॥ क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति। द्रौपदी: पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत्॥ अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम्। पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत्॥ वैशम्पायन उवाच तद् वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः। स्त्रीगतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः॥ भीम उवाच त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत्। अपत्यं कर्म विद्या.च यतः सृष्टाः प्रजास्ततः॥ अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते। देहे त्रितयमेवैतत् पुरुषस्योपयुज्यते॥ तन्नो ज्योतिरिहतं दाराणामभिमर्शनात्। धनंजय कथंस्विन् स्यादपत्यमभिमृष्टजम्॥ अर्जुन उवाच न चैवोक्ता न चानुक्ता हीनत: परुषाः गिरः। भारत प्रतिजल्पन्ति सदा तूत्तमपूरुषाः॥ स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि। सन्तः प्रतिविजानन्तो लब्धसम्भावनाः स्वयम्॥ भीम उवाच इहैवैतांस्त्वहं सर्वान् हन्मि शत्रून् समागतान्। अथ निष्क्रम्य राजेन्द्र समूलान् हन्मि भारत॥ किं नो विवदितेनेह किमुक्तेन च भारत। अद्यैवैतान् निहन्मीह प्रशाधि पृथिवीमिमाम्॥ इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्धातृभिः सह। मृगमध्ये यथा सिंहो मुहुर्मुहुरुदैक्षत॥ सान्त्व्यमानो वीक्षमाणः पार्थेनाक्लिष्टकर्मणा। खिद्यत्येव महाबाहुरन्तर्दाहेन वीर्यवान्॥ क्रुद्धस्य तस्य स्रोताभ्यः कर्णादिभ्ये नराधिप। सधूमः सस्फुलिङ्गज्रिर्चः पावकः समजायत॥ भृकुटीकृतदुष्प्रेक्ष्यमभवत् तस्य तन्मुखम्। युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः॥ युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम्। मैवमित्यब्रवीच्चैनं जोषमास्स्वेति भारत॥ निवार्य च महाबाहुं कोपसंरक्तलोचनम्। पितरं समुपातिष्ठद् धृतराष्ट्रं कृताञ्जलिः॥ धृतराष्ट्र उवाच बाणे तस्मिन् निकृत्ते तु धृष्टद्युम्ने च मोक्षिते। तेन वृष्णिप्रवीरेण युयुधानेन संजय॥ अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः। नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद् युधि॥ संजय उवाच सम्प्रद्रुतः क्रोधविषो व्यादितास्यशरासनः। तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान्॥ संरम्भामर्षताम्राक्षो महोरग इव श्वसन्। नरवीरः प्रमुदितः शौणैरश्वैर्महाजवैः॥ उत्पतद्भिरिवाकाशे क्रामद्भिरिव पर्वतम्। रुक्मपुङ्खाञ्छरानस्यन् युयुधानमुपाद्रवत्॥ शरपातमहावर्षं रथघोषबलाहकम्। कार्मुकाकर्षविक्षेपं नाराचबहुविद्युतम्॥ शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम्। द्रोणमेघमनावार्य हयमारुतचोदितम्॥ दृष्ट्वैवाभिपतन्तं तं शूरः परपुरंजयः। उवाज सूतं शैनेयः प्रहसन् युद्धदुर्मदः॥ एनं वै ब्राह्मणं शूरं स्वकर्मण्यनवस्थितम्। आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयापहम्॥ शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत्। आचार्यं राजपुत्राणां सततं शूरमानिनम्॥ ततो रजतसंकाशा माधवस्य हयोत्तमाः। द्रोणस्याभिमुखाः शीघ्रमगच्छन् वातरंहसः॥ ततस्तौ द्रोणशैनेयो युयुधाते परंतपौ। शरैरनेकसाहस्रेस्ताडयन्तौ परस्परम्॥ इषुजालावृतं व्योम चक्रतुः पुरुषर्षभौ। पूरयामासतुर्वीरावुभौ दश दिशः शरैः॥ मेघाविवातपायाये धाराभिरितरेतरम्। न स्म सूर्यस्तदा भाति न ववौ च समीरणः॥ इषुजालावृतं घोरमन्धकारं समन्ततः। अनाधृष्यमिवान्येषां शूराणामभवत् तदा॥ अन्धकारीकृते लोके द्रोणशैनेययोः शरैः। तयोः शीघ्रास्त्रविदुषोोणसात्वतयोस्तदा॥ नान्तरं शरवृष्टीनां ददृशे नरसिंहयोः। इपूणां संनिपातेन शब्दो धाराभिघातजः॥ शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः। नाराचैर्व्यतिविद्धानां शराणां रूपमाबभौ॥ आशीविषविदष्टानां सर्पाणामिव भारत। तयोर्ध्यातलनिर्घोषः शुश्रुवे युद्धशौण्डयोः॥ अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव। उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी॥ रुक्मपुकैः शरैश्छिन्नाश्चित्ररूपा बभुस्तदा। निर्मलानामजिह्यानां नाराचानां विशाम्पते॥ निर्मुक्ताशीविषाभानां सम्पातोभूत् सुदारुणः। उभयोः पतिते छत्रे तथैव पतितो ध्वजौ॥ उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ। नवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ॥ अन्योन्यमभ्यविध्येतां जीवितान्तकरैः शरैः। गर्जितोत्कृष्टसंनादाः शङ्खदुन्दुभिनिःस्वनाः॥ उपारमन् महाराज व्याजहार न कश्चन। तूष्णीम्भूतान्यनीकानि योधा युद्धादुपारमन्॥ ददर्श द्वैरथं ताभ्यां जातकौतूहलो जनः। रथिनो हस्तियन्तारो हयारोहा: पदातयः॥ अवैक्षन्ताचलैत्रः परिवार्य नरर्षभौ। हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम्॥ तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः। मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः॥ ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः। वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः॥ विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः। जातरूपमयीभिश्च राजनीतिभश्च मूर्धसु॥ गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत। सबलाकाः सखद्योताः सैरावतशतह्रदाः॥ अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः। अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः॥ तद् युद्धं युयुधानस्य द्रोणस्य च महात्मनः। विमानाग्रगता देवा ब्रह्मसोमपुरोगमाः॥ सिद्धचारणसंघाश्च विद्याधरमहोरगाः। गतप्रत्यागताक्षेपैश्चिौरस्त्रविघातिभिः॥ विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः। हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ॥ अन्योन्यमभिविध्येतां शरैस्तौ द्रोणसात्यकी। ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे॥ पत्रिभिः सुदृढराशु धनुश्चैव महाद्युतेः। निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः॥ सज्यं चकार तदपि चिच्छेदास्य च सात्यकिः। ततस्त्वरन् पुनर्दोणो धनुर्हस्तो व्यतिष्ठत॥ सज्यं सज्यं धनुश्चास्य चिच्छेद निशितैः शरैः। एवमेकशतं छिन्नं धनुषां दृढधन्विना॥ न चान्तरं तयोर्दृष्टं संधाने छेदनेऽपि च। ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम्॥ युयुधानस्य राजेन्द्र मनसैतदचिन्तयत्। एतदस्त्रबलं रामे कार्तवीर्ये धनंजये॥ भीष्मे च पुरुषव्याघ्र यदिदं सात्वतां वरे। तं चास्य मनसा द्रोणः पूजयामास विक्रमम्॥ लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः। तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः॥ न तामालक्षयामासुर्लघुतां शीघ्रचारिणः। गन्धर्वाश्च विशाम्पते॥ सिद्धाचारणसंघाश्च विदुयॊणस्य कर्म तत्। देवाश्च युयुधानस्य ततोऽन्यद् धनुरादाय द्रोणः क्षत्रियमर्दनः॥ अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत। तस्यास्त्राण्यस्त्रमायाभिः प्रतिहत्य स सात्यकिः॥ जघान निशितैर्बाणैस्तदद्भुतमिवाभवत्। तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे॥ युक्तं योगेन योगज्ञास्तावकाः समपूजयन्। यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः॥ तमाचार्योऽप्यसम्भ्रान्तोऽयोधयच्छत्रुतापनः ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः॥ वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत्। तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः॥ दिव्यमस्त्रं महेष्वासो वारुणं समुदैरयत्। हाहाकारो महानासीद् दृष्ट्वा दिव्यास्त्रधारिणौ॥ न विचेरुस्तदाकाशे भूतान्याकाशगाम्यपि। अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते॥ न यावदभ्यपद्येतां व्यावर्तदथ भास्करः। ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः॥ नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम्। धृष्टद्युम्नमुखैः सार्ध विराटश्च सकेकयः॥ मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा। द्रोणमभ्युपपद्यन्त दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः॥ सपनैः परिवारितम्। ततो युद्धमभूद् राजेस्तेषां तव च धन्विनाम्॥ रजसा संवृते लोके शरजालसमावृते। सर्वमाविग्नमभवन्न प्राज्ञायत किंचन। सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत॥ वैशम्पायन उवाच प्रतिज्ञाय तु दुष्यन्ते प्रतियाते शकुन्तलाम्। गर्भं सुषाव वामोरू: कुमारममितौजसम्॥ त्रिषु वर्षेषु पूर्णेषु दीप्तानलसमद्युतिम्। रूपौदार्यगुणोपेतं दौष्यन्ति जनमेजय॥ जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः। विधिवत् कारयामास वर्धमानस्य धीमतः॥ दन्तैः शुकैः शिखरिभिः सिंहसंहननो महान्। चक्राङ्कितकरः श्रीमान् महामूर्धा महाबलः॥ कुमारो देवगर्भाभः स तत्राशु व्यवर्धत। षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति॥ सिंहव्याघ्रान् वराहांश्च महिषांश्च गजांस्तथा। बबन्ध वृक्षे बलवानाश्रमस्य समीपतः॥ आरोहन् दमयंश्चैव क्रीडंश्च परिधावति। ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः॥ अस्त्वयं सर्वदमनः सर्वं हि दमयत्यसौ। स सर्वदमनो नाम कुमारः समपद्यत॥ विक्रमेणौजसा चैव बलेन च समन्वितः। तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम्॥ समयो यौवराज्यायेत्यब्रवीच शकुन्तलाम्। तस्य तद् बलमाज्ञाय कण्वः शिष्यानुवाच ह॥ शकुन्तलामिमां शीघ्रं सहपुत्रामितो गृहात्। भर्तुः प्रापयतागारं सर्वलक्षणपूजिताम्॥ नारीणां चिरवासो हि बान्धवेषु न रोचते। कीर्तिचारित्रधर्मजस्तस्मान्नयत मा चिरम्॥ तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्त महौजसः। शकुन्तलां पुरस्कृत्य दुष्यन्तस्य पुरं प्रति॥ गृहीत्वामरगर्भाभं पुत्रं कमललोचनम्। आजगाम ततः सुभूर्दुष्यन्तं विदिताद् वनात्॥ अभिसृत्य च राजानं विदिता च प्रवेशिता। सह तेनैव पुत्रेण बालार्कसमतेजसा॥ निवेदयित्वा ते सर्वे आश्रमं पुनरागताः। पूजयित्वा यथान्यायमब्रवीच शकुन्तला॥ शकुन्तलोवाच अयं पुत्रस्त्वया राजन् यौवराज्येऽभिषिच्यताम्। त्वया ह्ययं सुतो राजन् मय्युत्पन्नः सुरोपमः। यथासमयमेतस्मिन् वर्तस्व पुरुषोत्तम॥ यथा मत्सङ्गमे पूर्वं यः कृतः समयस्त्वया। तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति॥ सोऽथ श्रुत्वैव तद् वाक्यं तस्या राजा स्मरन्नपि। अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि॥ धर्मकामार्थसम्बन्धं न स्मरामि त्वया सह। गच्छ वा तिष्ठ वा कामं यद् वापीच्छसि तत् कुरु॥ सैवमुक्ता वरारोहा वीडितेव तपस्विनी। नि:संज्ञेव च दुःखेन तस्थौ स्थूणेव निश्चला॥ संरम्भामर्षताम्राक्षी स्फुरमाणौष्ठसम्पुटा। कटाक्षैर्निर्दहन्तीव तिर्यग् राजानमैक्षत॥ आकारं गूहमानां च मन्युना च समीरिता। तपसा सम्भृतं तेजो धारयामास वै तदा।॥ सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता। भर्तारमभिसम्प्रेक्ष्य क्रुद्धा वचनमब्रवीत्॥ जानन्नपि महाराज कस्मादेवं प्रभाषसे। न जानामीति निःशङ्कं यथान्यः प्राकृतो जनः॥ अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च। कल्याणं वद साक्ष्येण माऽऽत्मानमवमन्यथाः॥ योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते। किं तेन न कृतं पापं चौरेणात्मापहारिणा॥ एकोऽहमस्मीति च मन्यसे त्वं न हृच्छयं वेत्सि मुनि पुराणम्। यो वेदिता कर्मणः पापकस्य तस्यान्तिके त्वं वृजिनं करोपि॥ मन्यते पापकं कृत्वा न कश्चिद् वेत्ति मामिति। विदन्ति चैनं देवाश्च यश्चैवान्तरपूरुषः॥ आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च। अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम्॥ यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम्। हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति॥ न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः। तंयमः पापकर्माणं वियातयति दुष्कृतम्॥ योऽवमन्यात्मनाऽऽत्मानमन्यथा प्रतिपद्यते। न तस्य देवाः श्रेयांसो यस्यात्मापि न कारणम्॥ स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम्। अर्चाहीं नार्चयसि मां स्वयं भार्यामुपस्थिताम्॥ किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि। न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे॥ यदि मे याचमानाया वचनं न करिष्यसि। दुष्यन्त शतधा मूर्धा ततस्तेऽद्य स्फुटिष्यति॥ भार्यां पतिः सम्प्रविश्य स यस्माजायते पुनः। जायायास्तद्धि जायात्वं पौराणाः कवयो विदुः॥ यदागमवतः पुंसस्तदपत्यं प्रजायते। तत् तारयति संतत्या पूर्वप्रेतान् पितामहान्॥ पुत्राम्नो नरकाद् यस्मात् पितरं त्रायते सुतः। तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा॥ (पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते। अथ पौत्रस्य पुत्रेण मोदन्ते प्रपितामहः।।) सा भार्या या गृहे दक्षा सा भार्या या प्रजावती। सा भार्या या पतिप्राणा सा भार्या या पतिव्रता॥ अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा। भार्या मूलं त्रिवर्गस्य भार्या मूलं तरिष्यतः॥ भार्यावन्त: क्रियावन्तः सभार्या गृहमेधिनः। भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः॥ सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः। पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः॥ कान्तारेष्वपि विश्रामो जनस्याध्वनिकस्य वै। यः सदारः स विश्वास्यस्तस्माद् दाराः परागतिः॥४४। संसरन्तमपि प्रेतं विषमेष्वेकपातिनम्। भावान्वेति भर्तारं सततं या पतिव्रता॥ प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते। पूर्वं मृतं च भर्तारं पश्चात् साध्व्यनुगच्छति॥ एतस्मात् कारणाद् राजन् पाणिग्रहणमिष्यते। यदाप्नोति पतिर्भार्यामिहलोके परत्र च॥ आत्माऽऽत्मनैव जनितः पुत्र इत्युच्यते बुधैः। तस्माद् भार्यां नरः पश्येन्मातृवत् पुत्रमातरम्॥ भार्यायां जनितं पुत्रमादर्शेष्विव चाननम्। ह्लादते जनिता प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत्॥ दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः। ह्लादन्ते स्वेषु दारेषु धर्मार्ताः सलिलेष्विव॥ सुसंरब्धोऽपि रामाणां न कुर्यादप्रियं नरः। रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य हि॥ आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम्। ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाम्॥ प्रतिपद्य यदा सूनुर्धरणीरेणुगुण्ठितः। पितुराश्लिष्यतेऽङ्गानि किमस्त्यभ्यधिकं ततः॥ स त्वं स्वयमभिप्राप्तं साभिलाषमिमं सुतम्। प्रेक्षमाणं कटाक्षेण किमर्थमवमन्यसे॥ अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः। न भरेथाः कथं न त्वं धर्मज्ञः सन् स्वमात्मजम्॥ न वाससां न रामाणां नापां स्पर्शस्तथाविधः। शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः॥ ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्। गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः॥ स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः। पुत्रस्पर्शात् सुखतरः स्पर्शो लोके न विद्यते॥ त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम। इमं कुमारं राजेन्द्र तव शोकविनाशनम्॥ आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव। इति वागन्तरिक्षे मां सूतकेऽभ्यवदत् पुरा॥ ननु नामाङ्कमारोप्य स्नेहाद् ग्रामान्तरं गताः। मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः॥ वेदेष्वपि वदन्तीमं मन्त्रग्रामं द्विजातयः। जातकर्माणि पुत्राणां तवापि विदितं तथा॥ अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे। आत्मा वै पुत्रनामासि स जीव शरदः शतम्॥ जीवितं त्वदधीनं मे संतानमपि चाक्षयम्। तस्मात् त्वं जीव मे पुत्र सुसुखी शरदां शतम्॥ त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात् पुरुषोऽपरः। वै सरसीवामलेऽऽत्मानं द्वितीयं पश्य सुतम्॥ यथा ह्याहवनीयोऽग्निर्गार्हपत्यात् प्रणीयते। तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन् द्विधा कृतः॥ मृगावकृष्टेन पुरा मृगयां परिधावता। अहमासादिता राजन् कुमारी पितुराश्रमे॥ उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका। विश्वाची च घृताची च षडेवाप्सरसां वराः॥ तासां सा मेनका नाम ब्रह्मयोनिर्वराप्सराः। दिवः सम्प्राप्य जगतीं विश्वामित्रादजीजनत्॥ सा मां हिमवतः प्रस्थे सुषुवे मनेकाप्सराः। अवकीर्य च मां याता परात्मजमिवासती॥ किं नु कर्माशुभं पूर्वं कृतवत्यन्यजन्मनि। यदहं बान्धवैस्त्यक्ता बाल्ये सम्प्रति च त्वया।॥ कामं त्वया परित्यक्ता गमिष्यामि स्वमाश्रमम्। इमं तु बालं संत्यक्तुं नार्हस्यात्मजमात्मनः॥ दुष्यन्त उवाच न पुत्रमभिजानामि त्वयि जातं शकुन्तले। असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः॥ मेनका निरनुक्रोशा बन्धकी जननी तव। यया हिमवतः पृष्ठे निर्माल्यमिव चोज्झिता॥ स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव। विश्वामित्रो ब्राह्मणत्वे लुब्धः कामवशं गतः॥ मेनकाप्सरसां श्रेष्ठा महर्षीणां पिता च ते। तयोरपत्यं कस्मात् त्वं पुंश्चलीव प्रभाषसे॥ अश्रद्धेयमिदं वाक्यं कथयन्ती न लजसे। विशेषतो मत्सकाशे दुष्टतापसि गम्यताम्॥ व महर्षिः स चैवाग्र्यः साप्सराः क्व च मेनका। क्व च त्वमेवं कृपणा तापसीवेषधारिणी॥ अतिकायश्च ते पुत्रो बालोऽतिबलवानयम्। कथमल्पेन कालेन शालस्तम्भ इवोद्गतः॥ सुनिकृष्टा च ते योनिः पुंश्चलीव प्रभाषसे। यदृच्छया कामरागाजाता मेनकया ह्यसि॥ सर्वमेतत् परोक्षं मे यत् त्वं वदसि तापसि। नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया॥ शकुन्तलोवाच राजन् सर्पपमात्राणि परच्छिद्राणि पश्यसि। आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि॥ मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम्। ममैवोद्रिच्यते जन्म दुष्यन्त तव जन्मनः॥ क्षितावटसि राजेन्द्र अन्तरिक्षे चराम्यहम्। आवयोरन्तरं पश्य मेरुसर्षपयोरिव॥ महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च। भवनान्यनुसंयामि प्रभावं पश्य मे नृप॥ सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ। निदर्शनार्थं न द्वेषाच्छ्रुत्वा तं क्षन्तुमर्हसि॥ विरूपो यावदादर्श नात्मनः पश्यते मुखम्। मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम्॥ यदा स्वमुखमादर्श विकृतं सोऽभिवीक्षते। तदान्तरं विजानीते आत्मानं चेतरं जनम्।। ८८ अतीवरूपसम्पन्नो न कंचिदवमन्यते। अतीव जल्पन् दुर्वाचो भवतीह विहेठकः॥ मूतॊ हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः। अशुभं वाक्यमादत्ते पुरीषमिव सूकरः॥ प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः। गुणवद् वाक्यमादत्ते हंसः क्षीरमिवाम्भसः॥ अन्यान् परिवदन् साधुर्यथा हि परितप्यते। तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः॥ अभिवाद्य यथा वृद्धान् सन्तो गच्छन्ति निर्वृतिम्। एवं सज्जनमाक्रुश्य मूर्यो भवति निर्वृतः॥ सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः। यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान्॥ अतो हास्यतरं लोके किंचिदन्यन्न विद्यते। यत्र दुर्जनमित्याह दुर्जनः सज्जनं स्वयम्॥ सत्यधर्मच्युतात् पुंसः क्रुद्धादाशीविषादिव। अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः॥ स्वयमुत्पाद्य वै पुत्रं सदृशं यो न मन्यते। तस्य देवाः श्रियं प्रन्ति न च लोकानुपाश्नते॥ कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन्। उत्तमं सर्वधर्माणां तस्मात् पुत्रं न सन्त्यजेत्॥ स्वपत्नीप्रभवान् पञ्च लब्धान् क्रीतान् विवर्धितान्। कृतानन्यासु चोत्पन्नान् पुत्रान् वै मनुरब्रवीत्॥ धर्मकीर्त्यावहा नृणां मनस: प्रीतिवर्धनाः। त्रायन्ते नरकाजाता: पुत्रा धर्मप्लवाः पितॄन्। १०० ।। स त्वं नृपतिशार्दूल पुत्रं न त्यक्तुमर्हसि। आत्मानं सत्यधर्मी च पालयन् पृथिवीपते। नरेन्द्रसिंह कटं न वोढुं त्वमिहार्हसि॥ वरं कूपशताद् वापी वरं वापीशतात् क्रतुः। वरं क्रतुशतात् पुत्रः सत्यं पुत्रशताद् वरम्॥ अश्वमेधसहस्रं च सत्यं च तुलया धृतम्। अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते॥ सर्ववेदाधिगमनं सर्वतीर्थावगाहनम्। सत्यं च वचनं राजन् समं वा स्यान्न वा समम्।। १०४। नास्ति सत्यसमो धर्मो न सत्याद् विद्यते परम्। न हि तीव्रतरं किंचिदनृतादिह विद्यते॥ राजन् सत्यं परं ब्रह्म सत्यं च समयः परः। मा त्याक्षीः समयं राजन् सत्यं संगतमस्तु ते॥ अनृते चेत् प्रसङ्गस्ते श्रद्दधासि न चेत् स्वयम्। आत्मना हन्त गच्छामि त्वादृशे नास्ति संगतम्॥ त्वामृतेऽपि हि दुष्यन्त शैलराजावतंसकाम्। चतुरन्ताभिमामुर्वी पुत्रो मे पालयिष्यति॥ वैशम्पायन उवाच एतावदुक्त्वा राजानं प्रातिष्ठत शकुन्तला। अथान्तरिक्षाद् दुष्यन्तं वागुवाचाशरीरिणी॥ ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्च वृतं तदा। भस्त्रा माता पितुः पुत्रो येन जातः स एव सः॥ भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम्। रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्॥ त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला। जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम्॥ तस्माद् भरस्व दुष्यन्त पुत्रं शाकुन्तलं नृप। अभूतिरेषा यत् त्यक्त्वा जीवेजीवन्तमात्मजम्॥ शाकुन्तलं महात्मानं दौष्यन्ति भर पौरव। भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि॥ तस्माद् भवत्वयं नाम्ना भरतो नाम ते सुतः। तच्छ्रुत्वा पौरवो राजा व्याहृतं त्रिदिवौकसाम्॥ पुरोहितममात्यांश्च सम्प्रहृष्टोऽब्रवीदिदम्। शृण्वन्त्वेतद् भवन्तोऽस्य देवदूतस्य भाषितम्॥ अहं चाप्येवमेवैनं जानामि स्वयमात्मजम्। यद्यहं वचनादस्या गृह्णीयामि ममात्मजम्॥ भवेद्धि शङ्कयो लोकस्य नैव शुद्धो भवेदयम्। वैशम्पायन उवाच तं विशोध्य तदा राजा देवदूतेन भारत। हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम्॥ ततस्तस्य तदा राजा पितृकर्माणि सर्वशः। कारयामास मुदितः प्रीतिमानात्मजस्य ह॥ मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे। सभाज्यमानो विप्रैश्च स्तूयमानश्च वन्दिभिः। स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः॥ धर्मतः। तां चैव भार्या दुष्यन्तः पूजयामास अब्रवीचैव तां राजा सान्त्वपूर्वमिदं वचः॥ कृतो लोकपरोक्षोऽयं सम्बन्धो वै त्वया सह। तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम्॥ मन्यते चैव लोकस्ते स्त्रीभावान्मयि संगतम्। पुत्रश्चायं वृतो राज्ये मया तस्माद् विचारितम्॥ यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये। प्रणयिन्या विशालाक्षि तत् क्षान्तं ते मया शुभे॥ तामेवमुक्त्वा राजर्षिर्दुष्यन्तो महिषीं प्रियाम्। वासोभिरन्नपानैश्च पूजयामास भारत॥ दुष्यन्तस्तु तदा राजा पुत्रं शाकुन्तलं तदा। भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत्॥ तस्य तत् प्रथितं चक्रं प्रावर्तत महात्मनः। भास्वरं दिव्यमजितं लोकसंनादनं महत्॥ स विजित्य महीपालांश्चकार वशवर्तिनः। चचार च सतां धर्मं प्राप चानुत्तमं यशः॥ स राजा चक्रवर्त्यासीत् सार्वभौमः प्रतापवान्। ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः॥ याजयामास तं कण्वो विधिवद् भूरिदक्षिणम्। श्रीमान् गोविततं नाम वाजिमेधमवाप सः। यस्मिन् सहस्रं पद्मानां कण्वाय भरतो ददौ॥ भरताद् भारती कीर्तिर्यनदं भारतं कुलम्। अपरे ये च पूर्वे वै भारता इति विश्रुता॥ भरतस्यान्ववाये हि देवकल्पा महौजसः। बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः॥ येषामपरिमेयानि नामधेयानि सर्वशः। तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत। महाभागान् देवकल्पान् सत्यार्जवपरायणान्॥ युधिष्ठिर उवाच अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः। यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी॥ दुर्विज्ञेयं पदं तात विष्णोरमिततेजसः। कथं वा राजशार्दूल पदं तु ज्ञातवानसौ।२।। भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत। भूयस्तु मे समुत्पन्ना बुद्धिरव्यक्तदर्शनात्॥ कथं विनिहतो वृत्रः शक्रेण पुरुषर्षभ। धार्मिको विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये॥ एतन्मे संशयं ब्रूहि पृच्छते भरतर्षभ। वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः॥ यथा चैवाभवद् युद्धं तच्चाचक्ष्व पितामह। विस्तरेण महाबाहो परं कौतूहलं हि मे॥ भीष्म उवाच रथेनेन्द्रः प्रयातो वै सार्धं देवगणैः पुरा। ददर्शाथाग्रतो वृत्रं धिष्ठितं पर्वतोपमम्॥ योजनानां शतान्यूज़ पञ्चोच्छ्रितमरिंदम्। शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि वै॥ तत् प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम्। वृत्रस्य देवाः संत्रस्ता न शान्तिमुपलेभिरे॥ शक्रस्य तु तदा राजनूरुस्तम्भो व्यजायत। भयाद् वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम्॥ ततो नादः समभवद् वादित्राणां च निःस्वनः। देवासुराणां सर्वेषां तस्मिन् युद्धे ह्युपस्थिते॥ अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमवस्थितम्। न सम्भ्रमो न भीः काचिदास्था वा समजायत॥ ततः समभवद् युद्धं त्रैलोक्यस्य भयंकरम्। शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः॥ असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः। शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः॥ शस्त्रैश्च विविधैर्दिव्यैः पावकोल्काभिरेव च। देवासुरैस्ततः सैन्यैः सर्वमासीत् समाकुलम्॥ पितामहपुरोगाश्च सर्वे देवगणास्तथा। ऋषयश्च महाभागास्तद् युद्धं द्रष्टुमागमन्॥ विमानागौमहाराज सिद्धाश्च भरतर्षभ। गन्धर्वाश्च विमानागौरप्सरोभिः समागमन॥ ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभृतां वरः। अश्वमवर्षेण देवेन्द्रं समाकिरदतिद्रुतम्॥ ततो देवगणाः क्रुद्धाः सर्वतः शरवृष्टिभिः। अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे॥ वृत्रस्तु कुरुशार्दूल महामायो महाबलः। मोहयामास देवेन्द्र मायायुद्धेन सर्वशः॥ तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः। रथन्तरेण तं तत्र वसिष्ठः समबोधयत्॥ वसिष्ठ उवाच देवश्रेष्ठोऽसि देवेन्द्र दैत्यासरुनिबर्हण। त्रैलोक्यबलसंयुक्तः कस्माच्छक विषीदसि॥ एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्पतिः। सोमश्च भगवान् देवः सर्वे च परमर्षयः॥ माकार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा। आर्यां युद्धे मतिं कृत्वा जहि शत्रून् सुराधिप॥ एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः। निरीक्षते त्वां भगवांस्त्यज मोहं सुराधिप॥ एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः। स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै॥ भीष्म उवाच एवं सम्बोध्यमानस्य वसिष्ठेन महात्मना। अतीव वासवस्यासीद् बलमुत्तमतेजसः॥ ततो बुद्धिमुपागम्य भगवान् पाकशासनः। योगेन महता युक्तस्तां मायां व्यपकर्षत॥ ततोऽङ्गिरःसुतः श्रीमांस्ते चैव सुमहर्षयः। दृष्ट्वा वृत्रस्य विक्रान्तमुपागम्य महेश्वरम्॥ ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया। ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः॥ समाविशत् तदा रौद्रो वृत्रं लोकपतिं तदा। विष्णुश्च भगवान् देवः सर्वलोकाभिपूजितः॥ ऐन्द्रं समाविशद् वज्रं लोकसंरक्षणे रतः। ततो बृहस्पति/मानुपागम्य शतक्रतुम्। वसिष्ठश्च महातेजाः सर्वे च परमर्षयः॥ ते समासाद्य वरदं वासवं लोकपूजितम्। ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो॥ महेश्वर उवाच एष वृत्रो महाशक्र बलेन महता वृतः। विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः॥ तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम्। जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर॥ अनेन हि तपस्तप्तं बलार्थममराधिप। षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ॥ महत्त्वं योगिनां चैव महामायत्वमेव च। महाबलत्वं च तथा तेजश्चाम्यं सुरेश्वर।॥ एतत् त्वां मामकं तेजः समाविशति वासव। व्यग्रमेनं त्वमप्येनं वज्रेण जहि दानवम्॥ शक्र उवाच भगवंस्त्वप्रसादेन दितिजं सुदुरासदम्। वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ॥ भीष्म उवाच आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे। देवतानामृषीणां च हर्षान्नादो महानभूत्॥ ततो दुन्दुभयश्चैव शङ्खाश्च सुमहास्वनाः। मुरजा डिण्डिमाश्चैव प्रावाद्यन्त सहस्रशः॥ असुराणां तु सर्वेषां स्मृतिलोपो महानभूत्। मायानाशश्च बलवान् क्षणेन समपद्यत॥ तथाविष्टमथो ज्ञात्वा ऋशयो देवतास्तथा। स्तुवन्तः शक्रमीशानं तथा प्राचोदयन्त्रपि॥ रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः। ऋषिभिः स्तूयमानस्य रूपमासीत् सुदुर्दृशम्॥ भीष्म उवाच अत्रैवोदाहरन्तीममितिहासं पुरातनम्। यद् वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु॥ पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम। राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः॥ ऋषयः समेताः पश्चिमे वै प्रभासे समागता मन्त्रममन्त्रयन्त। चराम सर्वां पृथिवीं पुण्यतीर्थो तन्नः कामं हन्त गच्छाम सर्वे॥ स्तथा ह्यगस्त्यो नारदपर्वतौ च। भृगुर्वसिष्ठाः कश्यपो गौतमश्च विश्वामित्रो जमदग्निश्च राजन्॥ ऋषिस्तथा गालवोऽथाष्टकश्च भरद्वाजोऽरुन्धती बालखिल्याः। शिबिर्दिलीपो नहुषोऽम्बरीषो राजा ययातिधुंधुमारोऽथ पूरुः॥ जग्मुः पुरस्कृत्य महानुभावं शतक्रतुं वृत्रहमं नरेन्द्राः। तीर्थानि सर्वाणि परिभ्रमन्तो माध्यां ययुः कौशिकी पुण्यतीर्थाम्॥ सर्वेषु तीर्थेष्ववधूतपापा जग्मुस्ततो ब्रह्मसरः सुपुण्यम्। देवस्य तीर्थे जलमग्निकल्पा विगाह्य ते भुक्तबिसप्रसूनाः॥ नन्ये मृणालान्यखनंतस्त्र विप्राः। अथापश्यन् पुष्करं ते ह्रियन्तं ह्रदादरस्त्येन समुद्धृतं तत्॥ तानाह सर्वानृषिमुख्यानगस्त्यः केनादत्तं पुष्करं सुजातम्। युष्माशङ्के पुष्करं दीयतां मे न वै भवन्तो हर्तुमर्हन्ति पद्मम्॥ मे शृणोमि कालो हिंसते धर्मवीर्य सोऽयं प्राप्तो वर्तते धर्मपीडा। पुराधर्मो वर्तते नेह यावत् तावद् गच्छामः सुरलोकं चिराय॥ पुरा वेदान् ब्राह्मणा ग्राममध्ये घुष्टस्वरा वृषलान्श्रावयन्ति। पुरा राजा व्यवहारेण धर्मान् पश्यत्यहं परलोकं व्रजामि॥ पुरा वरान् प्रत्यवरान् गरीयसो यावन्नरा नावमंस्यन्ति सर्वे। तमोत्तरं यावदिदं न वर्तते तावद् व्रजामि परलोकं चिराय॥ पुरा प्रपश्यामि परेण मान् बलीयसा दुर्बलान् भुज्यमानान्। तस्माद् यास्यामि परलोकं चिराय न हुत्सहे द्रष्टुमिह जीवलोकम्॥ तमाहुरार्ता ऋषयो महर्षि न ते वयं पुष्करं चोरयामः। मिथ्याभिषङ्गो भवता न कार्य: शपाम तीक्ष्णैः शपथैर्महर्षे ॥ ते निश्चितास्तत्र महर्षयस्तु सम्पश्यन्तो धर्ममेतं नरेन्द्राः। ततोऽशपन्त शपथान् पर्ययेण सहैव ते पार्थिव पुत्रपौत्रैः॥ भृगु उवाच प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत्। खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम्॥ वसिष्ठ उवाच अस्वाध्यायपरो लोके श्वानं च परिकर्षतु। पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम्॥ कश्यप उवाच सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च। कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम्॥ गौतम उवाच जीवत्वहंकृतो बुद्ध्या विषमेणासमेन सः। कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम्॥ अङ्गिरा उवाच अशुचिर्ब्रह्मकूटोऽस्तु श्वानं च परिकर्षतु। ब्रह्महाऽनिकृतिश्चास्तु यस्ते हरति पुष्करम्॥ धुन्धुमार उवाच अकृतज्ञस्तु मित्राणां शूद्रायां च प्रजायतु। एकः सम्पन्नमश्नातु यस्ते हरति पुष्करम्॥ पुरु उवाच चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु। श्वशुरात्तस्य वृत्तिः स्याद् यस्ते हरति पुष्करम्॥ दिलीप उवाच उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः। तस्य लोकान् स व्रजतु यस्ते हरति पुष्करम्॥ शुक्र उवाच वृथामांसं समश्नातु दिवा गच्छतु मैथुनम्। प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम्॥ जमदग्निरुवाच अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत्। श्राद्धे शूद्रस्य चाश्नीयाद् यस्ते हरति पुष्करम्॥ शिबिरुवाच अनाहिताग्निर्पियतां यज्ञे विघ् करोतु च। तपस्विभिर्विरुध्येच्च यस्ते हरति पुष्करम्॥ ययातिरुवाच अनृतौ च व्रती चैव भार्यायां स प्रजायतु। निराकरोतु वेदांश्च यस्ते हरति पुष्करम्॥ नहुष उवाच अतिथिर्गृहसंस्थोऽस्तु कामवृत्तस्तु दीक्षितः। विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम्॥ अम्बरीष उवाच नृशंसत्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च। निहन्तु ब्राह्मणं चापि यस्ते हरति पुष्करम्॥ नारद उवाच गृहज्ञानी बहिःशास्त्रं पठतां विस्वरं पदम्। गरीयसोऽवजानातु यस्ते हरति पुष्करम्॥ नाभाग उवाच अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु। शुल्केन तु ददत्कन्यां यस्ते हरति पुष्करम्॥ कविरुवाच पद्भ्यां स गां ताडयतु सूर्ये च प्रतिमेहतु। शरणागतं संत्यजतु यस्ते हरति पुष्करम्॥ विश्वामित्र उवाच करोतु भृतकोऽवर्षं राज्ञश्चास्तु पुरोहितः। ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम्॥ पर्वत उवाच ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु। शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम्॥ भरद्वाज उवाच सर्वपापसमादानं नृशंसे नानृते च यत्। तत् तस्यास्तु सदा पापं यस्ते हरति पुष्करम्॥ अष्टक उवाच स राजास्त्वकृतप्रज्ञः कामवृत्तश्च पापकृत्। अधर्मेणाभिषास्तूर्वी यस्ते हरति पुष्करम्॥ गालव उवाच पापिष्ठेभ्यो ह्यनर्हिः स नरोऽस्तु स्वपापकृत्। दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम्॥ अरुन्धती उवाच श्वश्र्वापवाद वदतु भर्तुर्भवतु दुर्मनाः। एका स्वादु समश्नातु या ते हरति पुष्करम्॥ बालखिल्या ऊचुः एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु। धर्मज्ञस्त्यक्तधर्मास्तु यस्ते हरति पुष्करम्॥ शुनःसख उवाच अग्निहोत्रमनादृत्य स सुखं स्वपतु द्विजः। परिव्राट् कामवृत्तोऽस्तु यस्ते हरति पुष्करम्॥ सुरभ्युवाच बालजेन निदानेन कांस्यं भवतु दोहनम्। दुह्यते परवत्सेन या ते हरति पुष्करम्॥ भीष्म उवाच र्नानाविधैर्बहुभिः कौरवेन्द्र। सहस्राक्षो देवराट् सम्प्रहृष्टः समीक्ष्य तं कोपनं विप्रमुख्यम्॥ अथाब्रवीन्मघवा प्रत्ययं स्वं समाभाष्य तमृषि जातरोषम्। ब्रह्मर्षिर्देवर्षिनृपर्षिमध्ये यं तं निबोधेह ममाद्य राजन्॥ शक्र उवाच अध्वर्यवे दुहितरं ददातु छन्दोगे वा चरितब्रह्मचर्ये। अथर्वणं वेदमधीत्य विप्रः स्नायीत यः पुष्करमाददाति॥ सर्वान् वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः। ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम्॥ अगस्त्य उवाच आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन। दीयतां पुष्करं मह्यमेष धर्मः सनातनः॥ इन्द्र उवाच न मया भगवॅल्लोभाद्भुतं पुष्करमद्य वै धर्मांस्तु श्रोतुकामेन हतं न क्रोद्भुमर्हसि॥ धर्मश्रुतिसमुत्कर्षो धर्मसेतुरनामयः। आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः॥ तदिदं गृह्यतां विद्वन् पुष्करं द्विजसत्तम। अतिक्रमं मे भगवन् क्षन्तुमर्हस्यनिन्दित॥ भीष्म उवाच इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम्। जग्राह पुष्करं धीमान् प्रसन्नश्चाभवन्मुनिः॥ प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराः। पुण्येषु तीर्थेषु तथा गात्राण्याप्लावयन्त ते॥ आख्यानं य इदं युक्तः पठेत् पर्वणि पर्वणि। न मूर्ख जनयेत् पुत्रं न भवेच्च निराकृतिः॥ न तमापत् स्पृशेत् काचिद् विज्वरो न जरावहः। विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात्॥ यश्च शास्त्रमधीयीत ऋषिभिः परिपालितम्। स गच्छेद् ब्रह्मणो लोकमव्ययं च नरोत्तम॥ संजय उवाच विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः। क्रोधेन महताऽऽविष्टः पुत्रस्तव विशाम्पते॥ अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम्। अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत्॥ आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना॥ निहन्यमानां पाण्डूनां बलेन मम वाहिनीम्। भूत्वा तद्विजये शतावशक्ताविव पश्यतः॥ यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि। आवां पाण्डुसुतान् संख्ये जेष्याव इति मानदौ॥ तदैवाहं वचः श्रुत्वा भवद्भ्यामनुसम्मतम्। नाकरिष्यमिदं पार्वैरं योधविनाशनम्॥ यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ। युध्यतामनुरूपेण विक्रमेण सुविक्रमौ॥ वाक्प्रतोदेन तौ वीरौ प्रणुनौ तनयेन ते। प्रावर्तयेतां संग्रामं घट्टिताविव पन्नगौ॥ ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ। शैनेयप्रमुखान् पार्थानभिदुदुवतू रणे॥ तथैव सहिताः पार्थाः सर्वसैन्येन संवृताः। अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः॥ अथ द्रोणो महेष्वासो दशभिः शिनिपुङ्गवम्। अविध्यत् त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः॥ कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः। दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः॥ एते कौरव संक्रन्दे शैनेयं पर्यवाकिरन्। दृष्ट्वा न समरे द्रोणं निघ्नन्तं पाण्डवी चमूम्॥ विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः। तत्र द्रोणोऽहरत् प्राणान् क्षत्रियानां विशाम्पते॥ रश्मिभिर्भास्करो राजंस्तमांसीव समन्ततः। द्रोणेन वध्यमानानां पञ्चालानां विशाम्पते॥ शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम्। पुत्रानन्ये पितॄनन्ये भ्रातृनन्ये च मातुलान्॥ भागिनेयान् वयस्यांश्च तथा सम्बन्धिबान्धवान्। उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः॥ अपरे मोहिता मोहात् तमेवाभिमुखा ययुः। पाण्डवानां रणे योधाः परलोकं गताः परे॥ सा तथा पाण्डवी सेना पीड्यमाना महात्मन। निशि सम्प्राद्रवद् राजन्नुत्सृज्योल्काः सहस्रशः॥ पश्यतो भीमसेनस्य विजयस्याच्युतस्य च। यमयोधर्मपुत्रस्य पार्षतस्य च पश्यतः॥ तमसा संवृते लोके न प्राज्ञायत किंचन। कौरवाणां प्रकाशेन दृश्यन्ते विद्रुताः परे॥ द्रवमाणं तु तत् सैन्यं द्रोणकर्णी महारथौ। जघ्नतुः पृष्ठतो राजन् किरन्तौ सायकान् बहून्॥ पञ्चालेषु प्रभग्नेषु क्षीयमाणेषु सर्वतः। जनार्दनो दीनमनाः प्रत्यभाषत फाल्गुनम्॥ पञ्चालांश्चैव सहितौ जघ्नतुः सायकै शम्॥ एतयोः शरवर्षेण प्रभग्ना नो महारथाः। वार्यमाणापि कौन्तेय पृतना नावतिष्ठते॥ तां तु विद्रवतीं दृष्ट्वा ऊचतुः केशवार्जुनौ। मा विद्रवत वित्रस्ता भयं त्यजत पाण्डवाः॥ तावावां सर्वसैन्यैश्च व्यूहैः सम्यगुदायुधैः। द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम्॥ एतौ हि बलिनौ शूरौ कृतास्रो जितकाशिनौ। उपेक्षितौ तव बलैर्नाशयेतां निशामिमाभ्॥ तयोः संवदतोरेवं भीमकर्मा महाबलः। आयाद् वृकोदरः शीघ्रं पुनरावर्त्य वाहिनीम्॥ वृकोदरमथायान्तं दृष्ट्वा तत्र जनार्दनः। पुनरेवाब्रवीद् राजन् हर्षयन्निव पाण्डवम्॥ एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः। अभ्यवर्तत वेगेन द्रोणकर्णी महारथौ॥ एतेन सहितौ युद्ध्य पञ्चालैश्च महारथैः। आश्वासनार्थं सैन्यानां सर्वेषां पाण्डुनन्दन॥ ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ। द्रोणकर्णी समासाद्य घिष्ठितौ रणमूर्धनि॥ संजय उवाच ततस्तत् पुनरावृत्तं युधिष्ठिरबलं महत्। ततो द्रोणश्च कर्णश्च परान् ममृदतुर्युधि॥ स सम्प्रहारस्तुमुलो निशि प्रत्यभवन्महान्। यथा सागरयो राजश्चन्द्रोदयविवृद्धयोः॥ तत उत्सृज्य पाणिभ्यां प्रदीपांस्तव वाहिनी। युयुधे पाण्डवैः सार्धमुन्मत्तवदसंकुला॥ रजसा तमसा चैव संवृते भृशदारुणे। केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः॥ अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः। प्रहरद्भिर्महाराज स्वयंवर इवाहवे॥ निःशब्दमासीत् सहसा पुनः शब्दो महानभूत्। क्रुद्धानां युध्यमानानां जीयतां जयतामपि॥ यत्र यत्र स्म दृश्यन्ते प्रदीपज्ञः कुरुसत्तमा तत्र तत्र स्म शूरास्ते निपतन्ति एतगवत्॥ तथा संयुध्यमानानां विगाढासीन्महानिशा। पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः॥ संजय उवाच धर्मराजस्य तद् वाक्यं निशम्य शिनिपुङ्गवः। स पार्थाद् भयमाशंसन् परित्यागान्महीपतेः॥ अपवाद ह्यात्मनश्च लोकात् पश्यन् विशेषतः। ते मां भीतमिति ब्रूयुरायान्तं फाल्गुनं प्रति॥ निश्चित्य बहुधैवं स सात्यकियुद्धदुर्मदः। धर्मराजमिदं वाक्यमब्रवीत् पुरुषर्षभः॥ कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशाम्पते। अनुयास्यामि बीभत्सुं करिष्ये वचनं तव॥ न हि मे पाण्डवात् कश्चित् त्रिषु लोकेषु विद्यते। यो मे प्रियतरो राजन् सत्यमेतद् ब्रवीमि ते॥ तस्याहं पदवीं यास्ये संदेशात् तव मानद। त्वत्कृते न च मे किंचिदकर्तव्यं कथंचन॥ यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर। तथा तवापि वचनं विशिष्टतरमेव मे॥ प्रिये हि तव वर्तते भ्रातरौ कृष्णपाण्डवौ। तयोः प्रिये स्थितं चैव विद्धि मां राजपुङ्गव॥ तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो। भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये परपुङ्गव॥ द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम्। तत्र यास्यामि यत्रासौ राजन् राजा जयद्रथः॥ यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात् गुप्तो रथवरश्रेष्ठैद्रौणिकर्णकृपादिभिः॥ इतस्त्रियोजनं मन्ये तमध्वानं विशाम्पते। यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः॥ त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम्। आसैन्धववधान राजन् सुदृढेनान्तरात्मना॥ अनादिष्टस्तु गुरुणा को नु युध्येत मानवः। आदिष्टस्तु यथा राजन् को न युध्येत मादृशः॥ अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो। हलशक्तिगदाप्रासचर्मखड्गटितोमरम्॥ इष्वस्रवरसम्बाधं क्षोभयिष्ये बलार्णवम्। यदेत। कुञ्जरानीकं साहस्रमनुपश्यसि॥ कुलमाञ्जनकं नाम यत्रैते वीर्यशलिनः। आस्थिता बहुभिर्लेच्छैर्युद्धशौण्डैः प्रहारिभिः॥ नागा मेघनिभा राजन् क्षरन्त इव तोयदाः। नैते जातु निवर्तेरन् प्रेषिता हस्तिसादिभिः॥ अन्यत्र हि वधादेषां नास्ति राजन् पराजयः। अथ यान् रथिनो राजन् सहस्रमनुपश्यसि॥ एते रुक्मरथा नाम राजपुत्रा महारथाः। रथेष्वस्रेषु निपुणा नागेषु च विशाम्पते॥ धनुर्वेद गताः पारं मुष्टियुद्धे च कोविदाः। गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा॥ खड्गप्रहरणे युक्ताः सम्पाते चासिचर्मणोः। शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम्॥ नित्यं हि समरे विजिगीषन्ति मानवान्। कर्णेन विहिता राजन् दुःशासनमनुव्रताः॥ एतांस्तु वासुदेवोऽपि रथोदारान् प्रशंसति। सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः॥ तस्यैव वचनाद् राजन् निवृत्ताः श्वेतवाहनात्। ते न क्लान्ता न च श्रान्ता दृढावरणकार्मुकाः॥ मदर्थेऽधिष्ठिता नूनं धार्तराष्ट्रस्य शासनात्। एतान् प्रमथ्य संग्रामे प्रियार्थे तव कौरव॥ प्रयास्यामि ततः पश्चात् पदवीं सव्यसाचिनः। यांस्त्वेतानपरान् राजन् नागान् सप्त शतानिमान्॥ प्रेक्षसे वर्मसंछन्नान् किरातैः समधिष्ठितान्। किरातराजो यान् प्रादाद् द्विरदान् सव्यसाचिनः॥ स्वलंकृतांस्तदा प्रेष्यानिच्छञ्जीवितमात्मनः। आसन्नेते पुरा राजस्व कर्मकरा दृढम्॥ त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम्। एषामेते महामात्राः किराता युद्धदुर्मदाः॥ हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः। एते विनिर्जिता: संख्ये संग्रामे सव्यसाचिना॥ मदर्थमद्य संयत्ता दुर्योधवशानुगा: एतान् हत्वा शरे राजन् किरातान् युद्धदुर्मदान्॥ सैन्धवस्य वधे यत्तमनुयास्यामि पाण्डवम्। ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः॥ कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः। जाम्बूनदमयैः सर्वे वर्मभिः सुविभूषिताः॥ लब्धलक्ष्या रणे राजन्नैरावणासमा युधि। उत्तरात् पर्वतादेते तीक्ष्णैर्दुस्युभिरास्थिताः॥ कर्कशैः प्रवरैर्योधैः कार्णायसतनुच्छैः। सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः॥ अनेकयोनयश्चान्ये तथा मानुषयोनयः। अनीकं समवेतानां धूम्रवर्णमुदीर्यते॥ म्लेच्छाना पापकर्तृणा हिमदुर्गनिवासिनाम्। एतद् दुर्योधनो लब्ध्वा समग्रं राज मण्डलम्॥ कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम्। सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान्॥ कृतार्थमथ चात्मानं मन्यते कालचोदितः। ते तु सर्वेऽद्य सम्प्राप्ता मम नाराचगोचरम्॥ न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः। तेन सम्भाविता नित्यं परवीर्योपजीविना॥ विनाशुमुपयास्यन्ति मच्छरौघनिपीडिताः। ये त्वेते रथिनो राजन् दृश्यन्ते काञ्चनध्वजाः॥ एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः। शूराश्च कृतविद्याश्च धनुर्वेद च निष्ठिताः॥ संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः। अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत॥ यत्ता मदर्थे तिष्ठन्ति कुरुवीराभिरक्षिताः। अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः॥ तानहं प्रमथिष्यामि तृणानीव हुताशनः। तस्मात् सर्वानुपासंगान् सर्वोपकरणानि च॥ रथे कुर्वन्त ते राजन् यथावद् रथकल्पकाः। अस्मिस्तु किल सम्म ग्राह्यं विविधमायुधम्॥ यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः। काम्बोजैर्हि समेष्यामि तीक्ष्णैराशीविषोपमैः॥ नानाशस्त्रसमावायैर्विविधायुधयोधिभिः। किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः॥ लालितैः सततं राज्ञा दुर्योधनहितैषिभिः। शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः॥ अग्निकल्पैर्दुराधर्षः प्रदीप्तैरिव पावकैः। तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः॥ समेष्यामि रणे राजन् बहुभिर्युद्धदुर्मदैः। तस्माद् वैवाजिनो विश्रान्ताः शुभलक्षणाः॥ संजय उवाच उपावृत्ताश्च पीताश्च पुनर्युज्ययन्तु मे रथे। तस्य सर्वानुपासंगान् सर्वोपकरणानि च॥ रथे चास्थापयद् राजा शस्त्राणि विविधानि च। ततस्तान् सर्वतो युक्तान् सदश्वांश्चतुरो जनाः॥ रसवत् पाययामासुः पानं मदसमीरणम्। पीतोपवृत्तान् स्नातांश्च जग्धान्नान् समलंकृतान्॥ विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः। तान् युक्तान् रुक्मवर्णाभान् विनीत्व्शीघ्रगामिनः॥ संहृष्टमनसोऽव्यग्रान् विधिवत्कल्पितान् रथे। महाध्वजेन सिंहेन हेमकेसरमालिना॥ संवृते केतकैमैर्मणिवद्विमचित्रितैः पाण्डुराभ्रप्रकाशाभिः पताकाभिरलंकृते॥ हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे। योजयामास विधिवद्धेमभाण्डविभूषितान्॥ दारुकस्यानुजो भ्राता सूतस्यस्य प्रियः सस्त्रा। न्यवेदयद् रथं युक्तं वासवस्येव मातलिः॥ ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः। स्नातकानां सहस्त्रस्य स्वर्णनिष्कानथो ददौ॥ आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतांवरः। ततः स मधुपर्कार्हः पीत्वा कैलातकं मधु॥ लोहिताक्षो बभौ तत्र मदविह्वललोचनः। आलभ्य वीरकांस्यं च हर्षेण महतान्वितः॥ द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः। उत्सङ्गे धनुरादाय सशरं रथिनां वरः॥ कृतस्वस्त्ययनो विप्रैः कवची समलंकृतः। लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः॥ युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः। तेन मूर्धन्युपाघ्रात आरुरोह महारथम्॥ ततस्ते वाजिनो हृष्टाः सुपुष्टाः वातरंहसः। अजय्या जैत्रमूहुस्तं विकुर्वाणाः स्म सैन्धवाः॥ तथैव भीमसेनोऽपि धर्मराजेन पूजितः। प्रायात् सात्यकिना सार्धभिवाद्य युधिष्ठिरम्॥ तौ हृष्टवा प्रविविक्षन्तौ तव सेनामरिंदमौ। संयत्तास्तावकाः सर्वे तस्थुट्टैणपुरोगमाः॥ संनद्धमनुगच्छन्तं दृष्टवा भीमं स सात्यकिः। अभिनन्द्याब्रवीद् वीरस्तदा हर्षकरं वचः॥ त्वं भीम रक्ष राजानमेतत् कार्यतमं हि ते। अहं भित्त्वा प्रवक्ष्यामि कालपक्वमिदं बलम्॥ आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम्। जानीषे मम वीर्ये त्वं तव चाहमरिंदम॥ तस्माद् भीम निवर्तख मम चेदिच्छसि प्रियम्। तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये॥ अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम। एवमुक्तः प्रत्युवाच भीमेसनं स माधवः॥ यन्मे गुणानुरक्तश्च त्वमद्य वशमास्थितः॥ निमित्तानि च धन्यानि यथा भीम वदन्ति माम्। निहते सैन्धवे पापे पाण्डवेन महात्मना॥ परिष्वजिष्ये राजानं धर्मात्मानं युधिष्ठिरम्। एतावदुक्त्वा भीमं तु विसृज्य च महायशाः॥ सम्प्रेक्षत् तावकं सैन्यं व्याघ्रो मृगगणानिव। तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप॥ भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत। ततः प्रयातः सहसा तव सैन्यं स सात्यकिः॥ दिहक्षुरर्जुनं राजन् धर्मराजस्य शासनात्। वैशम्पायन उवाच तथा तु दृष्ट्वा बहु तत्र देवीं रोरूयमाणां कुररीमिवार्ताम्। नोचुर्वचः साध्वथ वाप्यसाधु महीक्षितो धार्तराष्ट्रस्य भीताः॥ स्तूष्णीभूतान् धृतराष्ट्रस्य पुत्रः। स्मयन्निवेदं वचनं बभाषे पाञ्चालराजस्य सुतां तदानीम्॥ दुर्योधन उवाच तिष्ठत्वयं प्रश्न उदारसत्त्वे भीमेऽर्जुने सहदेवे तथैव। पत्यौ च ते नकुले याज्ञसेनि वदन्त्वेते वचनं त्वत्प्रसूतम्॥ अनीश्वरं विब्रुवन्त्वार्यमध्ये युधिष्ठिरं तव पाञ्चालि हेतोः। कुर्वन्तु सर्वे चानृतं धर्मराज पाञ्चालि त्वं मोक्ष्यसे दासभावात्॥ धर्मे स्थितो धर्मसुतो महात्मा स्वयं चेदं कथयत्विन्द्रकल्पः। ईशो वा ते ह्यनीशोऽथ वैष वाक्यादस्य क्षिप्रमेकं भजस्व॥ सर्वे हीमे कौरवेयाः सभायां दुःखान्तरे वर्तमानास्तवैव। न विब्रुवन्त्यार्यसत्त्वा यथावत् पतींश्च ते समवेक्ष्याल्पभाग्यान्॥ वैशम्पायन उवाच ततः सभ्याः कुरुराजस्य तस्य वाक्यं सर्वे प्रशशंसुस्तथोच्चैः। चेलावेधांश्चापि चक्रुर्नदन्तो हाहेत्यासीदपि चैवार्तनादः॥ द्धर्षश्चासीत् कौरवाणां सभायाम्। सर्वे चासन् पार्थिवाः प्रीतिमन्तः कुरुश्रेष्ठं धार्मिकं पूजयन्तः॥ युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः। किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः॥ किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः। भीमसेनो यमौ चोभौ भृशं कौतूहलान्विताः॥ तस्मिन्नपरते शब्दे भीमसेनोऽब्रवीदिदम्। प्रगृह्य रुचिरं दिव्यं भुजं चन्दनचर्चितम्॥ भीमसेन उवाच योष गुरुरस्माकं धर्मराजो महामनाः। न प्रभुः स्यात् कुलस्यास्य न वयं मर्षयेमहि॥ ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः। मन्यतेऽजितमात्मानं यद्येष विजिता वयम्॥ न हि मुच्येत मे जीवन् पदा भूमिमुपस्पृशन्। मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान्॥ पश्यध्वं ह्यायतौ वृत्तौ भुजौ मे परिघाविव। तयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः॥ धर्मपाशसितस्त्वेवं नाधिगच्छामि संकटम्। गोरवेण विरुद्धश्च निग्रहादर्जुनस्य च॥ धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव। धार्तराष्ट्रानिमान् पापान् निष्पिधेयं तलासिभिः॥ वैशम्पायन उवाच तमुवाच तदा भीष्मो द्रोणो विदुर एव च। क्षम्यतामिदमित्येवं सर्वं सम्भाव्यते त्वयि॥ भीष्म उवाच समागतस्य रामेण पुनरेवातिदारुणम्। अन्येधुस्तुमुलं युद्धं तदा भरतसत्तम॥ ततो दिव्यास्त्रविच्छूरो दिव्यान्यस्त्राण्यनेकशः। अयोजयत् स धर्मात्मा दिवसे दिवसे विभुः॥ तान्यहं तत्प्रतीघातैरस्त्रैरस्त्राणि भारत। व्यधमं तुमुले युद्धे प्राणांस्त्यक्त्वा सुदुस्त्यजान्॥ अस्त्रैरस्त्रेषु बहुधा हतेष्वेव च भारत। अक्रुध्यत महातेजास्त्यक्तप्राणः स संयुगे॥ ततः शक्तिं प्राहिणोद् घोरूपामस्त्रे रुद्ध जामदग्न्यो महात्मा। कालोत्सृष्टां प्रज्वलितामिवोल्का संदीप्तानां तेजसा व्याप्य लोकम्॥ ततोऽहं तामिषुभिर्दीप्यमानां समायान्तीमन्तकालार्कदीप्ताम्। छित्त्वा त्रिधा पातयामास भूमौ ततो ववौ पवनः पुण्यगन्धिः॥ तस्यां छिन्नायां क्रोधदीप्तोऽथ रामः शक्ती?राः प्राहिणोद् द्वादशान्याः। तासां रूपं भारत नोत शक्यं तेजस्वित्वाल्लाघवाच्चैव वक्तुम्॥ किं त्वेवाहं विह्वलः सम्प्रदृश्य दिग्भ्यः सर्वास्ता महोल्का इवाग्नेः। नानारूपास्तेजसोग्रेण दीप्ता यथाऽऽदित्या द्वादश लोकसंक्षये॥ ततो जालं बाणमयं विवृत्तं संदृश्य भित्त्वा शरजालेन राजन्। द्वादशेषून् प्राहिणवं रणेऽहं ततः शक्तीरप्यधमं घोररूपाः॥ ततो राजञ्जामदग्न्यो महात्मा शक्ती?रा व्याक्षिपद्धेमदण्डाः। विचित्रिताः काञ्चनपट्टनद्धा यथा महोल्का ज्वलितास्तथा ताः॥ ताश्चाप्युचाश्चमर्णा वारयित्वा खड्ड्रेनाजौ पातयित्वा नेरन्द्र। बाणैर्दिव्यैर्जामदग्न्यस्य संख्ये दिव्यानश्वानभ्यवर्ष ससूतान्॥ निर्मुक्तानां पन्नागानां सरूपा दृष्ट्वा शक्तीहेमचित्रा निकृत्ताः। प्रादुश्चक्रे दिव्यमस्त्रं महात्मा क्रोधाविष्टो हैहयेशप्रमाथी॥ ततः श्रेण्यः शलभानामिवोग्राः समापेतुर्विशिखाना प्रदीप्ताः। समाचिनोच्चापि भृशं शरीरं हयान् सूतं सरथं चैव मह्यम्॥ रथः शरैर्मे निचितः सर्वतोऽभूत् तथा वाहाः सारथिश्चैव राजन्। युगं रथेषां च तथैव चक्रे तथैवाक्षः शरकृत्तोऽथ भग्नः॥ ततस्तस्मिन् बाणवर्षे व्यतीते शरौघेण प्रत्यवर्षं गुरुं तम्। स विक्षतो मार्गणैर्ब्रह्मराशिदेहादसक्तं मुमुचे भूरि रक्तम्॥ स्तथैवाहं सुभृशं गाढविद्धः। ततो युद्धं व्यरमच्चापरावे भानावस्तं प्रति याते महीध्रम्॥ वैशम्पायन उवाच स श्वेतपर्वतं वीरः समतिक्रम्य वीर्यवान्। देशं किम्पुरुषावासं दुमपुत्रेण रक्षितम्॥ महता संनिपातेन क्षत्रियान्तकरेण ह। अजयत् पाण्डवश्रेष्ठः करे चैनं न्यवेशयत्॥ तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम्। पाकशासनिरव्यग्रः सहसैन्यः समासदत्॥ तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम्। ऋषिकुल्यास्तथा सर्वा ददर्श कुरुनन्दनः॥ सरो मानसमासाद्य हाटकानभितः प्रभुः। गन्धर्वरक्षितं देशमजयत् पाण्डवस्ततः॥ तत्र तित्तिरिकल्माषान् मण्डूकाख्यान् हयोत्तमान्। लेभे स करमत्यन्तं गन्धर्वनगरात् तदा॥ उत्तरं कुरुवर्षं तु समासाद्य पाण्डवः। इयेष जेतुं तं देशं पाकशासननन्दनः॥ तत एनं महावीर्यं महाकाया महाबलाः। द्वारपाला: समासाद्य हृष्टाः वचनमब्रुवन्॥ पार्थ नेदं त्वया शक्यं पुरं जेतुं कथंचन। उपावर्तस्व कल्याण पर्याप्तमिदमच्युत॥ इदं पुरं यः प्रविशेद् ध्रुवं न स भवेन्नरः। प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव॥ न चात्र किंचिज्जेतव्यमजुनात्र प्रदृश्यते। उत्तराः कुरवो ह्येते नात्र युद्धं प्रवर्तते॥ प्रविष्टोऽपि हि कौन्तेय नेह द्रक्ष्यसि किंचन। न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम्॥ अथेह पुरुषव्याघ्र किंचिदन्यच्चिकीर्षसि। तत् प्रब्रूहि करिष्यामो वचनात् तव भारत॥ ततस्तानब्रवीद् राजन्नर्जुनः प्रहसन्निवा पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः॥ न प्रवेक्ष्यामि वो देशं विरुद्धं यदि मानुषैः। युधिष्ठिराय यत् किंचित् करपण्यं प्रदीयताम्॥ ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च। क्षौमाजिनानि दिव्यानि तस्य ते प्रददुः करम्॥ एवं स पुरुषव्याघ्रो विजित्य दिशमुत्तराम्। संग्रामान् सुबहून् कृत्वा क्षत्रियैर्दस्युभिस्तथा॥ स विनिर्जित्य राज्ञस्तान् करे च विनिवेश्य तु। धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च॥ हयांस्तित्तिरिकल्माषाञ्छुकपत्रनिभानपि। मयूरसदृशानन्यान् सर्वाननिलरंहसः॥ वृतः सुमहता राजन् बलेन चतुरङ्गिणा। आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम्॥ धर्मराजाय तत् पार्थो धनं सर्वं सवाहनम्। न्यवेदयदनुज्ञातस्तेन राज्ञा गृहान् ययौ॥ वैशम्पायन उवाच एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम्। राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः॥ उषित्वा च वने वासं ब्राह्मणैः संशितव्रतः। फलमूलाशनो दान्तस्तत: स्वर्गमितो गतः॥ स गतः स्वर्निवासं तं निवसन् मुदितः सुखी। कालेन चातिमहता पुनः शक्रेण पातितः॥ निपतन् प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम्। स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया॥ तत एव पुनश्चापि गतः स्वर्गमिति श्रुतम्। राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान्॥ प्रतर्दनेन शिबिना समेत्य किल संसदि। जनमेजय उवाच कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः॥६। सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः। कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ॥ देवराजसमो ह्यासीद् ययातिः पृथिवीपतिः। वर्धनः कुरुवंशस्य विभावसुसमद्युतिः॥ तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः। चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः॥ वैशम्पायन उवाच हन्त ते कथयिष्यामि ययातेरुत्तमां कथाम्। दिवि चेह च पुण्यार्थी सर्वपापप्रणाशिनीम्॥ ययाति हुषो राजा पूरूं पुत्रं कनीयसम्। राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा॥ अन्त्येषु स विनिक्षिप्य पुत्रान् यदुपुरोगमान्। फलमूलाशनो राजा वने संन्यवसचिरम्॥ शंसितात्मा जितक्रोधस्तर्पयन् पितृदेवताः अग्नींश्च विधिवत्रुह्वन् वानप्रस्थविधानतः॥ अतिथीन् पूजयामास वन्येन हविषा विभुः। शिलोच्छवृत्तिमास्थाय शेषान्नकृतभोजनः॥ पूर्ण वर्षसहस्रं च एवंवृत्तिरभूनृपः। अब्भक्षः शरदस्त्रिंशदासीनियतवाङ्गनाः॥ ततश्च वायुभक्षोऽभूत् संवत्सरमतन्द्रितः। तथा पञ्चाग्निमध्ये च तपस्तेपे स वत्सरम्॥ एकपादः स्थितश्चासीत् षण्मासाननिलाशनः। पुण्यकीर्तिस्ततः स्वर्गे जगामावृत्य रोदसी॥ भीमसेन उवाच पौरोगवो ब्रुवाणोऽहं बल्लवो नाम भारत। उपस्थास्यामि राजानं विराटमिति मे मतिः।।।। सूपानस्य करिष्यामि कुशलोऽस्मि महानसे। कृतपूर्वाणि यान्यस्य व्यञ्जनानि सुशिक्षितैः॥ तान्यप्यभिभविष्यामि प्रीतिं संजनयन्त्रहम्। आहरिष्यामि दारूणां निचयान् महतोऽपि च॥ यत् प्रेक्ष्य विपुलं कर्म राजा संयोक्ष्यते स माम्। अमानुषाणि कुर्वाणस्तानि कर्माणि भारत॥ राज्ञस्तस्य परे प्रेष्या मंस्यन्ते मां यथा नृपम्। भक्ष्यान्नरसपानानां भविष्यामि तथेश्वरः॥ द्विपा वा बलिनो राजन् वृषभा वा महाबलाः। विनिग्राह्या यदि मया निग्रहीष्यामि तानपि॥ ये च केचिन्नियोत्स्यन्ति समाजेषु नियोधकाः। तानहं हि नियोत्स्यामि रतिं तस्य विवर्धयन्॥ न त्वेतान् युद्ध्यमानान् वै हनिष्यामि कथञ्चन। तथैतान् पातयिष्यामि यथा यास्यन्ति न क्षयम्॥ आरालिको गोविकर्ता सूपकर्ता नियोधकः। आसं युधिष्ठिरस्याहमिति वक्ष्यामि पृच्छतः॥ आत्मानमात्मना रक्षश्चरिष्यामि विशाम्पते। इत्येतत् प्रतिजानामि विहरिष्याम्यहं यथा॥ युधिष्ठिर उवाच यमग्निर्ब्राह्मणो भूत्वा समागच्छन्नृणां वरम्। दिधक्षुः खाण्डवं दावं दाशार्हसहितं पुरा॥ महाबलं महाबाहुमजितं कुरुनन्दनम्। सोऽयं किं कर्म कौन्तेयः करिष्यति धनंजयः॥ योऽयमासाद्य तं दावं तर्पयामास पावकम्। विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान्॥ वासुकेः सर्पराजस्य स्वसारं हृतवांश्च यः। श्रेष्ठो यः प्रतियोधानां सोऽर्जुनः किं करिष्यति॥ सूर्यः प्रतपतां श्रेष्ठो द्विपदां ब्राह्मणो वरः। आशीविषश्च सर्पाणामग्निस्तेजस्विनां वरः॥ आयुधानां वरं वज्रं ककुद्मी च गवां वरः। ह्रदानामुदधिः श्रेष्ठः पर्जन्यो वर्षतां वरः॥ धृतराष्ट्रश्च नागानां हस्तिष्वैरावणो वरः। पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा॥ यथैतानि विशिष्टानि जात्यां जात्यां वृकोदर। एवं युवा गुडाकेश: श्रेष्ठः सर्वधनुष्मताम्॥ सोऽयमिन्द्रादनवरो वासुदेवान्महाद्युतिः। गाण्डीवधन्वा बीभत्सुः श्वेताश्वः किं करिष्यति॥ उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि। अस्त्रयोगं समासाद्य स्ववीर्यान्मानुषाद्भुतम्। दिव्यान्यस्त्राणि चाप्तानि देवरूपेण भास्वता॥ यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम्। वसूनां नवमं मन्ये ग्रहाणां दशमं तथा॥ यस्य बाहू समौ दी? ज्याघातकठिनत्वचौ। दक्षिणे चैव सव्ये च गवामिव वहः कृतः॥ हिमवानिव शैलानां समुद्रः सरितामिव। त्रिदशानां यथा शक्रो वसूनामिव हव्यवाट्॥ मृगाणामिव शार्दूलो गरुडः पततामिव। वरः संन्यमानानां सोऽर्जुनः किं करिष्यति॥ अर्जुन उवाच प्रतिज्ञा घण्ढकोऽस्मीति करिष्यामि महीपते। ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ॥ वलयैश्छादयिष्यामि बाहू किणकृताविमौ। कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनप्रभे॥ पिनद्धकम्बुः पाणिभ्यां तृतीयां प्रकृतिं गतः। वेणीकृतशिरा राजन् नाम्ना चैव बृहन्नला।॥ पठन्नाख्यायिकाश्चैव स्त्रीभावेन पुनः पुनः। रमयिष्ये महीपालमन्यांश्चान्तःपुरे जनान्॥ गीतं नृत्यं विचित्रं च वादिनं विविधं तथा। शिक्षयिष्याम्यहं राजन् विराटस्य पुरस्त्रियः॥ प्रजानां समुदाचारं बहु कर्म कृतं वदन। छादयिष्यामि कौन्तेय माययाऽऽत्मानमात्मना॥ युधिष्ठिरस्य गेहे वै द्रौपद्याः परिचारिका। उषितास्मीति वक्ष्यामि पृष्टो राज्ञा च पाण्डव॥ एतेन विधिना छन्नः कृतकेन यथानलः। विहरिष्यामि राजेन्द्र विराटभवने सुखम्॥ सनत्सुजात उवाच शोकः क्रोधश्च लोभश्च कामो मानः परासुता। ईर्ष्या मोहो विधित्सा च कृपाऽसूया जुगुप्सुता॥ द्वादशैते महादोषा मनुष्यप्राणनाशनाः। एकैकमेते राजेन्द्र मनुष्यान् पर्युपासते। यैराविष्टो नरः पापं मूढसंज्ञो व्यवस्यति॥ स्पृहयालुरुचः पुरुषो वा वदान्यः क्रोधं बिभ्रन्मनसा वै विकत्थी। नृशंसधर्माः षडिमे जना वै प्राप्याप्यर्थं नोत सभाजयन्ते।॥ सम्भोगसंविद् विषमोऽतिमानी दत्त्वा विकत्थी कृपणो दुर्बलश्च। बहुप्रशंसी वन्दितद्विट् सदैव सप्तैवोक्ताः पापशीला नृशंसाः॥ धर्मश्च सत्यं च तपो दमश्च अमात्सर्यं ह्रीस्तितिक्षाऽनसूया। दानं श्रुतं चैव धृतिः क्षमा च महाव्रता द्वादश ब्राह्मणस्य॥ यो नैतेभ्यः प्रच्यवेद् द्वादशभ्यः सर्वामपीमां पृथिवीं स शिष्यात्। त्रिभिभ्यिामेकतो वाऽर्थितो यो नास्य स्वमस्तीति च वेदितव्यम्॥ दमस्त्यागोऽथाप्रमाद इत्येतेष्वमृतं स्थितम्। एतानि ब्रह्ममुख्यानां ब्राह्मणानां मनीषिणाम्॥ सद् वासद् वा परीवादो ब्राह्मणस्य न शस्यते। नरकप्रतिष्ठास्ते वै स्युर्य एव कुर्वते जनाः॥ मदोऽष्टादशदोषः स स्यात् पुरा योऽप्रकीर्तितः। लोकद्वेष्यं प्रातिकूल्यमभ्यसूया मृषा वचः॥ कामक्रोधौ पारतन्त्र्यं परिवादोऽथ पैशुनम्। अर्थहानिर्विवादश्च मात्सर्यं प्राणिपीडनम्॥ ईर्ष्या मोदोऽतिवादश्च संज्ञानाशोऽभ्यसूयिता। तस्मात् प्राज्ञो न माद्येत सदा ह्येतद् विगर्हितम्॥ सौहृदे वै षड् गुणा वेदितव्याः प्रिये हृष्यन्त्यप्रिये च व्यथन्ते। स्यादात्मनः सुचिरं याचते यो ददात्ययाच्यमपि देयं खलु स्यात्। नभ्यर्थितश्चार्हति शुद्धभावः॥ त्यक्तद्रव्यः संवसेन्नेह कामाद् भुङ्क्ते कर्म स्वाशिषं बाधते च॥ द्रव्यवान् गुणवानेव त्यागी भवति सात्त्विकः। पञ्च भूतानि पञ्चभ्यो निवर्तयति तादृशः॥ एतत् समृद्धमप्यूर्ध्वं तपो भवति केवलम्। सत्त्वात् प्रच्यवमानानां संकल्पेन समाहितम्॥ यतो यज्ञाः प्रवर्धन्ते सत्यस्यैवावरोधनात्। मनसान्यस्य भवति वाचान्यस्याथ कर्मणा॥ संकल्पसिद्धं पुरुषमसंकल्पोऽधितिष्ठति। ब्राह्मणस्य विशेषेण किञ्चान्यदपि मे शृणु॥ अध्यापयेन्महदेतद् यशस्यं वाचो विकाराः कवयो वदन्ति। अस्मिन् योगे सर्वमिदं प्रतिष्ठितं ये तद् विदुरमृतास्ते भवन्ति॥ न कर्मणा सुकृतेनैव राजन् सत्यं जयेज्जुहुयाद् वा यजेद् वा। नैतेन बालोऽमृत्युमभ्येति राजन् रति चासौ न लभत्यन्तकाले॥ तूष्णीमेक उपासीत चेष्टेत मनसाऽपि न। तथा संस्तुतिनिन्दाभ्यां प्रीतिरोषौ विवर्जयेत्॥ अत्रैव तिष्ठन् क्षत्रिय ब्रह्माविशति पश्यति। वेदेषु चानुपूर्येण एतद् विद्वन् ब्रवीमि ते॥ मनुरुवाच अक्षरात् खं ततो वायुस्ततो ज्योतिस्ततो जलम्। जलात् प्रसूता जगती जगत्यां जायते जगत्॥ एतैः शरीरैर्जलमेव गत्वा जलाच्च तेजः पवनोऽन्तरिक्षम् खाद् वै निवर्तन्ति न भाविनस्ते मोक्षं च ते वै परमाप्नुवन्ति॥ नोष्णं न शीतं मृदु नापि तीक्ष्णं नाम्लं कषायं मधुरं न तिक्तम्। न्न रूपवत्तत् परमस्वभावम्॥ स्पर्श तनुर्वेद रसं च जिह्वा घ्राणं च गन्धान् श्रवणौ च शब्दान्। रूपाणि चक्षुर्न च तत्परं यद् गृह्णन्त्यनध्यात्मविदो मनुष्याः॥ निवर्तयित्वा रसनां रसेभ्योः घ्राणं च गन्धाच्छ्रवणौ च शब्दात्। स्ततः परं पश्यति स्वं स्वभावम्॥ यतो गृहीत्वा हि करोति यच्च यस्मिश्च तामारभते प्रवृत्तिम्। यस्मिश्च यद् केन च यश्च कर्ता यत् कारणं ते समुदायमाहुः॥ यद् व्याप्यभूद् व्यापकं साधकं च यन्मन्त्रवत् स्थास्यति चापि लोके। यः सर्वहेतुः परमात्मकारी तत् कारणं कार्यमतो यदन्यत्॥ यथा हि कश्चित् सुकृतैर्मनुष्यः शुभाशुभं प्राप्नुतेऽथाविरोधात्। एवं शरीरेषु शुभाशुभेषु स्वकर्मजैनिमिदं निबद्धम्॥ यथा प्रदीप्तः पुरतः प्रदीपः प्रकाशमन्यस्य करोति दीप्यन्। तथेह पञ्चेन्द्रियदीपवृक्षा ज्ञानप्रदीप्ताः परवन्त एव॥ यथा च राज्ञा बहवो ह्यमात्याः पृथक् प्रमाणं प्रवदन्ति युक्ताः। तद्वच्छरीरेषु भवन्ति पञ्च ज्ञानैकदेशः परमः स तेभ्यः॥ यथार्चिषोऽग्नेः पवनस्य वेगो मरीचयोऽर्कस्य नदीषु चापः। स्तद्वच्छरीराणि शरीरिणां तु॥ यथा च कश्चित् परशुं गृहीत्वा धूमं च पश्येज्ज्वलनं च काष्ठे। तद्वच्छरीरोदरपाणिपादं छित्त्वा न पश्यन्ति ततो यदन्यत्॥ तान्येव काष्ठानि यथा विमथ्य धूमं च पश्येज्ज्वलनं च योगात्। तद्वत् सबुद्धिः सममिन्द्रियात्मा बुधः परं पश्यति तं स्वभावम्॥ यथात्मनोऽङ्गं पतितं पृथिव्यां स्वप्नान्तरे पश्यति चात्मनोऽन्यत्। र्लिङ्गात्तथा गच्छति लिङ्गमन्यत्॥ न युज्यतेऽसौ परमः शरीरी। अनेन लिङ्गेन तु लिङ्गमन्यद् गच्छत्यदृष्टः फलसंनियोगात्॥ न चक्षुषा पश्यति रूपमात्मनो न चापि संस्पर्शमुपैति किंचित्। न चापि तैः साधयते तु कार्य ते तं न पश्यन्ति स पश्यते तान्॥ यथा समीपे ज्वलतोऽनलस्य संतापजं रूपमुपैति कश्चित्। न चान्तरं रूपगुणं बिभर्ति तथैव तद् दृश्यति रूपमस्य॥ मदृश्यमन्यद् विशते शरीरम्। विसृज्य भूतेषु महत्सु देहं तदाश्रयं चैव बिभर्ति रूपम्॥ खं वायुमग्नि सलिलं तथोर्वी समन्ततोऽभ्याविशते शरीरी। नानाश्रयाः कर्मसु वर्तमानाः श्रोत्रादयः पञ्च गुणान् श्रयन्ते।॥ स्तेजोमयं रूपमथो विपाकः। जलाश्रयं स्वेदमुक्तं रसं च वाय्वात्मकः स्पर्शकृतो गुणश्च॥ महत्सु भूतेषु वसन्ति पञ्च पञ्चेन्द्रियार्थाश्च तथेन्द्रियाणि। सर्वाणि चैतानि मनोऽनुगानि बुद्धिं मनोऽन्वेति मतिः स्वभावम्॥ शुभाशुभं कर्म कृतं यदन्यत् तदेव प्रत्याददते स्वदेहे। मनोऽनुवर्तन्ति परावराणि जलौकसः स्रोत इवानुकूलम्॥ चलं यथा दृष्टिपथं परति सूक्ष्मं महद रूपमिवाभिभाति। स्वरूपमालोचयते च रूपं परं तथा बुद्धिपथं परैति॥ युधिष्ठिर उवाच गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः। य इच्छेत् सिद्धिमास्थातुं देवतां कां यजेत सः॥ कुतो ह्यस्य ध्रुवः स्वर्गः कुतो नैःश्रेयसं परम्। विधिना केन जुहुयाद् दैव पित्र्यं तथैव च॥ मुक्तश्च कां गतिं गच्छेन्मोक्षचैव किमात्मकः। स्वर्गतश्चैव किं कुर्याद् येन न च्यवते दिव॥ देवतानां च को देवः पितॄणां च पिता तथा। तस्मात् परतरं यच्च तन्मे ब्रूहि पितामह॥ भीष्म उवाच गूढं मां प्रश्नवित् प्रश्नं पृच्छसे त्वमिहानघ। न ह्येतत् तर्कया शक्यं वक्तुं वर्षशतैरपि॥ ऋते देवप्रसादाद् वा राजन् ज्ञानागमेन वा। गहनं ह्येदाख्यानं व्याख्यातव्यं तवारिहन्॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। नारदस्य च संवादमृषेर्नारायणस्य च॥ नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः। धर्मात्मजः सम्बभूव पितैवं मेऽभ्यभाषत॥ कृते युगे महाराज पुरा स्वायम्भुवेऽन्तरे। नरो नारायणश्चैव हरिः कृष्णः स्वयम्भुवः॥ तेषां नारायणनरौ तपस्तेपतुरव्ययौ। बदर्याश्रममासाद्य शकटे कनकामये॥ अष्टचक्रं हि तद् यानं भूतयुक्तं मनोरमम्। तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ॥ तपसा तेजसा चैव दुर्निरीक्ष्यौ सुरैरपि। यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति॥ नूनं तयोरनुमते हृदि हृच्छयचोदितः। महामेरोगिरेः शृङ्गात् प्रच्युतो गन्धमादनम्॥ नारदः सुमहद्भूतं सर्वलोकानचीचरत्। तं देशमगमद् राजन् बदर्याश्रममाशुगः॥ तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत्। इदं तदास्पदं कृत्स्नं यस्मिल्लोकाः प्रतिष्ठिताः॥ सदेवासुरगन्धर्वाः सकिन्नरमहोरगाः। एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा॥ धर्मस्य कुलसंताने धर्मादेभिर्विवर्धितः। अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरह॥ नरनारायणाभ्यां च कृष्णेन हरिणा तथा। अत्र कृष्णो हरिश्चैव कस्मिंश्चित् कारणान्तरे॥ स्थितौ धर्मोत्तरौ होतो तथा तपसि धिष्ठितौ। एतौ हि परमं धाम कानयोराह्निकक्रिया॥ पितरौ सर्वभूतानां दैवतं च यशस्विनौ। कां देवतां तु यजतः पितॄन् वा कान् महामती॥ इति संचिन्त्य मनसा भक्त्या नारायणस्य तु। सहसा प्रादुरभवत् समीपे देवयोस्तदा॥ कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः। पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः॥ तद् दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम्। उपोपविष्टः सुप्रीतो नारदो भगवानृषिः॥ नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना। नमस्कृत्वा महादेवमिदं वचनमब्रवीत्॥ नारद उवाच वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे। त्वमजः शाश्वतो धाता मातामृतमनुत्तमम्॥ प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत्। चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः॥ यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम्। पिता माता च सर्वस्य जगतः शाश्वतो गुरुः। कं त्वद्य यजसे देवं पितरं कं न विद्महे॥ श्री भगवानुवाच अवाच्यमेतद् वक्तव्यमात्मगुह्यं सनातनम्। तव भक्तिमतो ब्रह्मन् वक्ष्यामि तु यथातथम्॥ यत् तत् सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम्। इन्द्रियैरिन्द्रियार्थश्च सर्वभूतैश्च वर्जितम्॥ स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते। त्रिगुणव्यतिरिक्तो वै पुरुषश्चेति कल्पितः॥ तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम। अव्यक्ता व्यक्तभावस्था या सा प्रकृतिरव्यया॥ तां योनिमावयोर्विद्धि योऽसौ सदसदात्मकः। आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्प्यते॥ नास्ति तस्मात् परोऽन्यो हि पिता देवोऽथवा द्विज। आत्मा हि नः स विज्ञेयस्ततस्तं पूजयावहे॥ तेनैषा प्रथिता ब्रह्मन् मर्यादा लोकभाविनी। दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम्॥ ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो यमः। मरीचिरङ्गिराऽत्रिश्च पुलस्त्यः पुलहः क्रतुः॥ वसिष्ठः परमेष्ठी च विवस्वान् सोम एव च। कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च॥ एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः। तस्य देवस्य मर्यादां पूजयन्तः सनातनीम्॥ दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः। आत्मप्राप्तानि च ततः प्राप्नुवन्ति द्विजोत्तमाः॥ स्वर्गस्था अपि ये केचित् तान् नमस्यन्ति देहिनः। ते तत्प्रसादाद् गच्छन्ति तेनादिष्टफलां गतिम्॥ ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च। कला:पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः॥ मुक्तानां तु गतिर्ब्रह्मन् क्षेत्रज्ञ इति कल्पिता। स हि सर्वगुणश्चैव निर्गुणश्चैव कथ्यते॥ दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः। एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम्॥ तं वेदाश्चाश्रमाश्चैव नानामतसमास्थिताः। भक्त्या सम्पूजयन्त्याशु गतिं चैषां ददाति सः॥ ये तु तद्भाविता लोके ह्येकान्तित्वं समास्थिताः। एतदभ्यधिकं तेषां यत् ते तं प्रविशन्त्यत्॥ इति गुह्यसमुद्देशस्तव नारद कीर्तितः। भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः॥ इति गुह्यसमुद्देशस्तव नारद कीर्तितः। भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः॥ युधिष्ठिर उवाच दानेन वर्ततेत्याह तपसा चैव भारत। तदेतन्मे मनोदुःखं व्यपोह त्वं पितामह। किंस्वित् पृथिव्यां ह्येतन्मे भवाञ्छंसितुमर्हति॥ भीष्म उवाच शृणु यैर्धर्मनिरतैस्तपसा भावितात्मभिः। लोका ह्यसंशयं प्राप्ता दानपुण्यरत्तैर्नृपः। :॥ सत्कृतश्च तथाऽऽत्रेयः शिष्येभ्यो ब्रह्म निर्गुणम्। उपदिश्य तदा राजन् गतो लोकाननुत्तमान्॥ शिबिरौशीनरः प्राणान् प्रियस्य तनयस्य च। ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः॥ प्रतर्दनः काशिपतिः प्रदाय तनयं स्वकम्। ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते॥ रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने। अy प्रदाय विधिवल्लेभे लोकाननुत्तमान्॥ दिव्यं शतशलाकं च यज्ञार्थं काञ्चनं शुभम्। छत्रं देवावृधो दत्त्वा ब्राह्मणायास्थितो दिवम्॥ भगवानम्बरीषश्च ब्राह्मणायामितौजसे। प्रदाय सकलं राष्ट्र सुरलोकमवाप्तवान्॥ सावित्रः कुण्डलं दिव्यं यानं च जनमेजयः। ब्राह्मणाय च गा दत्त्वा गतो लोकाननुत्तमान्॥ वृषादर्भिश्च राजर्षी रत्नानि विविधानि च। रम्यांश्चावसथान् दत्त्वा द्विजेभ्यो दिवमागतः॥ निमी राष्ट्रं च वैदर्भिः कन्यां दत्त्वा महात्मने। अगस्त्याय गतः स्वर्गे सपुत्रपशुबान्धवः॥ जामदग्न्यश्च विप्राय भूमिं दत्त्वा महायशाः। रामोऽक्षयांस्तथा लोकान् जगाम मनसोऽधिकान्॥१२ अवर्षति च पर्जन्ये सर्वभूतानि देवराट्। वसिष्ठो जीवयामास येन यातोऽक्षयां गतिम्॥ रामो दाशरथिश्चैव हुत्वा यज्ञेषु वै वसु। स गतो ह्यक्षयाल्लोकान् यस्य लोके महद् यशः॥१४ कक्षसेनश्च राजर्षिर्वसिष्ठाय महात्मने। न्यासं यथावत् संन्यस्य जगाम सुमहायशाः॥ करन्धमस्य पौत्रस्तु मरुत्तोऽविक्षितः सुतः। कन्यामाङ्गिरसे दत्त्वा दिवमाशु जगाम सः॥ ब्रह्मदत्तश्च पाञ्चाल्यो राजा धर्मभृतां वरः। निधि शङ्खमनुज्ञाप्य जगाम परमां गतिम्॥ राजा मित्रसहश्चैव वसिष्ठाय महात्मने। मदयन्तीं प्रियां भार्यां दत्त्वा च त्रिदिवं गतः॥ मनोः पुत्रश्च सुद्युम्नो लिखिताय महात्मने। दण्डमुद्धृत्य धर्मेण गतो लोकाननुत्तमान्॥ सहस्रचित्यो राजर्षिः प्राणानिष्टान् महायशाः। ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान्॥ सर्वकामैश्च सम्पूर्णे दत्त्वा वेश्म हिरण्मयम्। मौन्द्रल्याय गतः स्वर्गे शतद्युम्नो महीपतिः॥ भक्ष्यभोज्यस्य च कृतान् राशयः पर्वतोपमान्। शाण्डिल्याय पुरा दत्त्वा सुमन्युर्दिवमास्थितः॥ नाम्ना च द्युतिमान् नाम शाल्वराजो महाद्युतिः। दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान्॥ मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम्। हिरण्यहस्ताय गतो लोकान् देवैरधिष्ठितान्॥ लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः। ऋष्यशृङ्गाय विपुलैः सर्वैः कामैरयुज्यत॥ कौत्साय दत्त्वा कन्यां तु हंसी नाम यशस्विनीम्। गतोऽक्षयानतो लोकान् राजर्षिश्च भगीरथः॥ दत्त्वा शतसहस्रं तु गवां राजा भगीरथः। सवत्सानां कोहलाय गतो लोकाननुत्तमान्॥ एते चान्ये च बहवो दानेन तपसा च ह। युधिष्ठिर गताः स्वर्गे निवर्तन्ते पुनः पुनः॥ तेषां प्रतिष्ठिता कीर्तिर्यावत् स्थास्यति मेदिनी। गृहस्थैर्दानतपसा यैर्लोका वै विनिर्जिताः॥ शिष्टानां चरितं ह्येतत् कीर्तितं मे युधिष्ठिर। दानयज्ञप्रजासगैरेते हि दिवमास्थिताः॥ दत्त्वा तु सततं तेऽस्तु कौरवाणां धुरन्धर। दानयज्ञक्रियायुक्ता बुद्धिर्धर्मोपचायिनी॥ यत्र ते नृपशार्दूल संदेहो वै भविष्यति। श्वः प्रभाते हि वक्ष्यामि संध्या हि समुपस्थिता॥ युधिष्ठिर उवाच उत सन्तमसन्तं वा बालं वृद्धं च संजय। उताबलं बलीयांसं धाता प्रकुरुते वशे॥ उत बालाय पाण्डित्यं पण्डितायोत बालताम्। ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन्॥ बलं जिज्ञासमानस्य आचक्षीथा यथातथम्। अथ मन्त्रं मन्त्रयित्वा याथातथ्येन हृष्टवत्॥ गावल्गणे कुरून् गत्वा धृतराष्ट्र महाबलम्। अभिवाद्योपसंगृह्य ततः पृच्छेरनामयम्॥ ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम्। तवैव राजन् वीर्येण सुखं जीवन्ति पाण्डवाः॥ तव प्रसादाद बालास्ते प्राप्ता राज्यमरिंदम्। राज्ये तान् स्थापयित्वाग्रे नोपेक्षस्व विनश्यतः॥ सर्वमप्येतदेकस्य नालं संजय कस्यचित्। तात संहत्य जीवामो द्विषतां मा वशं गमः॥ तथा भीष्मं शान्तनवं भारतानां पितामहम्। शिरसाभिवदेथास्त्वं मम नाम प्रकीर्तयन्॥ अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः। भवता शन्तनोवंशो निमग्नः पुनरुद्धृतः॥ स त्वं कुरु तथा तात स्वमतेन पितामह। यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम्॥ तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम्। अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरे॥ अथ दुर्योधनं ब्रूया राजपुत्रममर्षणम्। मध्ये कुरूणामासीनमनुनीय पुनः पुनः॥ अपापां यदुपैक्षस्त्वं कृष्णामेतां सभागताम्। तद् दुःखमतितिक्षाम मा वधीष्म कुरूनिति॥ एवं पूर्वापरान् क्लेशानतितिक्षन्त पाण्डवाः। बलीयांसोऽपि सन्तो यत् तत् सर्वं कुरवो विदुः॥ यन्नः प्रव्राजयः सौम्य अजिनैः प्रतिवासितान्। तद् दुःखमतितिक्षाम मा वधिष्म कुरूनिति॥ यत् कुन्ती समतिक्रम्य कृष्णां केशेष्वधर्षयत्। दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षतम्॥ अथोचितं स्वकं भागं लभेमहि परंतप। निवर्तय परद्रव्याद् बुद्धिं गृद्धां नरर्षभ॥ शान्तिरेवं भवेद् राजन् प्रीतिश्चैव परस्परम्। राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम्॥ अविस्थलं वृकस्थलं माकन्दी वारणावतम्। अवसानं भवत्वत्र किंचिदेकं च पञ्चमम्॥ भ्रातृणां देहि पञ्चानां पञ्च ग्रामान् सुयोधन। शान्ति!ऽस्तु महाप्राज्ञ ज्ञातिभिः सह संजया॥ भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम्। स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह।॥ अक्षतान् कुरुपाञ्चालान् पश्येयमिति कामये। सर्वे सुमनसस्तात शाम्याम भरतर्षभ॥ अलमेव शमायास्मि तथा युद्धाय संजय। धर्मार्थयोरलं चाहं मृदवे दारुणाय च॥ अकृतव्रण उवाच स वेदाध्ययने युक्तो जमदग्निर्महातपाः। तपस्तेपे ततो देवान् नियमाद् वशमानयत्॥ स प्रसेनजितं राजन्नधिगम्य नराधिपम्। रेणुकां वरयामास स च तस्मै ददौ नृपः॥ रेणुकां त्वथ सम्प्राप्य भार्यां भार्गवनन्दनः। आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया॥ तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः। सर्वेषामजघन्यस्तु राम आसीज्जघन्यजः॥ फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै। रेणुका स्नातुमगमत् कदाचिन्नियतव्रता॥ सा तु चित्ररथं नाम मार्तिकावतकं नृपम्। ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया।॥ क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम्। ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका॥ व्यभिचाराच्च तस्मात् सा क्लिन्नाम्भसि विचेतना। प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत॥ स तां दृष्ट्वा च्युतां धैर्याद् ब्राह्मया लक्ष्म्या विवर्जिताम्। धिकछब्देन महातेजा गर्हयामास वीर्यवान्॥ ततो ज्येष्ठो जामदग्न्यो रुमण्वान् नाम नामतः। आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा॥ तानानुपूर्व्याद् भगवान् वधे मातुरचोदयत्। न च ते जातसंस्नेहाः किंचिदूचुर्विचेतसः॥ ततः शशाप तान् क्रोधात् ते शप्ताश्चेतना जहुः। मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः॥ ततो रामोऽभ्ययात् पश्चादाश्रमं परवीरहा। तमुवाच महाबाहुर्जमदग्निर्महातपाः॥ जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः। तत आदाय परशुं रामो मातुः शिरोऽहरत्॥ ततस्तस्य महाराज जमदग्नेर्महात्मनः। कोपोऽभ्यगच्छत् सहसा प्रसन्नश्चाब्रवीदिदम्॥ ममेदं वचनात् तात कृतं ते कर्म दुष्करम्। वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा॥ स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै। पापेन तेन चास्पर्श भ्रातृणां प्रकृति तथा॥ अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत। ददौ च सर्वान् कामांस्ताञ्जमदग्निर्महातपाः॥ कदाचित् तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो। अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत॥ तमाश्रमपदं प्राप्तमृर्भार्या समार्चयत्। स युद्धमदसम्मत्तो नाभ्यनन्दत् तथार्चनम्॥ प्रमथ्य चाश्रमात् तस्माद्धोमधेनोस्तथा बलात्। जहार वत्सं क्रोशन्त्या बभञ्ज च महादुमान्॥ आगताय च रामाय तदाचष्ट पिता स्वयम्। गां च रोरुदतीं दृष्ट्वा कोपो रामं समाविशत्॥ स मृत्युवशमापन्नं कार्तवीर्यमुपाद्रवत्। तस्याथ युधि विक्रम्य भार्गवः परवीरहा॥ चिच्छेद निशितैर्भल्लैर्वाहून् परिघसंनिभान्। सहस्रसम्मितान् राजन् प्रगृह्य रुचिरंधनुः॥ अभिभूतः स रामेण संयुक्तः कालधर्मणा। अर्जुनस्याथ दायादा रामेण कृतमन्यवः॥ आश्रमस्थं विना रामं जगदग्निमुपाद्रवन्। ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम्॥ असकृद् रामरामेति विक्रोशन्तमनाथवत्। कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर।॥ पीडयित्वा शरैर्जग्मुर्यथागतमरिदमाः। अपक्रान्तेषु वै तेषु जमदग्नौ तथा गते॥ समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः। स दृष्ट्वा पितरं वीरस्तथा मृत्युवशं गतम्। अनर्हन्तं तथाभूतं विललाप सुदुःखितः॥ वैशम्पायन उवाच एवमुक्त्वा युधां श्रेष्ठः सर्वयादवनन्दनः। सर्वायुधवरोपेतमारुरोह रथोत्तमम्॥ युक्तं परमकाम्बोजैस्तुरगैर्हेममालिभिः। आदित्योदयवर्णस्य धुरं रथवरस्य तु॥ दक्षिणामवहच्छब्यः सुग्रीवः सव्यतोऽभवत्। पाणिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ॥ विश्वकर्मकृता दिव्या रत्नधातुविभूषिता। उच्छ्रितेव रथे माया ध्वजयष्टिरदृश्यत॥ वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान्। तस्य सत्यवतः केतुर्भुजगारिरदृश्यत॥ अथारोहद्धृषीकेशः केतुः सर्वधनुष्मताम्। अर्जुनः सत्यकर्मा च कुरुराजो युधिष्ठिरः॥ अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ। रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम्॥ तावुपारोप्य दाशार्हः स्यन्दनं लोकपूजितम्। प्रतोदेन जवोपेतान् परमाश्चानचोदयत्॥ ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम्। आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च॥ वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम्। प्रादुरासीन्महाशब्दः पक्षिणां पततामिव॥ ते समाईनरव्याघ्राः क्षणेन भरतर्षभ। भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः॥ क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम्। नाशक्नुवन् वारयितुं समेत्यापि महारथाः॥ स तेषां प्रेक्षतामेव श्रीमतां दृढधन्विनाम्। ययौ भागीरथीतीरं हरिभि शवेगितैः॥ यत्र स्म श्रूयते द्रौणिः पुत्रहन्ता महात्मनाम्। स ददर्श महात्मानमुदकान्ते यशस्विनम्॥ कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह। तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम्॥ रजसा ध्वस्तमासीनं ददर्श द्रौणिमन्तिके। तमभ्यधावत् कौन्तेयः प्रगृह्य सशरं धनुः॥ भीमसेनो महाबाहुस्तिष्ठ निष्ठेति चाब्रवीत्। स दृष्ट्वा भीमधन्वानं प्रगृहीतशरासनम्॥ भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ। व्यथितात्माभवद् द्रौणिः प्राप्तं चेदममन्यत॥ स तद् दिव्यमदीनात्मा परमास्त्रमचिन्तयत्। जग्राह च स चैषीकां द्रौणिः सव्येन पाणिना॥ स तामापदमासाद्य दिव्यमस्त्रमुदैरयत्। अमृष्यमाणस्ताञ्छूरान् दिव्यायुधवरान् स्थितान्॥ अपाण्डवायेति रुषा व्यसृजद् दारुणं वचः। इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान्॥ सर्वलोकप्रमोहार्थं तदस्त्रं प्रमुमोच ह। ततस्तस्यामिषीकायां पावकः समजायत। प्रधक्ष्यन्निव लोकांस्त्रीन् कालान्तकयमोपमः॥ वैशम्पायन उवाच स नं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम्। दीर्घश्मश्रुधरं नृणां शोणितेन समुक्षितम्॥ चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत्। प्रत्युत्थाय महातेजा भयकर्ता यमोपमः॥ दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम्। भक्ष्यं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम॥ राजन् गुर्वर्थिनं विद्धि चरन्तं मामिहागतम्। न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः॥ षष्ठे काले ममाहारो विहितो द्विजसत्तम। न शक्यस्त्वं समुत्स्रष्टुं क्षुधितेन मयाद्य वै॥ एवमस्तु महाराज समयः क्रियतां त मे। गुर्वर्थमभिनिवर्त्य पुनरेष्यामि ने वशम्॥ संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम। त्वदधीनः स राजेन्द्र तं त्वां भिक्षे नरेश्वर॥ ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि नित्यदा। दाता च त्वं नरव्याघ्र पात्रभूतः क्षिताविह। पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम॥ उपाहृत्य गुरारर्थं त्वदायत्तमरिंदम। समयेनेह राजेन्द्र पुनरेष्यामि ते वशम्॥ सत्यं ते प्रतिजानामि नात्र मिथ्या कथंचन। अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा।॥ सौदास उवाच यदि मत्तस्तवायत्तो गुर्वथैः कृत एव सः। यदि चास्मि प्रतिग्राह्यः साम्प्रतं तद् वदस्व मे॥१११! उत्तङ्क उवाच प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ। सोऽहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले॥ पत्न्यास्ते मम विप्रर्षे उचिते मणिकुण्डले। वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत॥ अलं ते व्यपदेशेन प्रमाणा यदि ते वयम्। प्रयच्छ कुण्डले मह्यं सत्यवाग् भव पार्थिव॥ इत्युक्तस्त्वब्रवीद् राजा तमुत्तकं पुनर्वचः। गच्छ मद्वचनाद् देवीं ब्रूहि देहीति सत्तम॥ सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिव्रता। प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः॥ उत्तङ्क उवाच क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर। स्वयं वापि भवान् पत्नी किमर्थं नोपसर्पति॥ सौदास उवाच तां द्रक्ष्यति भवानद्य कस्मिंश्चिद् वननिर्झरे। षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै॥ वैशम्पायन उवाच उत्तङ्कस्तु तथोक्तः स जगाम भरतर्षभ। मदयन्तीं च दृष्ट्वा स ज्ञापयत् स्वप्रयोजनम्॥ सौदासवचनं श्रुत्वा ततः सा पृथुलोचना। प्रत्युवाच महाबुद्धिमुत्तकं जनमेजय॥ एवमेतद् वद ब्रह्मन् नानृतं वदसेऽनघ। अभिज्ञानं तु किंचित् त्वं समानयितुपर्हसि॥ इमे हि दिव्ये मणिकुण्डले मे देवाश्च यक्षाश्च महर्षयश्च। तैस्तैरुपायैरमहर्तुकामा श्छिद्रेषु नित्यं परितर्कयन्ति॥ निक्षिप्तमेतद् भुवि पन्नगास्तु रत्नं समासाद्य परामशेयुः। यक्षास्तेथोच्छिष्टधृतं सुराश्च निद्रावशाद् वा परिधर्षयेयुः॥ छिद्रेष्वेतेष्विमे नित्यं ह्वियेते द्विजसत्तम। देवराक्षसनागानामप्रमत्तेन धार्यते॥ स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम। नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्ततः॥ एते ह्यमुच्य भगवन् क्षुत्पिपासाभयं कुतः। विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते॥ ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा। अनुरूपेण चामुक्ते जायेते तत्प्रमाणके॥ एवंविधे ममैते वै कुण्डले परमार्चित। त्रिषु लोकेषु विज्ञाते तदभिज्ञानमानय॥ जनमेजय उवाच अत्यद्भुतमिदं ब्रह्मन् श्रुतवानस्मि तत्त्वतः। अभिषेकं कुमारस्य विस्तरेण यथाविधि॥ यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन। प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम॥ अभिषेकं कुमारस्य दैत्यानां च वधं तथा। श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे॥ अपां पतिः कथं ह्यस्मिन्नभिषिक्तः पुरा सुरैः। तन्मे ब्रूहि महाप्राज्ञ कुशलो ह्यसि सत्तम।॥ वैशम्पायन उवाच शृणु राजन्निदं चित्रं पूर्वकल्पे यथातथम्। आदौ कृतयुगे राजन् वर्तमाने यथाविधि॥ वरुणं देवताः सर्वा यमेत्येदपथाब्रुवन्। यथास्मान् सुरराट्छक्रो भयेभ्यः पाति सर्वदा॥ तथा त्वमपि सर्वासां सरितां वै पतिर्भव। वासश्च ते सदा देव सागरे मकरालये॥ समुद्रोऽयं तव वशे भविष्यति नदीपतिः। सोमेन सार्धं च तव हानिवृद्धी भविष्यतः॥ एवमस्त्विति तान् देवान् वरुणो वाक्यमब्रवीत्। समागम्य ततः सर्वे वरुणं सागरालयम्॥ अपां पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा। अभिषिच्य ततो देवा वरुणं यादसां पतिम्॥ जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम्। अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः॥ सरितः सागरांश्चैव नदांश्चापि सरांसि च। पालयामास विधिना यथा देवाशतक्रतुः॥ ततस्तत्राप्युपस्पृश्य दत्त्वा च विविधं वसु। अग्नितीर्थं महाप्राज्ञो जगामाथ प्रलम्बहा॥ नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः। लोकालोकविनाशे च प्रादुर्भूते तदानघ॥ उपतस्थुः सुरा यत्र सर्वलोकपितामहम्। अग्निः प्रनष्टो भगवान् कारणं च न विद्महे॥ सर्वभूतक्षयो राजन् सम्पादय विभोऽनलम्। जनमेजय उवाच किमर्थं भगवानग्निः प्रनष्टो लोकभावनः॥ विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः। वैशम्पायन उवाच भृगोः शापाद् भृशं भीतो जातवेदाः प्रतापवान्॥ शमीगर्भमथासाद्य ननाश भगवांस्ततः। प्रनष्टे तु सदा वह्नौ देवाः सर्वे सवासवाः॥ अन्वैषन्त तदा नष्टं ज्वलनं भृशदुःखिताः। ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि॥ ददृशुर्व्वलनं तत्र वसमानं यथाविधि। देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः॥ ज्वलनं तं समासाद्य प्रीताऽभूवन् सवासवाः। पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत्॥ भृगोः शापान्महाभाग यदुक्तं ब्रह्मवादिना। तत्राप्याप्लुत्य मतिमान् ब्रह्मयोनिं जगाम ह॥ ससर्ज भगवान् यत्र सर्वलोकपितामहः। तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा॥ ससर्ज तीर्थानि तथा देवतानां यथाविधि। तत्र स्नात्वा च दत्वा च वसूनि विविधानि च।॥ कौबेरं प्रययौ तीर्थं तत्र तप्त्वा महत्तपः। धनाधिपत्यं सम्प्राप्तो राजन्नैलबिल प्रभुः॥ तत्रस्थमेव तं राजन् धनानि निधयस्तथा। उपतस्थुर्नरश्रेष्ठ तत् तीर्थं लागली बलः॥ गत्वा दत्वा च विधिवद् ब्राह्मणेभ्यो धनं ददौ। ददृशे तत्र तत् स्थानं कौबेरे काननोत्तमे॥ पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना। यक्षराज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः॥ धनादिपत्यं सख्यं च रुद्रेणामिततेजसा। सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम्॥ यत्र लेभे महाबाहो धनाधिपतिरञ्जसा! अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः॥ वाहनं चास्य तद् दत्तं हंसयुक्तं मनोजवम्। विमानं पुष्पकं दिव्यं नैऋतैश्चर्यमेव च।॥ तत्राप्लुत्य बलो राजन् दत्त्वा दायांश्च पुष्कलान्। जगाम त्वरितो रामस्तीर्थं श्वेतानुलेपनः॥ निषेवितं सर्वसत्त्वैर्नाम्ना बदरपाचनम्। नानर्तुकवनोपेतं सदापुष्पफलं शुभम्॥ नारद उवाच ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः। जग्मुस्तदा परामार्ति दृष्ट्वा तत् कदनं महत्॥ तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः। पितामहस्य भवनं जगतः कृपया तदा॥ ततो ददृशुरासीनं सह देवैः पितामहम्। सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात् परिवारितम्॥ तत्र देवो महादेवस्तत्राग्निर्वायुना सह। चन्द्रादित्यौ च शक्रश्च पारमेष्ठ्यास्तथर्षयः॥ वैखानसा बालखिल्या वानप्रस्था मरीचिपाः। अजाश्चैवाविमूढाश्च तेजोग स्तपस्विनः॥ ऋषयः सर्व एवैते पितामहमुपागमन्। ततोऽभिगम्य ते दीनाः सर्व एव महर्षयः॥ सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे। यथा हृतं यथा चैव कृतं येन क्रमेण च॥ न्यवेदयंस्ततः सर्वमखिलेन पितामहे। ततो देवगणाः सर्वे ते चैव परमर्षयः॥ तमेवार्थं पुरस्कृत्य पितामहमचोदयन्। ततः पितामहः श्रुत्वा सर्वेषां तद् वचस्तदा॥ मुहूर्तमिव संचिन्त्य कर्तव्यस्य च निश्चयम्। तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत्॥ दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः। सृज्यतां प्रार्थनीयैका प्रमदेति महातपाः॥ पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च। निर्ममे योषितं दिव्यां चिन्तयित्वा पुनः पुनः॥ त्रिषु लोकेषु यत् किंचिद् भूतं स्थावरजङ्गम्। समानयद् दर्शनीयं तत् तदत्र स विश्वजित्॥ कोटिशश्चैव रत्नानि तस्या गात्रे न्यवेशयत्। तां रत्नसंघातमयीमसृजद् देवरूपिणीम्॥ सा प्रयत्नेन महता निर्मिता विश्वकर्मणा। त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत्॥ न तस्याः सूक्ष्ममप्यस्ति यद् गात्रे रूपसम्पदा। नियुक्ता यत्र वा दृष्टिर्न सज्जति निरीक्षताम्॥ सा विग्रहवतीव श्रीः कामरूपा वपुष्मती। जहार सर्वभूतानां चढूंषि च मनांसि च॥ तिलं तिलं समानीय रत्नानां यद् विनिर्मित।। तिलोत्तमेति तत् तस्या नाम चक्रे पितामहः॥ ब्रह्माणं सा नमस्कृत्य प्राञ्जलिर्वाक्यमब्रवीत्। किं कार्यं मयि भूतेश येनास्म्योह निर्मिता॥ पितामह उवाच गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे। प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम्॥ त्वत्कृते दर्शनादेव रूपसम्पत्कृतेन वै। विरोधः : स्याद् यथा ताभ्यामन्योन्येन तथा कुरु॥ नारद उवाच सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम्। चकार मण्डलं तत्र विबुधानां प्रदक्षिणम्॥ प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः। देवाश्चैवोत्तरेणासन् सर्वतस्त्वृषयोऽभवन्॥ कुर्वत्या तु तदा तत्र मण्डलं तत् प्रदक्षिणम्। इन्द्रः स्थाणुश्च भगवान् धैर्येण प्रत्यवस्थितौ॥ द्रष्टुकामस्य चात्यर्थं गतया पार्श्वतस्तया। अन्यदञ्चितपद्माक्षं दक्षिणं निःसृतं मुखम्॥ पृष्ठतः परिवर्तन्त्या पश्चिमं निःसृतं सुखम्। गतया चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम्॥ महेन्द्रस्यापि नेत्राणां पृष्ठतः पार्श्वतोऽग्रतः। रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत्॥ एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत् पुरा। तथा सहस्रनेत्रश्च बभूव बलसूदनः॥ तथा देवनिकायानां महर्षीणां च सर्वशः। मुखानि चाभ्यवर्तन्त येन याति तिलोत्तमा॥ तस्या गात्रे निपतिता दृष्टिस्तेषां महात्मनाम्। सर्वेषामेव भूयिष्ठमृते देवं पितामहम्॥ गच्छन्त्या तु तया सर्वे देवाश्च परमर्षयः कृतमित्येव तत् कार्य मेनिरे रूपसम्पदा॥ तिलोत्तमायां तस्यां तु गतायां लोकभावनः। सर्वान् विसर्जयामास देवानृषिगणांश्च तान्॥ वैशम्पायन उवाच राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य संजयः। उपप्लव्यं ययौ द्रष्टुं पाण्डवानमितौजसः॥ स तु राजानमासाद्य कुन्तीपुत्रं युधिष्ठिरम्। अभिवाद्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत॥ रजातशत्रुमवदत् प्रतीतः। दिष्ट्या राजंस्त्वामरोगं प्रपश्ये सहायवन्तं च महेन्द्रकल्पम्॥ अनामयं पृच्छति त्वाऽऽम्बिकेयो वृद्धो राजा धृतराष्ट्रो मनीषी। कच्चिद् भीमः कुशली पाण्डवाग्र्यो धनंजयस्तौ च माद्रीतनूजौ॥ कच्चित् कृष्णा द्रौपदी राजपुत्री सत्यव्रता वीरपत्नी सपुत्रा। मिष्टान् कामान् भारत स्वस्तिकामः॥ युधिष्ठिर उवाच गावल्गणे संजय स्वागतं ते प्रीयामहे ते वयं दर्शनेन। अनामयं प्रतिजाने तवाहं सहानुजै:कुशली चास्मि विद्वन्॥ चिरादिदं कुशलं भारतस्य श्रुत्वा राज्ञः कुरुवृद्धस्य सूत। मन्ये साक्षाद् दृष्टमहं नरेन्द्र दृष्ट्वैव त्वां संजय प्रीतियोगात्॥ पितामहो नः स्थविरो मनस्वी महाप्राज्ञः सर्वधर्मोपपन्नः। स कौरव्यः कुशली तात भीष्मो यथापूर्वं वृत्तिरस्त्यस्य कच्चित्॥ कच्चिद् राजा धृतराष्ट्रः सपुत्रो वैचित्रवीर्यः कुशली महात्मा। महाराजो बाह्निकः प्रातिपेयः कच्चिद् विद्वान् कुशली सूतपुत्र॥ स सोमदत्तः कुशली तात कच्चिद् भूरिश्रवाः सत्यसंधः शलश्च। द्रोणः सपुत्रश्च कृपश्च विप्रो महेष्वासाः कच्चिदेतेऽप्यरोगाः॥ सर्वे कुरुभ्यः स्पृहयन्ति संजय धनुर्धरा ये पृथिव्या प्रधानाः। महाप्राज्ञाः सर्वशास्त्रावदाता धनुर्भूता मुख्यतमाः पृथिव्याम्॥ कच्चिन्मानं तात लभन्त एते धनुर्भूतः कच्चिदेतेऽप्यरोगाः। येषां राष्ट्रे निवसति दर्शनीयो महेष्वासः शीलवान् द्रोणपुत्रः॥ महाप्राज्ञो राजपुत्रो युयुत्सुः। कर्णोऽमात्यः कुशली तात कच्चित् सुयोधनो यस्य मन्दो विधेयः॥ स्त्रियो वृद्धा भारतानां जनन्यो महानस्यो दासभार्याश्च सूत। वध्वः पुत्रा भागिनेया भगिन्यो दौहित्रा वा कच्चिदप्यव्यलीकाः॥ कच्चिद् राजा ब्राह्मणानां यथावत् प्रवर्तते पूर्ववत् तात वृत्तिम्। कच्चिद् दायान् मामकान् धार्तराष्ट्रो द्विजातीनां संजय नोपहन्ति॥ कच्चिद् राजा धृतराष्ट्रः सपुत्र उपेक्षते ब्राह्मणातिक्रमान् वै। मुपेक्षते तेषु सदैव वृत्तिम्॥ एतज्ज्योतिश्चोत्तमं जीवलोके शुक्लं प्रजानां विहितं विधात्रा। ते चेद् दोषं न नियच्छन्ति मन्दा: कृत्स्नोनाशो भविता कौरवाणाम्॥ कच्चिद् राजा धृतराष्ट्रः सपुत्रो बुभूषते वृत्तिममात्यवर्गे। कच्चिन्न भेदेन जिजीविषन्ति सुहृदूपा दुर्हदैश्चैकमत्यात्।। कच्चिन्न पापं कथयन्ति तात ते पाण्डवानां कुरवः सर्व एव। द्रोणः सपुत्रश्च कृपश्च वीरो नास्मासु पापानि वदन्ति कच्चित्॥ कच्चिद् राज्ये धृतराष्ट्र सपुत्रं समेत्याहुः कुरवः : कुरवः सर्व एव। कच्चिद् दृष्ट्वा दस्युसङ्घान् समेतान् स्मरन्ति पार्थस्य युधां प्रणेतु॥ मौर्वीभुजाग्रप्रहितान् स्म तात दोधूयमानेन धनुर्धरेण। नजिह्मगान् कच्चिदनुस्मरन्ति॥ न चापश्यं कचिदहं पृथिव्यां योधं समं वाधिकमर्जुनेन। यस्यैकषष्टिनिशितास्तीक्ष्णधाराः सुवाससः सम्मतो हस्तवापः॥ गदापाणिर्भीमसेनस्तरस्वी प्रवेपयञ्छत्रुसङ्घाननीके। नागः प्रभिन्न इव नड्वलेषु चंक्रम्यते कच्चिदेनं स्मरन्ति॥ माद्रीपुत्रः सहदेवः कलिङ्गान् समागतानजयद् दन्तकरे। वामेनास्यन् दक्षिणेनैव यो वै महाबलं कच्चिदेनं स्मरन्ति॥ पुरा जेतुं नकुलः प्रेषितोऽयं शिबींस्त्रिगर्तान् संजय पश्यतस्ते। दिशं प्रतीची वशमानयन्मे माद्रीसुतं कच्चिदेनं स्मरन्ति॥ पराभवो द्वैतवने य आसीद् दुर्मन्त्रिते घोषयात्रागतानाम्। यत्र मन्दाञ्छत्रुवशं प्रयातानमोचयद् भीमसेनो जयश्च।। अहं पश्चादर्जुनमभ्यरक्षं माद्रीपुत्रौ भीमसेनोऽप्यरक्षत्। गाण्डीवधन्वा शत्रुसङ्घानुदस्य स्वस्त्यागमत् कच्चिदेनं स्मरन्ति॥ न कर्मणा साधुनैकेन नूनं सुखं शक्यं वै भवतीह संजय। न शक्नुमो धृतराष्ट्रस्य पुत्रम्॥ भीष्म उवाच तस्यां निशायां व्युष्टायां गते तस्मिन् द्विजोत्तमे। निष्क्रम्य गौतमोऽगच्छत् समुद्रं प्रति भारत॥ सामुद्रिकान् स वणिजस्ततोऽपश्यत् स्थितान् पथि। स तेन सह सार्थेन प्रययौ सागरं प्रति॥ स तु सार्थो महान् राजन् कस्मिंश्चिद् गिरिगह्वरे। मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत्॥ स कथंचिद् भयात् तस्माद् विमुक्तो ब्राह्मणस्तथा। कांदिग्भूतो जीवितार्थी प्रदुद्रोवात्तरां दिशम्॥ स तु सार्थपरिभ्रष्टस्तस्माद् देशात् तथा च्युतः। एकाकी व्यवरत् तत्र वने किंपुरुषो यथा।॥ स पन्थानमथासाद्य समुद्राभिसरं तदा। आससाद वनं रम्यं दिव्यं पुष्पितपादपम्॥ सर्वर्तुकैराम्रवणैः पुष्पितैरुपशोभितम्। नन्दनोद्देशसदृशं यक्षकिन्नरसेवितम्।।७। शालैस्तालैस्तमालैश्च कालागुरुवनैस्तथा। चन्दनस्य च मुख्यस्य पादपैरुपशोभितम्। गिरिप्रस्थेषु रम्येषु तेषु तेषु सुगन्धिषु॥ समन्ततो द्विजश्रेष्ठास्तत्राकूजन्त वै तदा। मनुष्यवदनाश्चान्ये भारुण्डा इति विश्रुताः॥ भूलिङ्गशकुनाश्चान्ये सामुद्राः पर्वतोद्भवाः। स तान्यतिमनोज्ञानि विहगानां रुतानि वै॥ शृण्वन् सुरमणीयानि विप्रोऽगच्छत् गौतमः। ततोऽपश्यत् सुरम्येषु सुवर्णसिकताचिते॥ देशे समे सुखे चित्रे स्वर्णोद्देशसमे नृप। श्रिया जुष्टं महावृक्षं न्यग्रोधं च सुमण्डलम्॥ शाखाभिरनुरूपाभिर्भूयिष्ठं क्षत्रसंनिभम्। सुखः शिवः। तस्य मूलं च संसिक्तं वरचन्दनवारिणा॥ दिव्यपुष्पान्वितं श्रीमत् पितामहसभोपमम। तं दृष्ट्वा गौतमः प्रीतो मन:कान्तमनुत्तमम॥ मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम्। तमासाद्य मुदा युक्तस्तस्याधस्तादुपाविशत्॥ तत्रासीनस्य कौन्तेय गौतमस्य पुष्पाणि समुपम्पृश्य प्रववावनिल: शुभः। ह्लादयन् सर्वगात्राणि गौतमस्य तदा नृप॥ स तु विप्रः प्रशान्तश्च स्पृष्टः पुण्येन वायुना। सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्ययात्॥ ततोऽस्तं भास्करे याते संध्याकाल उपस्थिते। आजगाम स्वभवनं ब्रह्मलोकात् खगोत्तमः॥ नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा। बकराजो महाप्राज्ञः कश्यपस्यात्मसम्भवः॥ राजधर्मेति विख्यातो बभूवाप्रतिमो भुवि। देवकन्यासुतः श्रीमान् विद्वान् देवसमप्रभः॥ पृष्टाभरणसम्पन्नो भूषणैरर्कसंनिभैः। षितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन्॥ तमागतं खगं दृष्ट्वा गौतमो विस्मितोऽभवत्। क्षुत्पिपासापरिश्रान्तो हिंसार्थी चाभ्यवेक्षत॥ राजधर्मोवाच स्वागतं भवतो विप्र दिष्ट्या प्राप्तोऽसि मे गृहम्। अस्तं च सविता यातः संध्येयं समुपस्थिता।॥ मम त्वं निलय प्राप्तः प्रियातिथिरनिन्दितः। पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा॥ भीमसेन उवाच ब्रह्मशानेन्द्रवरुणानवहद् यः पुरा रथः। तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम्॥ आज्ञां तु शिरसा बिभ्रदेष गच्छामि मा शुचः। समेत्य तान् नरव्याघ्रांस्तव दास्यामि संविदम्॥ संजय उवाच एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम्। धृष्टद्युम्नाय बलवान् सुहद्भ्यश्च पुनः पुनः॥ धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः। विदितं ते महाबाहो यथा द्रोणो महारथः॥ ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते। न च मे गमने कृत्यं तादृक् पार्षत विद्यते॥ यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः। एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं न चोत्सहे॥ प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः। धर्मराजस्य वचने स्थातव्यमविशङ्कया॥ यास्यामि पदवीं भ्रातुः सात्वतस्य च धीमतः। सोऽद्य यत्तो रणे पार्थ परिरक्ष युधिष्ठिरम्॥ एतद्धि सर्वकार्याणां परमं कृत्यमाहवे। तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम्॥ ईप्सितं ते करिष्यामि गच्छ पार्थाविचारयन्। नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन॥ निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे। ततो निक्षिप्य राजानं धृष्टद्युम्ने च पाण्डवम्॥ अभिवाद्य गुरुं ज्येष्ठं प्रययौ येन फाल्गुनः। परिष्वक्तश्च कौन्तेयो धर्मराजेन भारत॥ आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः। कृत्वा प्रदक्षिणान् विप्रानर्चितांस्तुष्टमानसान्॥ आलभ्य मङ्गलान्यष्टौ पीत्वा कैरातकं मधु। द्विगुणद्रविणो वीरो मदरक्तान्तलोचनः॥ विप्रैः कृतस्वस्त्ययनो विजयोत्पादसूचितः। पश्यन्नेवात्मनो बुद्धिं विजयानन्दकारिणीम्॥ अनुलोमानिलैश्चाशु प्रदर्शितजयोदयः। भीमसेनो महाबाहुः कवची शुभकुण्डली॥ साङ्गदः सतलत्राणः सरथो रथिनां वरः। तस्य कार्णायसं वर्म हेमचित्रं महर्द्धिमत्॥ विबभौ सर्वतः श्लिष्टं सविद्युदिव तोयदः। पीतरक्तासितसितैर्वासोभिश्च सुवेष्टितः॥ कण्ठमात्रेण च बभौ सेन्द्रायुध इवाम्बुदः। प्रयाते भीमसेने तु तव सैनयं युयुत्सया॥ पाञ्चजन्यरवो घोरः पुनरासीद् विशाम्पते। तं श्रुत्वा निनदं घोर त्रैलोक्यत्रासनं महत्॥ पुनर्भीमं महाबाहुं धर्मपुत्रोऽभ्यभाषत। एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम्॥ पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट्। नूनं व्यसनमापन्ने सुमहत् सव्यसाचिनि॥ कुरुभियुध्यते सार्ध सर्वेश्चक्रगदाधरः। आह कुन्ती नूनमार्या पापमद्य निदर्शनम्॥ द्रौपदी च सुभद्रा च पश्यन्त्यौ सह बन्धुभिः। स भीम त्वरया युक्तो याहि यत्र धनंजयः॥ मुह्यन्तीव हि मे सर्वा धनंजयदिदृक्षया। दिशश्च प्रदिशः पार्थ सात्वतस्य च कारणात्॥ गच्छ गच्छेति गुरुणा सोऽनुज्ञातो वृकोदरः। ततः पाण्डुसुतो राजन् भीमसेनः प्रतापवान्॥ बद्धगोधाङ्गुलित्राणः प्रगृहीतशरासनः। ज्येष्ठेन प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियंकरः॥ आहत्य दुन्दुभिं भीमः शङ्ख प्रधमाप्य चासकृत्। विनद्य सिंहनादेन ज्यां विकर्षन् पुनः पुनः॥ तेन शब्देन वीराणां पातपित्वा मनांस्युत। दर्शयन् घोरमात्मानममित्रान् सहसाभ्ययात्॥ तहूमुर्जवा दान्ता विरुवन्तो हयोत्तमाः। विशोकेनाभिसम्पन्ना मनोमारुतरंहसः॥ आरुजन् विरुजन् पार्थो ज्यां विकर्षश्च पाणिना। सम्प्रकर्षन् विमर्षश्च सेनाग्रं समलोडयत्॥ तं प्रयान्तं महाबाहुं पञ्चालाः सहसोमकाः। पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः॥ तं समेत्य महाराज तावकाः पर्यवारयन्। दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः॥ दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा। विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः॥ वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः। अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः॥ शोभन्तो रथिनां श्रेष्ठाः सहसैन्यपदानुगाः। संयत्तः समरे वीरा भीमसेनमुपाद्रवन्॥ तैः समन्ताद् वृतः शूरैः समरेषु महारथः। तान् समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी। अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव॥ ते महास्राणि दिव्यानि तत्र वीरा अदर्शयन्। छादयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम्॥ स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत्। अप्रतश्च गजानीकं शरवर्षैरवाकिरत्॥ सोऽचिरेणैव कालेन तद् गजानीकमाशुगैः। दिशः सर्वाः समभ्यस्य व्यधमत् पवनात्मजः॥ त्रासिताः शरभस्येव गर्जितेन वने मृगाः। प्राद्रवन् द्विरदाः सर्वे नदन्तो भैरवान् रवान्॥ पुनश्चातीव वेगेन द्रोणानीकमुपाद्रवत्। तमवारयदाचार्यो वेलोद्वृत्तमिवार्णवम्॥ ललाटेऽताड्यच्चैनं नाराचेन स्मयन्निव। ऊर्ध्वरश्मिरिवादित्यो विबभौ तेन पाण्डवः॥ स मन्यमानस्त्वाचार्यो ममायं फाल्गुनो यथा। भीमः करिष्यते पूजामित्युवाच वृकोदरम्॥ भीमसेन न ते शक्या प्रवेष्टुमरिवाहिनी। मामनिर्जित्य समरे शत्रुमद्य महाबल॥ यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम। अनीकं न तु शक्यं मे प्रवेष्टुमिह वै त्वया॥ अथ भीमस्तु तच्छुत्वा गुरोर्वाक्यमपेतभीः। क्रुद्धः प्रोवाच वै द्रोणं रक्तताप्रेक्षणस्त्वरन्॥ तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम्। प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद् बलम्॥ तेन वै परमां पूजां कुर्वता मानितो ह्यसि। नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि॥ पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रास्तु ते वयम्। इति मन्यामहे सर्वे भवन्तं प्रणता स्थिताः॥ अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते। यदि त्वं शत्रुमात्मानं मन्यसे तत्तथास्त्विह॥ एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम्। अथोद्भाम्य गदां भीमः कालदण्डमिवान्तकः॥ द्रोणाय व्यसृजद् राजन् स रथादवपुप्लुवे। साश्वसूतध्वजं यानं द्रोणस्यापोथयत् तदा॥ प्रामृगाच बहून् योधान् वायुर्वृक्षानिवौजसा। तं पुनः परिवव॒स्ते तव पुत्रा रथोत्तमम्॥ अन्यं तु रथमास्थाय द्रोणः प्रहरतां वरः। व्यूहद्वारं समासाद्य युद्धाय समुपस्थितः॥ ततः क्रुद्धो महाराज भीमसेनः पराक्रमी। अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत्॥ ते वध्यमानाः समरे तव पुत्रा महारथाः। भीमं भीमबला युद्धे योध्यन्ति ज्यैषिणः॥ ततो दुःशासन क्रुद्धो रथशक्तिं समाक्षिपत्। सर्वपारसवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम्॥ आपतन्तीं महाशक्तिं तव पुत्रप्रणोदिताम्। द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत्॥ अथान्यैर्विशिखैस्तीक्ष्णैः संक्रुद्धः कुण्डभेदिनम्। सुषेणं दीर्घनेत्रं च त्रिभित्रीनवधीद् बली॥ ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्। पुत्राणां तव वीराणां युध्यतामवधीत् पुनः॥ अभयं रौद्रकर्माणं दुर्विमोचनमेव च। त्रिभित्रीनवधीद् भीमः पुनरेव सुतांस्तव॥ वध्यमाना महाराज पुत्रास्तव बलीयसा। भीमं प्रहरतां श्रेष्ठं समन्तात् पर्यवारयन्॥ ते शरैर्भीमकर्माणं ववर्षः पाण्डवं युधि। मेघा इवातपापाये धाराभिर्धरणीधरम्॥ स तद् बाणमयं वर्षमश्मवर्षमिवाचलः। प्रतीच्छन् पाण्डुदायादो न प्राव्यथत शत्रुहा॥ विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम्। प्रहसन्नेव कौन्तेयः शरैर्निन्ये यमक्षयम्॥ ततःसुदर्शनं वीरं पुत्रं ते भरतर्षभ। विव्याध समरे तूर्ण स पपात ममार च॥ सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः। दिशः सर्वाः समालोक्य व्यधमत् पाण्डुनन्दनः॥ ततो वै स्थघोषेण गर्जितेन मृगा इव। भज्यमानाश्च समरे तव पुत्रा विशाम्पते॥ प्राद्रवन् सहसा सर्वे भीमसेनभयार्दिताः। अनुयायाच कौन्तेयः पुत्राणां ते महद् बलम्॥ विव्याध समरे राजन् कौरवेयान् समन्ततः। वध्यमाना महाराज भीमसेनेन तावकाः॥ त्यक्त्वा भीमं रणाजग्मुश्चोदयन्तो हयोत्तमान्। तांस्तु निर्जित्य समरे भीमसेनो महाबलः॥ सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः। तलशब्दं च सुमहत् कृत्वा भीमो महाबलः॥ भीषयित्वा स्थानीकं हत्वा योधान् वरान् वरान्। व्यतीत्य रथिनश्चापि द्रोणानीकमुपाद्रवत्॥ सूर्य उवाच नैष देवोऽनिलसखो नासुरो न च पन्नगः। उच्छवृत्तिव्रते सिद्धो मुनिरेव दिवं गतः॥ एष मूलफलाहारः शीर्णपर्णाशनस्तथा। अभक्षो वायुभक्षश्च आसीद् विप्रः समाहितः॥ भवश्चानेन विप्रेण संहिताभिरभिष्टुतः। स्वर्गद्वारे कृतोद्योगो येनासौ त्रिदिवं गतः॥ असङ्गतिरनाकाङ्क्षी नित्यमुच्छशिलाशनः। सर्वभूतहिते युक्त एष विप्रो भुजङ्गम॥ न हि देवा न गन्धर्वा नासुरा न च पन्नगाः। प्रभवन्तीह भूतानां प्राप्तानामुत्तमां गतिम्॥ एतदेवंविधं दृष्टमाश्चर्यं तत्र मे द्विज। संसिद्धो मानुष: कामं योऽसौ सिद्धगतिं गतः। सूर्येण सहितो ब्रह्मन् पृथिवीं परिवर्तते॥ अर्जुन उवाच ब्रह्म यत्परमं ज्ञेयं तन्मे व्याख्यातुमर्हसि। भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः॥ वासुदेव उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह॥ कश्चिद् ब्राह्मणमासीनमाचार्यं संशितव्रतम्। शिष्यः प्रप्रच्छ मेधावी किंस्विच्छ्रेयः परंतप॥ भगवन्तं प्रपन्नोऽहं निःश्रेयसपरायणः। याचे त्वां शिरसा विप्र यद् ब्रूयां ब्रूहि तन्मम॥ तभेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह। सर्वे तु ते प्रवक्ष्यामि यत्र वै संशयो द्विज॥ इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः। प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते॥ शिष्य उवाच कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम्। कुतो जातानि भूतानि स्थावराणि चराणि च॥ केन जीवन्ति भूतानि तेषामायुश्च किं परम्। किं सत्य किं तपो विप्र के गुणाः सद्भिरीरिताः॥ के पन्थान: शिवाश्च स्युः किं सुखं किं च दुष्कृतम्। एतान् मे भगवन् प्रश्चान् याथातथ्येन सुव्रत॥ वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः। त्वदन्यः कश्चन प्रश्चानेतान् वक्तुमिहार्हति॥ ब्रूहि धर्मविदां श्रेष्ठ परं कौतूहलं मम। मोक्षधर्मार्थकुशलो भवाँल्लोकेषु गीयते॥ सर्वसंशयसंच्छेत्ता त्वदन्यो न च विद्यते। संसारभीरवश्चैव मोक्षकामास्तथा वयम्॥ वासुदेव उवाच तस्मै सम्प्रतिपन्नाय यथावत् परिपृच्छते। शिष्याय गुणयुक्ताय शान्ताय प्रियवर्तिने॥ छायाभूताय दान्ताय यतते ब्रह्मचारिणे। तान् प्रश्नानब्रवीत् पार्थ मेधावी स धृतव्रतः। गुरुः कुरुकुलश्रेष्ठ सम्यक् सर्वानरिंदम॥ गुरुरुवाच ब्रह्मणोक्तमिदं सर्वमृषिप्रवरसेवितम्। वेदविद्यां समाश्रित्य तत्त्वभूतार्थभावनम्॥ ज्ञानं त्वेव परं विद्यः संन्यासं तप उत्तमम्। यस्तु वेद निराबाधं ज्ञानतत्त्वं विनिश्चयात्। सर्वभूतस्थमात्मानं स सर्वगतिरिष्यते॥ यो विद्वान् सहसंवासं विवासं चैव पश्यति। तथैवैकत्वनानात्वे स दुःखात् परिमुच्यते॥ यो न कामयते किंचिन्न किंचिदभिमन्यते। इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते॥ प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित्। निर्ममो निरहङ्कारो मुच्यते नात्र संशयः॥ अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान्। महाहङ्कारविटप इन्द्रियाकुरकोटरः॥ महाभूतविशेषश्च विशेषप्रतिशाखवान्। सदापर्णः सदापुष्पः सदा शुभफलोदयः॥ अजीवः सर्वभूतानां ब्रह्मबीजः सनातनः। एतज्ज्ञात्वा च तत्त्वानि ज्ञानेन परमासिना॥ छित्त्वा चामरतां प्राप्य जहाति मृत्युजन्मनी। भूतभव्यभविष्यादि धर्मकामार्थनिश्चयम्। सिद्धसंघपरिज्ञातं पुराकल्पं सनातनम्॥ प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते। बुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः॥ उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम्। प्रजापतिभरद्वाजौ गौतमो भार्गवस्तथा॥ वसिष्ठः कश्यपश्चैव विश्वामित्रोऽत्रिरेव च। मार्गान् सर्वान् परिक्रम्य परिश्रान्ताः स्वकर्मभिः॥२६ ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः। ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम्॥ तं प्रणम्य महात्मानं सुखासीनं महर्षयः। पप्रच्छुर्विनयोपेता नैःश्रेयसमिदं परम्॥ कथं कर्म क्रियात् साधु कथं मुच्येत किल्बिषात्। के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुप्कृतम्॥ को चोभौ कर्मणां मार्गों प्राप्नुयुर्दक्षिणोत्तरौ। प्रलयं चापवर्गं च भूतानां प्रभवाप्ययौ॥ इत्युत्ताः स मुनिश्रेष्ठैर्यदाह प्रपितामहः। तत् तेऽहं सम्प्रवक्ष्यामि शृणु शिष्य यथागमम्॥ ब्राह्मण उवाच सत्याद् भूतानि जातानि स्थावराणि चराणि च। तपसा तानि जीवन्ति इति तद् वित्त सुव्रताः। स्वां योनि समतिक्रम्य वर्तन्ते स्तेन कर्मणा॥ सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम्॥ ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः। सत्याद् भूतानि जातानि सत्यं भूतमयं जगत्॥ तस्मात् सत्यमया विप्रा नित्यं योगपरायणाः। अतीतक्रोधसंतापा नियता धर्मसेविन:॥ अन्योन्यनियतान् वैद्यान् धर्मसेतुप्रवर्तकान्। तानहं सम्प्रवक्ष्यामि शाश्वताल्लोकभावनान्॥ चातुर्विद्यं तथा वर्णाश्चातुराश्रमिकान् पृथक्। धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः॥ पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः। नियतं ब्रह्मभावाय गतं पूर्वं मनीषिभिः॥ गदन्तस्तं मयाद्येह पन्थानं दुर्विदं परम्। निबोधत महाभागा निखिलेन परं पदम्॥ ब्रह्मचारिकमेवाहुराश्रमं प्रथमं पदम्। गार्हस्थ्यं तु द्वितीयं स्याद् वानप्रस्थमतः परम्। ततः परं तु विज्ञेयमध्यात्मं परमं पदम्॥ ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः। नोपैति यावदध्यात्म तावदेतान् न पश्यति॥ तस्योपायं प्रवक्ष्यामि पुरस्तात् तं निबोधत। फलमूलानिलभुजां मुनीनां वसतां वने।॥ वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते। सर्वेषामेव वर्णानां गार्हस्थ्यं तद् विधीयते॥ श्रद्धालक्षणमित्येवं धर्मं धीराः प्रचक्षते। इत्येवं देवयाना वः पन्थानः परिकीर्तिताः। सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः॥ एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः। कालात् पश्यति भूतानां सदैव प्रभवाप्ययौ॥ अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना। विषयस्थानि सर्वाणि वर्तमानानि भागशः॥ महानात्मा तथाव्यक्तमहंकारस्तथैव च। इन्द्रियाणि दशैकं च महाभूतानि पञ्च च॥ विशेषाः पञ्चभूतानामिति सर्गः सनातनः। चतुर्विंशतिरेका च तत्त्वसंख्या प्रकीर्तिता॥ तत्त्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ। स धीरः सर्वभूतेषु न मोहमधिगच्छति॥ तत्त्वानि यो वेदयते यथातथं गुणांश्च सर्वानखिलांश्च देवताः। विधूतपाप्मा प्रतिमुच्य बन्धनं स सर्वलोकानमलान् समश्नुते॥ संजय उवाच विदार्य कर्णस्तां सेनां युधिष्ठिरमथाद्रवत्। रथहस्त्यश्वपत्तीनां सहस्रः परिवारितः॥ नानायुधसहस्राणि प्रेरिततान्यरिभिर्वृषः। छित्वा बाणशतैरुगैस्तानविध्यदसम्भ्रमात्॥ निचकर्त शिरांस्येषां बाहूनूरूंश्च सूतजः। ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवः॥ द्राविडास्तु निषादास्तु पुनः सात्यकिचोदिताः। अभ्यद्रवञ्जिघांसन्तः पत्तयः कर्णमाहवे॥ ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः। पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा॥ एवं योधशतान्याजौ सहस्राण्ययुतानि चः। तानीयुर्महीं देहैर्यशसा पूरयन्दिशः॥ अत वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम्। रुरुधुः पाण्डुपाञ्चाला व्यार्घि मन्त्रौषधैरिव॥ स तान् प्रमृद्याभ्यपतत् पुनरेव युधिष्ठिरम्। मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणौ यथा॥ स राजगृद्धिभी रुदः पाण्डुपञ्चालाकेकयौः। नाशकत् तानतिक्रान्तुं मृत्युब्रह्मविदो यथा॥ ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम्। अब्रवीत् परवीरनं क्रोधसंरक्तलोचनः॥ कर्ण कर्ण वृथादृष्टे सूतपुत्र वचः शृणु। सदा स्पर्धसि संग्रामे फाल्गुनेन तरस्विना॥ तथास्मान् बाधसे नित्यं धार्तराष्ट्रमते स्थितः। यद् बलं यच ते वीर्यं प्रद्वेषो यस्तु पाण्डषु॥ तत् सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः। युद्धश्रद्धां च तेऽद्याहं विनेष्यामि महाहवे॥ एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा। सुवर्णपुबैर्दशभिर्विव्याधायस्मयैः शरैः॥ तं सूतपुत्रो दशभिः प्रत्यविद्ध्यदरिंदमः। वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत॥ सोऽवज्ञाय तु निर्विद्धः सूतपुत्रेण मारिष। प्रजज्वाल ततः क्रोधाद्धविषेव हुताशनः॥ ज्वालामालापरिक्षिप्तो राज्ञो देहो व्यदृश्यत। युगान्ते दग्धुकामस्य संवर्ताग्नेरिवापरः॥ ततो विस्फार्य सुमहचापं हेमपरिष्कृतम्। समाधत्त शितं बाणं गिरीणामपि दारणम्॥ ततः पूर्णायतोत्कृष्टं यमदण्डनिभं शरम्। मुमोच त्वरितो राजा सूतपुत्रजिघांसया॥ स तु वेगवता मुक्तो बाणो वज्राशनिस्वनः। विवेश सहसा कर्ण सव्ये पार्श्वे महारथम्॥ स तु तेन प्रहारेण पीडितः प्रमुमोह वै। स्त्रस्तगात्रो महाबाहुर्धनरुत्सृज्य स्यन्दने॥ गतासुरिव निश्चेताः शल्यस्याभिमुखोऽपतत्। राजापि भूयो नाजघ्ने कर्ण पार्थहितेप्सया॥ ततो हाहाकृतं सर्व धार्तराष्ट्रबलं महत्। विवर्णमुखभूयिष्ठं कर्णं दृष्ट्वा तथागतम्॥ सिंहनादश्च संजज्ञे श्वेला: किलकिलास्तथा। पाण्डवानां महाराज दृष्ट्वा राज्ञः पराक्रमम्॥ प्रतिलभ्य तु राधेयः संज्ञा नातिचिरादिव। दने राजविनाशाय मनः क्रूरपराक्रमः॥ स हेमविकृतं चापं विस्फार्य विजयं महत्। अवाकिरदमेयात्मा पाण्डवं निशितैः शरै॥ ततः क्षुराध्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः। जघान चन्द्रदेवं च दण्डधारं च संयुगे॥ तावुभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः। स्थाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू॥ युधिष्ठिरं: पुन: कर्णमविद्धयतं त्रिंशता शरैः। सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत्॥ शल्यं नवत्या विव्याध त्रिसप्तया च सूतजम्। तांस्तस्य गोप्तन् विव्याध त्रिभिस्त्रिभिरजिह्मगैः॥ ततः प्रहस्ताधिरथिर्विधुन्वानः स कार्मुकम्। भित्वा भल्लेन राजानं विद्ध्वा षष्टयाऽनदत्तदा॥ तत: प्रवीराः पाण्डूनामभ्यधावन्नमर्षिताः। युधिष्ठिरं परीप्सन्तः कर्णमभ्यर्दयञ्छरैः॥ सात्यकिश्चेकितानश्च युयुत्सुः पाण्डव एव च। धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रका॥ यमौ च भीमसेनश्च शिशुपालस्य चात्मजः। कारूषा मत्स्यशेषाश्च केकथाः काशिकोसलाः॥ एते च त्वरिता वीरा वसुषेणमताडयन्। जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः॥ वाराहाकर्णनाराचैर्नालीकैर्निशितैः शरैः। वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः॥ नानाप्रहरणैश्चोत्रै रथहस्तश्वसादिभिः। सर्वतोऽभ्यद्रवत् कर्णं परिवार्य जिघांसया॥ स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः। उदीरयन् ब्राह्ममस्त्रं शरैरापूरयद् दिशः॥ ततः शरमहज्वालौ वीर्योष्मा कर्णपावकः। निर्दहन् पाण्डववनं वीरः पर्यचरद् रणे॥ स संधाय महास्त्राणि महेष्वासा महामनाः। प्रहस्य पुरुषेन्द्रस्य शरैश्चिच्छेद कार्मुकम्॥ तत: संधाय नवति निमेषान्नतपर्वणाम्। बिभेद कवचं राज्ञो रणे कर्णः शितैः शरै॥ तद् वर्म हेमविकृतं रत्नचित्रं बभौ पतत्। सविद्युदभ्रं सवितुः श्लिष्टं वातहतं यथा॥ तदङ्गात् पुरुषेन्द्रस्य भ्रष्टं वर्म व्यरोचत। रत्नलंकृत चित्रैर्व्यभ्रं निशि यथा नभः॥ छिन्नवर्मा शरैः पार्थो रुधिरेण समुक्षितः। ततः सर्वायसीं शक्तिं चिक्षेपाधिरथिं प्रति॥ तां ज्वलन्तीमिवाकाशे शरैश्चिच्छेद सप्तभिः। सा छिन्ना भूमिमगमन्महेष्वासस्य सायकैः॥ ततो बाह्वोर्ललाटे च हृदि चैव युधिष्ठिरः। चतुर्भिस्तोमरैः कर्णं ताडयित्वानदन्मुदा॥ उद्भिनरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन्। ध्वजं चिच्छेद भल्लेन त्रिभिर्विव्याध पाण्डवम्॥ इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत्। कालवालास्तु ये पार्थं दन्तवर्णावहन् हयाः॥ तैर्युक्तं रथमास्थाय प्रायाद् राजा पराङमुखः। एवं पार्थोऽभ्युपायात् स निहतः पाणिंसारथिः॥ अशक्नुवन् प्रमुखतः स्थातुं कर्णस्य दुर्मनाः। अभिद्रुत्य तु राधेयः पाण्डुपुत्रं युधिष्ठिरम्॥ वज्रच्छत्रांकुशैर्मतस्यैर्ध्वजकूर्मम्बुजादिभिः। लक्षणैरुपपन्नेन पाण्डुना पाण्डुनन्दनम्॥ पवित्रीकर्तुमात्मानं स्कन्धे संस्पृश्य पाणिना। ग्रहीतुमिच्छन् स बलात् कुन्तीवाक्यं च सोऽस्मरत्॥ तं शल्यः प्राह मा कर्ण गृहीथाः पार्थिवोत्तमम्। गृहीतमात्रो हत्वा त्वां मा करिष्यति भस्मसात्॥ अब्रवीत प्रहसन् राजन् कुत्सयन्निव पाण्डवम्। कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः॥ प्रजह्यात् समरं भीतः प्राणान् रक्षन् महाहवे। न भवान् क्षत्रधर्मेषु कुशलो हीति मे मतिः॥ ब्राह्मे बले भवान् युक्तः स्वाध्याये यज्ञकर्मणि। मा स्म युद्ध्यस्व कौन्तेय मा स्म वीरान् समासदः॥ मा चैतानप्रियं ब्रूहि मा वै व्रज महारणम्। वक्तव्या मारिषान्से तु न वक्तव्यास्तु मादृशाः॥ मादृशान् विद्वावन् युद्धे एतदन्यच्च लप्स्यसे। स्वगृहं गच्छ कौन्तेय यत्र तौ केशवार्जुनौ॥ न हि त्वां समरे राजन् हन्यात् कर्णः कथञ्चन। एवमुक्त्वा ततः पार्थ विसृज्य च महाबलः॥ न्यहनत् पाण्डवीं सेनां वज्रहस्त इवासुरीम्। ततोऽपायाद् दुतं राजन् वीडन्निव नरेश्वरः॥ अथापयति राजानं मत्वान्वीयुस्तमच्युतम्। चेदिपाण्डवपञ्चालाः सात्यक्श्चि महारथः॥ द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ। ततो युधिष्ठिरानीकं दृष्ट्वा पराङ्मुखम्॥ कुरुभिः सहिता वीरः प्रहृष्टः पृष्ठतोऽन्वगात्। भेरीशङ्गमृदङ्गानां कार्मुकाणां च निःस्वनः॥ बभूव धार्तराष्ट्राणां सिंहनादरवस्तथा। कर्ण: युधिष्ठिरस्तु कौरव्य रथमारुद्य सत्वरम्॥ श्रुतकीर्तेर्महाराज दृष्ट्वान् कर्णविक्रमम्। काल्यमानं बलं दृष्ट्वा धमराजो युधिष्ठिरः॥ स्वान् योधानब्रवीत् क्रुद्धो निघ्नतैतान् किमासत। ततो राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथः॥ भीमसेनमुखाः सर्वे पुत्रास्ते प्रत्युपाद्रवन्। अभवत् तुमुलः शब्दो योधानां तत्र भारत॥ रथहस्त्यश्वपत्तीनां शस्त्राणां च ततस्ततः। उत्तिष्ठत प्रहरत प्रेताभिपततेति च॥ इति ब्रुवाणा ह्यन्योन्यं जघ्नुर्योधा महारणे। अभ्रच्छायेव तन्नासीच्छरवृष्टिभिरम्बरे॥ समावृतैर्नरवरैर्निनद्भिरितरेतरम्। विपताकध्वच्छत्रा व्यश्वसूतायुधा रणे॥ व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणा:क्षितीश्वराः। प्रवणादिव शैलानां शिखराणि द्विपोत्तमाः॥ सारोहा निहताः पेतुर्ववभिन्ना इवाद्रयः। छिन्नभिन्नविपर्यस्तैर्वर्मालङ्कारभूषणैः॥ सारोहास्तुरगाः पेतुर्हरवीराः सहस्रशः। विप्रविद्धायुधाश्चैव द्विरदाश्वरथैर्हताः॥ प्रतिवीरैश्च सम्म पत्तिसंघाः सहस्रशः। विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः॥ शिरोभियुद्धशौण्डानां सर्वतः संवृत्ता मही। यथा भुवि तथा व्योम्नि नि:स्वनं शुश्रुवुर्जनाः॥ विमानैरप्सरः सङ्गैर्गीतवादिनि:स्वनैः। हतानभिमुखान् वीरान् वीरैः शतसहस्रशः॥ आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः। तद् दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया॥ प्रहष्टमनसः शूराः क्षिप्रं जघ्नुः परस्परम्। रथिनो रथिभिः सार्धं चित्र युयुधुराहवे॥ पत्तयः पत्तिभिर्नागा: सह नागैर्हयैर्हयाः। एवं प्रवृत्ते संग्रामे गजवादिनरक्षये॥ सैन्येन रजसा व्याप्ते स्वे स्वाञ्जघ्नुः परे परान्। कचाकचि युद्धमासीद् दन्तादन्ति नखानखि॥ मुष्टियुद्धं नियुद्धं च देहपाप्मासुनाशनम्। तथा वर्तति संग्रामे गजवाजिनरक्षये॥ नराश्वनागदेहेभ्यः प्रसृता लोहितापगा। गजाश्वनरदेहान् सा व्युवाह पतितान् बहून्॥ नराश्वगजसम्बाधे नराश्वगजसादिनाम्। लोहितोदा महाघोरा मांसशोणितकर्दमा॥ नराश्वगजदेहानां सा वहन्ती भीरुभीषणा। तस्याः पारमपारं च व्रजन्ति विजयैषिणः॥ गाधेन चोप्लवन्तश्च निमज्योन्मज्य चापरे। तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः॥ शस्त्रुस्तस्यां पपुश्चास्यां मम्लुश्च भरतर्षभ। ते रथानश्वान् नरान नागानायुधाभरणानि च॥ वसनान्यथ वर्माणि वध्यमानान् हतानापि। भूमि खं द्यां दिशश्चैव प्रायः पश्याम लोहिताः॥ लोहित्य तु गन्धेन स्पर्शेन च रसेन च। रूपेण चातिरक्तेन शब्देन च विसर्पता॥ विषादः सुमहानासीत् प्राय: सैन्यस्य भारत। तत् तु विप्रहतं सैन्यं भीमसेनमुखास्तदा॥ भूयः समाद्रवनं वीराः सात्यकिप्रमुखास्तदा। तेषामापततां वेगमविषह्यं निरीक्ष्य च॥ पुत्राणां ते महासैन्यमासीद् राजन् पराङ्मुखम्। तत् प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम्॥ विध्वस्तवर्मकवचं प्रविद्धायुधकार्मुकम्। व्यद्रवत् तावकं सैन्यं लोड्यमानं समन्ततः। सिंहार्दितमिवारण्ये यथा गजकुलं तथा॥ राजोवाच न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम्। नाधर्मयुक्तानिच्छेयमर्थान् सुमहतोऽप्यहम्॥ पुरस्तादेव भगवन् मयैतदपवर्जितम्। येन मां नाभिशङ्केत येन कृत्स्नं हितं भवेत्॥ आनृशंस्येन धर्मेण लोके ह्यस्मिन् जिजीविषुः। नाहमेतदलं कर्तुं नैतत् त्वय्युपपद्यते॥ मुनिरुवाच उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे। प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या वा बहुदर्शनः॥ उभयोरेव वामर्थे यतिष्ये तव तस्य च। संश्लेषं वा करिष्यामि शाश्वतं पनपायिनम्॥ त्वादृशं कि कुले जातमनृशंसं बहुश्रुतम्। अमात्यं को न कुर्वीत राज्यप्रणयकोविदम्॥ यस्त्वं प्रच्यावितो राज्याद् व्यसनं चोत्तमं गतः। आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम्॥ आगन्ता मद्गहं तात वैदेहः सत्यसंगरः। अथाहं तं नियोक्ष्यामि तत् करिष्यत्यसंशयम्॥ तत आहूय वैदेहं मुनिर्वचनमब्रवीत्। अयं राजकुले जातो विदिताभ्यन्तरो मम॥ आदर्श इव शुद्धात्मा शारदश्चन्द्रमा यथा। नास्मिन् पश्यामि वृजिनं सर्वतो मे परीक्षितः॥ तेन ते संधिरेवास्तु विश्वसास्मिन् यथा मयि। न राज्यमनमात्येन शक्यं शास्तुमपि त्र्यहम्॥ अमात्यः शूर एव स्याद् बुद्धिसम्पन्न एव वा। ताभ्यां चैवोभयं राजन् पश्य राज्यप्रयोजनम्॥ धर्मात्मनां क्व चिल्लोके नान्यास्ति गतिरीदृशी। महात्मा राजपुत्रोऽयं सतां मार्गमनुष्ठितः॥ सुसंगृहीतस्त्वेवैष त्वया धर्मपुरोगमः। संसेव्यमानः शत्रूस्ते गृह्णीयान्महतो गणान्॥ यद्ययं प्रतियुद्ध्येत् त्वां स्वकर्म क्षत्रियस्य तत्। जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे॥ त्वं चापि प्रतियुद्ध्येथा विजिगीषुव्रते स्थितः। अयुध्वैव नियोगान्मे वशे कुरु हिते स्थितः॥ स त्वं धर्ममवेक्षस्व हित्वा लोभमसाम्प्रतम्। न च कामान्न च द्रोहात् स्वधर्मं हातुमर्हसि॥ नैव नित्यं जयस्तात नैव नित्वं पराजयः। तस्माद् भोजयतिव्यश्च भोक्तव्यश्च परो जनः॥ आत्मन्यपि च संदृश्यावुभौ जयपराजयौ। निःशेषकारिणां तात निःशेषकरणाद् भयम्॥ इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम्। प्रतिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च॥ यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महाश्रुतः। श्रेयस्कामो यथा ब्रूयादुभयोरेव तत् क्षमम्॥ यद् यद् वचनमुक्तोऽस्मि करिष्यामि च तत् तथा। एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा॥ ततः कौसल्यमाहूय मैथिलो वाक्यमब्रवीत्। धर्मतो नीतितश्चैव लोकश्च विजितो मया॥ अहं त्वया चात्मगुणैर्जितः पार्थिवसत्तम। आत्मानमनवज्ञाय जितवद् वर्ततां भवान्॥ नावमन्यामि ते बुद्धिं नावमन्ये च पौरुषम्। नावमन्ये जयामिति जितवद् वर्ततां भवान्।॥ यथावत् पूजितो राजन् गृहं गन्तासि मे भृशम्। ततः सम्पूज्य तौ विप्रं विश्वस्तौ जग्मतुर्ग्रहान्॥ वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा। पाद्यार्घ्यमधुपर्केस्तं पूजाहँ प्रत्यपूजयत्॥ ददौ दुहितरं चास्मै रत्नानि विविधानि च। एष राज्ञां परो धर्मोऽनित्यौ जयपराजयौ॥ वैशम्पायन उवाच प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्। वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽचतः॥ तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठरः। वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः॥ फलमूलाशनाहारा वनं गच्छाम दुःखिताः। वनं च दोषबहुलं बहुव्यालसरीसृपम्॥ परिक्लेशश्च वो मन्येध्रुवं तत्र भविष्यति। ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्। किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः॥ ब्राह्मणा ऊचु: गतिर्या भवतां राजस्तां वयं गन्तुमुद्यताः। नार्हस्यस्मान् परित्यक्तुं भक्तान् सद्धर्मदर्शिनः॥ अनुकम्पां हि भक्तेषु देवता ह्यपि कुर्वते। विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु॥ युधिष्ठिर उवाच ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः। सहायविपरिभ्रंशस्त्वयं सादयतीव माम्॥ आहरेयुरिमे येऽपि फलमूलमधूनि च। त इमे शोकजैर्दुःखैर्धातरो मे विमोहिताः॥ द्रौपद्या विप्रकर्षण राज्यापहरणेन च। दुःखार्दितानिमान् क्लेशैर्नाहं योक्तुमिहोत्सहे॥ ब्राह्मणा ऊचुः अस्मत्पोषणजा चिन्ता मा भूत् ते हृदि पार्थिव। स्वयमाहत्य चान्नानि त्वानुयास्यामहे वयम्॥ अनुध्यानेन जप्येन विधास्यामः शिवं तव। कथाभिश्चाभिरम्याभिः सह रंस्यामहे वयम्॥ युधिष्ठिर उवाच एवमेतत्र संदेहो रमेऽहं सततं द्विजैः। न्यूनभावात् तु पश्यामि प्रत्यादेशमिवात्मनः॥ कथं द्रक्ष्यामि वः सर्वान् स्वयमाहृतभोजनान्। मद्भक्त्या क्लिश्यतोऽनर्हान् धिक् पापान्धृतराष्ट्रजान्। वैशम्पायन उवाच इत्युक्त्वा स नृपः शोचन निषसाद महीतले। यात्मरतो विद्वाञ्छौनको नाम वै द्विजः॥ योगे सांख्ये च कुशलो राजानमिदमब्रवीत्॥ शोकस्थानसहस्राणि भयस्थानशतानि च। दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥ न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु। श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोऽभिघातिनीम्। श्रुतिस्मृतिसमायुक्तां राजन् सा त्वय्यवस्थिता॥ अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च। शारीरमानसैर्दुःखैन सीदन्ति भवद्विधाः॥ श्रूयतां चाभिधास्यामि जनकेन यथा पुरा। आत्मव्यवस्थानकरा गीताः श्लोका महात्मना॥ मनोदेहसमुत्थाभ्यां दुःखाभ्यमर्दितं जगत्। त्योर्व्याससमासाभ्यां शमोपायमिमं शृणु॥ व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविर्वजनात्। दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते॥ तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात्। आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु॥ मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते। मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम्॥ मानसेन हि दुःखेन शरीरमुपतप्यते। अय:पिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्॥ मानसं शमयेत् तस्माज्ज्ञानेनाग्निमिवाम्बुना। प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति॥ मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते। स्नेहात् तु सज्जते जन्तुर्दुःखयोगमुपैति च॥ स्नेहमूलानि दुःखानि स्नेहजानि भयानि च। शोकहर्षों तथाऽऽयासः सर्वं स्नेहात् प्रवर्तते॥ स्नेहाद् भावोऽनुरागश्च प्रजज्ञे विषये तथा। अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः॥ कोटराग्निर्यथाशेषं समूलं पादपं दहेत्। धर्मार्थो तु तथाल्पोऽपि रागदोषो विनाशयेत्॥ विप्रयोगे न तु त्यागी दोषदर्शी समागमे। विरागं भजते जन्तुर्निवैरो निरवग्रहः॥ तस्मात् स्नेहं न लिप्सेत मित्रेभ्योधनसंचयात्। स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत्॥ ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु। न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्॥ रागाभिभूतः पुरुषः कामेन परिकृष्यते। इच्छा संजायते तस्य ततस्तृष्णा विवर्धते॥ तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता। अधर्मबहुला चैव घोरा पापानुबन्धिनी॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः। योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥३६ अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्। विनाशयति भूतानि अयोनिज इवानलः॥ यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति। तथाकृतात्मा लोभेन सहजेन विनश्यति॥ राजतः सलिलादग्नेश्चोरतः स्वजनादपि। भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव॥ यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि। भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान्॥ अर्थ एव हि केषांचिदनर्थं भजते नृणाम्। अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः॥ तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः। कार्पण्यं दर्पमानौ च भयमुद्वेग एव च॥ अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम्। अर्थस्योत्पादने चैव पालने च तथा क्षये।॥ सहन्ति च महद् दुःखं प्रन्ति चैवार्थकारणात्। अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः॥ दुःखेन चाधिगम्यन्ते तस्मान्नाशं न चिन्तयेत्। असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः॥ अन्तो नास्ति पिपासायाः संतोषः परमं सुखम्। तस्मात् संतोषमेवेह परं पश्यन्ति पण्डिताः॥ अनित्यं यौवनं रूपं जीवितं रत्नसंचयः। ऐश्पर्य प्रियसंवासो गृध्येत् तत्र न पण्डितः॥ त्यजेत संचयांस्तस्मात्तज्जान् क्लेशान् सहेत च। न हि संचयवान् कश्चिद् दृश्यते निरुपद्रवः। अतश्चधार्मिकैः पुंभिरनीहार्थः प्रशस्यते॥ धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता। प्रक्षालनाद्धि पंकस्य श्रेयो न स्पर्शनं नृणाम्॥ युधिष्ठिरैवं सर्वेषु न स्पृहां कर्तुमर्हसि। धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः॥ युधिष्ठिर उवाच नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम। भरणार्थं तु विप्राणां ब्रह्मन् काझे न लोभतः॥ कथं ह्यस्मद्विधो ब्रह्मन् वर्तमानो गृहाश्रमे। भरणं पालनं चापि न कुर्यादनुयायिनाम्॥ संविभागो हि भूतानां सर्वेषामेव दृश्यते। तथैवापचमानेभ्यः प्रदेयं गृहमेधिना॥ तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता। सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन॥ देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्। तृषितस्य च पानीयं क्षुधितस्य च भोजनम्॥ चक्षुर्दद्यान्मनो दद्याद् वाचं दद्यात् सुभाषिताम्। उत्थाय चासनं दद्यादेषधर्मः सनातनः। प्रत्युत्थायाभिगमनं कुर्यात्र्यायेन चार्चनम्॥ अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः। पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः॥ आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत् पशून्। न च तत् स्वयमश्नीयाद् विधिवद् यन्न निर्वपेत्॥ श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद् भुवि। वैश्वदेवं हि नामैतत् सायं प्रातश्च दीयते॥ विघसाशी भवेत् तस्मान्नित्यं चामृतभोजनः। विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्॥ चक्षुर्दघान्मनो दद्याद् वाचं दद्याच्च सूनृताम्। अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः॥ यो दद्यादपरिक्लिष्टमध्वनि वर्तते। श्रान्तायदृष्टपूर्वाय तस्य पुण्यफलं महत्॥ एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे। तस्यधर्म परं प्राहुः कथं वा विप्र मन्यसे॥ शौनक उवाच अहो वत महत् कष्टं विपरीतमिदं जगत्। येनापत्रपते साधुरसाधुस्तेन तुष्यति॥ शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु। मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः॥ ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः। विमूढसंज्ञो दुष्टाश्वैरुद्धान्तैरिव सारथिः॥ षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा। तदा प्रादुर्भवत्येषां पूर्वसंकल्पजं मनः॥ मनो यस्येन्द्रियस्येह विषयान् याति सेवितुम्। तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते॥ ततः संकल्पबीजेन कामेन विषयेषुभिः। विद्धः पतति लोभाग्नौ ज्योतिर्लोभात् पतङ्गवत्॥ ततो विहारैराहारैर्मोहितश्च यथेप्सया। महामोहे सुखे मग्नो नात्मानमवबुध्यते॥ एवं पतति संसारे तासु तास्विह योनिषु। अविद्याकर्मतृष्णाभिर्धाम्यमाणोऽथ चक्रवत्॥ ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते। जले भुवि तथाऽऽकाशे जायमानः पुनः पुनः॥ अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु। येधर्मे श्रेयसि रता विमोक्षरतयो जनाः॥ तदिदं वेदवचनं कुरु कर्म त्यजेति च। तस्माद्धर्मानिमान् सर्वान् नाभिमानात् समाचरेत्।७४॥ इज्याध्ययनदानानि तपः सत्यं क्षमा दमः। अलोभ इति मार्गोऽयंधर्मस्याष्टविधः स्मृतः॥ अब पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः। कर्तव्यमिति यत् कार्यं नाभिमानात् समाचरेत्॥ उत्तरो देवयानस्तु सद्भिराचरितः सदा। अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत्॥ सम्यक्संकल्पसंबन्धात् सम्यक् चेन्द्रियनिग्रहात् सम्यग्व्रतविशेषाच्च सम्यक च गुरुसेवनात्॥ सम्यगाहारयोगाच्च सम्यक् चाध्ययनागमात्। सम्यक्कर्मोपसंन्यासात् सम्यक्चित्तनिरोधनात्॥ एवं कर्माणि कुर्वन्ति संसारविजिगीषवः। रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः॥ रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ। योगैश्वर्येण संयुक्ताधारयन्ति प्रजा इमाः॥ तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्। तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत॥ पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते। तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै॥ सिद्धा हि यद् यदिच्छन्ति कुर्वते तदनुग्रहात्। तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम्॥ ब्राह्मण उवाच रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः। निबोधत महाभागा गुणवृत्तं च राजसम्॥ सन्तापो रूपमायास: सुखदुःखे हिमातपौ। ऐश्वर्ये विग्रहः संधिर्हेतुवादोऽरतिः क्षमा॥ बलं शौर्यं मदो रोषो व्यायामकलहावपि। ईयेप्सा पिशुनं युद्धं ममत्वं परिपालनम्॥ वधबन्धपरिक्लेशाः क्रयो विक्रय एव च। निकृन्त छिन्धि भिन्धीति परवर्मावकर्तनम्॥ उग्रं दारुणमाक्रोशः परच्छिद्रानुशासनम्। लोकचिन्तानुचिन्ता च मत्सरः परिपालनम्॥ मृषा वादो मृषा दानं विकल्पः परिभाषणम्। निन्दा स्तुतिः प्रशंसा च प्रतापः परिधर्षणम्॥ परिचर्यानुशुश्रूषा सेवा तृष्णा व्यापाश्रयः। व्यूहो नयः प्रमादश्च परिवादः परिग्रहः॥ संस्कारा ये च लोकेषु प्रवर्तन्ते पृथक्पृथक्। नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च।॥ संतापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये। आशीर्युक्तानि कर्माणि पौर्तानि विविधानि च॥ स्वाहाकारो नमस्कारः स्वधाकारो वषक्रिया। याजनाध्य.पने चोभे यजनाध्ययने अपि॥ दानं प्रतिग्रहश्चैव प्रायश्चित्तानि मङ्गलम्। इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः॥ अभिद्रोहस्तथा माया निकृतिर्मान एव च। स्तैन्यं हिंसा जुगुप्सा च परितापः प्रजागरः॥ दम्भो दर्पोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम्। द्यूतं च जनवादश्च सम्बन्धाः स्त्रीकृताश्च ये॥ ये च च केचन। नृत्यवादित्रगीतानां प्रसङ्गा सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः॥ भूतभव्यभविष्याणां भावानां भुवि भावनाः। त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि॥ कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः। अर्वाक्स्रोतस इत्येते मनुष्या रजसा वृताः॥ अस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः। प्रेत्य भाविकमीहन्ते ऐहलौकिकमेव च। ददति प्रतिगृह्णन्ति तर्पयन्त्यथ जुह्वति॥ रजोगुणा वो बहुधानुकीर्तिता यथावदुक्तं गुणवृत्तमेव च। नरोऽपि यो वेद गुणानिमान् सदा स राजसैः सर्वगुणर्विमुच्यते॥ ब्राह्मण उवाच त्रयो वै रिपवो लोके नवधा गुणतः स्मृताः। प्रहर्षः प्रीतिरानन्दस्त्रयस्ते सात्त्विका गुणाः॥ तृष्णा क्रोधोऽभिसंरम्भो राजसास्ते गुणाः स्मृताः। श्रमस्तन्द्रा च मोहश्च त्रयस्ते तामसा गुणाः॥ एतान् निकृत्य धृतिमान् बाणसंधैरतन्द्रितः। जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः॥ अत्र गाथा: कीर्तयन्ति पुराकल्पविदो जनाः। अम्बरीषेण या गीता राज्ञा पूर्वं प्रशाम्यता॥ समुदीर्णेषु दोषेषु बाध्यमानेषु साधुषु। जग्राह तरसा राज्यमम्बरीषो महायशाः॥ स निगृह्यात्मनो दोषान् साधून् समभिपूज्य च। जगाम महतीं सिद्धिं गाथाश्चेमा जगाद ह॥ भूयिष्ठं विजिता दोषा निहताः सर्वशत्रवः। एको दोषो वरिष्ठश्च वध्यः स न हतो मया॥ यत्प्रयुक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति। तृष्णात इह निम्नानि धावमानो न बुध्यते॥ अकार्यमपि येनेह प्रयुक्तः सेवते नरः। तं लोभमसिभिस्तीक्ष्णैनिकृत्य सुखमेधते॥ लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रवर्तते। स लिप्यमानो लभते भूयिष्ठं राजसान् गुणान्। तदवाप्तौ तु लभते भूयिष्ठं तामसान् गुणान्॥ स तैर्गुणैः संहतदेहबन्धनः पुनः पुनजार्यति कर्म चेहते। जन्मक्षये भिन्नविकीर्णदेहो मृत्युं पुनर्गच्छति जन्मनैव॥ तस्मादेतं सम्यगवेक्ष्य लोभं निगृह्य धृत्याऽऽत्मनि राज्यमिच्छेत्। मात्मैव राजा विदितो यथावत्॥ इति राज्ञाम्बरीषेण गाथा गीता यशस्विना। अधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता॥ वासुदेव उवाच शाल्वबाणादित तस्मिन् प्रद्युम्ने बलिनां वरे। वृष्णयो भग्नसंकल्पा विव्यथुः पृतनागताः॥ हाहाकृतमभूत् सर्वं वृष्ण्यन्धकबलं ततः। प्रद्युम्ने मोहिते राजन् परे च मुदिता भृशम्॥ तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः। रणादपाहरत् तूर्णं शिक्षितो दारुकिस्तदा॥ नातिदूरापयाते तु रथे रथवरप्रणुत्। धनुर्गृहीत्वा यन्तारं लब्धसंज्ञोऽब्रवीदिदम्॥ सौते किं ते व्यवसितं कस्माद् यासि पराङ्मुखः। नैष वृष्णिप्रवीराणामाहवेधर्म उच्यते॥ कच्चित् सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे। विषादो वा रणं दृष्ट्वा ब्रूहि में त्वं यथातथम्॥ सौतिरुवाच जानार्दने न मे मोहो नापि मां भयमाविशत्। अतिभारं तु ते मन्ये शाल्वं केशवनन्दन॥ सोऽपयामि शनैर्वीर बलवानेष पापकृत्। मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी॥ आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम्। रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम्॥ एकश्चासि महाबाहो बहवश्चापि दानवाः। न समं रौक्मिणेयाहं रणे मत्वापयामि वै॥ एवं ब्रुवति सूते तु तदा मकरकेतुमान्। उवाच सूतं कौरव्य निवर्तय रथं पुनः॥ दारुकात्मज मैवं त्वं पुनः कार्षीः कथंचन। व्यपयानं रणात् सौते जीवतो मम कर्हिचित्॥ न स वृष्णिकुले जातो यो वै त्यजति संगरम्। यो वा निपतितं हन्ति तवास्मीति च वादिनम्॥ तथा स्त्रियं च यो हन्ति बालं वृद्धं तथैव च। विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा॥ त्वं च सूतकुले जातो विनीतः सूतकर्मणि। धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके॥ स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे। अपयानं पुनः सौते मैवं कार्षीः कथंचन॥ अपयातं हतं पृष्ठे भ्रान्तं रणपलायितम्। गदाचजो दुराधर्षः किं मां वक्ष्यति माधवः॥ केशवस्याचजो वापि नीलवासा मदोत्कटः। किं वक्ष्यति महाबाहुर्बलदेवः समागतः॥ किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः। अपयातं रणात् सूत साम्बश्च समितिंजयः॥ चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ। अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे॥ शूरं सम्भावितं शान्तं नित्यं पुरुषमानिनम्। स्त्रियश्च वृष्णिवीराणां किं मां वक्ष्यन्ति संहताः॥ प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम्। धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति॥ धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा। मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः॥ भारं हि मयि संन्यस्य यातो मधुनिहा हरिः। यज्ञं भारतसिंहस्य न हि शक्योऽद्य मर्षितुम्॥ कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः। शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज॥ स च सम्भावयन् मां वै निवृत्तो हृदिकात्मजः। तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम्॥ उपयान्तं दुराधर्षं शङ्खचक्रगदाधरम्। पुरुपं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम्॥ सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः। मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम्॥ त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः। त्वयापनीतो विवशो न जीवेयं कथंचन॥ स निवर्त रथेनाशु पुनर्दारुकनन्दन। न चैतदेवं कर्तव्यमथापत्सु कथंचन॥ न जीवितमहं सौते बहु मन्ये कथंचन। अपयातो रणाद् भीतः पृष्ठतोऽभ्याहतः शरैः॥ कदापि सूतपुत्र त्वं जानीषे मां भयादितम्। अपयातं रणं हित्वा यथा कापुरुषं तता॥ न युक्तं भवता त्यक्तुं संग्रामं दारुकात्मज' मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम्॥ युधिष्ठिर उवाच योगं मे परमं तात मोक्षस्य वद भारत। तमहं तत्त्वतो ज्ञातुमिच्छामि वदतां वर॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह॥ कश्चिद् ब्राह्मणमासीनमाचार्यमृषिसत्तमम्। तेजोराशिं महात्मानं सत्यसंधं जितेन्द्रियम्॥ शिष्यः परममेधावी श्रेयोऽर्थी सुसमाहितः। चरणावुपसंगृह्य स्थितः प्राञ्जलिरब्रवीत्॥ उपासनात् प्रसन्नोऽसि यदि वै भगवन् मम। संशयो मे महान् कश्चित् तन्मे व्याख्यातुमर्हसि। कुतश्चाहं कुतश्च त्वं तत् सम्यग्ब्रूहि यत्परम्॥ कथं च सर्वभूतेषु समेषु द्विजसत्तम। सम्यग्वृत्ता निवर्तन्ते विपराताः क्षयोदयाः॥ वेदेषु चापि यद् वाक्यं लौकिकं व्यापकं च यत्। एतद् विद्वन् यथातत्त्वं सर्वं व्याख्यातुमर्हसि॥ गुरुरुवाच शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यमिदं परम्। अध्यात्म सर्वविद्यानामागमानां च यद्वसु॥ वासुदेवः परमिदं विश्वस्य ब्रह्मणो मुखम्। सत्यं ज्ञानमथो यज्ञस्तितिक्षा दम आर्जवम्॥ पुरुषं सनातनं विष्णुं यं तं वेदविदो विदुः। स्वर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम्॥ तदिदं ब्रह्म वार्ष्णेयमितिहासं शृणुष्व मे। ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस्तथा॥ वैश्यो वैश्यैस्तथा श्राव्यः शूद्रः शूरैर्महामनाः। माहात्म्यं देवदेवस्य विष्णोरमिततेजसः॥ अर्हस्त्वमसि कल्याणं वार्ष्णेयं शृणु यत्परम्। कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम्॥ त्रैलोक्यं सर्वभूतेशे चक्रवत्परिवर्तते। यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम्। वदन्ति पुरुषव्याघ्र केशवं पुरुषर्षभम्॥ पितृन देवानृषीश्चैव तथा वै यक्षराक्षसान्। नागासुरमनुष्यांश्च सृजते परमोऽव्ययः॥ तथैव वेदशास्त्राणि लोकधर्माश्च शाश्वतान्। प्रलयं प्रकृति प्राप्य युगादौ सृजते पुनः॥ यथाव॒तुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा युगादिषु॥ अथ यद्यद् यदा भाति कालयोगाद् युगादिषु। तत् तदुत्पद्यते ज्ञानं लोकयात्राविधानजम्॥ युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः। लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा॥ वेदविद् वेद भगवान् वेदाङ्गानि बृहस्पतिः। भार्गवो नीतिशास्त्रं तु जगाद जगतो हितम्॥ गान्धर्वं नारदो वेद भरद्वाजो धनुर्ग्रहम्। देवर्षिचरितं गार्ग्य: कृष्णात्रेयश्चिकित्सितम्॥ न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः। हेत्वागमसदाचारैर्यदुक्तं तदुपास्यताम्॥ अनाद्यं तत्परं ब्रह्म न देवा नर्षयो विदुः। एकस्तद् वेद भगवान् धाता नारायणः प्रभुः॥ नारायणादृषिगणास्तथा मुख्याः सुरासुराः। राजर्षयः पुराणाश्च परमं दुःखभेषजम्॥ पुरुषाधिष्ठितान् भावान् प्रकृतिः सूयते यदा। हेतुयुक्तमतः पूर्वं जगत् सम्परिवर्तते॥ दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः। प्रकृतिः सूयते तद्वदानन्त्यान् नापचीयते॥ अव्यक्तकर्मजा बुद्धिरहंकारं प्रसूयते। आकाशं चाप्यहंकाराद् वायुराकाशसम्भवः॥ वायोस्तेजस्ततश्चाप अद्भ्योऽथ वसुधोद्गता। मूलप्रकृतयो ह्यष्टौ जगदेतास्ववस्थितम्॥ ज्ञानेन्द्रियाण्यतः पञ्च पञ्च कर्मेन्द्रियाण्यपि। विषयाः पञ्च चैकं च विकारे घोडशं मनः॥ श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं ज्ञानेन्द्रियाण्यथ। पादौ पायुरूपस्थश्च हस्तौ वाकर्मणी अपि॥ शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च। विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः॥ रसज्ञाने तु जिह्वयं व्याहते वाक् तथोच्यते। इन्द्रियैर्विविधैर्युक्तं सर्वं व्यक्तं मनस्तथा॥ विद्यात् तु षोडशैतानि दैवतानि विभागशः। देहेषु ज्ञानकर्तारमुपासीनमुपासते।॥ तद्वत् सोमगुणा जिह्वा गन्धस्तु पृथिवीगुणः। श्रोतं नभोगुणं चैव चक्षुरग्नेर्गुणस्तथा। स्पर्श वायुगुणं विद्यात् सर्वभूतेषु सर्वदा॥ मनः सत्त्वगुणं प्राहुः सत्त्वमव्यक्तजं तथा। सर्वभूतात्मभूतस्थं तस्माद् बुद्ध्येत बुद्धिमान्॥ एते भावा जगत् सर्वं वहन्ति सचराचरम्। श्रिता विरजसं देवं यमाहुः प्रकृतेः परम्॥ नवद्वारं पुरं पुण्यमेतैर्भावैः समन्वितम्। व्याप्य शेते महानात्मा तस्मात् पुरुष उच्यते॥ अजर: सोऽमरश्चैव व्यक्ताव्यक्तोपदेशवान्। व्यापक: सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः॥ यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान्। ज्ञानात्मानं तथा विद्यात् पुरुषं सर्वजन्तुषु॥ श्रोत्रं वेदयते वेद्यं स शृणोति स पश्यति। कारणं तस्य देहोऽयं स कर्ता सर्वकर्मणाम्॥ अग्निर्दारुगतो यद्वद् भिन्ने दारौ न दृश्यते। तथैवात्मा शरीरस्थो योगेनैवानुदृश्यते॥ अग्निर्यथा झुपायेन मथित्वा दारु दृश्यते। तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते॥ नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः। संततत्वाद् यथा यान्ति तथा देहाः शरीरिणाम्॥ स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमायुतः। देहमुत्सृज्य वै याति तथैवात्मोपलभ्यते॥ कर्मणा बाध्यते रूपं कर्मणा चोपलभ्यते। कर्मणा नीयतेऽन्यत्र स्वकृतेन बलीयसा॥ स तु देहाद् यथा देहं त्यक्त्वान्यं प्रतिपद्यते। तथान्यं सम्प्रवक्ष्यामि भूतग्रामं स्वकर्मजम्॥ व्यास उवाच ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं जगत्। एकस्य ब्रह्मभूतस्य द्वयं स्थावरजङ्गमम्॥ अहर्मुखे विवुद्धः सन् सृजतेऽविद्यया जगत्। अग्र एव महद्भूतमाशु व्यक्तात्मकं मनः॥ अभिभूयेह चार्चिष्मद् व्यसृजत् सप्त मानसान्। दूरगं बहुधागामि प्रार्थनासंशयात्मकम्॥ मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया। आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः॥ आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः। बलवाञ्जायते वायुस्तस्य स्पर्शो गुणो मतः॥ वायोरपि विकुर्वाणाज्ज्योतिर्भवति भास्वरम्। रोचिष्णु जायते शुक्रं तद्रूपगुणमुच्यते॥ ज्योतिषोऽपि विकुर्वाणाद् भवन्त्यापो रसात्मिकाः। अद्भ्यो गन्धवहा भूमिः सर्वेषां सृष्टिरुच्यते॥ गुणाः सर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम्। तेषां यावद् यथा यच्च तत्तत् तावद्गुणं स्मृतम्॥ उपलभ्याप्सु चेद्गन्धं केचिद् ब्रूयुरनैपुणात्। पृथिव्यामेव तं विद्यादपां वायोश्च संश्रितम्॥ एते सप्तविधात्मानो नानावीर्याः पृथक् पृथक्। नाशक्नुवन् प्रजाः स्रष्टुमसमागम्य कृत्स्नशः॥ ते समेत्य महात्मानो ह्यन्योन्यमभिसंश्रिताः। शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते॥ शरीरं श्रयणाद् भवति मूर्तिमत् षोडशात्मकम्। तमाविशन्ति भूतानि महान्ति सह कर्मणा॥ सर्वभूतान्युपादाय तपसश्चरणाय हि। आदिकर्ता स भूतानां तमेवाहुः प्रजापतिम्॥ स वै सृजति भूतानि स्थावराणि चराणि च। ततः स सृजति ब्रह्मा देवर्षिपितृमानवान्॥ लोकान् नदी: समुद्रांश्च दिशः शैलान् वनस्पतीन्। नरकिन्नररक्षांसि वय:पशुमृगोरगान्। अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम्॥ तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे। तान्येव प्रतिपाद्यन्ते सृज्यमानाः पुनः पुनः॥ हिंस्राहिंस्र मृदुरे धर्माधर्मावृतानृते। तद्भाविताः प्रपद्यन्ते तस्मात् तत् तस्य रोचते॥ महाभूतेषु नानात्वमिन्द्रियार्थेषु पूर्तिषु। विनियोगं च भूतानां धातैव विदधात्युत॥ केचित् पुरुषकारं तु प्राहुः कर्मसु मानवाः। दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः॥ पौरुषं कर्म दैवं च फलवृत्तिः स्वभावतः। त्रय एतेऽपृथग्भूता न विवेकं तु केचन॥ एतमेव च नैवं च न चोभे नानुभे न च। कर्मस्था विषयं ब्रूयुः सत्त्वस्थाः समदर्शिनः॥ तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः। तेन सर्वानवाणोति यान् कामान् मनसेच्छति॥ तपसा तदवाप्नोति यद्भूतं सृजते जगत्। स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः॥ ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम्। अनादिनिधना विद्या वागुत्सृष्टा स्वयम्भुवा।२४॥ ऋषीणा नामधेयानि याश्च वेदेषु सृश्यः। नानारूपं च भूतानां कर्मणां च प्रवर्तनम्॥ वेदशब्देश्य एवादी निर्मिमीते स ईश्वरः। नामधेयानि चर्षीणां याश्च वेदेषु सृश्यः॥ शर्वर्यन्ते सुजातानामान्येभ्यो विदधात्यजः। नामभेदतप:कर्मयज्ञाख्या लोकसिद्धयः॥ आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः। यदुक्तं वेदवादेषु गहनं वेददर्शिभिः। तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते॥ कर्मजोऽयं पृथग्भावो द्वन्द्वयुक्तोऽपि देहिनः। तमात्मसिद्धिर्विज्ञानाज्जहाति पुरुषो बलात्॥ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्। शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति॥ आलम्भयज्ञाः क्षत्राश्च हविर्यज्ञा विशः स्मृताः। परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः॥ त्रेतायुगे विधिस्त्वेष यज्ञानां न कृते युगे। द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा॥ अपृथग्धर्मिणो मा ऋक्सामानि यजूंषि च। काम्या इष्टीः पृथग् दृष्ट्वा तपोभिस्तप एव च।॥ त्रेतायां तु समस्ता समस्ता ये प्रादुरासन् महाबलाः। संयन्तारः स्थावराणां जगमानां च सर्वशः॥ त्रेतायां संहता वेदा यज्ञा वर्णाश्रमास्तथा। संरोधादायुषस्त्वेते भ्रश्यन्ते द्वापरे युगे॥ दृश्यन्ते न च दृश्यन्ते वेदाः कलियुगेऽखिला:। उत्सीदन्ते सयज्ञाश्च केवलाधर्मपीडिताः॥ कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते। आत्मवसु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः॥ सधर्मव्रतसंयोगं यथाधर्म युगे युगे। विक्रियन्ते स्वधर्मस्था वेदवादा यथागमम्॥ यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि। सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे॥ यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा ब्रह्महरादिषु॥ विहितं कालनानात्वमनादिनिधनं तथा। कीर्तितं तत्पुरस्तात् ते तत्सूते चात्ति च प्रजाः॥ दधाति प्रभवे स्थानं भूतानां संयमो यमः। स्वभावेनैव वर्तन्ते द्वन्द्वयुक्तानि भूरिशः॥ सर्गकालक्रिया वेदाः कर्ता कार्य क्रियाफलम्। प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि॥ जनमेजय उवाच अत्यद्भुतमिदं कर्म पार्थस्यामितेजसः। धृतराष्ट्रो महाप्राज्ञः श्रुत्वा विप्र किमब्रवीत्॥ वैशम्पायन उवाच शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः। द्वैपायनादृषिश्रेष्ठात् संजयं वाक्यमब्रवीत्॥ धृतराष्ट्र उवाच श्रुतं मे सूत कात्स्न्र्येन कर्म पार्थस्यधीमतः। कच्चित् तवापि विदितं याथातथ्येन सारथे॥ प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः। मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति॥ यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः। त्रैलोक्यमपि तस्य स्याद् योद्धा यस्यधनंजयः॥ अस्यतः कर्णिनाराचांसतीक्ष्णाग्रांश्च शिलाशितान्। कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः॥ मम पुत्रा दुरात्मानः सर्वे मृत्युवशानुगाः। येषां युद्धं दुराधर्षेः पाण्डवैः प्रत्युपस्थितम्॥ तथैव च न पश्यामि युधि गाण्डीवधन्वनः। अनिशं चिन्तयानोऽपि य एनमुदियाद् रथी।॥ द्रोणकर्णी प्रतीयातां यदि भीष्मोऽपि वा रणे। महान् स्यात् संशयो लोके तत्र पश्यामि नो जयम्।९॥ घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः। अमर्षी बलवान् पार्थः संरम्भी दृढविक्रमः॥ सम्भवेत् तुमुलं युद्धं सर्वशोऽप्यपराजितम्। सर्वे शस्त्रविदः शूराः सर्वं प्राप्ता महद् यशः॥ अपि सर्वेश्वरत्वं हि ते वाञ्छन्त्यपराजिताः। वधे नूनं भवेच्छान्तिरेतेषां फाल्गुनस्य वा॥ न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते। मन्युस्तस्य कथं शाम्येन्मन्दान् प्रति समुत्थितः॥ त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत्। जिगाय पार्थिवान् सर्वान् राजसूये महाक्रतौ॥ शेषं कुर्याद् गिरेर्वज्रो निपतन् मूर्ध्नि संजय। न तु कुर्युः शराः शेषं क्षिप्तास्तात किरीटिना॥ यथा हि किरणा भानोस्तपन्तीह चराचरम्। तथा पार्थभुजोत्सृष्टाः शरास्तप्यन्ति मत्सुतान्॥ अपि तद्रथघोषेण भयार्ता सव्यसाचिनः। प्रतिभाति विदीर्णेव सर्वतो भारती चमूः॥ यदोद्वहन् प्रवपंश्चैव बाणान् स्थाताऽऽततायी समरे किरीटी। सृष्टोऽन्तकः सर्वहरो विधात्रा भवेद् यथा तद्वदपारणीयः॥ कर्ण उवाच राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये। प्राप्ता किमर्थं भवती ब्रूहि किं करवाणि ते॥ कुन्त्युवाच कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता। नासि सूतकुले जातः कर्ण तद् विद्धि मे वचः॥ कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः। कुन्तिराजस्य भवने पार्थस्त्वमसि पुत्रक॥ प्रकाशकर्मा तपनो योऽयं देवो विरोचनः। अजीजनत् त्वां मय्येष कर्ण शस्त्रभृतां वरम्॥ कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः। जातस्त्वमसि दुर्धर्षं मया पुत्र पितुर्गुहे॥ स त्वं भ्रातृनसम्बुद्ध्य मोहाद् यदुपसेवसे। धार्तराष्ट्रान् न तद्युक्तं त्वयि पुत्र विशेषतः॥ एतद् धर्मफलं पुत्र नराणां धर्मनिश्चये। यत् तुष्यन्त्यस्य पितरो माता चाप्येकदर्शिनी॥ अर्जुनेनार्जितां पूर्वं हृतां लोभादसाधुभिः। आच्छिद्य धार्तराष्ट्रेभ्यो भुक्ष्व यौधिष्ठिरीं श्रियम्॥ अद्य पश्यन्ति कुरवः कर्णार्जुनसमागमम्। सौभ्रात्रेण समालक्ष्य संनमन्तामसाधवः॥ कर्णार्जुनौ वै भवेतां यथा रामजनार्दनौ। आस्थ्यं किं तु लोके स्याद् युवयोः संहितात्मनोः।।१०। कर्ण शोभिष्यसे नूनं पञ्चभिर्धातृभिर्वृतः। देवैः परिवृतो ब्रह्मा वेद्यामिव महाध्वरे॥ उपपन्नो गुणैः सर्वैयेष्ठः श्रेष्ठेषु बन्धुषु। सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान्॥ सौतिरुवाच एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः। आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः॥ ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा। पुरोहितमथाहूय ऋत्विजो वसुधाधिपः॥ अब्रवीद्वाक्यसंपन्नः कार्यसंपत्करं वचः। यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान्॥ प्रतिकुर्यां तथा तस्य तद्भवन्तो ब्रुवन्तु मे। अपि तत्कर्म विदितं भवतां येन पन्नगम्॥ तक्षकं संप्रऽग्नौ प्रक्षिपेयं सबान्धवम्। यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना। तथाऽहमपि तं पापं दग्धुमिच्छामि पन्नगम्॥ ऋत्विज ऊचुः अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम्। सर्पसत्रमितिख्यातं पुराणे परिपठ्यते॥ आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप। इति पौराणिकाः प्राहुरस्माकं चास्ति स ऋतुः॥ सौतिरुवाच एवमुक्तः स राजर्षिर्मन दग्धं हि तक्षकम्। हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम॥ ततोऽब्रवीन्मन्त्रविदस्तानराजा ब्राह्मणांस्तदा। आहरिष्यामि तत्सत्रं संभारा: संभ्रियन्तु मे॥ ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम। तं देशं मापयामासुर्यज्ञायतनकारणात्॥ यथावद्वेदविद्वांसः सर्वे बुद्धेः परंगताः। ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम्॥ प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम्। निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्॥ राजानं दीक्षयामासुः सर्पसत्राप्तये तदा। इदं चासीस्त्रार्वं सर्पसत्रे भविष्यति॥ निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा। यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्॥ स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः। इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा॥ यस्मिन्देशे च काले च मापनेयं प्रवर्तिता। ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः॥ एतच्छ्रुत्वा तु राजाऽसौ प्राग्दीक्षाकालमब्रवीत्। क्षत्तारं न हि मे कश्चिदज्ञातः प्रविशेदिति॥ बृहदश्व उवाच आसीद् राजा नलो नाम वीसेनसुतो बली। उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः॥ अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा। उपर्युपरि सर्वेषामादित्य इव तेजसा॥ ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः। अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः॥ ईप्सितो वरनारीणामुदारः संयतेन्द्रियः। रक्षिताधन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम्॥ तथैवासीद् विदर्भेषु भीमो भीमपराक्रमः। शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः॥ स प्राजर्थे परं यत्नमकरोत् सुसमाहितः। तमभ्यगच्छद् ब्रह्मर्षिर्दमनो नाम भारत॥ तं स भीमः प्रजाकामस्तोषयामासधर्मवित्। महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम्॥ तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ। कन्यारत्नं कुमारांश्च त्रीनुदारान् महायशाः॥ दमयन्ती दमं दान्तं दमनं च सुवर्चसम्। उपपन्नान् गुणैः सर्वैर्भीमान् भीमपराक्रमान्॥ दमयन्ती तु रूपेण तेजसा यशसा श्रिया। सौभाग्येन च लोकेषु यशः प्राप्त सुमध्यमा॥ अथ तां वयसि प्राप्ते दासीनां समलंकृताम्। शतं शतं सखीनां च पर्युपासच्छचीमिव॥ तत्र स्म राजते भैमी सर्वाभरणभूषिता। सखीमध्येऽनवद्याङ्गी विद्युत्सौदामनी यथा॥ अतीव रूपसम्पन्ना श्रीरिवायतलोचना। न देवेषु न यक्षेषु तादृग् रूपवती क्वचित्॥ मानुषेष्वपि चान्येषु दृष्टपूर्वाथवा श्रुता। चित्तप्रसादनी बाला देवानामपि सुन्दरी॥ नलश्च नरशार्दूलो लोकेष्वप्रतिमो भुवि। कन्दर्प इव रूपेण मूर्तिमानभवत् स्वयम्॥ तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात्। नैषधस्य समीपे तु दमयन्तीं पुनः पुनः॥ तयोरदृष्टः कामोऽभूच्छृण्वतोः सततं गुणान्। अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः॥ अशक्नुवन् नलः कामं तदाधारयितुं हृदा। अन्तःपुरसमीपस्थे वन आस्ते रहोगतः॥ न ददर्श ततो हंसान् जातरूपपरिष्कृतान्। वने विचरतां तेषामेकं जचाह पक्षिणम्॥ ततोऽन्तरिक्षगो वाचं व्याजहार नलं तदा। हन्तव्योऽस्मि न ते राजन् करिष्यामि तव प्रियम्।२०॥ दमयन्तीसकाशे त्वां कथयिष्यामि नैषध। यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित्॥ एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः। ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः॥ विदर्भनगरौं गत्वा दमयन्त्यास्तदान्तिके। निपेतुस्ते गरुत्मन्तः सा ददर्श च तान् खगान्॥ सा तानद्भुतरूपान् वै दृष्ट्वा सखिगणावृता। हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे॥ अथ हंसा विससृपुः सर्वतः प्रमदावने। एकैकशस्तदा कन्यास्तान् हंसान् समुपाद्रवन्॥ दमयन्ती तु यं हंसं समुपाधावदन्तिके। स मानुषी गिरं कृत्वा दमयन्तीमथाब्रवीत्॥ दमयन्ति नलो नाम निषधेषु महीपतिः। अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः॥ कन्दर्प इव रूपेण मूर्तिमानभवत् स्वयम्। तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनी॥ सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे। वयं हि देवगन्धर्वमनुष्योरगराक्षसान्॥ दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः। त्वं चापि रत्नं नारीणां नरेषु च नलो वरः॥ विशिष्टया विशिष्टेन संगमो गुणवान् भवेत्। एवमुक्ता तु हंसेन दमयन्ती विशांपते॥ अब्रवीत् तत्र तं हंसं त्वमप्येवं नले वद। तथेत्युक्त्वाण्डजः कन्या विदर्भस्य विशाम्पते। पुनरागम्य निषधान् नले सर्वं न्यवेदयत्॥ युधिष्ठिर उवाच यदप्यल्पतरं कर्म तदप्येकेन दुष्करम्। पुरुषेणासहायेन किमु राज्ञा पितामह॥ किंशील: किंसमाचारो राज्ञोऽथ सचिवो भवेत्। कीदृशे विश्वसेद् राजा कीदृशे न च विश्वसेत्॥ भीष्म उवाच चतुर्विधानि मित्राणि राज्ञां राजन् भवन्त्युत। सहार्थो भजमानश्च सहजः कृत्रिमस्तथा॥ धर्मात्मा पञ्चमश्चापि मित्रं नैकस्य न द्वयोः यतो धर्मस्ततो वा स्याद् धर्मस्थो वा ततो भवेत्॥ यस्तस्यार्थो न रोचेत न तं तस्य प्रकाशयेत्। धर्माधर्मेण राजानश्चरन्ति विजिगीषवः॥ चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्कयौ तथापरौ। सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः॥ न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे। प्रमादिनं हि राजानं लोकाः परिभवन्त्युत॥ असाधुः साधुतामेति साधुर्भवति दारुणः। अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति॥ अनित्यचित्तः पुरुषस्तस्मिन् को जातु विश्वसेत्। तस्मात्प्रधानं यत् कार्यं प्रत्यक्षं तत् समाचरेत्॥ एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः। अविश्वासश्च सर्वत्र मृत्युना च विशिष्यते॥ अकालमृत्युर्विश्वासो विश्वसन् हि विपद्यते। यस्मिन् करोति विश्वासमिच्छतस्तस्य जीवति॥ तस्माद् विश्वसितव्यं च शङ्कितव्यं च केषुचित्। एषा नीतिगतिस्तात लक्ष्या चैव सनातनी॥ यं मन्येत ममाभावादिममर्थागमं स्पृशेत्। नित्यं तस्माच्छङ्कितव्यममित्रं तद् विदुर्बुधाः॥ यस्य क्षेत्रादप्युदकं क्षेत्रमन्यस्य गच्छति। न तत्रानिच्छतस्तस्य भिघेरन् सर्वसेतवः॥ तथैवात्युदकाद् भीतस्तस्य भेदनमिच्छति। यमेवंलक्षणं विद्यात् तममित्रं विनिर्दिशेत्॥ यस्तु वृद्ध्या न तृप्येत क्षये दीनतरो भवेत्। एतदुत्तममित्रस्य निमित्तमिति चक्षते॥ यन्मन्येत ममाभावादस्याभावो भवेदिति। तस्मिन् कुर्वीत विश्वासं यथा पितरि वै तथा॥ तं शक्त्या वर्धमानश्च सर्वतः परिबृंहयेत्। नित्यं क्षताद् वारयति यो धर्मेष्वपि कर्मसु॥ क्षताद् भीतं विजानीयादुत्तमं मित्रलक्षणम्। ये तस्य क्षतमिच्छन्ति ते तस्य रिपवः स्मृताः॥ व्यसनान्नित्यभीतो यः समृद्ध्या यो न दुष्यति। यत् स्यादेवंविधं मित्रं तदात्मसममुच्यते॥ रूपवर्णस्वरोपेतस्तितिक्षुरनसूयकः। कुलीन: शीलसम्पन्नः स ते स्यात् प्रत्यनन्तरः॥ मेधावी स्मृतिमान् दक्षः प्रकृत्या चानृशंस्यवान्। यो मानितोऽमानितो वा न च दुष्येत् कदाचन॥ ऋत्विग्वा यदि वाऽऽचार्यः सखा वात्यन्तसंस्तुतः। गृहे वसेदमात्यस्ते स स्यात् परमपूजितः॥ स ते विद्यात् परं मन्त्रं प्रकृतिं चार्थधर्मयोः। विश्वासस्ते भवेत् तत्र यथा पितरि वै तथा॥ नैव द्वौ न त्रयः कार्या न मृष्येरन् परस्परम्। एकार्थे ह्येव भूतानां भेदो भवति सर्वदा॥ कीर्तिप्रधानो यस्तु स्याद् यश्च स्यात् समये स्थितः। समर्थान् यश्च न वश् िनानर्थान् कुरुते च यः॥ यो न कामाद् भयाल्लोभात् क्रोधाद् वा धर्ममुत्सृजेत्। दक्षः पर्याप्तवचनः स ते स्यात् प्रत्यनन्तरः॥ कुलीनः शीलसम्पन्नस्तितिक्षुरविकत्थनः। शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः॥ एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः। पूजिताः संविभक्ताश्च सुसहायाः स्वनुष्ठिताः॥ कृत्स्नमेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु। युक्ता महत्सु कार्येषु श्रेयांस्युत्थापयन्त्युत॥ एते कर्माणि कुर्वन्ति रूपर्धमाना मिथः सदा। अनुतिष्ठन्ति चैवार्थमाचक्षाणाः परस्परम्॥ ज्ञातिभ्यश्चैव बुद्ध्येथा मृत्योरिव भयं सदा। उपराजेव राजर्धि ज्ञातिर्न सहते सदा॥ ऋजोर्मदोर्वदान्यस्य ह्रीमतः सत्यवादिनः। नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति॥ अज्ञातिनोऽपि न सुखा नावज्ञेयास्ततः परम्। अज्ञातिमन्तं पुरुषं परे चाभिभवन्त्युत॥ निकृतस्य नरैरन्यैर्शातिरेव परायणम्। नान्यैनिकारं सहते ज्ञातिव्रते: कथञ्चन॥ आत्मानमेव जानाति निकृतं बान्धवैरपि। तेषु सन्ति गुणाश्चैव नैर्गुण्यं चैव लक्ष्यते॥ नाज्ञातिरनुगृह्णाति न चाज्ञातिर्नमस्यति। उभयं ज्ञातिवर्गेषु दृश्यते साध्वसाधु च॥ सम्मानयेत् पूजयेच्च वाचा नित्यं च कर्मणा। कुर्याच्च प्रियमेतेभ्यो नाप्रियं किञ्चिदाचरेत्॥ विश्वस्तवदविश्वस्तस्तेषु वर्तेत सर्वदा। न हि दोषा गुणो वेति निरूप्यस्तेषु दृश्यते॥ अस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः। अमित्राः संप्रसीदन्ति तथा मित्रीभवन्त्यपि॥ य एवं वर्तते नित्यं ज्ञातिसम्बन्धिमण्डले। मित्रेष्वमित्रे मध्यस्थे चिरं यशसि तिष्ठति॥ भीष्म उवाच साधु पश्यति वै द्रौणिः कृपः साध्वनुपश्यति। कर्णस्तु क्षत्रधर्मेण केवलं योद्भुमिच्छति॥ आचार्यो नाभिवक्तव्यं पुरुषेण विजानता। देशकालौ तु सम्प्रेक्ष्य योद्धव्यमिति मे मतिः॥ यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः। कथमभ्युदये तेषां न प्रमुह्येत पण्डितः॥ स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः। तस्माद् राजन् ब्रवीम्येष वाक्यं ते यदि रोचते॥ कर्णो हि यदवोचत् त्वां तेजः संजननाय तत्। आचार्यपुत्रः क्षमतां महत् कार्यमुपस्थितम्॥ नायं कालो विरोधस्य कौन्तेये समुपस्थिते। क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च॥ भवतां हि कृतास्त्रत्वं यथाऽऽदित्ये प्रभा तथा। यथा चन्द्रमसो लक्ष्मीः सर्वथा नापकृष्यते॥ एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम्। चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते॥ नैतत् समस्तमुभयं कस्मिंसश्चिदनुशुश्रुम। अन्यत्र भारताचार्यात् सपुत्रादिति मे मतिः॥ वेदान्ताश्च पुराणानि इतिहासं पुरातनम्। जामदग्न्यमृते राजन् को द्रोणादधिको भवेत्॥ ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते। आचार्यपुत्रः क्षमतां नायं कालो विभेदने॥ सर्वे संहत्य युध्यामः पाकशासनिमागतम्॥ बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः। मुख्यो भेदो हि तेषां तु पापिष्ठो विदुषां मतः॥ अश्वत्थामोवाच नैव न्याय्यमिदं वाच्यमस्माकं पुरुषर्षभ। किं तु रोषपरीतेन गुरुणा भाषिता गुणाः॥ शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि। सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत्॥ दुर्योधन उवाच आचार्य एव क्षमतां शान्तिरत्र विधीयताम्। अभिद्यमाने तु गुरौ तद् वृत्तं रोषकारितम्॥ वैशम्पायन उवाच ततो दुर्योधनो द्रोणं क्षपयामास भारत। सह कर्णेन भीष्मेण कृपेण च महात्मना॥ द्रोण उवाच यदेतत् प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत्। तेनैवाहं प्रसन्नो वै नीतिरत्र विधीयताम्॥ यथा दुर्योधनं पार्थो नोपसर्पति संगरे। साहसाद् यदि वा मोहात् तथा नीतिर्विधीयताम्॥ वनवासे ह्यनिर्वृत्ते दर्शयेन धनंजयः। धनं चालभमानोऽत्र नाद्य तत् क्षन्तुमर्हति॥ यथा नायं समायद्याद् धार्तराष्ट्रान् कथंचन। न च सेनाः पराजय्यात् तथा नीतिर्विधीयताम्॥ उक्तं दुर्योधनेनापि पुरस्ताद् वाक्यमीदृशम्। तदनुस्मृत्य गाङ्गेय यथावद् वक्तुमर्हसि॥ युधिष्ठिर उवाच धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः। धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव॥ भीष्म उवाच सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः। बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया॥ यस्मिन् यस्मिस्तु विषये यो यो याति विनिश्चयम्। स तमेवाभिजानाति नान्यं भरतसत्तम॥ यथा यथा च पर्येति लोकतन्त्रमसारवत्। तथा तथा विरागोऽत्र जायते नात्र संशयः॥ एवं व्यवसिते लोके बहुदोषे युधिष्ठिर। आत्ममोक्षनिमित्तं वै यतेत मतिमान् नरः॥ युधिष्ठिर उवाच नष्टे धने वा दारे वा पुत्रे पितरि वा मृते। यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह॥ भीष्म उवाच नष्ट धने वा दारे वा पुत्रे पितरि वा मृते। अहो दुःखमिति ध्यायशोकस्यापचितिं चरेत्॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यथा सेनजितं विप्रः कश्चिदेत्याब्रवीत् सुहृत्॥ पुत्रशोकाभिसंतप्तं राजानं शोकविह्वलम्। विषण्णमनसं दृष्ट्वा विप्रो वचनमब्रवीत्॥ किं नु मुह्यसि मूढस्त्वं शोच्यः किमनुशोचसि। यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम्।।१० त्वं चैवाहं च ये चान्ये त्वामुपासन्ति पार्थिव। सर्वे तत्र गमिष्यामो यत एवागता वयम्॥ सेनजिदुवाच का बुद्धिः किं तपो विप्र कः समाधिस्तपोधना किं ज्ञानं किं श्रुतं चैव यत् प्राप्य न विषीदसि॥ ब्राह्मण उवाच पश्य भूतानि दुःखेन व्यतिषिक्तानि सर्वशः। उत्तमाधममध्यानि तेषु तेष्विह कर्मसु॥ आत्मापि चायं न मम सर्वा वा पृथिवी मम। यथा मम तथाऽन्येषामिति चिन्त्य न मे व्यथा।। एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे॥ यथा काष्ठं च काष्ठं च समेयातां महोदधौ। समेत्य च व्यपेयातां तद्वद्भूतसमागमः॥ एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा। तेषां स्नेहो न कर्तव्यो विप्रयोगो ध्रुवो हि तैः॥ अदर्शनादापतितः पुनश्चादर्शनं गतः। न त्वासौ वेद न त्वं तं कः सन् किमनुशोचसि॥ तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्। सुखात् संजायते दुःखं दुःखमेवं पुनः पुनः॥ सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्। सुखदुःखे मनुष्याणां चक्रवत् परिवर्ततः॥ सुखात् त्वं दुःखमापन्न पुनरापत्स्यसे सुखम्। न नित्यं लभते दुःखं न नित्यं लभते सुखम्॥ शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम्। यद्यच्छरीरेण करोति कर्म तेनैव देही समुपाश्नुते तत्।। जीवितं च शरीरेण जात्यैव सह जायते। उभे सह विवर्तेते उभे सह विनश्यतः॥ स्नेहपाशैर्बहुविधैराविष्टविषया जनाः। अकृतार्थाश्च सीदन्ते जलैः सैकतसेतवः॥ स्नेहेन तिलवत् सर्वं सर्गचक्रे निपीड्यते। तिलपीडैरिवाक्रम्य क्लेशैरज्ञानसम्भवैः॥ संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः। एकः क्लेशानवाप्नोति परत्रेह च मानवः॥ पुत्रदारकुटुम्बेषु प्रसक्ताः सर्वमानवाः। शोकपङ्कार्णवे मग्ना जीर्णा वनगजा इव॥ पुत्रनाशे वित्तनाशे ज्ञातिसम्बन्धिनामपि। प्राप्यते सुमहद् दुःखंदावाग्निप्रतिमं विभो। दैवायत्तमिदं सर्वं सुखदुः :खे भवाभवौ॥ असृहत् ससुहृच्चापि सशत्रुर्मित्रवानपि। सप्रज्ञः प्रज्ञया हीनो दैवेन लभते सुखम्॥ नालं सुखाय सुहृदो नालं दुःखाय शत्रवः। न च प्रज्ञालमर्थानां न सुखानामलं धनम्॥ न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये। लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः॥ बुद्धिमन्तं च शूरं च मूढं भीरुं जडं कविम्। दुर्बलं बलवन्तं च भागिनं भजते सुखम्॥ धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च। पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः॥ ये च मूढतमा लोके ये च बुद्धेः परं गताः। ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः॥ अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे। अन्त्यप्राप्तिं सुखामाहुर्दुःखमन्तरमन्त्ययोः॥ ये च बुद्धिसुखं प्राप्ता द्वन्द्वातीता विमत्सराः। तान् नैवार्था न चाना व्यथयन्ति कदाचन॥ अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम्। तेऽतिवेलं प्रहृष्यन्ति संतापमुपयान्ति च॥ नित्यं प्रमुदिता मूढा दिवि देवगणा इव। अवलेपेन महता परिभूत्या विचेतसः॥ सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम्। भूतिस्त्वेवं श्रिया सार्धं दक्षे वसति नालसे॥ सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम्। प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः॥ शोकस्थानसहस्त्राणि भयस्थानशतानि च। दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥ बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनसूयकम्। दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम्॥ एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेद् बुधः। उदयास्तमयज्ञं हि न शोकः स्पष्टुमर्हति॥ यन्निमित्तं भवेच्छोकस्तापो वा दुःखमेव च। आयासो वा यतो मूलमेकाङ्गमपि तत् त्यजेत्॥ किंचिदेव ममत्वेन यदा भवति कल्पितम्। तदेव परितापार्थं सर्वं सम्पद्यते तथा॥ यद् यत् यजति कामानां तत् सुखस्याभिपूर्यते। कामानुसारी पुरुषः कामाननुविनश्यति॥ यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशी कलाम्॥ पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम्। प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम्॥ एवमेव किलैतानि प्रियाण्येवाप्रियाणि च। जीवेषु परिवर्तन्ते दुःखानि च सुखानि च॥ एतां बुद्धिं समास्थाय सुखमास्ते गुणान्वितः। सर्वान् कामान् जुगुप्सेत कामान् कुर्वीत पृष्ठतः॥ वृत्त एष हृषि प्रौढो मृत्युरेष मनोभवः। क्रोधो नाम शरीरस्थो देहिनां प्रोच्यते बुधैः॥ यदा संहरते कामान् कूर्मोऽङ्गानीव सर्वशः। तदाऽऽत्मज्योतिरात्मायमात्मन्येव प्रपश्यति॥ न बिभेति यदा चायं यदा चास्मान्न बिभ्यति। यदा नेच्छति न दृष्टि ब्रह्म सम्पद्यते तदा॥ उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये। प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यति॥ यदा न कुरुते धीरः सर्वभूतेषु पापकम्। कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः। योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्।।५५ अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव। यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम्॥ संकेते पिङ्गला वेश्या कान्तेनासीद् विनाकृता। अथ कृच्छ्रगता शान्ता बुद्धिमास्थापयत् तदा॥ पिङ्गलोवाच उन्मत्ताहमनुन्मत्तं कान्तमन्ववसं चिरम्। अन्तिके रमणं सन्तं नैनमध्यगमं पुरा॥ एकस्थूणं नवद्वारमपिधास्याम्यगारकम्। का हि कान्तमिहायान्तमयं कान्तेति मंस्यते॥ अकामां कामरूपेण धूर्ता नरकरूपिणः। न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि॥ अनर्थो हि भवेदर्थो दैवात् पूर्वकृतेन वा। सम्बुद्धाहं निराकारा नाहमद्याजितेन्द्रिया॥ सुखं निराशः स्वपिति नैराश्यं परमं सुखम्। आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला॥ भीष्म उवाच एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः। पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखी॥ वैशम्पायन उवाच असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान् गते। अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत्॥ जानासि मे जीवपुत्रि भावं नित्यमविग्रहे। क्रोशतो न च गृह्णीते वचनं मे सुयोधनः॥ उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः। भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि।॥ उपप्लेव्य निविष्टोऽपि धर्ममेव युधिष्ठिरः। काक्षते ज्ञातिसौहार्दाद् बलवान् दुर्बलो यथा॥ राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति। मत्तः पुत्रमदेनैव विधर्मं पथि वर्तते॥ जयद्रथस्य कर्णस्य तथा दुःशासनस्य च। सौबलस्य च दुर्बुद्ध्या मिथो भेदोः प्रपत्स्यते॥ अधर्मेण हि धर्मिष्ठं कृतं वैकार्यमीदृशम्। येषां तेषामयं धर्मः सानुबन्धो भविष्यति॥ क्रियमाणे बलाद् धर्मं कुरुभिः को न संज्वरेत्। असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः॥ ततः कुरूणामनयो भविता वीरनाशनः। चिन्तयन् न लभे निद्रामहः सु च निशासु च॥ श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम्। सा निःश्वसन्ती दुःखार्ता मनसा विममर्श ह॥ धिगस्त्वर्थं यत्कृतेऽयं महान् ज्ञातिवधः कृतः। वय॑ते सुहृदां चैवं युद्धेऽस्मिन् वै पराभवः॥ पाण्डवाश्चेदिपञ्चाला यादवाश्च समागताः। भारतैः सह योत्स्यन्ति किं नु दुःखमतः परम्॥ पश्ये दोषं ध्रुवं युद्धे तथाऽयुद्धे पराभवम्। अधनस्य मृतं श्रेयो न हि ज्ञातिक्षयो जयः॥ इति मे चिन्तयन्त्या वै हृदि दुःखं प्रवर्तते। पितामहः शान्तनव आचार्यश्च युधां पतिः॥ कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम। आचार्यः कामवान् शिष्यैोणो युद्धयेत जातुचित्॥ पाण्डवेषु कथं हार्द कुर्यान्न च पितामहः। अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः॥ मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान्। महत्यनर्थं निर्बन्धो बलवांश्च विशेषतः॥ कर्णः सदा पाण्डवानां तन्मे दहति सम्प्रति। आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान् प्रति॥ प्रसादयितुमासाद्य दर्शयन्ती यथातथम्। तोषितो भगवान् यत्र दुर्वासा मे वरं ददौ॥ आह्वानं मन्त्रसंयुक्तं वसन्त्याः पितृवेश्मनि। साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता॥ चिन्तयन्ती बहुविधं हृदयेन विदूयता। बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम्॥ स्त्रीभावाद् बालभावाच्च चिन्तयन्ती पुनः पुनः। धाच्या विस्रब्धया गुप्ता सखीजनवृता तदा॥ मे दोषं परिहरन्ती च पितुश्चारित्र्यरक्षिणी। कथं नु सुकृतं स्यानापराधवती कथम्॥ भवेयमिति संचिन्त्य ब्राह्मणं तं नमस्य च। कौतूहलात् तु तं लब्ध्वा बालिश्यादाचरं तदा। कन्या सती देवमर्कमासादयमहं ततः॥ योऽसौ कानीनगर्भो मे पुत्रवत् परिरक्षितः। कस्मान्न कुर्याद् वचनं पथ्यं भ्रातृहितं तथा॥ इति कुन्ती विनिश्चित्य कार्यनिश्चयमुत्तमम्। कार्यार्थमभिनिश्चित्य ययौ भागीरथी प्रति॥ आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः। गङ्गातीरे पृथाऽश्रौषीद् वेदाध्ययननिःस्वनम्॥ प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः। जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी॥ अतिष्ठत् सूर्यतापार्ता कर्णस्योत्तरवाससि। कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती॥ आपृष्ठतापाज्जप्त्वा स परिवृत्य यतव्रतः। दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः॥ यथान्यायं महातेजा मानी धर्मभृतां वरः। उत्समयन् प्रणतः प्राह कुन्तीं वैकर्तनो वृषः॥ भीष्म उवाच अत्रोपायं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा। तत्त्वज्ञानाच्चरन् राजन् प्राप्नुयात्परमां गतिम्॥ सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते। पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रदर्शिनः॥ सर्वभूतात्मभूतास्ते सर्वज्ञाः सर्वदर्शिनः। ब्राह्मणा वेदशास्त्रज्ञास्तत्त्वार्थगतनिश्चयाः॥ नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि। ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः॥ तांस्तानुपासते धर्मान् धर्मकामा यथागमम्। न त्वेषामर्थसामान्यमन्तरेण गुणानिमान्॥ वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः। सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणाञ्छुभान्॥ यदिदं ब्रह्मणो रूपं ब्रह्मचर्यमिति स्मृतम्। परं तत् सर्वधर्मेभ्यस्तेन यान्ति परां गतिम्॥ लिङ्गसंयोगहीनं यच्छब्दस्पर्शविवर्जितम्। श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम्॥ वाक्सम्भाषाप्रवृत्तं यत् तन्मनःपरिवर्जितम्। बुद्ध्या चाध्यवसीयीत ब्रह्मचर्यमकल्मषम्॥ सम्यग्वृत्तिर्ब्रह्मलोकं प्राप्नुयान्मध्यमः सुरान्। द्विजाग्रयो जायते विद्वान् कन्यसी वृत्तिमास्थितः॥ सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे शृणु। सम्प्रदीप्तमुदीर्णं च निगृह्णीयाद् द्विजो रजः॥ योषितां न कथा श्राव्या न निरीक्ष्या निरम्बराः। कथञ्चिद् दर्शनादासां दुर्बलानां विशेद्रजः॥ रागोत्पन्नश्चरेत् कृच्छं महार्तिः प्रविशेदपः। मग्नः स्वप्ने च मनसा विर्जपेदघमर्षणम्॥ पाप्मानं निर्दहेदेवमन्तर्भूतरजोमयम्। ज्ञानयुक्तेन मनसा संततेन विचक्षणः॥ कुणपामध्यसंयुक्तं यद्वदच्छिद्रबन्धनम्। तद्वद् देहगतं विद्यादात्मानं देहबन्धनम्॥ वातपित्तकफाद् रक्तं त्वडमांसं स्नायुमस्थि च। मज्जां देहं शिराजालैस्तर्पयन्ति रसा नृणाम्॥ दश विद्याद् धमन्योऽत्र पञ्चेन्द्रियगुणावहाः। याभिः सूक्ष्माः प्रतायन्ते धमन्योऽन्याः सहस्रशः॥ एवमेताः शिरा नद्यो रसोदा देहसागरम्। तर्पयन्ति यथाकालमापगा इव सागरम्॥ मध्ये च हृदयस्यैका शिरा तत्र मनोवहा। शुक्र संकल्पजं नृणां सर्वगात्रैर्विमुञ्चति॥ सर्वगात्रप्रतायिन्यस्तस्या ह्यनुगताः शिराः। नेत्रयोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम्॥ पयस्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः। शुक्र निर्मथ्यते तद्वद् देहसंकल्पजैः खजैः॥ स्वप्नेऽप्येवं यथाभ्येति मन:संकल्पजं रजः। शुक्र संकल्पजं देहात् सृजत्यस्य मनोवहा॥ महर्षिर्भगवानत्रिर्वेद तच्छुक्रसम्भवम्। त्रिबीजमिन्द्रदैवल्यं तस्मादिन्द्रियमुच्यते॥ ये वै शुक्रगति विद्युभूतसंकरकारिकाम्। विरागा दग्धदोषास्ते नाप्नुयुर्देहसम्भवम्॥ गुणानां साम्यमागम्य मनसैव मनोवहम्। देहकर्मा नुदन् प्राणानन्तकाले विमुच्यते॥ भविता मनसो ज्ञानं मन एव प्रजायते। ज्योतिष्मद्विरजो नित्यं मन्त्रसिद्धं महात्मनाम्॥ तस्मात् तदभिघाताय कर्म कुर्यादकल्मषम्। रजस्तमश्च हित्वेह यथेष्टां गतिमाप्नुयात्॥ तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम्। विपक्वबुद्धिः कालेन आदत्ते मानसं बलम्॥ सुदुर्गमिव पन्थानमतीत्य गुणबन्धनम्। यथा पश्येत् तथा दोषानतीत्यामृतमश्नुते॥ युधिष्ठिर उवाच जन्म मानुष्यकं प्राप्य कर्मक्षेत्रं सुदुर्लभम्। श्रेयोऽर्थिना दरिद्रेण किं कर्तव्यं पितामह॥ दानानामुत्तमं यच्च देयं यच्च यथा यथा। मान्यान् पूज्यांश्च गाङ्गेय रहस्यं वक्तुमर्हसि॥ वैशम्पायन उवाच एवं पृष्टो नरेन्द्रेण पाण्डवेन यशस्विना। धर्माणां परमं गुह्यं भीष्मः प्रोवाच पार्थिवम्॥ भीष्म उवाच शृणुष्वावहितो राजन् धर्मगुह्यानि भारत। यथा हि भगवान् व्यासः पुरा कथितवान् मयि॥ देवगुह्यमिदं राजन् यमेनाक्लिष्टकर्मणा। नियमस्थेन युक्तेन तपसो महतः फलम्॥ येन यः प्रीयते देवः प्रीयन्ते पितरस्तथा। ऋषयः प्रमथा: श्रीश्च चित्रगुप्तो दिशां गजाः॥ ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः। महादानफलं चैव सर्वयज्ञफलं तथा॥ यश्चैतदेवं जानीयाज्ज्ञात्वा वा कुरुतेऽनघ। सदोषोऽदोषवांश्चेह तैर्गुणैः सह युज्यते॥ दशसूनासमं चक्रं दशचक्रसमो ध्वजः। दशध्वजसमा वेश्या दशवेश्यासमो नृपः॥ अर्धेनैतानि सर्वाणि नृपतिः कथ्यतेऽधिकः। त्रिवर्गसहितं शास्त्रं पवित्रं पुण्यलक्षणम्॥ धर्मव्याकरणं पुण्यं रहस्यश्रवणं महत्। श्रोतव्यं धर्मसंयुक्तं विहितं त्रिदशैः स्वयम्॥ पितॄणां यत्र गुह्यानि प्रोच्यन्ते श्राद्धकर्मणि। देवतानां च सर्वेषां रहस्यं कथ्यतेऽखिलम्॥ ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः। महायज्ञफलं चैव सर्वदानफलं तथा॥ ये पठन्ति सदा मा येषां चैवोपतिष्ठति। श्रुत्वा च फलमाचष्टे स्वयं नारायणः प्रभुः॥ गवां फलं तीर्थफलं यज्ञानां चैव यत् फलम्। एतत् फलमवाप्नोति यो नरोऽतिथिपूजकः॥ श्रोतारः श्रद्दधानाश्च येषां शुद्ध च मानसम्। तेषां व्यक्त जिता लोकाः श्रद्दधनेन साधुना॥ मुच्यते किल्बिषाच्चैच न सा पापेन लिप्यते। धर्मे च लभते नित्यं प्रेत्य लोकगतो नरः॥ कस्यचित् त्वथ कालस्य देवदूतो यदृच्छया। स्थितो ह्यन्तर्हितो भूत्वा पर्यभाषत वासवम्॥ यौ तौ कामगुणोपेतावश्विनौ भिषजां वरौ। आज्ञयाहं तयोः प्राप्तः सनरान् पितृदैवतान्॥ कस्माद्धि मैथुनं श्राद्धे दातुर्भोक्तुश्च वर्जितम्। किमर्थं च त्रयः पिण्डाः प्रविभक्ताः पृथक् पृथक्।। प्रथमः कस्य दातव्यो मध्यमः क्व च गच्छति। उत्तरश्च स्मृतः कस्य एतदिच्छागि वेदितुम्॥ श्रद्दधनेन दूतेन भाषितं धर्मसंहितम्। पूर्वस्थास्त्रिदशाः सर्वे पितरः पूज्य खेचरम्॥ पितर ऊचुः स्वागतं तेऽस्तु भद्रं ते श्रूयतां खेचरोत्तम। गूढार्थः परमः प्रश्नो भवता समुदीरितः॥ श्राद्धं दत्त्वा च भुक्त्वा च पुरुषो यःस्त्रियं व्रजेत्। पितरस्तस्य तं मासं तस्मिन् रेतसि शेरते।॥ प्रविभागं तु पिण्डानां प्रवक्ष्याम्यनुपूर्वशः। पिण्डो ह्यधस्ताद् गच्छंस्तु अप आविश्य भावयेत्।। पिण्डं तु मध्यमं तत्र पत्नी त्वेका समश्नुते। पिण्डस्तृतीयो यस्तेषां तं दद्याज्जातवेदसि॥ एष श्राद्धविधिः प्रोक्तो यथा धर्मो न लुप्यते। पितरस्तस्य तुष्यन्ति प्रहृष्टमनसः सदा॥ प्रजा विवर्धते चास्य अक्षयं चोपतिष्ठति। देवदूत उवाच आनुपूर्वेण पिण्डानां प्रविभागः पृथक् पृथक्॥ पितॄणां त्रिषु सर्वेषां निरुक्तं कथितं त्वया। एक:समुद्धृतः पिण्डो ह्यधस्तात् कस्य गच्छति॥ कं वा प्रीणयते देवं कथं तारयते पितॄन। मध्यमं तु तदा पत्नी भुङ्क्तेऽनुज्ञातमेव हि॥ किमर्थं पितरस्तस्य कव्यमेव च भुञ्जते। अत्र यस्त्वन्तिमः पिण्डो गच्छते जातवेदसम्॥ भवते का गतिस्तस्य कं वा समनुगच्छति। एतदिच्छाम्यहं श्रोतुं पिण्डेषु त्रिषु श गतिः॥ फलं वृत्तिं च मार्गं च यश्चैनं प्रतिपद्यते। पितरः ऊचुः सुमहानेष प्रश्नो वै यस्त्वया समुदीरितः॥ रहस्यमद्भुतं चापि पृष्टाः स्म गगनेचर। एतदेव प्रशसंन्ति देवाश्च मुनयस्तथा॥ तेऽप्येवं नाभिजानन्ति पितृकार्यविनिश्चयम्। वर्जयित्वा महात्मानं चिरजीविनमुत्तमम्॥ पितृभक्तस्तु यो विप्रो वरलब्धो महायशाः। त्रयाणामपि पिण्डानां श्रुत्वा भगवतो गतिम्॥ देवदूतेन यः पृष्टः श्राद्धस्य विधिनिश्चयः। गतिं त्रयाणां पिण्डानां शृणुष्वावहितो मम॥ अपो गच्छति यो ह्यत्र शशिनं ह्येष प्रीणयेत्। शशी प्रीणयते देवान् पितश्चैव महामते॥ भुङ्क्ते तु पत्नी यं चैषामनुज्ञाता तु मध्यमम्। पुत्रकामाय पुत्रं तु प्रयच्छन्ति पितामहाः॥ पिण्डो दीयते तन्निबोध मे। पितरस्तेन तृष्यन्ति प्रीताः कामान् दिशन्ति च॥ एतत् ते कथितं सर्वे त्रिषु पिण्डेषु या गतिः। ऋत्विग्यो यजमानस्य पितृत्वमनुगच्छति॥ हव्यवाहे तु यः तस्मिन्नहनि मन्यन्ते परिहार्ये हि मैथुनम्। शुचिना तु सदा श्राद्धं भोक्तव्य खेचरोत्तम॥ ये मया कथिता दोषास्ते तथा स्युर्न चान्यथा। तस्मात् स्नातः शुचिः क्षान्तः श्राद्धंभुञ्जीत वै द्विजः।। प्रजा विवर्धते चास्य यश्चैवं सम्प्रयच्छति। भीष्म उवाच ततो विद्युत्प्रभो नाम ऋषिराह महातपाः॥ आदित्यतेजसा तस्य तुल्यं रूपं प्रकाशते। स च धर्मरहस्यानि श्रुत्वा शक्रमथाब्रवीत्॥ तिर्यग्योनिगतान् सत्त्वान् मा हिंसन्ति मोहिताः। कीटान् पिपीलिकान् सर्पान् मेषान् समृगपक्षिणः।। किल्बिषं सुबहु प्राप्ताः किंस्विदेषां प्रतिक्रिया। ततो देवगणाः सर्वे ऋषयश्च तपोधनाः॥ पितरश्च महाभागाः पूजयन्ति स्म तं मुनिम्। शक्र उवाच कुरुक्षेत्रं गयां गङ्गां प्रभासं पुष्कराणि च॥ एतानि मनसा ध्यात्वा अवगाहेत् ततो जलम्। तथा मुच्यति पापेन राहुणा चन्द्रमा यथा॥ त्र्यहं स्नातंः स भवति निराहारश्च वर्तते। स्पृशते यो गवां पृष्ठं बालधिं च नमस्यति॥ ततो विद्युत्प्रभो वाक्यमभ्यभाषत वासवम्। अयं सूक्ष्मतरो धर्मस्तं निबोध शतक्रतो॥ घृष्टो वटकषायेण अनुलिप्तः प्रियंगुणा। क्षीरेण षष्टिकान् भुक्त्वा सर्वपापैः प्रमुच्यते॥ श्रूयतां चापरं गृह्यं रहस्यमृषिचिन्तितम्। श्रुतं मे भाषमाणस्य स्थाणोः स्थाने बृहस्पतेः॥ रुद्रेण सह देवेश तन्निबोध शचीपते। पर्वतारोहणं कृत्वा एकपादो विभावसुम्॥ निरीक्षेत निराहार उर्ध्वबाहुः कृताञ्जलिः। तपसा महता युक्त उपवासफलं लभेत्॥ रश्मिभिस्तापितोऽर्कस्य सर्वपापमपोहति। ग्रीष्मकालेऽथ वा शीते एवं पापमपोहति॥ ततः पापत् प्रमुक्तस्य द्युतिर्भवति शाश्वती। तेजसा सूर्यवद् दीप्तो भ्राजते सोमवत् पुनः॥ मध्ये त्रिदशवर्गस्य देवराजः शतक्रतुः। उवाच मधुरं वाक्यं बृहस्पतिमनुत्तमम्॥ धर्मगुह्यं तु भगवन् मानुषाणां सुखावहम्। सरहस्याश्च ये दोषास्तान् यथावदुदीरय॥ बृहस्पति रुवाच प्रतिमेहन्ति ये सूर्यमनिलं द्विषते च ये। हव्यवाहे प्रदीप्ते च समिधं ये न जुह्वति॥ बालवत्सां च ये धेनुं दुहन्ति क्षीरकारणात्। तेषां दोषान् प्रवक्ष्यामि तान् निबोध शचीपते॥ भानुमाननिलश्चैव हव्यवाहश्च वासव। लोकानां मातरश्चैव गावः सृष्टाः स्वयम्भुवा॥ लोकांस्तारयितुं शक्ता मत्र्येष्वेतेषु देवताः। सर्वे भवन्तः शृण्वन्तु एकैकं धर्मनिश्चयम्॥ वर्षाणि षडशीति तु दुर्वत्ताः कुलपांसनाः। स्त्रियः सर्वाश्च दुर्वृत्ता:प्रतिमेहन्ति या रविम्॥ अनिलद्वेषिणः शक्र गर्भस्था च्यवते प्रजा। हव्यवाहस्य दीप्तस्य समिधं ये न जुह्वति।॥ अग्निकार्येषु वै तेषां हव्यं नाश्नाति पावकः। क्षीरं तु बालवत्सानां ये पिबन्तीह मानवाः॥ न तेषां क्षीरपाः केचिज्जायन्ते कुलवर्धनाः। प्रजाक्षयेण युज्यन्ते कुलवंशक्षयेण च॥ एवमेतत् पुरा दृष्टं कुलवृद्धौर्द्विजातिभिः। तस्माद् वानि वानि कार्यं कार्यं च नित्यशः।। भूतिकामेन म]न सत्यमेतद् ब्रवीमि ते। ततः सर्वा महाभाग देवताः समरुद्गणाः॥ ऋषयश्च महाभागाः पृच्छन्ति स्म पितूंस्ततः। पितरः केन तुष्यन्ति मर्त्यानामल्पचेतसाम्॥ अक्षयं च कथं दानं भवेच्चैवोर्ध्वदेहिकम्। आनृण्यं वा कथं मा गच्छेयुः केन कर्मणा॥ एतदिच्छामहे श्रोतुं परं कौतूहलं हि नः। पितर ऊचुः न्यायतो वै महाभागाः संशयः समुदाहृतः॥ श्रूयतां येन तुष्यामो मानां साधुकर्मणाम्। नीलपण्डप्रमोक्षेण अमावास्यां तिलोदकैः :॥ वर्षासु दीपकैश्चैव पितॄणामनृणो भवेत्। अक्षयं निळलीकं च दानमेतन्महाफलम्॥ अस्माकं परितोषश्च अक्षयः परिकीर्त्यते। श्रद्दधानाश्च ये मर्त्या आहरिष्यन्ति संततिम्॥ दुर्गात् ते तारयिष्यन्ति नरकात् प्रपितामहान्। पितॄणां भाषितं श्रुत्वा हृष्टरोमा तपोधनः॥ वृद्धगार्यो महातेजास्तानेवं वाक्यमब्रवीत्। के गुणा नीलपण्डस्य प्रमुक्तस्य तपोधनाः॥ वर्षासु दीपदानेन तथैव च तिलोदकैः। पितर ऊचुः नीलषण्डस्य लाङ्गुलं तोयमभ्युद्धरेद् यदि॥ षष्टिं वर्षसहस्राणि पितरस्तेन तर्पिता:। यस्तु शृङ्गगतं पदं कूलादूद्धृत्य तिष्ठति।॥ पितरस्तेन गच्छन्ति सोमलोकमसंशयम्। वर्षासु दीपदानेन शशिवच्छोभते नरः॥ तमोरूपं न तस्यास्ति दीपकं यः प्रयच्छति। अमावास्यां तु ये माः प्रयच्छन्ति तिलोदकम्॥ पात्रमौदुम्बरं गृह्य मधुमिश्रं तपोधन। कृतं भवति तैः श्राद्धं सरहस्यं यथार्थवत्॥ हृष्टपुष्टमनास्तेषां प्रजा भवति नित्यदा। कुलवंशस्य वृद्धिस्तु पिण्डदस्य फलं भवेत्। श्रद्दधानस्तु यः कुर्यात् पितॄणामनृणो भवेत्॥ एवमेव समुद्विष्टः श्राद्धकालक्रमस्तथा। विधिः पात्रं फलं चैव यथावदनुकीर्तिमम्॥ वैशम्पायन उवाच स तु वाजी समुद्रान्तां पर्येत्य वसुधामिमाम्। निवृत्तोऽभिमुखो राजन् येन वारणसाह्वयम्॥ अनुगच्छंश्च तुरगं निवृत्तोऽथ किरीटभृत्। यदृच्छया समापेदे पुरं राजगृहं तदा॥ तमभ्याशगतं दृष्ट्वा सहदेवात्मजः प्रभो। क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह॥ ततः पुरात् सनिष्क्रम्य रथी धन्वी शरी तली। मेघसन्धिः पदाति तं धनंजयमुपाद्रवत्॥ आसाद्य च महातेजा मेघसन्धिर्धनंजयम्। बालभावान्महाराज प्रोवाचेदं न कौशलात्॥ किमयं चार्यते बाजी स्त्रीमध्य इव भारत। ह्यमेनं हरिष्यामि प्रयतस्व विमोक्षणे॥ अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम। करिष्यामि तवातिथ्यं प्रहर प्रहरामि च॥ इत्युक्तः प्रत्युवाचैनं प्रहसन्निव पाण्डवः। विनकर्ता मया वार्य इति मे व्रतमाहितम्॥ भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम्। प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम॥ इत्युक्तः प्राहरत् पूर्वे पाण्डवं मगधेश्वरः। किरन् शरसहस्राणि वर्षाणीव सहस्रदृक्॥ ततो गाण्डीवभृच्छूरो गाण्डीवप्रहितैः शरैः। चकार मोघांस्तान् बाणान् सयलान् भरतर्षभ॥ स मोघं तस्य बाणौधं कृत्वा वानरकेतनः। शरान् मुमोच ज्वलितान् दीप्तास्यानिव पन्नगान्॥१२ ध्वजे पताकादण्डेषु रथे यन्त्रे हयेषु च। अन्येषु च रथाङ्गेषु न शरीरे न सारथौ॥ संरक्ष्यमाणः पार्थेन शरीरे सव्यसाचिना। मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान्॥ ततो गाण्डीवधन्वा तु मागधेन भृशाहतः। बभौ वसन्तसमये पलाशः पुष्पितो यथा॥ अवध्यमानः सोऽभयनन्मागधः पाण्डवर्षभम्। तेन तस्थौ य कौरव्य लोकवीरस्य दर्शने॥ सव्यसाची तु संक्रुद्धो विकृष्य बलवद् धनुः। हयांश्चकार निर्जीवान् सारथेश्च शिरोऽहरत्॥ धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह। हस्तावापं पताकां च ध्वजं चास्य न्यपातयत्॥ स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः। गदामादाय कौन्तेयमभिदुद्राव वेगवान्॥ तस्यापतत एवाशु गदां हेमपरिष्कृताम्। शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः॥ सा गदा शकलीभूता विशीर्णमणिबन्धना। व्याली विमुच्यमानेव पपात धरणीतले॥ विरथं विधनुष्कं च गदया परिवर्जितम्। सान्त्वपूर्वमिदं वाक्यमब्रवीत् कपिकेतनः॥ पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम्। बह्वेतत् समरे कर्म तव बालस्य पार्थिव॥ युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति। तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे।॥ इति मत्वा तदात्मानं प्रत्यादिष्टं स्म मागधः। तथ्यमित्यभिगम्यैनं प्राञ्जलिः प्रत्यपूजयत्॥ पराजितोऽस्मि भद्रं ते नाहं योधुमिहात्सहे। यद् यत् कृत्यं मया तेऽद्य तद् ब्रूहि कृतमेव तु॥ तमर्जूनः समाश्वास्य पुनरेवेदमब्रवीत्। आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः॥ इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम्। फाल्गुनं च युधि श्रेष्ठं विधिवत् सहदेवजः॥ ततो यथेष्टमगमत् पुनरेव स केसरी। ततः समुद्रतीरेण वङ्गान् पुण्ड्रान् सकोसलान्॥ तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः। विजिग्ये धनुषा राजन् गाण्डीवेन धनंजयः॥ युधिष्ठिर उवाच केषां प्रभवते राजा वित्तस्य भरतर्षभ। कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह॥ भीष्म उवाच अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्। ब्राह्मणानां च ये केचिद् विकर्मस्था भवन्त्युत॥ विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथञ्चन। इति राज्ञां पुरावृत्तमाभिजल्पन्ति साधवः॥ यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः। राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप॥ अभिशस्तमिवात्मानं मन्यन्ते येन कर्मणा। तस्माद् राजर्षयः सर्वे ब्राह्मणानन्वपालयन्॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गीतं कैकेयराजेन ह्रियमाणेन रक्षसा॥ केकयानामधिपतिं रक्षो जग्राह दारुणम्। स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम्॥ राजोवाच न मे स्तेनो जनपदे न कदर्यो न मद्यपः। नानाहिताग्नि यज्वा मामकान्तरमायिशः॥ न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः। नानाहिताग्नित यज्वा मामकान्तरमाविशः॥ नानाप्रदक्षिणैर्यज्ञैर्यजन्ते विषये मम। नाधीते नाव्रती कश्चिन्मामकान्तरमाविशः॥ अधीयतेऽध्यापयन्ति यजन्ते याजयन्ति च। ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः॥ पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः। ब्राह्मणा मे स्वकर्मस्था मामकान्तरमाविशः॥ न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः। नाध्यापयन्त्यधीयते यजन्ते याजयन्ति न॥ ब्राह्मणान् परिरक्षन्ति संग्रामेष्वपलायिनः। क्षत्रिया मे स्वकर्मस्था मामकान्तरमाविशः॥ कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया। अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः॥ संविभागं दमं शौचं सौहदं च व्यपाश्रिताः। मम वैश्याः स्वकर्मस्था मामकान्तरमाविशः॥ त्रीन् वर्णानुपजीवन्ति यथावदनसूयकाः। मम शूद्राः स्वकर्मस्था मामकान्तरमाविशः॥ कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्। संविभक्तास्मि सर्वेषां मामकान्तरमाविशः॥ कुलदेशादिधर्माणां प्रथितानां यथाविधि। अव्युच्छेत्तास्मि सर्वेषां मामकान्तरमाविशः॥ तपस्विनो मे विषये पूजिता: परिपालिताः। संविभक्ताश्च सत्कृत्य मामकान्तरमाविशः॥ नासं विभज्य भोक्तास्मि नाविशामि परस्त्रियम्। स्वतन्त्र जातु न क्रीडे मामकान्तरमाविशः॥ नाब्रह्मचारी भिक्षावाम्भिक्षुर्वाऽब्रह्मचर्यवान् अनृत्विजा हुतं नास्ति मामकान्तरमाविशः॥ नावजानाम्यहं वैद्यान्न वृद्धान्न तपस्विनः। राष्ट्रे स्वपति जागर्मि मामकान्तरमाविशः॥ आत्मविज्ञानसम्पन्नस्तपस्वी सर्वधर्मवित्। स्वामी सर्वस्य राष्ट्रस्य धीमान् मम पुरोहितः॥ दानेन विद्यामभिवाञ्छयामि सत्येनार्थं ब्राह्मणानां च गुप्त्या। शुश्रूषया चापि गुरूनुपैमि न मे भयं विद्यते राक्षसेभ्यः॥ न मे राष्ट्रे विधवा ब्रह्मबर्दू ब्राह्मणः कितवो नोत चोरः। अयाज्ययाजी न च पापकर्मा न में भयं विद्यते राक्षसेभ्यः॥ न मे शस्त्रैरनिर्भिन्नं गात्रे व्यङ्गद्धलमन्तरम्। धर्मार्थं युध्यमानस्य मामकान्तरमाविशः॥ गोब्राह्मणेभ्यो यज्ञेभ्यो नित्यं स्वस्त्ययनं मम। आशासते जना राष्ट्रे मामकान्तरमाविशः॥ राक्षस उवाच यस्मात् सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे। तस्मात् प्राप्नुहि कैकेय गृहं स्वस्ति व्रजाम्यहम्॥ येषां गोब्राह्मणं रक्ष्यं प्रजा रक्ष्याश्च केकय। न रक्षोभ्यो भयं तेषां कुत एव तु पावकात्॥ येषां पुरोगमा विप्रा येषां ब्रह्म परं बलम्। अतिथिप्रियास्तथा पौरास्ते वै स्वर्गजितो नृपाः॥ भीष्म उवाच तस्माद् द्विजातीन् रक्षेत ते हि रक्षन्ति रक्षिताः। आशीरेषां भवेद् राजन् राज्ञां सम्यक्प्रवर्तताम्॥ तस्माद् राज्ञा विशेषेण विकर्मस्था द्विजातयः। नियम्याः संविभज्याश्च तदनुग्रहकारणात्॥ एवं यो वर्तते राजा पौरजानपदेष्विह। अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम्॥ भीष्म उवाच स वनानि विचित्राणि तीर्थानि च सरांसि च। अभिगच्छन् क्रमेण सम कंचिन्मुनिमुपस्थितः॥ तं स तेन यथोद्दिष्टं नागं विप्रेण ब्राह्मणः। पर्यपृच्छद् यथान्यायं श्रुत्वैव च जगाम सः॥ सोऽभिगम्य यथान्यायं नागायतनमर्थवित्। प्रोक्तवाहमस्मीति भोःशब्दालंकृतं वचः॥ तत् तस्य वचनं श्रुत्वा रूपिणी धर्मवत्सला। दर्शयामास तं विप्रं नागपत्नी पतिव्रता॥ सा तस्मै विधिवत् पूजां चक्रे धर्मपरायणा। स्वागतेनागतं कृत्वा किं करोमीति चाब्रवीत्॥ ब्राह्मण उवाच विश्रान्तोऽभ्यर्चितश्चास्मि भवत्या श्लक्ष्णया गिरा। द्रष्टुमिच्छामि भवति देवं नागमनुत्तमम्॥ एतद्धि परं कार्यमेतान्मे परमेप्सितम्। अनेन चार्थेनाम्यद्य सम्प्राप्त: पन्नागाश्रमम्॥ नागभार्योवाच आर्यः सूर्यरथं वोढुं गतोऽसौ मासचारिकः। सप्ताष्टभिर्दिनैविप्र दर्शयिष्यत्यसंशयम्॥ एतद्विदितमार्यस्य विवासकरणं तव। भर्तुर्भवतु किं चान्यत् क्रियतां तद् वदस्व मे॥ ब्राह्मण उवाच अनेन निश्चयेनाहं साध्वि सम्प्राप्तवानिह। प्रतीक्षन्नागमं देवि वत्स्याप्यस्मिन् महावने॥ सम्प्राप्तस्यैव चाव्यग्रमावेद्योऽहमिहागतः। ममाभिगमनं प्राप्तो वाच्यश्च वचनं त्वया॥ अहमप्यत्र वत्स्यामि गोमत्याः पुलिने शुभे। कालं परिमिताहारो यथोक्तं परिपालयन्॥ ततः स विप्रस्तां नागी समाधाय पुनः पुनः। तदेव पुलिनं नद्याः प्रययौ ब्राह्मणर्षभः॥ ततः स विप्रस्तां नागी समाधाय पुनः पुनः। तदेव पुलिनं नद्याः प्रययौ ब्राह्मणर्षभः॥ वैशम्पायन उवाच ततः पाण्डवाः पुनर्मार्कण्डेयमूचुः॥ कथितं ब्राह्मणमहाभाग्यं राजन्यमहाभाग्यमिदानी शुश्रूषामह इति तानुवाच मार्कण्डेयो महर्षिः श्रूयतामिति इदानीं राजन्यानां महाभाग्यमिति। कुरूणामन्यतमः सुहोत्रो राजा महर्षीनभिगम्य निवृत्य रथस्थमेव नमौशीनरं शिबिं ददर्शाभिमुखं तौ समेत्य परस्परेण यथावयः पूजां प्रयुज्य गुणसाम्येन परस्परेण तुल्यात्मानौ विदित्वान्योन्यस्य पन्थानं न ददतुस्तत्र नारदः प्रादुरासीत् किमिदं भवन्तौ परस्परस्य पन्थानमावृत्य तिष्ठत इति॥ नाम तावूचतुर्नारदं नैतद् भगवन् पूर्वकर्मकादिभि-विशिष्टस्य पन्था उपदिश्यते समर्थाय वा आवां च सख्यं परस्परेणोपगतौ तच्चावधानतोऽत्युत्कृष्टमधरोत्तरंपरिभ्रष्टं नारदस्त्वेवमुक्तः श्लोकत्रयमपठयत्॥ क्रूरः कौरव्य मृदवे मृदुः क्रूरे च कौरव। साधुश्चासाधवे साधुः साधवे नाप्नुयात् कथम्॥ कृतं शतगुणं कुर्यान्नास्ति देवेषु निर्णयः। औशीनरः साधुशीलो भवतो वै महीपतिः॥ जयेत् कदर्यं दानेन सत्येनानृतवादिनम्। क्षमया क्रूरकर्माण-मसाधु साधुना जयेत्॥ तदुभावेव भवन्तावुदारौ य इदानीं भवद्भ्यामन्यतमः सोऽपसर्पतु एतद् वै निदर्शनमित्युक्त्वा तूष्णीं नारदो बभूव। एतच्छ्रुत्वा तु कौरव्यः शिबिं प्रदक्षिणं कृत्वा दत्त्वा पन्थानं बहुकर्मभिः प्रशस्य प्रययौ॥ तदेतद् राज्ञो महाभाग्यमप्युक्तवान् नारदः॥ युधिष्ठिर उवाच भगवन् श्रोतुमिच्छामि नामान्यस्य महात्मनः। त्रिषु लोकेषु यान्यस्य विख्यातानि द्विजोत्तम॥ वैशम्पायन उवाच इत्युक्तः पाण्डवेयेन महात्मा ऋषिसंनिधौ। उवाच भगवांस्तत्र मार्कण्डेयो महातपाः॥ मार्कण्डेय उवाच आग्नेयश्चैव स्कन्दश्च दीप्तकीर्तिरनामयः। मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः॥ कामजित् कामदः कान्तः सत्यवाग् भुवेनश्वरः। शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः॥ अमोघस्त्वनधो रौद्रः प्रियश्चन्द्राननस्तथा। दीप्तशक्तिः प्रशान्तात्मा भद्रकृत् कूटमोहनः॥ षष्ठीप्रियश्च धर्मात्मा पवित्रो मातृवत्सलः। कन्याभर्ता विभक्तश्च स्वाहेयो रेवतीसुतः॥ प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः। सुव्रतो ललितश्चैव बालक्रीडनकप्रियः॥ खचारी ब्रह्मचारी च शूरः शरवणोद्भवः। विश्वामित्रप्रियश्चैव देवसेनाप्रियस्तथा।॥ वासुदेवप्रियश्चैव प्रिय: प्रियकृदेव तु। नामान्येतानि दिव्यानि कार्तिकेयस्य यः पठेत्। स्वर्ग कीर्तिं धनं चैव स लभेन्नात्र संशयः॥ स्तोष्यामि देवैर्ऋषिभिश्च जुष्टं शक्त्या गुहं नामभिरप्रमेयम्। षडाननं शक्तिधरं सुवीरं निबोध चैतानि कुरुप्रवी॥ ब्रह्मण्यो वै ब्रह्मजो ब्रह्मविच्च ब्रह्मेशयो ब्रह्मवतां वरिष्ठः। ब्रह्मप्रियो ब्राह्मणसव्रती त्वं ब्रह्मज्ञो वै ब्राह्मणानां च नेता॥ स्वाहा स्वधा त्वं परमं पवित्रं मन्त्रस्तुतस्त्वं प्रथितः षडर्चिः। संवत्सरस्त्वमृतवश्च घड् वै मासार्धमासावयनं दिशश्च॥ त्वं पुष्कराक्षस्त्वरविन्दवक्त्रः सहस्रवक्त्रोऽसि सहस्रबाहुः। त्वं लोकपालः परमं हविश्व त्वं भावनः सर्वसुरासुराणाम्॥ त्वमेव सेनाधिपतिः प्रचण्डः प्रभुर्विभुश्चाप्यथ शत्रुजेता। सहस्रभूस्त्वं धरणी त्वमेव सहस्रतुष्टिश्च सहस्रभुक् च॥ सहस्रशीर्षस्त्वमनन्तरूपः सहस्रपात् त्वं गुह शक्तिधारी। गङ्गासुतस्त्वं स्वमतेन देव स्वाहामहीकृत्तिकानां तथैव॥ त्वं क्रीडसे षण्मुख कुक्कुटेन यथेष्टनानाविधकामरूपी। दीक्षासि सोमो मरुतः सदैव धर्मोऽसि वायुरचलेन्द्र इन्द्रः॥ सनातनानामपि शाश्वतस्त्वं प्रभुः प्रभूणामपि चोचधन्वा। ऋतस्य कर्ता दितिजान्तकस्त्वं जेता रिपूणां प्रवरः सुराणाम्॥ सूक्ष्मं तपस्तत् परमं त्वमेव परावरज्ञोऽसि परावरस्त्वम्। धर्मस्य कामस्य परस्य चैव त्वत्तेजसा कृत्स्त्रमिदं महात्मन्॥ व्याप्तं जगत् सर्वसुरप्रवीर शक्त्या मया संस्तुत लोकनाथ। नमोऽस्तु ते द्वादशनेत्रबाहो अतः परं वेद्मि गतिं न तेऽहम्॥ स्कन्दस्य य इदं विप्रः पठेज्जन्म समाहितः। श्रावयेद् ब्राह्मणेभ्यो यः शृणुयाद् वा द्विजेरितम्॥ धनमायुर्यशो दीप्तं पुत्राञ्छत्रुजयं तथा। स पुष्टितुष्टी सम्प्राप्य स्कन्दसालोम्यमाप्नुयात्॥ वैशम्पायन उवाच भोजाः प्रव्रजिताञ्छ्रुत्वा वृष्णयश्चान्धकैः सह। पाण्डवान् दुःखसंतप्तान् समाजग्मुर्महावने॥ पाञ्चालस्य च दायादोधृष्टकेतुश्च चेदिपः। केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः॥ वने द्रष्टुं ययुः पार्थान् क्रोधामर्षसमन्विताः। गर्हयन्तोधार्तराष्ट्रान् किं कुर्म इति चाब्रुवन्॥ वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः। परिवार्योपविविशुर्धर्मराज युधिष्ठिरम्।। अभिवाद्य कुरुश्रेष्ठं विषण्णः केशवोऽब्रवीत्॥ वासुदेव उवाच दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः। दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्॥ एतान् निहत्य समरे ये च तस्य पदानुगाः। तांश्च सर्वान् विनिर्जित्य सहितान् सनराधिपान्॥ ततः सर्वेऽभिषिञ्चामोधर्मराज युधिष्ठिरम्। निकृत्योपचरन् वध्य एषधर्मः सनातनः॥ वैशम्पायन उवाच पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम्। अर्जुनः शमयामास दिधक्षन्तमिव प्रजाः॥ संक्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फाल्गुनः। कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः॥ पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः। प्रजापतिपतेविष्णोर्लोकनाथस्यधीमतः॥ अर्जुन उवाच दश वर्षसहस्राणि यत्रसायंगृहो मुनिः। व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने॥ दश वर्षसहस्राणि दश वर्षशतानि च। पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन् पुरा॥ ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन। अतिष्ठ एकपादेन वायुभक्षः शतं समाः॥ अवकृष्टोत्तरासङ्गः कृशोधमनिसंततः। आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके॥ प्रभासमप्यथासाद्य तीर्थं पुण्यजनोचितम्। तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम्॥ अतिष्ठस्त्वमथैकेन पादेन नियमस्थितः। लोकप्रवृत्तिहेतुस्त्वमिति व्यासो ममाब्रवीत्॥ क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव। निधानं तपसां कृष्णा यज्ञस्त्वं च सनातनः॥ निहत्य नरकं भौममाहत्य मणिकुण्डले। प्रथमोत्पतितं कृष्णा मेध्यमश्वमवासृजः॥ कृत्वा तत् कर्म लोकानामृषभः सर्वलोकजित्। अवधीस्त्वं रणे सर्वान् समेतान् दैत्यदानवान्॥ ततः सर्वेश्वरत्वं च सम्प्रदाय शचीपतेः। मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव॥ स त्वं नारायणो भूत्वा हरिरासीः परंतप। ब्रह्मा सोमश्च सूर्यश्चधर्मोधाता यमोऽनलः॥ वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः। अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम॥ परायणं देवमूर्धा क्रतुभिर्मधुसूदन। अयजो भूरितेजा वै कृष्ण चैत्ररथे वने॥ शतं शतसहस्राणि सुवर्णस्य जनार्दन। एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः॥ अदितेरपि पुत्रत्वमेत्य यादवनन्दन। त्वं विष्णुरिति विख्यात इन्द्रादवरजो विभुः॥ शिशुर्भूत्वा दिवं खं च पृथिवीं च परंतप। त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा॥ सम्प्राप्य दिवमाकाशमादित्यस्यन्दने स्थितः। अत्यरोचश्च भूतात्मन् भास्करं स्वेन तेजसा॥ प्रादुर्भावसहस्रेषु तेषु तेषु त्वया विभो। अधर्मरुचयः कृष्ण निहताः शतशोऽसुराः॥ सादिता मौरवाः पाशा निसुन्दनरको हतौ। कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति॥ जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह। जरासंधश्च शैब्यश्च शतधन्वा च निर्जितः॥ तथा पर्जन्यघोषेण रथेनादित्यवर्चसा। अवाप्सीमहिषीं भोज्यां रणे निर्जित्य रुक्मिणम्॥ इन्द्रद्युम्नो हतः कोपाद् यवनश्च कसेरुमान्। हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम्॥ एवमेते युधि हता भूयश्चान्याञ्छृणुष्व ह। इरावत्यां हतो भोजः कार्तवीर्यसमो युधि।॥ गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ। तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन॥ द्वारकामात्मसात् कृत्वा समुद्रं गमयिष्यसि। न क्रोधो न च मात्सर्यं नानृतं मधुसूदन। त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु॥ आसीनं चैत्यमध्ये त्वां दीप्यमानं स्वतेजसा। आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत॥ युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन। आत्मनैवात्मसात् कृत्वा जगदासीः परंतप॥ युगादौ तव वार्ष्णेय नाभिपद्मादजायत। ब्रह्मा चराचरगुरुर्यस्येदं सकलं जगत्॥ तं हन्तुमुद्यतौ घोरौ दानवौ मधुकैटभौ। तयोर्व्यतिक्रमं दृष्ट्वा क्रुद्धस्य भवतो हरेः॥ ललाटाज्जातवाञ्छम्भुः शूलपाणिस्त्रिलोचनः। इत्थं तावपि देवेशौ त्वच्छरीरसमुद्भवौ॥४० त्वन्नियोगकरावेताविति मे नारदोऽब्रवीत्। तथा नारायण पुरा क्रतुभिर्भूरिदक्षिणैः॥ इष्टवांस्त्वं महासत्रं कृष्ण चैत्ररथे वने। नैवं परे नापरे वा करिष्यन्ति कृतानि वा॥ कृतवान् पुण्डरीकाक्ष बलदेवसहायवान्। कैलासभवने चापि ब्राह्मणैर्व्यवस: सह॥ वैशम्पायन उवाच एवमुक्त्वा महात्मानमात्मा कृष्णस्य पाण्डवः। तूष्णीमासीत् ततः पार्थमित्युवाच जनार्दनः॥ ममैव त्वं तवैवाहं ये मदीयास्तवैव ते। यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु समामनु॥ नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम्। काले लोकमिमं प्राप्तौ नरनारायणावृषी॥ अनन्यः पार्थ मत्तस्तवं त्वत्तश्चाहं तथैव च। नावयोरन्तरं शक्यं वेदितुं भरतर्षभ॥ एवमुक्ते तु वैशम्पायन उवाच वचने केशवेन महात्मना। तस्मिन् वीरसमावाये संरब्धेष्वथ राजसु॥ धृष्टद्युम्नमुखैवीरैर्धातृभिः परिवारिता। पाञ्चाली पुण्डरीकाक्षमासीनं भ्रातृभिः सह। अभिगम्याब्रवीत् क्रुद्धा शरण्यं शरणैषिणी॥ द्रौपद्युवाच पूर्वे प्रजाभिसर्गे त्वामाहुरेकं प्रजापतिम्। स्रष्टारं सर्वलोकानामसितो देवलोऽब्रवीत्॥ विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन। यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत्॥ ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम। सत्याद् यज्ञोऽसि सम्भूतः कश्यपस्त्वां यथाब्रवीत्। साध्यानामपि देवानां शिवानामीश्वरेश्वर। भूतभावन भूतेश यथा त्वां नारदोऽब्रवीत्॥ ब्रह्मशंकरशक्राद्यैर्दैववृन्दैः पुनः पुनः। क्रीडसे त्वं नरव्याघ्र बालः क्रीडनकैरिव॥ द्यौश्च ते शिरसा व्याप्ता पद्भ्यां च पृथिवी प्रभो। जठरं त इमे लोकाः पुरुषोऽसि सनातनः॥ विद्यातपोऽभितप्तानां तपसा भावितात्मनाम्। आत्मदर्शनतृप्तानामृषीणामसि सत्तमः॥ राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम्। सर्वधर्मोपपन्नानां त्वं गतिः पुरुषर्षभ। त्वं प्रभुस्त्वं विभुश्च त्वं भूतात्मा त्वं विचेष्टसे॥ लोकपालाश्च लोकाच नक्षत्राणि दिशो दश। नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम्॥ मर्त्यता चैव भूतानाममरत्वं दिवौकसाम्। त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम्॥ सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन। ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः॥ कथं नु भार्या पार्थानां तव कृष्ण सखी विभो। धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी॥ स्त्रीधर्मिणी वेपमाना शोणितेन समुक्षिता। एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि॥ राज्ञां मध्ये सभायां तु रजसातिपरिप्लुता। दृष्ट्वा च मांधार्तराष्ट्रा प्राहसन् पापचेतसः॥ दासीभावेन मां भोक्तुमीषुस्ते मधुसूदन। जीवत्सु पाण्डुपुत्रेषु पञ्चालेषु च वृष्णिषु॥ नन्वहं कृष्ण भीष्मस्यधृतराष्ट्रस्य चोभयोः। स्नुषा भवामिधर्मेण साहं दासीकृता बलात्॥ गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान् महाबलान्। यत्क्लिश्यमानां प्रेक्षन्तेधर्मपत्नी यशस्विनीम्॥ धिग् बलं भीमसेनस्य धिक् पार्थस्य च गाण्डिवम्। यौ मां विप्रकृतां क्षुद्रमर्षयेतां जनार्दन॥ शाश्वतोऽयंधर्मपथः सद्भिराचरितः सदा। यद् भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि॥ भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता। प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः॥ आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत। भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे॥ नन्विमे शरणं प्राप्तं न त्यजन्ति कदाचन। ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः॥ पञ्चभिः पतिभिर्जाताः कुमारा मे महौजसः। एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन॥ प्रतिविन्ध्यो युधिष्ठिरात् सुतसोमो वृकोदरात्। अर्जुनाच्छ्रुतकीर्तिश्च शतानीकस्तु नाकुलिः॥ कनिष्ठाच्छुतकर्मा च सर्वे सत्यपराक्रमाः। प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः॥ नन्विमेधनुषि श्रेष्ठा अजेया युधि शात्रवैः। किमर्थंधार्तराष्ट्राणां सहन्ते दुर्बलीयसाम्॥ अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा। सभायां परिकृष्टाहमेकवस्त्रा रजस्वला॥ नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम्। अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन॥ धिग् बलं भीमसेनस्य धिक् पार्थस्य च पौरुषम् यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति॥ य एतानाक्षिपद् राष्ट्रात् सह मात्राविहिंसकान्। अधीयानान् पुरा बालान् व्रतस्थान् मधुसूदन॥ भोजने भीमसेनस्य पापः प्राक्षेपयद् विषम्। कालकूटं नवं तीक्ष्णं सम्भूतं लोमहर्षणम्॥ तज्जीर्णमविकारेण सहान्नेन जनार्दन। सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम॥ प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम्। बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुरमाव्रजत्॥ यदा विबुद्धः कौन्तेयस्तदा संच्छिद्य बन्धनम्। उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः॥ आशीविषैः कृष्णसीमसेनपदंशयत्। सर्वेष्वेवाङ्गदेशेषु च ममार च शत्रुहा॥ प्रतिबुद्धस्तु कौन्तेयः सर्वान् सर्पानपोथयत्। सारथिं चास्य दयितमपहस्तेन जनिवान्॥ पुनः सुप्तानुपाधाक्षीद् बालकान् वारणावते। शयानानार्यया साधु को नु तत् कर्तुमर्हति॥ यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत्। महद् व्यसनमापन्ना शिखिना परिवारिता॥ हा हतास्मि कुतोन्वद्य भवेच्छान्तिरिहानलात्। अनाथा विनशिष्यामि बालकैः पुत्रकैः सह॥ तत्र भीमो महाबाहुर्वायुवेगपराक्रमः। आर्यामाश्वासयामास भ्रातूंश्चापि वृकोदरः॥ वैनतेयो यथा पक्षी गरुत्मान् पततां वरः। तथैवाभिपतिष्यामि भयं वो नेह विद्यते॥ आर्यामथेन वामेन राजानं दक्षिणेन च। अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च॥ सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान्। भ्रातृनार्यां च बलवान् मोक्षयामास पावकात्॥ ते रात्रौ प्रस्थिताः सर्वे सह मात्रा यशस्विनः। अभ्यगच्छन्महारण्ये हिडिम्बवनमन्तिकात्॥ श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः। सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी॥ सा दृष्ट्वा पाण्डवांस्तत्र सुप्तान् मात्रा सह क्षितौ हृच्छयेनाभिभूतात्मा भीमसेनमकामयत्॥ भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततोऽबला। पर्यमर्दत् संहृष्टा कल्याणी मृदुपाणिना॥ तामबुध्यदमेयात्मा बलवान् सत्यविक्रमः। पर्यपृच्छत तां भीमः किमिहेच्छस्यनिन्दिते॥ एवमुक्ता तु भीमेन राक्षसी कामरूपिणी। भीमसेनं महात्मानमाह चैवमनिन्दित॥ पलायध्वमितः क्षिप्रं मम भ्रातैष वीर्यवान्। आगमिष्यति वो हन्तुं तस्माद् गच्छत मा चिरम्॥ अथ भीमोऽभ्युवाचैनां साभिमानमिदं वचः। नोद्धिजेयमहं तस्मानिहनिष्येऽहपागतम्॥ तयोः श्रुत्वा तु संजल्पमागच्छद् राक्षसाधमः। भीमरूपो महानादान् विसृजन् भीमदर्शनः॥ राक्षस उवाच केन सार्धं कथयसि आनयैनं ममान्तिकम्। हिडिम्बे भक्षयिष्यामो न चिरं कर्तुमर्हसि॥ सा कृपासंगृहीतेन हृदयेन मनस्विनी। नैनमैच्छत् तदाख्यातुमनुक्रोशादनिन्दिता॥ स नादान् विनदन् घोरान् राक्षस: पुरुषादकः। अभ्यद्रवत वेगेन भीमसेनं तदा किल॥ तमभिदुत्त्य संक्रुद्धो वेगेन महता बली। अगृहणात् पाणिना पाणिं भीमसेनस्य राक्षसः॥ इन्द्राशनिसमस्पर्श वज्र संहननं दृढम्। संहत्य भीमसेनाय व्याक्षिपत् सहसा करम्॥ गृहीतं पाणिना पाणि भीमसेनस्य रक्षसा। नामृष्यत महाबाहुस्तत्राक्रुध्यद् वृकोदरः॥ तदाऽऽसीत् तुमुलं युद्धं भीमसेनहिडिम्बयोः। सर्वास्त्रविदुषो?रं वृत्रवासवयोरिव॥ विक्रीड्य सुचिरं भीमो राक्षसेन सहानघ। निजघान महावीर्यस्तं तदा निर्बलं बली॥ हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह। हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः॥ ततः सम्प्राद्रवन् सर्वे सह मात्रा परंतपाः। एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः॥ प्रस्थाने व्यास एषां च मन्त्री प्रियहिते रतः। ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः॥ तत्राप्यासादयामासुर्बकं नाम महाबलम्। पुरुषादं प्रतिभयं हिडिम्बेनैव सम्मितम्॥ तं चापि विनिहत्योचं भीमः प्रहरतां वरः। सहितो भ्रातृभिः सर्दुपदस्य पुरं ययौ॥ लब्धाहमपि तत्रैव वसता सव्यसाचिना। यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा।११५॥ एवं सुयुद्धे पार्थेन जिताहं मधुसूदन। स्वयंवरे महत् कर्म कृत्वा न सुकरं परैः॥ एवं क्लेशैः सुबहुभिः क्लिश्यमाना सुदुःखिता। निवसाम्यार्यया हीना कृष्णधौम्यपुरःसरा॥ त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः। विहीनैः परिक्लिश्यन्ती समुपैक्षन्त म कथम्॥ एतादृशानि दुःखानि सहन्ती दुर्बलीयसाम्। दीर्घकालं प्रदीप्तास्मि पापानां पापकर्मणाम्॥ कुले महति जातास्मि दिव्येन विधिना किला पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः॥ कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती। पञ्चानां पाण्डुपुत्राणां प्रेक्षतां मधुसूदन॥ इत्युक्त्वा प्रारुदत् कृष्णा मुखं प्रच्छाद्य पाणिना। पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी॥ स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ। अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः॥ चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः। बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत्॥ नैव मे पतयः सन्ति न पुत्रा न च बान्धवाः। न भ्रातरो न च पिता नैव त्वं मधुसूदन॥ ये मां विप्रकृतां क्षुद्रसपेक्षध्वं विशोकवत्। न च मे शाम्यते दुःखं कर्णो यत् प्राहसत् तदा। चतुर्भिः कारणैः कृष्ण त्वया रक्ष्यास्मि नित्यशः। सम्बन्धाद् गौरवात् सख्यात् प्रभुत्वेनैव केशव॥ वैशम्पायन उवाच अथ तामब्रवीत् कृष्णस्तस्मिन् वीरसमागमे। वासुदेव उवाच रोदिष्यन्ति स्त्रियो ह्येव येषां क्रुद्धासि भाविनि। बीभत्सुशरसंच्छन्नाञ्छोणितौघपरिप्लुतान्॥ निहतान् वल्लभान् वीक्ष्य शयानान् वसुधातले। यत् समर्थं पाण्डवानां तत् करिष्यामि मा शुचः।। सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि। पतेद् द्यौर्हिमवाञ्छीर्येत् पृथिवी शकलीभवेत्॥ शुष्येत् तोयनिधिः कृष्णे न मे मोघं वचो भवेत्। तच्छ्रुत्वा द्रौपदी वाक्यं प्रतिवाक्यमथाच्युतात्॥ साचीकृतमवेक्षत् सा पाञ्चाली मध्यमं पतिम्। आबभाषे महाराज द्रौपदीमर्जुनस्तदा॥ मा रोदीः शुभताम्राक्षि यदाह मधुसूदनः। तथा तद् भविता देवि नान्यथा वरवर्णिनी॥ धृष्टद्युम्न उवाच अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम्। दुर्योधनं भीमसेनः कर्णं हन्ताधनंजयः॥ रामकृष्णौ व्यपाश्रित्य अजेयाः स्म रणे स्वसः। अपि वृत्रहणा युद्धे किं पुनधृतराष्ट्रजे॥ वैशम्पायन उवाच इत्युक्तेऽभिमुखा वीरा वासुदेवमुपास्थिताः। तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत्॥ भरद्वाज उवाच त एते धातवः पञ्च ब्रह्मा यानसृजत् पुरा। आवृता यैरिमे लोका महाभूताभिसंज्ञिताः॥ यदासृजत सहस्राणि भूतानां स महामतिः। पञ्चानामेव भूतत्वं कथं समुपपद्यते॥ भृगुरुवाच अमितानां महाशब्दो यान्ति भूतानि सम्भवम्। ततस्तेषां महाभूतशब्दोऽयमुपपद्यते॥ चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः। पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम्॥ इत्येतैः पञ्चमिर्भूतैर्युक्तं स्थावरजङ्गमम्। श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः॥ भरद्वाज उवाच पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः। स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः॥ अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः। वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः॥ न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः। न च स्पर्श विजानन्ति ते कथं पाञ्चभौतिकाः॥ अद्रवत्वादनग्नित्वादभूमित्वादवायुतः। आकाशस्याप्रमेयत्वाद् वृक्षाणां नास्ति भौतिकम्॥ भृगुरुवाच घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः। तेषां पुष्पफलव्यक्तिर्नित्यं समुपपद्यते॥ उष्मतो म्लायते पण त्वक् फलं पुष्पमेव च। म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते॥ वाय्वग्न्यशनिनिर्घोषैः फलं पुष्पं विशीर्यते। श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः॥ वल्ली वेश्यते वृक्षं सर्वतश्चैव गच्छति। न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात् पश्यन्ति पादपाः॥ पुण्यापुण्यैस्तथा गन्धैर्दू पैश्च विविधैरपि। अरोगाः पुष्पिता: सन्ति तस्माज्जिघ्रन्ति पादपाः॥ पादैः सलिलपानाच्च व्याधीनां चापि दर्शनात्। व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं दुमे॥ वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत्। तथा पवनसंयुक्तः पादैः पिबति पादपः॥ सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात्। जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते॥ तेन तज्जलमादत्तं जरयत्यग्निमारुतौ। आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते॥ जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः। प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते॥ त्वद् च मांसं तथास्थीनि मज्जा स्नायुश्च पञ्चमम्। इत्येतदिह संघातं शरीरे पृथिवीमयम्॥ तेजो ह्यग्निस्तथा क्रोधश्चक्षुरूष्मा तथैव च। अग्निर्जस्यते यश्च पञ्चाग्नेयाः शरीरिणः॥ श्रोत्रं घ्राणं तथाऽऽस्यं च हृदयं कोष्ठमेव च। आकाशात् प्राणिनामेते शरीरे पञ्च धातवः॥ श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च। इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा॥ प्राणात् प्रणीयते प्राणी व्यानाद् व्यायच्छतेतथा। गच्छत्यपानोऽधश्चैव समानो हृद्यवस्थितः॥ उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते। इत्येते वायवः पञ्च चेश्यन्तीह देहिनम्॥ भूमेर्गन्धगुणान् वेत्ति रसं चाभ्यः शरीरवान्। ज्योतिषा चक्षुषा रूपं स्पर्श वेत्ति च वाहिना॥ गन्धः स्पृशो रसो रूपं शब्दश्चात्र गुणाः स्मृताः। तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान् गुणान्॥ इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च। निर्हारी संहतः स्निग्धो रूक्षो विशद एव च॥ एवं नवविधो ज्ञेयः पार्थिवे गन्धविस्तरः। ज्योतिः पश्यति चक्षुर्त्या स्पर्श वेत्ति च वायुना॥ शब्दः स्पर्शश्च रूपं च रसञ्चापि गुणा: स्मृताः। रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृण॥ रसो बहुविधः प्रोक्त ऋषिभिः प्रथितात्मभिः। मधुरो लवणास्तिक्तः कषायोऽम्लः कटुस्तथा॥ एष पड्विधविस्तारो रसो वारिमयः स्मृतः। शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते॥ ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम्। ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽनृवृत्तवान्॥ शुक्ल: कृष्णस्तथा रक्तः पीतो नीलारुणस्तथा। कठिनश्चिक्कणः श्लक्ष्ण: पिच्छिलो मृदुदारुणः॥ एवं पोडशविस्तारो ज्योतीरूपगुणः स्मृतः। शब्दस्पर्शी च विज्ञेयौ द्विगुणो वायुरित्युत॥ वायव्यस्तु गुणः स्पर्श: स्पर्शश्च बहुधा स्मृतः। उष्णः शीत: सुखो दुःखः स्निग्धो विशद एव च॥ तथा खरो मृदु रूक्षो लघुर्गुरुतरोऽपि च। एवं द्वादशधा स्पर्शो वायव्यो गुण उच्यते॥ तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम्। तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम्॥ षड्ज ऋषभगान्धारौ मध्यमो धैवतस्तथा। पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान्॥ एष सप्तविधः प्रोक्तो गुण आकाशसम्भवः। ऐश्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु॥ मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च। यः कश्चिच्छ्रयते शब्दः प्राणिनोऽप्राणिनोऽपि वा। एतेषामेव सर्वेषां विषये सम्प्रकीर्तितः॥ एवं बहुविधाकारः शब्द आकाशसम्भवः। आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह॥ अव्याहतैश्चेतयते न वेत्ति विषमस्थितैः। आप्याय्यन्ते च ते नित्यं धातवस्तैस्तु धातुभिः॥ आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु। मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिताः॥ वैशम्पायन उवाच अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी। अभिनीततरं वाक्यं दृढवादपराक्रमः॥ दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः। स्पयमानो महातेजाः सृक्किणी परिसंलिहन्॥ अर्जुन उवाच अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम्। यत् कृत्वामानुषं कर्म त्यजेथाः श्रियमुत्तमाम्॥ शत्रून् हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम्। एवंविधं कथं सर्वं त्यजेथा बुद्धिलाघवात्॥ क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः। किमर्थं च महीपालानवधीः क्रोधमूर्छितः॥ यो ह्याजिजीविषेद् भैक्ष्यं कर्मणा नैव कस्यचित्। समारम्भान् बुभूषेत हतस्वस्तिरकिंचनः। सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः॥ कापाली नृप पापिष्ठां वृत्तिमासाद्य जीवतः। संत्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति॥ सर्वारम्भान् समुत्सृज्य हतस्वस्तिरकिंचनः। कस्मादाशंससे भक्ष्यं कर्तुं प्राकृतवत् प्रभो॥ अस्मिन् राजकुले जातो जित्वा कृत्स्नां वसुंधराम्। धर्मार्थावखिलौ हित्वा वनं मौढ्यात् प्रतिष्ठसे॥ यदीमानि हवींषीह विमथिष्यन्त्यसाधवः। भवता विप्रहीणानि प्राप्तं त्वामेव किल्बिषम्॥ आकिंचन्यं मुनीनां च इति वै नहुघोऽब्रवीत्। कृत्वा नृशंसं ह्यधने धिगस्त्वधनतामिह॥ अश्वस्तनमृषीणां हि विद्यते वेद तद् भवान्। यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते॥ धर्मं संहरते तस्य धनं हरति यस्य सः। ह्रियमाणे धने राजन् वयं कस्य क्षमेमहि॥ अभिशस्तं प्रपश्यन्ति दरिद्रं पावतः स्थितम्। दरिद्रं पातकं लोके न तच्छंसितुमर्हति॥ पतितः शोच्यते राजन् निर्धनश्चापि शोच्यते। विशेष नाधिगच्छामि पतितस्याधनस्य च॥ अर्थेभ्यो हि विवृद्धेभ्यः सम्भृतेभ्यस्ततस्ततः। क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगा:॥ अर्थाद् धर्मश्च कामश्च स्वर्गश्चैव नराधिप। प्राणयात्रापि लोकस्य विना ह्यर्थं न सिद्ध्यति॥ अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः। विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा।॥ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः। यस्यार्थाः स पुमॉल्लोके यस्यार्थाः स च पण्डितः।। अधनेनार्थकामेन नार्थः शक्यो विधित्सितुम्। अर्थरर्था निबध्यन्ते गजैरिव महागजाः॥ धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः। अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप।॥ धनात् कुलं प्रभवति धनाद् धर्म प्रवर्धते। नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम॥ नाधनो धर्मकृत्यानि यथावदनुतिष्ठति। धनाद्धि धर्मः स्त्रवति शैलादभि नदी यथा॥ यः कृशार्थः कृशगवः कृशभृत्यः कृशातिथिः। सवै राजन् कृशो नाम न शरीरकृशः कृशः॥ अवेक्षस्व यथान्यायं पश्य देवासुरं यथा। राजन् किमन्यज्जातीनां वधाद् गृद्ध्यन्ति देवताः॥ न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत्। एतावानेव वेदेषु निश्चयः कविभिः कृतः॥ अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता। सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः॥ द्रोहाद् देवैरवाप्तानि दिवि स्थानानि सर्वशः। द्रोहात् किमन्यज्ज्ञातीनां गृद्ध्यन्ते येन देवताः॥ इति देवा व्यवसिता वेदवादाश्च शाश्वताः। अधीयतेऽध्यापयन्ते यजन्ते याजयन्ति च॥ कृत्स्नं तदेव तच्छेरूयो यदप्याददतेऽन्यतः। न पश्यामोऽनपकृतं धनं किंचित् क्वचिद् वयम्॥ एवमेव हि राजानो जयन्ति पृथिवीमिमाम्। जित्वा ममेयं ब्रुवते पुत्रा इव पितुर्धनम्॥ राजर्षयोऽपि ते स्वर्यो धर्मो ह्येषां निरुच्यते। यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश॥ एवं राजकुलाद् वित्तं पृथिवीं प्रति तिष्ठति। आसीदियं दिलीपस्य नृगस्य नहुषस्य च।॥ अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता। स त्वां द्रव्यमयो यज्ञः सम्प्राप्तः सर्वदक्षिणः॥ तं चेन्न यजसे राजन् प्राप्तस्त्वं राज्यकिल्बिषम्। येषां राजाऽश्वमेधेन यजते दक्षिणावता॥ उपेत्य तस्यावभृथे पूताः सर्वे भवन्ति ते। विश्वरूपो महादेवः सर्वमेधे महामखे। जुहाव सर्वभूतानि तथैवात्मानमात्मना॥ शाश्वतोऽयं भूतिपथो नास्यान्तमनुशुश्रुम। महान् दाशरथः पन्था मा राजन् कुपथं गमः॥ वैशम्पायन उवाच इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान् नराधिपान्। शासनाद् धृराष्ट्रस्य राज्ञः शान्तनवस्य च॥ आश्रित्य धर्मराजानं सर्वलोकोऽवसत् सुखम्। पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः॥ स समं धर्मकामार्थान् सिषेवे भरतर्षभ। त्रीनिवात्मसमान् बन्धून नीतिमानिव मानयन्॥ तेषां समविभक्तानां क्षितौ देहवतामिव। बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः॥ अध्येतारं परं वेदान् प्रयोक्तारं महाध्वरे। रक्षितारं शुभाँल्लोकान् लेभिरे तं जनाधिपम्॥ अधिष्ठानवती लक्ष्मीः परायणवती मतिः। वर्धमानोऽखिलो धर्मस्तेनासीत् पृथिवीक्षिताम्॥ भ्रातृभिः सहितो राजा चतुर्भिराधिकं बभौ। प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः॥ तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे। बृहस्पतीसमा मुख्याः प्रजापतिमिवामराः॥ धर्मराजे ह्यतिप्रीत्या पूर्णचन्द्र इवामले। प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च॥ न त केवलदैवेन प्रजा भावेन रेमिरे। यद् बभूव मन:कान्तं कर्मणा स चकार तत्॥ न ह्ययुक्तं न चासत्यं नासह्यं न च वाप्रियम्। भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः॥ स हि सर्वस्य लोकस्य हितमात्मन एव च। चिकीर्षन् सुमहातेजा रेमे भरतसत्तम।॥ तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः। अवसन् पृथिवीपालांस्तापयन्तः स्वतेजसा॥ ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत्। उष्णानि कृष्ण वर्तन्तं गच्छावो यमुनां प्रति॥ सुहृज्जनवृतौ तत्र विहृत्य मधुसूदन। सायाह्ने पुनरेष्यावो रोचतां ते जनार्दना॥ वासुदेव उवाच कुन्तीमातर्ममाप्येतद् रोचते यद् वयं जले। सुहज रनवृतः पार्थ विहरेम यथासुखम्॥ वैशंपायन उवाच आमन्त्र्य तौ धर्मराजमनुज्ञाष्य च भारत। जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः॥ विहारदेशं सम्प्राप्य नानाद्रुममनुत्तमम्। गृहैरुच्चावचैयुक्तं पुरन्दरपुरोपमम्॥ भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः। माल्यैश्च विविधैर्गधैर्युक्तं वार्ष्णेयपार्थयोः॥ विवेशान्तःपुरं तूर्णं रत्नैरुच्चावचैः शुभैः। यथोपजोषं सर्वश्च जनश्चिनीड भारत॥ स्त्रियश्च विपुलश्रोण्यश्चारुपीनपयोधराः। मदस्खलितगामिन्यश्चिक्रीडुर्वामलोचनाः॥ वने काश्चिज्जले काश्चित् काश्चिद् वेश्मनु चाङ्गनाः। यथायोग्यं यथाप्रीति चिक्रीडुः पार्थकृष्णयोः॥ द्रौपदी च सुभद्रा च वासांस्याभरणानि च। प्रायच्छतां महाराज ते तु तस्मिन् मदोत्कटे॥ काश्चित् प्रहृष्टा ननृतुश्चक्रुशुश्च तथापराः। जगुश्चान्या वरस्त्रियः॥ रुरुधुश्चापरास्तत्र प्रजघ्नुश्च परस्परम्। मन्त्रयामासुरन्याश्च रहस्यानि परस्परम्॥ जहसुश्च परा नार्यो वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः। शब्देन पूर्यते हh तद् वनं सुमहर्द्धिमत्॥ तस्मिंस्तदा वर्तमाने कुरुदाशार्हनन्दनौ। समीपं जग्मतुः कंचिदुद्देशं सुमनोहरम्॥ तत्र गत्वा महात्मानौ कृष्णौ परपुरंजयौ। महार्हासनयो राजंस्ततस्तौ संनिषीदतुः॥ तत्र पूर्वव्यतीतानि विक्रान्तानीतराणि च। बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ॥ तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव। अभ्यागच्छत् तदा विप्रो वासुदेवधनंजयौ॥ बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः। हरिपिङ्गोज्जवलश्मश्रुः प्रमाणायामतः समः॥ तरुणादित्यसंकाशश्चीरवासा जटाधरः। पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव॥ उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम्। अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः॥ वैशम्पायन उवाच प्रयान्तं देवकीपुत्रं परवीररुजो दश। महारथा महाबाहुमन्वयुः शस्त्रपाणयः॥ पदातीनां सहस्रं च सादिनां च परंतप। भोज्यं च विपुलं राजन् प्रेष्याच शतशोऽपरे॥ जनमेजय उवाच कथं प्रयातो दाशार्हो महात्मा मधुसूदनः। कानि वा व्रजतस्तस्य निमित्तानि महौजसः॥ वैशम्पायन उवाच तस्य प्रयाणे यान्यासन् निमित्तानि महात्मनः। तानि मे शृणु सर्वाणि दैवान्यौत्यातिकानि च॥ अनभ्रेऽशनिनिर्घोषः सविद्युत् समजायत। अन्वगेव च पर्जन्यः प्रावर्षद् विघने भृशम्॥ प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसप्तमाः। विपरीता दिश: सर्वा न प्राज्ञायत किंचन॥ प्राज्वलन्नग्नयो राजन् पृथिवी समकम्पत। उदपानाश्च कुम्भाश्च प्रासिञ्चञ्छतशो जलम्॥ तमः संवृतमप्यासीत् सर्वं जगदिदं तथा। न दिशो नादिशो राजन् प्रज्ञायन्ते स्म रेणुना॥ प्रादुरासीन्महाञ्छब्दः खे शरीरंदृशयते। सर्वेषु राजन् देशेषु तदद्भुतमिवाभवत्॥ प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः। आरुजन् गणशो वृक्षान् परुषोऽशनिनिस्वनः॥ यत्र यत्र च वार्ष्णेयो वर्तते पथि भारत। तत्र तत्र सुखो वायुः सर्वं चासीत् प्रदक्षिणम्॥ ववर्ष पुष्पवर्षं च कमलानि च भूरिशः। समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः॥ संस्तुतो ब्राह्मणैर्गीर्भिस्तत्र तत्र सहस्रशः। अर्च्यते मधुपश्च वसुभिश्च वसुप्रदः॥ तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः। स्त्रियः पथि समागम्य सर्वभूतहिते रतम्॥ स शालिभवनं रम्यं सर्वसस्यसमाचितम्। सुखं परमर्मिष्ठमभ्यगाद् भरतर्षभ॥ पश्यन् बहुपशून् ग्रामान् रम्यान् हृदयतोषणान्। पुराणि च व्यतिक्रामन् राष्ट्राणि विविधानि च॥ नित्यं हृष्टाः सुमनसो भारतैरभिरक्षिताः। नोद्विग्नाः परचक्राणां व्यसनानामकोविदाः॥ उपप्लव्यादथागम्य जनाः पुरनिवासिनः। पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया॥ ते तु सर्वे समायान्तमग्निमिद्धमिव प्रभुम्। अर्चयामासुरर्चाहँ देशातिथिमुपस्थितम्॥ वृकस्थलं समासाद्य केशवः परवीरहा। प्रकीर्णरश्मावादित्ये व्योम्नि वै होहितायति॥ अवतीर्य रथात् तूर्णं कृत्वा शौचं यथाविधि। रथमोचनमादिश्य संध्यामुपविवेश ह॥ दारुकोऽपि हयान् मुक्त्वा परिचर्य च शास्त्रतः। मुमोच सर्वयोक्त्रादि मुक्त्वा चैतानवासृजत्॥ अभ्यतीत्य तु तत् सर्वमुवाच मधुसूदनः। युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे क्षपाम्॥ तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः। क्षणेन चान्नपानानि गुणवन्ति समार्जयन्॥ तस्मिन् ग्रामे प्रधानास्तु य आसन् ब्राह्मणा नृप। आर्याः कुलीना ह्रीमन्तो ब्राह्मी वृत्तिमनुष्ठिताः॥ तेऽभिगम्य महात्मानं हृषीकेशमरिंदमम्। पूजां चक्रुर्यथान्यायमाशीर्मङ्गसंयुताम्॥ ते पूजयित्वा दाशार्ह सर्वलोकेषु पूजितम्। न्यवेदयन्त वेश्मानि रनवन्ति महात्मने॥ तान् प्रभुः कृतमित्युक्त्वा सत्कृत्य च यथार्हतः। अभ्येत्य चैषां वेश्मानि पुनरायात् सहैव तैः॥ सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः। भुक्त्वा च सह तैः सर्वैरवसत् तां क्षपां सुखम्॥ वैशम्पायन उवाच प्रविशन्नर्जुनो राजन्नाश्रमं सत्यवादिनः। ददर्शासीनमेकान्ते मुनि सत्यवतीसुतम्॥ स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम्। अर्जुनोऽस्मीति नामास्मै निवेद्याभ्यवदत् ततः॥ स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः। आस्यतामिति होवाच प्रसन्नात्मा महामुनिः॥ तमप्रतीतमनसं निःश्वसन्तं पुनः पुनः निर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम्॥ नखकेशदशाकुम्भवारिणा किं समुक्षितः। आवीरजानुगमनं ब्राह्मणो वा हतस्त्वया॥ युद्धे पराजितो वासि गतश्रीरिव लक्ष्यसे। न त्वां प्रभिन्नं जानामि किमिदं भरतर्षभ॥ श्रोतव्यं चेन्मया पार्थ क्षिप्रमाख्यातुमर्हसि। अर्जुन उवाच यः स मेघवपुः श्रीमान् बृहत्पंकजलोचनः॥ स कृष्ण: सह रामेण त्यक्त्वा देहं दिवं गतः। (तद्वाक्यस्पर्शनालोकसुखं त्वमृतसंतिभम्। संस्मृत्य देवदेवस्य प्रमुह्याम्यमृतात्मनः॥) मौसले बृष्णिवीराणां विनाशो ब्रह्मशापजः॥ बभूव वीरान्तकरः प्रभासे लोमहर्षणः। एते शूरा महात्मानः सिंहदर्पा महाबलाः॥ भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि। गदापरिघशक्तीनां सहाः परिघबाहवः॥ त एरकाभिर्निहताः पश्य कालस्य पर्ययम्। हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम्॥ निधनं समनुप्राप्तं समासाद्येतरेतरम्। पुनः पुनर्न मृष्यामि विनाशममितौजसाम्॥ चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः। शोषणं सागरस्येव पर्वतस्येव चालनम्॥ नभसः पतनं चैव शैत्यमग्नेस्तथैव च। अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः॥ न चेह स्थातुमिच्छामि लोके कृष्णविनाकृत्। इतः कष्टतरं चान्यच्छृणु तद् वै तपोधन॥ मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः। पश्यतो वृष्णिदाराश्च मम ब्रह्मन् सहस्रशः॥ आभीरैरनुसृत्याजौ हताः पञ्चनदालयैः। धनुरादाय तत्राहं नाशकं तस्य पूरणे॥ यथा पुरा च मे वीर्यं भुजयोर्न तथाऽभवत्। अस्त्राणि मे प्रनष्टानि विविधानि महामुने॥ शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः। पुरुषश्चाप्रमेयात्मा शंखचक्रगदाधरः॥ चतुर्भुजः पीतवासाः श्यामः पद्मदलेक्षणः। यश्च याति पुरस्तान्मे रथस्य सुमहाद्युतिः॥ प्रदहन रिपुसैन्यानि न पश्याम्यहमच्युतम्। येन पूर्वं प्रदग्धानि शत्रूसैन्यानि तेजसा॥ शरैर्गाण्डीवनिर्मुक्तैरहं पश्चाच्च नाशयम्। तमपश्यन् विषीदामि घूर्णामीव च सत्तम॥ विना जनार्दनं वीरं नाहं जीवितुमुत्सहे॥ श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः। प्रणष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः॥ उपदेष्टुं मम श्रेयो भवानर्हति सत्तम। व्यास उवाच ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः॥ विनष्टाः कुरुशार्दूल न ताशोचितुमर्हसि। भवितव्यं तथा तच्च दिष्टमेतन्महात्मनाम्॥ उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम्। त्रैलोक्यमपि गोविन्दः कृत्स्नं स्थावरजङ्गमम्॥ प्रसहेदन्यथाकर्तुं कुतः शापं महात्मनाम्। रथस्य पुरतो याति यः स चक्रगदाधरः॥ तव स्नेहात् पुराणर्षिर्वासुदेवश्चतुर्भुज। कृत्वा भरावतरणं पृथिव्याः पृथुलोचनः॥ मोक्षयित्वा तनुं प्राप्तः कृष्णः स्वस्थानमुत्तमम्। त्वयापीह महत् कर्म देवानां पुरुषर्षभ॥ कृतं भीमसहायेन यमाभ्यां च महाभुज। कृतकृत्यांश्च वो मन्ये संसिद्धान् कुरुपुङ्गव॥ गमनं प्राप्तकालं व इहं श्रेयस्कर विभो। एवं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारता॥ भवन्ति भवकालेषु विपद्यन्ते विपर्यये। कालमूलमिदं सर्वं जगद्बीजं धनञ्जय॥ काल एव समादत्ते पुनरेव यदृच्छया। स एव बलवान् भूत्वा पुनर्भवति दुर्बलः॥ स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः। कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम्॥ पुनरेष्यन्ति ते हस्ते यदा कालो भविष्यति। कालो गन्तुं गतिं मुख्यां भवतामपि भारत॥ एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ। वैशम्पायन उवाच एतद् वचनमाज्ञाय व्यासस्यामिततेजसः॥ अनुज्ञातो ययौ पार्थो नगरं नागसाह्रयम्। प्रविश्य च पुरी वीरः समासाद्य युधिष्ठिरम्। आचष्ट तद् यथावृत्तं वृष्ण्यन्धककुलं प्रति॥ नारद उवाच अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम्। निशम्य लभते बुद्धिं तां लब्ध्वा सुखमेधते॥ शोकस्थानसहस्राणि भयस्थानशतानि च। दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥ तस्मादनिष्टनाशार्थमितिहासं निबोध मे। तिष्ठते चेद् वशे बुद्धिर्लभते शोकनाशनम्॥ अनिष्टसम्प्रयोगाच्च विप्रयोगात् प्रियस्य च। मनुष्या मानसैर्दुःखैर्युज्यन्ते स्वल्पबुद्धयः॥ द्रव्येषु समतीतेषु ये गुणास्तान् न चिन्तयेत्। न तानाद्रियमाणस्य स्नेहबन्धः प्रमुच्यते॥ दोषदर्शी भवेत् तत्र यत्र रागः प्रवर्तते। अनिष्टवर्धितं पश्येत् तथा क्षिप्र विरज्यते॥ नार्थो न धर्मो न यशो योऽतीतमनुशोचति। अप्यभावेन युज्येत तच्चास्य न निवर्तते।॥ गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च। सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते॥ मृतं वा यदि वा नष्टं योऽतीतमनुशोचति। दुःखेन लभते दु:खं द्वावनों प्रपद्यते॥ नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु संततिम्। सम्यक् प्रपश्यतः सर्वं नाश्रुकर्मोपपद्यते॥ दुःखोपघाते शारीरे मानसे चाप्युपस्थिते। यस्मिन् न शक्यते कर्तुं यत्नस्तन्नानुचिन्तयेत्॥ भैषज्यमेतद् दुःखस्य यदेतन्नानुचिन्तयेत्। चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते॥ प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः। एतद् विज्ञानसामर्थ्य न बालैः समतामियात्॥ अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः। आरोग्यं प्रियसंवासो गृध्येत् तत्र न पण्डितः॥ न जानपदिकं दुःखमेकः शोचितुमर्हति। अशोचन् प्रतिकुर्वीत यदि पश्येदुपक्रमम्॥ सुखाद् बहुतरं दुःखं जीविते नात्र संशयः। स्निग्धत्वं चेन्द्रियार्थेषु मोहान्मरणमप्रियम्॥ परित्यजति यो दुःखं सुखं वाप्युभयं नरः। अभ्येति ब्रह्म सोऽत्यन्तं न तं शोचन्ति पण्डिताः।१७।। त्यज्यन्ते दुःखमर्था हि पालने न च ते सुखाः। दुःखेन चाधिगम्यते नाशमेषां न चिन्तयेत्॥ अन्यामन्यां धनावस्थां प्राप्य वैशेषिकी नराः। अतृप्ता यान्ति विध्वंसं संतोषं यान्ति पण्डिता॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः। संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्॥ अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम्। तस्मात् संतोषमेवेह धनं पश्यन्ति पण्डिताः॥ निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति। स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत्॥ भूतेषु भावं संचिन्त्य ये बुद्ध्वा मनस: परम्। न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम्॥ संचिन्वानकमेवैनं कामानामवितृप्तकम्। व्याघ्रः पशुमिवासाद्य मृत्युरादाय गच्छति।॥ तथाप्युपायं सम्पश्येद् दुःखस्य परिमोक्षणम्। अशोचन् नारभेच्चैव मुक्तश्चाव्यसनी भवेत्॥ शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च। नोपभोगात् परं किंचिद् धनिनो वाधनस्य च॥ प्राक्सम्प्रयोगाद् भूतानां नास्ति दुःखं परायणम्। विप्रयोगात् तु सर्वस्य न शोचेत् प्रकृतिस्थितः॥ धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा। चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया॥ प्रणयं प्रतिसंहृत्य संस्तुतेष्वितरेषु च। विचरेदसमुन्नद्धः स सुखी स च पण्डितः॥ अध्यात्मरतिरासीनो निरपेक्षो निरामिषः। आत्मनैव सहायेन यश्चरेत् स सुखी भवेत्॥ दुर्योधन उवाच वासुदेवो महद् भूतं सर्वलोकेषु कथ्यते। तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह॥ भीष्म उवाच वासुदेवो महद् भूतं सर्वदैवतदैवतम्। न परं पुण्डरीकाक्षाद् दृश्यते भरतर्षभ॥ मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत्। सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः॥ आपो वायुश्च तेजश्च त्रयमेतदकल्पयत्। स सृष्ट्वा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः॥ अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः। सर्वतेजोमयो देवो योगात् सुष्वाप तत्र ह॥ मुखतः सोऽग्निमसृजत् प्राणाद् वायुमथापि च। सरस्वती च वेदांश्च मनसः ससृजेऽच्युतः॥ एष लोकान् ससर्जादौ देवांश्च ऋषिभिः सह। निधनं चैव मृत्युं च प्राजानां प्रभवाप्ययौ॥ एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः। एष कर्ता च कार्यं च पूर्वदेवः स्वयम्प्रभुः॥ भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत्। उभे संध्ये दिशः खं च नियमांश्च जनार्दनः॥ ऋषींश्चैव हि गोविन्दस्तपश्चैवाभ्यकल्पयत्। स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः॥ अग्रजं सर्वभूतानां संकर्षणकल्पयत्। तस्मान्नारायणो जज्ञे देवदेवः सनातनः॥ नाभौ पद्मं बभूवास्य सर्वलोकस्य सम्भवात्। तस्मात् पितामहो जातस्तस्माज्जातास्त्विमाः प्रजाः।१२। शेषं चाकल्पयद् देवमनन्तं विश्वरूपिणम्। यो धारयति भूतानि धरां चेमां सपर्वताम्॥ ध्यानयोगेन विप्राश्च तं विदन्ति महौजसम्। कर्णस्रोतोभवं चापि मधुं नाम महासुरम्॥ तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम्। ब्रह्मणोऽपचितिं कुर्वञ् जघान पुरुषोत्तमः॥ तस्य तात वधादेव देवदानवमानवाः। मधुसूदनमित्याहुर्ऋषयश्च जनार्दनम्॥ वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः। एष माता पिता चैव सर्वेषां प्राणिनां हरिः॥ परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति। मुखतः सोऽसृजद् विप्रान् बाहुभ्यां क्षत्रियांस्तथा॥ वैश्यांश्चाप्यूस्तो राजशूद्रान् वै पादतस्तथा। तपसा नियतो देवं विधानं सर्वदेहिनाम्॥ ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च। योगभूतं परिचरन् केशवं महदाप्नुयात्॥ केशवः परमं तेजः सर्वलोकपितामहः। एनमाहुर्हषीकेशं मुनयो वै नराधिप॥ एवमेनं विजानीहि आचार्यं पितरं गुरुम्। कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः॥ यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत्। सदा नरः पठंश्चेदं स्वस्तिमान् स सुखी भवेत्॥ ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः। भये महति मग्नांश्च पाति नित्यं जनार्दनः॥ स तं युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत। सर्वात्मना महात्मानं केशवं जदीश्वरम्। प्रपन्नः शरणं राजन् योगानां प्रभुमीश्वरम्॥ युधिष्ठिर उवाच भीमसेन यमौ चोभौ पाञ्चालि च निबोधत। नास्ति भूतस्य नाशो वै पश्यतास्मान् वनेचरान्॥ दुर्बला: क्लेशिताः स्मेति यद् ब्रुवामेतरेतरम्। अशक्येऽपि व्रजामो यद्धनंजयदिदृक्षया।॥ तन्मे दहति गात्राणि तूलराशिमिवानलः। यच्च वीरं न पश्यामिधनंजयमुपान्तिकात्॥ तस्य दर्शनतृष्णं मां सानुजं वनमास्थितम्। याज्ञसेन्याः परामर्श स च वीर दहत्युत॥ नकुलात् पूर्वजं पार्थं न पश्याम्यमितौजसम्। अजेयमुग्रधन्वानं तेन तप्ये वृकोदर॥ तीर्थानि चैव रम्याणि वनानि च सरांसि चा चरामि सह युष्माभिस्तस्य दर्शनकाझया।॥ पञ्चवर्षाण्यहं वीरं सत्यसंधंधनंजयम्। यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर॥ तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम्। न पश्यामि महाबाहुं तेन तप्ये वृकोदर॥ कृतास्त्रं निपुणं युद्धेऽप्रतिमानधनुष्मताम्। न पश्यामि कुरुश्रेष्ठ तेन तप्ये वृकोदर॥ चरन्तमरिसंघेषु काले क्रुद्धमिवान्तकम्। प्रभिन्नमिव मातङ्गं सिंहस्कन्धंधनंजयम्॥ यः स शक्रादनवरो वीर्येण द्रविणेन च। यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः॥ दुःखेन महताविष्टस्तं न पश्यामि फाल्गुनम्। अजेयमुग्रधन्वानं तेन तप्ये वृकोदर॥ सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा। ऋजुमार्गप्रपन्नस्य शर्मदाताभयस्य च॥ स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः। अपि वज्रधरस्यापि भवेत् कालविषोपमः॥ शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान्। दाताभयस्य बीभत्सुरमितात्मा महाबलः॥ सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता। आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः॥ रत्नानि यस्य वीर्येण दिव्यान्यासन् पुरा मम। बहूनि बहुजातीनि यानि प्राप्तः सुयोधनः॥ यस्य बाहुबलाद् वीर सभा चासीत् पुरा मम। सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव॥ वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि। अजेयममितं युद्धे तं न पश्यामि फाल्गुनम्॥ संकर्षणं महावीर्यं त्वां च भीमापराजितम्। अनुयातः स्ववीर्येण वासुदेवं च शत्रुहा।॥ यस्य बाहुबले तुल्यः प्रभावे च पुरंदरः। जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः॥ ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः। प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम्॥ विशाला बदरी यत्र नरनारायणाश्रमः। तं सदाध्युषितं यःक्ष्यामो गिरिमुत्तमम्॥ कुबेरनलिनी रम्यां राक्षसैरभिसेविताम्। पद्भिरेव गमिष्यामस्तप्यमाना महत् तपः॥ न च यानवता शक्यो गन्तुं देशो वृकोदर। न नृशंसेन लुब्धेन नाप्रशान्तेन भारत॥ तत्र सर्वे गमिष्यामो भीमार्जुनगवेषिणः। सायुधा बद्धनिस्त्रिंशाः सार्धं विप्रैर्महाव्रतैः॥ मक्षिकादंशमशकान् सिंहान् व्याघ्रान् सरीसृपान्। प्राप्नोत्यनियतः पार्थ नियतस्तान् न पश्यति॥ ते वयं नियतात्मानः पर्वतं गन्धमादनम्। प्रवेक्ष्यामो मिताहाराधनंजयदिदृक्षवः॥ युधिष्ठिर उवाच न वै निगुणमात्मानं मन्ये देवर्षिसत्तम। तथास्मि दुःखसंतप्तो यथा नान्यो महीपतिः॥ परांश्च निर्गुणान् मन्ये न चधर्मगतानपि। ते च लोमश लोकेऽस्मिन्नृध्यन्ते केन हेतुना॥ लोमश उवाच नात्र दुःखं त्वया राजन् कार्यं पार्थ कथंचन। यदधर्मेण वर्धेयुरधर्मरुचयो जनाः॥ वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति। ततः सपत्नाञ्जयति समूलस्तु विनश्यति॥ मया हि दृष्टा दैतेया दानवाश्च महीपते। वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः॥ पुरा देवयुगे चैव हृष्टं सर्वं मया विभो। अरोचयन् सुराधर्मधर्म तत्यजिरेऽसुराः॥ तीर्थानि देवा विविशु विशन् भारतासुराः। तानधर्मकृतो दर्पः पूर्वमेव समाविशत्॥ दर्पान्मानः समभवन्मानात् क्रोधो व्यजायत। क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत्॥ तानलज्जान् गतह्रीकान् हीनवृत्तान् वृथाव्रतान्। क्षमा लक्ष्मीः स्वधर्मश्च न चिरात् प्रजहुस्ततः॥ लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान् नृप। तानलक्ष्मी समाविष्टान् दर्पोपहतचेतसः॥ दैतेयान् दानवांश्चैव कलिरप्याविशत् ततः। तानलक्ष्मीसमाविष्टान् दानवान् कलिना हतान्॥ दभिभूतान् कौन्तेय क्रियाहीनानचेतसः। मानाभिभूतानचिराद् विनाशः समपद्यत॥ निर्यशस्कास्तथा दैत्याः कृत्स्नशो विलयं गताः। देवास्तु सागरांश्चैव सरितश्च सरांसि च॥ अभ्यगच्छन्धर्मशीला: पुण्यान्यायतनानि च। तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव॥ प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे। एवमादानवन्तश्च निरादानाश्च सर्वशः॥ तीर्थान्यगच्छन् विबुधास्तेनापुभूतिमुत्तमाम्। तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः॥ पुनर्वेत्स्यसि तां लक्ष्मीमेष पन्थाः सनातनः। यथेव हि नृगो राजा शिबिरौशीनरो यथा॥ भगीरथो वसुमना गयः पूरुः पुरूरवाः। चरमाणास्तपो नित्यं स्पर्शनादम्भसश्च ते॥ तीर्थाभिगमनात् पूता दर्शनाच्च महात्मनाम्। अलभन्त यशः पुण्यंधनानि च विशाम्पते॥ तथा त्वमपि राजेन्द्र लब्धासि विपुलां श्रियन्त। यथा चेक्ष्वाकुरभवत् सपुत्रजनबान्धवः॥ मुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः। कीर्ति पुण्यामविन्दन्त यथा देवास्तपोबलात्॥ देवर्षयश्च कात्स्न्येन तथा त्वमपि वेत्स्यसि। धार्तराष्ट्रास्त्वधर्मेण मोहेन च वशीकृताः। न चिराद् वै विनइक्ष्यन्ति दैत्या इव न संशयः॥ भीष्म उवाच प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिभिः। तदनन्तरमुक्तं यत् तन्निबोध युधिष्ठिर॥ क्रमशस्त्ववधूयैनां तृतीयां वृत्तिमुत्तमाम्। संयोगव्रतखिन्नानां वानप्रस्थाश्रमौकसाम्॥ श्रूयतां पुत्र भद्रं ते सर्वलोकाश्रमात्मनाम्। प्रेक्षापूर्वं प्रवृत्तानां पुण्यदेशनिवासिनाम्॥ व्यास उवाच गृहस्थस्तु यदा पश्येद् वलीपलितमात्मनः। अपत्यस्यैव चापत्यं वनमेव तदा श्रयेत्॥ तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत्। तानेवाग्नीन् परिचरेद् यजमानो दिवौकसः॥ नियतो नियताहारः षष्ठभुक्तोऽप्रमत्तवान्। तदग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः॥ अफालकृष्टं व्रीहियवं नीवारं विघसानि च। हींषि सम्प्रयच्छेत मखेष्वत्रापि पञ्चसु॥ वानप्रस्थाश्रमेऽप्येताश्चतस्रो वृत्तयः स्मृताः। सद्य:प्रक्षालकाः केचित् केचिन्मासिकसंचयाः॥ वार्षिकं संचयं केचित् केचिद् द्वादशवार्षिकम्। कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थमेव वा॥ अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः। ग्रीष्मे च पञ्च तपसः शश्वच्च मितभोजनाः॥ भूमौ विपरिवर्तन्ते तिष्ठन्ति प्रपदैरपि। स्थानासनैर्वर्तयन्ति सवनेष्वभिषिञ्चते॥ दन्तोलूखलिकाः केचिदश्मकुट्टास्तथा परे। शुक्लपक्षे पिबन्त्येके यवागू क्वथितां सकृत्॥ कृष्णपक्षे पिबन्त्यन्ये भुजते वा यथागतम्। मूलैरेके फलैरेके युष्पैरेके दृढव्रताः॥ वर्तयन्ति यथान्यायं वैखानसगतिं श्रिताः। एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम्॥ चतुर्थश्चौपनिषदो धर्म: साधारणः स्मृतः। वानप्रस्थाद् गृहस्थाच्च ततोऽन्यः सम्प्रवर्तते॥ अस्मिन्नेव युगे तात विप्रैः सर्वार्थदर्शिभिः। अगस्त्यः सप्त ऋषयो मधुच्छन्दोऽघमर्षणः॥ सांकृतिः सुदिवा तण्डियथावासोऽकृतश्रमः। अहोवीर्यस्तथा काव्यस्ताण्ड्यो मेधातिथिर्बुधः॥ बलवान् कर्णनिर्वाक: शून्यपालः कृतश्रमः। एनं धर्म कृतवन्तस्ततः स्वर्गमुपागमन॥ तात प्रत्यक्षधर्माणस्तथा यायावरा गणाः। ऋषीणामुग्रतपसां धर्मनैपुणदर्शिनाम्॥ अन्ये चापरिमेयाश्च ब्राह्मणा वनमाश्रिताः। वैखानसा वालखिल्याः सैकताश्च तथा परे॥ कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः। गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः॥ अनक्षत्रास्त्वनाधृष्या दृश्यन्ते ज्योतिषां गणाः। जरया च परिधनो व्याधिना च प्रपीडितः॥ चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत्। सद्यस्कारां निरूप्येष्टिं सर्व वेदसदक्षिणाम्॥ आत्मयाजी सोऽऽत्मरतिरात्मक्रीडात्मसंश्रयः। आत्मन्यग्नीन् समारोप्य त्यक्त्वा सर्वपरिग्रहान्॥ साधरकांश्च यजेद् यज्ञानिष्टीश्चैवेह सर्वदा। यदैव याजिनां यज्ञादात्मनीज्या प्रवर्तते।॥ त्रींश्चैवाग्नीन् यजेत् सम्यगात्मन्येवात्ममोक्षणात्। प्राणेभ्यो यजुषः पञ्च षट् प्राश्नीयादकुत्सयन्॥ केशलोमनखान् वाप्य वानप्रस्थो मुनिस्ततः। आश्रमादाश्रमं पुण्यं पूतो गच्छति कर्मभिः॥ अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद् द्विजः। लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते॥ सुशीलवृत्तो व्यपनीतकल्मषो न चेह नामुत्र च कर्तुमीहते। अरोषमोहो गतसंधिविग्रहो भवेदुदासीनवदात्मविन्नरः॥ यमेषु चैवानुगतेषु न व्यथे स्वशास्त्रसूत्राहुतिमन्त्रविक्रमः। भवेद् यथेष्टागतिरात्मवेदिनि न संशयो धर्मपरे जितेन्द्रिये।॥ रधिष्ठितं त्रीनधिवृत्तिमुत्तमम्। चतुर्थमुक्तं परमाश्रमं शृणु प्रकीर्त्यमानं परमं परायणम्॥ कुन्ती उवाच एवमेतन्महाबाहो यथा वदसि पाण्डवा कृतमुद्धर्षणं पूर्वं मया वः सीदतां नृपाः॥ द्यूतापहृतराज्यानां पतितानां सुखादपि। ज्ञातिभिः परिभूतानां कृतमुद्धर्षणं मया।॥ कथं पाण्डोर्न नश्येत संततिः पुरुषर्षभाः। यशश्च वो न नश्येत इति चोद्धर्षणं कृतम्॥ यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः। मा परेषां मुखप्रेक्षाः स्थेत्येवं तत् कृतं मया॥ कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः। पुनर्वने न दुःखी स्या इति चोद्धर्षणं कृतम्॥ नागायुतसमप्राणः ख्यातविक्रमपौरुषः। नायं भीमोऽत्ययं गच्छेदिति चौद्धर्षणं कृतम्॥ भीमसेनादवरजस्तथायं वासवोपमः। विजयो नावसीदेत इति चोद्धर्षणं कृतम्॥ नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ। क्षुधा कथं न सीदेतामिति चोद्धर्षणं कृतम्॥ इयं च बृहती श्यामा तथात्यायतलोचना। वृथा सभातले क्लिष्टा मा भूदिति च तत् कृतम्॥ प्रेक्षतामेव वो भीम वेपन्तीं कदलीमिव। स्त्रीधर्मिणीमरिष्टाङ्गी तथा द्यूतपराजिताम्॥ दुःशासनो यदा माद् दासीवत् पर्यकर्षत। तदैव विदितं मह्यं पराभूतमिदं कुलम्॥ निषण्णाः कुरवश्चैव तदा मे श्वशुरादयः। सा दैवं नाथमिच्छन्ती व्यलपत् कुररी यथा॥ केशपक्षे परामृष्टा पापेन हतबुद्धिना। यदा दुःशासनेनैषा तदा मुह्याम्यहं नृपाः॥ युष्मत्तेजोविवृद्ध्यर्थं मया हुद्धर्षणं कृतम्। तदानीं विदुलावाक्यैरिति तद् वित्त पुत्रकाः॥ कथं न राजवंशोऽयं नश्येत् प्राप्य सुतान् मम्। पाण्डोरिति मया पुत्रास्तस्मादुद्धर्षणं कृतम्॥ न तस्य पुत्राः पौत्रा वा क्षतवंशस्य पार्थिव।। लभन्ते सुकृताँल्लोकान् यस्माद् वंशः प्रणश्यति।।१६। भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा। महादानानि दत्तानि पीतः सोमो यथाविधि॥ नाहमात्मफलार्थं वै वासुदेवमचूचुदम्। विदुलायाः प्रलापैस्तैः पालनार्थं च तत् कृतम्॥ नाहं राज्यफलं पुत्राः कामये पुत्रनिर्जितम्। पतिलोकानहं पुण्यान् कामये तपसा विभो॥ श्वश्रूश्वशुरयोः कुत्वा शुश्रूषां वनवासिनोः। तपसा शोषयिष्यामि युधिष्ठिर कलेवरम्॥ निवर्तस्व कुरुश्रेष्ट भीमसेनादिभिः सह। धर्मे ते धीयतां बुद्धिर्मनस्तु महदस्तु च॥ शल्य उवाच एवमुक्तः स भगवाञ्छच्या तां पुनरब्रवीत्। विक्रमस्य न कालोऽयं नहुषो बलवत्तरः॥ विवर्धितश्च ऋषिभिर्हव्यकव्यैश्च भाविनि। नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि॥ गुह्यं चैतत् त्वया कार्यं नाख्यातव्यं शुभे क्वचित्। गत्वा नहुषमेकान्ते ब्रवीहि च सुमध्यमे॥ ऋषियानेन दिव्येन मामुपैहि जगत्पते। एवं तव वशे प्रीता भविष्यामीति तं वदा॥ इत्युक्त्वा देवराजेन पत्नी सा कमलेक्षणा। एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति॥ नहुषस्तां ततो दृष्ट्वा सस्मितो वाक्यमब्रवीत्। स्वागतं ते वरारोहे किं करोमि शुचिस्मिते॥ भक्तं मां भज कल्याणि कमिच्छसि मनस्विनि। तव कल्याणि यत् कार्यं तत् करिष्ये सुमध्यमे॥ न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वसेः। सत्येन वै शपे देवि करिष्ये वचनं तव॥ इन्द्राण्युवाच यो मे कृतस्त्वया कालस्तमाकाङ्क्षे जगत्पते। ततस्त्वमेव भर्ता मे भविष्यसि सुराधिप॥ कार्यं च हृदि मे यत् तद् देवराजावधारय। वक्ष्यामि यदि मे राजन् प्रियमेतत् करिष्यसि॥ वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव। इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा॥ इच्छाम्यहमथापूर्वं वाहनं ते सुराधिप। यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम्॥ वहन्तु त्वां महाभागा ऋषयः संगता विभो। सर्वे शिबिकया राजन्नेतद्धि मम रोचते॥ नासुरेषु न देवेषु तुल्यो भवितुमर्हसि। सर्वेषा तेज आदत्से स्वेन वीर्येण दर्शनात्। न ते प्रमुखतः स्थातुं कश्चिच्छक्नोति वीर्यवान्॥ शल्य उवाच एवमुक्तस्तु नहुषः प्राहृष्यत् तदा किल। उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम्॥ नहुष उवाच अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि। दृढं मे रुचितं देवि त्वद्वशोऽस्मि वरानने॥ न ह्यल्पवीर्यो भवति यो वाहान् कुरुते मुनीन्। अहं तपस्वी बलवान् भूतभव्यभवत्प्रभुः॥ मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम्। देवदानवगन्धर्वाः किन्नरोरगराक्षसाः॥ न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते। चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम्॥ तस्मात् ते वचनं देवि करिष्यामि न संशयः। सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा। पश्य महात्म्ययोगं मे ऋद्धिं च वरवर्णिनि॥ शल्य उवाच एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम्। विमाने योजयित्वा च ऋषीन् नियममास्थितान्॥ अब्रह्मण्यो बलोपेतो मत्तो मदबलेन च। कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन्॥ नहुषेण विसृष्टा च बृहस्पतिमथाब्रवीत्। समयोऽल्पावशेषो मे नहुषेणेह यः कृतः॥ शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम्। बाढमित्येव भगवान् बृहस्पतिरुवाच ताम्॥ न भेतव्य त्वया देवि नहुषाद् दुष्टचेतसः। न होष स्थास्यति चिरं गत एष नराधमः॥ अधर्मज्ञो महर्षीणां वाहनाच्च ततः शुभे। इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः॥ शक्रं चाधिगमिष्यामि मा भैस्त्वं भद्रमस्तु ते। ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः॥ बृहस्तपतिर्महातेजा देवराजोपलब्धये। हुत्वाग्निं सोऽब्रवीद् राजञ्छक्रमन्विष्यतामिति॥ तस्माच्च भगवान् देवः स्वयमेव हुताशनः। स्त्रीवेषमद्भुतं कृत्वा तत्रैवान्तरधीयत॥ स दिशः प्रदिशश्चैव पर्वतानि वनानि च। पृथिवीं चान्तरिक्षं च विचिन्त्याथ मनोगतिः। निमेषान्तरमात्रेण बृहस्पतिमुपागमत्॥ अग्निरुवाच बृहस्पते न पश्यामि देवराजमिह क्वचित्। आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम्॥ न मे तत्र गतिर्ब्रह्मन् किमन्यत् करवाणि ते! तमब्रवीद् देवगुरुरपो विश महायुते॥ अग्निरुवाच नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति। शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेऽस्तु महाद्युते॥ अद्भयोऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्। तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति॥ जनमेजय उवाच एवं हृतायां भार्यायां प्राप्य क्लेशमनुत्तमम्। प्रतिपद्य ततः कृष्णां किमकुर्वत पाण्डवाः॥ वैशम्पायन उवाच एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्। विहाय काम्यकं राजा सह भ्रातृभिरच्युतः॥ पुनद्वैतवनं रम्यमाजगाम युधिष्ठिरः। स्वादुमूलफलं रम्यं विचित्रबहुपादपम्॥ अनुभुक्तफलाहाराः सर्व एव मिताशनाः। न्यवसन् पाण्डवास्तत्र कृष्णया सह भार्यया॥ वसन् द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः। भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ॥ ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः। क्लेशमार्छन्त विपुलं सुखोदक परंतपाः॥ तस्मिन् प्रतिवसन्तस्ते यत् प्रापुः कुरुसत्तमाः। वने क्लेशं सुखोदकं तत् प्रवक्ष्यामि ते शृणु॥ अरणीसहितं मन्थं ब्राह्मणस्य तपस्विनः। घर्षमाणस्य विषाणे विषाणे समसज्जतः॥ तदादाय गतो राजंस्त्वरमाणो महामृगः। आश्रमान्तरितः शीघ्रं प्लवमानो महाजवः॥ ह्रियमाणं तु तं दृष्ट्वा स विप्रः कुरुसत्तम। त्वरितोऽभ्यागमत् तत्र अग्निहोत्रपरीप्सया॥ मृगस्य घर्षमाणस्य अजातशत्रुमासीनं भ्रातृभिः सहितं वने। आगम्य ब्राह्मणस्तूर्णं संतप्तश्चेदमब्रवीत्॥ अरणीसहितं मन्यं समासक्तं वनस्पतौ। मृगस्य घर्षमाणस्य विषाणे समसज्जत॥ तमादाय गतो राजंस्त्वरमाणो महामृगः। आश्रमात् त्वरितः शीघ्रं प्लवमानो महाजवः॥ तस्य गत्वा पदं राजन्नासाद्य च महामृगम्। अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः॥ ब्राह्मणस्य वचः श्रुत्वा संतप्तोऽथ युधिष्ठिरः। धनुरादाय कौन्तेयः प्राद्रवद् भ्रातृभिः सह॥ सन्नद्धा धन्विनः सर्वे प्राद्रवन् नरपुङ्गवाः। ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन् मृगम्॥ कर्णिनालीकनाराचानुत्सृजन्तो महारथाः। नाविध्यन् पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात्॥ तेषां प्रयतमानानां नादृश्यत महामृगः। अपश्यन्तो मृगं शान्ता दुःखं प्राप्ता मनस्विनः॥ शीतलच्छायमागम्य न्यचोधं गहने वने। क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन्॥ तेषां समुपविष्टानां नकुलो दुःखितस्तदा। अब्रवीद् भ्रातरं श्रेष्ठममर्षात् कुरुनन्दनम्॥ नास्मिन् कुले जातु ममज्ज धर्मो न चालस्यादर्थलोपो बभूव। अनुत्तराः सर्वभूतेषु भूयः सम्प्राप्ताः स्मः संशयं किं नु राजन्॥ व्यास उवाच द्वन्द्वानि मोक्षजिज्ञासुरर्थधर्मावनुष्ठितः। वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत्॥ आकाशं मारुतो ज्योतिरापः पृथ्वी च पञ्चमी। भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु॥ अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम्। तस्य शब्दं गुणं विद्यान्मूर्तिशास्त्रविधानवित्॥ चरणं मारुतोत्मेति प्राणापानौ च तन्मयौ। स्पर्शनं चेन्द्रियं विद्यात् तथा स्पर्श च तन्मयम्॥ ताप: पाकः प्रकाशश्च ज्योतिश्चक्षुश्च पञ्चमम्। तस्य रूपं गुणं विद्यात् ताम्रगौरासितात्मकम्॥ प्रक्लेदः क्षुद्रता स्नेह इत्यपामुपदिश्यते। असृङ्मज्जा च यच्चान्यत् स्निग्धं विद्यात् तदात्मकम्॥६ रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः। संघातः पार्थिवो धातुरस्थिदन्तनखानि च।॥ श्मश्रु रोम च केशाश्च शिरा स्नायु च चर्म च। इन्द्रियं घ्राणसंज्ञातं नासिकेत्यभिसंज्ञिता॥ गन्धश्चेवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः। उत्तरेषु गुणाः सन्ति सर्वसत्त्वेषु चोत्तराः॥ पञ्चानां भूतसंघानां संततिं मुनयो विदुः। मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता॥ एकादशस्त्वनन्तात्मा स सर्वः पर उच्यते। व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम्। कर्मानुमानाद् विज्ञेयः स जीवः क्षेत्रसंज्ञकः॥ एभिः कालात्मकैर्भावैर्यः सर्वैः सर्वमन्वितम्। पश्यत्यकलुषं कर्म स मोहं नानुवर्तते॥ युधिष्ठिर उवाच किमुत्तरं तदा तौ स्म चक्रतुस्तस्य भाषिते। ब्राह्मणो वाथवा राजा तन्मे ब्रूहि पितामह॥ अथवा तौ गतौ तत्र यदेतत् कीर्तितं त्वया। संवादो वा तयोः कोऽभूत् किं वा तौ तत्र चक्रतुः॥ भीष्म उवाच तथेत्येवं प्रतिश्रुत्य धर्मं सम्पूज्य च प्रभो। यमं कालं च मृत्युं च स्वर्ग सम्पूज्य चार्हतः॥ पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः। सर्वान् सम्पूज्य शिरसा राजानं सोऽब्रवीद् द्विजः॥ फलेनानेन संयुक्तो राजर्षे गच्छ मुख्यताम्। भवता चाभ्यनुज्ञातो जपेयं भूय एव ह॥ वरच मम पूर्वं हि दत्तो देव्या महाबला श्रद्धा ते जपतो नित्यं भवत्विति विशाम्पते॥ राजोवाच यद्येवमफला सिद्धिः श्रद्धा च जपितुं तव। गच्छ विप्र मया साधु जापकं फलमाप्नुहि॥ ब्राह्मण उवाच कृतः प्रयत्नः सुमहान् सर्वेषां संनिधाविह। सह तुल्यफलावावां गच्छावो यत्र नौ गतिः॥ भीष्म उवाच व्यवसायं तयोस्तत्र विदित्वा त्रिदशेश्वरः। सह देवैरुपययौ लोकपालैस्तथैव च॥ साध्याश्च विश्वे मरुतो वाद्यानि सुमहान्ति च। नद्यः शैला: समुद्राश्च तीर्थानि विविधानि च।॥ तपांसि संयोगविधिर्वेदाः स्तोभाः सरस्वती। नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः॥ गन्धर्वश्चित्रसेनश्च परिवारगणैर्युतः। नागाः सिद्धाश्च मुनयो देवदेवः प्रजापतिः॥ विष्णुः सहस्रशीर्षश्च देवोऽचिन्त्यः समागमत्। अवाद्यन्तान्तरिक्षे च भेर्यस्तूर्याणि वा विभो॥ पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्नाम्। ननृतुश्चाप्सरःसंघास्तत्र तत्र समन्ततः॥ अथ स्वर्गस्तथा रूपी ब्राह्मणं वाक्यमब्रवीत्। संसिद्धस्त्वं महाभाग त्वं च सिद्धस्तथा नृप॥ अथ तौ सहितौ राजन्नन्योन्यविधिना ततः। विषयप्रतिसंहारमुभावेव प्रचक्रतुः।।१६ प्राणापानौ तथोदानं समानं व्यानमेव च। एवं तौ मनसि स्थाप्य दधतुः प्राणयोर्मनः॥ उपस्थितकृतौ तौ च नासिकाग्रमधो भ्रुवोः। भृकुट्या चैव मनसा शनैर्धारयतस्तदा॥ निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ। जितात्मानौ तथाऽऽधाय मूर्धन्यात्मानमेव च॥ तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः। ज्योतिर्चाला सुमहती जगाम त्रिदिवं तदा॥ हाहाकारस्तथा दिक्षु सर्वेषां सुमहानभूत्। तज्ज्योतिः स्तूयमानं स्म ब्राह्मणं प्राविशत् तदा॥ ततः स्वागतमित्याह तत् तेजः प्रपितामहः। प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशाम्पते॥ भूयश्चैवापरं प्राह वचनं मधुर तदा। जापकैस्तुल्यफलता योगानां नात्र संशयः॥ योगस्य तावदेतेभ्यः प्रत्यक्षं फलदर्शनम्। जापकानां विशिष्टं तु प्रत्युत्थानं समाहितम्॥ उष्यतां मयि चेत्युक्त्वाचेतयत् सततं पुनः। अथास्यं प्रविवेशास्य ब्राह्मणो विगतज्वरः॥ राजाप्येतेन विधिना भगवन्तं पितामहम्। यथैव द्विजशार्दूलस्तथैव प्राविशत् तदा॥ स्वयम्भुवमथो देवा अभिवाद्य ततोऽब्रुवन्। जापकानां विशिष्टं तु प्रत्युत्थानं समाहितम्॥ जापकार्थमयं यत्नो यदर्थं वयमागताः। कृतपूजाविमौ तुल्यौ त्वया तुल्यफलाविमौ॥ योगजापकयोदृष्टं फलं सुमहदद्य वै। सर्वा ल्लोकानतिक्रम्य गच्छेतां यत्र वाञ्छितम्॥ ब्रह्मोवाच महास्मृतिं पठेद् यस्तु तथैवानुस्मृतिं शुभाम्। तावप्येतेन विधिना गच्छेतां मत्सलोकताम्॥ यश्च योगे भवेद् भक्तः सोऽपि नास्त्यत्र संशयः। विधिनानेन देहान्ते मम लोकानवाप्नुयात्। साधये गम्यतां चैव यथास्थानानि सिद्धये॥ भीष्म उवाच इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयता आमन्त्र्य च ततो देवा ययुः स्वं स्वं निवेशनम्॥ ते च सर्वे महात्मानो धर्म सत्कृत्य तत्र वै। पृष्ठतोऽनुययू राजन् सर्वे सुप्रीतचेतसः॥ एतत् फलं जापकानां गतिश्चैषा प्रकीर्तिता। यथाश्रुतं महाराज किं भूयः श्रोतुमिच्छसि॥ वैशम्पायन उवाच गते तस्मिन् हरिवरे भीमोऽपि बलिनां वरः। तेन मार्गेण विपुलं व्यचरद् गन्धमादनम्॥ अनुस्मरन् वपुस्तस्य श्रियं चाप्रतिमां भुवि। माहात्म्यमनुभावं च स्मरन् दाशरथेर्ययौ॥ स तानि रमणीयानि वान्युपवनानि च। विलोकयामास तदा सौगन्धिकवनेप्सया॥ फुल्लद्रुमविचित्राणि सरांसि सरितस्तथा। नानाकुसुमचित्राणि पुष्पितानि वनानि च॥ मत्तवारणयूथानि पङ्कक्लिन्नानि भारत। वर्षतामिव मेघानां वृन्दानि ददृशे तदा॥ हरिणैश्चपलापाङ्गैर्हरिणीसहितैर्वनम्। सशष्पकवलैः श्रीमान् पथि दृष्ट्वा द्रुतं ययौ॥ महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम्। व्यपेतभीर्गिरि शौर्याद् भीमसेनो व्यगाहत॥ कुसुमानन्तगन्धैश्च ताम्रपल्लवकोमलैः।। याच्यमान इवारण्ये दुमैर्मारुतकम्पितैः॥ कृतपद्माञ्जलिपुटा मत्तषट् पदसेविताः। प्रियतीर्थवना मार्गे पद्मिनी: समतिक्रम॥ मज्ज्मानमनोदृष्टिः फुल्लेषु गिरिसानुषु। द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ॥ परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने। काञ्चनैर्विमलैः पौर्ददर्श विपुलां नदीम्॥ हंसकारण्डवयुतां चक्रवाकोपशोभिताम्। रचितामिव तस्याद्रेर्मालां विमलापङ्कजाम्॥ तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत्। अपश्यत् प्रीतिजननं बालार्कसदृशद्युति॥ तद् दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः। वनवासपरिक्लिष्टां जगाम मनसा प्रियाम्॥ लोमश उवाच द्रष्टारः पर्वताः सर्वे नद्यः सपुरकाननाः। तीर्थानि चैव श्रीमन्ति स्पृष्टं च सलिल करैः॥ पर्वतं मन्दरं दिव्यमेष पन्थाः प्रयास्यति। समाहिता निरुद्विग्नाः सर्वे भवत पाण्डवाः॥ अयं देवनिवासो वै गन्तव्यो वो भविष्यति। ऋषीणां चैव दिव्यानां निवासः पुण्यकर्मणाम॥ एषा शिवजला पुण्या याति सौम्य महानदी। बदरीप्रभवा राजन् देवर्षिगणसेविता॥ एषा वैहायसैनित्यं बालखिल्यैर्महात्मभिः। अर्चिता चोपयाता च गन्धर्वैश्च महात्मभिः॥ अत्र साम स्म गायन्ति सामगाः पुण्यनि:स्वनाः। मरीचिः पुलहश्चैव भृगुश्चैवाङ्गिरास्तथा॥ अत्राछिकं सुरश्रेष्ठो जपते समरुद्गणः। साध्याश्चैवाश्विनौ चैव परिधावन्ति तं तदा॥ चन्द्रमाः सह सूर्येण ज्योतीषि च ग्रहैः सह। अहोरात्रविभागेन नदीमेनामनुव्रजन्॥ एतस्याः सलिलं मूर्ध्नि वृषाङ्कः पर्यधारयत्। गङ्गाद्वारे महाभाग येन लोकस्थितिर्भवेत्॥ एतां भगवती देवीं भवन्तः सर्व एव हि। प्रयतेनात्मना तात प्रतिगम्याभिवादत॥ तस्य तद् वचनं श्रुत्वा लोमशस्य महात्मनः। आकाशगङ्गां प्रयताः पाण्डवास्तेऽभ्यवादयन्॥ अभिवाद्य च ते सर्वे पाण्डवाधर्मचारिणः। पुनः प्रयाताः संहृष्टाः सर्वैर्ऋषिगणैः सह॥ ततो दूरात् प्रकाशन्तं पाण्डुरं मेरुसंनिभम्। ददृशुस्ते नरश्रेष्ठा विकीर्णं सर्वतोदिशम्॥ तान् प्रष्टुकामान् विज्ञाय पाण्डवान् स तु लोमशः। उवाच वाक्यं वाक्यज्ञः शृणुध्वं पाण्डुनन्दनाः॥ एतद् बिकीर्णं सुश्रीमत् कैलासशिखरोपमम्। यत् पश्यसि नरश्रेष्ठ पर्वतप्रतिमं स्थितम्॥ एतान्यस्थीनि दैत्यस्य नरकस्य महात्मनः। पर्वतप्रतिमं भाति पर्वतप्रस्तराश्रितम्॥ पुरातनेन देवेन विष्णुना परमात्मना। दैत्यो विनिहतस्तेन सुरराजहितैषिणा॥ दशवर्षसहस्राणि तपस्तप्यन् महामनाः। ऐन्द्रं प्रार्थयते स्थानं तप:स्वाध्यायविक्रमात्॥ तपोबलेन महता बाहुवेगबलेन च। नित्यमेव दुराधर्षोधर्षयन् स दितेः सुतः॥ स तु तस्य बलं ज्ञात्वाधर्मे च चरितव्रतम्। भयाभिभूतः संविग्नः शक्र आसीत् तदानघ॥ तेन संचिन्तितो देवो मनसा विष्णुरव्ययः। सर्वत्रगः प्रभुः श्रीमानागतश्च स्थितौ बभौ॥ ऋषयश्चापि तं सर्वे तुष्टुवुश्च दिवौकसः। तं दृष्ट्वा ज्वलमानश्रीभगवान् हव्यवाहनः॥ नष्टतेजाः समभवत् तस्य तेजोऽभिभर्त्सितः। तं दृष्ट्वा वरदं देवं विष्णुं देवगणेश्वरम्॥ प्राञ्जलिः प्रणतो भूत्वा नमस्कृत्य च वज्रभृत्। प्राह वाक्यं ततस्तत्त्वं यतस्तस्य भयं भवेत्॥ विष्णुरुवाच जानामि ते भयं शक्र दैत्येन्द्रान्नरकात् ततः। ऐन्द्रं प्रार्थयते स्थानं तप:सिद्धेन कर्मणा॥ सोऽहमेनं तव प्रीत्या तप:सिद्धमपिध्रुवम्। वियुनज्मि देहाद् देवेन्द्र मुहूर्त प्रतिपालय॥ तस्य विष्णुर्महातेजाः पाणिना चेतनां हरत्। स पपात ततो भूमौ गिरिराज इवाहतः॥ तस्यैतदस्थिसंघातं मायाविनिहतस्य वै। इदं द्वितीयमपरं विष्णोः कर्म प्रकाशते॥ नष्टा वसुमती कृत्स्ना पाताले चैव मज्जिता। पुनरुद्धरिता तेन वाराहेणैकङ्गिणा॥ युधिष्ठिर उवाच भगवन् विस्तरेणेमां कथां कथय तत्त्वतः। कथं तेन सुरेशेन नष्टा वसुमती तदा॥ योजनानां शतं ब्रह्मन् पुनरुद्धरिता तदा। केन चैव प्रकारेण जगतोधरणीध्रुवा॥ शिवा देवी महाभागा सर्वसस्यप्ररोहिणी। कस्य चैव प्रभावाद्धि योजनानां शतं गता॥ केन तद् वीर्यसर्वस्वं दर्शितं परमात्मनः। एतत् सर्वं यथातत्त्वमिच्छामि द्विजसत्तम। श्रोतुं विस्तरशः सर्वं त्वं हि तस्य प्रतिश्रयः॥ लोमश उवाच यत् तेऽहं परिपृष्टोऽस्मि कथामेतां युधिष्ठिर। तत् सर्वमखिलेनेह श्रूयतां मम भाषतः॥ पुरा कृतयुगे तात वर्तमाने भयंकरे। यमत्वं कारयामास आदिदेवः पुरातनः॥ यमत्वं कुर्वतस्तस्य देवदेवस्यधीमतः। न तत्र म्रियते कश्चिज्जायते वा तथाप्युत॥ वर्धन्ते पक्षिसंघाश्च तथा पशुगवेडकम्। गवांश्वं च मृगाश्चैव सर्वे ते पिशिताशनाः॥ तथा पुरुषशार्दूल मानुषाश्च परंतप। सहस्रशो ह्ययुतशो वर्धन्ते सलिलं यथा।॥ एतस्मिन् संकुले तात वर्तमाने भयंकरे। अतिभाराद् बसुमती योजनानां शतं गता॥ सा वै व्यथतसर्वाङ्गी भारेणाक्रान्तचेतना। नारायणं वरं देवं प्रपन्ना शरणं गता॥ पृथिव्युवाच भगवंस्त्वत्प्रसादाद्धि तिष्ठेयं सुचिरं त्विह। भारेणास्मि समाक्रान्ता न शक्नोमि स्म वर्तिमुम्॥ ममेमं भगवन् भारं व्यपनेतुं त्वमर्हसि। शरणागतास्मि ते देव प्रसादं कुरु मे विभो॥ तस्यास्तद् वचनं श्रुत्वा भगवानक्षरः प्रभुः। प्रोवाच वचनं हृष्टः श्रव्याक्षरसमीरितम्॥ विष्णुरुवाच न ते महि भयं कार्यं भारार्ते वसुधारिणि। अहमेवं तथा कुर्मि यथा लघ्वी भविष्यसि॥ लोमश उवाच स तां विसर्जयित्वा तु वसुधां शैलकुण्डलाम्। ततो वराहः संवृत्त एकशृङ्गो महाद्युतिः॥ रक्ताभ्यां नयनाभ्यां तु भयमुत्पादयन्निव। धूमं च ज्वलयल्ल्क्ष्म्या तत्र देशे व्यवर्धत॥ स गृहीत्वा वसुमती शृङ्गेणेकेन भास्वता। योजनानां शतं वीर समुद्धरति सोऽक्षरः॥ तस्यां चोद्धार्यमाणायां संक्षोभः समजायत। देवाः संक्षुभिताः सर्वे ऋषयश्च तपोधनाः॥ हाहाभूतमभूत् सर्वं त्रिदिवं व्योम भूस्तदा। न पर्य वस्थितः कश्चिद् देवो वा मानुषोऽपि वा॥ ततो ब्राह्मणामासीनं ज्वलमानमिव श्रिया। देवाः सर्षिगणाश्चैव उपतस्थुरनेकशः॥ उपसर्प्य च देवेशं ब्रह्माणं लोकसाक्षिकम्। भूत्वा प्राञ्जलयः सर्वे वाक्यमुच्चारयंस्तदा।॥ लोकाः संक्षुभिताः सर्वे व्याकुलं च चराचरम्। समुद्राणां च संक्षोभस्त्रिदशेश प्रकाशते।॥ सैषा वसुमती कृत्स्ना योजनानां शतं गता। किमेतद् किं प्रभावेण येनेदं व्याकुलं जगत्। आख्यातु नो भवाशीघ्रं विसंज्ञाः स्मेह सर्वशः॥ ब्रह्मोवाच असुरेभ्यो भयं नास्ति युष्माकं कुत्रचित् क्वचित्। श्रूयतां यत्कृतेष्वेष संक्षोभो जायतेऽमराः॥ योऽसौ सर्वत्रगः श्रीमानक्षरात्मा व्यवस्थितः। तस्य प्रभावात् संक्षोभस्त्रिदिवस्य प्रकाशते॥ यैषा वसुमती कृत्स्ना योजनानां शतं गता। समुद्धता पुनस्तेन विष्णुना परमात्मना।॥ तस्यामुद्धार्यमाणायां संक्षोभः समजायत। एवं भवन्तो जानन्तु छिद्यतां संशयश्च वः॥ देवा ऊचुः क्व तद् भूतं वसुमती समुद्धरति हृष्टवत्। तं देशं भगवन् ब्रूहि तत्र यास्यामहे वयम्॥ ब्रह्मोवाच हन्त गच्छत भद्रं वो नन्दने पश्यत स्थितम्। एषोऽत्र भगवाश्रीमान् सुपर्णः सम्प्रकाशते॥ वाराहेणैव रूपेण भगवॉल्लोकभावनः। कालानल इवाभाति पृथिवीतलमुद्धरम्॥ एतस्योरसि सुव्यक्तं श्रीवत्समभिराजते। पश्यध्वं विबुधाः सर्वे भूतमेतदनामयम्॥ लोमश उवाच ततो दृष्ट्वा महात्मानं श्रुत्वा चामन्त्र्य चामराः। पितामहं पुरस्कृत्य जग्मुर्देवा यथागतम्॥ वैशम्पायन उवाच श्रुत्वा तु तां कथां सर्वे पाण्डवा जनमेजय। लोमशादेशितेनाशु पथा जग्मुः प्रहृष्टवत्॥ शौनक उवाच यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः। पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद॥ सौतिकवाच शृणु ब्रह्मन्यथापृच्छन्मन्त्रिणो नृपतिस्तदा। यथा चाख्यातवन्तस्ते निधनं तत्परीक्षितः॥ जनमेजय उवाच जानन्ति स्म भवन्तस्तद्यथा वृत्तं पितुर्मम। आसीद्यथा स निधनं गतः काले महायशाः॥ श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः। कल्याणं प्रतिपत्स्यामि विपरीतं न जातुचित्॥ सौतिरुवाच मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना। सर्वे धर्मविदः प्राज्ञा राजानं जनमेजयम्॥ मन्त्रिणः ऊचुः शृणु पार्थिव यद्भषे पितुस्तव महात्मनः। चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश्च सः॥ धर्मात्मा च महात्मा च प्रजापाल: पिता तव। आसीदिह यथावृत्तः स महात्मा शृणुष्व तत्॥ चातुर्वर्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत। धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव॥ ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः। द्वेष्टारस्तस्य नैवासन्स च द्वेष्टि न कंचन॥ समः सर्वेषु भूतेषु प्रजापतिरिवाभवत्। ब्राह्मणः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु॥ स्थिताः सुमनसो राजंस्तेन राज्ञा स्वधिष्ठिताः। विधवानाथविकलान्कृपणांश्च बभार सः॥ सुदर्शः सर्वभूतानामासीत्सोम इवापरः। तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः॥ धनुर्वेद तु शिष्योऽभून्नृपः शारद्वतस्य सः। गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय॥ लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः। परिक्षीणेषु कुरुषु सोत्तरायामजीजनत्॥ परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली। राजधर्मार्थकुशलो युक्तः सर्वगुणैर्वृतः॥ जितेन्द्रियश्चात्मवांश्च मेधावी धर्मसेविता। षड्वर्गजिन्महाबुद्धिर्नीतिशास्त्रविदुत्तमः॥ प्रजा इमास्तव पिता षष्टिवर्षाण्यपालयत्। ततो दिष्टान्तमापन्नः सर्वेषां दुःखमावहन्॥ ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान्। इदं वर्षसहस्राणि राज्यं कुरुकुलागतम्। बाल एवाभिषिक्तस्त्वं सर्वभूतानुपालकः॥ जनमेजय उवाच नास्मिन्कुले जातु बभूव राजा यो न प्रजानां प्रियकृत्प्रियश्च। विशेषतः प्रेक्ष्य पितामहानां वृत्तं महद्वृत्तपरायणानाम्॥ कथं निधनमापन्नः पिता मम तथाविधः। आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः॥ सांतिरुवाच एवं संचोदिता राज्ञा मन्त्रिणस्ते नराधिपम्। ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहितैषिणः॥ मन्त्रिणः ऊचुः स राजा पृथिवीपालः सर्वशस्त्रभृतां वरः। बभूव मृगयाशीलस्तव राजन् पिता सदा॥ यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि। अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः॥ स कदाचिद्वनगतो मृगं विव्याध पत्रिणा। विद्धवा चान्वसरतूर्णं तं मृगं गहने वने॥ पदातिबद्धनिस्त्रिंशस्ततायुधकलापवान्। न चाससाद गहने मृगं नष्टं पिता तव॥ परिश्रान्तो वयस्थश्च षष्टिवर्षो जरान्वितः। क्षुधितः स महारण्ये ददर्श मुनिसत्तमम्॥ स तं पप्रच्छ राजेन्द्रो मुनि मौनव्रते स्थितम्। न च किंचिदुवाचेदं पृष्टोऽपि स मुनिस्तदा॥ ततो राजा क्षुच्छ्रमार्तस्तं मुनि स्थाणुवस्थितम्। मौनव्रतधरं शान्तं सद्यो मन्युवशंगतः॥ न बुबोध च तं राजा मौनव्रतधरं मुनिम्। स तं क्रोधसमाविष्टो धर्षयामास ते पिता॥ मृतं सर्प धनुष्कोट्या समुत्क्षिप्य धरातलात्। तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम॥ न चोवाच स मेधावी तमथो साध्वसाधु वा। तस्थौ तथैव चाक्रुद्धः सर्प स्कन्धेन धारयन्॥ संजय उवाच एवं दुर्योधने राजन् गर्जमाने मुहुर्मुहुः। युधिष्ठिरस्य संक्रुद्धो वासुदेवोऽब्रवीदिदम्॥ यदि नाम ह्ययं युद्धे वरयेत् त्वां युधिष्ठिर। अर्जुनं नकुलं चैव सहदेवमथापि वा॥ किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम्। एकमेव निहत्याजौ भव राजा कुरुष्विति॥ न समर्थानहं मन्ये गदाहस्तस्य संयुगे। एतेन हि कृता योग्या वर्षाणीह त्रयोदश॥ आयसे पुरुषे राजन् भीमसेनजिघांसया। कथं नाम भवेत् कार्यमस्याभिर्भरतर्षभ॥ साहसं कृतवास्त्वं तु ह्यनुक्रोशानृपोत्तम। नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे॥ ऋते वृकोदरात् पार्थात् स च नातिकृतश्रमः। तदिदं द्यूतमारब्धं पुनरेव यथा पुरा॥ विषमं शकुंनेश्चैव तव चैव विशाम्पते। बली भीमः समर्थश्च कृती राजा सुयोधनः॥ बलवान् वा कृती वेति कृती राजन् विशिष्यते। सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः॥ न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम्। को नु सर्वान विनिर्जित्य शत्रूनेकेन वैरिणा॥ कृच्छप्राप्तेन च तथा हारयेद् राज्यमागतम्। पणित्वा चैकपाणेन रोचयेदेवमाहवम्॥ न हि पश्यामि तं लोके योऽद्य दुर्योधनं रणे। गदाहस्तं विजेतुं वै शक्तः स्यादमरोऽपि हि॥ न त्वं भीमो न नकुलः सहदेवोऽथ फाल्गुनः। जेतुं न्यायेन शक्तोः वै कृती राजा सुयोधनः॥ स कथं वदसे शत्रु युध्यस्व गदयेति हि। एकं च नो निहत्याजौ भव राजेति भारत॥ वृकोदरं समासाद्य संशयो वै जये हि नः। न्यायतो युध्यमानानां कृती ह्येष महाबलः॥ एकं वास्मान् निहत्य त्वं भव राजेति वै पुनः। नूनं न राज्यभागेषा पाण्डोः कुन्त्याश्च संततिः॥ अत्यन्तवनवासाय सृष्टा भैक्ष्याय वा पुनः। भीमसेन उवाच मधुसूदन मा कार्षीर्विषादं यदुनन्दन॥ अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम्। अहं सुयोधनं संख्ये हनिष्यामि न संशयः॥ विजयो वै ध्रुवः कृष्ण धर्मराजस्य दृश्यते। अध्यर्धेन गुणेनेयं गदा गुरुतरी मम॥ न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम्। अहमेनं हि गदया संयुगे योद्धमुत्सहे॥ भवन्तः प्रेक्षकाः सर्वे मम सन्तु जनार्दन। सामरानपि लोकांस्त्रीन् नानाशस्त्रधरान् युधि॥ योधयेयं रणे कृष्ण किमुताद्य सुयोधनम्। संजय उवाच तथा सम्भाषमाणं तु वासुदेवों वृकोदरम्॥ हृष्टः सम्पूजयामास वचनं चेदमब्रवीत्। त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः॥ निहतारिः स्वकां दीप्ता श्रियं प्राप्तो न संशयः। त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे॥ राजानो राजपुत्राश्च नागाश्च विनिपातिताः। कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा॥ त्वामासाद्य महायुद्धे निहतः पाण्डुनन्दन। हत्वा दुर्योधन चापि प्रयच्छोर्वी ससागराम्॥ धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः। त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनडक्ष्यति॥ त्वमस्य सक्थिनी भक्त्वा प्रतिज्ञा पालयिष्यसि। ततस्तु सात्यकी यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः॥ कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा। राजन् पूजयामास पाण्डवम्॥ पञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः। तद् वचो भीमसेनस्य सर्व एवाभ्यपूजयन्॥ ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत्। संजयैः सह तिष्ठन्तं तपन्तमिव भास्करम्॥ अहमेतेन संगम्य संयुगे योद्धमुत्सहे। न हि शक्तो रणे जेतुं मामेष पुरुषाधमः॥ अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम्। सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः॥ शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम्। निहत्य गदया पापमद्य राजन् सुखी भव॥ अद्य कीर्तिमयीं माला प्रतिमोक्ष्ये तवानघ। प्राणाश्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः॥ राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम्। स्मरिष्यत्यशुभं कर्म यत् तच्छकुनिबुद्धिजम्॥ इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान्। उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन्॥ तदाह्वानममृष्यन् वै तव पुत्रोऽतिवीर्यवान्। प्रत्युपस्थित एवाशु मत्तो मत्तमिव द्विपम्॥ गदाहस्त तव सुतं युद्धाय समुपस्थितम्। ददृशुः पाण्डवाः सर्वे कैलासमिव शृङ्गिणम्॥ तमेकाकिनमासाद्य धार्तराष्ट्र महाबलम्। वियूथमिव मातङ्गं समहष्यन्त पाण्डवाः॥ न सम्भ्रमो न च भयं न च ग्लानिन च व्यथा। आसीद् दुर्योधनस्यापि स्थितः सिंह इवाहवे॥ समुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्। भीमसेनस्तदा राजन् दुर्योधनमथाब्रवीत्॥ राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत् कृतम्। स्मर तद् दृष्कृतं कर्म यद् भूतं वारणावते॥ द्रौपदी च परिकिष्टा सभामध्ये रजस्वला। द्यूते यद् विजितो राजा शकुनेबुद्धिनिश्चयात्॥ यानि चान्यानि दुष्टात्मन् पापानि कृतवानसि। अनाग:सु च पार्थेषु तस्य पश्य महत् फलम्॥ त्वकृते निहतः शेते शरतल्पे महायशाः। गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः॥ हतो द्रोणश्च कर्णश्च हतः शल्यः प्रतापवान्। वैरस्त चादिकर्ताऽसौ शकुनिनिहतो रणे॥ भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः। राजानश्च हताः शूराः समरेष्वनिवर्तिनः॥ एते चान्ये च निहता बहवः क्षत्रियर्षभाः। प्रातिकामी तथा पापो द्रौपद्याः केशकृद्धतः॥ अवशिष्टस्त्वमेवैकः कुलमोऽधमपूरुषः। त्वामप्यद्य हनिष्यामि गदया नात्र संशयः॥ अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप। राज्याशां विपुला राजन् पाण्डवेषु च दुष्कृतम्॥ दुर्योधन उवाच किं कत्थितेन बहुना युद्ध्यस्वाद्य मया सह। अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर॥ किं न पश्यमि मां पाप गदायुद्धे व्यवस्थितम्। हिमवच्छिखराकारां प्रगृह्य महतीं गदाम्॥ गदिनं कोऽध मां पाप हन्तुमुत्सहते रिपुः। न्यायतो युद्ध्यमानश्च देवेष्वपि पुरन्दरः॥ मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम्। दर्शयस्व बलं युद्धे यावत् तत् तेऽद्य विद्यते॥ तस्य तद् वचन् श्रुत्वा पाण्डवाः सहसंजयाः। सर्वे सम्पूजयामासुस्तद्वचो विजिगीषवः॥ उन्मत्तमिव मातङ्गं तलशब्देन मानवाः। भूयः सहर्षयामासू राजन् दुर्योधनं नृपम्॥ बृंहन्ति कुञ्जरास्तत्र हया द्वेषन्ति चासकृत्। शस्त्राणि सम्प्रदीप्यन्ते पाण्डवानां जयैषिणाम्॥ वैशम्पायन उवाच धनंजयोत्सुकानां तु भ्रातृणां कृष्णया सह। श्रुत्वा वाक्यानि विमनाधर्मराजोऽप्यजायत्॥ अथापश्यन्महात्मानं देवर्षि तत्र नारदम्। दीप्यमानं श्रिया ब्राह्मया हुतार्चिषमिवानलम्॥ तमागतमभिप्रेक्ष्य भ्रातृभिः सहधर्मराट्। प्रत्युत्थाय यथान्यायं पूजां चक्रे महात्मने॥ स तैः परिवृतः श्रीमान् भ्रातृभिः कुरुसत्तमः। विबभावतिदीप्तौजा देवैरिव शतक्रतुः॥ यथा च वेदान् सावित्री याज्ञसेनी तथा पतीन्। न जहौधर्मतः पार्थान् मेरुमर्कप्रभा यथा॥ प्रतिगृह्य च तां पूजां नारदो भगवानृषिः। आश्वासयद् धर्मसुतं युक्तरूपमिवानघ॥ उवाच च महात्मानंधर्मराज युधिष्ठिरम्। ब्रूहिधर्मभृतां श्रेष्ठ केनार्थः किं ददानि ते॥ अथधर्मसुता राजा प्रणम्य भ्रातृभिः सह। उवाच प्राञ्जलिर्भूत्वा नारदं देवसम्मितम्॥ त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते। कृतमित्येव मन्येऽहं प्रसादात् तव सुव्रत॥ यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ। संदेहं मे मुनिश्रेष्ठ तत्त्वतश्छेत्तुमर्हसि॥ प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः। किं फलं तस्य कात्स्येन तद्भवान् वक्तुमर्हति॥ नारद उवाच शृणु राजन्नवहितो यथा भीष्मेणधीमता। पुलस्त्यस्य सकाशाद् वै सर्वमेतदुपश्रुतम्॥ पुरा भागीरथीतीरे भीष्मोधर्मभृतां वरः। पित्र्यं व्रतं समास्थाय न्यवसन्मुनिभिः सह॥ शुभे देशे तथा राजन् पुण्ये देवर्षिसेविते। गङ्गाद्वारे महाभाग देवगन्धर्वसेविते॥ स पितॄस्तर्पयामास देवांश्च परमद्युतिः। ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा॥ कस्यचित् त्वथ कालस्य जपन्नेव महायशाः। ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमाम्॥ स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया। प्रहर्षमतुलं लेभे विस्मयं परमं ययौ॥ उपस्थितं महाभागं पूजयामास भारता भीष्मोधर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा॥ शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः। नाम संकीर्तयामास तस्मिन् ब्रह्मर्षिसत्तमे॥ भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत। तव संदर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः॥ एवमुक्त्वा महाराज भीष्मोधर्मभृतां परः। वाग्यतः प्राञ्जलिर्भूत्वा तृष्णीमासीद् युधिष्ठिर॥ तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम्। भीष्मं कुरुकुलश्रेष्ठ मुनिः प्रीतमनाभवत्॥ गालव उवाच महावीर्यो महीपाल: काशीनामीश्वरः प्रभुः। दिवोदास इति ख्यातो भैमसेनिनराधिपः॥ तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः। धार्मिकः संयमे युक्तः सत्ये चैव जनेश्वरः॥ नारद उवाच तमुपागम्य स मुनिया॑यतस्तेन सत्कृतः। गालव: प्रसवस्यार्थं तं नृपं प्रत्यचोदयत्॥ दिवोदास उवाच श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज। काक्षितो हि मयैषोऽर्थः श्रुत्वैव द्विजसत्तम॥ एतच्च मे बहुमतं यदुत्सृज्य नराधिपान्। मामेवमुपयातोऽसि भावि चैतदसंशयम्॥ स एव विभवोऽस्माकमश्वानामपि गालव। अहमेप्येकमेवास्यां जनयिष्यामि पार्थिवम्॥ तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात् कन्यां महीपतेः। विधिपूर्वां च तां राजा कन्यां प्रतिगृहीतवान्॥ रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः। स्वाहायां च यथा वह्निर्यथा शच्यां च वासवः॥ यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः। वरुणश्च यथा गौर्यां यथा चा धनेश्वरः॥ यथा नारायणो लक्ष्यां जाह्रव्यां च यथोदधिः। यथा रुद्रश्च रुद्राण्यां यता वेद्यां पितामहः॥ अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया। च्यवनश्च सुकन्यायां पुलस्त्यः संध्यया यथा॥ अगस्त्यश्चापि वैद( सावित्र्यां सत्यवान् यथा। यथा भृगुः पुलोमायामदित्यां कश्यपो यथा।॥ रेणुकायां यथाऽऽर्चीको हैमवत्यां च कौशिकः। बृहस्पतिश्च तारायां शुक्रश्च शतपर्वणा॥ यथा भूम्यां भूमिपतिसर्वश्यां च पुरूरवाः। ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः॥ शकुन्तलायां दुष्यन्तो धृत्यां धर्मश्च शाश्वतः। दमयन्त्यां नलश्चैव सत्यवत्यां च नारदः॥ जरत्कारुर्जरत्कार्वां पुलस्त्यश्च प्रतीच्यया। मेनकायां यथोर्णायुस्तुम्बुस्श्चैव रम्भया॥ वासुकिः शतशीर्षायां कुमार्यां च धनंजयः। वैदेह्यां च यथा रामो रुक्मिण्यां च जनार्दनः॥ तथा तु रममाणस्य दिवोदासस्य भूपतेः। माधवी जनयामास पुत्रमेकं प्रतर्दनम्॥ अथाजगाम भगवान् दिवोदासं स गालवः। समये समनुप्राप्ते वचनं चेदमब्रवीत्॥ निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः। यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते॥ दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम्। कन्यां निर्यातयामास स्थितः सत्ये महीपतिः॥ बृहन्नलोवाच यन्मां पूर्वमिहापृच्छः शत्रुसेनापहारिणम्। गाण्डीवमेतत् पार्थस्य लोकेषु विदितं धनुः॥ सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम्। एतत् तदर्जुनस्यासीद् गाण्डीवं परमायुधम्॥ यत् तच्छतसहस्रेण सम्मितं राष्ट्रवर्द्धनम्। येन देवान् मनुष्यांश्च पार्थो विजयते मृधे॥ चित्रमुच्चावचैवर्णैः श्लक्ष्णमायतमव्रणम्। देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः॥ एतद् वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत्। ततोऽनन्तरमेवाथ प्रजापतिरधारयत्॥ त्रीणि पञ्चशतं चैव शक्रोऽशीति च पञ्च च। सोमः पञ्चशतं राजा तथैव वरुणः शतम्। पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः॥ महावीर्यं महादिव्यमेतत् तद् धनुरुत्तमम्। एतत् पार्थमनुप्राप्तं वरुणाच्चारुदर्शनम्॥ पूजितं सुरमत्र्येषु बिभर्ति परमं वपुः। सुपार्श्व भीमसेनस्य जातरूपग्रहं धनुः। येन पार्थोऽजयत् कृत्स्नां दिशं प्राची परंतपः॥ इन्द्रगोपकचित्रं च यदेतच्चारुदर्शनम्। राज्ञो युधिष्ठिरस्यैतद् वैराटे धनुरुत्तमम्॥ सूर्या यस्मिंस्तु सौवर्णाः प्रकाशन्ते प्रकाशिनः। तेजसा प्रज्वलन्तो वै नकुलस्यैतदायुधम्॥ शलभा यत्र सौवर्णास्तपनीय विचित्रिताः। एतन्माद्रीसुतस्यापि सहदेवस्य कार्मुकम्॥ ये त्विमे क्षुरसंकाशाः सहस्रा लोमवाहिनः। एतेऽर्जुनस्य वैराटे शराः सर्पविषोपमाः॥ एते ज्वलन्तः संग्रामे तेजसा शीघ्रगामिनः। भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून्।॥ ये चेमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः। एते भीमस्य निशिता रिपुक्षयकराः शराः॥ हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः। नकुलस्य कलापोऽयं पञ्चशार्दूललक्षणः॥ येनासौ व्यजयत् कृत्स्ना प्रतीची दिशमाहवे। कलापो ह्येष तस्यासीन्माद्रीपुत्रस्य धीमतः॥ ये त्विमे भास्कराकाराः सर्वपारसवाः शराः। एते चित्रक्रियोपेताः : सहदेवस्य धीमतः॥ ये त्विमे निशिताः पीताः पृथवो दीघवाससः। हेमपुङ्खास्त्रिपर्वाणो राज्ञ एते महाशराः॥ यस्त्वयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः। अर्जुनस्यैष संग्रामे गुरुभारसहो दृढः॥ वैयाघ्रकोशः सुमहान् भीमसेनस्य सायकः। गुरुभारसहो दिव्यः शात्रवाणां भयंकरः॥ सुफलचित्रकोशश्च हेमत्सरुरनुत्तमः। निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः॥ यस्तु पाञ्चनखे कोशे निहिताश्चित्रयोधने। नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः॥ यस्त्वयं विपुलः खड्गो गव्ये कोशे समर्पितः सहदेवस्य विद्ध्येनं सर्वभारसहं दृढम्॥ जनमेजय उवाच उत्तङ्कस्य वरं दत्त्वा गोविन्दो द्विजसत्तम। अत ऊर्ध्वं महाबाहुः किं चकार महायशाः॥ वैशम्पायन उवाच उत्तङ्कस्य वरं दत्त्वा प्रायात् सात्यकिना सह। द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः॥ सरांसि सरितश्चैव वनानि च गिरीस्तथा। अतिक्रम्याससादाथ रम्यां द्वारवतीं पुरीम्॥ वर्तमाने महाराज महे रैवतकस्य च। उपायात् पुण्डरीकाक्षो युयुधानानुपस्तदा॥ अलंकृतस्तु स गिरि नारूपैर्विचित्रितैः। बभौ रत्नमयैः कोशैः संवृतः पुरुषर्षभ॥ काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च। वासोभिश्च महाशैलः कल्पवृक्षैस्तथैव च॥ दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः। गुहानिर्झरदेशेषु दिवाभूतो बभूव ह॥ पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः। पुम्भिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत्॥ अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव। मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत॥ गायतां पर्वतेन्द्रस्य दिवस्पृगिव निःस्वनः। प्रमत्तमत्त सम्मत्तक्ष्वेडितोत्क्रुष्टसंकुलः॥ तथा किलकिलाशब्दैर्भूधरोऽभून्मनोहरः। विपणापणवान् रम्यो भक्ष्यभोज्यविहारवान्॥ वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान्। सुरामैरैयमिश्रेण भक्ष्यभोज्येन चैव ह॥ दीनान्धकृपणादिभ्यो दीयमानेन चानिशम्। बभौ परमकल्याणो महस्तस्य महागिरेः॥ पुण्यावसथवान् वीर पुण्यकृद्भिर्निषेवितः। विहारो वृष्णिवीराणां महे रैवतकस्य ह॥ स नगो वेश्मसंकीर्णो देवलोक इवाबभौ। तदा च कृष्ण सांनिध्यमासाद्य भरतर्षभ॥ शक्रसद्मप्रतीकाशो बभूव स हि शैलराट्। ततः सम्पूज्यमानः स विवेश भवनं शुभम्॥ गोविन्दः सात्यकिश्चैव जगाम भवनं स्वकम्। विवेश च प्रहृष्टात्मा चिरकालप्रवासतः॥ कृत्वा नसुकरं कर्म दानवेष्विव वासवः। उपायान्तं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तथा।॥ अभ्यगच्छन् महात्मानं देवा इव शतक्रतुम्। स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा। अभ्यवादयत प्रीतः पितरं मातरं तदा॥ ताभ्यां स सम्परिष्वक्तः सान्त्वितश्च महाभुजः। उपोपविष्टैः सर्वैस्तैर्वृष्णिभिः परिवारितः॥ स विश्रान्तो महातेजाः कृतपादावनेजनः। कथयामास तत्सर्वं पृष्टः पित्रा महाहवम्॥ वैशम्पायन उवाच ततो दुर्योधनो राजा सर्वाः प्रकृतयः शनैः। अर्थमानप्रदानाभ्यां संजहार सहानुजः॥ धृतराष्ट्रप्रयुक्तास्ते केचित् कुशलमन्त्रिणः। कथयांचक्रिरे रम्यं नगरं वारणावतम्॥ अयं समाजः सुमहान् रमणीयतमो भुवि। उपस्थितः पशुपतेनगरे वारणावते॥ सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे। इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः॥ कथ्यमाने तथा रम्ये नगरे वारणावते। गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नुप॥ यदा त्वमन्यत नृपो जातकौतूहला इति। उवाचैतानेत्य तदा पाण्डवानम्बिकासुतः॥ ममैते पुरुषा नित्यं कथयन्ति पुनः पुनः। रमणीयतमं लोके नगरं वारणावतम्॥ ते ताता यदि मन्यध्वमुत्सवं वारणावते। सगणाः सान्वयाश्चैव विहरध्वं यथामराः॥ ब्राह्मणेभ्यश्च रत्नानि गायकेभ्यश्च सर्वशः। प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः॥ कंचित् कालं विहृत्यैवमनुभूय परां मुदम्। इदं वै हास्तिनपुरं सुखिनः पुनरेष्यत॥ वैशम्पायन उवाच धृतराष्ट्रस्य तं काममनुबुध्य युधिष्ठिरः। आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम्॥ ततो भीष्मं शान्तनवं विदुरं च महामतिम्। द्रोणं च बाह्निकं चैव सोमदत्तं च कौरवम्॥ कृपमाचार्यपुत्रं च भूरिश्रवसमेव च। मान्यानन्यानमात्यांश्च ब्राह्मणांश्च तपोधनान्॥ पुरोहितांश्च पौरांश्च गान्धारी च यशस्विनीम्। युधिष्ठिरः शनैर्दीन उवाचेदं वचस्तदा॥ रमणीये जनाकीर्णे नगरे वारणावते। सगणास्तत्र यास्यामो धृतराष्ट्रस्य शासनात्॥ प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत। आशीभिबृंहितानस्मान् न पापं प्रसहिष्यते॥ एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः। प्रसन्नवदना भूत्वा तेऽन्ववर्तन्त पाण्डवान्॥ स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः। मा च वोऽस्त्वशुभं किंचित् सर्वशः पाण्डुनन्दनाः।१८। ततः कृतस्वस्त्ययना राज्यलम्भाय पार्थिवाः। कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम्॥ नारद उवाच बन्धुत्वादथवा सख्याच्छाल्मले नात्र संशयः। पालयत्येव सततं भीमः सर्वत्रगोऽनिलः॥ न्यग्भावं परमं वायोः शाल्मले त्वमुपागतः। तवाहमस्मीति सदा येन रक्षति मारुतः॥ न तं पश्याम्यहं वृक्षं पर्वतं वेश्म चेदृशम्। यं न वायुबलाद् भग्नं पृथिव्यामिति मे मतिः॥ त्वं पुनः कारणैनं रक्ष्यसे शाल्मले यथा। वायुना सपरीवारस्तेन तिष्ठस्यसंशयम्॥ शाल्मलिरुवाच न मे वायुः सखा ब्रह्मन्न बन्धुर्न च सुहृत्। परमेष्ठी तथा नैव येन रक्षति वानिलः॥ मे मम तेजो बलं भीमं वायोरपि हि नारद। कलामष्टादशी प्राणैर्न मे प्राप्नोति मारुतः॥ आगच्छन् परुषो वायुर्मया विष्टम्भितो बलात्। भञ्जन् दुमान् पर्वतांश्च यच्चान्यदपि किंचन॥ स मया बहुशो भग्नः प्रभञ्जन् वै प्रभञ्जनः। तस्मान्न बिभ्ये देवर्षे क्रुद्धादपि समीरणात्॥ नारद उवाच शाल्मले विपरीतं ते दर्शनं नात्र संशयः। न हि वायोर्बलेनास्ति भूतं तुल्यबलं क्वचित्॥ इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः। नैतेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते॥ यच्च किंचिदिह प्राणी चेष्टते शाल्मले भुवि। सर्वत्र भगवान् वायुश्चेष्टाप्राणकरः प्रभुः॥ एष चेश्यते सम्यक् प्राणिनः सम्यगायतः। असम्यगायतो भूयश्चेष्टते विकृतं नृषु॥ स त्वमेवंविधं वायुं सर्वसत्त्वभृतां वरम्। न पूजयसि पूज्यं तं किमन्यद् बुद्धिलाघवात्॥ असारश्चापि दुर्मेधाः केवलं बहु भाषसे। क्रोधादिभिरवच्छन्नो मिथ्या वदसि शाल्मले॥ मम रोषः समुत्पन्नस्त्वय्येवं सम्प्रभाषति। ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु॥ चन्दनैः स्यन्दनैः शालैः सरलैर्देवदारुभिः। वेतसैर्धन्वनैश्चापि ये चान्ये बलवत्तराः॥ तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः। तेऽपि जानन्ति वायोश्च बलमात्मन एव च॥ तस्मात् तं वै नमस्यन्ति श्वसनं तरुसत्तमाः। त्वं तु मोहान्न जानीषे वायोर्बलमनन्तकम्। एवं तस्माद् गमिष्यामि सकाशं मातरिश्वनः॥ वैशम्पायन उवाच प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम्। जनाश्चापि महेष्वासं तुष्टुवू राजसत्तम॥ लाजैश्चन्दनचूर्णैश्च विकीर्य च जनास्ततः। ऊचुर्दिष्ट्या नृपाविघ्नः समाप्तोऽयं क्रतुस्तव॥ अपरे त्वब्रुवंस्तत्र वातिकास्तं महीपतिम्। युधिष्ठिरस्य यज्ञेन न समो ह्येष ते क्रतुः॥ नैव तस्य क्रतोरेष कलामर्हति षोडशीम्। एवं तत्रानुवन् केचिद् वातिकास्तं जनेश्वरम्॥ सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः। ययातिनहुषश्चापि मान्धाता भरतस्तथा॥ क्रतुमेनं समाहत्य पूताः सर्वे दिवं गताः। एता वाचः शुभाः शृण्वन् सुहृदां भरतर्षभ॥ प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः। अभिवाद्य ततः पादौ मातापित्रोविशाम्पते।॥ भीष्मद्रोणकृपादीनां विदुरस्य च धीमतः। अभिवादितः कनीयोभिर्धातृभिर्धातनन्दनः॥ निषसादासने मुख्य भ्रातृभिः परिवारितः। तमुत्थाय पहाराजं सूतपुत्रोऽब्रवीद् वचः॥ दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः। हतेषु युधि पार्थेषु राजसूये तथा त्वया॥ आहतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः। तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः॥ सत्यमेतत् त्वयोक्तं हि पाण्डवेषु दुरात्मसु। निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ॥ राजसूये पुनर्वीर त्वमेवं वर्धयिष्यसि। एवमुक्त्वा महाराज कर्णमाश्लिष्य भारत।॥ राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः। सोऽब्रवीत् कौरवांश्चापि पार्श्वस्थान् नृपसत्तमः॥ कदा तु तं क्रतुवरं राजसूयं महाधनम्। निहत्य पाण्डवान् सर्वानाहरिष्यामि कौरवाः॥ तमब्रवीत् तदा कर्णः शृणु मे राजकुञ्जर। पादौ न धावये तावद् यावन्न निहतोऽर्जुनः॥ कीलालजं न खादेयं करिष्ये चासुरव्रतम्। नास्तीति नैव वक्ष्यामि याचितो येन केनचित्॥ अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः। प्रतिज्ञाते फाल्गुनस्य वधे कर्णेन संयुगे॥ विजितांश्चाप्यमन्यन्त पाण्डवान् धृतराष्ट्रजाः। दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुङ्गवान्॥ प्रविवेश गृहं श्रीमान् यथा चैत्ररथं प्रभुः। तेऽपि सर्वे महेष्वासा जग्मुर्वेश्मानि भारत॥ पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः। चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित्॥ भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता। प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति॥ एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप। अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम्॥ अनुस्मरंश्च संक्लेशान् न शान्तिमुपयाति सः। तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः॥ बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम्। धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुन्धराम्॥ भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा। सङ्गम्य सूतपुत्रेण कर्णेनाहवशोभिना॥ दुर्योधन: प्रिये नित्यं वर्तमानो महीभृताम्। पूजयामास विप्रेन्द्रान् क्रतुभिर्भूरिदक्षिणैः॥ भ्रातृणां च प्रियं राजन् स चकार परंतपः। निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम्॥ शल्य उवाच ततः शक्रः स्तूयमानो गन्धर्वप्सरसां गणैः। ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम्॥ पावकः सुमहातेजा महर्षिश्च बृहस्पतिः। यमश्च वरुणश्चैव कुबेश्च धनेश्वरः॥ सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः। गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः॥ स समेत्य महेन्द्राण्या देवराजः शतक्रतुः। मुदा परमया युक्तः पालयामास देवराट्॥ ततः स भगवांस्तत्र अङ्गिराः समदृश्यता अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत्॥ ततस्तु भगवानिन्द्रः संहृष्टः समपद्यत। वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा॥ अथर्वाङ्गिरसो नाम वेदोऽस्मिन् वै भविष्यति। उदाहरणमेतद्धि यक्षभागं च लप्स्यसे॥ एवं सम्पूज्य भगवानथर्वाङ्गिरसं तदा। व्यसर्जयन्महाराज देवराजः शतक्रतुः॥ सम्पूज्य सर्वास्त्रिदशानृषीश्चापि तपोधनान्। इन्द्रः प्रमुदितो राजन् धर्मेणापालयत् प्रजाः॥ एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया। अज्ञातवासश्च कृतः शत्रूणां वधकाझ्या॥ नात्र मन्युस्त्वया कार्यो यत् क्लिष्टोऽसि महावने। द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः॥ एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारता वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन॥ दुराचारश्च नहुषो ब्रह्मविट् पापचेतनः। अगस्त्यशापाभिहतो विनष्टः शाश्वती: समाः॥ एवं तव दुरात्मानः शत्रवः शत्रुसूदन्। क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः॥ ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम्। भ्रातृभिः सहितो वीर द्रौपद्या च सहानया॥ उपाख्यानमिदं शक्रविजयं वेदसम्मितम्। राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता॥ तस्मात् संश्रावयामि त्वां विजयं जयतां वर। संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर॥ क्षत्रियाणामभावोऽयं युधिष्ठिर महात्मनाम्। दुर्योधनापराधेन भीमार्जुनबलेन च॥ आख्यानमिन्द्रविजयं य इदं नियतः पठेत्। धूतपाप्मा जितस्वर्गः परत्रेह च मोदते॥ न चारिजं भयं तस्य नापुत्रो वा भवेन्नरः। नापदं प्राप्नुयात् कांचिदं दीर्घमायुश्च विन्दति। सर्वत्र जयमाप्नोति न कदाचित् पराजयम्॥ वैशम्पायन उवाच एवमाश्वासितो राजा शल्येन भरतर्षभ। पूजयामास विधिवच्छल्यं धर्मभृतां वरः॥ श्रुत्वा तु शल्यवचनं कुन्तीपुत्रो युधिष्ठिरः। प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः॥ भवान् कर्णस्य सारथ्यं करिष्यति न संशयः। तत्र तेजोवधः कार्यः कर्णस्यार्जुनसंस्तवः॥ शल्य उवाच एवमेतत् करिष्यामि यथा मां सम्प्रभाषसे। यच्चान्यदपि शक्ष्यामि तत् करिष्याम्यहं तव।॥ वैशम्पायन उवाच ततस्त्वामन्त्र्य कौन्तेयाञ्छल्यो मद्राधिपस्तदा। जगाम सबलः श्रीमान् दुर्योधनमरिंदम॥ संजय उवाच तमब्रवीद वासुदेवो रथस्थो राधेय दिष्ट्या स्मरसीह धर्मम्। प्रायेण नीचा व्यमनेषु मग्ना निन्दति दैवं कुकृतं न तु स्वम्॥ मानाययेस्त्वं च सुयोधनश्च। दुःशासनः शकुनिः सौबलश्च न ते कर्ण प्रत्यभात्तत्र धर्म:॥ यदा सभायां राजानमनक्षज्ञं युधिष्ठिरम्। अजैषीच्छकुनि नात् क्व ते धर्मस्तदा गतः॥ वनवासे व्यतीते च कर्ण वर्षे त्रयोदशे। न प्रयच्छसि यद् राज्यं क्व ते धर्मस्तदा गतः॥ यद् भीमसेनंन सपैश्च विषयुक्तैश्च भोजनैः। आचरत् त्वन्मते राजा क्व ते धर्मस्तदा गतः॥ यद् वारणावते पार्थान सुप्ताञ्जतुगृहे तदा। आदीपयस्त्वं राधेय क्व ते धर्मस्तदा गतः॥ यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम्। सभायांन प्राहसः कर्ण क्व ते धर्मस्तदा गतः॥ तदनार्यैः पुरा कृष्णां क्लिश्यमानामनागसम्। उपप्रेक्षसि राधेय क्व ते धर्मस्तदा गतः॥ विनष्टाः पाण्डवः कृष्णे शाश्वतं नरकं गता। पतिमन्यं वृणीष्वेति वदंस्त्वं गजसामिनीम्॥ उपप्रेक्षसि राधेय क्व ते धर्मस्तदा गतः। राज्यलुब्धः पुनः कर्ण समाव्यथसि पाण्डवान्। यदा शकुनिमाश्रित्य क्क ते धर्मस्तदा गतः॥ यदाभिमन्युं बहवो युद्दे जघ्नुर्महारथाः। परिवार्य रणे बालं क्क ते धर्मस्तदा गतः॥ यद्येष धर्मस्तत्र न विद्यते हि किं सर्वथा तालुविशोषणेन। अद्येह धाणि विधत्स्व सूत तथापि जीवन विमोक्ष्यसे हि॥ नलो ह्यक्षैर्निर्जितः पुष्करेण पुनर्यशो राज्यमवाप वीर्यात्। सर्वेः समेताः परिवृत्तलोभाः॥ निहत्य शूत्रन् समरे प्रवृद्धान् ससोमका राज्यमवाप्नुयुस्ते। तथा गता धार्तराष्ट्रा विनाशं धर्माभिगुप्तैः सततं नृसिंहः॥ संजय उवाच एवमुक्तस्तदा कर्णो वासुदेवेन भारत। लज्जयावनतो भूत्वा नोत्तरं किञ्चिदुक्तवान्॥ क्रोधात् प्रस्फुरमाणैष्टो धनुरुद्यम्य भारत। योधयामास वै पार्थ महावेगपराक्रमः॥ ततोऽब्रवीद् वासुदेव: फाल्गुनं पुरुर्षभम्। दिव्यास्त्रेणैव निर्भिद्य पातयस्व महाबल॥ एवमुक्तस्तु देवेन क्रोधमागातदार्जुनः। मन्युमभ्याविशद् घोरं स्मृत्वा तत्तु धनंजयः॥ तस्य क्रुद्धस्य सर्वेभ्यः स्रोतोभ्यस्तेजसोऽतिषः। प्रादुरासंस्तदा राजंस्तदद्भुतमिवाभवत्॥ तत् समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनंजयम्। अभ्यवर्षत् पुनर्यनमकरोद् रथसर्जने॥ ब्रह्मास्त्रेणैव तं पार्थो ववर्ष शरवृष्टिभिः। तदस्त्रमस्त्रेणावार्य प्रजहार च पाण्डवः॥ ततोऽन्यदस्त्रं कौन्तेयो दयितं जातवेदसः। मुमोच कर्णमुद्दिश्य तत् प्रजज्वाल तेजसा॥ वारुणेन ततः कर्णः शमयामास पावकम्। जीमूतैश्च दिशः सर्वाश्चके तिमिरदुर्दिनाः॥ पाण्डेवयस्त्वसम्भ्रातो वायव्यास्त्रेण वीर्यवान्। अपोवाह तदाभ्राणि राधेयस्य प्रपश्यतः॥ ततः शरं महाघोरं ज्वलन्तमिव पावकम्। आददे पाण्डुपुत्रस्य सूतपुत्रो जिघांसयां॥ योज्यमाने ततस्तस्मिन् बाणे धनुषि पूजिते। चचाल पृथिवी राजन् सशैलवनकानना॥ ववौ सशर्करो वायुर्दिशश्च रजसा वृताः। हाहाकारश्च संजज्ञे सुराणां दिवि भारत॥ तमिषु संधितं दृष्ट्वा सूतपत्रेण मारिष। विषादं परमं जग्मुः पाण्डवा दीनचेतसः॥ स सायकः कर्णभुजप्रमुक्तः शक्राशनिप्रख्यरुचिः शिताग्रः॥ भुजान्तरं प्राप्य धनंजयस्य विवेश वल्मीकमिवोरगोत्तमः। स गाढविद्धः समरे महात्मा विघूर्णमानः श्लथहस्तगाण्डिवः॥ चचाल बीभत्सुरमित्रमर्दनः क्षितेः प्रकम्पे च यथा चलोत्तमः। तदन्तरं प्राप्य वृषो महारथो रथाङ्गमुर्वीगतमुज्जिहीषुः॥ रथादवल्पुत्य निगृह्य दोर्ध्या शशाक दैवान महाबलोऽपि। ततः किरीटी प्रतिलभ्य संज्ञा जग्राह बाणं यमदण्डकल्पम्॥ ततोऽर्जुनः प्राञ्जलिकं महात्मा ततोऽब्रवीद् वासुदेवोऽपि पार्थम्। छिन्थ्यस्य मूर्धानमरेः शरेण न यावदारोहति वै रथं वृषः॥ स्तत: शरं प्रज्वलितं प्रगृह्य। जघान कक्षाममलार्कवर्णा महारथे रथचक्रे विमग्ने॥ तं हस्तिकक्षाप्रवहं च केतुं सुवर्णमुक्तामणिवज्रपृष्ठम्। ज्ञानप्रकर्षोत्तमशिल्पियुक्तैः कृतं सुरूपं तपनीयचित्रम्॥ ममित्रवित्रासनमीडयरूपम्। विख्यातमादित्यसमं स्म लोके त्विषा समं पावकभानुचन्द्रैः॥ ततः क्षुरप्रेण सुसंशितेन सुवर्णपुड्वेन हुताग्निवर्चसा। श्रिया ज्वलन्तं ध्वजमुन्ममाथ महारथस्याधिस्थेः किरीटी॥ यशश्च दर्पश्च तथा प्रियाणि सर्वाणि कार्याणि च तेन केतुना। साकं कुरूणां हृदयानि चापतन् बभूव हाहेति च निःस्वनो महान्॥ दृष्ट्वा ध्वजं पातितमाशुकारिणा कुरुप्रवीरेण निकृत्तमाहवे। नाशंसिरे सूतपुत्रस्य सर्वे जयं तदा भारत ये त्वदीया: :॥ अथ त्वरन् कर्णवधाय पार्थो महेन्द्रवज्रानलदण्डसंनिभम्। आदत्त चाथाञ्जलिकं निषङ्गात् सहस्ररश्मेरिव रश्मिमुत्तमम्॥ मर्मच्छिदं शोणितमांसदिग्धं वैश्वानरार्कप्रतिमं महार्हम्। नराश्वनागासुहरं त्र्यरत्न षड्वाजमञ्जोगतिमुग्रवेगम्॥ सहस्रनेत्राशतितुल्यवीर्य कालानलं व्यात्तमिवातिघोरम्। पिनाकनाराणचक्रसंनिभं भयङ्करं प्राणभृतां विनाशनम्॥ जग्राह पार्थः स शरं प्रहृष्टो यो देवसङ्घरपि दुर्निवार्यः। सम्पूजितो यः सततं महात्मा देवासुरान् यो विजयेन्महेषुः॥ तं वै प्रमृष्टं प्रसमीक्ष्य युद्धे चचाल सर्वं सचराचरं जगत्। स्तमुद्यतं प्रेक्ष्य महाहवेषुम्॥ ततस्तु तं वै शरमप्रमेयं गाण्डीवधन्वा धनुषि व्ययोजयत्। युक्तवा महास्त्रेण परेण चापं विकृष्य गाण्डीवमुवाच सत्वरम्॥ अयं महास्त्रप्रहितो महाशरः शरीरहवासुहरश्च दुर्हदः। तपोऽस्ति तप्तं गुरवश्च तोषिता पया यदीष्टं सुहृदां श्रुतं तथा॥ अनेन सत्येन निहन्त्वयं शरः सुसंहितः कर्णमरिं ममोर्जितम्। इत्यूचिवांस्तं प्रमुमोच बाणं धनंजयः कर्णवधाय घोरम्॥ कृत्यामथर्राङ्गिरसीमिवोग्रां दीप्तामसह्यां युधि मृत्युनापि। ब्रुवन किरीटी तमतिप्रहृष्टो ह्ययं शरो मे विजयावहोस्तु॥ जिघांसुरर्कन्दुसमप्रभावः कर्ण मयास्तो नयतां यमाय। तेनेषुवर्येण किरीटमाली प्रहृष्टरूपो विजयावहेन॥ जिघांसुरर्केन्दुसमप्रभेण चक्रे विषक्तं रिपुमाततायी। तथा विमुक्तो बलिनार्कतेजाः प्रज्वालयामास दिशो नभश्च। ततोऽर्जुनस्तस्य शिरो जहार वृत्रस्य वज्रेण यथा महेन्द्रः॥ स्तदा महास्त्रप्रतिमन्त्रितेन। पाथोऽपराह्ने शिर उच्चकर्त वैकर्तनस्याथ महेन्द्रसूनुः॥ मथास्य कायो निपपात पश्चात्। तदुद्यतादित्यसमानतेजसं शरन्नभोमध्यगभास्करोपमम्॥ वराङ्गमुक्मपतञ्चमूमुखे दिवाकरोऽस्तादिवरक्तमण्डलः। ततोऽस्य देहं सततं सुखोचितं सुरूपमत्यर्थमुदारकर्ममः॥ परेण कृच्छ्रेण शिरः समत्यजद् गृहं महर्धीव सुसङ्गमीश्वरः। शरैर्विभिन्नं व्यसु तत् सुवर्चसः पपात कर्णस्य शरीरमुच्छ्रितम्॥ स्त्रवव्रणं गैरिकतोयविस्त्रवं गिरेर्यथा वज्रहतं महाशिरः। देहाच कर्णस्य निपातितस्य तेजः सूर्य खं वितत्याविवेश॥ तदद्भुतं सर्वमनुष्ययोधाः संदृष्टवन्तो निहते स्म कर्णे। दृष्ट्वा कर्णं पातितं फाल्गुनन॥ तथैव कृष्णश्च दनंजयश्च हृष्टौ यमौ दध्मतुर्वारिजातौ। तं सोमकाः प्रेक्ष्य हतं शयानं सैन्यैः सार्ध सिंहनादान् प्रचक्रुः॥ तूर्याणि संजघ्नुरतीव हृष्टा वासांसि चैवादुधुवर्भुजांश्च। संवर्धयन्तश्च नरेन्द्र योधाः पार्थं समाजग्मुरतीव हृष्टाः॥ नन्योन्यमाश्लिष्य नदन्त ऊचुः। दृष्ट्वा तु कर्ण भुवि वा विपन्नं कृतं रथात् सायकैरर्जुनस्य॥ महानिलेनादिमिरापविद्धं यज्ञावसानेऽग्निमिव प्रशान्तम्। मस्तं गतं भास्करस्येव बिम्बम्॥ शरैराचितसर्वाङ्गः शोणितैधपरिप्लुतः। विभाति देहः कर्णस्य स्वरश्मिभिरिवांशुमान्॥ प्रताप्य सेनामामित्री दीप्तैः शरगभस्तिभिः। बलिनार्जुनकालेन नीतोऽस्तं कर्णभास्करः॥ अस्तं गच्छन् यथादित्यः प्रभामादाय गच्छति। तथा जीवितमादाय कर्णस्येषुर्जगाम सः॥ अपराह्नेऽपराहोऽस्य सूतपुत्रस्य मारिष। छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः॥ उपर्युपरि सैन्यानामस्य शत्रोस्तदञ्जसा। शिर: कर्णस्य सोत्सेधमिषुः सोऽप्यहरद् द्रुतम्॥ कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम्। श्छिन्नध्वजेनाथ ययौ रथेन॥ हते कर्णे कुरवः प्राद्रवन्त भयार्दिता गाढविद्धाश्च संख्ये। अवेक्षमाणा मुहुरर्जुनस्य ध्वजं महान्तं वपुषा ज्वलन्तम्॥ सहस्रनेक्षप्रतिमानकर्मणः सहस्रपत्रप्रतिमाननं शुभम्। सहस्ररश्मिर्दिनसंक्षये यथा तथापतत् कर्णशिरो वसुंधराम्॥ धृतराष्ट्र उवाच व्यथयेयुरिमे सेनां देवानामपि संजय। आहवे ये न्यवर्तन्त वृकोदरमुखा नृपाः॥ सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः। तस्मिन्नेव च सर्वार्थाः प्रदृश्यन्ते पृथग्विधाः॥ दीर्घ विप्रोषितः कालमरण्ये जटिलोऽजिनी। अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः॥ स एव महतीं सेनां समावर्तयदाहवे। किमन्यद् दैवसंयोगान्मम पुत्रस्य चाभवत्॥ युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः। स तथाऽऽकृष्यते तेन न यथा स्वयमिच्छति॥ द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः। स पुनर्भागधेयेन सहायानुपलब्धवान्॥ अद्य मे केकया लब्धाः काशिका: कोसलाश मे। चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः॥ पृथिवी भूयसी तात मम पार्थस्य नो तथा। इति मामब्रवीत् सूत मन्दो दुर्योधनः पुरा॥ तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः। निहतः पार्षतेनाजौ किमन्यद् भागधेयतः॥ मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम्। सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान्॥ समनुप्राप्तकृच्छोऽहं मोहं परममागतः। भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे॥ यन्मां क्षत्ताब्रवीत् तात प्रपश्यन् पुत्रगृद्धिनम्। दुर्योधनेन तत् सर्वे प्राप्तं सूत मया सह॥ नृशंसं तु परं नु स्यात् तयक्त्वा दुर्योधनं यदि। पुत्रशेषं चिकीर्षेयं कृत्स्नं न मरणं व्रजेत्॥ यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः। सोऽस्माच्च हीयते लोकात् क्षुद्रभावं च गच्छति॥ अद्य चाप्यस्य राष्ट्रस्य हतोत्साहस्य संजय। अवशेषं न पश्यामि ककुदे मृदिते सति॥ कथं स्यादवशेषो हि धुर्ययोरभ्यतीतयोः। यो नित्यमुपजीवामः क्षमिणौ पुरुषर्षभौ॥ व्यक्तमेव च मे शंस यथा युद्धमवर्तत। केऽयुध्यन् के व्यापकुर्वन् के क्षुद्राः प्राद्रवन् भयात्॥१७ धनंजयं च मे शंस यद् यच्चक्रे रथर्षभः। तस्माद् भयं नो भूयिष्ठं भ्रातृव्याच्च वृकोदरात्॥ यथाऽऽसीच्च निवृत्तेषु पाण्डवेयेषु संजय। मम सैन्यावशेषस्य संनिपातः सुदारुणः॥ कथं च वो मनस्तात निवृत्तेष्वभवत् तदा। मामकानां च ये शूराः के कांस्तत्र न्यवारयन्॥ नारद उवाच गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत्। दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज।।।। गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम्। चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि॥ सुपर्णस्त्वब्रवीदेनं गालवं वदतां वरः। प्रयत्नस्तेन कर्तव्यो नैष सम्पत्स्यते तव॥ पुरा हि कान्यकुब्जे वै गाधेः सत्यवतीं सुताम्। भार्यार्थेऽवरयत् कन्यामृचीकस्तेन भाषितः॥ एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम्। भगवन् दीयतां मह्यं सहस्रमिति गालव॥ ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः। अश्वतीर्थं हयाँल्लब्ध्वा दत्तवान् पार्थिवाय वै॥ इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु। तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्ते तैः पार्थिवैस्तदा॥ अपराण्यपि चत्वारि शतानि द्विजसत्तम। नीयमानानि संतारे हृतान्यासन् वितस्तया॥ एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित्। इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय॥ विश्वामित्राय धर्मात्मन् षड्भिरश्वशतैः सह। ततोऽसि गतसम्मोहः कृतकृत्यो द्विजोत्तम॥ गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः। आदायाश्वांश्च कन्यां च विश्वामित्रमुपागमत्॥ अश्वानां काक्षितार्थानां षडिमानि शतानि वै। शतद्वयेन कन्येय भवता प्रतिगृह्यताम्॥ अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः। चतुर्थं जनयत्वेकं भवानपि नरोत्तमम्॥ पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते। भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम्॥ विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा। कन्यां च तां वरारोहामिदमित्यब्रवीद् वचः॥ किमियं पूर्वमेवेह न दत्ता मम गालवा पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः॥ प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै। अश्वाश्चाश्रममासाद्य चरन्तु मम सर्वशः॥ स तया रममाणोऽथ विश्वामित्रो महाद्युतिः। आत्मजं जनयामास माधवी पुत्रमष्टकम्॥ जातमात्रं सुतं तं च विश्वामित्रो महामुनिः। संयोज्यार्थस्तथा धर्मैरश्वैस्तैः समयोजयत्॥ अथाष्टकः पुरं प्रायात् तदा सोमपुरप्रभम्। निर्यात्य कन्यां शिष्याय कौशिकोऽपि वनं ययौ॥ गालवोऽपि सुपर्णेन सह निर्यात्य दक्षिणाम्। मनसाऽतिप्रतीतेन कन्यामिदमुवाच ह॥ जातो दानपतिः पुत्रस्त्वया शूरस्तथापरः। सत्यधर्मरतश्चान्यो यज्वा चापि तथाऽपरः॥ तदागच्छ वरारोहे तारितस्ते पिता सुतैः। चत्वारश्चैव राजानस्तथा चाहं सुमध्यमे॥ गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम्। पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह॥ धृतराष्ट्र उवाच तथा प्रयाते शिविरं द्रोणपुत्रे महारथे। कच्चित् कृपश्च भोजश्च भयार्ती न व्यवर्तताम्॥ कच्चिन्न वारितौ क्षुदै रक्षिभर्नोपलक्षितौ। असह्यमिति मन्वानौ न निवृत्ती महारथौ॥ कच्चिदुन्मथ्य शिविरं हत्वा सोमकपाण्डवान्। दुर्योधनस्य पदवीं गतौ परमिको रणे॥ पञ्चालैनिहतौ वीरौ कच्चिन्नास्वपतां क्षितौ। कच्चित् ताभ्यां कृतं कर्म तन्ममाचक्ष्व संजय॥ संजय उवाच तस्मिन् प्रयाते शिविरं द्रोणपुत्रे महात्मनि। कृपश्च कृतवर्मा च शिविरद्वर्यतिष्ठताम्॥ अश्वत्थामा तु त. दृष्ट्वा यत्नवन्तौ महारथौ। प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत्॥ यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने। किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः॥ अहं प्रवेक्ष्ये शिविरं चरिष्यामि च कालवत्। यथा न कश्चिदपि वा जीवन् मुच्येत मानवः॥ तथाभवद्भ्या कार्यं स्यादित मे निश्चितामतिः। इत्युक्तवाप्राविशद् द्रौणिः पार्थानां शिविरं महत्॥ अद्वारेणाभ्यवस्कन्ध विहाय भयमात्मनः। स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह॥ धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत्। ते तु कृत्वा महत् कर्म श्रान्ताच बलवद् रणे॥ प्रसुप्ताश्चैव विश्वस्ताः स्वसैन्यपरिवारिताः। अथ प्रविश्य तद् वेश्म धृष्टद्युम्नस्य भारत॥ पाञ्चाल्यं शयनेद्रौणिपश्यत् सुप्तमन्तिकात्। क्षौमावदाते महति स्पास्तरणसंवृते॥ माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते। तं शयानं महात्मानं विश्रब्धमकुतोभयम्॥ प्राबोधयत पादेन शयनस्थं महीपते। सम्बुध्य चरणस्पर्शादुत्थाय रणदुर्मदः॥ अभ्यजानादमेयात्मा द्रोणपुत्रं महारथम्। तमुत्पतन्तं शयनादश्वत्थामा महाबलः॥ केशेष्वालभ्य पाणिभ्यां निष्पिपेष महीतले। सबलं तेन निष्पिष्टः साध्वसेन च भारत॥ निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा। तमाक्रम्य पदा राजन् कण्ठे चोरसि चोभयोः॥ नदन्तं विस्फुरन्तं च पशुमापममारयत्। तुदन्नखैस्तु स द्राणिं नातिव्यक्तमुदाहरत्॥ आचार्यपुत्र शस्त्रेण जहि मां मा चिरं कृथाः। त्वत्कृते सुकृताँल्लोकान् गच्छेयं द्विपदां वर॥ एवमुक्त्वा तु वचन विरराम परंतपः। सुतः पाञ्चालराजस्य आक्रान्तो बलिना भृशम्॥ तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत्। ते आचार्यघातिना लोका न सन्ति कुलपांसन॥ तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते। एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम्॥ मर्मस्वभ्यवधीत् क्रुद्धः पादाष्ठीलैः सुदारुणैः। तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि॥ अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः। दृष्ट्वा धर्षयन्तं तमतिमानुषविक्रमम्॥ भूतमेवाध्यवस्यन्तो न स्म प्रव्याहरन् भयात्। तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम्॥ अध्यतिष्ठत तेजस्वी रथं प्राप्य सुदर्शनम्। स तस्य भवनाद् राजन् निष्क्रम्यानादयनंदिशः॥ रथेन शिविरं प्रायाज्जिघांसुर्द्विषतो बली। अपक्रान्ते ततस्तस्मिन् द्रोणपुत्रे महारथे।॥ सहित रक्षिभिः सर्वैः प्राणेदुर्योषितस्तदा। राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः॥ व्याक्रोशन् क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत। तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः॥ क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन्। स्त्रियस्तु जन् वित्रस्ता भारद्वाजं निरीक्ष्य ताः॥ अब्रुवन् दीनकण्ठेन क्षिप्रमाद्रवतेति वै। राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम्॥ हत्वा पञ्चालराजानं रथमारुह्य तिष्ठति। ततस्ते योधमुख्याश्च सहसा पर्यवारयन्॥ स तानापततः सर्वान् रुद्रास्त्रेण व्यपोथयत्। धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान्॥ अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके। तपप्यक्रम्य पादेन कण्ठे चोरसि तेजसा॥ तथैव मारयामास विनर्दन्तमरिंदमम्। युधामन्युश्च सम्प्राप्तो मत्वा तं रक्षसा हतम्॥ गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत्। तमभिदुत्य जग्राह क्षितौ चैनमपातयत्॥ विस्फुरन्तं च पशुवत् तथैवेनममारयत्। तथा स वीरो हत्वा तं ततोऽन्यान् समुपाद्रवत्॥ संसुप्तानेव राजेन्द्र तत्र तत्र महारथान्। स्फुरतो वेपमानांश्च शमितेव पशून् मखे।॥ ततो निस्त्रिंशमादाय जघानान्यान् पृथक् पृथक्। भागशो विचरन् मार्गानसियुद्धविशारदः॥ तथैव गुल्मे सम्प्रेक्ष्य शयानान् मध्यगौल्मिकान्। श्रान्तान् व्यस्तायुधान् सर्वान् क्षणेनैव व्यपोथयत्॥ योधानश्वान् द्विपांश्चैव प्राच्छिनत् स वरासिना। रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः॥ विस्फुरदिश्च तैद्रौणिर्निस्त्रिंशस्योद्यमेन च। आक्षेपणेन चैवासेस्त्रिधा रक्तोक्षितोऽभवत्॥ तस्य लोहितरक्तस्य दीप्तखड्गस्य युध्यतः। अमानुष इवाकारो बभौ परमभीषणः॥ ये त्वजाग्रन्त कौरव्य तेऽपि शब्देन मोहिताः। निरीक्ष्यमाणा अन्योन्यं दृष्ट्वा दृष्ट्वा प्रविव्यथुः॥ तद् रूपं तस्य ते दृष्ट्वा क्षत्रिया: शत्रुकर्षिणः। राक्षसं मन्यमानास्तं नयनानि न्यमीलयन्॥ स घोररूयो व्यचरत् कालवच्छिविरे ततः। अपश्यद् द्रौपदीपुत्रानवशिष्टांश्च सोमकन्॥ तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः। धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशाम्पते॥ अवाकिरशरवातैर्भारद्वाजदमभीतवत्। ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः॥ शिलीमुखैः शिखण्डी च द्रोणपुत्रं समादयन्। भारद्वाजः स तान् दृष्ट्वा शरवर्षाणि वर्षतः॥ ननाद बलवन्नादं जिघांसुस्तान् महारथान्। ततः परमसंक्रुद्धः पितुर्वधमनुस्मरन्॥ अवरुह्य रतोपस्थात् त्वरमाणोऽभिदुद्रुवे। सहस्रचन्द्रविमलं गृहीत्वा चर्म संयुगे।॥ खङ्गं च विमलं दिव्यं जातरूपपरिष्कृतम्। द्रौपदयानभिदुत्य खड्ड्रेन व्यधमद् बली॥ ततः स नरशार्दूलः प्रतिविन्ध्यं महाहवे। कुक्षिदेशेऽवधीद् राजन् स हतो न्यपतद् भुवि॥ प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान्। पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत्॥ सुतसोमस्य सासिं तं बाहुं छित्त्वा नरर्षभ। पुनरप्याहनत् पार्श्वे स भिन्नहृदयोऽपतत्॥ नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान्। दोामुक्षिप्य वेगेन वक्षस्येनमताडयत्॥ अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः। स विह्वलो ययौ भूमिं ततोऽस्पाहरच्छिरः॥ श्रुतकर्मा तु परिघं गृहीत्वा समताडयत्। अभिद्रुत्य ययौ द्रौणिं सव्ये सफलके भृशम्॥ स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना। स हतो न्ययतद् भूमौ विमूढो विकृताननः॥ तेन शब्देन वीरस्तु श्रुतकीर्तिमहारथः। अश्वत्थामानमासाद्य शरवधैरवाकिरत्॥ तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः। सकुण्डलं शिरः कायाद् भ्राजमानमुपाहरत्॥ ततो भीष्मनिहन्ता तं सह सर्वैः प्रभद्रकैः। अहनत् सर्वतो वीरं नानाप्रहरणैर्बली॥ शिलीमुखेन चान्येन भ्रुवोर्मध्ये समार्पयत्। स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः॥ शिखण्डिनं समासाद्य द्विधाचिच्छेद सोऽसिना। शिखण्डिनं ततो हत्वा क्रोधाविष्टः परंतपः॥ प्रभद्रकगणान् सर्वानभिदुद्राव वेगवान्। यच्च शिष्टं विराटस्य बलं तु भृशमाद्रवत्॥ दुपदस्य च पुत्राणां पौत्राणां सुहृदामपि। चकार कदनं घोरं दृष्ट्वा दृष्ट्वा महाबलः॥ अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च। न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः॥ काली रक्तास्यनयनां रक्तमाल्यानुलेपनाम्। रक्ताम्बरधरामेको पाशहस्तां कुटुम्बिनीम्॥ दद्दशुः कालरात्रिं ते गायमानमवस्थिताम्। नराश्वकुञ्जरान् पाशैर्बद्ध्वा घोरेः प्रतस्थुषीम्॥ वहन्तीं विविधान् प्रेतान् पाशबद्धान् विमूर्धजान्। तथैव च सदा राजन् न्यस्तशस्त्रान् महारथान्॥ स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष। ददृशुर्योधमुख्यास्ते जन्तं द्रौणिं च सर्वदा॥ यत: प्रभृति संग्रामः कुरुपाण्डवसेनयोः। ततः प्रभृति तां कन्यामपश्यन् द्रौणिमेव च॥ तांस्तु दैवहतान् पूर्वं पश्चाद् द्रौणिळपातयत्। त्रासयन् सर्वभूतानि विनदन भैरवान् रवान्॥ तदनुस्मृत्य ते वीरा दर्शनं पूर्वकालिकम्। इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः॥ ततस्तेन निनादेन प्रत्यबुद्ध्यन्त धन्विनः। शिविरे पाण्डवेयानां शतशोऽथ सहस्रशः॥ सोऽच्छिनत् कस्याचित् पादौ जघनं चैव कस्यचित्। कांश्चिद बिभेद पार्श्वेषु कालसृष्ट इवान्तकः॥ अत्युग्रप्रतिपिष्टैश्च नदद्भिश्त भृशोत्कटैः। गजाश्वमथितैश्चान्यैर्मही कीर्णाभवत् प्रभो॥ क्रोशतांकिमिदं कोऽयंकः शब्दः किं नु किं कृतम्। एवं तेषां तथा द्रौणिरन्तकः समपद्यत॥ अपेतशस्त्रसन्नाहान् सन्नद्धान् पाण्डुसृजयान्। प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः॥ ततस्तच्छब्दवित्रस्ता उत्पन्तो भयातुराः। निद्रान्धा नष्टसंज्ञाश्च तत्र तत्र निलिल्यिरे॥ ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः। विनदन्तौ ,श त्रस्ताः समासीदन् परस्परम्॥ ततो रथं पुनद्रौणिरास्थितो भीमनि:स्वनम्। धनुष्पाणिः शरैरन्यान् प्रेषयद् वै यमक्षयम्॥ पुनरुत्पततश्चापि दूरादपि नरोत्तमान्। शूरान् सम्पततश्चान्यान् कालरात्र्यै न्यवेदयत्॥ तथैव स्यन्दनाग्रेण प्रमथन् स विधावति। शरवर्षश्च विविधैरवर्षच्छात्रवांस्ततः॥ पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा। तेन चाकाशवर्णेन तथाचरत सोऽसिना॥ तथा च शिविरं तेषां द्रौणिराहवदुर्मदः। व्यक्षोभयत राजेन्द्र महाह्रदमिव द्विपः॥ उत्पेतुस्तेन शब्देन योधा राजन् विचेतसः। निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः॥ विस्वरं चुक्रुशुश्चान्ये बह्ववद्धं तथा वदन्। न च स्म प्रत्यपद्यन्त शस्त्राणि वसनानि च॥ विमुक्तकेशाश्चाग्यन्ये नाभ्यजानन्, परस्परम्। उत्पतन्तोऽपतश्रान्ताः केचित् तत्राभ्रमंस्तदा॥ पुरीषमसृजन् केचित् केचिन्मूत्रं प्रसुस्रुवुः। बन्धनानि च राजेन्द्र संच्छिद्य तुरगा द्विपाः॥ समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम्। तत्र केचिन्नरा भीता व्यलीयन्त महीतले॥ तथैव तान् निपतितानपिंघन् गजवाजिनः। तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ॥ हृष्टानि व्यनदनुच्चैर्मुदा भरतसत्तम। स शब्दः पूरितो राजन् भूतसंधैर्मुदायुतैः॥ अपूरयद् दिशः सर्वा दिवं चातिमहान् स्वनः। तेषामार्तरवं श्रुत्वा वित्रस्ता गजवाजिनः॥ मुक्ताः पर्यपतन् राजन् मृद्नन्तः शिविरे जनम्। तैस्तत्र परिधावद्धिश्चरणोदीरितं रजः॥ अकरोच्छिविरे तेषां रजन्यां द्विगुणं तमः। तस्मिस्तमसि संजाते प्रमूढाः सर्वतो जनाः॥ नाजानन् पितरः पुत्रान् भ्रातॄन् भ्रातर एव च। गजा गजानतिक्रम्य निर्मनुष्या हया हयान्॥ अताड्यंस्तथाभजंस्तथामृद्रश्च भारत। ते भग्नाः प्रपतन्ति स्म निघ्नन्तश्च परस्परम्॥ न्यपातयंस्तथा चान्यान् पातयित्वा तदापिषन्। विचेतसः सनिद्राश्च तमसा चावृता नरः॥ जग्मुः स्वानेव तत्राथ कालेनैव प्रचोदिताः। त्यक्त्वा द्वाराणि च द्वाःस्थास्तथा गुल्मानि गौल्मिकः॥ प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः। विप्रणष्टाश्च तेऽन्योन्यं नाजानन्त तथा विभो॥ क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः। पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान्॥ गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः। हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे॥ तान् बुद्ध्वा रणमत्तोऽसौ द्रोणपुत्रो व्यपोथयत्। तत्रापरे वध्यमाना मुहुर्मुहुरचेतसः॥ शिविरान् निष्पतन्ति स्म क्षत्रिया भयपीडिताः। तांस्तु निष्पतितांस्रस्तान् शिविराजीवितैषिणः॥ कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः। विस्रस्तयन्त्रकवचान् मुक्तकेशान् कृताञ्जलीन्॥ वेपमानान् क्षितौ भीतान् नैव कांश्चिदमुञ्चताम्। नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिविराद् बहिः। कृपश्चैव महाराज हार्दिक्यश्चैव दुर्मतिः। भूयश्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम्॥ त्रिषु देशेषु ददतुः शिविरस्य हुताशनम्। ततः प्रकाशे शिविरे खड्डेन पितृनन्दनः॥ अश्वत्थामा महाराज व्यचरत् कृतहस्तवत्। कांश्चिदापततो वीरानपरांश्चैव धावतः॥ व्ययोजयत खड्ड्रेन प्राणैर्दिवरोत्तमः। कांश्चिद् योधान् स खड्ड्रेन मध्ये संछिद्य वीर्यवान्।। ११२ अपातयद् द्रोणपुत्रः संरब्धस्तिलकाण्डवत्। निनदद्भिर्भूशायस्तै राश्वद्विरदोत्तमैः॥ पतितैरभवत् कीर्णा मेदिनी भरतर्षभ। मानुषाणां सहस्रेषु हतेषु पतितेषु च॥ उदतिष्ठन् कबन्धानि बहून्युत्थाय चापत्तन्। सायुधान्साङ्गदान्बाहून विचकर्त शिरांसि च॥ हस्तिहस्तोपमानूरून हस्तान् पादांश्च भारत। पृष्ठच्छिन्नान् पार्श्वच्छिन्नाशिरश्छिन्नांस्तथा परान्।। ११६ स महात्माकरोद् द्रौणिः कांश्चिचापि पराङ्मुखान्। मध्यदेशे नरानन्यांश्चिच्छेदान्यांश्च कर्णतः॥ अंसदेशे निहत्यान्यान् काये प्रावेशयच्छिरः। एवं विचरतस्तस्य निघ्नतः सुबहून् नरान्॥ तमसा रजनी घोरा बभौ दारुणदर्शना। किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः॥ बहुना च गजाश्वेन भूरभूद् भीमदर्शना। यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे॥ क्रुद्धेन द्रोणपुत्रेण संछन्नाः प्रापतन् भुवि। भातृनन्ये पितॄनन्ये पुत्रानन्ये विचुक्रुशुः॥ केचिदूचुर्न तत् क्रुद्धैर्धार्तराष्ट्रः कृतं रणे। कृतं यत् नः प्रसुप्तानां रक्षोभिः क्रूरकर्मभिः॥ असांनिध्याद्धि पार्थानामिदं नः कदनं कृतम्। न चासुरैर्न गन्धर्वैर्न च यक्षैर्न च राक्षसैः॥ शक्यो विजेतुं कौन्तेयो गोप्ता यस्य जनार्दनः। ब्रह्मण्यः सत्यवाग् दान्तः सर्वभूतानुकम्पकः॥ न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम्। धावन्तं मुक्तकेशं वा हन्ति पार्थो धनंजयः॥ तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः। इति लालप्यमानाः स्म शेरते बहवो जनाः॥ स्तनतां च मनुष्याणामपरेषां च कूजताम्। ततो मुहूर्तात् प्राशाम्यत् स शब्दस्तुमुलो महान्।। १२७ शोणितव्यतिषिक्तायां वसुधायां च भूमिप। तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत॥ स चेष्टमानानुद्विग्नान् निरुत्साहान् सहस्रशः। न्यपातयनरान् क्रुद्धः पशून् पशुपतिर्यथा॥ अन्योन्यं सम्परिष्वज्य शयानान् द्रवतोऽपरान्। संलीनान् युद्ध्यमानांश्च सर्वान् द्रौणिरपोथयत्॥ दह्यमाना हुताशेन वध्यमानाश्च तेन ते। परस्परं तदा योधा अनयन् यमसादनम्॥ तस्या रजन्यास्त्वर्धन पाण्डवानां महद् बलम्। गमयामास राजेन्द्र द्रौणिर्थमनिवेशनम्॥ निशाचराणां सत्त्वानां रात्रिः सा हर्षवर्धिनी। आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम्॥ तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः। खादन्तो नरमांसानि पिबन्तः शोणितानि च॥ करालाः पिङ्गलाश्चैव शैलदन्ता रजस्वला:। जटिला दीर्घशङ्खाश्च पञ्चपादा महोदराः॥ पश्चादगुलयो रूक्षा विरूपा भैरवस्वनाः। घण्टाजालावसक्ताश्च नीलकण्ठा विभीषणाः॥ सपुत्रदाराः सक्रूराः सुदुर्दर्शाः सुनिघृणाः। विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम्॥ पीत्वा च शोणितं हृष्टाः प्रानृत्यन् गणशोऽपरे। इदं परमिदं मेध्यमिदं स्वाद्विति चाब्रुवन्॥ मेदोमज्जास्थिरक्तानां वसानां च भृशाशिताः। परमांसानि खादन्तः क्रव्यादा मांसजीविनः॥ वसाश्चैवापरे पीत्वा पर्यधावन् विकुक्षिकाः। नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशनाः।। १४० अयुतानि च तत्रासन् प्रयुतान्यर्बुदानि च। रक्षसां घोररूपाणां महतां क्रूरकर्मणाम्॥ मुदितानां वितृप्तानां तस्मिन् महति वैशसे। समेतानि बहून्यासन् भूतानि च जन धिप॥ प्रत्यूषकाले शिविरात् प्रतिगन्तुमियेष सः। नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः॥ पाणिना सह संश्लिष्ट एकीभूत इव प्रभो। दुर्गमां पदवीं गत्वा विरराज जनक्षये॥ युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः। यथाप्रतिज्ञं तत् कर्म कृत्वा द्रौणायनिः प्रभो॥ दुर्गमा पदवीं गच्छन् पितुरासीद् गतज्वरः। यथैव संसुप्तजने शिविरे प्राविशनिशि॥ तथैव हत्वा निःशब्दे निश्चकाम नरर्षभः। निष्क्रम्य शिविरात् तस्मात् ताभ्यां संगम्य वीर्यवान्॥ आचख्यौ कर्म तत् सर्वं हृष्टः संहर्षयन् विभो। तावथाचख्यतुस्तस्मै प्रियं प्रियकरौ तदा॥ पञ्चालान् सृञ्जयांश्चैव विनिकृत्तान् सहस्रशः। प्रीत्या चोच्चैरुदक्रोशंस्तथैवास्फोटयंस्तलान्॥ एवंविधा हि सा रात्रि: सोमकानां जनक्षये। प्रसुप्तानां प्रमत्तानामासीत् सुभृशदारुणा॥ असंशयं हि कालस्य पर्यायो दुरतिक्रमः। धृतराष्ट्र उवाच तादृशा निहता यत्र कृत्वास्माकं जनक्षयम्॥ प्रागेव सुमहत् कर्म द्रौणिरेतन्महारथः। नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः॥ अथ कस्माद्धते क्षुद्रं कर्मेदं कृतवानसौ। द्रोणपुत्रो महात्मा स तन्मे शंसितुमर्हसि॥ संजय उवाच तेषां नूनं भयान्नासौ कृतवान् कुरुनन्दन। असांनिध्याद्धि पार्थानां केशवस्य च धीमतः॥ सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम्। को हि तेषां समक्षं तान् हन्यादपि मरुत्पतिः॥ एतदीदृशकं वृत्तं राजन् सुप्तजने विभो। ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम्॥ दिष्ट्या दिष्ट्यैव चान्योन्यं समेत्योचुर्महारथाः। पर्यष्वजत् ततो द्रौणिस्ताभ्यां सम्प्रतिनन्दितः॥ इदं हर्षात् तु सुमहदाददे वाक्यमुत्तमम्। पञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः॥ सोमका मत्स्यशेषाश्च सर्वे विनिहता मया। इदानीं कृतकृत्याः स्म याम तव मा चिरम्। यदि जीवति नो राजा तस्मै शंसमहे वयम्॥ युधिष्ठिर उवाच सत्यं दमं क्षमा प्रज्ञा प्रशंसन्ति पितामह। विद्वांसो मनुजा लोके कथमेतन्मतं तव॥ भीष्म उवाच अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्। साध्यानामिह संवादं हंसस्य च युधिष्ठिर॥ हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः। स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत्॥ साध्या ऊचुः शकुने वयं स्म देवा वै साध्यास्त्वामनुयुक्ष्महे। पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित्॥ श्रुतोऽसिः न पण्डितो धीरवादी साधुशब्दश्चरते ते पतत्रिन्। किं मन्यसे श्रेष्ठतमं द्विज त्वं कस्मिन्मनस्ते रमते महात्मन्॥ तन्नः कार्यं पक्षिवर प्रशाधि यत्कार्याणां मन्यसे श्रेष्ठमेकम्। विमुच्यते विहगेन्द्रेह शीघ्रम्॥ हंस उवाच इदं कार्यममृताशाः शृणोमि तपो दमः सत्यमात्माभिगुप्तिः। ग्रन्थीन् विमुच्य हृदयस्य सर्वान् प्रियाप्रिये स्वं वशमानयीत॥ नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत। ययास्य वाचा पर उद्विजेत न तां वदेद्रुषती पापलोक्याम्॥ वाक्सायका वदनानिष्पतन्ति यैराहतः शोचति रात्र्यहानि। परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत् परेषु॥ भृशं विध्येच्छम एवेह कार्यः। संरोष्यमाणः प्रतिहष्यते यः स आदत्ते सुकृतं वै परस्य॥ क्षेपायमाणमभिषगव्यलीकं निगृह्णाति ज्वलितं यश्च मन्युम्। अदुष्टचेता मुदितोऽनसूयुः स आदत्ते सुकृतं वै परेषाम्॥ आक्रुश्यमानो न वदामि किंचित् क्षमाम्यहं ताड्यमानश्च नित्यम्। श्रेष्ठं ह्येतद् यत्क्षमामाहुरार्याः सत्यं तथैवार्जवमानृशंस्यम्॥ वेदस्योपनिषत् सत्यं सत्यस्योपनिषद् दमः। दमस्योपनिषन्मोक्ष एतत् सर्वानुशासनम्॥ वाचो वेगं मनसः क्रोधवेगं विधित्सावेगमुदरोपस्थवेगम्। स्तं मन्येऽहं ब्राह्मणं वै मुनिं च॥ स्तथा तितिक्षुरतितिक्षोर्विशिष्टः। स्तथाज्ञानाज्ज्ञानविद् वै विशिष्टः॥ आक्रुश्यमानो नाक्रुश्येन्मन्युरेनं तितिक्षतः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति॥ यो नात्युक्तः प्राह रूक्षं प्रियं वा यो वा हतो न प्रतिहन्ति धैर्यात्। स्तस्येह देवाः स्पृहयन्ति नित्यम्॥ पापीयसः क्षमेतैव श्रेयसः सदृशस्य च। विमानितो हतोत्क्रुष्ट एवं सिद्धिं गमिष्यति॥ सदाहमार्यान्निभृतोऽप्युपासे न मे विधित्सोत्सहते न रोषः। न वाप्यहं लिप्समानः परैमि न चैव किंचिद् विषयेण यामि॥ नाहं शप्तः प्रतिशपामि कंचिद् दमं द्वारं ह्यमृतस्येह वेद्मिा गुह्यं ब्रह्म तदिदं ब्रवीमि न मानुषाच्छ्रेष्ठतरं हिं किंचित्॥ निर्मुच्यमानः पापेभ्यो घनेभ्य इव चन्द्रमाः। विरजाः कालमाकाङ्क्षन् धीरो धैर्येण सिद्ध्यति॥ यः सर्वेषां भवति ह्यर्चनीय उत्सेधनस्तम्भ इवाभिजातः। यस्मै वाचं सुप्रसन्नां वदन्ति स वै देवान् गच्छति संयतात्मा॥ न तथा वक्तुमिच्छन्ति कल्याणान् पुरुषे गुणान्। यथैषां वक्तमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः॥ यस्य वाङ्मनसीगुप्ते सम्यक् प्रणिहिते सदा। वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात्॥ आक्रोशनविमानाभ्यां नाबुधान् बोधयेद् बुधः। तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत्॥ अमृतस्येव संतृप्यदेवमानस्य पण्डितः। सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति॥ यत् क्रोधनो यजति यद् ददाति यद् वा तपस्तप्यति यज्जुहोति। वैवस्वतस्तद्धरतेऽस्य सर्वं मोघः श्रमो भवति हि क्रोधनस्य॥ चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः। उपस्थमुदरं हस्तौ वाक चतुर्थी स धर्मवित्॥ सत्यं दम ह्यार्जवमानृशंस्यं धृति तितिक्षामतिसेवमानः। मेकान्तशील्यूर्ध्वगतिर्भवेत् सः॥ सर्वांश्चैनाननुचरन् वत्सवच्चतुरः स्तनान्। न पावनतमं किंचित् सत्यादध्यगमं क्वचित्॥ आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसंचरन्। सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव॥ यादृशैः संनिवसति यादृशांश्योपसेवते। यादृगिच्छेच्च भवितुं तादृग् भवति पूरुषः॥ यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव। वासो यथा रंगवशं प्रयाति तथा स तेषां वशमभ्युपैति॥ सदा देवाः साधुभिः संवदन्ते न मानुषं विषयं यान्ति द्रष्टुम्। रुच्चावचं विषयं यः स वेद॥ अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे। तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै॥ शिश्नोदरे ये निरताः सदैव स्तेना नरावाक्परुषाश्च नित्यम्। अपेतदोषानपि तान् विदित्वा दूराद् देवाः सम्परिवर्जयन्ति॥ न वै देवा हीनसत्त्वेन तोष्याः सर्वाशिना दुष्कृतकर्मणा वा। सत्यव्रता ये तु नराः कृतज्ञा धर्मे रतास्तैः सह सम्भजन्ते॥ अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद् व्याहृतं तद् द्वितीयम्। वदेद् व्याहृतं तत् तृतीयं प्रियं धर्मं वदेद् व्याहृतं तच्चतुर्थम्॥ साध्या ऊचुः केनायमावृतो लोकः केन वा न प्रकाशते। केन त्यजति मित्राणि केन स्वर्गं न गच्छति॥ हंस उवाच अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते। लोभात् त्यजति मित्राणि संगात् स्वर्ग न गच्छति॥ साध्या ऊचुः कः स्विदेको रमते ब्राह्मणानां कः स्विदेको बहुभिर्जोषमास्ते। क: स्विदेको बलवान् दुर्बलोऽपि कः स्विदेषां कलह नान्ववैति॥ हंस उवाच प्राज्ञ एको रमते ब्राह्मणानां प्राज्ञश्चैको बहुभिर्जोषमास्ते। प्राज्ञ एको बलवान् दुर्बलोऽपि प्राज्ञ एषां कलहं नान्ववैति॥ साध्या ऊचुः किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते। असाधुत्वं च किं तेषां किमेषां मानुषं मतम्॥ हंस उवाच स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते। असाधुत्वं परीवादो मृत्युर्मानुष्यमुच्यते॥ भीष्म उवाच संवादं इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः। क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते॥ वैशम्पायन उवाच ततस्ते प्रययुर्हष्टा: प्रहष्टनरवाहनाः। रथघोषेण महता पूरयन्तो वसुंधराम्॥ संस्तूयमानाः स्तुतिभिः सूतमागधवन्दिभिः। स्वेन सैन्येन संवीता यथादित्याः स्वरश्मिभिः॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। बभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट्॥ जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः। प्रत्यगृहाद् यथान्यायं यथावत् पुरुषर्षभः॥ तथैव सैनिका राजन् राजानमनुयान्ति ये। तेषां हलहलाशब्दो दिवं स्तब्वा व्यतिष्ठत॥ सरांसि सरितश्चैव वनान्युपवनानि च। अत्यक्रामन्महाराजो गिरिं चाप्यन्वपद्यत॥ तस्मिन् देशे च राजेन्द्र यत्र तद् द्रव्यमुत्तमम्। चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः। शिवे देशे समे चैव तदा भरतसत्तम॥ अग्रतो ब्राह्मणान् कृत्वा तपोविद्यादमान्वितान्। पुरोहितं च कौरव्य वेदवेदाङ्गपारगम्। आग्निवेश्यं च राजानो ब्राह्मणा: सपुरोधसः॥ कृत्वा शान्तिं यथान्यायं सर्वशः पर्यवारयन्। कृत्वा तु मध्ये राजानममात्यांश्च यथाविधि॥ षट्पदं नवसंख्यानं निवेशं चक्रिरे द्विजाः। मत्तानां वारणेन्द्राणां निवेशं च यथाविधि॥ कारयित्वा स राजेन्द्रो ब्राह्मणनिदमब्रवीत्। अस्मिन् कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे॥ यथा भवन्तो मन्यन्ते कर्तुमर्हन्ति तत् तथा। न न: कालात्ययो वै स्यादिहैव परिलम्बताम्॥ इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम् श्रुत्वैतद् वचनं राज्ञो ब्राह्मणाः सपुरोधसः। इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः॥ अद्यैव नक्षत्रमहश्च पुण्यं यतामहे श्रेष्ठतमक्रियासु। नुपोष्यतां चापि भवद्भिरद्य॥ श्रुत्वा तु तेषां द्विजशत्तमानां कृतोपवासा रजनी नरेन्द्रः। ऊषुः प्रतीताः कुशसंस्तरेषु यथाध्वरे प्रज्वलिता हुताशाः॥ ततो निशा सा व्यगमन्महात्मनां संशृण्वतां विप्रसमीरिता गिरः। ततः प्रभाते विमले द्विजर्षभा वचोऽब्रुवन् धर्मसुतं नराधिपम्॥ कृप उवाच सदैव तव राधेय युद्धे क्रूरतरा मतिः। नार्थानां प्रकृति वेत्सि नानुबन्धमवेक्षसे॥ माया हि बहवः सन्ति शास्त्रमाश्रित्य चिन्तिताः। तेषां युद्धं तु पापिष्ठं वेदयन्ति पुराविदः॥ देशकालेन संयुक्तं युद्धं विजयदं भवेत्। हीनकालं तदेवेह फलं न लभते पुनः। देशे काले च विक्रान्तं कल्याणाय विधीयते॥ आनुकूल्येन कार्याणामन्तरं संविधीयते। भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः॥ परिचिन्त्य त पार्थेन संनिपातो न नः क्षमः। एकः कुरूनभ्यगच्छदेक्श्चाग्निमतर्पयत्॥ एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत्। एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयत्॥ एकः किरातरूपेण स्थितं रुद्रमयोधयत्। अस्मिन्नेव वने पार्थो हतां कृष्णामवाजयत्॥ एकश्च पञ्च वर्षाणि शनादस्त्राण्यशिक्षत। एकः सोऽयमरि जित्वा कुरूणामकरोद् यशः॥ एको गन्धर्वराजानं चित्रसेनमरिंदमः। विजिग्ये तरसा संख्ये सेनां प्राप्य सुदुर्जयाम्॥ तथा निवातकवचाः कालखढाश्च दानवाः। दैवतैरप्यवध्यास्ते एकेन युधि पातिताः॥ एकेन हि त्वया कर्ण किं नामेह कृतं पुरा। एकैकेन यथा तेषां भूमिपाला वशे कृताः॥ इन्द्रोऽपि हि न पार्थेन संयुगे योद्धुमर्हति। यस्तेनाशंसते योद्धं कर्तव्यं तस्य भेषजम्॥ आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम्। अवमुच्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि॥ अथवा कुद्द्वारं मत्तमेकं एव चरन् वने। अनङ्कुशं समारुह्य नगरं गन्तुमिच्छसि॥ समिद्धं पावकं चैव घृतमेदोवसाहुतम्। घृताक्तश्चारवासास्त्वं मध्येनोत्तर्तुमिच्छसि॥ आत्मानं कः समुद्बद्ध्य कण्ठे बद्ध्वा महाशिलम्। समुद्रं तरते दोभ्यां तत्र किं नाम पौरुषम्॥ अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः। तादृशं कर्ण यः पार्थं योद्धुमिच्छेत् स दुर्मतिः॥ अस्माभिर्वेष निकृतो वर्षाणीह त्रयोदश। सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति॥ एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम्। अज्ञानादभ्यवस्कन्ध प्राप्ताः स्मो भयमुत्तमम्॥ सह युध्यामहे पार्थमागतं युद्धदुर्मदम्। सैन्यास्तिष्ठन्तु संनद्धा व्यूढानीकाः प्रहारिणः॥ द्रोणो दुर्योधनो भीष्मो भवान् द्रौणिस्तथा वयम्। सर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः॥ वयं व्यवसितं पार्थं वज्रपाणिमिवोद्यतम्। षड्रथाः प्रतियुध्येम तिष्ठेम यदि संहताः॥ व्यूढानीकानि सैन्यानि यत्ताः परमधन्विनः। युध्यामहेऽर्जुनं संख्ये दानवा इव वासवम्॥ शौनक उवाच ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने। तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज॥ सौतिरुवाच सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च। न शक्यं परिसंख्यातुं बहुत्वाद्विजसत्तम॥ यथास्मृति तु नामानि पन्नगानां निबोध मे। उच्यमानानि मुख्यानां हुतानां जातवेदसि॥ वासुकेः कुलजातांस्तु प्राधान्येन निबोध मे। नीलरक्तान्सितान्योरान्महाकायान्विषोल्बणान्॥ अवशान्मातृवाग्दण्डपीडितान्कृपणान्हुतान्। कोटिशो मानसः पूर्णः शल: पालो हलोमकः॥ पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः। हिरण्यबाहुः शरणः कक्षकः कालदन्तकः॥ एते वासुकिजा नागाः प्रविष्टा हव्यवाहने। अन्ये च बहवो विप्र तथा वै कुलसंभवाः। प्रदीप्ताग्नौ हुताः सर्वे घोररूपा महाबलाः॥ तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान्। पुच्छाण्डको मण्डलकः पिण्डसेक्ता रभेणकः। उच्छिखः शरभो भङ्गो बिल्वतेजा विरोहणः॥ शिली शलकरो मूकः सुकुमारः प्रवेपनः। गरः शिशुरोमा च सुरोमा च महाहनुः॥ ए? तक्षकजा नागाः प्रविष्टा हव्यवाहनम्। पारावतः पारियातः पाण्डरो हरिणः कृशः॥ विहङ्गः शरभो मेदः प्रमोदः संहतापनः। ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्॥ कौरव्यकुलजान्नाञ्छृणु मे त्वं द्विजोत्तम। एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः॥ बाहुकः शृङ्गवेश्च धूर्तकप्रातरातको। कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम्॥ धृतराष्ट्रकुले जाताञ्च्छणु नागान्यथातथम्। कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान्॥ शंकुकर्णः पिठरकः कुठारमुखसेचकौ। पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः॥ अमाहठः कामठकः सुषेणो मानसोऽव्ययः। भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारकः रकः॥ ऋषभो वेगवान्नागः पिण्डारकमहाहनू। रक्ताङ्गः सर्वसारङ्गः समृद्धपटवासकौ॥ वराहको वीरणकः सुचित्रश्चित्रवेगिकः। पराशरस्तरुणको मणिः स्कन्धस्तथारुणिः॥ इतिनागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः। प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः॥ एतेषां प्रसवो यश्च प्रसवस्य च संततिः। न शक्यं परिसंख्यातुं ये दीप्तं पावकं गताः॥ त्रिशीर्षाः सप्तशीर्षाश्च दशशीर्षास्तथापरे। कालानलविषा घोरा हुताः शतसहस्रशः॥ महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः। योजनायामविस्तारा द्वियोजनसमायताः॥ कामरूपाः कामबला दीप्तानलविषोल्बणाः। दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः॥ युधिष्ठिर उवाच उक्तं ते गोप्रदानं वै नाचिकेतमृषि प्रति। माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो॥ नृगेण च महदुःखमनुभूतं महात्मना। एकापराधदज्ञानात् पितामह महामते॥ द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धतः। मोक्षहेतुरभूत् कृष्णस्तदप्यवधृतं मया।॥ किं त्वस्ति मम संदेहो गवां लोकं प्रति प्रभो। तत्त्वतः श्रोतुमिच्छामि गोदा यत्र वसन्त्युत॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यथापृच्छत् पद्मयोनिमेतदेव शतक्रतुः॥ शक्र उवाच स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वयार्चिषा। गोलोकवासिनः पश्ये व्रजतः संशयोऽत्र मे॥ कीदृशा भगवॅल्लोका गवां तद् ब्रूहि मेऽनघ। यानावसन्ति दातार एतदिच्छामि वेदितुम्॥ कीदृशाः किंफलाः किंस्वित् परमस्तत्र को गुणः। कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः॥ कियत्कालं प्रदानस्य दाता च फलमश्नुते। कथं बहुविधं दानं स्यादल्पमपि वा कथम्॥ बह्वीनां कीदृशं दानमल्पानां वापि कीदृशम्। अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे॥ कथं वा बहुदाता स्यादल्पदात्रा समः प्रभो। अल्पप्रदाता बहुदः कथं स्वित् स्यादिहेश्वर॥ कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते। एतत् तथ्येन भगवन् मम शंसितुमर्हसि॥ विभावसुरुवाच सलिलस्याञ्जलिं पूर्णमक्षताश्च घृतोत्तराः। सोमस्योत्तिष्ठमानस्य तज्जलं चाक्षतांश्च तान्॥ स्थितो ह्यभिमुखो मर्त्यः पौर्णमास्यां बलिं हरेत्। अग्निकार्यं कृतं तेन हुताश्चास्याग्नयस्त्रयः॥ वनस्पतिं च यो हन्यादमावास्यामबुद्धिमान्। अपि टेकेन पत्रेण लिप्यते ब्रह्महत्यया।॥ दन्तकाष्ठं तु यः खादेदमावास्यामबुद्धिमान्। हिंसितश्चन्द्रमास्तेन पितरचोद्विजन्ति च॥ हव्यं न तस्य देवाश्च प्रतिगृह्णन्ति पर्वसु। कुप्यन्ते पितरश्चास्य कुले वंशोऽस्य हीयते॥ श्रीरुवाच प्रकीर्णं भाजनं यत्र भिन्नभाण्डमथासनम्। योषितश्चैव हन्यन्ते कश्मलोपहते गृहे॥ देवताः पितरश्चैव उत्सवे पर्वणीषु वा। निराशा:प्रतिगच्छन्ति कश्मलोपहताद् गृहात्॥ अङ्गिरा उवाच यस्तु संवत्सरं पूर्णं दद्याद् दीपं करञ्जके। सुवर्चलामूलहस्तः प्रजा तस्य विवर्धते॥ गार्ग्य उवाच आतिथ्यं सततं कुर्याद् दीपं दद्यात् प्रतिश्रये। वर्जयानो दिवा स्वापं न च मांसानि भक्षयेत्॥ गोब्राह्मणं न हिंस्याच्च पुष्कराणि च कीर्तयेत्। एष श्रेष्ठतमो धर्मः सरहस्यो महाफलः॥ अपि क्रतुशतैरिष्ट्वा क्षयं गच्छति तद्धविः। न तु क्षीयन्ति ते धर्माः श्रद्दधानैः प्रयोजिताः॥ इदं च परमं गुह्यं सरहस्यं निबोधत। श्राद्धकल्पे च दैवे च तैर्थिके पर्वणीषु च॥ रजस्वला च या नारी वित्रिकापुत्रिका च या। एताभिश्चक्षुषा दृष्टं हविर्नाश्नन्ति देवताः॥ पितरश्च न तुष्यन्ति वर्षाण्यपि त्रयोदश। शुक्लवासाः शुचिर्भूत्वाः ब्राह्मणान् स्वस्ति वाचयेत्। कीर्तयेद् भारतं चैव तथा स्यादक्षयं हविः॥ धौम्य उवाच भिन्नभाण्डं च खट्वां च कुक्कुटं शुनकं तथा। अप्रशस्तानि सर्वाणि यश्च वृक्षो गृहेरुहः॥ भिन्नभाण्डे कलिं प्राहुः खट्वायां तु धनक्षयः। कुक्कुटे शुनके चैव हविर्नाश्नन्ति देवताः। वृक्षमूले ध्रुवं सत्त्वं तस्माद् वृक्षं न रोपयेत्॥ जमदग्निरुवाच यो यजेदश्वमेधेन वाजपेयशतेन ह। अवाशिरा वा लम्बेत सत्रं वा स्फीतमाहरेत्॥ न यस्य हृदयं शुद्धं नरकं स ध्रुवं व्रजेत्। तुल्यं यज्ञश्च सत्यं च हृदयस्य च शुद्धता॥ शुद्धेन मनसा दत्त्वा सक्तुप्रस्थं द्विजातये। ब्रह्मलोकमनुप्राप्तः पर्याप्तं तन्निदर्शनम्॥ वैशम्पायन उवाच तेषां तच्चरितं श्रुत्वा मनुष्यातीतमद्भुतम्। चिन्ताशोकपरीतात्मा मन्युनाभिपरिप्लुतः॥ दीर्घमुष्णं च निःश्वस्यधृतराष्ट्रोऽम्बिकासुतः। अब्रवीत् संजयं सूतमामन्त्र्य पुरुषर्षभ॥ न रात्रौ न दिवा सूत शान्ति प्राप्नोमि वै क्षणम्। संचिन्त्य दुर्नयं घोरमतीतं द्यूतजं हि तत्॥ तेषामसह्यवीर्याणां शौर्यधैर्यधृति पराम्। अन्योन्यमनुरागं च भ्रातृणामतिमानुषम्॥ देवपुत्रौ महाभागौ देवराजसमद्युती। नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ॥ दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ। शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ॥ भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि। स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ॥ न शेषमिह पश्यामि मम सैन्यस्य संजय। तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ॥ द्रौपद्यास्तं परिक्लेशं न ऑस्यते त्वमर्षिणौ। वृष्णयोऽथ महेष्वासाः पञ्चाला वा महौजसः॥ युधि सत्याभिसंधेन वासुदेवेन रक्षिताः। प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम्॥ रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन। न शक्यः सहितुं वेगः सर्वैस्तैरपि संयुगे॥ तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः। शैक्यया वीरघातिन्या गदया विचरिष्यति॥ तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः। गदावेगं च भीमस्य नालं सोढुं नराधिपाः॥ ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः। स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा॥ संजय उवाच व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः। समर्थेनापि यन्मोहात् पुत्रस्ते न निवारितः॥ श्रुत्वा हि निर्जितान् द्यूते पाण्डवान् मधुसूदनः। त्वरितः काम्यके पार्थान् समभावयदच्युतः॥ द्रुपदस्य तथा पुत्राधृष्टद्युम्नपुरोगमाः। विराटोधृष्टकेतुश्च केकयाश्च महारथाः॥ तैश्च यत् कथितं राजन् दृष्ट्वा पार्थान् पराजितान् चारेण विदितं सर्वं तन्मयाऽऽवेदितं च ते॥ समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः। सारथ्ये फाल्गुनस्याजौ तथेत्याह च तान् हरिः॥ अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथा गतान्। कृष्णाजिनोत्तरासंगानब्रवीच्च युधिष्ठिरम्॥ या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह। राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा॥ यत्र सर्वान् महीपालाञ्छस्त्रतेजोभयातिान्। सवङ्गाङ्गान् सपौण्ड्रोड्रान् सचोलद्रवाडिा-ध्रकान्॥ सागरानूपकांश्चैव ये च प्रान्ताभिवासिनः। सिंहलान् बर्बरान् म्लेच्छान् ये च लङ्कानिवासिनः।। पश्चिमानि च राष्ट्राणि शतशः सागरान्तिकान्। पह्नवान् दरदान् सर्वान् किरातान् यवनाञ्छकान्॥ हारहूणांश्च चीनांश्च तुषारान् सैन्धवांस्तथा। जागुडान् रामठान् मुण्डान् स्त्रीराज्यमथ तङ्गणान्॥ केकयान् मालवांश्चैव तथा काश्मीरकानपि। अद्राक्षमहमाहूतान् यज्ञे ते परिवेषकान्॥ सा ते समृद्धिरात्ता चपला प्रतिसारिणी। आदाय जीवितं तेषामहरिष्यामि तामहम्॥ रामेण सह कौरव्य भीमार्जुनयमैस्तथा। अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च।॥ धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च। दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत॥ दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते। ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन्।॥ धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम्। अथैनमब्रवीद् राजा तस्मिन् वीरसमागमे॥ शृण्वत्स्वेतेषु वीरेषुधृष्टद्युम्नमुखेषु च। युधिष्ठिर उवाच प्रतिगृहणामि ते वाचमिमां सत्यां जनार्दन॥ अमित्रान् मे महाबाहो सानुबन्धान् हनिष्यसि। वर्षात् त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव॥ प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम्। तद्धर्मराजवचनं प्रतिश्रुत्य सभासदः॥ धृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसा। केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम्॥ पाञ्चालीं प्राहुरक्लिष्टां वासुदेवस्य शृण्वतः। दुर्योधनस्तव क्रोधाद् देवि त्यक्ष्यति जीवितम्॥ प्रतिजानीमहे सत्यं मा शुचो वरवर्णिनी। ये स्म तेऽक्षजितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा मांसानि तेषां खादन्तो हरिष्यन्ति वृकद्विजाः॥ पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा। उत्तमाङ्गानि कर्षन्तो यैः कृष्टासि सभातले॥ तेषां द्रक्ष्यसि पाञ्चाली गात्राणि पृथिवीतले। क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत्॥ परिक्लिष्टासि यैस्तत्र यैश्चासि समुपेक्षिता। तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम्॥ एवं बहुविधा वाचस्त ऊचुर्भरतर्षभ। सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः॥ तेधर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात्। पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः॥ रामश्च कृष्णश्चधनंजयश्च प्रद्युम्नसाम्बौ युयुधानभीमौ। माद्रीसुतौ केकयराजपुत्राः पाञ्चालपुत्राः सह मत्स्यराज्ञा॥ एतान् सर्वान् लोकवीरानजेयान् महात्मनः सानुबन्धान ससैन्यान्। को जीवितार्थी समरेऽभ्युदीयात् क्रुद्धान् सिंहान् केसरिणो यथैव॥ धृतराष्ट्र उवाच यन्माब्रवीद विदुरो द्यूतकाले त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र। ध्रुवं कुरूणामयमन्तकालो महाभयो भविता शोणितौघः॥ मन्ये तथा तद् भवितेति सूत यथा क्षत्ता प्राह वचः पुरा माम्। असंशयं भविता युद्धमेतद् गते काले पाण्डवानां यथोक्तम्॥ संजय उवाच नकुलं रभसं युद्धे निघ्नतं वाहिनी तव। अभ्ययात् सौबलः क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्॥ कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ। शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः॥ यथैव नकुलो राजन् शरवर्षाण्यमुञ्चत्। तथैव सोबलश्चापि शिक्षा संदर्शयन् युधि॥ तावुभौ समरे शूरौ शरकण्टकिनौ तदा। व्यराजेतां महाराज श्वाविधौ शललैरिव॥ रुक्मपुरजिह्माणैः शरैश्छिन्नतनुच्छदौ। रुधिरौघपरिक्किन्नौ व्यभ्राजेतां महामृधे॥ तपनीयनिभौ चित्रौ कल्पवृक्षाविव दुमौ। किंशुकाविव चोत्फुल्ली प्रकाशेते रणाजिरे॥ तावुभैः समरे शूरौ शरकण्टकिनौ तदः। व्यराजेता महाराज कण्टकैरिव शाल्मलीः॥ सुजिप्तां प्रेक्षमाणौ च राजन् विवृतलोचनौ। क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम्॥ श्यालस्तु तव संक्रुद्धो माद्रीपुत्रं हसन्निव। कर्णिनैकेन विव्याध हृदये निशितेन ह॥ नकुलस्तु भृशं विद्धः श्यालेन तव धन्विना। निषसाद रथोपस्थे कश्मलं चाविशन्महत्॥ अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रु तथागतम्। ननाद शकुनी राजंस्तपान्ते जलदो यथा॥ प्रतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः। अभ्ययात् सौबलं भूयो व्यात्तानन इवान्तकः॥ संक्रुद्धः शकुनि षष्ट्या विव्याध भरतर्षभा पुनश्चैनं शतेनैव नाराचानां स्तनान्तरे॥ अथास्य सशरं चापं मुष्टिदेशेऽच्छिनत् तदा। ध्वजं च त्वरितं छित्त्वा रथाद् भूमावपातयत्॥ विशिखेन च तीक्ष्णेन पीतेन निशितेन च। ऊरू निर्भिद्य चैकेन नकुलः पाण्डुनन्दनः॥ श्येनं सपक्षं व्याधेन पातयामास तं तदा। सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्॥ ध्वजयष्टिं परिक्तिश्य कामुकः कामिनी यथा। तं विसंज्ञं निपतितं दृष्ट्वा श्यालं तवानघ॥ अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात्। ततः संचुक्रुशुः पार्था ये च तेषां पदानुगाः॥ निर्जित्य च रणे शत्रु नकुलः शत्रुतापनः। अब्रवीत् सारथिं क्रुद्धो द्रोणानीकाय मां वह॥ तस्य तद् वचनं श्रुत्वा माद्रीपुत्रस्य सारथिः। प्रायात् तेन तदा राजन् यत्र द्रोणो व्यवस्थितः॥ शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशाम्पते। कृपः शारद्वतो यत्तः प्रत्यगच्छत् सवेगितः॥ गौतमं द्रुतमायान्तं द्रोणानीकमरिंदमम्। विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव॥ तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः। पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत् तव॥ महद् युद्धं तयोरासीद् घोररूपं भयानकम्। यथा देवासुरे युद्धे शम्बरामरराजयोः॥ शरजालावृतं व्योम चक्रतुस्तौ महारथौ। मेघाविव तपापाये वीरौ समरदुर्मदौ॥ प्रकृत्या घोररूपं तदासीद् घोरतरं पुनः। रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम्॥ कालरात्रिनिभा ह्यासीद् घोररूपा भयानका। शिखण्डी तु महाराज गौतमस्य महद् धनुः॥ अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा। तस्य क्रुद्धः कृपो राजशक्तिं चिक्षेप दारुणाम्॥ स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम्। तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः॥ साऽपतन्मेदिनी दीप्ता भासयन्ती महाप्रभा। अथान्यद् धनुरादाय गौतमो रथिनां वरः॥ प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम्। च च्छाद्यमानः समरे गौतमेन यशस्विना॥ न्यषीदत रथोपस्थे शिखण्डी रथिनां वरः। सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि॥ आजघ्ने बहुभिर्वाणैर्जिघांसन्निव भारत। विमुखं तु रणे दृष्ट्वा याज्ञसेनिं महारथम्॥ पञ्चाला: सोमकाश्चैव परिव्रवुः समन्ततः। तथैव तव पुत्राश्च परिवर्द्धिजोत्तमम्॥ महत्या सेनया सार्धं ततो युद्धमवर्तत। स्थानां च रणे राजन्नन्योन्यमभिधावताम्॥ बभूव तुमुलः शब्दो मेघानां गर्जतामिव। द्रवतां सादिनां चैव गजानां च विशाम्पते। ३६॥ अन्योन्यमभितो राजन् क्रूरमायोधनं बभौ। पत्तीनां द्रवतां चैव पादशब्देन मेदिनी॥ अकम्पत महाराज भयत्रस्तेव चाङ्गना। रथिनो रथमारुह्य प्रदुता वेगवत्तरम्॥ अगृह्णन् बहवो राजशलभान् वायसा इव। तथा गजान् प्रभिन्नांश्च सम्प्रभिन्ना महागजाः॥ तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत। सादी सादिनपासाद्य पत्तयश्च पदातिनम्॥ समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः। धावतां द्रवतां चैव पुनरावर्ततामपि॥ बभूव तत्र सैन्यानां शब्दः सुविपुलो निशि। दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु॥ अदृश्यन्त महाराज महोल्का इव खाच्च्युताः। सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता॥ दिवसप्रतिमा राजन् बभूव रणमूर्धनि। आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति॥ तथा नष्टं तमो घोरं दीपैर्दीप्तरितस्ततः। द्योश्चैव पृथिवी चापि दिशश्च प्रदिशस्तथा॥ रजसा तमसा व्याप्ता द्योतिताः प्रभया पुनः। अस्त्राणां कवचानां च मणीनां च महात्मनाम्॥ अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः। तस्मिन् कोलाहले युद्धे वर्तमाने निशामुखे॥ न किंचिद् विदुरात्मानमयमस्मीति भारत। अवधीत् समरे पुत्रं पिता भरतसत्तम्॥ पुत्रश्च पितरं मोहात् सखायं च सखा तथा। स्वस्नीयं मातुलश्चापि स्वस्रीयश्चापि मातुलम्॥ स्वे स्वान् परे परांश्चापि निजत्रुरितरेतरम्। निर्मर्यादमभूद् युद्धं रात्रौ भीरुभयानकम्॥ युधिष्ठिर उवाच ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ। नृशंसकारिणो मूढाः क्व ते गच्छन्ति मानवाः॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। चाण्डालस्य च संवादं क्षाबन्धोश्च भारत॥ वृद्धरूपोऽसि चाण्डाल बालवच्च विचेष्टसे। श्वखराणां रज:सेवी कस्मादुद्विजसे गवाम्॥ साधुभिर्गर्हितं कर्म चाण्डालस्य विधीयते। कस्माद् गोरजसाध्वस्तमपां कुण्डे निषिञ्चसि॥ चाण्डाल उवाच ब्राह्मणस्य गवां राजन् हियतीनां रजः पुरा। सोममुध्वंसयामास तं सोमं येऽपिबन् द्विजाः॥ दीक्षितश्च स राजापि क्षिप्रं नरकमाविशत्। सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत्॥ येऽपि तत्रापिबन् क्षीरं घृतं दधि च मानवाः। ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन्॥ जनस्ताः पयसा पुत्रांस्तथा पौत्रान् विधुवन्तीः। पशूनवेक्षमाणाश्च साधृवृत्तेन दम्पती॥ अहं तत्रावसं राजन् ब्रह्मचारी जितेन्द्रियः। तासां मे रजसा ध्वस्त भैक्षमासीन्नराधिप॥ चाण्डालोऽहं ततो राजन् भुक्त्वा तदभवं नृप। ब्रह्मस्वहारी च नृपः सोऽप्रतिष्ठां गतिं ययौ।॥ तस्माद्धरेन विप्रस्वं कदाचिदपि किंचन। ब्रह्मस्वं रजसा ध्वस्तुं भुक्त्वा मां पश्य यादृशम्॥ तस्मात् सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता। विक्रयं त्विह सोमस्य गर्हयन्ति मनीषिणः॥ ये चैनं क्रीणते तात ये च विक्रीणते जनाः। ते त वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः॥ सोमं तु रजसा ध्वस्तं विक्रीणन् विधिपूर्वकम्। श्रोत्रियो वाधुषी भूत्वा न चिरं स विनश्यति॥ नरकं त्रिंशतं प्राप्य स्वविष्ठामुपजीवति। श्रुचर्यामभिमानं च सखिदारे च विप्लवम्॥ तुलया धारयन् धर्ममभिमान्यतिरिच्यते। श्वानं वै पापिनं पश्य विवर्णं हरिण कृशम्॥ अभिमानेन भूतानामिमां गतिमुपागतम्। अहं वै विपुले तात कुले धनसमन्विते॥ अन्यस्मिजन्मनि विभो ज्ञानविज्ञानपारगः। अभवं तत्र जानानो ह्येतान् दोषान् मदात् सदा॥ संरब्ध एव भूतानां पृष्ठमांसमभक्षयम्। सोऽहं तेन च वृत्तेन भोजनेन च तेन वै॥ इमामवस्थां सम्प्राप्तः पश्य कालस्य पर्ययम्। आदीप्तमिव चैलान्तं भ्रमरिव चार्दितम्॥ धावमानं सुसंरब्धं पश्य मां रजसान्वितम्। स्वाध्यायैस्तु महात्पापं हरन्ति गृहमेधिनः॥ दानैः पृथग्विधैश्चापि यथा प्राहुर्मनीषिणः। तथा पापकृतं विप्रमाश्रमस्थं महीपते॥ सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत। अहं हि पापयोन्यां वै प्रसूतः क्षत्रियर्षभ। निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत॥ जातिस्मरत्वं च मम केनचित् पूर्वकर्मणा। शुभेन येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप।॥ त्वमिमं सम्प्रपन्नाय संशयं ब्रूहि पृच्छते। चाण्डालत्वात् कथमहं मुच्येयमिति सत्तम॥ राजन्य उवाच चाण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि। ब्राह्मणार्थे त्यजन् प्राणान् गतिमिष्टामवाप्स्यसि॥ दत्त्वा शरीरं क्रव्याद्भयो रणाग्नौद्विजहेतुकम्। हत्वा प्राणान् प्रमोक्षस्ते नान्यथा मोक्षमर्हसि॥ भीष्म उवाच इत्युक्तः स तदा तेन ब्रह्मस्वार्थे परंतप। हत्वा रणमुखे प्राणान् गतिमिष्टामवाप ह॥ तस्माद् रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ। यदीच्छसि महाबाहो शाश्वतीं गतिमात्मनः॥ शुक्र उवाच यः परेषां नरो नित्यमतिवादांस्तितिक्षते। देवयानि विजानीहि तेन सर्वमिदं जितम्॥ उच्यते॥ यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा। स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते॥२१. यः समुत्पतितं क्रोधमक्रोधेन निरस्यति। देवयानि विजानीहि तेन सर्वमिदं जितम्॥ यः समुत्पतितं क्रोधं क्षमयेह निरस्यति। यथोरगस्त्वचं जीर्णा स वै पुरुष यः संधारयते मन्यु योऽतिवादांस्तितिक्षते। यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम्॥ यो यजेदपरिश्रान्तो मासि मासि शतं समाः। न क्रुद्धेयद् यश्च सर्वस्य तयोरक्रोधनोऽधिकः॥ यत् कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः। न तत् प्राज्ञोऽनुकुर्वीत न विदुस्ते बलाबलम्॥ देवयान्युवाच वेदाहं तात बालापि धर्माणां यदिहान्तरम्। अक्रोधे चातिवादे च वेद चापि बलाबलम्॥ शिष्यस्याशिष्यवृत्तेस्तु न क्षन्तव्यं बुभूषता। तस्मात् संकीर्णवृत्तेषु वासो मम न रोचते॥ पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च। न तेषु निवसेत् प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु॥ ये त्वेनपभिजानन्ति वृत्तेनाभिजनेन वा। तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते॥ वाग् दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः। मम मनाति हृदयमग्निकाम इवारणिम्॥ यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते। मरणं शोभनं तस्य इति विद्वज्जना विदुः॥ वैशम्पायन उवाच सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम्। लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः॥ ब्राह्मणो बहुभोक्तास्मि भुञ्जेऽपरिमितं सदा। भिक्षे वार्ष्णेयपार्थो वामेकां तृप्तिं प्रयच्छतम्॥ एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ। केनान्नेन भवांस्तृप्येत् तस्यान्नस्य यतावहे॥ एवमुक्तः स भगवानब्रवीत् तावुभौ ततः। भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति॥ ब्राह्मण उवाच नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम्। यदन्नमनुरूपं मे तद् युवां सम्प्रयच्छतम्॥ इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति। न च शक्रोम्यहं दग्धुं रक्ष्यमाणं महात्मना॥ वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा। सगणस्तत्कृते दावं परिरक्षति वज्रभृत्॥ तत्र भूतान्यनेकानि रक्षतेऽस्य प्रसङ्गतः। तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा॥ स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति। ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सिताम्॥ स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः। दहेयं खाण्डवं दावमेतदन्नं वृतं मया॥ युवां ह्यदकधारास्ता भूतानि च समन्ततः। उत्तमास्त्रविदौ सम्यक् सर्वतो वारयिष्यथः॥ जनमेजय उवाच किमर्थं भगवानग्निः खाण्डवं दग्धुमिच्छति। रक्ष्यमाणं महेन्द्रेण नानासत्त्वसमायुतम्॥ न ह्येतत् कारणं ब्रह्मन्नल्पं सम्प्रतिभाति मे। यद् ददाह सुसंक्रुद्धः खाण्डवं हव्यवाहनः॥ एतद् विस्तरशो ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः। खाण्डवस्य पुरा दाहो यथा समभवन्मुने॥ वैशम्पायन उवाच शृणु मे ब्रुवतो राजन् सर्वमेतद् यथातथम्। यनिमित्तं ददाहाग्निः खाण्डवं पृथिवीपते॥ हन्त ते कथयिष्यामि पौराणीमृषिसंस्तुताम्। कथामिमां नरश्रेष्ठ खाण्डवस्य विनाशिनीम्॥ पौराणः श्रूयते राजन् राजा हरिहयोपमः। श्वेतकिर्नाम विख्यातो बलविक्रमसंयुतः॥ यज्वा दानपतिर्थीमान् यथा नान्योऽस्ति कञ्चन। ईजे च स महायज्ञैः क्रतुभिश्चाप्तदक्षिणैः॥ तस्य नान्याभवद् बुद्धिर्दिवसे दिवसे नृप। सत्रे क्रियासमारम्भे दानेषु विविधेषु च॥ ऋत्विग्भिः सहितो धीमानेवमीजे स भूमिपः। ततस्तु ऋत्विजश्चास्य धूमव्याकुललोचनाः॥ कालेन महता खिन्नास्तत्यजुस्ते नराधिपम्। ततः प्रचोदयामास ऋत्विजस्तान् महीपतिः॥ चक्षुर्विकलतां प्राप्ता न प्रपेदुश्च ते क्रतुम्। ततस्तेषामनुमते तद् विप्रैस्तु नराधिपः॥ सत्रं समापयामास ऋत्विग्भिपरैः सह। तस्यैवं वर्तमानस्य कदाचित् कालपयये॥ सत्रमाहर्तुकामस्य सवंत्सरशतं किल। ऋत्विजो नाभ्यपद्यन्त समाहर्तुं महात्मनः॥ स च राजाकरोद् यत्नं महान्तं ससुहृज्जनः। प्रणिपातेन सान्त्वेन दानेन च महायशाः॥ ऋत्विजोऽनुनयामास भूयो भूयस्त्वतन्द्रितः। ते चास्य तमभिप्रायं न चक्रुरमितौजसः॥ स चाश्रमस्थान् राजर्षिस्तानुवाच रुषान्वितः। यद्यहं पतितो विप्राः शुश्रूषायां न च स्थितः॥ आशु त्याज्योऽस्मि युष्माभिर्ब्राह्मणैश्च जुगुप्सितः। तन्नार्हथ क्रतुश्रद्धां व्याघातयितुमद्य ताम्॥ अस्थाने वा परित्यागं कर्तुं मे द्विजसत्तमाः। प्रपन्न एव वो विप्राः प्रसादं कर्तुमर्हथ॥ सान्त्वदानादिभिर्वाक्येस्तत्त्वतः कार्यवत्तया। प्रसादयित्वा वक्ष्यामि यन्नः कार्यं द्विजोत्तमाः॥ अथवाहं परित्यक्तो भवद्भिदे॒षकारणात्। ऋत्विजोऽन्यान् गमिष्यामि याजनार्थं द्विजोत्तमाः॥ एतावदुक्त्वा वचनं विरराम स पार्थिवः। यदा न शेकू राजानं याजनार्थं परंतपः॥ ततस्ते याजकः क्रुद्धास्तमूचुर्नृपसत्तमम्। तव कर्माण्यजस्रं वै वर्तन्ते पार्थिवोत्तम॥ ततो वयं परिश्रान्ताः सततं कर्मवाहिनः। श्रमादस्मात् परिश्रान्तान् स त्वं नस्त्यक्तुमर्हसि॥ बुद्धिमोहं समास्थाय त्वरासम्भावितोऽनघ। गच्छ रुद्रसकाशं त्वं स हि त्वां याजयिष्यति॥ साधिक्षेपं वचः श्रुत्वा संक्रुद्धः श्वेतकिर्नृपः। कैलास पर्वतं गत्वा तप उग्रं समास्थितः॥ आराधयन् महादेवं नियतः संशितव्रतः। उपवासपरो राजन् दीर्घकालमतिष्ठत॥ कदाचिद् द्वादशे काले कदाचिदपि षोडशे। आहारमकरोद् राजा मूलानि च फलानि च॥ ऊर्ध्वबाहुस्त्वनिमिषस्तिष्ठन् स्थाणुरिवाचलः। षण्मासानभवद् राजा श्वेतकिः सुसमाहितः॥ तं तथा नृपशार्दूलं तप्यमानं महत् तपः। शंकरः परमप्रीत्या दर्शयामास भारत॥ उवाच चैनं भगवान् स्निग्धगम्भीरया गिरा। प्रीतोऽस्मि नरशार्दूल तपसा ते परंतप॥ वरं वृणीष्व भद्रं ते यं त्वमिच्छसि पार्थिव। एतच्छ्रुत्वा तु वचनं रुद्रस्यामिततेजसः॥ प्रणिपत्य महात्मानं राजर्षिः प्रत्यभाषत। यदि मे भगवान् प्रीतः सर्वलोकनमस्कृतः॥ स्वयं मां देवदेवेश याजयस्व सुरेश्वर। एतच्छ्रुत्वा तु वचनं राज्ञा तेन प्रभाषितम्॥ उवाच भगवान् प्रीतः स्मितपूर्वमिदं वचः। नास्माकमेष विषयो वर्तते याजनं प्रति॥ त्वया च सुमहत् तप्तं तपो राजन् वरार्थिना। याजयिष्यामि राजांस्त्वां समयेन परंपत॥ रुद्र उवाच समा द्वादश राजेन्द्र ब्रह्मचारी समाहितः। सततं त्वाज्यधाराभिर्यदि तर्पयसेऽनलम्॥ कामं प्रार्थयसे यं त्वं मत्तः प्राप्स्यसि तं नृप। एवमुक्तश्च रुद्रेण श्वेतकिर्मनुजाधिपः॥ तथा चकार तत् सर्वं यथोक्तं शूलपाणिना। पूर्णे तु द्वादशे वर्षे पुनरायान्महेश्वरः॥ दृष्ट्वैव च स राजानं शंकरो लोकभावनः। उवाच परमप्रीतः श्वेतकिं नृपसत्तमम्॥ तोषितोऽहं नृपश्रेष्ठ त्वयेहाद्येन कर्मणा। याजनं ब्राह्मणानां तु विधिदृष्टं परंतप॥ अतोऽहं त्वां स्वयं नाद्य याजयामि परंतय। ममांशस्तु क्षितितले महाभागो द्विजोत्तमः॥ दुर्वासा इति विख्यातः स हि त्वां याजयिष्यति। मन्नियोगान्महातेजाः सम्भाराः सम्भ्रियन्तु ते॥ एतच्छ्रुत्वा तु वचनं रुद्रेण समुदाहृतम्। स्वपुरं पुनरागम्य सम्भारान् पुनरार्जयत्॥ ततः सम्भृतसम्भारो भूयो रुद्रमुपागमत्। सम्भृता मम सम्भारा: सर्वोपकरणानि च॥ त्वत्प्रसादान्महादेव श्वो मे दीक्षा भवेदिति। एतच्छ्रुत्वा तु वचनं तस्य राज्ञो महात्मनः॥ दुर्वाससं समाहूय रुद्रो वचनमब्रवीत्। एष राजा महाभागः श्वेतकिर्द्विजसत्तम॥ एनं याजय विप्रेन्द्र मन्नियोगेन भूमिपम्। बाढमित्येव वचनं रुद्रं त्वृषिरुवाच ह॥ ततः सत्रं समभवत् तस्य राज्ञो महात्मनः। यथाविधिः यथाकालं यथोक्तं बहुदक्षिणम्॥ तस्मिन् परिसमाप्ते तु राज्ञः सत्रे महात्मनः। दुर्वाससाभ्यनुज्ञाता विप्रतस्थुः स्म याजकः॥ ये तत्र दीक्षिताः सर्वे सदस्याश्च महौजसः। सोऽपि राजन् महाभागः स्वपुरं प्राविशत् तदा॥ पूज्यमानो महाभागैाह्मणैर्वेदपारगैः। वन्दिभिः स्तूयमानश्च नागरैश्चाभिनन्दितः॥ एवंवृत्तः स राजर्षिः श्वेतकिर्नृपसत्तमः। कालेन महता चापि ययौ स्वर्गमभिष्टुतः॥ ऋत्विग्भिः सहितः सर्वैः सदस्यैश्च समन्वितः। तस्य सत्रे पपौ वह्निर्हविदश वत्सरान्॥ सततं चाज्यधाराभिरैकात्म्ये तत्र कर्मणि। हविषा च ततो वह्निः परां तृप्तिमगच्छत॥ न चैच्छत् पुनरादातुं हविरन्यस्य कस्यचित्। पाण्डुवर्णो विवर्णश्च न यथावत् प्रकाशते॥ ततो भगवतो वह्नर्विकारः समजायत। तेजसा विप्रहीणश्च ग्लानिश्चैनं समाविशत्॥ स लक्षयित्वा चात्मानं तेजोहीनं हुताशनः। जगाम सदनं पुण्यं ब्रह्मणो लोकपूजितम्॥ तत्र ब्रह्माणमासीनमिदं वचनमब्रवीत्। भगवन् परमा प्रीतिः कृता मे श्वेतकेतुना॥ अरुचिश्चाभवत् तीव्रा तां न शक्नोभ्यपोहितुम्। तेजसा विप्रहीणोऽस्मि बलेन च जगत्पते॥ इच्छेय त्वत्प्रसादेन स्वात्मनः प्रकृति स्थिराम्। एतच्छ्रुत्वा हुतवहाद् भगवान् सर्वलोककृत॥ हव्यवाहमिदं वाक्यमुवाच प्रहसन्निव। त्वया द्वादश वर्षाणि वसोर्धाराहुतं हविः॥ उपयुक्तं महाभाग तेन त्वां ग्लानिराविशत्। तेजसा विप्रहीणत्वात् सहसा हव्यवाहन॥ मा गमस्त्वं यथा वह्ने प्रकृतिस्थो भविष्यसि। अरुचिं नाशयिष्येऽहं समयं प्रतिपद्य ते॥ पुरा देवनियोगेन यत् त्वया भस्मसात् कृतम्। आलयं देवशत्रूणां सुघोरं खाण्डवं वनम्॥ तत्र सर्वाणि सत्त्वानि निवसन्ति विभावसो। तेषां त्वं मेदसा तृप्तः प्रकृतिस्थो भविष्यसि॥ गच्छ शीघ्रं प्रदग्धुं त्वं ततो मोक्ष्यसि किल्बिषात्। एतच्छ्रुत्वा तु वचनं परमेष्ठिमुखाच्च्युतम्॥ उत्तमं जवमास्थाय प्रदुद्राव हुताशनः। आगम्य खाण्डवं दावमुत्तमं वीर्यमास्थितः। सहसा प्राज्वलच्चाग्निः क्रुद्धो वायुसमीरितः॥ प्रदीप्तं खाण्डवं दृष्ट्वा ये स्युस्तत्र निवासिनः। परमं यत्नमातिष्ठन् पावकस्य प्रशान्तये॥ करैस्तु करिणः शीघ्रं जलमादाय सत्वराः। सिषिचुः पावकं क्रुद्धाः शतशोऽथ सहस्रशः॥ बहुशीर्षास्ततो नागाः शिरोभिर्जलसंततिम्। मुमुचुः पावकाभ्याशे सत्वराः क्रोधमूर्च्छिताः॥ तथैवान्यानि सत्त्वानि नानाप्रहरणोद्यमैः। विलयं पावकं शीघ्रमनयन् भरतर्षभ॥ अनेन तु प्रकारेण भूयो भूयश्च प्रज्वलन्। सप्तकृत्वः प्रशमितः खाण्डवे हव्यवाहनः॥ संजय उवाच तत् प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनजयः। न्यवारयदमेयात्मा द्रोणपुत्रजयेप्सया॥ ततस्ते सैनिका राजन् नैव तत्रावतस्थिरे। संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च॥ एक एव च बीभत्सुः सोमकावयवैः सह। मत्स्यैरन्यैश्च संधाय कौरवान् संन्यवर्तत॥ ततो द्रुतमतिक्रम्य सिंहलाङ्कलकेतनम्। सव्यसाची महेष्वासमश्वत्थामानमब्रवीत्॥ या शक्तिर्यच विज्ञानं यद् वीर्य यच पौरुषम्। धार्तराष्ट्रेषु या प्रीतिर्द्धषोऽस्मासु च यश्च ते॥ यच भूयोऽस्ति तेजस्ते तत् सर्वं मयि दर्शय। स एव द्रोणहन्ता ते दर्प छेत्स्यति पार्षतः॥ कालानलसमप्रख्यं द्विषतामन्तकोपमम्। समासादय पाञ्चाल्यं मां चापि सहकेशवम्। दर्प नाशयितास्म्यद्य तवोत्तस्य संयुगे॥ धृतराष्ट्र उवाच आचार्यपुत्रो मानार्हो बलवांश्चापि संजय। प्रीतिधनंजये चास्य प्रियश्चापि महात्मनः॥ न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम्। अथ कस्मात् स कौन्तेयः सखायं रूक्षमुक्तवान्॥ संजय उवाच युवराजे हते चैव वृद्धक्षत्रे च पौरवे। इष्वस्रविधिसम्पन्ने मालवे च सुदर्शने॥ धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते। युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते॥ अन्तर्भेदे च संजाते दुःखं संस्मृत्य च प्रभो। अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत॥ तस्मादनहमश्लीलमप्रियं द्रौणिमुक्तवान्। मान्यमाचार्यतनयं रूक्षं कापुरुषं यथा॥ एवमुक्तः श्वसन क्रोधान्महेष्वासतमो नृप। पार्थेन परुषं वाक्यं सर्वमर्मभिदा गिरा॥ द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः। स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान्॥ देवैरपि सुदुर्धर्षमस्रमाग्नेयमाददे। दृश्यादृश्यानरिंगणानुद्दिश्याचार्यनन्दनः॥ सोऽभिमन्व्य शरं दीप्तं विधूममिव पावकम्। सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा॥ ततस्तुमुलमाकाशे शरवर्षमजायत। पावकार्चिः परीतं तत् पार्थमेवाभिपुप्लुवे॥ उल्काश्च गगनात् पेतुर्दिशश्च न चकाशिरे। तमश्च सहसा रौद्रं चमूमवततार ताम्॥ रक्षांसि च पिशाचाश्च विनेदुरतिसङ्गताः। ववुश्चाशिशिरा वाताः सूर्यो नैव तताप च॥ वायसाश्चापि चाक्रन्दन् दिक्षु सर्वासु भैरवम्। रुधिरं चापि वर्षन्तो विनेदुस्तोयदा दिवि॥ पाणिः पशवो गावो विनेदुश्चापि सुव्रताः। परमं प्रयतात्मानो न शान्तिमुपलेभिरे॥ भ्रान्तसर्वमहाभूतमावर्तितदिवाकरम्। त्रैलोक्यमभिसंतप्तं ज्वराविष्टमिवाभवत्॥ अस्रतेजोऽभिसंतप्ता नागा भूमिशयास्तथा। निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः॥ जलजानि च सत्त्वानि दह्यमानानि भारत। न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः॥ दिग्भ्यः प्रदिग्भ्यः खाद् भूमेः सर्वतः शरवृष्ट्यः। उच्चावचा निपेतुर्वै गरुडानिलरंहसः॥ तैः शरैर्दोणपुत्रस्य वज्रवेगैः समाहताः। प्रदग्धा रिपव: पेतुरग्निदग्धा इव द्रुमाः॥ दह्यमाना महानागाः पेतुरुआं समन्ततः। नदन्तो भैरवान् नादाञ्जलदोपमनि:स्वनान्॥ अपरे प्रद्रुता नागा भयत्रस्ता विशाम्पते। भ्रेमुर्दिशो यथा पूर्वं वने दावाग्निसंवृताः॥ दुमाणां शिखराणीव दावदग्धानि मारिष। अश्ववृन्दान्यदृश्यन्त रथवृन्दानि भारत॥ अपतन्त रथौघाश्च तत्र तत्र सहस्रशः। तत् सैन्यं भयसंविग्नं ददाह युधि भारत॥ युगान्ते सर्वभूतानि संवर्तक इवानलः। दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे॥ प्रहृष्टास्तावका राजन् सिंहनादान् विनेदिरे। ततस्तूर्यसहस्राणि नानालिङ्गानि भारत॥ तूर्णमाजजिरे हृष्टास्तावका जितकाशिनः। कृत्स्ना ह्यक्षौहिणी राजन् सव्यसाची च पाण्डवः।। ३४ तमसा संवृते लोके नादृश्यन्त महाहवे। नैव नस्तादृशं राजन् दृष्टपूर्वं न च श्रुतम्॥ यादृशं द्रोणपुत्रेण सृष्टमस्रममर्षिणा। अर्जुनस्तु महाराज ब्राह्ममस्रमुदैरयत्॥ सर्वासप्रतिघातार्थं विहितं पद्मयोनिना। ततो मुहूर्तादिव तत् तमो व्युपशशाम ह॥ प्रववौ चानिलः शीतो दिशश्च विमला बभुः। तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणी हताम्॥ अनभिज्ञेयरूपां च प्रदग्धामस्रतेजसा। ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ॥ सहितौ प्रत्यदृश्येतां नभसीव तमोनुदौ। ततो गाण्डीवधन्वा च केशवश्चाक्षतावुभौ॥ सपताकध्वजहयः सानुकर्षवरायुधः। प्रबभौ स रथो मुक्तस्तावकानां भयंकरः॥ ततः किलकिलाशब्दः शङ्खभेरीस्वनैः सह। पाण्डवानां प्रहृष्टानां क्षणेन समजायत॥ हताविति तयोरासीत् सेनयोरुभयोर्मतिः। तरसाभ्यागतौ दृष्ट्वा सहितौ केशवार्जुनौ॥ तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ। दृष्टवा प्रमुदितान् पार्थांस्त्वदीया व्यथिता भृशम्॥ विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः। मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष॥ चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः। निःश्वसन् दीर्घमुष्णं च विमनाश्चाभवत् ततः॥ ततो द्रौणिर्धनुस्त्यक्त्वा रथात् प्रस्कन्ध वेगितः। धिग् धिक् सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद् रणात्।। ततः स्निग्धाम्बुदाभासं वेदावासमकल्मषम्। वेदव्यासं सरस्वत्यावासं व्यासं ददर्श ह॥ तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह। सन्नकण्ठोऽब्रवीद् वाक्यमभिवाद्य सुदीनवत्॥ भो भो माया यदृच्छा वा न विद्यः किमिदं भवेत्। असं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः॥ अधरोत्तरमेतद् वा लोकानां वा पराभवः। यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः॥ नासुरा न च गन्धर्वा न पिशाचा न राक्षसाः। न सर्पा यक्षपतगा न मनुष्याः कथंचन॥ उत्सहन्तेऽन्यथा कर्तुमेतदस्रं मयेरितम्। तदिदं केवलं हत्वा शान्तमक्षौहिणी ज्वलत्॥ सर्वघाति मया मुक्तमत्रं परमदारुणम्। केनेमौ मर्त्यधर्माणौ नावधीत् केशवार्जुनौ॥ एतत् प्रब्रूहि भगवन् मया पृष्टो यथातथम्। श्रोतुमिच्छामि तत्त्वेन सर्वमेतन्महामुने॥ व्यास उवाच महान्तमेवमथ मां यं त्वं पृच्छसि विस्मयात्। तं प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु॥ योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः। अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत्॥ स तपस्तीव्रमातस्थे शिशिरं गिरिमास्थितः। ऊर्वबाहुर्महातेजा ज्वलनादित्यसंनिभः॥ षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च। अशोषयत् तदाऽऽत्मानं वायुभक्षोऽम्बुजेक्षणः॥ अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत् पुनर्महत्। द्यावापृथिव्योर्विवरं तेजसा समपूरयत्॥ स तेन तपसा तात ब्रह्मभूतो यदाभवत्। ततो विश्वेश्वरं योनि विश्वस्य जगतः पतिम्॥ ददर्श भृशदुर्धर्षं सर्वदेवैरभिष्टुतम्। अणीयांसमणुभ्यश्च बृहद्भ्यश्च बृहत्तमम्॥ रुद्रमीशानवृषभं हरं शम्भुं कपर्दिनम्। चेकितानं परां योनि तिष्ठतो गच्छतश्च ह॥ दुर्वारणं दुर्दशं तिग्ममन्यु महात्मानं सर्वहरं प्रचेतसम्। दिव्यं चापमिषुधी चाददानं हिरण्यवर्माणमनन्तवीर्यम्॥ पिनाकिनं वज्रिणं दीप्तशूलं परश्वधि गदिनं चायतासिम्। शुभंजटिलं मुसलिनं चन्द्रमौलिं व्याघ्राजिनं परिघिणं दण्डपाणिम्॥ शुभाङ्गदं नागयज्ञोपवीतं विश्वैगणैः शोभितं भूतसंधैः। एकीभूतं तपसा संनिधानं वयोऽतिगैः सुष्टुतमिष्टवाग्भिः॥ जलं दिशं खं क्षितिं चन्द्रसूर्यो तथा वाय्वग्नी प्रमिमाणं जगच। नालं द्रष्टुं यं जना भिन्नवृत्ता ब्रह्मद्विषघ्नममृतस्य योनिम्॥ यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः क्षीणे पापे मनसा वीतशोकाः। तं निष्पतन्तं तपसा धर्ममीड्यं तद्भक्त्या वै विश्वरूपं ददर्श। दृष्ट्वा चैनं वामनोबुद्धिदेहै: संहष्टात्मा मुमुदे वासुदेवः॥ अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम्। ततो नारायणो दृष्ट्वा ववन्दे विश्वसम्भवम्॥ वरदं पृथुचावड्या पार्वत्या सहितं प्रभुम्। क्रीडमानं महात्मानं भूतसङ्घगणैर्वृतम्॥ अजमीशानमव्यक्तं कारणात्मानमच्युतम्। अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने। पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान्॥ श्रीनारायण उवाच त्वत्सम्भूता भूतकृतो वरेण्य गोप्तारोऽस्य भुवनस्यादिदेव। आविश्येमां धरणीं येऽभ्यरक्षन्। पुरा पुराणी तव देवसृष्टिम्॥ सुरासुरान् नागरक्षः पिशाचान् नरान् सुपर्णानथ गन्धर्वयक्षान्। पृथग्विधान् भूतसंघांश्च विश्वां स्त्वत्सम्भूतान् विद्म सर्वांस्तथैव। ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं पैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम्॥ रूपं ज्योतिः शब्द आकाशवायुः स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी। कालो ब्रह्मा ब्रह्म च ब्राह्मणाश्च त्वत्सम्भूतं स्थास्नु चरिष्णु चेदम्॥ अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं ताभिश्चैक्यं संक्षये यान्ति भूयः। एवं विद्वान् प्रभवं चाप्ययं च मत्वा भूतानां तव सायुज्यमेति॥ दिव्यामृतौ मानसौ द्वौ सुपर्णी वाचा शाखाः पिप्पलाः सप्त गोपाः। दशाप्यन्ये ये पुरं धारयन्ति त्वया सृष्टास्त्वं हि तेभ्यः परोहि॥ भूतं भव्यं भविता चाप्यधृष्यं त्वत्सम्भूता भुवनानीह विश्वा। भक्तं च मां भजमानं भजस्व मा रीरिषो मामहिताहितेन॥ आत्मानं त्वामात्मनोऽनन्यबोधं विद्वानेवं गच्छति ब्रह्म शुक्रम्। अस्तौषं त्वां तव सम्मानमिच्छन् विचिन्वन् वै सदृशं देववर्य। नभिष्टुतः प्रविकार्षीश्च मायाम्॥ व्यास उवाच तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृत्। अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः॥ श्रीभगवानुवाच मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु। अप्रमेयबलात्मा त्वं नारायण भविष्यसि॥ न च त्वां प्रसहिष्यन्ति देवासुरमहोरगाः। न पिशाचा न गन्धर्वा न यक्षा न च राक्षसाः॥ न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः। न कश्चित् त्वां च देवोऽपि समरेषु विजेष्यति॥ न शस्त्रेण न वज्रेण नाग्निना न च वायुना। न चाट्टैण न शुष्केण ब्रसेन स्थावरेण च॥ कश्चित् तव रुजां कर्ता मत्प्रसादात् कथंचना अवि वै समरं गत्वा भविष्यसि ममाधिकः॥ एवमेते वरा लब्धाः पुरस्ताद् विद्धि शौरिणा। स एष देवश्चरति मायया मोहयञ्जगत्॥ तस्यैव तपसा जातं नरं नाम महामुनिम्। तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा॥ तावेतौ पूर्वदेवानां परमोपचितावृषी। लोकयात्राविधानार्थं संजायेते युगे युगे॥ तथैव कर्मणा कृत्स्नं महतस्तपसोऽपि च। तेजो मन्युं च विभ्रत्त्वं जातो रौद्रो महामते॥ स भवान् देववत् प्राज्ञो ज्ञात्वा भवमयं जगत्। अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया॥ शुभ्रमत्र भवान् कृत्वा महापुरुषविग्रहम्। ईजिवांस्त्वं जपैोमैरुपहारैश्च मानद॥ जन्मकर्ततपोयोगास्तयोस्तव च पुष्कलाः। ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे॥ सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम्। आत्मयोगाश्च तस्मिन् वै शास्त्रयोगाश्च शाश्वताः॥ एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः। प्रार्थयन्ते परं लोके स्थाणुमेकं स सर्वकृत्॥ स एष रुद्रभक्तश्च केशवो रुद्रसम्भवः। कृष्ण एव हि यष्टव्यो यज्ञैश्चैव सनातनः॥ सर्वभूतभवं ज्ञात्वा लिङ्गमर्चति यः प्रभोः। तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः॥ संजय उवाच तस्य तद् वचनं श्रुत्वा द्रोणपुत्रो महारथः। नमश्चकार रुद्राय बहु मेने च केशवम्॥ हृष्टरोमा च वश्यात्मा सोऽभिवाद्य महर्षये। वरूथिनीमभिप्रेक्ष्य ह्यवहारमकारयत्॥ ततः प्रत्यवहारोऽभूत् पाण्डवानां विशाम्पते। कौरवाणां च दीनानां द्रोणे युधि निपातिते॥ युद्धं कृत्वा दिनान् पञ्च द्रोणो हत्वा वरूथिनीम्। ब्रह्मलोकं गतो राजन् ब्राह्मणो वेदपारगः॥ भीष्म उवाच एवमुक्तस्य दूतेन दुपदस्य तदा नृप। चोरस्येव गृहीतस्य न प्रावर्तत भारती॥ स यत्नमकरोत् तीव्र सम्बन्धिन्यनुमानने। दूतैर्मधुरसम्भाषैर्न तदस्तीति संदिशन्॥ स राजा भूय एवाथ ज्ञात्वा तत्त्वमथागमत्। कन्येति पाञ्चालसुतां त्वरमाणो विनिर्ययौ।॥ ततः सम्प्रेषयामास मित्राणाममितौजसाम्। दुहितुर्विप्रेलम्भं तं धात्रीणां वचनात् तदा॥ ततः समुदयं कृत्वा बलानां राजसत्तमः। अभियाने मतिं चक्रे दुपदं प्रति भारत॥ ततः सम्मन्त्रयामास मन्त्रिभिः स महीपतिः। हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति॥ तत्र वै निश्चितं तेषामभूद् राज्ञां महात्मनाम्। तथ्यं भवति चेदेतत् कन्या राजन् शिखण्डिनी॥ बद्ध्वा पञ्चालराजानमानयिष्यामहे गृहम्। अन्यं राजानमाधाय पञ्चालेषु नरेश्वरम्॥ घातयिष्याम नृपतिं पाञ्चालं सशिखण्डिनम्॥ तत् तदाऽनृतमाज्ञाय पुनर्वृतान्नराधिपः। प्रास्थापयत् पार्षताय निहन्मीति स्थिरो भव॥ भीष्म उवाच स हि प्रकृत्या वै भीतः किल्बिषी च नराधिपः। भयं तीव्रमनुप्राप्तो दुपदः पृथिवीपतिः॥ विसृज्य दूतान् दाशार्णे दुपदः शोकमूर्छितः। समेत्य भार्या रहिते वाक्यमाह नराधिपः॥ भयेन महताऽऽविष्टो हृदि शोकेन चाहतः। पाञ्चालराजो दयितां मातरं वै शिखण्डिनः॥ अभियास्यति मां कोपात् सम्बन्धी सुमहाबलः। हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम्॥ किमिदानीं करिष्यावो मूढौ कन्यामिमां प्रति। शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः॥ इति संचिन्त्य यत्नेन समित्रः सबलानुगः। वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति॥ किमत्र तथ्यं सुश्रोणि मिथ्या किं ब्रूहि शोभने। श्रुत्वा त्वत्तः शुभं वाक्यं संविधास्याम्यहं तथा॥ अहं हि संशयं प्राप्तो बाला चेयं शिखण्डिनी। त्वं च राज्ञि महत् कृच्छ्रे सम्प्राप्ता वरवर्णिनि॥ सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः। तथा विदध्यां सुश्रोणि कृत्यमाशु शुचिस्मिते॥ शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः। कृपयाऽहं वरारोहे वञ्चितः पुत्रधर्मतः॥ मया दाशार्णको राजा वञ्चितः स महीपतिः। तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम्॥ जानता हि नरेन्द्रेण ख्यापनार्थं परस्य वै। प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम्॥ दुपद उवाच भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः। बुद्धिमत्सु नराः श्रेष्ठा नरेष्वपि द्विजातयः॥ द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः। कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः॥ स भवान् कृतबुद्धीनां प्रधान इति मे मतिः। कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च॥ प्रज्ञया सदृशश्चासि शुक्रेणाङ्गिरसेन च। विदितं चापि ते सर्वं यथावृत्तः स कौरवः॥ पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः। धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः॥ विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते। शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत्॥ अनक्षज्ञं मताक्षः सन् क्षत्रवृत्ते स्थितं शुचिम्। ते तथा वञ्चयित्वा तु धर्मराज युधिष्ठिरम्॥ न कस्याञ्चिदवस्थायां राज्यं दास्यन्ति वै स्वयम्। भवांस्तु धर्मसंयुक्तं धृतराष्ट्र ब्रुवन् वचः॥ मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति। विदुरश्चापि तद् वाक्यं साधयिष्यति तावकम्॥ भीष्मद्रोणकृपादीनां भेदं संजनयिष्यति। अमात्येषु च भिन्नेषु योधेषु विमुखेषु च॥ पुनरेकत्रकरणं तेषां कर्म भविष्यति। एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः॥ सेनाकर्म करिष्यन्ति द्रव्याणां चैव संचयम्। विद्यमानेषु च स्वेषु लम्बमाने तथा त्वयि॥ न तथा ते करिष्यन्ति सेनाकर्म न संशयः। एतत् प्रयोजनं चात्र प्राधान्येनोपलभ्यते॥ संगत्या धृतराष्ट्रश्च कुर्याद् धर्म्यं वचस्तव। स भवान् धर्मयुक्तश्च धन॑ तेषु समाचरन्॥ कृपालुषु परिक्लेशान् पाण्डवीयान् प्रकीर्तयन्। वृद्धेषु कुलधर्मं च ब्रुवन् पूर्वैरनुष्ठितम्॥ विभेत्स्यति मनांस्येषामिति मे नात्र संशयः। न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित्॥ दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः। स भवान् पुष्ययोगेन मुहूर्तेन जयेन च। कौरवेयान् प्रयात्वाशु कौन्तेयस्यार्थसिद्धये॥ वैशम्पायन उवाच तथानुशिष्टः प्रययौ दुपदेन महात्मना। पुरोधा वृत्तसम्पन्नो नगरं नागसाह्वयम्॥ शिष्यैः परिवृतो विद्वान् नीतिशास्त्रार्थकोविदः। पाण्डवानां हितार्थाय कौरवान् प्रति जग्मिवान्॥ वैशम्पायन उवाच चातुराश्रम्यधर्माश्च यतिधर्माश्च पाण्डव। लोकवेदोत्तराश्चैव क्षात्रधर्मे समाहिताः॥ सर्वाण्येतानि कर्माणि क्षात्रे भरतसत्तम। निराशिषो जीवलोकाः क्षत्रधर्मेऽव्यवस्थिते॥ अप्रत्यक्षं बहुद्वारं धर्ममाश्रमवासिनाम्। प्ररूपयन्ति तद्भावमागमैरेव शाश्वतम्॥ अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चयम्। अनिश्चयज्ञा धर्माणामदृष्टान्ते परे हताः॥ प्रत्यक्षं सुखभूयिष्ठमात्मसाक्षिकमच्छलम्। सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम्॥ धर्माश्रमेऽध्यवसिनां ब्राह्मणानां युधिष्ठिर। यथा त्रयाणां वर्णानां संख्यातोपश्रुतिः पुराः॥ राजधर्मेष्वनुमता लोकाः सुचरितैः सह। उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम्॥ सर्वभूतेश्वरं देवं प्रभुं नारायणं पुरा। जग्मुः सुबहुशः शूरा राजानो दण्डनीतये॥ एकैकमात्मनः कर्म तुलयित्वाऽऽश्रमं पुरा। राजानः पर्युपासन्त दृष्टान्तवचने स्थिताः॥ साध्या देवा वसवश्चाश्विनौ च रुद्राश्च विश्वे मरुतां गणाश्च। सृष्टाः पुरा ह्यादिदेवेन देवाः क्षात्रे धर्मे वर्तयन्ते च सिद्धाः॥ अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चयम्। निर्मर्यादे वर्तमाने दानवैकार्णवे पुरा॥ बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान्। पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया॥ अनादिमध्यनिधनं देवं नारायणं प्रभुम्। स राजा राजशार्दूल मान्धाता परमेश्वरम्॥ जगाम शिरसा पादौ यज्ञे विष्णोर्महात्मनः। दर्शयामास तं विष्णू रूपमास्थाय वासवम्॥ स पार्थिवैर्वृतः सद्भिरर्चयामास तं प्रभुम्। तस्य पार्थिवसिंहस्य तस्य चैव महात्मनः। संवादोऽयं महानासीद् विष्णुं प्रति महाद्युतिम्॥ इन्द्र उवाच किमिष्यते धर्मभृतां वरिष्ठ यद् द्रष्टुकामोऽसि तमप्रमेयम्। अनन्तमायामितमन्त्रवीर्य नारायणं ह्यादिदेवं पुराणम्॥ नासौ देवो विश्वरूपो मयापि शक्योद्रष्टुं ब्रह्मणा वापि साक्षात्। येऽन्ये कामास्तव राजन् हृदिस्था दास्ये चैतांस्त्वं हि मर्येषु राजा॥ सत्ये स्थितो धर्मपरो जितेन्द्रियः शूरो दृढप्रीतिरत: सुराणाम्। बुद्ध्या भक्त्या चोत्तमश्रद्धया च ततस्तेऽहं दधि वरान् यथेष्टम्॥ मान्धातोवाच असंशयं भगवन्नादिदेवं द्रक्ष्यामित्वाहं शिरसा सम्प्रसाद्य। त्यक्त्वा कामान् धर्मकामो ह्यरमे मिच्छे गन्तुं सत्पथं लोकदृष्टम्॥ क्षात्राद् धर्माद् विपुलादप्रमेय ल्लोकाः प्राप्ताः स्थापितं स्वं यशश्च। धर्मो योऽसावादिदेवात् प्रवृत्तो लोकश्रेष्ठं तं न जानामि कर्तुम्॥ इन्द्र उवाच असैनिका धर्मपराश्च धर्म परां गतिं न नयन्ते ह्ययुक्तम्। क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः पश्चादन्ये शेषभूताश्च धर्माः॥ शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः सप्रस्थानाः क्षात्रधर्मा विशिष्टाः। स्तस्माद् धर्मं श्रेष्ठमिमं वदन्ति॥ कर्मणा वै पुरा देवा ऋषयश्चामितौजसः। त्राता: सर्वं प्रसह्यारीन्क्षत्रधर्मेण विष्णुना॥ यदि ह्यसौ भगवान्नाहनिष्यद् रिपून् सर्वानसुरानप्रमेयः। न ब्राह्मणा न च लोकादिकर्ता नायं धर्मो नादिधर्मोऽभविष्यत्॥ इमामुर्वी नाजयद्विक्रमेण देवश्रेष्ठः सासुरामादिदेवः। चातुर्वण्र्यं चातुराश्रम्यधर्माः सर्वे न स्युर्ब्राह्मणानां विनाशात्॥ नष्टा धर्माः शतधा शाश्वतास्ते क्षात्रेण धर्मेण पुनः प्रवृद्धाः। युगे युगे ह्यादिधर्माः प्रवृत्ता लोकज्येष्ठं क्षात्रधर्मं वदन्ति॥ आत्मत्यागः सर्वभूतानुकम्पा लोकज्ञानं पालनं मोक्षणं च। विषण्णानां मोक्षणं पीडिताना क्षात्रे धर्मे विद्यते पार्थिवानाम्॥ निर्मर्यादा: काममन्युप्रवृत्ता भीता राज्ञो नाधिगच्छन्ति पापम्। शिष्टाश्चान्ये सर्वधर्मोपपन्नाः साध्वाचाराः साधु धर्मं वदन्ति॥ पुत्रवत् पाल्यमानानि राजधर्मेण पार्थिवैः। लोके भूतानि सर्वाणि चरन्ते नात्र संशयः॥ सर्वधर्मपरं क्षात्रं लोकश्रेष्ठं सनातनम्। शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम्॥ युधिष्ठिर उवाच कुत: सृष्टमिदं विश्वं जगत् स्थावरजङ्गमम्। प्रलये च कमभ्येति तन्मे ब्रूहि पितामह॥ ससागरः सगगन सशैलः सबलाहकः। सभूमिः साग्निपवनो लोकोऽयं केन निर्मित:॥ कथं सृष्टानि भूतानि कथं वर्णविभक्तयः। शौचशौचं कथं तेषां धर्माधर्मविधिः कथम्॥ कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः। अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान्॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। भृगुणाभिहितं शास्त्रं भरद्वाजाय पृच्छते॥ भृगु महर्षिमासीनं भरद्वाजोऽन्वपृच्छत्॥ ससागर: सगगनः सशैल: सबलाहकः। सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः॥ कथं सृष्टानि भूतानि कथं वर्णविभक्तयः। शौचाशौचं कथं तेषां धर्माधर्मविधिः कथम्॥ कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः। परलोकमिमं चापि सर्वं शंसितुमर्हसि॥ एवं स भगवान् पृष्टो भरद्वाजेन संशयम्। ब्रह्मर्षिर्ब्रह्मसंकाशः सर्वं तस्मै ततोऽब्रवीत्॥ भृगुरुवाच मानसो नाम विख्यातः श्रुतपूर्वो महर्षिभिः। अनादिनिधनो देवस्तथाभेद्योऽजरामरः॥ अव्यक्त इति विख्यातः शाश्वतोऽथाक्षयोऽव्ययः। यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च॥ सोऽसृजत् प्रथमं देवो महान्तं नाम नामतः। महान् ससर्जाहंकारं स चापि भगवानथ॥ आकाशमिति विख्यातं सर्वभूतधरः प्रभुः। आकाशादभवद् वारि सलिलादग्निमारुतौ। अग्निमारुतसंयोगात् ततः समभवन्मही॥ ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा। तस्मात् पद्मात् समभवद् ब्रह्मा वेदमयो निधिः॥ अहंकार इति ख्यातः सर्वभूतात्मभूतकृत्। ब्रह्मा वै स महातेजा य एते पञ्च धातवः॥ शैलास्तस्यास्थिसंज्ञास्तु मेदो मांसं च मेदिनी। समुद्रास्तस्य रुधिरमाकाशमुदरं तथा॥ पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः शिराः। अग्नीषोमौ तु चन्द्रार्को नयने तस्य विश्रुते॥ नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ भुजौ दिशः। दुर्विज्ञेयो ह्यचिन्त्यात्मा सिद्धैरपि न संशयः॥ स एष भगवान् विष्णुरनन्त इति विश्रुतः। सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः॥ अहंकारस्य यः स्रष्टा सर्वभूतभवाय वै। यतः समभवद् विश्वं पृष्टोऽहं यदिह त्वया॥ भरद्वाज उवाच गगनस्य दिशां चैव भूतलस्यानिलस्य वा। कान्यत्र परिमाणानि संशयं छिन्धि तत्त्वतः॥ भृगुरुवाच अनन्तमेतदाकाशं सिद्धदैवतसेवितम्। रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते॥ उर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः। तत्र देवाः स्वयं दीप्ता भास्वराभाग्निवर्चसः॥ ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः। दुर्गमत्वादनन्तत्वादिति मे विद्धि मानद॥ उपरिष्टोपरिष्टात्तु प्रज्वलद्भिः स्वयंप्रभैः। निरुद्धमेतदाकाशमप्रमेयं सुरैरपि॥ पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम्। तमसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च॥ रसातलान्ते सलिलं जलान्ते पन्नगाधिपाः। तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम्॥ एवमन्तं भगवतः प्रमाणं सलिलस्य च। अग्निमारुततोयेभ्यो दुर्जेयं दैवतैरपि॥ अग्निमारुततोयानां वर्णाः क्षितितलस्य च। आकाशादवगृह्यन्ते भिद्यन्तेऽतत्त्वदर्शनात्॥ पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च। त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा॥ अदृश्याय त्वगम्याय कः प्रमाणमुदाहरेत्। सिद्धानां देवतानां च यदा परिमिता गतिः॥ तदा गौणमनन्तस्य नामानन्तेति विश्रुतम्। नामधेयानुरूपस्य मानसस्य महात्मनः॥ यदा तु दिव्यं तद् रूपं ह्रसते वर्धते पुनः। कोऽन्यस्तद्वेदितुं शक्तो योऽपि स्यात् तद्विधोऽपरः॥३४ ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान् प्रभुः। ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः॥ भरद्वाज उवाच पुष्कराद् यदि सम्भूतो ज्येष्ठं भवति पुष्करम्। ब्रह्माणं पूर्वजं चाह भवान् संदेह एव मे॥ भृगुरुवाच मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता। तस्यासनविधानार्थं पृथिवी पद्ममुच्यते॥ कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः। तस्य मध्ये स्थितो लोकान् सृजते जगतः प्रभुः॥ जनमेजय उवाच शरतल्पगते भीष्मे कौरवाणां धुरन्धरे। शयाने वीरशयने पाण्डवैः समुपस्थिते॥ युधिष्ठिरो महाप्राज्ञो भम पूर्वपितामहः। धर्माणामागमं श्रुत्वा विदित्वा सर्वसंशयान्॥ दानानां च विधिं श्रुत्वा च्छिन्नधर्मार्थसंशयः। यदन्यदकरोद् विप्र तन्मे शंसितुमर्हसि॥ वैशम्पायन उवाच अभून्मुहूर्ते स्तिमितं सर्वं तद्राजमण्डलम्। तूष्णीभूते ततस्तस्मिन् पटे चित्रमिवार्पितम्॥ मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतः। नृपं शयानं गाड्यमिदमाह वचस्तदा॥ राजन् प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः। सहितो भ्रातृभिः सर्वैः पार्थिवैश्चानुयायिभिः॥ उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता। तमिमं पुरयानाय समनुज्ञातुमर्हसि॥ एवमुक्तो भगवता व्यासेन पृथिवीपतिः। युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः॥ उवाच चैन मधुरं नृपं शान्तनवो नृपः। प्रविशस्व पुरीं राजन् व्येतु ते मानसो ज्वरः॥ यजस्व विविधैर्यज्ञैर्वबन्नेः स्वाप्तदक्षिणैः। ययातिरिव राजेन्द्र श्रद्धादमपुरःसरः॥ क्षत्रधर्मरतः पार्थ पितॄन् देवांश्च तर्पय। श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः॥ रञ्जयस्व प्रजाः सर्वाः प्रकृती: परिसान्त्वय। सुहृदः फलसत्कारैरर्चयस्व यथार्हतः॥ अनु त्वां तात जीवन्तु मित्राणि सुहृदस्तथा। चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः॥ आगन्तव्यं च भवता समये मम पार्थिव। विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे॥ तथेत्युक्त्वा च कौन्तेयः सोऽभिवाद्य पितामहम्। प्रययौ सपरीवारो नगरं नागसाह्वयम्॥ धृतराष्ट्र पुरस्कृत्य गान्धारी च पतिव्रताम्। सह तैर्ऋषिभिः सर्वैतृभिः केशवेन च॥ पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिव। प्रविवेश कुरुश्रेष्ठः पुरं वारणसाह्वयम्॥ वैशम्पायन उवाच एतच्छ्रुत्वा तु कौन्तेयः सर्वान् भ्रातृनुपह्वरे। आहूष भरतश्रेष्ठ इदं वचनमब्रवीत्॥ युधिष्ठिर उवाच धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम। ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम्॥ दुर्योधनः किलापृच्छदापगेयं महाव्रतम्। केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो॥ मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः। तावता चापि कालेन द्रोणोऽपि प्रतिजज्ञिवान्॥ गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम्। द्रोणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित्॥ तथा दिव्यास्त्रवितं कर्णः सम्पृष्टः कुरुसंसदि। पञ्चमिर्दिवसैर्हन्तुं ससैन्यं प्रतिजज्ञिवान्॥ तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः। कालेन कियता शत्रून् क्षपयेरिति फाल्गुन॥ एवमुक्तो गुडाकेशः पार्थिवेन धनंजयः। वासुदेवं समीक्ष्येदं वचनं प्रत्यभाषत॥ सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः। असंशयं महाराज हन्युरेव न संशयः॥ अपैतु ते मनस्तापो यथा सत्यं ब्रवीम्यहम्। हन्यामेकरथेनैव वासुदेवसहायवान्॥ सामरानपि लोकांस्त्रीन् सर्वान् स्थावरजङ्गमान्। भूतं भव्यं भविष्यं च निमेषादिति मे मतिः॥ तद् घोरं पशुपतिः प्रादादस्त्रं महन्मम। कैराते द्वन्द्वयुद्धे तु तदिदं मयि वर्तते॥ यद् युगान्ते पशुपतिः सर्वभूतानि संहरन्। प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते॥ तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः। न च द्रोणसुतो राजन् कुत एव तु सूतजः॥ न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम्। आर्जवेनैव युद्धेन विजेष्यामो वयं परान्॥ तथेमे पुरुषव्याघ्राः सहायास्तत्र पार्थिव। सर्वे दिव्यास्त्रविद्वांसः सर्वे युद्धाभिकाक्षिणः॥ वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः। निहन्युः समरे सेनां देवानामपि पाण्डवः॥ शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः। भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ॥ विराटदुपदौ चोभौ भीष्मद्रोणसमौ युधि। शङ्खश्चैव महाबाहु डिम्बश्च महाबलः॥ पुत्रोऽस्याञ्जनपर्वा तु महाबलपराक्रमः। शैनेयश्च महाबाहुः सहायो रणकोविदः॥ अभिमन्युश्च बलवान् द्रौपद्याः पञ्च चात्मजाः। स्वयं चापि समर्थोऽसि त्रैलोक्योत्सादनेऽपि च॥ क्रोधाद् यं पुरुषं पश्येस्तथा शकसमाते। स क्षिप्रं न भवेद् व्यक्तमिति त्वां वेनि कौरव॥ संजय उवाच प्रत्यागत्य पुनर्जिष्णुर्जघ्ने संशप्तकान् बहून्। वक्रादिवक्रगमनादङ्कारक इव ग्रहः॥ पार्थबाणहता राजन् नराश्वरथकुञ्जराः। विचेलुर्बभ्रमर्नेशुः पेतुर्मम्लुश्च भारत॥ धुर्यान् धुर्यगतान् सूतान् ध्वजो श्वापानिसायकान्। पाणीन् पाणिगतं शस्त्रं बाहूनपि शिरांसि च॥ भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः। चिच्छेदमित्रवीराणां समरे प्रतियुध्यताम्॥ वासितार्थे युयुत्सन्तो वृषभा वृषभं यथा। निपतन्यर्जुनं शूराः शतशोऽथ सहस्रशः॥ तेषां तस्य च तद् युद्धमभवल्लोमहर्षणम्। त्रैलोक्यविजये यादृग् दैत्यानां सह वज्रिणा॥ तमविध्यत् त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः। उग्रायुधसुतस्तस्य शिरः कायादपाहरत्॥ तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन्। मरुद्भिः प्रेरिता मेघा हिमवन्तमिवोष्णगे।॥ अस्त्रैरस्त्राणि संवार्य द्विषयां सर्वतोऽर्जुनः। सम्यगस्तैः शरैः सर्वानहितानहनद् बहून्॥ छिन्नत्रिवेणुसंघातान् हताश्वान् पार्ष्णसारथीन्। विस्त्रस्तहस्तूणीरान् विचक्ररथकेतनान्॥ संछिन्नरश्मियोक्त्राक्षान् व्यनुकर्षयुगान् रथान्। विद्ध्वस्तसर्वसंनाहान् बाणैश्चक्रेऽर्जुनस्तदा॥ ते रथास्तत्र विद्ध्वस्ताः परार्ध्याभान्त्यनेकशः। धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः॥ द्विपाः सम्भिन्नवर्माणो वज्रशानिसमैः शरैः। पेतुर्गिर्यप्रवेश्मानि वज्रवाताग्निभिर्यथा॥ सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः। निर्जिह्वात्राः क्षितौ क्षीणा रुधिराद्रौः सुदुर्दशः॥ नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना। बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष॥ अनेकैश्च शिलाधौतैर्वज्राशनिविषोपमैः। शरैर्निजनिवान् पार्थो महेन्द्र इव दानवान्॥ महार्हवर्माभरणा नानारुपाम्बरायुधाः। सरथा: सध्वजा वीरा हताः पार्थेन: शेरते॥ विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः। गताः शरीरैर्वसुधामूर्जितैः सर्मभिर्दिवम्॥ अथार्जुनं रथवरं त्वदीयाः समभिद्रवन्। नानाजनपदाध्यक्षा: सगणा जातमन्यवः॥ उह्यमाना रथाश्वेभैः पत्तयश्च जिघांसवः। समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम्॥ तदायुधमहावर्षं मुक्तं योधमहाम्बुदैः। व्यधमनिशितैर्बाणैः क्षिप्रमर्जुनमारुतः॥ साश्वपत्तिद्विपरथं महाशस्त्रैघसम्लवम्। सहसा संतितीर्षन्त पार्थ शस्त्रास्त्रसेतुना॥ अथाब्रवीद् वासुदेवः पार्थ किं क्रीडसेऽनघ। संशप्तकान् प्रमथ्यैनांस्ततः कर्णवधे त्वर॥ तथेत्युक्त्वार्जुनः कृष्णं शिष्टान् संशप्तकांस्तदा। आक्षिप्य शस्त्रेण बलाद् दैत्यानिन्द्र इवावधीत्॥ आददत् संदधन्नेषून् दृष्टः कैश्चिद् रणेऽर्जुनः। विमुञ्चन् वा शराशीघ्र दृश्यन्तेऽवहितैरपि॥ आश्चर्यमिति गोविन्दो सममन्यत भारत। हंसाशुगौरास्ते सेनां हंसाः सर इवाविशन्।॥ ततः संग्रामभूमिं च वर्तमाने जनक्षये। अवेक्षमाणो गोविन्दः सव्यसाचिनामब्रवीत्॥ पार्थ महारौद्रो वर्तते भरतक्षयः। पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान्॥ पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम्। महतां चापविद्धानि कलापानिषुधींस्तथा॥ जातरूपमयैः पुजैः शराश्च नतपर्वणः। तैलधौतांश्च नाराचान् विमुक्तानिव पन्नगान्॥ आकीर्णांस्तोमरांश्चपि विचित्रान् हेमभूषितान्। चर्माणि चापविद्धानि रुक्मपृष्ठानि भारत॥ सुवर्णविकृतान् प्रासशक्तीः कनकभूषिताः। जाम्बूनदमयैः पट्टर्बद्धाश्च विपुला गदाः॥ जातरूपमयीश्चष्टी: पट्टिशान् हेमभूषितान्। दण्डैः कनकचित्रैश्च विप्रविद्धान् परश्वघान्॥ परिधान् भिंदिपालांश्च भुशुण्डी: कुणपानपि। अयस्कुन्तांश्च पतितान् मुसलानि गुरूणि च॥ नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः। जीवन्त इव दृश्यन्ते गतसत्त्वास्तरस्विनः॥ गदविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान्। जगवाजिरथैः क्षुण्णान् पश्य योधान् सहस्रशः॥ मनुष्यगजवाजीनां शरशक्तवृष्टितोमरैः। निस्त्रिंशैः पट्टिशैः प्रासैनखरैर्लगुडैरपि॥ शरीरैर्बहुधा छिन्नः शोणितौघपरिप्लुतैः। गतासुभिरमित्रघ्न संवृत्ता रणभूमयः॥ बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः। सतलत्रैः सकेयूरै ति भारत मेदिनी॥ साङ्गलित्रैर्भुजायैश्च विप्रविबैरलंकृतैः। हस्तिहस्तोपमैश्छिन्नैरुरुभिश्च तरस्विनाम्॥ बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः। रथांश्च बहुधा भग्नन् हेमकिङ्किणिनः शुभान्॥ अश्वांश्च बहुधा पश्य शोणितेन परिप्लुतान्। अनुकर्षानुपासङ्गान् पताका विविधान् ध्वजान्॥ योधानां च महाशङ्खान् पाण्डुरांश्च प्रकीर्णकान्। निरस्तजिह्वान् मातङ्गान् शयानान् पर्वतोपमान्॥ वैजयन्तीविचित्राश्च हताश्च जलयोधिनः। वारणानां परिस्तोमान् संयुक्तानेककम्बलान्॥ विपाटितविचित्राश्च रूपचित्राः कुथास्तथा। भिन्नाश्च बहुधा घण्टाः पतद्धिश्चूर्णिता गजैः॥ वैदूर्यमणिदण्डाश्च पतितांश्चाङ्गुशान् भुवि। अश्वानां च युगापीडान् रत्नचित्रानुरश्छदान्॥ विद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कुथाः। विचित्रान् मणिचित्रांश्च जातरूपपरिष्कृतान्॥ अश्वास्तरपरिमस्तोमान् राङ्कवान् पतितान् भुवि। चूडामणीन् नरेन्द्राणां विचित्राः काञ्चनस्त्रजः॥ छत्राणि चापविद्धानि चामरव्यजनानि च। चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः॥ क्लृप्तश्मश्रुभिराकीर्णा पूर्णचन्द्रनिभैर्महीम्। कुमुदोत्पलपद्मानां खण्डैः फुल्लं यथा सरः॥ तथा महीभृतां वक्त्रैः कुमुदोत्पलसंनिभैः। तारागणविचित्रस्य निर्मलेन्दुद्युतित्विषः॥ पश्येमां नभसस्तुल्यां शरनक्षत्रमालिनीम्। एतत् तवैवानुरूपं कमार्जुन महाहवे॥ दिवि वा देवराजस्य त्वया यत् कृतमाहवे। एवं तां दर्शयन् कृष्णो युद्धभूमि किरीटिने॥ गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत्। शङ्खदुन्दुभिनिर्घोषं भेरीपणवनिःस्वनम्॥ स्थाश्वगजनादांश्च शस्त्रशब्दांश्च दारुणान्। प्रविश्य तद् बलं कृष्णस्तुगैर्वातवेगितैः॥ पाण्ड्येनाभ्यदित सैन्यं त्वदीयं वीक्ष्य विस्मितः। स हि नानाविधैर्बाणैरिष्वस्त्रप्रवरो युधि॥ न्यहनद् द्विषता पूगान् गतासूनन्तको यथा। गजवाजिमनुष्याणां शरीराणि शितैः शरैः॥ भित्वा प्रहरतां श्रेष्ठो विदेहासूनपातयत्। शत्रुप्रवीरैरस्त्राणि नानाशस्त्राणि सायकैः छित्त्वा तानवधीच्छत्रून् पाण्ड्यः शक्र इवासुरान्॥५८ संजय उवाच यियासतस्ततः कृष्णः पार्थस्याश्वान् मनोजवान्। सम्प्रेषीद्धेमसंछन्नान् द्रोणानीकाय संत्वरन्॥ तं प्रयान्तं कुरुश्रेष्ठं स्वान् भ्रातृन् द्रोणतापितान्। सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात्॥ ततः श्वेतहयः कृष्णमब्रवीदजितं जयः। एव मां भ्रातृभिः सार्धं सुशर्माऽऽह्वयतेऽच्युत॥ दीर्यते चोत्तरेणैव तत् सैन्यं मधुसूदन। द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम्॥ किं नु संशप्तकान् हन्मि स्वान् रक्षाम्यहितार्दितान्। इति मे त्वं मतं वेत्सि तत्र किं सुकृतं भवेत्॥ एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत्। येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत्॥ ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः। ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत॥ त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिराशुगैः। साश्वं ससूतं त्वरितः पार्थः प्रैषीद् यमक्षयम्॥ ततो भुजगसंकाशां सुशर्मा शक्तिमायसीम्। चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम्॥ शत्ति त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः। सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तयत्॥ तं वासवमिवायान्तं भूरिवर्षं शरौघिणम्। राजस्तावकसैन्यानां नोग्रं कश्चिदवारयत्॥! ततो धनंजयो बाणैः सर्वानेव महारथान्। आयाद् विनिघ्नन् कौरव्यान् दहन कक्षमिवानलः।। १२ तस्य वेगमसह्यं तं कुन्तीपुत्रस्य धीमतः। नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजा॥ संवेष्टयननीकानि शरवर्षेण पाण्डवः। सुपर्णपातवद् राजन्नायात् प्राग्ज्योतिषं प्रति॥ यत् तदानामयज्जिष्णुर्भरतानामपापिनाम्। धनुः क्षेमकरं संख्ये द्विषतामश्रुवर्धनम्॥ तदेव तव पुत्रस्य राजन् दुर्दूतदेविनः। कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः॥ तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी। व्यशीर्यत महाराज नौरिवासाद्य पर्वतम्॥ ततो दशसहस्राणि न्यवर्तन्त धनुष्मताम्। मतिं कृत्वा रणे क्रूरां वीरा जयपराजये॥ व्यपेतहृदयत्रासा आवद्रूस्तं महारथाः। आर्छत् पार्थो गुरुं भारं सर्वभारसहो युधि॥ यथा नलवनं क्रुद्धः प्रभिन्नः षष्टिहायनः। मृद्गीयात् तद्वदायस्तः पार्थोऽमृद्गाच्चमू तव॥ तस्मिन् प्रमथिते सैन्ये भगदत्तो नराधिपः। तेन नागेन सहसा धनंजयमुपाद्रवत्॥ तं रथेन नरव्याघ्रः प्रत्यगृह्णाद् धनंजयः। स संनिपातस्तुमुलो बभूव स्थनागयोः॥ कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च। संग्रामे चेरतुर्वीरौ भगदत्तधनञ्जयौ॥ ततो जीमूतसंकाशान्नागादिन्द्र इव प्रभुः। अभ्यवर्षच्छरौघेण भगदत्तो धनंजयम्॥ च चापि शरवर्षं तं शरवर्षेण वासविः। अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान्॥ ततः प्राग्ज्योतिषो राजा शरवर्षे निवार्यत्। शरैर्जघ्ने महाबाहुं पार्थे कृष्णं च मारिष॥ ततस्तु शरजालेन महताऽभ्यवकीर्य तौ। चोदयामास तं नाग वधायाच्युतपार्थयोः॥ तमापतन्तं द्विरदं दृष्ट्वा कुद्धमिवान्तकम्। चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः॥ तं प्राप्तमपि नेयेष परावृत्तं महाद्वित्तं महाद्विपम्। सारोहं मृत्युसात्कर्तुं स्मरन् धर्म धनंजयः॥ स तु नागो द्विपरथान् हयांश्चामृद्य मारिष। प्राहिणोन्मृत्युलोकाय ततः क्रुद्धो धनंजयः॥ व्यास उवाच भद्रे द्रक्ष्यसि गान्धारि पुत्रान् भ्रातॄन् सखींस्तथा। वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव॥ कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी। द्रौपदी पञ्च पुत्रांश्च पितॄन् भ्रातूंस्तथैव च॥ पूर्वमेवैष हृदये व्यवसायोऽभवन्मम। यदास्मि चोदितो राज्ञा भवत्या पृथयैव च॥ न ते शोच्या महात्मानः सर्व एव नरर्षभाः। क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः॥ भवितव्यमवश्यं तत् सुरकार्यमनिन्दिते। अवतेरुस्ततः सर्वे देवभागा महीतलम्॥ गन्धर्वाप्सरसश्चैव पिशाचा गुह्मराक्षसाः। तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च॥ देवाश्च दानवाश्चैव तथा देवर्षयोऽमलाः। त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे॥ गन्धर्वराजो यो धीमान् धृतराष्ट्र इति श्रुतः। स एव मानुषे लोके धृतराष्ट्र: पतिस्तव॥ पाण्डुं मरुद्गणाद् विद्धि विशिष्टतममच्युतम्। धर्मस्यांशोऽभवत् क्षत्ता राजा चैव युधिष्ठिरः॥ कलिं दुर्योधनं विद्धि शकुनि द्वापरं तथा। दुःशासनादीन् विद्धि त्वं राक्षसाशुभदर्शने॥ मरुद्गणाद् भीमसेनं बलवन्तमरिंदमम्। विद्धि त्वं तु नरमृषिमिमं पार्थं धनञ्जयम्॥ नारायणं हृषीकेशमश्विनौ यमजौ तथा। यः स वैरार्थमुद्भूतः संघर्षजननस्तथा। तं कर्णं विद्धि कल्याणि भास्करं शुभदर्शने॥ यश्च पाण्डवदायादो हतः षड्भिर्महारथैः। स सोम इह सोभद्रो योगादेवाभवद् द्विधा॥ द्विधा कृत्वाऽऽत्मनो देहमादित्यं तपतां वरम्। लोकांश्च तापयानं वै विद्धि कर्णं च शोभने॥ द्रौपद्या सह सम्भूतं धृष्टद्युम्नं च पावकात्। अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम्॥ द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम्। भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम्॥ एवमेते महाप्रज्ञे देवा मानुष्यमेत्य हि। ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने।॥ यच्च वै हृदि सर्वेषां दुःखमेतच्चिरं स्थितम्। तदद्य व्यपनेष्यामि परलोककृताद् भयात्॥ सर्वे भवन्तो गच्छन्तु नदीं भागीरथी प्रति। तत्र द्रक्ष्यथ तान् सर्वान् ये हतास्तत्र संयुगे॥ वैशम्पायन उवाच इति व्यासस्य वचनं श्रुत्वा सर्वो जनस्तदा। महता सिंहनादेन गङ्गामभिमुखो ययौ॥ धृतराष्ट्राश्च सामात्यः प्रययौ सह पाण्डवैः। सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः॥ ततो गङ्गां समासाद्य क्रमेण स जनार्णवः। निवासमकरोत् सर्वो यथाप्रीति यथासुखम्॥ राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः। निवासमकरोद् धीमान् सस्त्रीवृद्धपुरःसरः॥ जगाम तदहश्चापि तेषां वर्षशतं यथा। निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान् नृपान्॥ अथ पुण्यं गिरिवरमस्तमभ्यगमद् रविः। ततः कृताभिषेकास्ते नैशं कर्म समाचरन्॥ वैशम्पायन उवाच प्रातरुत्थाय कृष्णस्तु कृतवान् सर्वमाह्निकम्। ब्राह्मणैरभ्यनुज्ञात: प्रययौ नगरं प्रति॥ तं प्रयान्तं महाबाहुमनुज्ञाप्य महाबलम्। पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः॥ धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुः स्वलंकृताः। दुर्योधनादृते सर्वे भीष्मद्रोणकृपादयः॥ पौराश्च बहुला राजन् हृषीकेशं दिदृक्षवः। यानैर्बहुविधैरन्यैः पन्दिरेव तथा परे॥ स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा। द्रोणेन धार्तराष्ट्रश्च तैर्वृतो नगरं ययौ॥ कृष्णसम्माननार्थं च नगरं समलंकृतम्। बभूव राजमार्गश्च बहुरत्नसमाचितः॥ न च कश्चिद् गृहे राजंस्तदाऽऽसीद् भरतर्षभ। न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया।॥ राजमार्गो नरास्तस्मिन् संस्तुवन्त्यवनिं गताः। तस्मिन् काले महाराज हृषीकेशप्रवेशने॥ आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि। प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले॥ तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः। राजमार्गे नरैर्वृते॥ स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः। पाण्डुरं पुण्डरीकाक्षः प्रासादैरुपशोभितम्॥ तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः। वैचित्रवीर्यं राजानमभ्यगच्छदरिंदमः॥ प्रनष्टगतयोऽभूवन् अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नराधिपः। सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः॥ कृपश्च सोमदत्तश्च महाराजश्च बाह्निकः। आसनेभ्योऽचलन् सर्वे पूजयन्तो जनार्दनम्॥ ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम्। स भीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा॥ तेषु धर्मानुपूर्वी तां प्रयुज्य मधुसूदनः। यथावयः समीयाय राजभिः सह माधवः॥ अथ द्रोणं सबाह्रीकं सपुत्रं च यशस्विनम्। कृपं च सोमदत्तं च समीयाय जनार्दनः॥ तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम्। शासनाद् धृतराष्ट्रस्य तत्रोपाविशदच्युतः॥ अथ गां मधुपर्कं चाप्युदकं च जनार्दने। उपजह्वर्यथान्यायं धृतराष्ट्रपुरोहिताः॥ कृतातिथ्यस्तु गोविन्दः सर्वान् परिहसन् कुरुन्। आस्ते साम्बन्धिकं कुर्वन् कुरुभिः परिवारितः॥ सोऽचितो धृतराष्ट्रेण पूजितश्च महायशाः। राजानं समनुज्ञाप्य निर्कामदरिंदमः॥ तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि। विदुरावसथं रम्यमुपातिष्ठत माधरः॥ विदुरः सर्वकल्याणैरभिगम्य जनार्दनम्। अर्चयामास दाशार्ह सर्वकामैरुपस्थितम्॥ या मे प्रीतिः पुष्कराक्ष त्वदर्शनसमुद्भवा। सा किमाख्यायते तुभ्यमन्तरात्मासि देहिनाम्॥ कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित्। कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम्॥ प्रीयमाणस्य सुहृदो विदुरो बुद्धिसत्तमः। धर्मार्थनित्यस्य सतो गतरोषस्य धीमतः॥ तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम्। क्षत्तुराचष्ट दाशार्हः सर्वं प्रत्यक्षदर्शिवान्॥ संजय उवाच ततो युधिष्ठिरश्चैव भीमसेनश्च पाण्डवः। द्रोणपुत्रं महाराज समन्तात् पर्यवारयन्॥ ततो दुर्योधनो राजा भारद्वाजेन संवृतः। अभ्ययात् पाण्डवान् संख्ये ततो युद्धमवर्तत॥ घोररूपं महाराज भीरूणां भयवर्धनम्। अम्बष्ठान् मालवान् वङ्गाञ्छिबींस्त्रगर्तकानपि॥ प्राहिणोन्मृत्युलोकाय गणान् क्रुद्धो वृकोदरः। अमीषाहाञ्छूरसेनान् क्षत्रियान् युद्धदुर्मदान्॥ निकृत्य पृथिवीं चक्रे भीमः शोणितकर्दमाम्। यौधेयानद्रिजान् राजन् मद्रकान्मालवानपि॥ प्राहिणोन्मृत्युलोकाय किरीटी निशितैः शरैः। प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः॥ निपेतुर्विरदा भूमौ द्विशृङ्गा इव पर्वताः। निकृत्तैर्हस्तिहस्तैश्च चेष्टमानैरितस्ततः॥ रराज वसुधाऽऽकीर्णा विसर्पद्भिरिवोरगैः। क्षिप्तैः कनकचित्रैश्च नृपच्छत्रैः क्षितिर्वभौ॥ द्यौरिवादित्यचन्द्राधैर्ग्रहैः कीर्णा युगक्षये। हत प्रहरताभीता विध्यत व्यवकृन्तत॥ इत्यासीत् तुमुलः शब्दः शोणाश्वस्य रथं प्रति। द्रोणमस्तु परमक्रुद्धो वायव्यारेण संयुगे॥ व्यधमत् तान् महावायुर्मेघानिव दुरत्ययः। ते हन्यमाना द्रोणेन पञ्चालाः प्राद्रवन् भयात्॥ पश्यतो भीमसेनस्य पार्थस्य च महात्मनः। ततः किरीटी भीमश्च सहसा संन्यवर्तताम्॥ महता रथवंशेन परिगृह्य बलं महत्। बीभत्सुदक्षिणं पार्श्वमुत्तरं तु वृकोदरः॥ भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम्। तौ तथा संजयाश्चैव पञ्चालाश्च महौजसः॥ अन्वगच्छन् महाराज मत्स्यैश्च सह सोमकैः। तथैव तव पुत्रस्य रथोदाराः प्रहारिणः॥ महत्या सेनया राजन् जग्मुर्दोणरथं प्रति। ततः सा भारतो सेना हन्यमाना किरीटिना॥ तमसा निद्रया चैव पुनरेव व्यदीर्यत। द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च॥ नाशक्यन्त महाराज योधा वारयितुं तदा। सा पाण्डुपुत्रस्य शरैदीर्यमाणा महाचमूः॥ तमसा संवृते लोके व्यद्रवत् सर्वतोमुखी। उत्सृज्य शतशो वाहांस्तत्र केचिन्नराधिपाः। प्राद्रवन्त महाराज भयाविष्टाः समन्ततः॥ प्राद्रवन्त महाराज भयाविष्टाः समन्ततः॥ ब्राह्मणः ऊचुः क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः। दत्त्वापहारं नृपते ततः स्वार्थं यतामहे।।।। श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः। गिरीशस्य यथान्यायमुपहार मुपाहरत्॥ आज्येन तर्पयित्वाग्निं विधिवत्संस्कृतेन च। मन्त्रसिद्धं चक्रं कृत्वा पुरोधाः स ययौ तदा॥ स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप। मोदकैः पायसेनाथ मांसैश्चोपाहरद् बलिम्॥ सुनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि। सर्वे स्विष्टतमं कृत्वा विधिवद् वेदपारगः॥ किंकराणां ततः पश्चाच्चकार बलिमुत्तमम्। यक्षेन्द्राय कुबेराय मणिभद्राय चैव ह॥ तथान्येषां च यक्षाणां भूतानां पतयश्च ये। कृसरेण च मांसेन निवापैस्तिलसंयुतैः॥ ओदनं कुम्भशः कृत्वा पुरोधाः समुपाहरत्। ब्राह्मणेभ्यः सहस्राणि गवां दत्त्वा तु भूमिपः॥ नक्तंचराणां भूतानां व्यादिदेश बलि तदा। धूपगन्धनिरुद्धं तत् सुमनोभिश्च संवृतम्॥ शुशुभे स्थानमत्यर्थ देवदेवस्य पार्थिव। कृत्वा पूजां तु रुद्रस्य गणानां चैव सर्वशः॥ ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधि प्रति। पूजयित्वा धनाध्यक्षं प्रणिपत्याभिवाद्य च॥ सुमनोभिर्विचित्राभिरपूपैः कृसरेण च। शंखादींश्च निधीन् सर्वान् निधिपालांश्च सर्वशः॥ अर्चयित्वा द्विजाग्र्यान् स स्वस्ति वाच्य च वीर्यवान्। तेषां पुण्याहघोषेण तेजसा समवस्थितः॥ प्रीतिमान् स कुरुश्रेष्ठः खानयामास तद् धनम्। ततः पात्री: सकरका बहुरूपा मनोरमाः॥ भृङ्गराणि कटाहानि कलशान् वर्धमानकान्। बहूनि च विचित्राणि भाजनानि सहस्रशः॥ उद्धारयामास तदा धर्मराजो युधिष्ठिरः। तेषां रक्षणमप्यासीन्महान् करपुटस्तथा॥ नद्धं च भाजनं राजंस्तुलाधर्मभवन्नृप। वाहनं पाण्डुपुत्रस्य तत्रासीत् तु विशाम्पते॥ षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः। वारणाश्च महाराज सहस्रशतसम्मिताः॥ शकटानि रथाश्चैव तावदेव करेणवः। खराणां पुरुषाणां च परिसंख्या न विद्यते॥ एतद् वित्तं तदभवद् यदुद्दघे युधिष्ठिरः। षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम्॥ एतेष्वादाय तद् द्रव्यं पुनरभ्यर्च्य पाण्डवः। महादेवं प्रति ययौ पुरं नागाह्वयं प्रति॥ द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम्। गोयुते गोयुते चैव न्यवसत् पुरुषर्षभः॥ सा पुराभिमुखा राजन्नुवाह महती चमूः। कृच्छ्राद् द्रविणभारार्ता हर्षयन्ती कुरूद्वहान्॥ मार्कण्डेय उवाच चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः। विनिन्दन् स स्वमात्मानमागस्कृत इवाबभौ॥ चिन्तयानः स्वधर्मस्य सूक्ष्मां गतिमथाब्रवीत्। श्रद्दधानेन वै भाव्यं गच्छामि मिथिलामहम्॥ कृतात्मा धर्मवित् तस्यां व्याधो निवसते किला तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम्॥ इति संचित्य मनसा श्रद्दधानः स्त्रिया वचः। बलाकाप्रत्ययेनासौ धयश्च वचनैः शुभैः॥ सम्प्रतस्थे स मिथिलां कौतूहलसमन्वितः। अतिक्रामनरण्यानि ग्रामांश्च नगराणि चा॥ ततो जगाम मिथिलां जनकेन सुरक्षिताम्। धर्मसेतुसमाकीर्णां यज्ञोत्सववती शुभाम्॥ गोपुराट्टालकवती हर्म्यप्राकारशोभनाम्। प्रविश्य नगरी रम्यां विमानैर्बहुभिर्युताम्॥ पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम्। अश्वै रथैस्तथा नागैर्योधैश्च बहुभिर्युताम्॥ हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम्। सोऽपश्यद् बहुवृत्तान्तां ब्राह्मण: समतिक्रमन्॥ धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः। अपश्यत् तत्र गत्वा तं सूनामध्ये व्यवस्थितम्॥ मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम्। आकुलत्वाच्च क्रेतृणामेकान्ते संस्थितो द्विजः॥ स तु ज्ञात्वा द्विजं प्राप्तं सहसा सम्भ्रमोत्थितः। आजगाम यतो विप्रः स्थित एकान्तदर्शने॥ व्याध उवाच अभिवादये त्वां भगवन् स्वागतं ते द्विजोत्तम्। अहं व्याधो हि भद्रं ते किं करोमि प्रशाधि माम्॥ एकपल्या यदुक्तोऽसि गच्छ त्वं मिथिलामिति। जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः॥ श्रुत्वा च तस्य तद् वाक्यं स विप्रो भृशविस्मितः द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः॥ अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीदिदम्। गृहं गच्छाव भगवन् यदि ते रोचतेऽनघ॥ मार्कण्डेय उवाच बाढमित्येव तं विप्रो हृष्टो वनचमब्रवीत्। अचतस्तु द्विजं कृत्वा स जगाम गृहं प्रति॥ प्रविश्य च गृहं रम्यमासनेनाभिपूजितः। अर्येण च स वै तेन व्याधेन द्विजसत्तमः॥ ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत्। कर्मैतद् वै न सदृशं भवतः प्रतिभाति मे। अनुतप्ये भृशं तात तव घोरेण कर्मणा॥ व्याध उवाच कुलोचितमिदं कर्म पितृपैतामहं परम्। वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज॥ विधात्रा विहित पूर्वं कर्म स्वमनुपालयन्। प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम॥ सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च। देवतातिथिभृत्यानामवशिष्टेन वर्तये॥ न कुत्सयाम्यहं किंचिन्न गर्हे बलवत्तरम्। कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम॥ कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम्। दण्डनीतिस्त्रयी विद्या तेन लोको भवत्युत॥ कर्म शूद्रे कृषिर्वैश्ये संग्रामः क्षत्रिये स्मृतः। ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा॥ राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः। विकर्माणश्च ये केचित् तान् युनक्ति स्वकर्मसु॥ भेतव्यं हि सदा राज्ञः प्रजानामधिपा हि ते। वारयन्ति विकर्मस्थं नृपा मृगमिवेषुभिः॥ जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते। स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम॥ स एष जनको राजा दुर्वृत्तमपि चेत् सुतम्। दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम्।२९॥ सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति। श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम॥ राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम्। सर्वेषामेव वर्णानां त्राता राजा भवत्युत॥ परेण हि हतान् ब्रह्मन् वराहमहिषानहम्। न स्वयं हन्मि विप्रर्षे विक्रीणामि सदात्वहम्॥ न भक्षयामि मांसानि ऋतुगामी तथा ह्यहम्। सदोपवासी च तथा नक्तभोजी सदा द्विज॥ अशीलश्चापि पुरुषो भूत्वा भवति शीलवान्। प्राणिहिंसारतश्चापि भवते धार्मिकः पुनः॥ व्यभिचारानरेन्द्राणां धर्मः संकीर्यते महान्। अधर्मो वर्धते चापि संकीर्यन्ते ततः प्रजाः॥ भेरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च। क्लीबाश्चान्धाश्च बधिरा जायन्तेऽत्युच्चलोचनाः॥ पार्थिवानामधर्मत्वात् प्रजानामभवः सदा। स एष राजा जनकः प्रजा धर्मेण पश्यति॥ अनुगृहणन् प्रजाः सर्वा स्वधर्मनिरताः सदा। ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः॥ सर्वान् सुपरिणीतेन कर्मणा तोषयाम्यहम्। ये जीवन्ति स्वधर्मेण संयुञ्जन्ति च पार्थिवाः॥ न किंचिदुपजीवन्ति दान्ता उत्थानशीलिनः। शक्त्यानदानं सततं तितिक्षा धर्मनित्यता॥ यथार्ह प्रति पूजा च सर्वभूतेषु वै सदा। त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे॥ मृषा वादं परिहरेत् कुर्यात् प्रियमयाचितः। न च कामान्न संरम्भान्न द्वेषाद् धर्ममुत्सृजेत्॥ प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत्। न मुह्येदर्थकृच्छ्रेषु न च धर्मं परित्यजेत्॥ कर्म चेत्किंचिदन्यत् स्यादितरन्न तदाचरेत्। यत् कल्याणमभिध्यायेत् तत्रात्मानं नियोजयेत्॥ न पापे प्रतिपाप: स्यात् साधुरेव सदा भवेत्। आत्मनैव हतः पापो यः पापं कर्तुमिच्छति॥ कर्म चैतदसाधूनां वृजिनानामसाधुवत्। न धर्मोऽस्तीति मन्वानाः शुचीनवहसन्ति ये॥ अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः। महादृतिरिवाघ्मातः पापो भवति नित्यदा॥ मूढानामवलिप्तानामसारं भावितं भवेत्। दर्शयत्यन्तरात्मा तं दिवा रूपमिवांशुमान्॥ न लोके राजते मूर्खः केवलात्मप्रशंसया। अपि चेह श्रिया हीनः कृतविद्यः प्रकाशते॥ अब्रुवन् कस्यचिनिन्दामात्मपूजामवर्णयन्। न कश्चिद् गुणसम्पन्नः प्रकाशो भुवि दृश्यते॥ विकर्मणा तप्यमानः पापाद् विपरिमुच्यते। न तत् कुर्यां पुनरिति द्वितीयात् परिमुच्यते॥ कर्मणा येन तेनेह पापाद् द्विजवरोत्तमा एवं श्रुतिरियं ब्रह्मन् धर्मेषु प्रतिदृश्यते॥ पापान्यबुद्धवेह पुरा कृतानि प्राग् धर्मशीलोऽपि विहन्ति पश्चात्। धर्मो राजन् नुदते पूरुषाणां यत् कुर्वते पापमिह प्रमादात्॥ पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः। तं तु देवाः प्रपश्यन्ति स्वस्यैवान्तर पूरुषः॥ चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः। वसनस्येव छिद्राणि साधूनां विवृणोति यः॥ पापं चेत् पुरुषः कृत्वा कल्याणमभिपद्यते। मुच्यते सर्वपापेभ्यो महाभ्रेणेव चन्द्रमाः॥ यथाऽऽदित्यः समुद्यन् वै तमः पूर्वं व्यपोहति। एवं कल्याणमातिष्ठन् सर्वपापैः प्रमुच्यते॥ पापानां विद्ध्यधिष्ठान् लोभमेव द्विजोत्तम। लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः॥ अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः। तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः। सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः॥ मार्कण्डेय उवाच स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्छत। शिष्टाचारं कथमहं विद्यामिति नरोत्तम॥ एतदिच्छामि भद्रं ते श्रोतुं धर्मभृतां वर। त्वत्तो महामते व्याध तद् ब्रवीहि यथातथम्॥ व्याध उवाच यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम। पञ्चैतानि पवित्राणि शिष्टाचारेषु सर्वदा॥ कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम्। धर्ममित्येव संतुष्टास्ते शिष्टाः शिष्टसम्मताः॥ न तेषां विद्यतेऽवृत्तं यज्ञस्वाध्यायशीलिनाम्। आचारपालनं चैव द्वितीयं शिष्टलक्षणम्॥ गुरुशुश्रूषणां सत्यमक्रोधो दानमेव च। एतच्चतुष्टयं ब्रह्मन् शिष्टाचारेषु नित्यदा॥ शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः। यामयं लभते वृत्तिं सा न शक्या हतोऽन्यथा॥ वेदस्योपनिषत् सत्यं सत्यस्योपनिषद् दमः। दमस्योपनिषत् त्यागः शिष्टाचारेषु नित्यदा॥ ये तु धर्मानसूयन्ते बुद्धिमोहान्विता नराः। अपथा गच्छतां तेषामनुयाता च पीड्यते॥ ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः। धर्मपन्थानमारूढाः सत्यधर्मपरायणाः॥ नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता जनाः। उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः॥ नास्तिकान् भिन्नमर्यादान् क्रूरान् पापमतौ स्थितान्। त्यज तान् ज्ञानमाश्रित्य धार्मिकानुपसेव्य च॥ कामलोभग्रहाकी) पञ्चेन्द्रियजला नदीम्। नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संत॥ क्रमेण संचितो धर्मो बुद्धियोगमयो महान्। शिष्टाचारे भवेत् साधू रागः शुक्लेव वाससि।॥ अहिंसा सत्यवचनं सर्वभूतिहतं परम्। अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः। सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः॥ सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम्। आचारश्च सतां धर्मः संतश्चाचारलक्षणाः॥ यो यथाप्रकृतिर्जन्तुः स स्वां प्रकृतिमश्नुते। पापात्मा क्रोधकामादीन् दोषानापनोत्यनात्मवान्॥ आरम्भो न्याययुक्तो यः स हि धर्म इति स्मृतः। अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम्॥ अक्रुद्ध्यन्तोऽनसूयन्तो निरहकारमत्सराः। ऋजवः शमसम्पन्नाः शिष्टाचारा भवन्ति ते॥ विद्यवृद्धाः शुतयो वृत्तवन्तो मनस्विनः। गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत॥ तेषामहीनसत्त्वानां दुष्कराचारकर्मणाम्। स्वैः कर्मभिः सत्कृतानां घोरत्वं सम्प्रणश्यति॥ तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम्। धर्मं धर्मेण पश्यन्तः स्वर्ग यान्ति मनीषिणः॥ आस्तिका मानहीनाश्च द्विजातिजनपूजकाः। श्रुतवृत्तोपसम्पन्नाः सन्तः स्वर्गनिवासिनः॥ वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः। शिष्टाचारश्च शिष्टानां त्रिविधं धर्मलक्षणम्। धारणं चापि विद्यानां तीर्थानामवगाहनम्॥ क्षमा सत्यार्जवं शौचं सतामाचारदर्शनम्। सर्वभूतदयावन्तो अहिंसानिरताः सदा॥ परुषं च न भाषन्ते सदा सन्तो द्विजप्रियाः। शुभानामशुभानां च कर्मणां फलसंचये॥ विपाकमभिजानन्ति ते शिष्टाः शिष्टसम्मताः। न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः॥ सन्तः स्वर्गजितः शुक्लाः संनिविष्टाश्च सत्पथे। दातारः संविभक्तारो दीनानुग्रहकारिणः॥ सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः। सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसम्मताः॥ दानशिष्टाः सुखाँल्लोकानाप्नुवन्तीह च श्रियम्। पीडया च कलत्रस्य भृत्यानां च समाहिताः॥ अतिशक्त्या प्रयच्छन्ति सन्त: सद्भिः समागताः। लोकयात्रां च पश्यन्तो धर्ममात्महितानि च॥ एवं सन्तो वर्तमानास्त्वेधन्ते शाश्वतीः समाः। अहिंसा सत्यवचनमानृशंस्यमथार्जवम्॥ अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा दमः शमः। धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः॥ अकामद्वेषसंयुक्तास्ते सन्तो लोकसाक्षिणः। त्रीण्येव तु पदान्याहुः सतां व्रतमनुत्तमम्॥ न चैव दुह्येद् दद्याच्च सत्यं चैव सदा वदेत्। सर्वत्र च दयावन्तः सन्तः करुणवेदिनः॥ गच्छन्तीह सुसंतुष्टा धर्मपन्थानमुत्तमम्। शिष्टाचाराः महात्मानो येषां धर्मः सुनिश्चितः॥ अनसूया क्षमा शान्तिः संतोष: प्रियवादिता। कामक्रोधपरित्याग: शिष्टाचारनिषेवणम्॥ कर्म च श्रुतसम्पन्नं सतां मार्गमनुत्तमम्। शिष्टाचार निषेवन्ते नित्यं धर्ममनुव्रताः॥ प्रज्ञाप्रासादमारुह्य मुच्यन्ते महतो भयात्। प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम॥ अतिपुण्यानि पापानि तानि द्विजवरोत्तम। एतत् ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम्। शिष्टाचारगुणं ब्रह्मन् पुरस्कृत्य द्विजर्षभ॥ युधिष्ठिर उवाच कन्यायाः प्राप्तशुल्कायाः पतिश्चेन्नास्ति कश्चन। तत्र का प्रतिपत्तिः स्यात् तन्मे ब्रूहि पितामह॥ भीष्म उवाच याऽपुत्रकस्य ऋद्धस्य प्रतिपाल्या तदा भवेत्। अथ चेन्नाहरेच्छुल्कं क्रीता शुल्कप्रदस्य सा॥ तस्यार्थेऽपत्यमीहेत येन न्यायेन शक्नुयात्। न तस्मान्मन्त्रवत्कार्यं कश्चित् कुर्वीत किंचन॥ स्वयंवृतेन साऽऽज्ञप्ता पित्रा वै प्रत्यपद्यता तत् तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः॥ एतत् तु नापरे चक्रुरपरे जातु साधवः। साधूनां पुनराचारो गरीयान् धर्मलक्षणः॥ अस्मिन्नेव प्रकरणे सुक्रतुर्वाक्यमब्रवीत्। नप्ता विदेहराजस्य जनकस्य महात्मनः॥ असदाचरिते मार्गे कथं स्यादनुकीर्तनम्। अत्र प्रश्नः संशयो वा सतामेवमुपालभेत्॥ असदेव हि धर्मस्य प्रदानं धर्म आसुरः। नानुशुश्रुम जात्वेतामिमां पूर्वेषु कर्मसु॥ भार्यापत्योर्हि सम्बन्धः स्त्रीपुंसोः स्वल्प एव तु। रतिः साधारणो धर्म इति चाह स पार्थिवः॥ युधिष्ठिर उवाच अथ केन प्रमाणेन पुंसामादीयते धनम्। पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति॥ भीष्म उवाच यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा। तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत्॥ मातुश्च यौतकं यत् स्यात् कुमारीभाग एव सः। दौहित्र एव तद् रिक्थमपुत्रस्य पितुर्हरेत्॥ ददाति हि स पिण्डान् वै पितुर्मातामहस्य च। पुत्रदौहित्रयोरेव विशेषो नास्ति धर्मतः॥ अन्यत्र जामया साधु प्रजानां पुत्र ईहते। दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते॥ दौहित्रकेण धर्मेण नात्र पश्यामि कारणम्। विक्रीतासु हि ये पुत्रा भवन्ति पितुरेव ते॥ असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः। आसुरादधिसम्भूता धर्माद् विषमवृत्तयः॥ अत्र गाथा यमोद्भीताः कीर्तयन्ति पुराविदः। धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु॥ यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति। कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति॥ सप्तावरे महाघोरे निरये कालसाह्वये। स्वेदं मूत्रं पुरीषं च तस्मिन् मूढः समश्नुते॥ आर्षे गोमिथुनं शुल्कं केचिदाहुम॒षैव तत्। अल्पो वा बहु वा राजन् विक्रयस्तावदेव सः॥ यद्यप्याचरित: कैश्चिन्नैष धर्मः सनातनः। अन्येषामपि दृश्यन्ते लोकतः सम्प्रवृत्तयः॥ वश्यां कुमारी बलतो ये तां समुपभुजते। एते पापस्य कर्तारस्तमस्यन्थे च शेरते॥ अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः। अधर्ममूलैर्हि धनैस्तैर्न धर्मोऽथ कश्चन॥ वैशम्पायन उवाच समागतान् वेदविदो राज्ञश्च पृथिवीश्वरान्। दृष्ट्वा युधिष्ठिरो राजा भीमसेनमभाषत॥ उपयाता नरव्याघ्रा य एते पृथिवीश्वराः एतेषां क्रियतां पूजा पूजार्हा हि नराधिपाः॥ इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना। भीमसेनो महातेजा यमाभ्यां सह पाण्डवः॥ अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम्। बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः॥ युयुधानेन सहितः प्रद्युम्नेन गदेन च। निशठेनाथ साम्बेन तथैव कृतवर्मणा।॥ तेषामपि परां पूजां चक्रे भीमो महारथः। विविशुस्ते च वेश्मानि रत्नवन्ति च सर्वशः॥ युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः। अर्जुनं कथयामास बहुसंग्रामकर्षितम्॥ स तं पप्रच्छ कौन्तेयः पुनः पुनररिंदमम्। धर्मजः शक्रजं जिष्णुं समाचष्ट जगत्पतिः॥ आगमद् द्वारकावासी ममाप्तः पुरुषो नृप। योऽद्राक्षीत् पाण्डवश्रेष्ठ बहुसंग्रामकर्षितम्॥ समीपे च महाबाहुपाचष्ट च मम प्रभो। कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये॥ इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः। दिष्ट्या स कुशली जिष्णुरुपायाति च माधव॥ यदिदं संदिदेशास्मिन् पाण्डवानां बलाग्रणी: तदा ज्ञातुमिहेच्छामि भवता यदुनन्दन॥ इत्युक्तो धर्मराजेन वृष्ण्यन्धकपतिस्तदा। प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम्॥ इदमाह महाराज पार्थवाक्यं स्मरन् नरः। वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम॥ आगमिष्यन्ति राजानः सर्वे वै कौरवर्षभ। प्राप्तानां महतां पूजा कार्या ह्येतत् क्षमं हि नः॥ इत्येतद्वचनाद् राजा विज्ञाप्यो मम मानद। यथा चात्ययिकं न स्याद् यदाहरणऽभवत्॥ कर्तुमर्हति तद राजा भवांश्चाप्यनुमन्यताम्। राजद्वषान्न नश्येयुरिमा राजन् पुनः प्रजाः॥ इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत्। धनंजयस्य नृपते तन्मे निगदतः शृणु॥ उपायास्यति यज्ञं नो मणिपूरपतिर्नृपः। पुत्रो मम महातेजा दयितो बभ्रुवाहनः॥ तं भवान् मदपेश्चार्थ विधिवत् प्रतिपूजयेत्। स तु भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो॥ इत्येतद् वचनं श्रुत्वा धर्मराजो युधिष्ठिरः। आभनन्द्यास्य तद् वाक्यमिदं वचनमब्रवीत्॥ पराशर उवाच कः कस्य चोपकुरुते कश्च कस्मै प्रयच्छति। प्राणी करोत्ययं कर्म सर्वमात्मार्थमात्मना॥ गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत्। सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम्॥ विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ। तयोः पुण्यतरं दानं तद् द्विजस्य प्रयच्छतः॥ न्यायागतं धनं चैव न्यायेनैव विवर्धितम्। संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः॥ न धर्मार्थी नृशंसेन कर्मणा धनमर्जयेत्। शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरेत्॥ अपो हि प्रयतः शीतास्तापिता ज्वलनेन वा। शक्तितोऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम्॥ रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना। फलपत्रैरथो मूलैर्मुनीनर्चितवांश्च सः॥ तैरेव फलपत्रैश्च स माठरमतोषयत्। तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः॥ देवतातिथिभृत्येभ्यः पितृभ्यश्चात्मनस्तथा। ऋणवान् जायते मर्त्यस्तस्मादनृणतां व्रजेत्॥ स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा। पितृभ्यः श्राद्धदानेन नृणामभ्यर्चनेन च॥ वाचा शेषावहार्येण पालनेनात्मनोऽपि च। यथावद् भृत्यवर्गस्य चिकीत् कर्म आदितः॥ प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः। सम्यग्घुत्वा हुतवहं मुनयः सिद्धिमागताः॥ विश्वामित्रस्य पुत्रत्वमृचीकतनयोऽगमत्। ऋग्भिः स्तुत्वा महाबाहो देवान् वै यज्ञभागिनः॥ गतः शुक्रत्वमुशना देवदेवप्रसादनात्। देवीं स्तुत्वा तु गगने मोदते यशसा वृतः॥ असितो देवलश्चैव तथा नारदपर्वतौ। कक्षीवान् जामदग्न्यश्च रामस्ताण्ड्यस्तथाऽऽत्मवान्।। वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च। भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः॥ एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः। लेभिरे तपसा सिद्धिं प्रसादात् तस्य धीमतः॥ अनश्चिाहतां प्राप्ताः सन्तः स्तुत्वा तमेव ह। न तु वृद्धिमिहान्विच्छेत् कर्म कृत्वा जुगुप्सितम्॥ येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान्। धर्मं वै शाश्वतं लोके न जह्याद् धनकाझ्या॥ आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः। वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो॥ स चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते। श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम्॥ अग्निरात्मा च माता च पिता जनयिता तथा। गुरुश्च नरशार्दूल परिचर्या यथातथम्॥ मानं त्यक्त्वा यो नरो वृद्धसेवी विद्वान् क्लीबः पश्यति प्रीतियोगात्। दाक्ष्येण हीनो धर्मयुक्तो नदान्तो लोकेऽस्मिन् वै पूज्यते सद्भिरार्यः॥ लोमहर्षणपुत्र उग्रश्रवाः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेादशवार्षिक सत्रे ऋषीनभ्यागतानुपतस्थे॥ पौराणिकः पुराणे कृतश्रमः स कृताञ्जलिस्तानुवाच। किं भवन्तः श्रोतुमिच्छन्ति किमहं ब्रवाणीति॥ तमृषयः ऊचुः परमं लोमहर्षणे वक्ष्यामस्त्वां नः प्रतिवक्ष्यसि वचः शुश्रूषतां कथायोगं न: कथायोगे॥ तत्र भगवान् कुलपतिस्तु मध्यास्ते॥ योऽसौ दिव्या:कथा वेद देवतासुरसंश्रिताः। मनुष्योरगगन्धर्वकथा वेद च सर्वशः॥ स चाप्यस्मिन्मखे सौते विद्वान् कुलपतिर्द्विजः। दक्षोधृतव्रतो धीमान् शास्त्रे चारण्यके गुरुः॥ सत्यवादी शमपरस्तपस्वी नियतव्रतः। सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम्॥ तस्मिन्नध्यासति गुरावासनं परमार्चितम्। ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः॥ सौतिरुवाच एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि। तेन पृष्टः कथा: पुण्या वक्ष्यामि विविधाश्रयाः॥ सोऽथ विप्रर्षभः सर्वं कृत्वा कार्यं यथाविधि। देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाजगाम ह। यत्र ब्रह्मर्षयः सिद्धाः सुखासीना धृतव्रताः। यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः॥ ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्तदा। उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम्॥ संजय उवाच आददानस्तु शूराणामायूंष्यभवदार्जुनिः। अन्तकः सर्वभूतानां प्राणान् काल इवागते॥ स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली। अभिमन्युस्तदानीकं लोडयन् समदृश्यत॥ प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः। सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्वणः॥ सत्यवसि चाक्षिसे त्वरमाणा महारथाः। प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन्॥ अहं पूर्वमहं पूर्वमिति क्षत्रियपुङ्गवाः। स्वर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम्॥ क्षत्रियाणामनीकानि प्रदुतान्यभिधावताम्। जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे॥ ये केचन गतास्तस्य समीपमपलायिनः। न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः॥ महाग्राहगृहीतेव वातवेगभयार्दिता। समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे॥ अथ रुक्मरथो नाम मद्रेश्वरसुतो बली। त्रस्तामाश्वासयन् सेनामत्रस्तो वाक्यमब्रवीत्॥ अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते। महमेनं ग्रहीष्यामि जीवग्राहं न संशयः॥ एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान्। सुकल्पितेनोह्यमानः स्यन्दनेन विराजता॥ सौऽभिमन्यु त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत्। त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः॥ स तस्तेष्वसनं छित्त्वा फाल्गुनिः सव्यदक्षिणौ। भुजौ शिरश्च स्वक्षिभू क्षितौ क्षिप्रमपातयत्॥ दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम्। जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना॥ संग्रामदुर्मदा राजन् राजपुत्राः प्रहारिणः। वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः॥ तालमात्राणि चापानि विकर्षन्तो महाबलाः। आर्जुनि शरवर्षेण समन्तात् पर्यवारयन्॥ शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः। दृष्टिकं समरे शूरं सौभद्रमपराजितम्॥ छाद्यमानं शरव्रातैइष्टो दुर्योधनोऽभवत्। वैवस्वतस्य भवनं गतं ह्येनममन्यत॥ सुवर्णपुङरिषुभिर्नानालिङ्गैः सुतेजनैः। अदृश्यमार्जुनिं चक्रुर्निमेषात् ते नृपात्मजाः॥ सूताश्वध्वजं तस्य स्यन्दनं तं च मारिष। आचितं समपश्याम श्वाविधं शललैरिव॥ स गाढविद्धः क्रुद्धश्च तोत्रैर्गज इवादितः। गान्धर्वमस्त्रमायच्छद् रथमायां च भारत॥ अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम्। तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान्॥ एकदा शतधा राजन् दृश्यते स्म सहस्रधा। अलातचक्रवत् संख्ये क्षिप्रमस्त्राणि दर्शयन्॥ रथचर्यास्त्रमायाभिर्मोहयित्वा परंतपः। विभेद शतधा राजशरीराणि महीक्षिताम्॥ प्राणाः प्राणभृतां संख्ये प्रेषितानि शितैः शरैः। राजन् प्रापुरमुं लोकं शरीराण्यवनिं ययुः॥ धनूंष्यश्वान् नियन्तुंश्च ध्वजान् बाहूंच साङ्गदान्। शिरांसि च शितैर्बाणैस्तेषां चिच्छेद फाल्गुनिः॥ चूतारामो यथा भग्नः पञ्चवर्षः फलोपगः। राजपुत्रशतं तद्वत् सौभद्रेण निपातितम्॥ क्रुद्धाशीविषसंकाशान् सुकुमारान् सुखोचितान्। एकेन निहतान् दृष्ट्वा भीतो दुर्योधनोऽभवत्॥ रथिनः कुञ्जरानश्वान् पदातींश्चापि मज्जतः। दृष्ट्वा दुर्योधनः क्षिप्रमुपायात् तममर्षितः॥ तयोः क्षणमिवापूर्णः संग्रामः समपद्यता अथाभवत् ते विमुखः पुत्रः शरशताहतः॥ युधिष्ठिर उवाच यथा बुद्ध्या महीपालो भ्रष्टश्रीविचरेन्महीम्। कालदण्डविनिष्पिष्टस्तन्मे ब्रूहि पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। वासवस्य च संवादं बलेवैरोचनस्य च॥ पितामहमुपागम्य प्रणिपत्यकृताञ्जलिः। सर्वानेवासुरान् जित्वा बलिं पप्रच्छ वासवः॥ यस्य स्म ददतो वित्तं न कदाचन हीयते। तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम्॥ स वायुर्वरुणश्चैव स रविः स च चन्द्रमाः। सोऽग्निस्तपति भूतानि जलं च स भवत्युत॥ तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम्। स एव ह्यस्तमयते स स्म विद्योतते दिशः॥ स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः। तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम्॥ ब्रह्मोवाच नैतत् ते साधु मघवन् यदेनमनुपृच्छसि। पृष्टस्तु नानृतं ब्रूयात् तस्माद् वक्ष्यामि ते बलिम्॥ उष्टेषु यदि वा गोषु खरेष्वश्वेषु वा पुनः। वरिष्ठो भविता जन्तुः शून्यागारे शचीपते॥ शक्र उवाच यदि स्म बलिना ब्रह्मशून्यागारे समेयिवान्। हन्यामेनं न वा हन्यां तद् ब्रह्मन्ननुशाधि माम्॥ ब्रह्मोवाच मा स्म शक्र बलिं हिंसीन बलिर्वधमर्हति। न्यायस्तु शक्र प्रष्टव्यस्त्वया वासव काम्यया॥ एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा। चचारैरावतस्कन्धमधिरुह्य श्रिया वृतः॥ ततो ददर्श स बलिं खरवेषेण संवृतम्। यथाऽऽख्यातं भगवता शून्यागारकृतालयम्॥ शक्र उवाच खरयोनिमनुप्राप्तस्तुषभक्षोऽसि दानव। इयं ते योनिरधमा शोचस्याहो न शोचसि॥ अदृष्टं बत पश्यामि द्विषतां वशामागतम्। श्रिया विहीनं मित्रैश्च भ्रष्टवीर्यपराक्रमम्॥ यत् तद् यानसहौस्त्वं ज्ञातिभिः परिवारितः। लोकान् प्रतापयन् सर्वान् यास्यस्मानवितर्कयन्॥ त्वन्मुखाश्चैव दैतेय व्यतिष्ठंस्त्व शासने। अकृष्टपच्या च मही तवैश्वर्ये बभूव ह॥ इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि। यदाऽऽतिष्ठः समुद्रस्य पूर्वकूले विलेलिहन्॥ ज्ञातीन् विभजतो वित्तं तदाऽऽसीत् ते मनः कथम्। यत् ते सहस्रसमिता ननृतुर्देवयोषितः॥ कथमद्य तदा चैव मनस्ते दानवेश्वर। छत्रं तवासीत् सुमहत् सौवर्णं रत्नभूषितम्॥ बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया। सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः॥ ननृतुस्तत्र गन्धर्वाः षट् सहस्राणि सप्तधा। यूपस्तवासीत् सुमहान् यजतः सर्वकाशनः॥ यत्राददः सहस्राणि अयुतानां गवां दश। अनन्तरं सहस्रेण तदाऽऽसीद् दैन्य का मतिः॥ यदा च पृथिवीं सर्वां यजमानोऽनुपर्यगाः। शम्याक्षेपेण विधिना तदाऽऽसीत् किं तु ते हृदि॥ न ते पश्यामि भृङ्गारं न च्छत्रं व्यजने न च। ब्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप॥ बलिरुवाच न त्वं पश्यसि भृङ्गारं न च्छत्रं व्यजने न च। ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव॥ गुहायां निहितानि त्वं मम रत्नानि पृच्छसि। यदा मे भविता कालस्तदा त्वं यानि द्रक्ष्यसि॥ न त्वेतदनुरूपं ते यशसो वा कुलस्य च। समृद्धार्थोऽसमृद्धार्थं यन्मां कस्थितुमिच्छसि॥ न हि दुःखेषु शोचन्ते न प्रहृष्यन्ति चर्धिषु। कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः॥ त्वं तु प्राकृतया बुद्ध्या पुरन्दर विकत्यसे। यदाहमिव भावी स्यास्तदा नैवं वदिष्यसि॥ त्वं तु प्राकृतया बुद्ध्या पुरन्दर विकत्यसे। यदाहमिव भावी स्यास्तदा नैवं वदिष्यसि॥ संजय उवाच ततो युधिष्ठिरो राजा प्रतिनन्द्य जनार्दनम्। उवाच परमप्रीतः कौन्तेयो देवकीसुतम्॥ कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत॥ वासुदेवोऽपि तद्युक्तं पर्यपृच्छद् युधिष्ठिरम्। ततश्च प्रकृतीः क्षत्ता न्यवेदयदुपस्थिताः॥ अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम्। विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम्॥ चेदिपं धृष्टकेतुं च द्रुपदं च महारथम्। शिखण्डिनं यमो चैव चेकितानं सकेकयम्॥ युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम्। युधामन्युं सुबाहुं च द्रौपदेयांश्च सर्वशः॥ एते चान्ये च बहवः क्षत्रियाः क्षत्रियर्षभम्। उपतस्थुर्महात्मानं विविशुश्चासने शुभे॥ एकस्मिन्नासने वीरावुपविष्टौ महाबलौ। कृष्णश्च युयुधानश्च महात्मानौ महाद्युती॥ ततो युधिष्ठिरस्तेषां श्रृण्वतां मधुसूदनम्। अब्रवीत् पुण्डरीकाक्षमाभाष्य मधुरं वचः॥ एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः। प्रार्थमायो जयं युद्धे शाश्वतानि सुखानि च॥ त्वं हि राज्यविनाशं न द्विषद्भिश्चनिराक्रियाम्। क्लेशांश्च विविधान् कृष्ण सर्वांस्तानपि वेद नः॥ त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल। सुखमायत्तमत्यर्थे यात्रा च मधुसूदन॥ स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम। अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता॥ स भवांस्तारयत्वस्माद् दुःखामर्षमहार्णवात्। पारं तितीर्षतामद्य प्लवो नो भव माधव॥ न हि तत् कुरुते संख्ये रथी रिपुवधोद्यतः। यथा वै कुरुते कृष्ण सारथिर्यलमास्थितः॥ यथैव सर्वास्वापत्सु पासि वृष्णीञ्जनार्दन। तथैवास्मान् महाबाहो वृजिनात् त्रातुमर्हसि॥ त्वमगाधेऽप्लवे मग्नान् पाण्डवान् कुरुसागरे। समुद्धर प्लवो भूत्वा शङ्खचक्रगदाधर॥ नमस्ते देवदेवेश सनातन विशातन। विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम॥ नारदस्त्वां समाचख्यौ पुराणमृषिसत्तमम्। वरदं शाङ्गिणं श्रेष्ठं तत् सत्यं कुरु माधव॥ इत्युक्तः पुण्डरीकाक्षो धर्मराजेन संसदि। तोयमेघस्वनो वाग्मी प्रत्युवाच युधिष्ठिरम्॥ वासुदेव उवाच सामरेष्वपि लोकेषु सर्वेषु न तथाविधः। शरासनधरः कश्चिद् यथा पार्थो धनजंयः॥ वीर्यवानस्त्रसम्पन्नः पराक्रान्तो महाबलः। युद्धशोण्डः सदामर्षी तेजसा परमो नृणाम्॥ स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः। सिंहर्षभगतिः श्रीमान् द्विषतस्ते हनिष्यति॥ अहं च तत् करिष्यामि यथा कुन्तीसुतोऽर्जुनः। धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवेन्धनम्॥ अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम्। अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः॥ तस्याद्य गृध्राः श्येनाश्च चण्डगोमायवस्तथा। भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः॥ यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाप्यसौ। राजधानी यमस्याद्य हतः प्राप्स्यति संकुले॥ निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति। विशोको विज्वरो राजन् भव भूतिपुरस्कृतः॥ धृतराष्ट्र उवाच यदिदं धर्मगहनं बुद्ध्या समनुगम्यते। तद्धि विस्तरतः सर्वं बुद्धिमार्ग प्रशंस मे॥ विदुर उवाच अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयंभुवे। यथा संसारगहनं वदन्ति परमर्षयः॥ कश्चिन्महति कान्तारे वर्तमानो द्विजः किल। महद् दुर्गमनुप्राप्तो वनं क्रव्यादसंकुलम्॥ सिंहव्याघ्रगजौघैरतिघोरं महास्यनैः। पिशितादैरतिभयैर्महोग्राकृतिभिस्तथा॥ समन्तात् संपरिक्षिप्तं यत् स्म दृष्ट्वा त्रसेद् यमः। तदस्य दृष्ट्वा हृदयमुद्वेगमगमत् परम्॥ अभ्युच्छयश्च रोम्णां वै विक्रियाच परंतप। स तद् वनं व्यनुसरन् सम्प्रधावन्नितस्ततः॥ वीक्षमाणो दिशः सर्वाः शरणं व भवेदिति। स तेषां छिद्रमन्विच्छन् प्रद्रुतो भयपीडितः॥ न च निर्याति वै दूरं न वा तैर्विप्रमोच्यते। अथापश्यद् वनं घोरं समन्ताद् वागरावृतम्॥ बाहुभ्यां सम्परिक्षिप्त स्त्रिया परमघोरया। पञ्चशीर्षधरै गैः शैलैरिव समुन्नतैः॥ नभःस्पृशैर्महावृक्षः परिक्षिप्तं महावनम्। वनमध्ये च तत्राभूदुदपानः समावृतः॥ वल्लीभिस्तृणछन्नाभिर्दूढाभिरभिसंवृतः। पपात स द्विजस्तत्र निगूढे सलिलाशये।॥ विलग्नश्चाभवत् तस्मिन् लतासंतानसंकुले। पनसस्य यथा जातं वृन्तवद्धं महाफलम्॥ स तथा लम्बते तत्र रार्ध्वपादो ह्यधःशिराः। अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः॥ कूपमध्ये महानागमपश्यत महाबलम्। कूपवीनाहवेलायामपश्यत महागजम् ॥ षड्वक्त्रं कृष्णशुक्लं च द्विषट्कपदचारिणम्। क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम्॥ तस्य चापि प्रशाखासु वृक्षशाखावलम्बिनः। नानारूपा मधुकरा घोररूपा भयावहाः॥ आसते मधु संवृत्य पूर्वमेव निकेतजाः। भूयो भूयः समीहन्ते मधूनि भरतर्षभ॥ स्वादनीयानि भूतानां यैर्बालो विप्रकृष्यते। तत्रैव च मनुष्यस्य तेषां मधूनां बहुधा धारा प्रस्रवते तदा॥ आलम्बमानः स पुमान् धारां पिबति सर्वदा। न चास्य तृष्णा विरता पिबमानस्य संकटे॥ अभीप्सति तदा नित्यमतृप्तः स पुनः पुनः। न चास्य जीविते राजन् निर्वेदः समजायत॥ जीविताशा प्रतिष्ठिता। कृष्णाः श्वेताश्च तं वृक्षं कुट्टयन्ति च मूषिकाः॥ व्यालैश्च वनदुर्गान्ते स्त्रिया च परमोग्रया। कूपाधस्ताच नागेन वीनाहे कुञ्जरेण च॥ वृक्षप्रपाताच भयं मूषिकेभ्यश्च पञ्चमम्। मधुलोभान्मधुकरैः षष्ठमाहुर्महद् भयम्॥ एवं स वसते तत्र क्षिप्तः संसारसागरे। न चैव जीविताशायां निर्वेदमुपगच्छति॥ जनमेजय उवाच प्राप्य राज्यं महाबाहुर्धर्मपुत्रौ युधिष्ठिरः। यदन्यदकरोद् विप्र तन्मे वक्तुमिहार्हसि॥ भगवान् वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः। ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि॥ वैशम्पायन उवाच शृणु तत्त्वेन राजेन्द्र कीर्त्यमानं मयानघ। वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः॥ प्राप्य राज्यं महाराज कुन्तीपुत्रो युधिष्ठिरः। चातुर्वण्र्यं यथायोग्यं स्वे स्वे स्थाने न्यवेशयत्॥ ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम्। सहस्रं निष्कमेकैकं दापयामास पाण्डवः॥ तथाऽनुजीविनो भृत्यान् संश्रितानतिथीनपि। कामैः संतर्पयामास कृपणांस्तर्ककानपि॥ पुरोहिताय धौम्याय प्रादादयुतशः स गा:। धनं सुवर्ण रजतं वासांसि विविधान्यपि॥ कृपाय च महाराज गुरुवृत्तिमवर्तत। विदुराय च राजासौ पूजां चक्रे यतव्रतः॥ भक्ष्यानपानैर्विविधसैर्वासोभिः शयनासनैः। सर्वान् संतोषयामास संश्रितान् ददतां वरः॥ लब्धप्रशमनं कृत्वा स राजा राजसत्तम। युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः॥ धृतराष्ट्राय तद् राज्यं गान्धार्थ विदुराय च। निवेद्य सुस्थवद् राजा सुखमास्ते युधिष्ठिरः॥ तथा सर्वं स नगरं प्रसाद्य भरतर्षभ। वासुदेवं महात्मानमभ्यगच्छत् कृताञ्जलिः॥ ततो महति पर्यङ्के मणिकाञ्चनभूषिते। ददर्श कृष्णमासीनं नीलमेघसमद्युतिम्॥ जाज्वल्यमानं वपुषा दिव्याभरणभूषितम्। पीतकौशेयवसनं हेम्नेवोपगतं मणिम्॥ कौस्तुभेनोरसिस्थेन मणिनाभिविराजितम्। उद्यतेवोदयं शैलं सूर्येणाभिविराजितम्॥ नौपम्यं विद्यते तस्य त्रिषु लोकेषु किंचन। सोऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम्॥ उवाध मधुरं राजा स्मितपूर्वमिदं तदा। सुखेन ते निशा कच्चिद् व्युष्टा बुद्धिमतां वर॥ कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत। तथैवोपश्रिता देवी बुद्धिर्बुद्धिमतां वर॥ वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता। तव प्रसादाद् भगवंस्त्रिलोकगतिविक्रम॥ जयं प्राप्ता यशश्चयं न च धर्मच्युता वयम्। तं तथा भाषमाणं तु धर्मराजमरिंदमम्। नोवाच भगवान् किंचिद् ध्यानमेवान्वपद्यत॥ उतथ्य उवाच कालवीं च पर्जन्यो धर्मचारी च पार्थिवः। सम्पद् यदेषा भवति सा बिभति सुखं प्रजाः॥ यो न जानाति हर्तुं वा वस्त्राणां रजको मलम्। रक्तानां वा शोधयितुं यथा नास्ति तथैव सः॥ एवमेतद् द्विजेन्द्राणां क्षत्रियाणां विशां तथा। शूद्रश्चतुर्थो वर्णानां नानाकर्मस्ववस्थितः॥ कर्म शूद्रे कृषिवैश्ये दण्डनीतिश्च राजनि। ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु॥ तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम्। शीलदोषान् विनिर्हर्तुं स पिता स प्रजापतिः॥ कृतं त्रेता द्वापरं च कलिश्च भरतर्षभ। राजवृत्तानि सर्वाणि राजैव युगमुच्यते॥ चातुर्वण्र्यं तथा वेदाश्चातुराश्रम्यमेव च। सर्वं प्रमुह्यते ह्येतद् यदा राजा प्रमाद्यति॥ अग्नित्रेता त्रयी विद्या यज्ञाश्च सहदक्षिणाः। सर्व एव प्रमाद्यन्ति यदा राजा प्रमाद्यति॥ राजैव कर्ता भूतानां राजैव च विनाशकः। धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः॥ राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा। समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति॥ हस्तिनोऽश्वाश्च गावचाप्युष्ट्राश्वतरगर्दभाः। अधर्मभूते नृपतौ सर्वे सीदन्ति जन्तवः॥ दुर्बलार्थं वलं सृष्टं धात्रा मान्धातरुच्यते। अबलं तु महद्भूतं यस्मिन् सर्वं प्रतिष्ठितम्॥ यच्च भूतं सम्भजते ये च भूतास्तदन्वयाः। अधर्मस्थे हि नृपतौ सर्वे शोचन्ति पार्थिव॥ दुर्बलस्य च यच्चक्षुर्मुनेराशीविषस्य च। अविषह्यतमं मन्ये मा स्म दुर्बलमासदः॥ दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान्। मा त्वां दुर्बलचढूंषि प्रदहेयुः सबान्धवम्॥ न हि दुर्बलदग्धस्य कुले किंचित् प्ररोहति। आमूलं निर्दहन्त्येव मा स्म दुर्बलमासदः॥ अबलं वै बलाच्छ्रेयो यच्चातिबलवबलम्। बलस्याबलदग्धस्य न किंचिदवशिष्यते॥ विमानितो हतः क्रुश्स्त्रातारं चेन विन्दति। अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम्॥ मा स्म तात रणे स्थित्वा भुञ्जीथा दुर्बलं जनम्। मा त्वां दुर्बलचक्षूषि दहन्त्वग्निरिवाश्रयम्॥ यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम्। तानि पुत्रान् पशून् नन्ति तेषां मिथ्याभिशंसनात्॥ यदि नात्मनि पुत्रेषु न चेत् पौत्रेषु नप्तृषु। न हि पापं कृतं कर्म सद्यः फलति गौरिव॥ यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति। महान् दैवकृतस्तत्र दण्डः पतति दारुणः॥ युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव। अभीक्ष्णं भिक्षुरूपेण राजानं मन्ति तादृशाः॥ राज्ञो यदा जनपदे बहवो राजपूरुषाः। अनयेनोपवर्तन्ते तद् राज्ञः किल्बिषं महत्॥ यदा युक्त्या नयेदर्थान् कामादर्थवशेन वा। कृपणं याचमानानां तद् राज्ञो वैशसं महत्॥ महान् वृक्षो जायते वर्धते च तं चैव भूतानि समाश्रयन्ति। यदा वृक्षश्छिद्यते दह्यते च तदाश्रया अनिकेता भवन्ति॥ यदा राष्ट्रे धर्ममयं चरन्ति संस्कारं वा राजगुणं ब्रुवाणा:। तैरेवाधर्मश्चरितो धर्ममोहात् तूर्णं जह्यात् सुकृतं दुष्कृतं च॥ यत्र पापा ज्ञायमानाश्चरन्ति सतां कलिविन्दते तत्र राज्ञः। स्तदा राज्यं वर्धते भूमिपस्य॥ यश्चामात्यान् मानयित्वा यथार्थ मन्त्रे च युद्धे च नृपो नियुङ्ग्यात्। विवर्धते तस्य राष्ट्र नृपस्य भुक्के महीं चाप्यखिलां चिराय॥ यच्चापि सुकृतं कर्म वाचं चैव सुभाषिताम्। समीक्ष्य पूजयन् राजा धर्मं प्राप्नोत्यनुत्तमम्॥ संविभज्य यदा भुक्के नामात्यानवमन्यते। निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते॥ त्रायते हि यदा सर्वं वाचा कायेन कर्मणा। पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते॥ संविभज्य यदा भुक्के नृपतिर्दुर्बलान् नरान्। तदा भवन्ति बलिनः स राज्ञो धर्म उच्यते॥ यदा रक्षति राष्ट्राणि यदा दस्यूनपोहति। यदा जयति संग्रामे स राज्ञो धर्म उच्यते॥ पापमाचरतो यत्र कर्मणा व्याहृतेन वा। प्रियस्यापि न मृष्येत स राज्ञो धर्म उच्यते॥ यदा शारणिकान् राजा पुत्रवत् परिरक्षति। भिनत्ति च न मर्यादां स राज्ञो धर्म उच्यते॥ यदाऽऽप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः। कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते॥ कृपणानाथवृद्धानां यदाश्रु परिमार्जति। हर्ष संजनयन् नृणां स राज्ञो धर्म उच्यते॥ विवर्धयति मित्राणि तथारीश्चापि कर्षति। सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते॥ सत्यं पालयति प्रीत्या नित्यं भूमिं प्रयच्छति। पूजयेदतिथीन् भृत्यान् स राज्ञो धर्म उच्यते॥ निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ। अस्मिन् लोके परे चैव राजा स प्राप्नुते फलम्॥ यमो राजा धार्मिकाणां मान्धातः परमेश्वरः। संयच्छन् भवति प्राणानसंयच्छंस्तु पातुकः॥ ऋत्विक्पुरोहिताचार्यान् सत्कृत्यानवमन्य च। यदा सम्यक् प्रगृह्णाति स राज्ञो धर्म उच्यते॥ यमो यच्छति भूतानि सर्वाण्येवाविशेषतः। तथा राज्ञानुकर्तव्यं यन्तव्या विधिवत् प्रजाः॥ सहस्राक्षेण राजा हि सर्वथैवोपमीयते। स पश्यति च यं धर्म स धर्मः पुरुषर्षभ॥ अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृति मतिम्। भूतानां चैव जिज्ञासा साध्वसाधु च सर्वदा॥ संग्रहः सर्वभूतानां दानं च मधुरं वचः। पौरजानपदाचैव गोप्तव्यास्ते यथासुखम्॥ न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम्। भारो हि सुमहांस्तात राज्यं नाम सुदुष्करम्॥ तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम्। न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा॥ अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः। सर्वा बुद्धीः परीक्षेपास्तापसाश्रमिणामपि॥ अतस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम्। स्वदेशे परदेशे वा न ते धर्मो विनक्षयति॥ तस्मादर्थाच्च कामाच्च धर्म एवोत्तरो भवेत्। अस्मिल्लोके परे चैव धर्मात्मा सुखमेधते॥ त्यजन्ति दारान् पुत्रांश्च मनुष्याः परिपूजिताः। संग्रहश्चैव भूतानां दानं च मधुरा च वाक्॥ अप्रमादश्च शौचं च राज्ञो भूतिकरं महत्। एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः॥ अप्रमत्तो भवेद् राजा छिद्रदर्शी परात्मनोः। नास्यच्छिद्रं परः पश्येच्छिद्रेषु परमन्वियात्॥ एतद् वृत्तं वासवस्य यमस्य वरुणस्य च। राजर्षीणां च सर्वेषां तत् त्वमप्यनुपालय॥ तत् कुरुष्व महाराज वृत्तं राजर्षिसेवितम्। आतिष्ठ दिव्यं पन्थानमह्नाय पुरुषर्षभ॥ धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत। देवर्षिपितृगन्धर्वाः कीर्तयन्ति महौजसः॥ भीष्म उवाच स एवमुक्तो मान्धाता तेनोतथ्येन भारत। कृतवानविशङ्कश्च एकः प्राप च मेदिनीम्॥ भवानपि तथा सम्यङ्मान्धातेव महीपते। धर्म कृत्वा महीं रक्ष स्वर्गे स्थानमवाप्स्यसि॥ युधिष्ठिर उवाच एवमग्राह्यके तस्मिज्ञातिसम्बन्धिमण्डले। मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। संवादं वासुदेवस्य सुरर्षेर्नारदस्य च॥ वासुदेव उवाच नासुहृत् परमं मन्त्रं नारदार्हति वेदितुम्। अपण्डितो वापि सुहृत् पण्डितो वाप्यनात्मवान्॥ स ते सौहृदमास्थाय किञ्चिद् वक्ष्यामि नारद। कृत्स्नं बुद्धिबलं प्रेक्ष्य सम्पृच्छेस्त्रिदिवंगम॥ दास्यमैश्वर्यवादेन ज्ञातीनां न करोम्यहम्। अर्धं भोक्तास्मि वाग्दुरुक्तानि च क्षमे॥ अरणीमग्निकामो वा मनाति हृदयं मम। वाचा दुरुक्तं देवर्षे तन्मे दहति नित्यदा॥ बलं संकर्षणे नित्यं सौकुमार्य पुनर्गदे। रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद॥ अन्ये हि सुमहाभागा बलवन्तो दुरुत्सहाः। नित्योत्थानेन सम्पन्ना नारदान्धकवृष्णयः॥ यस्य न स्युर्न वै स स्याद् यस्य स्युः कृत्स्नमेव तत्। द्वाभ्यां निवारितो नित्यं वृणोम्येकतरं न च॥ स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः। यस्य चापि न तौ स्यातां किं नु दुःखतरं ततः॥ सोऽहं कितवमातेव द्वयोरपि महामते। एकस्य जयमाशंसे द्वितीयस्यापराजयम्॥ ममैवं क्लिश्यमानस्य नारदोभयतः सदा। वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा॥ नारद उवाच आपदो द्विविधाः कृष्ण बाह्याश्चाभ्यन्तराश्च ह। प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वान्यतः॥ सेयमाभ्यन्तरा तुभ्यमापत् कृच्छा स्वकर्मजा। अक्रूरभोजप्रभवा सर्वे ह्येते त्वदन्वयाः॥ अर्थहेतोहि कामाद् वा वाचा बीभत्सयापि वा। आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम्॥ कृतमूलमिदानीं तज्ज्ञातिवृन्दं सहायवन्। न शक्यं पुनरादातुं वान्तमनमिव त्वया॥ बभूग्रसेनयो राज्यं नाप्तुं शक्यं कथंचन। ज्ञातिभेदभयात् कृष्ण त्वया चापि विशेषतः॥ तच्च सिध्येत् प्रयत्लेन कृत्वा कर्म सुदुष्करम्। महाक्षयं व्ययो वा स्याद् विनाशो वा पुनर्भवेत्॥ अनायसेन शस्त्रेण मृदुना हृदयच्छिदा। जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च॥ वासुदेव उवाच अनायसं मुने शस्त्रं मृदु विद्यामहं कथम्। येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च।॥ नारद उवाच शक्त्यान्नदानं सततं तितिक्षार्जवमार्दवम्। यथार्हप्रतिपूजा च शस्त्रमेतदनायसम्॥ ज्ञातीनां वक्तुकामानां कटुकानि लघूनि च। गिरा त्वं हृदयं वाचं शमयस्व मनांसि च॥ नामहापुरुषः कश्चिन्नानात्मा नासहायवान्। महतीं धुरमाधत्ते तामुद्यम्योरसा वह॥ सर्व एव गुरुं भारमनड्वान वहते समे। दुर्गे प्रतीतः सुगवो भारं वहति दुर्वहम्॥ भेदाद् विनाशः संघानां संघमुख्योऽसि केशव। यथा त्वां प्राप्य नोत्सीदेदयं संघस्तथा कुरु॥ नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात्। नान्यत्र धनसंत्यागाद् गणः प्राज्ञेऽवतिष्ठते॥ धन्यं यशस्यमायुष्यं स्वपक्षोद्भावनं सदा। ज्ञातीनामविनाशः स्याद् यथा कृष्ण तथा कुरु॥ आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो। पाड्गुण्यस्य विधानेन यात्रायानविधौ तथा॥ यादवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः। त्वय्यासक्ता महाबाहो लोका लोकेश्वराश्च ये॥ उपासते हि त्वबुद्धिमृषयश्चापि माधव। त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम्। त्वामासाद्य यदुश्रेष्ठमेधन्ते यादवाः सुखम्॥ वैशम्पायन उवाच एवं तदभवद् युद्धं तुमुलं जनमेजय। यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम्॥ धृतराष्ट्र उवाच रामं संनिहितं दृष्ट्वा गदायुद्ध उपस्थिते। मम पुत्रः कथं भीम प्रत्ययुध्यत संजय॥ संजय उवाच रामसांनिध्यमासाद्य पुत्रो दुर्योधनस्तव। युद्धकामो महाबाहुः समहष्यत वीर्यवान्॥ दृष्टवा लागलिनं राजा प्रत्युत्थाय च भारत। प्रीत्या परमया युक्तः समभ्यर्च्य यथाविधि॥ आसनं च ददौ तस्मै पर्यपृच्छदनामयम्। ततो युधिष्ठरं रामो वाक्यमेतदुवाच ह॥ मधुरं धर्मसंयुक्तं शूराणां हितमेव च। मया श्रुतं कथयतामृषीणां राजसत्तम॥ कुरुक्षेत्रं परं पुण्यं पावनं स्वर्गमेव च। दैवतैऋषिभिर्जुष्टं ब्राह्मणैश्च महात्मभिः॥ तत्र वै योत्स्यमाना य देहं त्यक्ष्यन्ति मानवाः। तेषां स्वर्गे ध्रुवो वासः शक्रेण सह मारिष॥ तस्मात् समन्तपञ्चकमितो याम द्रुतं नृप। प्रथितोत्तरवेदी सा देवलोके प्रजापतेः॥ तस्मिन् महापुण्यतमे त्रैलोक्यस्य सनातने। संग्रामे निधनं प्राप्य ध्रुवं स्वर्गे भविष्यति॥ तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः। समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः॥ ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम्। पद्भ्यामपर्षी द्युतिमानगच्छत् पाण्डवैः सह।१२।। तथाऽऽयान्तं गदाहस्तं वर्मणा चापि दंशितम्। अन्तरिक्षचरा देवाः साधु साध्वित्यपूजयन्॥ वातिकाचारणा ये तु दृष्ट्वा ते हर्षमागताः। स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः॥ मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत्। ततः शङ्खनिनादेन भेरीणां च महास्वनैः॥ सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः। ततस्ते तु कुरुक्षेत्रं प्राप्ता नरवरोत्तमाः॥ प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते। दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम्॥ तस्मिन् देशे त्वनिरिणे ते तु युद्धमरोचयन्। ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत्॥ बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः। अवबद्धशिरस्त्राणः संख्ये काञ्चनवर्मभृत्॥ रराज राजन् पुत्रस्ते काञ्चनः शैलराडिव। वर्मभ्यां संयतौ वीरौ भीमदुर्योधनावुभौ॥ संयुगे च प्रकाशेते संरब्धाविव कुञ्जरौ। रणमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ॥ अशोभेतां महाराज चन्द्रसूर्याविवोदितौ। तावन्योन्यं निरीक्षेतां क्रुद्धाविव महाद्विपौ॥ दहन्तौ लोचनौ राजन् परस्परवधैषिणौ। सम्प्रहृष्टमना राजन् गदामादाय कौरवः॥ सृक्किणी संलिहन् राजन् क्रोधरक्तेक्षणः श्वसन्। ततो दुर्योधनो राजन् गदामादाय वीर्यवान्॥ भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत्। अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान्॥ आह्वयामास नृपति सिंह सिंहो यथा वने। तावुद्यतगदापाणी दुर्योधनवृकोदरौ॥ संयुगे च प्रकाशेतां गिरी सशिखराविव। तावुभौ समतिक्रुद्धावुभौ भीमपराक्रमौ॥ उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः। उभौ सदृशकर्माणौ यमवासवयोरिव॥ तथा सदृशकर्माणौ वरुणस्य महाबलौ। वासुदेवस्य रामस्य तथा वैश्रवणस्य च॥ सदृशौ तौ महाराज मधुकैटभयोर्युधि। उभौ सदृशकर्माणौ तथा सुन्दोपसुन्दयोः॥ रामरावणयोश्चैव वालिसुग्रीवयोस्तथा। तथैव कालस्य समौ मृत्योश्चैव परंतपौ॥ अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ। वासितासंगमे दृप्तौ शरदीव मदोत्कटौ॥ उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव। अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिंदमौ॥ उभौ भरतशार्दूलौ विक्रमेण समन्वितौ। सिंहाविव दुराधर्षों गदायुद्धविशारदौ॥ नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ। प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ॥ लोहिताङ्गाविव क्रुद्धो प्रतपन्तौ महारथौ। पूर्वपश्चिमजौ मेघौ प्रेक्षमाणावरिंदमौ॥ गर्जमानौ सुविषमं क्षरन्तौ प्रादृषीव हि। रश्मियुक्तौ महात्मानौ दीप्तिमन्तौ महाबलौ॥ ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ। व्याघ्राविव सुसंरब्धौ गर्जन्ताविव तोयदौ॥ जहषाते महाबाहू सिंहकेसरिणाविवा जगाविव सुसंरब्धौ ज्वलिताविव पावकौ॥ ददृशाते महात्मानौ सशृङ्गाविव पर्वतौ। रोषात् प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम्॥ तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ। उभौ परमसंहृष्टावुभौ परमसम्मतौ॥ सदश्वाविव हेषन्तौ बृहन्ताविव कुञ्जरौ। वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ॥ दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ। ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम्॥ भ्रातृभिः संहितं चैव कृष्णेन च महात्मना। रामेणामितवीर्येण वाक्यं शौटीर्यसम्मतम्॥ केकयैः सृञ्जयैर्दृप्तं पञ्चालैश्च महात्मभिः । इदं व्यवसितं युद्धं मम भीमस्य चोभयोः॥ उपोपविष्टाः पश्यध्वं सहितैनूपपुङ्गवैः। श्रुत्वा दुर्योधनवचः प्रत्यपद्यन्त तत्तथा॥ ततः समुपविष्टं तत् सुमहद्रजमण्डलम्। विराजमानं ददृशे दिवीवादित्यमण्डलम्॥ तेषां मध्ये महाबाहुः श्रीमान् केशवपूर्वजः। उपविष्टो महाराज पूज्यमानः समन्ततः॥ शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः। नक्षत्रैरिव सम्पूर्णो वृतो निशि निशाकरः॥ तौ तथा तु महाराज गदाहस्तौ सुदुःसहौ। अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ॥ अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुसत्तमौ। उदीक्षन्तौ स्थितौ तत्र वृत्रशक्रौ यथाऽऽहवे॥ धौम्य उवाच आनर्तेषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि। यानि तत्र पवित्राणि पुण्यान्यायतनानि च॥ प्रियङ्ग्वाम्रणोपेता वानीरफलमालिनी। प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत॥ त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च। सरिद्वनानि शैलेन्द्रा देवाश्च सपितामहाः॥ नर्मदायां कुरुश्रेष्ठ सह सिद्धर्षिचारणैः। स्नातुमायान्ति पुण्यौघैः सदा वारिषु भारत॥ निकेतः श्रूयते पुण्ये यत्र वश्रवसो मुनेः। जज्ञेधनपतिर्यत्र कुबेरो नरवाहनः॥ वैदूर्यशिखरो नाम पुण्यो गिरिवरः शिवः। नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः॥ तस्य शैलस्य शिखरे सरः पुण्यं महीपते। फुल्लपद्मं महाराज देवगन्धर्वसेवितम्॥ बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते। पुण्ये स्वर्गोपमे चैव देवर्षिगणसेविते॥ ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित्। विश्वामित्रनदी राजन् पुण्या परपुरंजय॥ यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः। पपात स पुनर्लोकॉल्लेभेधर्मान् सनातनान्॥ तत्र पुण्यो ह्रदः ख्याते मैनाकश्चैव पर्वतः। बहुमूलफलोपेतस्त्वसिते नाम पर्वतः॥ आश्रमः कक्षसेनस्य पुण्यस्तत्र युधिष्ठिर। च्यवनस्याश्रमश्चैव विख्यातस्तत्र पाण्डव॥ तत्राल्पेनैव सिध्यन्ति मानवास्तपसा विभो। जम्बूभार्गो महाराज ऋषीणां भावितात्मनाम्॥ आश्रमः शाम्यतां श्रेष्ठ मृगद्विजनिषेवितः। ततः पुण्यतमा राजन् सततं तापसैर्युता॥ केतुमाला च मेध्या च गङ्गद्वारं च भूमिप। ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम्॥ पितामहसरः पुण्यं पुष्करं नाम नामतः। वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः॥ अप्यत्र संश्रयार्थाय प्रजापतिरथो जगौ। पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर॥ मनसाप्यभिकामस्य पुष्कराणि मनस्विनः। विप्रणश्यन्ति पापानि नाकपृष्ठे च मोदते॥ धृतराष्ट्र उवाच सनत्सुजात यामिमां परां त्वं ब्राह्मीं वाचं वदसे विश्वरूपाम्। परां हि कामेन सुदुर्लभां कथां प्रब्रूहि मे वाक्यमिदं कुमार॥ सनत्सुजात उवाच नैतद् ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छन्नतिहष्यतीव। बुद्धौ विलीने मनसि प्रचिन्त्या विद्या हि सा ब्रह्मचर्येण लभ्या॥ धृतराष्ट्र उवाच यत् सनातनी अत्यन्तविद्यामिति ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम्। अनारभ्यां वसतीह कार्यकाले कथं ब्राह्मण्यममृतत्वं लभेत॥ सनत्सुजात उवाच अव्यक्तविद्यामभिधास्ये पुराणी बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम्। यां प्राप्यैनं मर्त्य लोकं त्यजन्ति या वै विद्या गुरुवृद्धेषु नित्या॥ धृतराष्ट्र उवाच ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्जसा। तत् कथं ब्रह्मचर्यं स्यादेतद् ब्रह्मन् ब्रवीहि मे॥ सनत्सुजात उवाच आचार्ययोनिमिह ये प्रविश्य भूत्वा गर्भ ब्रह्मचर्यं चरन्तिा इहैव ते शास्त्रकारा भवन्ति प्रहाय देहं परमं यान्ति योगम्॥ अस्मिल्लोके वै जयन्तीह कामान् ब्राही स्थिति ह्यनुतितिक्षमाणाः। न्मुञ्जादिषीकामिव सत्त्वसंस्थाः॥ शरीरमेतौ कुरुतः पिता माता च भारत। आचार्यशास्ता या जातिः सा पुण्या साजराऽमरा॥ नृतं कुर्वनमृतं सम्प्रयच्छन्। तं मन्येत पितरं मातरं च तस्मै न दुह्येत् कृतमस्य जानन्।॥ गुरुं शिष्यो नित्यमभिवादयीत स्वाध्यायमिच्छेच्छुचिरप्रमत्तः। मेष प्रथमो ब्रह्मचर्यस्य पादः॥ शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यः शुचिः। ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते॥ आचार्यस्य प्रियं कुर्यात् प्राणैरपि धनैरपि। कर्मणा मनसा वाचा द्वितीयः पाद उच्यते॥ समा गुरौ यथा वृत्तिर्णरुपल्यां तथाऽऽचरेत्। तत्पुत्रे च तथा कुर्वन् द्वितीयः पाद उच्यते॥ आचार्येणात्मकृतं विजानन् ज्ञात्वा चार्थ भावितोऽस्मीत्यनेन। यन्मन्यते तं प्रति हृष्टबुद्धिः स वै तृतीयो ब्रह्मचर्यस्य पादः॥ नाचार्यस्यानपाकृत्य प्रवास प्राज्ञः कुर्वीतं नैतदहं करोमि। इतीव मन्येत न भाषयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः॥ कालेन पादं लभते तथाऽर्थं ततश्च पादं गुरुयोगतश्च। च्छास्त्रेण पादं च ततोऽभियाति॥ मन्यानि चाङ्गानि तथा बलं च। ब्रह्मार्थयोगेन च ब्रह्मचर्यम्॥ एवं प्रवृत्तो यदुपालभेत वै धनमाचार्याय तदनुप्रयच्छेत्। सतां वृत्तिं बहुगुणामेवमेति गुरोः पुत्रे भवति च वृत्तिरेषा॥ एवं वसन् सर्वतो वर्धतीह बहून् पुत्राँल्लभते च प्रतिष्ठाम्। वर्षन्ति चास्मै प्रदिशो दिशश्च वसन्त्यस्मिन् ब्रह्मचर्ये जनाश्च॥ एतेन ब्रह्मचर्येण देवा देवत्वमाप्नुवन्। ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः॥ गन्धर्वाणामनेनैव रूपमप्सरसामभूत्। एतेन ब्रह्मचर्येण सूर्योऽप्यह्राय जायते॥ आकाक्ष्यार्थस्य संयोगाद् रसभेदार्थिनामिव। एवं ह्येते समाज्ञाय तादृग्भावं गता इमे॥ य आश्रयेत् पावयेच्चापि राजन् सर्वं शरीरं तपसा तप्यमानः। एतेन वै बाल्यमभ्येति विद्वान् मृत्युं तथा स जयत्यन्तकाले॥ अन्तवतः क्षत्रिय ते जयन्ति लोकान् जनाः कर्मणा निर्मलेन। ब्रह्मैव विद्वांस्तेन चाभ्येति सर्व नान्यः पन्था अयनाय विद्यते॥ धृतराष्ट्र उवाच आभाति शुक्लमिव लोहितमिवाथो कृष्णमथाञ्जनं काद्रवं वा। सद्ब्रह्मणः पश्यति योऽत्र विद्वान् कथं रूपं तदमृतमक्षरं पदम्॥ सनत्सुजात उवाच आभाति शुक्लमिव लोहितमिवाथो कृष्णमायसमर्कवर्णम्। न पृथिव्यां तिष्ठति नान्तरिक्षे नैतत् समुद्रे सलिलं बिभर्ति॥ न तारकासु न च विद्युदाश्रितं न चाभ्रेषु दृश्यते रूपमस्या न चापि वायौ न च देवतासु नैतच्चन्द्रे दृश्यते नोत सूर्ये॥ नैवटुं तन्न यजुषु नाप्यथर्वसु न दृश्यते वै विमलेषु सामसु। रथन्तरे बार्हद्रथे वाऽपि राजन् महाव्रते नैव दृश्येद् ध्रुवं तत्॥ अपारणीयं तमसः परस्तात् तदन्तकोऽप्येति विनाशकाले। अणीयो रूपं क्षुरधारया समं महच्च रूपं तद् वै पर्वतेभ्यः॥ सा प्रतिष्ठा तदमृतं लोकास्तद् ब्रह्म तद् यशः। भूतानि जज्ञिरे तस्मात् प्रलयं यान्ति तत्र हि॥ अनामयं तन्महदुद्यत् यशो वाचो विकारं कवयो वदन्ति। यस्मिन् जगत् सर्वमिदं प्रतिष्ठितं ये तद् विदुरमृतास्ते भवन्ति॥ भीष्म उवाच ततो रात्रो व्यतीतायं प्रतिबुद्धोऽस्मि भारत। ततः संचिन्त्य वै स्वप्नमवापं हर्षमुत्तमम्॥ ततः समभवद् युद्धं मम तस्य च भारत। तुमुलं सर्वभूतानां लोमहर्षणमद्भुतम्॥ ततो बाणमयं वर्ष ववर्ष मयि भार्गवः। न्यवारयमहं तच्च शरजालेन भारत॥ ततः परमसंक्रुद्धः पुनरेव महातपाः। ह्यस्तनेन च कोपेन शक्ति वै प्राहिणोन्मयि॥ इन्द्राशनिसमस्पर्शी यमदण्डसमप्रभाम्। ज्वलन्तीमग्निवत् संख्ये लेलिहानां समन्ततः॥ पर्वतः॥ ततो भरतशार्दूल घिष्ण्यमाकाशगं यथा। स मामभ्यवधीत् तूर्णं जत्रुदेशे कुरूद्वह॥ अथास्रमस्रवद् घोरं गिरेगैरिकधातुवत्। रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण॥ ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः। चिक्षेप मृत्युसंकाशं बाणं सर्पविषोपमम्॥ स तेनाभिहतो वीरो ललाटे द्विजसत्तमः। अशोभत महाराज सशृङ्ग इव स संरब्धः समावृत्य शरं कालान्तकोपमम्। संदधे बलवत् कृष्य घोरं शत्रुनिबर्हणम्॥ स वक्षसि पपातोग्रः शरो व्याल इव श्वसन्। महीं राजंस्ततश्चाहमगमं रुधिराविलः॥ सम्प्राप्य तु पुनः संज्ञां जामदग्न्याय धीमते। प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव॥ सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे। विह्वलश्चाभवद् राजन् वेपथुश्चैनमाविशत्॥ तत एनं परिष्वज्य सखा विप्रो महातपाः। अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा॥ समाश्वस्तस्ततो रामः क्रोधामर्षसमन्वितः। प्रादुश्चक्रे तदा ब्राह्म परमास्त्रं महाव्रतः॥ ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम्। मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत्॥ तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः। असंप्राप्यैव रामं च मां च भारतसत्तम॥ ततो व्योम्नि प्रादुरभूत् तेज एव हि केवलम्। भूतानि चैव सर्वाणि जग्मुराति विशाम्पते॥ ऋषयश्च सगन्धर्वा देवताश्चैव भारत। संतापं परमं जग्मुरस्त्रतेजोऽभिपीडिताः॥ ततश्चचाल पृथिवी सपर्वतवनद्रुमा। संतप्तानि च भूतानि विषादं जग्मुरुत्तमम्॥ प्रजज्वाल नमो राजन् धूमायन्ते दिशो दश। न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा॥ ततो हाहाकृते लोके सदेवासुरराक्षसे। इदमन्तरमित्येवं मोक्तुकामोऽस्मि भारत॥ प्रस्वापमस्त्रं त्वरितो वचनाद् ब्रह्मवादिनाम्। विचित्रं च तदस्त्रं मे मनसि प्रत्यभात् तदा॥ वैशम्पायन उवाच एवमुक्तेषु राज्ञा तु पाण्डुपुत्रेषु भारत। दुर्योधनः परं हर्षमगच्छत् स दुरात्मवान्॥ स पुरोचनमेकान्तमानीय भरतर्षभ। गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत्॥ ममेयं वसुसम्पूर्णा पुरोचन वसुंधरा। यथेयं मम तद्वत् ते स तां रक्षितुमर्हसि॥ न हि मे कश्चिदन्योऽस्ति विश्वासिकतरस्त्वया। सहायो येन संधाय मन्त्रयेयं यथा त्वया॥ संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर। निपुणेनाभ्युपायेन यद् ब्रवीमि तथा कुरु॥ पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम्। उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात्॥ स त्वं रासभयुक्तेन स्पन्दनेनाशुगामिना। वारणावतमद्यैव यथा यासि तथा कुरु॥ तत्र गत्वा चतुःशालं गृहं परमसंवृतम्। नगरोपान्तमाश्रित्य कारयेथा महाधनम्॥ शणसर्जरसादीनि यानि द्रव्याणि कानिचित्। आग्नेयान्युत सन्तीह तानि तत्र प्रदापय॥ सर्पिस्तैलवसाभिश्च लाक्षया चाप्यनल्पया। मृत्तिका मिश्रयित्वा त्वं लेपं कुड्येषु दापय॥ शणं तैलं घृतं चैव जतु दारूणि चैव हि। तस्मिन् वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः॥ यथा च तन्न पश्येरन् परीक्षन्तोऽपि पाण्डवाः। आग्नेयमिति तत् कार्यमपि चान्येऽपि मानवाः॥ वेश्मन्येवं कृते तत्र गत्वा तान् परमार्चितान्। वासयेथाः पाण्डवेयान् कुन्ती च ससुहृज्जनाम्॥ आसगानि च दिव्यानि यानानि शयनानि च। विधातव्यानि पाण्डूनां यथा तुष्येत वै पिता॥ यथा च तन्न जानन्ति नगरे वारणावते। तथा सर्वं विधातव्यं यावत् कालस्य पर्ययः॥ ज्ञात्वा च तान् सुविश्वस्ताशयानानकुतोभयान्। अग्निस्त्वया ततो देयो द्वारतस्तस्य वेश्मनः॥ दह्यमाने स्वके गेहे दग्धा इति ततो जनाः। न गर्हयेयुरस्मान् वै पाण्डवार्थाय कर्हिचित्॥ स तथेति प्रतिज्ञाय कौरवाय पुरोचनः। प्रायाद् रासभयुक्तेन स्पन्दनेनाशुगामिना॥ स गत्वा त्वरितं राजन् दुर्योधनमते स्थितः। यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः॥ जनमेजय उवाच वसिष्ठस्यापवाहोऽसौ भीमवेगः कथं नु सः। किमर्थं च सरिच्छेष्टा तमृषि प्रत्यवाहयत्॥ कथमस्याभवद् वैरं कारणं किं च तत् प्रभो। शंस पृष्टो महाप्राज्ञ न हि तृष्यामि कथ्यति॥ वैशम्पायन उवाच विश्वामित्रस्य विप्रर्वसिष्ठस्य च भारत। भृशं वैरमभूद् राजंस्तपः स्पर्धाकृतं महत्॥ आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान्। पूर्वतः पार्श्वतश्चासीद् विश्वामित्रस्य धीमतः॥ यत्र स्थाणुर्महाराज तप्तवान् परमं तपः। तत्रास्य कर्म तद् घोरं प्रवदन्ति मनीषिणः॥ यत्रेष्ट्वा भगवान् स्थाणुः पूजयित्वा सरस्वतीम्। स्थापयामास तत् तीर्थं स्थाणुतीर्थमिति प्रभो॥ तत्र तीर्थे सुराः स्कन्दमभ्यषिञ्चन्नराधिप। सैनापत्येन महता सुरारिविनिबर्हणम्॥ तस्मिन् सारस्वते तीर्थे विश्वामित्रो महामुनिः। वसिष्ठं चालयामास तपसोगेण तच्छृणु॥ विश्वामित्रवसिष्ठौ तावहन्यहनि भारत। स्पर्धा तपःकृतां तीव्रां चक्रतुस्तौ तपोधनौ॥ तत्राप्यादिकसंतापो विश्वामित्रो महामुनिः। दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह॥ तस्य बुद्धिरियं ह्यासीद् धर्मनित्यस्य भारत। इयं सरस्वती तूर्णं मत्समीपं तपोधनम्॥ आनयिष्यति वेगेन वसिष्ठं तपतां वरम्। इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः॥ एवं निश्चित्य भगवान् विश्वामित्रो महामुनिः। सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः॥ सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह। जज्ञे चैनं महावीर्यं महाकोपं च भाविनी॥ तत एनं वेपमानां विवर्णा प्राञ्जलिस्तदा। उपतस्थे मुनिवरं विश्वामित्रं सरस्वती॥ हतवीरा यथा नारी साऽभवद् दुःखिता भृशम्। ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम्॥ तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय। यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी॥ प्राञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा। प्राकम्पत भृशं भीता वायुनेवाहता लता॥ तथारूपां तां दृष्ट्वा मुनिराह महानदीम्। अविचारं वसिष्ठं त्वमानयस्वान्तिकं मम॥ सा तस्य वचनं श्रुत्वा ज्ञात्वा पापं चिकीर्पितम्। वसिष्ठस्य प्रभावं च जानन्त्यप्रतिमं भुवि॥ साऽभिगम्य वसिष्ठं च इदमर्थमचोदयत्। यदुक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता॥ उभयोः शापयोर्भीता वेपमाना पुनः पुनः। चिन्तयित्वा महाशापमृषिवित्रासिता भृशम्॥ तु तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम्। उवाच राजन् धर्मात्मा वसिष्ठो द्विपदां वरः॥ वसिष्ठ उवाच पाह्यात्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी। विश्वामित्र: शद्धि त्वां मा कृथास्त्वं विचारणाम्।। २४ तस्य तद् वचनं श्रुत्वा कृपाशीलस्य सा सरित्। चिन्तयामास कौरव्य किं कृत्वा सुकृतं भवेत्॥ तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि। कृतवान् हि दयां नित्यं तस्य कार्यं हितं मया॥ अथ कूले स्वके राजन् जपन्तमृषिसत्तमम्। जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत्॥ इदमन्तरमित्येवं ततः सा सरितां वरा। कूलापहारमकरोत् स्वेन वेगेन सा सरित्॥ तेन कूलापहारेण मैत्रावरुणिरौह्यत। उह्यमानः स तुष्टाव तदा राजन् सरस्वतीम्॥ पितामहस्य सरसः प्रवृत्ताऽसि सरस्वति। व्याप्तं चेदं जगत् सर्वं तवैवाम्भोभिरुत्तमैः॥ त्वमेवाकाशगा देवि मेघेषु सृजसे पयः। सर्वाश्चापस्त्वमेवेति त्वत्तो वयमधीमहि॥ पुष्टिषुतिस्तथा कीर्तिः सिद्धिबुद्धिरुमा तथा। त्वमेव वाणी स्वाहा त्वं तवायत्तमिदं जगत्॥ त्वमेव सर्वभूतेषु वससीह चतुर्विधा। एवं सरस्वती राजन् स्तूयमाना महर्षिणा॥ वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति। न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम्॥ तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः। अथान्वेषत् प्रहरणं वसिष्ठान्तकरं तदा॥ तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्मवध्याभयानदी। अपोवाह वसिष्ठं तु प्राची दिशमतन्द्रिता॥ उभयोः कुर्वती वाक्यं वञ्चयित्वा च गाधिजम्। ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम्॥ अब्रवीद् दुःखसंक्रुद्धो विश्वामित्रो ह्यमर्षणः। यस्मान्मां त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता॥ शोणितं वह कल्याणि रक्षोग्रामणिसम्मतम्। ततः सरस्वती शप्ता विश्वामित्रेण धीमता॥ अवहच्छोणितोन्मिभं तोयं संवत्सरं तदा। अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तदा॥ सरस्वती तथा दृष्ट्वा बभूवुर्भृशदुःखिताः। एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप॥ आगच्छच्च पुनर्मार्ग स्वमेव सरितां वरा॥ वैशम्पायन उवाच ततस्ते पुरुषश्रेष्ठाः समाजग्मुः परस्परम्। विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः॥ विधि परममास्थाय ब्रह्मर्षिविहितं शुभम्। संहृष्टमनसः सर्वे देवलोके इवामराः॥ पुत्रः पित्रा च मात्रा च भार्याश्च पतिभिः सह। भ्रात्रा भ्राता सखा चैव सख्या राजन् समागताः॥ पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च। सम्प्रहर्षात् समाजग्मुर्दोपदेयांश्च सर्वशः॥ ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः। समेत्य पृथिवीपाल सौहृद्ये च स्थिता भवन॥ परस्परं समागम्य योधास्ते भरतर्षभ। मुनेः प्रसादात् ते ह्येवं क्षत्रिया नष्टमन्यवः॥ असौहृदं परित्यज्य सौहदे पर्यवस्थिताः एवं समागताः सर्वे गुरुभिर्बान्धवैः सह॥ पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च पार्थिवाः। तां रात्रिमखिलामेवं विहत्य प्रीतमानसाः॥ मेनिरे परितोषेण नृपाः स्वर्गसदो यथा। नात्र शोको भयं त्रासो नारति यशोऽभवत्।।९। परस्परं समागम्य योधानां भरतर्षभ। समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः॥ मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन्। एकां रात्रि विहृत्यैव ते वीरास्ताश्च योषितः॥ आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम्। ततो विसर्जयामास लोकांस्तान् मुनिपुङ्गवः॥ क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन्। अवगाह्य महात्मानः पुण्यां भागीरथी नदीम्॥ सरथाः सध्वजाश्चैव स्वानि वेश्मानि भेजिरे। देवलोकं ययुः केचित् केचिद् ब्रह्मसदस्तथा॥ केचिच्च वारुणं लोकं केचित् कौबेरमाप्नुवन्। ततो वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः॥ राक्षसानां पिशाचानां केचिच्चाप्युत्तरान् कुरून्। विचित्रगतयः सर्वे यानवाप्यामरैः सह॥ आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः। गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः॥ धर्मशीलो महातेजाः कुरूणां हितकृत् तथा। ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः॥ या याः पतिकृतान् लोका निच्छन्ति परमस्त्रियः। ता जाह्नवीजलं क्षिप्रं मवगाहन्त्वतन्द्रिताः॥ ततस्तस्य वचः श्रुत्वा श्रदधाना वराङ्गनाः। श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम्॥ विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह। समाजग्मुस्तदा साध्व्यः सर्वा एव विशाम्पते॥ एवं क्रमेण सर्वास्ताः शीलवत्यः पतिव्रताः। प्रविश्य क्षत्रिया मुक्ता जग्मुर्भर्तृसलोकताम्॥ दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः। दिव्यमाल्याम्बरधरा यथाऽऽसां पतयस्तथा॥ ताः शीलगुणसम्पन्ना विमानस्था गतक्लमाः। सर्वाः सर्वगुणोपेताः स्वस्थानं प्रतिपेदिरे॥ यस्य यस्य तु यः कामस्तस्मिन् काले बभूव ह। तं तं विसृष्टवान् व्यासो वरदो धर्मवत्सलः॥ तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः। जहषुर्मुदिताश्चासन् नानादेशगता अपि॥ प्रियैः समागमं तेषां यः सम्यक् शृणुयान्नरः। प्रियाणि लभते नित्यमिह च प्रेत्य चैव सः॥ इष्टबान्धवसंयोगमनायासमनामयम्। यश्चैतच्छावयेद् विद्वान् विदुषो धर्मवित्तमः॥ स यशः प्राप्नुयाल्लोके परत्र च शुभां गतिम्। स्वाध्याययुक्ता मनुजास्तपोयुक्ताश्च भारत॥ साध्वाचारा दमोपेता दाननिषूतकल्मषाः। ऋजवः शुचयः शान्ता हिंसानृतविवर्जिताः॥ आस्तिकाः श्रद्दधानाश्च धृतिमन्तश्च मानवाः। श्रुत्वाऽऽश्चर्यमिदं पर्व हवाप्स्यन्ति परां गतिम्॥ वैशम्पायन उवाच ततः समुपविष्टेषु पाण्डवेषु महात्मसु। व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत्॥ धृतराष्ट्र महाबाहो कच्चित् ते वर्तते तपः। कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप॥ कच्चिद्धृदि न ते शोको राजन् पुत्रविनाशजः। कच्चिज्ज्ञानानि सर्वाणि सुप्रसन्नानि तेऽनघ॥ कच्चिद् बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम्। कच्चिद् वधूश्च गान्धारी न शोकेनाभिभूयते॥ महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी। आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति॥ कच्चित् कुन्ती च राजंस्त्वां शुश्रूषत्यनहंकृता। या परित्यज्य स्वं पुत्रं गुरुशुश्रूषणे रता॥ कच्चिद् धर्मसुतो राजा त्वया प्रत्यभिनन्दितः। भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्त्विताः॥ कच्चिन्नन्दसि दृष्ट्वैतान् कच्चित् ते निर्मलं मनः। कच्चिच्च शुद्धभावोऽसि जातज्ञानो नराधिप॥ एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत। निर्वैरता महाराज सत्यमक्रोध एव च॥ कच्चित् तेन च मोहोऽस्ति वनवासेन भारत। स्ववशे वन्यमन्नं वा उपवासोऽपि वा भवेत्॥ विदितं चापि राजेन्द्र विदुरस्य महात्मनः। गमनं विधिनाऽनेन धर्मस्य सुमहात्मनः॥ माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः। महाबुद्धिर्महायोगी महात्मा सुमहामनाः॥ बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु च। न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः॥ तपोबलव्ययं कृत्वा सुचिरात् सम्भृतं तदा। माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः॥ नियोगाद् ब्रह्मणः पूर्वे मया स्वेन बलेन च। वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः॥ भ्राता तव महाराज देवदेवः सनातनः। धारणान्मनसा ध्यानाद् यं धर्मं कवयो विदुः॥ सत्येन संवर्धयति यो दमेन शमेन च। अहिंसया च दानेन तप्यमानः सनातनः॥ येन योगबलाज्जातः कुरुराजो युधिष्ठिरः। धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना॥ यथा वह्निर्यथा वायुर्यथाऽऽपः पृथिवी यथा। यथाऽऽकाशं तथा धर्म इह चामुत्र च स्थितः॥ सर्वगश्चैव राजेन्द्र सर्वं व्याप्य चराचरम्। दृश्यते देवदेवैः स सिद्धैर्निर्मुक्तकल्मषैः॥ यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः। स एष राजन् दृश्यस्ते पाण्डवः प्रेष्यवत् स्थितः॥२१ प्रविष्टः स महात्मानं भ्राता ते बुद्धिसत्तमः। दृष्ट्वा महात्मा कौन्तेयं महायोगबलान्वितः॥ त्वां चापि श्रेयसा योक्ष्ये न चिराद् भरतर्षभ। संशयच्छेदनार्थाय प्राप्तं मां विद्धि पुत्रका॥ न कृतं यैः पुरा कैश्चित् कर्म लोके महर्षिभिः। आश्चर्यभूतं तपसः फलं तद् दर्शयामि वः॥ किमिच्छसि महीपाल मत्तः प्राप्तुमभीप्सितम्। द्रष्टुं स्प्रष्टुमथ श्रोतुं तत्कर्ताऽस्मि तवानघ।॥ पराशर उवाच वृत्तिः सकाशाद् वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना। प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान् कुरुते सदा॥ वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा। न वृत्तिं परतो मार्गेच्छुश्रूषां तु प्रयोजयेत्॥ सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः। नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः॥ यथोदयगिरौ द्रव्यं संनिकर्षेण दीप्यते। तथा सत्संनिकर्षेण हीनवर्णोऽपि दीप्यते॥ यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम्। तादृशं कुरुते रुपमेतदेवमवेहि मे॥ तस्माद् गुणेषु रज्येथा मा दोषेषु कदाचन। अनित्यमिह मानां जीवितं हि चलाचलम्॥ सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः। यश्चिनोति शुभान्येव स तन्त्राणीह पश्यति॥ धर्मादपेतं यत् कर्म यद्यपि स्यान्महाफलम्। न तत् सेवेत मेधावी न तद्धितमिहोच्यते॥ यो हत्वा गोसहस्राणि नृपो दद्यादरक्षिता। स शब्दमात्रफलभाग् राजा भवति तस्करः॥ स्वयम्भूरसृजच्चाग्रे धातारं लोकसत्कृतम्। धातासृजत् पुत्रमेकं लोकानां धारणे रतम्॥ तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत्। रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः॥ अजिौरशठक्रोधैर्हव्यकव्यप्रयोक्तृभिः। शूद्रनिर्मार्जनं कार्यमेवं धर्मो न नश्यति॥ अप्रणष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः। सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः॥ तस्माद् यो रक्षति नृपः स धर्मेणेति पूज्यते। अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः॥ यश्च शुश्रूषते शूद्रः सततं नियतेन्द्रियः। अतोऽन्यथा मनुष्येन्द्र स्वधर्मात् परिहीयते॥ प्राणसंतापनिर्दिष्टाः काकिण्योऽपि महाफलाः। न्यायेनोपार्जिता दत्ता: किमुतान्याः सहस्रशः॥ सत्कृत्य हि द्विजातिभ्यो यो ददाति नराधिपः। यादृशं तादृशं नित्यमश्नाति फलमूर्जितम्॥ अभिगम्य च तत् तुष्ट्या दत्तमाहुरभिष्टुतम्। याचितेन तु तद् दत्तं तदाहुर्मध्यमं बुधाः॥ अवज्ञया दीयते यत् तथैवाश्रद्धयापि वा। तमाहुरधमं दानं मुनयः सत्यवादिनः॥ अतिक्रामेन्मज्जमानो विविधेन नरः सदा। तथा प्रयत्नं कुर्वीत यथा मुच्येत संश्रयात्॥ दमेन शोभते विप्रः क्षत्रियो विजयेन तु। धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते॥ वैशम्पायन उवाच ततो युधिष्ठिरो राजा भूयः शान्तनवं नृपम्। गोदानविस्तरं धर्मान् पप्रच्छ विनयान्वितः॥ राजोवाच गोप्रदानगुणान् सम्यक् पुनर्मे ब्रूहि भारत। न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम्॥ वैशम्पायन उवाच इत्युक्तो धर्मराजेन तदा शान्तनवो नृपः। सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान्॥ भीष्म उवाच वत्सलां गुणसम्पन्नां तरुणीं वस्त्रसंयुताम्। दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते॥ असुर्या नाम ते लोका गां दत्त्वा तान् न गच्छति। पीतोदकां जग्धतृणां नष्टक्षीरां निरिन्द्रियाम्॥ जरारोगोपसम्पन्नां जीर्णां वापीमिवाजलाम्। दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत्॥ रुष्टा दुष्टा व्याधिता दुर्बला वा नो दातव्या याश्च मूल्यैरदत्तैः। क्लेशैर्विप्रं योऽफलैः संयुनक्ति तस्यावीर्याश्चाफलाश्चैव लोकाः॥ बलान्विताः शीलवयोपपन्नाः सर्वे प्रशंसन्ति सुगन्धवत्यः। यथा हि गङ्गा सरितां वरिष्ठा तथार्जुनीनां कपिला वरिष्ठा॥ युधिष्ठिर उवाच कस्मात् समाने बहुलाप्रदाने सद्धिः प्रशस्तं कपिलाप्रदानाम्। विशेषमिच्छामि महाप्रभावं श्रोतुं समर्थोऽस्मि भवान् प्रवक्तुम्॥ भीष्म उवाच वृद्धानां ब्रुवतां तात श्रुतं मे यत् पुरातनम्। वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा।॥ प्रजाः सृजेति चादिष्टः पूर्वं दक्षः स्वयम्भुवा। असृजद् वृत्तिमेवाग्रे प्रजानां हितकाम्यया॥ यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः। तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो॥ अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठाः सदा नराः। ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः॥ यज्ञैरवाप्यते सोमः स च गोषु प्रतिष्ठितः। ततो देवाः प्रमोदन्ते पूर्वं वृत्तिस्ततः प्रजाः॥ प्रजातान्येव भूतानि प्राक्रोशन् वृत्तिकाझया। वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत्॥ इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः। प्रजापतिस्तु भगवानमृतं प्रापिबत् तदा॥ स गतस्तस्य तृप्ति तु गन्धं सुरभिमुद्भिरन्। ददर्शोद्वारसंवृत्तां सुरभिं मुखजां सुताम्॥ सासृजत् सौरभेयीस्तु सुरभिर्लोकमातृकाः। सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः॥ तासाममृतवर्णानां क्षरन्तीनां समन्ततः। बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः॥ स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः। शिरस्यवाप तत् क्रुद्धः स तदैक्षत च प्रभुः॥ ललाटप्रभवेणाक्ष्वा रोहिणीं प्रदहन्निव। तत्तेजस्तु ततो रौद्रं कपिलास्ता विशाम्पते॥ नानावर्णत्वमनयन्मेघानिव दिवाकरः। यास्तु तस्मादपक्रम्य सोममेषाभिसंश्रिताः॥ यथौत्पन्नाः स्ववर्णास्थास्ता ह्येता नान्यवर्णगाः। अथ क्रुद्धं महादेवं प्रजापतिरभाषत॥ अमृतेनावसिक्तस्तवं नोच्छिष्टं विद्यते गवाम्। यथा ह्यमृतमादाय सोमो विस्यन्दते पुनः॥ तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसम्भवम्। न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः॥ नामृते नामृतं पीतं वत्सपीता न वत्सला। इमाल्लोकान् भरिष्यन्ति हविषा प्रस्रवेण च॥ आसामैश्चर्यमिच्छन्ति सर्वेऽमृतमयं शुभम्। वृषभं च ददौ तस्मै सह गोभिः प्रजापतिः॥ प्रसादयामास मनस्तेन रुद्रस्य भारत। प्रीतश्चापि महादेवश्चकार वृषभं तदा॥ ध्वजं च वाहनं चैव तस्मात् स वृषभध्वजः। ततो देवैर्महादेवस्तदा पशुपतिः कृतः। ईश्वरः स गवां मध्ये वृषभाङ्कः प्रकीर्तितः॥ एवमव्यग्रवर्णानां कपिलानां महौजसाम्। प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः॥ लोकज्येष्ठा लोकवृत्तिप्रवृत्ता रुद्रोपेता: सोमविष्यन्दभूताः। सौम्याः पुण्याः कामदाः प्राणदाश्च गा वै दत्त्वा सर्वकामप्रदः स्यात्॥ इदं गवां प्रभवविधानमुत्तमं पठन् सदाशुचिरपि मङ्गलप्रियः। विमुच्यते कलिकलुषेण मानव: श्रियं सुतान् धनपशुमाप्नुयात् सदा॥ हव्यं कव्यं तर्पणं शान्तिकर्म यानं वासो वृद्धबालस्य तुष्टिः। एतान् सर्वान् गोप्रदाने गुणान् वै दाता राजन्नाप्नुयाद् वै सदैव॥ वैशम्पायन उवाच पितामहस्याथ निशम्य वाक्यं राजा सह भ्रातृभिराजमीढः। सुवर्णवर्णानडुहस्तथा गाः पार्थो ददौ ब्राह्मणसत्तमेभ्यः॥ तथैव तेभ्योऽपि ददौ द्विजेभ्यो गवां सहस्राणि शतानि चैव। यज्ञान् समुद्दिश्य च दक्षिणार्थे लोकान् विजेतुं परमां च कीर्तिम्॥ जरासंध उवाच न स्मरामि कदा वैरं कृतं युष्माभिरित्युत। चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम्॥ वैकृते वासति कथं मन्यध्वं मामनागसम्। अरिं वै ब्रूत हे विप्राः सतां समय एष हि॥ अथ धर्मोपघाताद्धि मनः समुपतप्यते। योऽनागसि प्रसजति क्षत्रियो हि न संशयः॥ अतोऽन्यथा चरँल्लोके धर्मज्ञः सन् महारथः। वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च।॥ त्रैलोक्ये क्षत्रधर्मो हि श्रेयान् वै साधुचारिणाम्। नान्यं धर्मं प्रशंसन्ति ये च धर्मविदो जनाः॥ तस्य मेऽद्य स्थितस्येह स्वधर्मे नियतात्मनः। अनागसं प्रजानां च प्रमादादिव जल्पथ॥ श्रीकृष्ण उवाच कुलकार्यं महाबाहो कश्चिदेकः कुलोद्वहः। वहते यस्तन्नियोगाद् वयमभ्युद्यतास्त्वयि॥ त्वया चोपहृता राजन् क्षत्रिया लोकवासिनः। तदागः क्रूरमुत्पाद्य मन्यसे किमनागसम्॥ राजा राज्ञः कथं साधून् हिंस्यानृपतिसत्तम। तद् राज्ञः संनिगृह्य त्वं रुद्रायोपजिहीर्षसि॥ अस्मांस्तदेनो गच्छेद्धि कृतं वार्हद्रथ त्वया। वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः॥ मनुष्याणां समालम्भो न च दृष्टः कदाचन। स कथं मानुषैर्देवं यष्टुमिच्छसि शङ्करम्॥ सवर्णो हि सवर्णानां पशुसंज्ञां करिष्यसि। कोऽन्य एव यथा हि त्वं जरासंध वृथामतिः॥ यस्यां यस्यामवस्थायां यद्यत् कर्म करोति यः। तस्यां तस्यामवस्थायां तत्फलं समवाप्नुयात्॥ ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः। ज्ञातिवृद्धिनिमित्तार्थं विनिहन्तुमिहागताः॥ नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव तत्। मन्यसे स च ते राजन् सुमहान् बुद्धिविप्लवः॥ को हि जानन्नभिजनमात्मवान् क्षत्रियो नृप। नाविशेत् स्वर्गमतुलं रणानन्तरमव्ययम्॥ स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः। जयन्ति क्षत्रिया लोकांस्तद् विद्धि मनुजर्षभ॥ स्वर्गयोनिर्महद् ब्रह्म स्वर्गयोनिर्महद् यशः। स्वर्गयोनिस्तपो युद्धे मृत्युः सोऽव्यभिचारवान्॥ एष न्द्रिो वैजयन्तो गुणैर्नित्यं समाहितः। येनासुरान् पराजित्य जगत् पाति शतक्रतुः॥ स्वर्गमार्गाय कस्य स्याद् विग्रहो वै यथा तव। मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितः॥ मावमंस्थाः परान् राजन्नस्ति वीर्यं नरे नरे। समं तेजस्त्वया चैव विशिष्टं वा नरेश्वर॥ यावदेतदसम्बुद्धं तावदेव भवेत् तव। विषह्यमेतदस्माकमतो राजन् ब्रवीमि ते॥ जहि त्वं सदृशेष्वेव मानं दर्पं च मागध। मा गमः ससुतामात्य सबलश्च यमक्षयम्॥ दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः। श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः॥ युयुक्षमाणास्त्वत्तो हि न वयं ब्राह्मणा ध्रुवम्। शौरिरस्मि हृषिकेशो नृवीरौ पाण्डवाविमौ। अनयोर्मातुलेयं च कृष्णं मां विद्धि ते रिपुम्॥ त्वामाह्वयामहे राजन् स्थिरो युध्यस्व मागध। मुञ्च वा नृपतीन् सर्वान् गच्छ वा त्वं यमक्षयम्॥ जरासंध उवाच नाजितान् वै नरपतीनहमाददि कांश्चन। अजितः पर्यवस्थाता कोऽत्र यो न मया जितः॥ क्षत्रियस्यैतदेवाहुर्धर्म्य कृष्णोपजीवनम्। विक्रम्य वशमानीय कामतो यत् समाचरेत्॥ देवतार्थमुपाहत्य राज्ञः कृष्ण कथं भयात्। अहमद्य विमुच्येयं क्षात्रं व्रतमनुस्मरन्।॥ सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः। द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगपत् पृथगेव वा॥ वैशम्पायन उवाच एवमुक्त्वा जरासंधः सहदेवाभिषेचनम्। आज्ञापयत् तदा राजा युयुत्सुर्भीमकर्मभिः॥ स तु सेनापति राजा सस्मार भरतर्षभ। कौशिकं चित्रसेनं च तस्मिन् युद्ध उपस्थिते॥ ययोस्ते नामनी राजन् हंसेति डिम्भकेति च। पूर्वं संकथितं पुम्भिर्नृलोके लोकसत्कृते॥ तं तु राजन् विभुः शौरी राजानं बलिनां वरम्। स्मृत्वा पुरुषशार्दूल: शार्दूलसमविक्रमम्॥ सत्यसंधो जरासंधं भुवि भीमपराक्रमम्। भागमन्यस्य निर्दिष्टमवध्यं मधुभिर्मधे॥ नात्मनाऽऽत्मवतां मुख्य इयेष मधुसूदनः। ब्राह्मीमाज्ञां पुरस्कृत्य हन्तुं हलधरानुजाः॥ युधिष्ठिर उवाच किमिदं परमाश्चर्यं ध्यायस्यमितविक्रम। कच्चिल्लोकत्रयस्यास्य स्वस्ति लोकपरायण।।शा चतुर्थं ध्यानमार्ग त्वमालम्ब्य पुरुषर्षभ। अपक्रान्तो यतो देवस्तेन मे विस्मितं मनः॥ निगृहीतो हि वायुस्ते पञ्चकर्मा शरीरगः। इन्द्रियाणि प्रसन्नानि मनसि स्थापितानि ते॥ वाक् च सत्त्वं च गोविन्द बुद्धौ संवेशितानि ते। सर्वे चैव गुणा देवाः क्षेत्रज्ञे ते निवेशिताः॥ नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस्तथा मनः। काष्ठकुड्यशिलाभूतो निरीहश्चासि माधवा॥ यथा दीपो निवातस्था निरिङ्गो ज्वलते पुनः। तथासि भगवन् देव पाषाण इव निश्चलः॥ यदि श्रोतुमिहार्हामि न रहस्यं च ते यदि। छिन्धि मे संशयं देव प्रपन्नायाभियाचते॥ त्वं हि कर्ता विकर्ता च क्षरं चैवाक्षरं च हि। अनादिनिधनश्चाद्यस्त्वमेव पुरुषोत्तम॥ त्वत्प्रपन्नाय भक्ताय शिरसा प्रणताय च। ध्यानस्यास्य यथा तत्त्वं ब्रूहि धर्मभृतां वर॥ ततः स्वे गोचरे न्यस्य मनोबुद्धिन्द्रियाणि सः। स्मितपूर्वमुवाचेदं भगवान् वासवानुजः॥ वासुदेव उवाच शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः॥ यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः। न सेहे देवराजोऽपि तमस्मि मनसा गतः॥ येनाभिजित्य तरसा समस्तं राजमण्डलम्। ऊढास्तिस्त्रस्तु ताः कन्यास्तमस्मि मनसा गतः॥ त्रयोविंशतिरात्रं यो योधयामास भार्गवम्। न च रामेण निस्तीर्णस्तमस्मि मनसा गतः॥ एकीकृत्येन्द्रियग्राम मनः संयम्य मेधया। शरणं मामुपागच्छत् ततो मे तद्गतं मनः॥ यं गङ्गा गर्भविधिना धारयामास पार्थिव। वसिष्ठशिक्षितं तात तमस्मि मनसा गतः॥ दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान्। साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः॥ रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव। आधारं सर्वविद्यानां तमस्मि मनसा गतः॥ स हि भूतं भविष्यच्च भवच्च भरतर्षभ। वेत्ति धर्मविदां श्रेष्ठं तमस्मि मनसा गतः॥ तस्मिन् हि पुरुषव्याघ्ने कर्मभिः स्वैर्दिवं गते। भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी॥ तद् युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम्। अभिगम्योपसंगृह्य पृच्छ यत् ते मनोगतम्॥ चातुर्विद्यं चातुर्होत्रं चातुराश्रम्यमेव च। राजधर्मांश्च निखिलान् पृच्छैनं पृथिवीपते॥ तस्मिन्नस्तमिते भीष्मे कौरवाणां धुरंधरे। ज्ञानान्यस्तं गमिष्यन्ति तस्मात्त्वां चोदयाम्यहम्॥ तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम्। साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह॥ यद् भवानाह भीष्मस्य प्रभावं प्रति माधव। तथा तन्नात्र संदेहो विद्यते मम माधव।॥ महाभाग्यं च भीष्मस्य प्रभावश्च महाद्युते। श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम्॥ भवांश्च कर्ता लोकानां यद् ब्रवीत्यरिसूदन। तथा तदनभिध्येयं वाक्यं यादवनन्दन॥ यदि त्वनुग्रहवती बुद्धिस्ते मयि माधव। त्वामग्रतः पुरस्कृत्य भीष्मं यास्यामहे वयम्॥ आवृते भगवत्यर्के स हि लोकान् गमिष्यति। त्वदर्शनं महाबाहो तस्मादर्हति कौरवः॥ तव चाद्यस्य देवस्य क्षरस्यैवाक्षरस्य च। दर्शनं त्वस्य लाभः स्यात् त्वं हि ब्रह्ममयो निधिः।। वैशम्पायन उवाच श्रुत्वैवं धर्मराजस्य वचनं मधुसूदनः। पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यतामिति॥ सात्यकिस्त्वाशु निष्क्रम्य केशवस्य समीपतः। दारुकं प्राह कृष्णस्य युज्यतां रथ इत्युत।॥ स सात्यकेराशु वचो निशम्य रथोत्तमं काञ्चनभूषिताङ्गम्। विभूषितं हेमनिबद्धचक्रम्॥ दिवाकरांशुप्रभमाशुगामिन विचित्रनानामणिभूषितान्तरम्। नवोदितं सूर्यमिव प्रतापिनं विचित्रता_ध्वजिनं पताकिनम्॥ मनोजवैः काञ्चनभूषिताङ्गैः। संयुक्तमावेदयदच्युताय कृताञ्जलिर्दारुको राजसिंह॥ सूर्य उवाच माहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा। पुत्राणामथ भार्याणामथो मातुरथो पितुः॥ शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर। इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा॥ यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम्। सा ते प्राणान् गमिष्यति न संशयः॥ जीवतां कुरुते कार्यं पिता माता सुतास्तथा। ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन् पुरुषर्षभ।॥ राजानश्च नरव्याघ्र पौरुषेण निबोध तत्। कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते॥ मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः। मृतः कीर्ति न जानीते जीवन कीर्तिं समश्नुते॥ मृतस्या कीर्तिमर्त्यस्य यथा माला गतायुषः। अहं तु त्वां ब्रवीम्येतद् भक्तोऽसीति हितेप्सया॥ भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना। भक्तोऽयं परया भक्त्या मामित्येव महाभुजा ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम॥ अस्ति चात्र परं किञ्चिदध्यात्मं देवनिर्मितम्। अतश्च त्वां ब्रवीम्येतत् क्रियतामविशङ्कया॥ देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ। तस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद् भवान्॥ पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत्। मास्मै ते कुण्डले दद्या भिक्षिते वलापाणिना॥ शोभसे कुण्डलाभ्यां च रुचिराभ्यां महाद्युते। विशाखयोर्मध्यगतः शशीव विमले दिवि॥ कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत्। प्रत्याख्येयस्त्वया तात कुण्डलार्थे सुरेश्वरः॥ शक्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयानघ। विहन्तुं देवराजस्य हेतुयुक्तैः पुनः पुनः॥ हेतुमदुपपन्नार्थैर्माधुर्यकृतभूषणैः। पुरन्दरस्य कर्ण त्वं बुद्धिमेतामपानुद॥ त्वं हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना। सव्यसाची त्वया चेह युधि शूरः समेष्यति॥ न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम्। विजेतुं युधि यद्यस्य स्वयमिन्द्रः सखा भवेत्॥ तस्मान्न देये शक्राय त्वयैते कुण्डले शुभे। संग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम्॥ संजय उवाच दृष्ट्वा तु संनिवृत्तांस्तान् संशप्तकगणान् पुनः। वासुदेवं महात्मानमर्जुनः समभाषत॥ चोदयाश्वान् हृषीकेश संशप्तकगणान् प्रति। नैतै हास्यन्ति संग्रामं जीवन्त इति मे मतिः॥ पश्यमेऽस्त्रबलं घोरं बाहोरिष्वसनस्य च। अद्यैतान् पातयिष्यामि क्रुद्धो रुद्रः पशूनिव॥ ततः कृष्णः स्मितं कृत्वा प्रतिनन्द्य शिवेन तम्। प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः॥ स रथो भ्राजतेऽत्यर्थमुह्यमानो रणे तदा। उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः॥ मण्डलानि ततश्चक्रे गतप्रत्यागतानि च। यथा शक्ररथो राजन् युद्धे देवासुरे पुरा॥ अथ नारायणाः कुद्धा विविधायुधपाणयः। क्षादयन्तः शरव्रातैः परिववर्धनंजयम्॥ अदृश्यं च मुहूर्तेन चकुस्ते भरतर्षभ। कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनंजयम्॥ क्रुद्धस्तु फाल्गुनः संख्ये द्विगुणीकृतविक्रमः। गाण्डीवं धनुरामृज्य तूर्णं जग्राह संयुगे॥ बद्ध्वा च भ्रुकुटि वक्त्रे क्रोधस्य प्रतिलक्षणम्। देवदत्तं महाशङ्ख पूरयामास पाण्डवः॥ अथास्त्रमरिसंघघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः। ततो रूपसहस्राणि प्रादुरासन् पृथक् पृथक्॥ आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः। अन्योन्येनार्जुनं मत्वा स्वमात्मानं च जजिरे॥ अयमर्जुनोऽयं गोविन्द इमौ पाण्डवयादवौ। इति ब्रुवाणाः सम्मूढा जघ्नुरन्योन्यमाहवे॥ मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम्। अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः॥ ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात्। कृत्वा तदस्त्रं तान् वीराननयद् यमसादनम्॥ अथ प्रहस्य बीभत्सुर्ललित्थान् मालवानपि। मावेल्लकास्त्रिगतश्चि यौधेयांश्चादयच्छरैः॥ ते हन्यमाना वीरेण क्षत्रियाः कालचोदिताः। व्यसृजञ्छरजालानि पार्थे नानाविधानि च॥ न ध्वजो नार्जुनस्तत्र न रथो न च केशवः। प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः॥ ततस्ते लब्धलक्षत्वादन्योन्यमभिचुकुशुः। हतौ कृष्णाविति प्रीत्या वासांस्यादुधुवुस्तदा॥ भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः। सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष॥ ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत्। क्वासिपार्थन पश्येत्वां कच्चिज्जीवसिशत्रुहन्॥ तस्य तद् भाषितं श्रुत्वा त्वरमाणो धनंजयः। वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत्॥ ततः संशप्तकवातान् साश्वद्विपरथायुधान्। उवाह भगवान् वायुः शुष्कपर्णचयानिव॥ उह्यमानास्तु ते राजन् बह्वशोभन्त वायुना। प्रडीनाः पक्षिण: काले वृक्षेभ्य इव मारिष॥ तांस्तथा व्याकुलीकृत्य त्वरमाणो धनंजयः। जघान निशितैर्बाणैः सहस्राणि शतानि च।॥ शिरांसि भल्लैरहरद् बाहूनपि च सायुधान्। हस्तिहस्तोपमांश्चोरूशरैरुक्मपातयत्॥ पृष्ठच्छिन्नान् विचरणान् बाहुपार्वेक्षणाकुलान्। नानाडावयवैीनांश्चकारारीन् धनंजयः॥ गन्धर्वनगराकारान् विधिवत्कल्पितान् रथान्। शरैर्विशकलीकुर्वेश्चक्रे व्यश्वरथद्विपान्॥ मुण्डतालवनानीव तत्र तत्र चकाशिरे। छिन्ना रथध्वजवाताः केचित्तत्र क्वचित् क्वचित्॥ सोत्तरायुधिनो नागाः सपताकांकुशध्वजाः। पेतुः शक्राशनिहता दुमवन्त इवाचलाः॥ चामरापीडकवचाः स्त्रस्तान्त्रनयनास्तथा। सारोहास्तुरगाः पेतुः पार्थवाणहताः क्षितौ॥ विप्रविद्धासिनखराश्छिन्नवर्मटिशक्तयः। पत्तयश्छिन्नवर्माणः कृपणाः शेरते हताः॥ तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि। भ्रमद्भिर्निष्टनद्भिश्च क्रूरमायोधनं बभौ॥ रजश्च सुमहज्जातं शान्तं रुधिरवृष्टिभिः मही चाप्यभवद् दुर्गा कबन्धशतसंकुला॥ तद बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे। आक्रीडमिव रुद्रस्य घनतः कालात्यय पशून्॥ ते वध्यमानाः पार्थेन व्याकुलाश्च रथद्विपाः। तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः॥ सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः। आस्तीर्णा सम्बभौ सर्वा प्रेतीभूतैः समन्ततः॥ एस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि। व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत्॥ तं प्रत्यगृणंस्त्वरिता व्यूढानीका: प्रहारिणः। युधिष्ठिरं परीप्सन्तस्तदासीत् तुमुलं महत्॥