<DOC_START>
तदेव काले आरब्धं महतेऽर्थाय कल्प्यते ॥
<DOC_END>
<DOC_START>
*ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि
*एवमक्षमालिकया जप्तो मन्त्रः सद्यः सिद्धिकरो
*ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि
<DOC_END>
<DOC_START>
==अक्षैर्मा दीव्यः ॥ ऋग्वेदः १०-३४-१३
: द्यूतं नाम किम् मूलधनं न्यूनं स्यात् । प्रतिफलम् अत्यधिकं स्यात् । इदमपि प्रतिफलम् अचिरादेव लभ्येत । अस्य अत्यधिकस्य फलस्य निमित्तं मया क्रियमाणः परिश्रमः अत्यल्पः स्यात् एतादृशी काचित् 'व्यवस्था' न विद्यते । कदाचित् एवं जातमिति दृश्यते । किन्तु तां घटनां सूक्ष्मतया यदि अवलोकयेम तर्हि तत्रत्याः ऋणांशाः अवगम्यन्ते प्रतिफलस्य प्राप्तिः भिन्ना । तस्य अनुभोगः भिन्नः । शान्त्या तस्य आस्वादनं तु विभिन्नः एव अस्माकं सर्वेषाम् अपेक्षा तु तृतीयस्य प्राप्तिः एव । तत्तु कदापि द्यूतेन प्राप्तुम् अशक्यम् द्यूते भवति वक्रबुद्धिः । यत्र वक्रबुद्धिः तत्र शान्तेः प्रसक्तिः नैव । परिश्रमः यदा क्रियेत, तस्य प्रतिफलं यदा लभ्येत तदा एव वस्तुतः सन्तोषः, शान्तिश्च । इदं प्रमाणेन कदाचित् अधिकं न स्यात्, किन्तु गुणेन भवति श्रेष्ठतमम् । अस्य सत्यस्य साक्षात्कारः यदा भवेत् तदा द्यूतसम्बद्धा वक्रता विनश्यते, परिश्रमस्य मूल्यम् अवगतं भवेत् ।
<DOC_END>
<DOC_START>
==अग्ने नय सुपथा राये ॥ यजुर्वेदः ५-३६
हे जगदग्रणीः सौभाग्यप्राप्तये सन्मार्गे नीयताम् ।
: रायः सम्पत्तिः सर्वैः अपेक्ष्यते । वेदः कदापि सम्पदां न तिरस्करोति । वैराग्यमेकमेव न प्रतिपादयति अपि । किन्तु लक्ष्यं यावत् मुख्यं मार्गः अपि तावदेव मुख्यम् । दुर्मार्गेण अर्जिता सम्पत्तिः वस्तुतः सम्पत्तिः एव न तेन क्लेशाः एव उत्पद्यन्ते न तु मनःशान्तिः । तात्कालिकतया प्राप्तं सम्पत्सुखं न तत् सुखम् अपि तु धनमदमात्रम् । अतः अस्माकं मनसि मार्गविषये स्पष्टा परिकल्पना स्यात् । सुपथा सन्मार्गः । न्यायेन मार्गेण सम्पत्सम्पादनाय प्रेरणा दीयताम् इत्येषा भगवति अस्माकं प्रार्थना । असत्यवादिनः असन्तः, अस्माकं परिश्रमानुगुणमात्रम् अन्येषां पीडा-वञ्चनादिनिमित्तम् अवसरम् अकल्पयन्तः यत् सम्पादयामः सा एव अमूल्या सम्पत्तिः । किमिदं साध्यम् इत्येषः प्रश्नः बहूनां मनस्सु उदीयात् । इदं निश्चयेन साध्यम् । किन्तु अनेन मार्गेण विफुलं सम्पादयितुम् अशक्यम् ऋजुमार्गेण एव अस्मान् नयतु इति सर्वेषां नेतारं परमात्मानं प्रार्थयाम । तेनैव मार्गेण चलाम, वक्रमार्गेण न कदापि इत्येषः सङ्कल्पः दृढः स्यात् ।
<DOC_END>
<DOC_START>
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥
<DOC_END>
<DOC_START>
मां स्पृष्टो अनुवित्तो मयैव ।
स्वर्गं लोकम् इत ऊर्ध्वं विमुक्ताः ॥ बृहदारण्यकोपनिषत् ४-४-८
ज्ञानमार्गोऽयं सूक्ष्मः, अनादिकालादपि विततः, पुराणः; मां स्पृष्टो मार्गोऽयम् । मया सम्पादितश्च;
ब्रह्मविदः अनेनैव ज्ञानमार्गेण प्रयाताः विमुक्ताः सन्तः ब्रह्मानन्दं प्राप्नुवन्ति ॥
वेदान्तेषु उपदिष्टस्य मुक्तिमार्गस्य नाम ‘ज्ञानमार्गः’ इति । वेदान्तानां मार्गः राजमार्गः, अयमेव हि
ज्ञानमार्गः, अयमेव मुक्तिमार्गः अयमेव शुकमार्गः । वेदोपनिषत्सु विततः अनादिः श्रेयोमार्गोऽयम् ।
अणुरयं सूक्ष्ममार्गः । मन्दमध्यमाधिकारिणां सुलभतया अगम्यः, अनुभवैकगम्यः गहनमार्गोऽयम् ॥
एतन्मार्गानुसारिणां परमं फलं मुक्तिरेव । सा प्राप्ता एव । विवेकिनः केवलं ब्रह्मज्ञानिनः अस्मिन्
ज्ञानमार्गे प्रवृत्ताः मुक्ता भवन्ति । आत्मज्ञानेन अज्ञाने निवृत्ते सति मोक्षः प्राप्त एव भवति ॥
<DOC_END>
<DOC_START>
आत्मा गुहायां निहितोऽस्य जन्तोः ।
धातुः प्रसादान्महिमानमात्मनः ॥ श्वेताश्वतरोपनिषत् ३-२०
आत्मा अणोः अणीयान्, महतो महीयान् सन् सर्वेषां प्राणिनां गुहायां वसति । परमात्मनः अनुग्रहेण
आत्मानं विज्ञाय दुःखरहितो भवति ॥
आत्मा कुत्रास्ति कथमस्ति तस्य अवगतिः कथम् तस्य ज्ञानेन किं वा फलं भवति इति
चतुर्णामपि प्रश्नानाम् प्रतिवचनानि अयं मन्त्रः सुन्दरतया उपदिशति ॥
परमात्मा सर्वप्राणिनां हृदये वसति । सः सूक्ष्मः स्थूलश्च भवति । आत्मा परमाणोरपि सूक्ष्मः, पृथिव्याः
अपि महान् । ईदृशम् आत्मानम् अवगन्तुं साधकः भगवद्भक्तः भवेत्, ततः भगवतः अनुग्रहं लभेत् ।
जिज्ञासुर्हि शमदमादिसाधनसम्पन्नो भवेत् । अस्य आत्मनः ज्ञानेन साधकः सर्वदुःखानि अत्येति ।
आत्मनः महिमानं ज्ञात्वा आत्मवित् सर्वान् तापान् अतीत्य मुक्तो भवति ॥
<DOC_END>
<DOC_START>
अण्डजानि च जारुजानि च स्वेदजानि च उद्भिज्जानि च …… तत् सर्वं प्रज्ञानेत्रम् । ऐतरेयोपनिषत् ३-१-३
अण्डजानि, जारुजानि, स्वेदजानि, उद्भिज्जानि च भूतानि । एतत् सर्वं प्रज्ञानेत्रम् ॥
परमात्मन एव सर्वे प्राणिनः जायन्ते । ते च प्राणिनः स्थूलतया चतुर्विधाः विभक्ता भवन्ति ॥ ते च –
अण्डजाः प्राणिनः अण्डात् जाताः अण्डजाः । अण्डं भित्वा जायमानाः प्राणिनः । पक्षिणः सर्पाः
जारुजाः प्राणिनः जारुः इति जरायुः गर्भकोशः । मातृगर्भं प्रविश्य, तत्र उषित्वा योनिद्वारा जायमानाः-
:मनुष्याः, गजाः, उष्ट्राः, अश्वाः, गवादयः, प्राणिनः जारुजाः ॥
स्वेदजाः प्राणिनः मानवानां स्वेदात् उत्पद्यमानाः लूनाकीटादयः प्राणिनः स्वेदजाः ॥
उद्भिज्जाः प्राणिनः बीजानि उद्भिद्य जायमानाः वृक्षादयः । एवम् इमे चतुर्विधाः प्राणिनः एकस्मादेव
<DOC_END>
<DOC_START>
अत ऊर्ध्वं विमोक्षायैव ब्रूहि इति । बृहदारण्यकोपनिषत् ४-३-१५
अस्मादूर्ध्वं विमोक्षायैव ब्रूहि इति जनको याज्ञवल्क्यम् उवाच ।
याज्ञवल्क्यात् महर्षेः स्वप्रश्नानां युक्तानि प्रतिवचनानि लब्ध्वा जनको
राजर्षिः प्रतिपर्यायं ‘गवां सहस्रं ते ददामि’ इति वदन् तथैव सहस्रं गाः
तस्मै गुरवे दत्तवान् । तावता प्रतिवचनेन असन्तुष्टः जनको राजर्षिः
पुनः पुनः “अत ऊर्ध्वं विमोक्षायैव ब्रूहि” इति याज्ञवल्क्यं महर्षिं
पृच्छति । जनकः एतां विमोक्षप्रयोजनां प्रार्थनां स्वगुरौ त्रिवारं करोति ॥
विमोक्षो नाम विवेकेन मोक्षः । मोक्षो नाम बन्धनात् मुक्तिरेव । साधनानि
कृत्वा साध्यफलावाप्तिरेव बन्धनम् । जन्ममरणचक्रमेव बन्धनम्, कृत्वा
साध्यफलावाप्तिरेव बन्धनम्, कृत्वा फलप्राप्तिरेव बन्धनम्, सुखदुःखमोहा एव
बन्धनम्, क्रियाकारकफलान्येव संसारः । अस्मात् संसारबन्धनात् मोचनमेव
मुक्तिर्नाम । वेदान्तेषु क्रियमाणा चर्चा, तत्त्ववादः विमोक्षायैव शिष्याणां प्रश्नाः
सद्गुरूणाम् उत्तराणि च विमोक्षायैव भवन्ति । सर्वाणि शास्त्राणि च विमोक्षायैव ॥
<DOC_END>
<DOC_START>
* अतिथिमनादृत्य न युक्तमात्मनैव किञ्चिदपि सेवितुम् ।
* उचितं नः पर्युपासनमतिथीनाम् ।
* अतिथिदेवाः खलु भारतीयाः ।
* यत्र गेहे असत्कृताः अतिथयः सन्तिः तत्र भोज्यं नास्ति किञ्चित् तत्र नास्ति पानीयम् ।
* गॄहपतेः कुलं धनञ्च वर्धन्ते॓ऽतिथिपूजया ।
* वेदोक्तं यज्ञसमम् अतिथिपूजां गायति ।
* अतिथिपालनात् तुष्टाः अमराः यच्छन्ति जन्मान्ते देवलोकम् ।
* अतिथिसत्कारणैव याति मनुजो स्वर्गम् ।
* अत्रैव लोकसंग्रहायैव अतिथिपलनं विहितम् ।
* अतिथिदेवं पूजयन्तः पुण्यपुञ्जं लभन्तो आर्यदेशसंस्कृतिम् उन्नतीकुर्वन्ते ।
* न युज्यतेऽतिथिविशेषमसत्कृय पदमात्रमपि चलितुम् ।
* समागतानां युक्तः पूजया प्रतिग्रहः ।
* मित्रस्यातिथ्यं स्वर्गतुल्यं सुखदं भवति ।
<DOC_END>
<DOC_START>
अतिदीर्घे जीविते को रमेत काठकोपनिषत् १-१-२८
बहुदीर्घकालपर्यन्तं जीवनमात्रेण को वा सन्तोषेण जीवेत् ?
सर्वोऽपि पुरुषः दीर्घायुः भवितुम् इच्छति । देवालयादीन् गत्वा तत्र अष्टोत्तरशत
सहस्रनाम पूजा अभिषेकादीन् कारयद्भिः भक्तैः देवतासंनिधौ क्रियमाणः सङ्कल्पो
नाम 'दीर्घायुरारोग्यऎश्वर्याभिवृद्धयर्थम्' – इत्येव । तथा शिष्यैः नमस्कृताः
वृद्धाः, वेदपुरुषाः दीर्घायुष्मान् भव' इत्येव हि प्रप्रथमतया आशीर्वादं कुर्वन्ति ।
को वा अल्पायुर्भूत्वा अकाले मुमूर्षति न कोऽपि ॥
साध्वेव एतत् सर्वम्, अपि तु दीर्घायुर्विषये अयं काठकोपनिषन्मन्त्रः एकं सुन्दरं
सन्देशम् उपदिशति । स च सन्देशो नाम 'शतायुर्जीवनमात्रेण मनुष्यः किम् आनन्दी
स्यात् नैव' इति । कथं तर्हि आनन्दी स्यात् तृप्त्या आनन्दः, विवेकेन आनन्दः,
वैराग्येण आनन्दः, आत्मज्ञानेन आनन्दः, न तु केवलं विषयभोगजीवनमग्नमात्रेण ।
शताधिकसंवत्सरपर्यन्तं जीवनमात्रेण आनन्दी न स्यात् नरः । तावन्मात्रेण न सुखी भवेत् ॥
<DOC_END>
<DOC_START>
अत्रान्तरं ब्रह्मविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः । श्वेताश्वतरोपनिषत् १-७
प्रपञ्चकारणभूतं ब्रह्म आत्मत्वेन विदित्वा ब्रह्मज्ञानिनः परस्मिन् ब्रह्मणि लीनाः, ब्रह्मैव सम्पन्नाः सन्तः
अस्य स्थूलप्रपञ्चस्य अन्तःस्थं सारभूतं ब्रह्म । अन्तरम् इति अन्तः इत्यर्थः । नामरूपक्रियात्मकतया
स्थूलरूपेण दृश्यमानस्य अस्य विश्वस्य परब्रह्मैव सारभूतम् । शरीरेन्द्रियमनः प्राणोभ्योऽपि अन्तरतमं ब्रह्म ।
अत्र अन्तः इत्युक्ते घटान्तः तण्डुला इतिवत् न ग्राह्यम् । किन्तु घटस्य अन्तः मृद्वत्, हिमखण्डे जलवत् इत्यर्थः ॥
अन्नमय प्राणमय मनोमय विज्ञानमय आनन्दमयाख्यान् पञ्चापि कोशान् संव्याप्य, पञ्चानामपि कोशानामन्तः विद्यमानं
वस्तु ब्रह्मैव इदं ब्रह्म आत्मत्वेन ये जानन्ति ते ब्रह्मज्ञानिनः । ब्रह्मविदः ब्रह्मैव भवन्ति । एषां पुनर्जन्मसम्बन्धः
अस्ति किम् एते जीवन्त एव ब्रह्मस्वरूपा भवन्ति । एते जन्ममरणसंसारचक्रम् अतिक्रान्ताः । एते ब्रह्मनिष्ठाः
ब्रह्मैव सम्पन्नाः । आत्मज्ञानमेव जन्मपरिहारोपायः ॥
<DOC_END>
<DOC_START>
अत्रैष देवः स्वप्ने महिमानम् अनुभवति । प्रश्नोपनिषत् ४-५
अत्र स्वप्ने मनोदेवः स्वमहिमानम् अनुभवति ।
जागरिते इन्द्रियाणि जाग्रन्ति सन्ति स्वस्वव्यापारान् कुर्वन्ति । इन्द्रियाणां मनः
सहायकं भवति । जाग्रति मनसोऽपि इन्द्रियाणामेव प्राबल्यम्, तेषामेव राज्यभारश्च ॥
जागरितं विहाय स्वप्नं गते सति तत्र केवलं मन एव वर्तते । स्वप्ने इन्द्रियाणां चेष्टा न
विद्यते । स्वप्ने मनः स्वेष्टान् पदार्थान् स्वयमेव सृष्ट्वा स्वयमेव आनन्दम् अनुभवति ।
स्वप्नकाले मनः राजवत् विराजते । तदा मनः स्वयमेव इन्द्रियाणि, विषयाः, शरीरं च
भवति । तत्र यथेष्टं पश्यत्, यथाकामं शृण्वत्, स्वेष्टं खादत् देवं मनः सानन्दं वर्तते ।
तस्मात् मनः सर्वशक्तं सर्वज्ञं च वर्तते । इन्द्रियाणि मनस्तन्त्राणि, मनस्तु स्वतन्त्रम् ।
एकमेव सदपि मनः अनेकवस्तुरूपेण अवभासेत । मनसो महिमा ह्येषः । आत्मा तु
ईदृशस्यापि मनसः प्रत्यक्चेतनभूतः । आत्मन एव मनसः अस्तित्वम् । आत्माधीन एव
<DOC_END>
<DOC_START>
अथ अकामयमानो योऽकामो निष्कामः आप्तकामः आत्मकामः । बृहदारण्यकोपनिषत् ४-४-६
अकामयमानः आत्मज्ञानी तु स्वतः अकामः, निष्कामः, आप्तकामः, आत्मकामश्च भवति ॥
पुनः अत्र आगच्छति । एवं कामकर्मणोः दासभूतः इतस्तत्र, ततो अत्र सञ्चरन् संसारचक्रे गृहीतः
ब्रह्मज्ञानी पुनः अस्य कामपीडा एव नास्ति । आत्मानन्दसागरे निमग्नस्य ब्रह्मज्ञानिनः विषयविषसागरस्य
कल्पना एव न सम्भवेत् । कामरहितस्य आत्मज्ञानिनः कर्मणां सम्बन्धो वा तैः बन्धनं वा सम्भवेद्वा नैव ।
अकामो हि आत्मज्ञानी निष्कामो भवति । निष्कामत्वादेव च अयम् आप्तकामः । आप्तकामत्वादेव ज्ञानी
आत्मकामः । एवम् आप्तकामस्य अकामस्य च आत्मज्ञानिनः स्वर्गलोकं प्राप्तुं कामः सम्भवेद्वा आत्मनिष्ठस्य
आत्मज्ञानिनः जन्मान्तरकल्पनमपि नैव सम्भवेत् ॥
<DOC_END>
<DOC_START>
अथ एष एव परम आनन्दः, एष ब्रह्मलोकः सम्राट्
इति होवाच याज्ञवल्क्यः । बृहदारण्यकोपनिषत् ४-३-३३
अथ एष एव परमानन्दः, एष एव ब्रह्मलोकः हे सम्राट्,
इति याज्ञवल्क्यः जनकं प्रति अवदत् ॥
आनन्दमीमांसायाम् इदं वाक्यम् अन्तिमम् । आत्मज्ञानेन
लभ्यस्य ब्रह्मानन्दस्य महिमानं एषः मन्त्रम् उपदिशति । महाराजस्य
आनन्दं प्रथमत्वेन स्वीकृत्य अनन्तरं शतगुण अधिक आनन्दः
श्रोत्रियेणा अवृजिनेन अकामहतेन ब्रह्मज्ञानिना प्राप्यमाणः
ब्रह्मानन्दः परमः । अयमेव आनन्दः मोक्षः इत्यपि कथ्यते ।
नहि मोक्षो नाम कर्मफलवत् उत्पाद्यः । न च कर्मफलेष्विव
मोक्षे तारतम्यं सम्भवति । न च ज्ञानफलं मोक्षः कर्मफलवत्
मरणानन्तरं लोकान्तरे जन्मान्तरे स्वर्गवत् प्राप्यं फलम्,
किं तु मोक्षो नाम ब्रह्मलोकः । ब्रह्मैव लोकः ब्रह्मलोकः, नतु
ब्रह्मणो हिरण्यगर्भस्य विराटपुरुषस्य लोकः । अयं ब्रह्मानन्दः
ब्रह्मलोकः परिमाणातीतः । परं ब्रह्मैव ज्ञानिनां लोकः ॥
<DOC_END>
<DOC_START>
अथ परा, यया तदक्षरमधिगम्यते । मुण्डकोपनिषत् १-१-६
यया तदक्षरम् अधिगम्यते सा परा विद्या अथ उच्यते ।
मुण्डकोपनिषदि सर्वा अपि विद्याः परा अपरा इति विभज्य
अत्र प्रकृते मन्त्रे परस्याः विद्यायाः स्वरूपं प्रदर्श्यते । परा
इति श्रेष्ठा, उत्कृष्टा, प्रकृष्टा, प्रशस्ता इत्यर्थः । अत्यन्तश्रेष्ठायाः
मंगळभूतायाः विद्याया एव परा विद्या इति नामधेयम् ।
का वा ईदृशी परा विद्या भवेत् इति चेत् । अयं मन्त्रः
यया विद्यया ’अक्षरस्य’ स्वरूपम् अधिगम्यते सा एव परा
विद्या । अक्षरं नाम (न क्षरति इति) नाशरहितं ब्रह्म ।
जन्मरहितत्वात् नाशरहितम्, देशकालातीतं परं ब्रह्म अक्षरम्
इति कथ्यते । समस्तस्यापि विश्वस्य जन्मस्थितिलयकारणं
तत्त्वम् अक्षरम् । या विद्या इदम् अक्षरं प्रतिपादयति सा
एव पराविद्या । अतः परब्रह्मविद्या एव एका परा विद्या भवति ।
सर्वप्राणिनाम् आत्मभूतं निर्गुणं सर्वप्रमाणागोचरं जगदास्पदभूतम्
अक्षरं परया एव विद्यया ज्ञायते नान्यथा ।
<DOC_END>
<DOC_START>
अथ योऽन्यां देवताम् उपास्ते ‘अन्योऽसौ अन्योऽहमस्मीति’ न स वेद, यथा पशुः
एवं स देवानाम् । बृहदारण्यकोपनिषत् १-४-१०
‘देवता अन्या, अहम् अन्यः’ इति मत्वा यः परिच्छिन्नामेव अनात्मभूतां देवताम् उपास्ते,
सः परं ब्रह्म न वेत्ति । सः देवानां पशुरिव वर्तते ॥
ब्रह्मज्ञानी भवति चेत् स स्वराट् भवति, सः अस्मात् संसारात् मुच्यते एव । आत्मज्ञानी न
भवति चेत्, तथा केवलदेवतोपासन निरतश्चेत् तादृशः मन्दः संसारसागरनिमग्न एव । स
यस्मात् देवाः परमस्वार्थिनः । मानवान् पशुत्वेन साधयित्वा देवताः स्वार्थसाधनं कुर्वन्ति ।
मानवेभ्यः धनं, सुवर्णं, वस्तुवाहनानि,पुत्रपौत्रांश्च दत्वा, देवताः स्वोपासकान् स्वाधीनान्
कृत्वा स्वयं भोगमग्नः भवितुमिच्छन्ति । आत्मज्ञानमार्गविमुखाः केवल देवतोपासकाः
अभ्युदयपराः देवताधीनाः मानवाः सर्वे देवताबलिपशवो भवन्ति ॥
<DOC_END>
<DOC_START>
*ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
*स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
*यावासानेऽस्य चतुर्थ्यर्धमात्रा सा विद्युमती सर्ववर्णा पुरुषदैवत्या ।
स एष ह्योङ्कारश्चतुरक्षरश्चतुष्पादश्चतुःशिरश्चतुर्थमात्रः स्थूलमेतद् ह्रस्वदीर्घप्लुत इति ॥
<DOC_END>
<DOC_START>
अथात आदेशो ‘नेति नेति’ न ह्येतस्मादिति नेति, अन्यत् परमस्ति । बृहदारण्यकोपनिषत् २-३-६
अथ ब्रह्मणः आदेशः ‘नेति नेति’ इति । एतस्मात् आदेशात् अन्यः मार्गः नास्ति । अन्यः उपदेशक्रमो नास्ति ॥
परं ब्रह्म ज्ञापयितुं वेदान्तदर्शनस्य बीजमन्त्रोऽयम् । ‘नेति नेति’ इति हि परब्रह्मोपदेशक्रमः । परिपूर्णत्वात्
निरुपाधिकत्वात् सर्वविशेषणरहितत्वाच्च परं ब्रह्म ‘नेति नेति’ क्रमं विहाय नान्येन मार्गेण विज्ञापयितुं शक्यते ॥
परब्रह्मस्वरूपं विज्ञातुं ‘नेति नेति’ इत्येव मार्गः । न इति, न इति इतिक्रमेणैव ब्रह्म ज्ञापयेत् । ‘न इति’ इत्येतत् ‘इति न’
इति परिवर्तयेत् । इदं न ब्रह्म, एवं न ब्रह्म इत्येव उपदिशेत् । ब्रह्म न शुक्लम्, न कृष्णम्, न स्थूलम्, न अणु, न दीर्घम्,
न ह्रस्वम्, न कारणम्, न च कार्यम् इत्येव जानीयात् । तर्हि ब्रह्म किं शून्यम् इति चेत् तदा द्वितीयः ‘नेति’ कारः ।
न च ब्रह्म शून्यमपि भवति । एवं ‘नेति नेति’ इति अध्यारोप-अपवादक्रमेणैव परं ब्रह्म ज्ञापयेत् ।
<DOC_END>
<DOC_START>
==अदीनाः स्याम शरदः शतम् ॥ यजुर्वेदः ३६-३-४
दैन्येन विना शताधिकानि वर्षाणि जीवेम ।
: अस्माकं कर्मणाम् अनुगुणम् अस्माकं जन्म भवति । पूर्वतनकर्मानुगुणम् अद्यत्वे मानवजन्म प्राप्तमस्ति । अस्य मानवजन्मनः विशेषता का पशूनाम् अपेक्षया उत्तमं जीवनं यापनीयम् । निद्रा-खादन-भय-सन्तानोत्पत्तिः इत्येतत् पशूनां जीवनम् । ज्ञानसम्पादनम्, आत्मनः उन्नत्यै साधनम् इत्यादीनाम् अवसरः एव अत्र विशेषः । अस्य निमित्तं दीर्घः आयुः अपेक्षितः । शतवर्षाणि अपि अपर्याप्तानि, तदपेक्षया अधिकम् अपेक्षितम् । किन्तु तच्च जीवनं दैन्यरहितं स्यात् । अन्धत्वे, बधिरत्वे, मूकत्वे, पङ्गुत्वे सति साधनं कुतः दीर्घकालः स्यात् । शरीरं सुस्थितौ स्यात् । सत्कार्याणि कुर्वन्तः भवेम । एतेन धनात्मकचिन्तनेन जीवनेन सार्थक्यं प्राप्यते । आरोग्यकराय आचरणाय अवसरान् कल्पयति । तदा एव दैन्येन विना शताधिकानि वर्षाणि जीवेम इत्येषः सङ्कल्पः सिद्धः भवेत् ।
<DOC_END>
<DOC_START>
देहि दृग् रूप उच्यते ।</br>
किञ्चित् कर्तुं न शक्तिमान् ।</br>
ज्ञातुं द्रष्टुं न शक्तिमान् ॥४॥</br>
देहो ता एव सेवते ॥२२॥</br>
जन्तुः श्रेयो न लभ्यते ।</br>
तेषां दुःखं दिने दिने ।</br>
प्रवर्तन्ते तु कं प्रति ।</br>
यथा स्वप्ने त्रिधा भवेत् ।</br>
स्तत्र तत्र दृढं भवेत् ॥५६॥</br>
पुंसां तेन च हेतुना ।</br>
*किं मे गेहेन किं भोगैः</br>
तैः किं कार्यं क्षणे क्षणे ॥६६॥</br>
पुंसां किमिह तैः फलम् ॥६७॥</br>
<DOC_END>
<DOC_START>
सदा सद्भिः सेव्यमानां निगूढाम् ।
परात्परं पुरुषं याति विद्वान् ॥ कैवल्योपनिषत् १-१
आश्वलायनमहर्षिः ब्रह्माणम् उपगम्य एवं प्रार्थयते 'भो भगवन्, सत्पुरुषैः सदा संसेव्यां
रहस्याम् अत्यन्तश्रेष्ठां परब्रह्मविद्यां मह्यं कृपया अनुगृहाण । यतः ब्रह्मविद्यया मानवः सर्वाणि
पापानि दूरीकृत्य सद्य एव परात्परं परमात्मानम् विन्दते' ॥
न हि ब्रह्मविद्या नाम सामान्या केवलम् अर्थकरी विद्या, किं तु एषा अत्यन्तश्रेष्ठा विद्या ।
सत्पुरुषैः सदा मननीया हि विद्या ब्रह्मविद्या । वेदवेदांतशास्त्रसारभूता हि ब्रह्मविद्या
एवंलक्षणया विद्यया कीदृशं हि फलं भवति अस्माकम् इति चेत् । पुण्यपापविनाशः, तदनन्तरं
च परमपुरुषार्थप्राप्तिः । ब्रह्मात्मज्ञानाद्धि मानवस्य पुण्यपापदाहः । ततः पश्चात् सः मुमुक्षुः ब्रह्मैव
प्राप्नोति । अयमेव हि ब्रह्मविद्यायाः महिमा नाम ॥
<DOC_END>
<DOC_START>
अनन्तं वै मनो अनन्ता विश्वे देवाः; अनन्तमेव स तेन लोकं जयति । बृहदारण्यकोपनिषत् ३-१-९
मनः अनन्तम्, विश्वे देवाश्च अनन्ताः । एवमुपासनेन साधकः अनन्तानेव लोकान् जयति ॥
परमात्मनः अनन्तसृष्टिषु मनोऽपि अन्यतमम् । मनो हि अद्भुतं वस्तु । मनसः शक्तिर्हि अद्भुता । इदं मनः अनन्तम् ।
इदं मनः सर्वव्यापि, सर्वशक्तं, सर्वान्तर्यामि च । अस्य मनसः असाध्यं नाम न किञ्चिदस्ति । मनसा एव सुखदुःखे,
स्वर्गनरके, रागद्वेषौ, लाभनाशौ, साधुअसाधू, ज्ञानाज्ञाने, बन्धमोक्षौ च; मनसा एव कर्मोपासने । 'मनसि सति मार्गः'
विश्वे देवाः अनन्ताः, मनश्च अनन्तम् । अनन्तान् देवान् अनन्तैः मनोभिः उपासते चेत् अनन्ता एव लोकाः प्राप्यन्ते ।
इदम् अनन्तं मनः भगवता मानवेभ्यः दत्ता श्रेष्ठा सम्पत् । अध्यात्मसाधनैः इदं मनः सुसंस्कृतं कुर्यात् । आत्मज्ञानप्राप्तिद्वारा
अस्य मनसः सम्पूर्णसार्थक्यं यः लभते स एव धन्यः ॥
<DOC_END>
<DOC_START>
अनन्दा नाम ते लोकाः, तान् स गच्छति ता ददत् । काठकोपनिषत् १-१-३
यो मनुष्यः निरुपयोगिनीः तादृशीः गाः ददाति असौ आनन्दरहितान् नरकलोकान् गच्छति ॥
काठकोपनिषदि अनुगता कथा इयम् । कथासन्दर्भस्तु एवम् अस्ति; पिता वाजश्रवसः यज्ञमेकम् अकरोत् ।
तत्र यज्ञे नैके ऋत्विजः वेदाध्ययनसम्पन्नाः यज्ञानुष्ठानार्थम् आकारिताः । यज्ञश्च यथाविधि समनुष्ठितः ।
अनुष्ठानान्ते कर्मसाफल्यार्थं तेन यजमानेन दक्षिणार्थत्वेन गावः दीयमानाः आसन् । ताश्च गावः वृद्धाः,
दुर्बलाः, निरुपयोगिन्यः, इन्द्रियपाटवरहिताश्च आसन् । एता वीक्ष्य पितृभक्तः सुपुत्रः नचिकेताः पितरं
शुद्धेन मनसा दातव्यम्, शुद्धानेव पदार्थान् दद्यात् । सन्तोषेण, प्रीत्या, सुहृदा खलु दातव्यम् देशं कालं
पात्रं च दृष्ट्वा दानं कुर्यात् । तथा कृते हि दानं सफलं भवेत् । सत्पात्रेभ्यः कुत्सितपदार्थदानात् न केवलम्
उत्तमफलं न लभ्यते इति, किं तु नरकलोकप्राप्तिरेव स्यात् । यादृशं दानं तादृशमेव फलं भवति । तस्मात्
<DOC_END>
<DOC_START>
अनन्वागतं पुण्येन अनन्वागतं पापेन, तीर्णो हि तदा सर्वान्
शोकान् हृदयस्य भवति । बृहदारण्यकोपनिषत् ४-३-२२
आत्मा तदा सुषुप्ते पुण्येन अनन्वागतः, पापेन च अनन्वागतः ।
यस्मात् आत्मा तत्र हृदयस्य सर्वान् शोकान् तीर्णो भवति ॥
अयं मन्त्रो वर्णयति सुषुप्तिस्वरूपम् । सुषुप्तिकाले पुण्यसम्बन्धो
वा पापलेपो वा आत्मनो नास्ति । जाग्रत् स्वप्नयोः पुण्यपापलेपः
आत्मनः अस्त्येव । अनिच्छन्नपि अयं जीवः पुण्यानि वा पापानि
वा नूनं करोत्येव । पुण्येन सुखं, पापेन दुःखं च फलं गंगाप्रवाहवत्
सुषुप्तौ तु ईदृशस्य पुण्यस्य वा पापस्य वा सम्बन्धः नितरां सम्भवति ।
तत्र आत्मा उभेऽपि पुण्यपापे अतीत्य तिष्ठति । सुषुप्तिर्नाम पुण्यपापरहिता
स्वाभाविकी स्थितिः । कर्तृत्वभोक्तृत्व सद्भावे पुण्यपापयोर्भावः । उपाधिसद्भावे
कर्तृत्वभोक्तृत्वभावः । सुषुप्तौ तु उपाधीनामेव अभावः । अतः सुषुप्तौ शोको
वा मोहो वा नैव सम्भवति । सुषुप्तं नाम शोकमोहरहितं शान्तं शिवं स्थानम् ॥
<DOC_END>
<DOC_START>
*मनुष्यस्य विपत्तिकाले छिद्रेष्वनर्था बहुलीभवन्ति ।
<DOC_END>
<DOC_START>
==अनागोहत्या वै भीमा ॥ अथर्ववेदः १०-१-२९
: विविधैः कारणैः मानवाः प्राणिनां वधं कुर्वन्ति । किन्तु न किमपि कारणम् अङ्गीकाराय भवति ।
:नियन्त्रणाय प्राणिनां सङ्ख्या अत्यधिका जाता इत्यादिकं चिन्तनीयमस्ति । निसर्गनियमानुसारं प्राणिनां सङ्ख्या नियन्त्रिता भविष्यति । अस्माभिः प्रवेष्टव्यं नास्ति । प्राणिनां निवासस्थानस्य अतिक्रमप्रवेशः यदा मानवैः क्रियते तदा ते अस्माकं वासस्थानं प्रविशन्ति । दोषः कस्य तेषां सीमारेखा अस्माभिः आद्रियेत चेत् समस्या न उत्पद्यते ।
: प्रमोदाय अन्यस्य प्राणिनः पीडा यदि प्रमोदाय भवेत् तर्हि केनचित् मानसरोगेण ग्रस्तः इत्यर्थः । स्वस्थं मनः दयानुकम्पादिभिः गुणैः युक्तं भवति ।
: पूजायै देवस्य अनुग्रहप्राप्त्यै तेनैव सृष्टस्य प्राणिनः बलिदानं मौढ्यातिरेकमात्रम् । मातुः प्रीतेः सम्पादनाय अन्यस्य पुत्रस्य मारणं किं भवेत् सन्तोषाय
: आहाराय अस्माभिः सेव्यमानः आहारः शरीरस्य मनसश्च जीवदायकं पोषणदायकं स्यात् । अस्माकम् उदरं मृतप्राणिनां स्थापनाय श्मशानं नैव ।
: प्राणिहत्या आत्मोन्नत्यै मारकाय भवति ।
<DOC_END>
<DOC_START>
अनीशश्चात्मा बध्यते भोक्तृभावात्, ज्ञात्वा देवं मुच्यते सर्वपाशैः । श्वेताश्वतरोपनिषत् १-८
जीवात्मा भोक्तृभावात् अविद्याधीनः सन् बध्यते, देवं ज्ञात्वा सर्वपाशैः प्रमुच्यते ।
जीवः अनीशः सन् बद्धो भवति । ईशो नाम स्वतन्त्रः, स्वामी, प्रभुः, राजा । अनीशो नाम
दासः, कृपणः, सेवकः, अधीनः- इत्यर्थः । आत्मानं कर्मफलभोक्तारं मत्वा जीवः देहेन्द्रियाभिमानवान्
अविद्यया कर्मफलदासः सन् बध्यते ॥
स एव जीवः देवं विजानाति चेत् तदा मुच्यते । देवो नाम साक्षी प्रत्यगात्मा । अकर्ता अभोक्ता च
प्रत्यगात्मा देवः । स्वयं प्रत्यगात्मा देव एव, न तु कर्मफलतन्त्रः जीवः इतिज्ञानमेव हि विद्या नाम ।
एवंवित् सर्वपाशेभ्यो मुच्यते । पाशो नाम रज्जुः संसारबन्धनम् । पुण्यपापे एव पाशः, धर्माधर्मावेव
संसारबन्धः । एतेभ्यो बन्धनेभ्यो मुच्यते । पुनः असौ न जायते इत्यर्थः । कृतकृत्यो भवति, धन्यो
भवति इत्यर्थः । जीवन्मुक्तो भवति ॥
<DOC_END>
<DOC_START>
==अनृणाः स्याम ॥ ऋग्वेदः ६-११७-३
:एतेभ्यः ऋणेभ्यः कथं मुक्ताः स्याम इत्येतस्मिन् विषये तीव्रः प्रयत्नः स्यात् । इदं कर्तव्यं विस्मृत्य अनर्थकार्याणि कुर्वन्तः नूतनस्य ऋणस्य वर्धनं, परिश्रमेण विना सम्पत्तेः स्वायत्तीकरणम्, आधारभूतानां पञ्चभूतानां मलिनीकरणम् इत्यादिषु अकार्येषु मग्नैः इयं सूक्तिः कथं वा अवगम्येत भगवता सृष्टम् इदं जगत् शुद्धं संरक्ष्य तदीयमार्गदर्शनानुसारं यदि शुद्धं जीवेम तर्हि देवऋणात् मुक्तिः प्राप्येत । वार्धक्ये पित्रोः सेवा प्रीत्या यदि क्रियेत तर्हि पितृऋणात् मुक्ताः स्याम । ज्ञानं संरक्ष्य अग्रिमायै परम्परायै यदि प्रापयेम तर्हि आचार्यऋणात् मुक्तिः साध्या । ऋणमुक्तमात्रस्य एव जननमरणचक्रात् मुक्तिः
<DOC_END>
<DOC_START>
==अनृतात् सत्यमुपैमि ॥ यजुर्वेदः १-५
असत्यात् सत्यं प्रति चलामि ।
असतो मा सद्गमय असत्यात् सत्यं प्रति मां नय इत्येतस्याः प्रार्थनायाः मूलमस्ति अयं मन्त्रभागः । किन्तु अयं मन्त्रभागः तीक्ष्णतरः विद्यते । आदिमे मन्त्रे 'नय' इति उत्तरदायित्वम् अन्यस्मिन् आरोपितम् । किन्तु द्वितीये मन्त्रे अहमेव चलामि इत्येषः दृढसङ्कल्पः विद्यते । साधनं कर्तुम् दृढः आग्रहः स्यात् । प्रार्थना अपि आग्रहरूपं सङ्कल्परूपं प्राप्नुयात् । आग्रहरहिता सङ्कल्परहिता प्रार्थना भवति निष्प्रयोजिका । इदं किञ्चन व्रतम् । निरन्तरं पालयितव्यम् । अद्य आरम्भः, मध्ये तदा तदा विरामः, एकस्मिन् दिने उद्यापनम् इत्येतत् व्रतमिति न कथ्यते अन्तिमश्वासपर्यन्तम् आचरितव्यम् । वयम् अत्र आगन्तुकाः केवलम् । किन्तु सत्यं नित्यम् । आश्रितेभ्यः आत्मबलं प्रयच्छति तत् सदा । सत्यस्य रक्षणाय अशाश्वतस्य अस्य शरीरस्य बलिः यदि अपेक्ष्यते तर्हि अवश्यं कर्तव्यः । जगति महात्मानः सर्वे अपि सत्य-अहिंसादिभ्यः बलिदानम् अकुर्वन्नेव केषाञ्चन जनानां विषये सत्यपालनम् इत्येतत् कुत्रचित् कदाचित् क्रियमाणः डम्भाचारः भविष्यति । सर्वेषु अपि सन्दर्भेषु सत्यपालनम् इत्येतत् उपरि निर्दिष्टस्य मन्त्रस्य तात्पर्यम् ।
<DOC_END>
<DOC_START>
अनेजदेकं मनसो जवीयः । ईशावास्योपनिषत् ४
परमात्मा अविक्रियः एकः सन् मनोवेगादपि अतिवेगवान् ।
परब्रह्मणः इन्द्रादिदेवतानां च लक्षणे भेदोऽस्ति । इन्द्रादिदेवतानां स्वीयानि विलक्षणानि
शरीराणि, अवयवाः देशकालौ, गुणधर्माः नामरूपादीनि च विद्यन्ते । नेन्द्रः चन्द्रः,न च
चन्द्रो देवेन्द्रः । एता देवताः परस्परं भिन्नलक्षणाः । औपनिषदः पुरुषः परमात्मा तु नैवम् ॥
तर्हि परमात्मनः स्वरूपं नाम कथम् अस्ति अयं कूटस्थः, अविक्रियः परमात्मनो विकारो
नाम नास्त्येव । अस्यैव परं ब्रह्म इत्यपि नामधेयम् । देशकालवस्तुभिः असम्बद्धस्य परमात्मनः
विकारसम्बन्धो नैव वर्तते । सकलप्राणिनां समानस्वरूप एव परमात्मा । अस्मिन् परस्मिन् ब्रह्मणि
तर्हि, ईदृशस्य परमात्मनः दर्शनं तु कथम् इति चेत्, अस्मास्वेव अन्तः द्र्ष्टव्योऽयमात्मा ।
अस्मत्करणानां साक्षिस्वरूपोऽयं परमात्मा, अयमेव प्रत्यगात्मा च भवति ॥
<DOC_END>
<DOC_START>
अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् । कैवल्योपनिषत् २-२४
जन्मजरामरणादुःखसंसारसागरनाशकम् आत्मज्ञानम् अनेन प्राप्नोति ।
आत्मज्ञानेन उदितेन किं प्रयोजनम् इति अनेके पृच्छन्ति । तेषां मते धनं,
धान्यं, पुत्राः, पौत्राः, कीर्तिः, अधिकारादीनि फलानि आत्मज्ञानेन प्राप्यन्ते वा
इति । न प्राप्यन्ते इत्येव प्रतिवचनम् । एतैः फलैः आत्मज्ञानस्य च न कोऽपि
सम्बन्धो विद्यते । तर्हि आत्मज्ञानस्य फलं किम् इति चेत् अयं मन्त्रः
संसारार्णवनाशनमेव ज्ञानस्य फलम् । संसारो नाम जन्मजरादुःखमरणानां प्रवाहः ।
संसारः सागरेण उपमीयते । संसारः सागरादपि अगाधः, अनन्तः, भयङ्करः दुस्तरश्च
भवति । अज्ञानेनैव कामकर्माणि जन्ममरणानि भवन्ति । ज्ञाने उदिते सति संसारसागरः
शुष्को भवति । आत्मज्ञानस्य उदये सति दुःखरूपः संसार एव न विद्यते । आत्मज्ञानिनः
पुनर्जन्म नास्त्येव । ज्ञानी सदा जन्ममरणरहितसहजानन्दसागरे मग्नो हि भवति ॥
<DOC_END>
<DOC_START>
अन्नमयं हि सोम्य मनः आपोमयः प्राणः तेजोमयी वाक् । छान्दोग्योपनिषत् ६-६-५
हे सोम्य, मनः अन्नमयम्, प्राणः आपोमयः, वाक् तेजोमयी ।
अन्नम्, आपः, तेजश्च इति त्रीण्येव एतानि स्वीकृत्य अस्य विश्वस्य सृष्टिः उपदिष्टात्र । अस्य
‘त्रिवृत्करण’मिति नाम । पृथिवी आपः तेजांसि – इति एतेभ्यः त्रिभ्य एव अस्य प्रपञ्चस्य सृष्टिः
इति इयम् उपनिषत् उपदिशति ॥
भुक्तादन्नात् मनो वर्धते । अन्नेन मनसः सम्बन्धः । यादृशम् अन्नं तादृशं मनः । सात्त्विकादाहारात्
सात्त्विकं मनः । तस्मादेव कारणात् साधकैः सात्त्विका एव आहाराः स्वीकार्याः । मनसि शुद्धे सति
आपोमयः प्राणः । जलेन हि प्राणो जीवति । जलाभावे मानवः म्रियते एव । अन्नाभावेऽपि जीवेत्,
जलाभावे प्राणाभावः प्राणाभावे तु मरणमेव । वाक् तु तेजोमयी । तैजसैः आहारैः वाक् पटीयसी
भवति । एवं शरीरमेतत् पृथिवीजलतेजोभिः सम्भूतम् । इदमेव त्रिवृत्करणं नाम ॥
<DOC_END>
<DOC_START>
यो मध्यमः तन्मांसं भवति, यो अणिष्ठः तन्मनः । छान्दोग्योपनिषत् ६-५-१
धातुः तत् मांसं भवति, यः अणिष्ठो धातुः तत् मनो भवति ॥
'अन्नानुगुणा बुद्धिः' इति हि प्रसिद्धम् इममेव अर्थम् अयं मन्त्रः उपदिशति । भुक्तः आहारः सर्वोऽपि
जाठराग्निना पक्वः सन् त्रेधा परिणमते । स च स्थूलः, मध्यमः, सूक्ष्मः इति त्रेधा विभज्यते ॥
भुक्तस्य अन्नस्य स्थूलो भागः मलं भवति । मलरूपेण स भागः शरीरात् बहिरागच्छति । मध्यमो
धातुः रसरक्तमांसमेदोऽस्थि मज्जावीर्यरूपाय परिणमते । अथ सूक्ष्मो धातुः नाडीद्वारेण हृदयं
प्रविश्य तेन मनो भवति । शुद्धेन सात्त्विकेन हितमितेन आहारेण मनोऽपि शुद्धं भवति । तस्मात्
साधकैः यथासाध्यं सात्त्विका एव आहाराः स्वीकार्याः ॥
<DOC_END>
<DOC_START>
अन्यत् श्रेयो अन्यत् उतैव प्रेयः । काठकोपनिषत् १-२-१
श्रेयोमार्गः अन्यः, प्रेयोमार्गश्च अन्यः ।
उपनिषत्सु श्रेयः, प्रेयः इति पुनः पुनः उच्यते । श्रेयः इति मोक्षः,
प्रेयः इति अभ्युदयः इत्यर्थः । इष्टफलप्राप्तिः अनिष्टफलपरिहारश्च
प्रेयोमार्गस्य लक्षणम् । पत्नीपुत्रधनकीर्तिसम्पदः, स्वर्गलोकः, वैकुण्ठलोकः,
ब्रह्मलोकोऽपि प्रेयः इत्येव कथ्यते । एतत् सर्वं फलम् अनित्यमेव ॥
श्रेयो नाम अमृतत्वम् । श्रेयस एव मोक्षः मुक्तिः इति नामान्तरे ।
आत्मज्ञानेन प्राप्यमाणं फलमिति वेदान्तेषु उपदिश्यमानं फलं नाम
मुक्तिरेव । न हि मुक्तिर्नाम कर्मभ्यः प्राप्यमाणं फलम् । वेदान्तवाक्यार्थविचारेण
आत्मानं विज्ञाय तदनन्तरमेव प्राप्यं फलं नाम मोक्ष एव । मोक्षो नाम
सर्वदुःखातीतसहजानंदस्थितिरेव । कर्मोपासनफलवत् न अनुमेयो मोक्षः,
न च मरणानन्तरं प्राप्यः । किं तु मुक्तिर्हि अत्रैव अनुभवारूढं फलम् ।
उपनिषत्सु प्रतिपादिता मुक्तिः स्वतः सिद्धा । विवेकिना साधकेन नित्यं
श्रेयः प्राप्तुं प्रयत्नः करणीयः ॥
<DOC_END>
<DOC_START>
अन्यत्र धर्मात् अन्यत्राधर्मात् अन्यत्रास्मात् कृताकृतात् । काठकोपनिषत् १-२-१४
आत्मा तु धर्मात् अधर्माच्च विलक्षणः, कृतात् अकृताच्च विलक्षणः ।
उपनिषत्सु प्रतिपादितः आत्मा देवतावत् न सावयवः कश्चित् पदार्थः । पुराणेषु उपदिष्टाः सर्वा
अपि देवताः सगुणाः सोपाधिकाः संसारिस्वरूपा एव । एता देवता उद्दिश्य वेदान्ताः न जिज्ञासां
कुर्वन्ति । उपनिषदः असंसारिणः परब्रह्मणः स्वरूपम् अधिकृत्य विचारं कुर्वन्ति ॥
अस्तु, तर्हि ‘परब्रह्मणः’ लक्षणं किम् इति चेत्, कठोपनिषदः अयं मन्त्रः इदम् उपदिशति ।
परब्रह्मतत्त्वम् धर्माधर्मौ, कृताकृते, देशकालान् च अत्येति इति । धर्माधर्मयोः परमात्मनः निजस्वरूपस्य
च न कोऽपि सम्बन्धोऽस्ति । कर्मणाम् अनुष्ठानेन वा त्यागेन वा ब्रह्मणि न कोऽपि विकारः सम्भवति ।
पुण्यतीर्थक्षेत्र सम्बन्धेन ब्रह्मणः अतिशयो वा अपवित्रदेशसम्बन्धेन अपवित्रता वा नास्ति । न च
कालेनापि परब्रह्मस्वरूपे कश्चिदपि विकारः सम्भवेत् । इदमेव परब्रह्मणः स्वरूपम् ॥
<DOC_END>
<DOC_START>
अन्यदेव तद्विदितादथो अविदितादधि । केनोपनिषत् १-४
विदितात् अविदिताच्च विलक्षणं ब्रह्म ।
वेदान्तेषु परं ब्रह्म उपदिश्यते । परब्रह्मविदमेव ब्रह्मज्ञानिनं वदन्ति ।
परं ब्रह्मैव सकलजीविनामपि आत्मभूतम्, परमेव ब्रह्म समस्तप्रपञ्चस्यापि
उपादानं निमित्तकारणं च इति उपनिषत्सु पौनः पुन्येन उपदिश्यते ॥
अस्तु, अस्य परब्रह्मणः स्वरूपं कीदृशम् इति पृष्टे अयं मन्त्रः सुन्दरतया
ब्रह्मस्वरूपम् उपदिशति । इदं विश्वं विदितम् अविदितम् इति द्वेधा विभज्यते ।
विदितं नाम नामरूपाभ्यां विविक्तं, प्रमाणगोचरं कार्यं जगत् । इदमेव क्षरम्
व्यक्तम् व्याकृतम् स्थूलम् कार्यम् इति च व्यपदिश्यते । अविदितं तु
नामरूपयोः बीजस्थितिः । इदमेव अक्षरम्, अव्यक्तम्, अव्याकृतम्, सूक्ष्मम,
कारणम् इति च कथ्यते । एतद् द्वयमपि संयुज्य प्रपञ्चः, विश्वम्, जगत्
इति शास्त्रेषु उच्यते । अस्य विश्वस्य कारणभूतं ब्रह्म विदिताविदिताभ्यां
विलक्षणम् । इदमेव अक्षरम्, पुरुषः, सत्यम् इति च गीयते ॥
<DOC_END>
<DOC_START>
==अप नः शोशुचदघम् ॥ ऋग्वेदः १-९७-४
दुःखदायकेभ्यः पापेभ्यः अस्मान् दूरे स्थापयतु ।
: भगवन्तं 'पापविनाशकः' इति स्तुमः । अस्माभिः कृतानि पापानि विनाशयति इति अवगच्छामः । पुनः पापाचरणाय सिद्धाः भवामः कथञ्चित् तस्य क्षालनाय कश्चन विद्यते खलु भगवतः पुरतः अस्मद्पक्षीयः सन् सम्भाषणं कर्तुं शतशः अर्चक-पाद्रि-मौलि-इत्याख्याः मध्यस्थाः यदि विद्येरन् तर्हि पापाचरणे कुतः भयम् न्यायेन अन्यायेन वा सम्पादितायां सम्पत्तौ कश्चन भागः देवाय यदि अर्प्येत तर्हि पापक्षालनाय वेतनं दत्तं भवति खलु इदं सर्वं कल्पितकथाः । मार्गभ्रष्टैः आलस्येन उत्थापिताः कल्पनाः । पापकार्यस्य मूलं भवति पापवचनम्, पापवचनस्य मूलं भवति पापचिन्तनम् । पापचिन्तनं किम् इति बोधयन् तस्य निवारणाय अन्तरङ्गे एव स्थित्वा प्रतिक्षणं मार्गदर्शनं यच्छन् अस्ति सः भगवान् । पापचिन्तनमेव यदा न भवेत् तदा तस्य परिणामरूपस्य दुःखस्य प्रसक्तिः एव न भवति । एवं पापविनाशकः दुःखविनाशकः सः भगवान् ।
<DOC_END>
<DOC_START>
मुखरहितः चेदपि स्फुटं वक्तुं समर्थः अस्ति । किं तत् ?
<DOC_END>
<DOC_START>
एषाऽस्य परमा गतिः, एषाऽस्य परमा सम्पत्, एषोऽस्य परमो लोकः
एषोऽस्य परम आनन्दः । बृहदारण्यकोपनिषत् ४-३-३२
एषा सुषुप्तिरेव आत्मनः परमा गतिः, एषा परमा सम्पत्, एष एव च परमो लोकः,
एष एव च अस्य परमः आनन्दः ॥
अयं मन्त्रः सुषुप्तेः महिमानं वर्णयति । सुषुप्तौ उपाधिसम्बन्धाभावात् स्वानन्दामृतसागरे
निमग्नोऽसौ आत्मा । जाग्रत् स्वप्नयोः अयमात्मा सर्वदा दुःखशोकमोहपरिपूर्ण इव दृश्यते ।
द्वैतसत्यत्वे सदा दुःखानि भवन्त्येव । एषः अनुभवः सार्वत्रिकः ॥
सुषुप्तौ तु एवं दुःखानि नैव विद्यन्ते । एषा परमा गतिः । इतरास्तु सर्वा अपि गतयः दुःखपूर्णा
एव । एषा गतिस्तु दुःखरहिता । तस्मात् इयं परमा गतिः । एषा परमा सम्पत् । सुषुप्तौ विद्यमाना
सम्पत् स्वाभाविकी हि । अयमेव परमो लोकः । सर्वे इतरे लोकाः दुःखमिश्रिता एव । अयं तु लोकः
दुःखरहितः । अयमेव परमः आनन्दः । सुषुप्तौ हि दुःखस्य गन्धोऽपि न विद्यते । इयं सार्वत्रिकी
सहजा परिपूर्णा च आनन्दस्थितिः ॥
<DOC_END>
<DOC_START>
वस्तु मया दृष्टम् । इदं यः जानाति सः पण्डितः ।
<DOC_END>
<DOC_START>
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः । मुण्डकोपनिषत् २-१-२
आत्मा अप्राणः, अमनाः, शुद्धः, परस्मात् अक्षरादपि परतरः ।
उपनिषत्प्रतिपाद्यस्य आत्मनः स्वरूपम् अयं मन्त्रः सुन्दरतया वर्णयति । अन्तर्बहिश्च
परिपूर्णोऽयमात्मा । अप्राणः आत्मा । प्राणासम्बन्धरहितः । आत्मनः प्राणो जायते,
अतः प्राणस्य अधीनता आत्मनो नास्ति । प्राणे सति वा असति वा, तेन आत्मनो
न किञ्चित् सम्भवति । तथा आत्मा अमनाः मनः सम्बन्धरहितः । आत्मन एव मनो
जायते । आत्मनिमित्तं हि मनसोऽस्तित्वम् । मनः साक्षिणः आत्मनः मनोऽधीनत्वं
नास्ति । मनश्च प्राणश्च अनात्मभूतौ एव ॥
आत्मा शुभ्रः, पुण्यपापसम्बन्धरहितः । त्रिगुणसम्बन्धो वा देशकालसम्बन्धो वा आत्मनः
अभावात् आत्मा नित्यशुद्धः । आत्मा हि अव्याकृतादपि सूक्ष्मतरः । कापिलसाङ्ख्यदर्शने
प्रतिपादितं प्रधानं सूक्ष्मं, परं च भवति । वेदान्तप्रतिपादितस्तु आत्मा एतस्मात् परात्
सूक्ष्मात् प्रधानादपि परतरः, सूक्ष्मतरः । एष आत्मनो महिमा ॥
<DOC_END>
<DOC_START>
तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥
<DOC_END>
<DOC_START>
*अभ्यासोऽस्त्येकं तद्वस्तु, यस्याऽश्रयेण जनः सर्वविधमेव नैपुण्यं प्राप्नोति ।
**अस्ति कश्चिद् वागर्थायम् पृ ३४
*अतिक्रान्तान्यर्हणीयसभाजनानि किल श्रेयसां परिपन्थीनि भवन्ति ।
*अमात्या नृपतेर्यस्य जानन्ति मनसि स्थितम् ।
:कुर्वन्ति च शुभोदर्कं धर्मं स्वर्गं स विन्दति ॥
:अन्यथा विवृतर्थेषु स्वैरालापेषु मन्त्रिणः ॥
<DOC_END>
<DOC_START>
अयं लोको, नास्ति पर इति मानी पुनः पुनः वशमापद्यते
लोकान्तरं नास्तीति वादं करोति तादृशो दुरभिमानी मानवः पुनः
ये मानवाः नास्तिकाः सन्तः धर्मबाह्याः सन्तः, वेदवाक्यानि निन्दन्तः,
स्वेच्छाविहारिणः सन्तः पशुपक्षिवत् जीवनं यापयन्ति, तेषां पौनः
पुन्येन जन्ममरणानि अवश्यं भवन्त्येव ॥
प्रत्यक्षप्रमाणागोचरौ अपि धर्माधर्मौ वेदप्रमाणतो सिद्ध्यतः ।
वेदप्रामण्यात् श्रद्धेयमेव । एतद्देहभिन्नतया जीवात्मा अस्ति इत्यपि
अवश्यम् अभ्युपगन्तव्यमेव । पुण्यकर्मभ्यः सुखानि, पापेभ्यः दुःखानि
च मानवः अनुभवति इति वेदशास्त्राणि उपदिशन्ति । सर्वथा मानवेन
आस्तिकेन भाव्यम् इति यमस्य उपदेशः ॥
<DOC_END>
<DOC_START>
अयं शारीर आत्मा प्राज्ञेनात्मना अन्वारूढः उत्सर्जन् याति । बृहदारण्यकोपनिषत् ४-३-३५
अयं शारीरः आत्मा प्राज्ञेन आत्मना अन्वारूढः उत्सर्जन्, इमं देहं
शारीरात्मा नाम जीवात्मा । अयम् अस्मिन् जन्मनि सकलान् भोगान्
भुक्त्वा ततः इमान् देहादीन् अत्रैव त्यक्त्वा जन्मान्तरं प्रविशति ।
सर्वानपि उपाधीन् अत्रैव विहाय अयं जीवः प्राज्ञेन आत्मना अन्वारूढः
जीवात्मनः देहान्तरं जन्मान्तरं च वर्तते । तत्र गत्वा जीवः पुनः फलानि
अनुभवति । इतः निर्गतो जीवः परमात्मना अधिष्ठितः सन् देहान्तरं प्राप्नोति ।
प्राज्ञात्मा नाम स्वयंज्योतिः स्वरूपः परमात्मा । तस्य अनुग्रहादेव जीवात्मनः
लोकान्तरगतिर्भवति । जीवस्य उत्क्रान्तिकाले सर्वाणि इन्द्रियाणि इमं देहं
विहाय गच्छन्ति तदा जीवः सङ्कटमनुभवन् वेपमानः प्रयास्यति । मरणमात्रेण
नासौ जीवः कृतार्थो भवेत् । देहान्तरं प्राप्य तत्रापि कर्मफलानि अनुभवेदेव
एषः जीवः । अविद्याफलमिदम् ॥
<DOC_END>
<DOC_START>
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।
हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥२-२-१॥
स्वरेण महता राजा जीमूत इव नादयन् ॥२-२-२॥
उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥२-२-३॥
विदितं भवतामेतद्यथा मे राज्यमुत्तमम् ।
श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ॥२-२-५॥
इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।
पाण्दुरस्यातपत्रस्य च्छायायां जरितं मया ॥२-२-७॥
प्राप्य वर्षसहस्राणि बहू न्यायूंषि जीवतः ।
जीर्णस्यास्य शरीरस्य विश्रान्ति मभिरोचये ॥२-२-८॥
परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥२-२-९॥
सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।
अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।
पुरन्दरसमो वीर्ये रामः परपुरंजयः ॥२-२-११॥
तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।
यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ॥२-२-१२॥
अनुरूपः स वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः ।
त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥२-२-१३॥
अनेन श्रेयसा सद्यः सम्योज्यैवमिमां महीम् ।
गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥२-२-१४॥
यदीदम् मेऽनुरूपार्धं मया साधु सुमन्त्रितम् ।
भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥२-२-१५॥
अन्या मद्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥२-२-१६॥
इति बृवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम् ।
वृष्तिमन्तं महामेघं नर्दन्त इव बर्हिणः ॥२-२-१७॥
स्निग्धोऽनुनादी सम्जजञे तत्र हर्षसमीरितः ।
तस्य धर्मार्थविदुषो भावमाजञाय सर्वशः ।
ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ॥२-२-१९॥
समेत्य मन्त्रयित्वा तु समतागतबुद्धयः ।
ऊचुश्च मनसा जञात्वा वृद्धं दशरथं नृपम् ॥२-२-२०॥
स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥२-२-२१॥
इच्छामो हि महाबाहुं रघुवीरं महाबलम् ।
गजेन महता यान्तं रामं छत्रावृताननम् ॥२-२-२२॥
इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ।
श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ।
राजानः संशयोऽयं मे तदिदं ब्रूत तत्त्वतः ॥२-२-२४॥
कथं नु मयि धर्मेण पृथिवीमनुशासति ।
भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ॥२-२-२५॥
ते तमूचुर्महात्मानं पौरजानपदैः सह ।
बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥२-२-२६॥
गुणान् गुणवतो देव देवकल्पस्य धीमतः ।
प्रियानानन्ददान् कृत्स्नान् प्रवक्ष्यामोऽद्यतान् शृणु ॥२-२-२७॥
दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः ।
इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ॥२-२-२८॥
रामः सत्पुरुषो लोके सत्यधर्मपरायणः ।
साक्ष्हाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥२-२-२९॥
प्रजासुखत्वे चन्द्रस्य वसुधायाः क्ष्हमागुणैः ।
बुध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥२-२-३०॥
क्षान्तः सान्त्वयिता श्लक्ष्ह्णः कृतजञो विजितेन्द्रियः ॥२-२-३१॥
मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ।
प्रियवादी च भूतानाम् सत्यवादी च राघवः ॥२-२-३२॥
तेना स्येहातुला कीर्तिर्यशस्तेजश्च वर्धते ॥२-२-३३॥
गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ।
यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ॥२-२-३६॥
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ।
संग्रामात्पुनरागम्य कुङ्जरेण रथेन वा ॥२-२-३७॥
पौरान् स्वजनवन्नित्यम् कुशलं परिपृच्छति ।
पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ॥२-२-३८॥
शुश्रूषन्ते च वः शिष्याः कचित्कर्मसु दंशिताः ॥२-२-३९॥
इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ।
व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ॥२-२-४०॥
उत्सवेषु च सर्वेषु पितेव परितुष्यति ।
सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ॥२-२-४१॥
स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ।
सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः ॥२-२-४२॥
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ।
शक्तस्त्रैलोक्यमप्येको भोक्तुं किं नु महीमिमाम् ।
नाऽस्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ॥२-२-४५॥
हन्त्येव नियमाद्वध्यानवध्ये च न कुप्यति ।
युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ॥२-२-४६॥
गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥२-२-४७॥
वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघव ।
दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ॥२-२-४९॥
आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा ।
आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥२-२-५१॥
स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः ।
सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः ॥२-२-५२॥
तेषामायाचितं देव त्वत्प्रसादा त्समृद्ध्यताम् ।
पश्यामो यौवराज्यस्थं तव राजोत्तमाऽअत्मजम् ।
सर्वस्य लोकस्य हिते निविष्टम् ।
मुदाभिषेक्तुम् वरद त्व मर्हसि ॥२-२-५४॥
सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने ।
गच्छोपवासं काकुत्थ्सं कारयाद्य तपोधन ।
श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥२-५-२॥
तथेति च स राजानमुक्त्वा वेदविदां वरः ।
स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ॥२-५-३॥
ब्राह्मं रथवरं युक्तमास्थाय सुदृधव्रतः ॥२-५-४॥
स रामभवनं प्रप्य पाण्डुराभ्रघनप्रभम् ।
तिस्रः कक्ष्या र्थेनैव विवेश मुनिसत्तमः ॥२-५-५॥
मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् ॥२-५-६॥
अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः ।
सचैनं प्रश्रितं दृष्ट्वा सं भाष्याभिप्रसाद्य च ।
प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः ॥२-५-८॥
प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि ।
उपवासं भवानद्य करोतु सह सीतया ॥२-५-९॥
प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः ।
पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥२-५-१०॥
इत्युक्त्वा स तदा राम मुपवासं यतव्रतम् ।
मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः ॥२-५-११॥
ततो यथावद्रामेण स राज्ञो गुरुरर्चितः ।
अभ्यनुज्ञाप्य काकुत्थ्सं ययौ रामनिवेशनात् ॥२-५-१२॥
सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः ।
सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥२-५-१३॥
हृष्टनारीनरयुतं रामवेश्म तदा बबौ ।
यथा मत्तद्विजगणं प्रपुल्लनलिनं सरः ॥२-५-१४॥
निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥२-५-१५॥
बभूव राजमार्गस्य सागरस्येव निस्वनः ॥२-५-१७॥
तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः ।
एवं तं जनसंबाधं राजमार्गं पुरोहितः ।
व्यूहन्निव जनौघं तं शनैराजकुलं ययौ ॥२-५-२१॥
समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥२-५-२२॥
तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः ।
पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् ॥२-५-२३॥
तेन चैव तदा तुल्यं सहासीनाः सभासदः ।
आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥२-५-२४॥
गुरुणा त्वभ्यनुज्ञातो मनिजौघं विसृज्य तम् ।
विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥२-५-२५॥
एवम् उक्तः तु भरतः निषाद
ऊर्जितः खलु ते कामः कृतः
इति उक्त्वा तु महा तेजा गुहम्
तस्य तत् वचनम् श्रुत्वा राज
कच्चिन् न दुष्टः व्रजसि रामस्य
मा भूत् स कालो यत् कष्टम् न
स तु सम्हृष्ट वदनः श्रुत्वा
धन्यः त्वम् न त्वया तुल्यम्
सम्निवेश्य स ताम् सेनाम् गुहेन
गच्छता मातुलकुलं भरतेन तदाऽनघः ।
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥२-१-१॥
स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः ।
तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।
भ्रातरौ स्मरतां वीरौ वृद्धं दसरथं नृपम् ॥२-१-३॥
राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।
सर्व एव तु तस्येष्ट श्चत्वारः पुरुषर्षभाः ।
तेषामपि महातेजा रामो रतिकरः पितुः ।
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥२-१-६॥
स हि देवै रुदीर्णस्य रावणस्य वधार्थिभिः ।
अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥२-१-७॥
स हि रूपोपपन्नश्च वीर्यवाननसूयकः ।
स च नित्यं प्रशान्तात्मा मृदुपूर्वं तु भाषते ।
उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥२-१-१०॥
कथंचिदुपकारेण कृतेनै केन तुष्यति ।
बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः ।
वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥२-१-१३॥
न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः ।
दीनानुकम्पी धर्मज्Jनो नित्यं प्रग्रहवान् शुचिः ॥२-१-१५॥
कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते ।
मन्यते परया कीर्त्य महत्स्वर्गफलं ततः ॥२-१-१६॥
नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः ।
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पति र्यथा ॥२-१-१७॥
अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित् ।
स तु स्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥२-१-१९॥
इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥२-१-२०॥
लौकिके समयाचारे कृतकल्पो विशारदः ॥२-१-२२॥
निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् ।
दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः ।
श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ।
अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ॥२-१-२७॥
आरोहे विनये चैव युक्तोवारणवाजिनाम् ॥२-१-२८॥
अभियाता प्रहर्ता च सेनानयविशारदः ॥२-१-२९॥
अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ।
अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ।
न चावमन्ता भूतानां न च कालवशानुगः ॥२-१-३०॥
एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
बुद्द्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ।
तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ॥२-१-३२॥
गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ।
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ॥२-१-३४॥
दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ।
अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥२-१-३५॥
प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ।
एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ॥२-१-३६॥
कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।
वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ॥२-१-३७॥
मत्तः प्रियतरो लोके पर्ङन्य इव वृष्टिमान् ।
यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ॥२-१-३८॥
महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ।
अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ।
इत्येतै र्विविधै स्तैस्तै रन्यपार्थिवदुर्लभैः ॥२-१-४०॥
तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः ॥२-१-४१॥
निश्चित्य सचिवैः सार्धं युवराजममन्यत ।
दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ॥२-१-४२॥
संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम् ।
लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ।
आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ॥२-१-४४॥
प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः ।
समानिनाय मेदिन्याः प्रधानान् पृथिवीपतीन् ।
न तु केकयराजानं जनकं वा नराधिपः ॥२-१-४६॥
त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ।
ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ।
अथोपविष्टे नृपतौ तस्मिन् परबलार्दने ॥२-१-४८॥
ततः प्रविविशुः शेष राजानो लोकसम्मताः ।
अथ राजवितीर्णेषु विविधेष्वासनेषु च ॥२-१-४९॥
गते पुरोहिते रामः स्नातो नियतमानसः ।
सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥२-६-१॥
प्रगृह्य शिरसा पात्रं हविषो विधिवत्तदा ।
महते दैवतायाज्यं जुहाव ज्वलितानले ॥२-६-२॥
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् ।
ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥२-६-३॥
वाग्यतः सह वैदेह्या भूत्वा नियतमानसः ।
श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥२-६-४॥
एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः ।
अलञ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥२-६-५॥
तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम् ।
पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः ॥२-६-६॥
तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् ।
विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥२-६-७॥
कृतोपवासं तु तदा वैदेह्या सह राघवम् ।
अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥२-६-९॥
ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् ।
प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥२-६-१०॥
चतुष्पधेषु रध्यासु चैत्येष्वट्टाल केषु च ॥२-६-११॥
कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥२-६-१२॥
सभासु चैव सर्वासु वृक्षेष्वालक्षितेएशु च ।
नटनर्तकसंघानां गायकानां च गायताम् ।
मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥२-६-१४॥
रामाभिषेके संप्रप्ते चत्वरेषु गृहेषु च ॥२-६-१५॥
बाला अपि क्रीडमाना गृ हद्वारेषु संघशः ।
राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥२-६-१७॥
दीपवृक्षां स्तथाचक्रु रनुर्थ्यसु सर्वशः ॥२-६-१८॥
अलङ्कारं पुरस्त्यवं कृत्वा तत्पुरवासिनः ।
समेत्य संघशः सर्वे चत्वरेषु सभासु च ।
ज्ञात्वा यो वृद्ध मात्मानं रामं राज्येऽभिषेक्ष्यति ॥२-६-२१॥
सर्वेऽप्यनुगृहीताः स्म यन्नो रामो महीपतिः ।
चिराय भविता गोप्ता दृष्टलोकपरावरः ॥२-६-२२॥
आनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः ।
यधा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥२-६-२३॥
चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः ।
यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥२-६-२४॥
एवंविधं कथयतां पौराणां शुश्रुवुस्तदा ।
दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ताजानपदा नराः ॥२-६-२५॥
ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् ।
रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥२-६-२६॥
जनौघै स्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः ।
जञातिदासी यतो जाता कैकेय्या तु सहोषिता ।
अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥२-७-७॥
राममाता धनं किं नु जनेभ्यः संप्रयच्छति ॥२-७-८॥
अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे ।
कारयिष्यति किं वापि संप्रहृष्टो महीपतिः ॥२-७-९॥
विदीर्यमाणा हर्षेण धात्री तु परया मुदा ।
आच्च्क्षे/अथ कुब्जायै भूयसीं राघवश्रियम् ॥२-७-१०॥
श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् ।
धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता ।
सा दह्यमाना कोपेन मनथरा पापदर्शिनी ।
शयानामेत्य कैकेयीमिदं वचन मब्रवीत् ॥२-७-१३॥
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते ।
उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥२-७-१४॥
अनिष्टे सुभगाकारे सौभग्येन विकत्थसे ।
चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥२-७-१५॥
एवमुक्ता तु कैकेयी रुष्टया परुषं वचः ।
कैकेयि त्वब्रवीत्कुभां कच्चित्क्षेमं न मनथरे ।
विषण्णवदनां हि त्वां लक्षये भृ शदुःखिताम् ॥२-७-१७॥
मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् ।
उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥२-७-१८॥
सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी ।
विषदयन्ती प्रोवाच भेदयन्ती च राघवम् ॥२-७-१९॥
अक्षय्यं सुमहद्देवि प्रवृत्तं द्वद्विनाशनम् ।
रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥२-७-२०॥
सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता ।
तव दुःखेन कैकेयि मम दुःखं महद्भवेत् ।
त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥२-७-२२॥
नराधिपकुले जाता महिषी त्वं महीपतेः ।
उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥२-७-२३॥
धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः ।
शुद्धभावे न जानीषे तेनैवमतिसन्धिता ॥२-७-२४॥
अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥२-७-२५॥
अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु ।
काल्यं स्थापयिता रामं राज्ये निहतकण्टके ॥२-७-२६॥
शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया ।
आशीविष इवाङ्केन बाले परिधृतस्त्वया ॥२-७-२७॥
यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ।
राजञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥२-७-२८॥
पापेनानृतसान्त्वेन बाले नित्यं सुखोचिते ।
रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥२-७-२९॥
सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव ।
त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥२-७-३०॥
मन्थराया वचः श्रुत्वा शयनात्स शुभानना ।
उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखव शारदी ॥२-७-३१॥
अतीव सा तु संहृष्टाअ कैकेयी विस्मयान्विता ।
एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥२-७-३२॥
दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा ।
कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् ॥२-७-३३॥
इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् ।
एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥२-७-३४॥
रामे वा भरते वाहं विशेषं नोपलक्षये ।
तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥२-७-३५॥
न मे परं किञ्चि दितस्त्वयापि न ।
प्रियं प्रियार्हे सुवचं वचो वरम् ।
वरं वरं ते प्रददामि तं वृणु ॥२-७-३६॥
<DOC_END>
<DOC_START>
अर्धचन्द्राकारयुक्तः स्त्रीलिङ्गशब्दः अयम् अक्षरत्रयेण युक्तः । आदिमवर्णः नकारः,
अन्तिमश्च भवति रिकारः । इदं यः जानीयात् सः पण्डितः । ’नेवरी’ इत्येतत्
किन्ञ्चन खाद्यवस्तु । महाराष्ट्रे अधिकतया प्रसिद्धम् । ’कर्जीकायि’ ’सुरळीपुरि’
इत्यादिभिः नामभिः अपि प्रसिद्धम् ।
<DOC_END>
<DOC_START>
अल्बर्ट् ऐन्स्टीन् १४ मार्च्, १८७९ १८ एप्रिल् १९५५) कश्चन भौतविज्ञानी, जगति अत्यन्तं प्रभावशालिषु विज्ञानिषु अन्यतमः । तदीयः सापेक्षसिद्धान्तः अत्यन्तं प्रसिद्धः वर्तते । भौतशास्त्राय तदीयं योगदानं महत् वर्तते । द्युतिविद्युत्परिणामस्य विषये तेन यत् विवरणं प्रस्तुतं तन्निमित्तं नोबेल्प्रशस्तिः प्राप्ता ।
तृप्तस्य मनुष्यस्य सन्तोषः एतावन् भवति यत् सः कदापि भविष्यतः विषये न चिन्तयति एव ।
शरीरस्य घनराशिः तस्मिन् विद्यमानायाः शक्तेः मानं वर्तते ।
प्रकृतिः सिंहस्य पृच्छमात्रम् अस्मभ्यं दर्शयति । किन्तु तत्र सिंहः विद्यते इत्यत्र मम लेशमात्रेण अपि संशयः न विद्यते यद्यपि तस्य महतः आयामस्य कारणतः सकृत् सः आत्मानं नेत्रयोः पुरतः प्रस्तोतुं नार्हति ।
जन्मना अहमस्मि ज्यू, स्वीस्देशस्य नागरिकः अस्मि । निर्माणेन मानवमात्रः अस्मि । केनापि स्थलेन सह मम नास्ति कोऽपि विशेषानुबन्धः ।
* एतादृशान् अंशान् शिरसि अहं न वहामि यतः ते पुस्तकेषु सुलभतया उपलभ्यन्ते महाविद्यालयस्य शिक्षणस्य मौल्यं बहूनाम् अंशानां पठने न विद्यते अपि तु समीचीनतया चिन्तयितुं मनसः शिक्षणे विद्यते ।
कश्चन जनः 'अ' जीवने यशस्वी इति चेत्, अ=का खे मौ । का कार्यम्, खे खेला, मौ मौनम् ।
* वस्तुतः उत्तमं सङ्गीतं, पौर्वात्यं पाश्चात्यं वा स्यात्, विश्लेषयितुम् असाध्यम् ।
* शान्तिः अनुरोधेन न अपि तु अवगमनमात्रेण प्राप्तुं शक्या । कस्यचित् देशस्य आधीन्यम् आग्रहेण करणीयमिति चेत् तत्रत्यः सर्वः अपि पुरुषः, महिला, बालश्च मारणीयः भवेत् । तादृशं हिंसात्मकं विधानम् अनुसर्तुं यदि न इष्यते तर्हि शस्त्रोपयोगं विना समस्यापरिहारस्य मार्गः अन्वेष्टव्यः ।
* परोपकाराय जीवनमात्रं भवेत् सार्थकं जीवनम् ।
* मानवप्रकृत्तेः उपरि सस्याहारजीवनशैल्याः भौतिकपरिणामस्य अवलोकनात् मम भासते यत् ततः मानवतायाः उपरि महान् सत्परिणामः भवेदिति ।
अहम् अन्तर्बोधे अन्तःप्रेरणायां च विश्वसिमि । कदाचित् अकारणं मम भासते यत् अहं साधुः इति । १९१९ तमस्य वर्षस्य ग्रहणेन मम अन्तर्बोधस्य स्थिरीकरणं यदा जातं तदा नाहम् आश्चर्यान्वितः । यदि तथा न स्यात् तर्हि एव अहं विस्मितः स्याम् । कल्पना ज्ञानस्य अपेक्षया मुख्या । ज्ञानं भवति परिमितं किन्तु कल्पना इत्येषा समग्रं जगत् आलिङ्गति, प्रगतिं पोषयति, विकासं जनयति च । वैज्ञानिकसंशोधने अयं भवति अत्यन्तं प्रमुखः अंशः ।
* विज्ञानम् इत्येतत् प्रतिदिनस्य चिन्तनस्य संस्कारं विना नान्यत् किञ्चित् ।
<DOC_END>
<DOC_START>
==अवहितं देवा उन्नयथा पुनः ॥ ऋग्वेदः १०-१३७-१
हे ज्ञानिनः पतितः जनः उत्थाप्यताम् ।
: जीवनमार्गे पतितारः भवन्ति एव । केचन अज्ञानेन, केचन जानन्तः एव, केचन दुरभ्यासेन, केचन दुराचारेण च पतन्ति । केचन निःशक्त्या पतन्ति चेत् कांश्चन शक्तिशालिनः पातयन्ति । अधोगतिं प्रापयन्ति । पतनं यावत् विद्यमानः अहङ्कारः मदः पतनोत्तरं निर्गच्छन्ति । केषुचित् तदापि न निर्गच्छति यतः तैः इतोऽपि पतनानुभवः प्राप्तव्यः अस्ति । पतिताः उत्थाने भवन्ति समुत्सुकाः । अत्र ज्ञानिनाम् आवश्यकता वर्तते । 'पतिताः उत्थाप्यन्ताम्' इति । हस्ताधारेण उत्थापनम्, उत्थातारः विद्यन्ते इति पुनः पुनः पतनमित्येषः न भवति ज्ञानिनां व्यवहारः । पतिताः उत्थिष्ठेयुः इति धिया ज्ञानिनः पतितान् स्वयम् उत्थानाय प्रेरयन्ति, मार्गदर्शनं कुर्वन्ति । एवम् उत्थितवतां पुनः पतनभयं न विद्यते । प्रत्युत ते अन्येषाम् उत्थापकाः ज्ञानिनः भविष्यन्ति ।
<DOC_END>
<DOC_START>
अविज्ञातं विजानताम्, विज्ञातम् अविजानताम् । केनोपनिषत् २-३
विवेकेन विजानतां ब्रह्म अविज्ञातमेव, सम्यक् अविजानतां ब्रह्म विज्ञातम् इति एकोऽर्थः;
विषयत्वेन जानतां ब्रह्म अविज्ञातमेव, अविषयत्वेन जानतां ब्रह्म ज्ञातमेव इति अपरोऽर्थः ॥
विवेकेन ब्रह्म विज्ञातव्यम् । अनात्मवस्तुभ्यः विविच्य आत्मत्वेन ब्रह्म ज्ञातव्यम् । एवं ज्ञाते
प्रमाणागोचरत्वेन आत्माभिन्नत्वेन च ब्रह्म ज्ञातं भवति । आत्मैव च ब्रह्म इति ज्ञातं भवति ।
एवं ज्ञाते हि ब्रह्म विज्ञातं भवति । एवंविदेव ब्रह्मज्ञानी भवति ॥
विशेषत्वेन ब्रह्मणः विज्ञानं नाम, ब्रह्म तादृशम्, ईदृशम्, महत्तमम्, अष्टाविंशतिभुजम्, मया तद्
ब्रह्म उपास्यम्, मया चिन्त्यम्, मया ज्ञातव्यं ब्रह्म; तस्य ब्रह्मणः उपासनेन मयि ब्रह्मणः अनुग्रहो
भविष्यति, मरणानन्तरम् अहं तत्र गत्वा तद् ब्रह्म प्राप्नुयाम् इत्यादिरूपेण ज्ञानम् । एवमादिक्रमेण
सविशेषतया ब्रह्म विदितवतः परं ब्रह्म नैव ज्ञातम् इत्यर्थः, स्वस्वरूपत्वेन ब्रह्मणि विज्ञाते सति ब्रह्म
<DOC_END>
<DOC_START>
अविद्यायां बहुधा वर्तमानाः वयं कृतार्थाः इत्यभिमन्यन्ति बालाः । मुण्डकोपनिषत् १-२-९
आत्मज्ञानस्य रुचिमेव अजानन्तः, ज्ञातुं प्रयत्नमपि अकुर्वन्तः, आत्मज्ञानविचारे अपहास्यं कुर्वन्तः,
केवलानि शास्त्रीयाणि कर्माण्येव कुर्वन्तः, तदेव तावतैव मानवजन्मनः सार्थक्यं मन्यमानाः पुरुषाः ये
विद्यन्ते, ते अत्र मन्त्रे ‘बालाः’ इति निन्द्यन्ते । वयसा वृद्धा अपि आत्मविचारमार्गे तत्त्वविवेके असमर्थाः
इतिहेतुना एते 'बालाः' इति व्यपदिश्यन्ते ॥
केवलकर्मिणः अविद्यायां निमग्नाः । अविद्या नाम अध्यासः, मिथ्याज्ञानम् । आत्मानं देहं, कर्तारं, भोक्तारं
मन्यन्ते चेत् ननु अयम् अध्यासः क्रियाकारकफलेषु सत्यत्वबुद्धिर्हि अविद्या । कृत्वा फलप्राप्तिर्हि अविद्या ।
अविद्याव्यवहारे मग्ना अपि ते आत्मानं 'बुद्धिमन्तः कृतार्थाः' इति मन्यन्ते खलु अहो अयमेव खलु
अविद्याप्रभावो नाम एते नूनमपि बाला एव ॥
<DOC_END>
<DOC_START>
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः । काठकोपनिषत् १-२-५
घनीभूते अविद्यान्धकारे मग्ना अपि अज्ञानिनः आत्मानं धीरान् पण्डितांश्च मन्यन्ते ।
वेदान्तेषु विद्या नाम आत्मविद्या, ब्रह्मविद्या एव । ब्रह्मविद्याम् एकां विहाय इतराः सर्वा अपि विद्याः
अविद्या एव । सकलशास्रपारङ्गतोऽपि महामेधावी सन्नपि आत्मज्ञानरहितश्चेत् तादृशं वेदान्तेषु अज्ञमेव
कथयन्ति । अत्र अज्ञानं नाम अध्यासः ॥
जनानुरागिणः अनेके तपस्विनः आत्मानं धीरान् पण्डितोत्तमान् च मन्यन्ते । सत्यमेते विभूतिपुरुषा एव,
अद्भुतमानवा एव, अतिमानवा एवैतेः, अपि तु नैते आत्मज्ञानिनः । न केवलं नैते ज्ञानिनः, किं तु एते
उपासकाः पण्डितंमन्याः सन्तः, आत्मानमेव प्राज्ञान् आत्मज्ञानिनश्च कथयन्तः सन्तः परमार्थतत्त्वविदः
आत्मज्ञानिन एव तिरस्कुर्वन्ति । तस्मात् एते अविद्यापण्डिता एव खलु ?
<DOC_END>
<DOC_START>
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः।
घनीभूतायाम् अविद्यायामन्तरे वर्तमानाः सन्तोऽपि, आत्मानं ‘धीराः’ ‘पण्डिताः’ इति च मन्यमानाः मूढा जनाः,
दुःखसंसारसागरे मग्नाः सन्तः, सन्तप्ताः सन्तः, पुनः पुनः संसारचक्रे गृहीताः दुःखम् अनुभवन्तो वर्तन्ते । ईदृशाः
मानवाः अन्धेन नीयमानाः अन्धा इव स्वयम् अविवेकिन एव भवन्ति ॥
ये केवलं श्रौत–स्मार्त-कर्मनिरताः कर्ममार्गपरायणाः कर्ममार्गनिमग्नाः तान् ‘मूढाः’ इति अयं मन्त्रः निन्दति । न
केवलम् एते आत्मज्ञानरहिता इति, किन्तु ‘स्वयम् आत्मज्ञानिनः’ इति मन्यन्ते । अन्धे तमसि, तमसः मध्ये विद्यमाना
किन्तु कुटिले संसारमार्गे एव मग्नाः लग्नाश्च सर्वदा दुःखभाजो भवन्ति । इदं सर्वमपि अविद्याफलमात्रमेव ॥
<DOC_END>
<DOC_START>
==अश्मा भवतु नस्तनूः ॥ अथर्ववेदः २-१३-४
अस्माकं शरीरं शिलासदृशं भवतु ।
शरीरमाद्यं खलु धर्मसाधनम्' इत्येषा उक्तिः श्रुतपूर्वा एव । अलसेन किमपि कार्यं वा धर्मसाधनं वा कर्तुम् अशक्यम् । समीचीनतया ज्ञातं समीचीनतया आचरणीयम् । आचरणस्य माध्यममेव इदं शरीरम्, मनश्च । स्वस्थे शरीरे भवति स्वस्थं मनः । मानसिकारोग्येण शारीरकारोग्यम् । अस्माकं विचाराः विशालाः स्युः । स्वार्थरहिताः स्युः । कोपासूयादीनाम् अवसरः न स्यात् । अस्माकम् आहारः सात्त्विकः प्राकृतिकश्च स्यात् । दुराहार-दुरभ्यासानां स्थानं न स्यात् । नित्यकार्याणि अनुशासनबद्धानि स्युः । अति न स्यात् । निष्क्रियता अपि न स्यात् । उत्साहयुक्तता स्यात् । सर्वः व्यवहारः ऋजुः स्यात् । निष्कपटं स्यात्, पारदर्शकं स्यात् । एतैः यत् शारीरक-मानसिकस्वास्थ्यं प्राप्येत तत् भाग्यायते एव ।
<DOC_END>
<DOC_START>
अश्वा गावः पुरुषाः हस्तिनो यत् किञ्चेदं प्राणि जङ्गमं च पतत्रि च, यच्च स्थावरं
सर्वं तत् प्रज्ञानेत्रम् । प्रज्ञाने प्रतिष्ठितम् ॥ ऎतरेयोपनिषत् ३-१-३
अश्वाः, गावः, पुरुषाः, गजाः, प्राणिनः, जङ्गमाः, पतत्रिणः, स्थावराश्च प्राणिनः – एतत् सर्वं प्रज्ञानेत्रमेव ।
इदं सर्वमपि प्रज्ञाने एव प्रतिष्ठितमस्ति ॥
अस्याम् ऎतरेयोपनिषदि परं ब्रह्म ‘प्रज्ञानम्’ इति उपदिश्यते । प्रज्ञानं नाम प्रज्ञप्तिस्वरूपम् इत्यर्थः । समस्तम्
इदं चेतनाचेतनात्मकं विश्वं प्रज्ञानम् एव । न केवलं श्रेष्ठाः देवगन्धर्वमानवाः प्रज्ञानम्, किं तु नीचाश्च प्राणिनः प्रज्ञानमेव ॥
राजसाः अश्वाः, सात्त्विकाः गावः, तामसाश्च गजाः परमार्थतः निरुपाधिकदृष्ट्या गुणातीतं प्रज्ञानमात्रमेव भवन्ति ।
श्वानः, शृगालाः, गर्दभाः, वराहाः, मार्जाराः, वानरादयो जङ्गमप्राणिनः; काकाः, शुकाः, उलूकादयः पक्षिणः;
एतत् सर्वमपि प्रज्ञानमेव, चैतन्यम् एकमेव, आकारक्रियास्तु भिन्नाः विभिन्नाः भवन्ति । परमार्थतस्तु सर्वमपि प्रज्ञानमेव ॥
<DOC_END>
<DOC_START>
असतो मा सद्गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मा अमृतं गमय । बृहदारण्यकोपनिषत् १-३-२८
भोः परमात्मन्, असतः सकाशात् मां सत्यं गमय, तमसः मां प्रकाशं गमय, मृत्योः
सकाशात् माम् अमृतं गमय ।
पवित्रो ह्ययं मन्त्रः । सार्वत्रिको मन्त्रोऽयम् । विश्वशान्तिमन्त्रोऽयम् । सार्वजनीनशान्तिमन्त्रोऽयम् ।
सर्वैरपि मानवैः विश्वशान्त्यै पठनीयोऽयं मन्त्रः । ईश्वरे प्रार्थनीयोऽयं मन्त्रः ॥
भोः परमात्मन्, अस्मान् असत्यात् सत्यं प्रति गमय । इदं सर्वं हि जगत् मिथ्यारूपमेव । परमात्मा
एक एव हि सत्यम् । अस्मान् अस्मात् आभासरूपात् जगतः सत्यं परमात्मानं प्रति गमय इत्यर्थः ।
सर्वोऽप्ययं प्रापञ्चिको व्यवहारः अन्धकारमयः । अहङ्कारममकारैः पूर्णोऽयं व्यवहारः सर्वोऽपि अन्धकार
एव । अस्मात् अस्मान् परमार्थस्वरूपं प्रकाशं प्रति नय इत्यर्थः । तथा सर्वमिदं शरीरं मृत्युरेव,
अस्मात् शरीरबन्धनात् अस्मान् अमृतत्वं प्रति गमय इत्यर्थः । एताः तिस्रः मुमुक्षुभिः भगवति क्रियमाणाः प्रार्थनाः ॥
<DOC_END>
<DOC_START>
असुर्या नाम ते लोकाः अन्धेन तमसावृताः । ईशावास्योपनिषत् ३
ते स्वर्गलोकाः असुरैः सम्पूर्णाः । ते लोकाः अन्धेन तमसा आवृताः ॥
पुण्यकर्माणः मरणानन्तरं स्वर्गादिलोकान् प्राप्य तत्र अमराः सन्तः जायन्ते इति शास्राणि उद्घोषयन्ति ।
सत्यमेतत्, तावता सर्वेऽपि ते अमराः ब्रह्मज्ञानिनः एव भवेयुः इति नियमो नास्ति । अमरा देवाः विषयभोगलोलुपाः
देहाभिमानिनः अज्ञानिनश्च भवेयुः । तस्मात् ते सुरा अपि पक्षे असुराः एव भवन्ति ॥
असुषु रमन्ते ये ते असुराः । इन्द्रियभोगानुरक्ताश्च असुराः । न हि स्वर्गलोकनिवासित्वमात्रेण ते अध्यासाहिताश्च
भवितुम् अर्हन्ति । ब्रह्मज्ञानिनां दृष्ट्या देवाधिदेवाश्च असुरा एव । यतः एतेषां ब्रह्मात्मज्ञानं वा मोक्षानन्दो वा नास्ति ॥
देवैः अणिमादिसिद्धिमद्भिः भाव्यम्, निग्रहानुग्रहादिसामर्थ्यविद्भिश्च भाव्यम् । तथाप्येते देवा अपि
<DOC_END>
<DOC_START>
असौ वा आदित्यो देवमधु, तस्य धौरेव तिरश्चीनवंशः, अन्तरिक्षमपूपः
मरीचयः पुत्राः ॥ छान्दोग्योपनिषत् ३-१-१
असौ आदित्य एव देवमधु, तस्य द्युलोक एव तिरश्चीनः वंशः । अन्तरिक्षमेव
मध्वपूपः । किरणानि एव पुत्राः ॥
छान्दोग्योपनिषदि ‘मधुविद्या’ उपदिष्टा अस्ति । मधु इति मधुकरघृतम् । अत्र मन्त्रे
सूर्यमेव ‘देवमधु’ इति कल्पयन्ति । सूर्यं देवमधुत्वेन उपासीनस्य जीवनं सदा मधुवत्
अस्य सूर्यनाम्नो मधुनः द्युलोक एव तिरश्चीनः वंशः । द्युलोकः स्वर्गलोकः । स्वर्गलोकात्
डोलायमान इव सूर्यः दृश्यते खलु सूर्यः देवानां मोदम् आनन्दम् उत्पादयतीव दृश्यते इति
‘देवमधु’ इति कथ्यते । अन्तरिक्षमेव अपूपः । अन्तरिक्षे लग्न इव सूर्यो दृश्यते खलु
अन्तरिक्षम् अपूपः इव दृश्यते हि सूर्यस्य किरणान्येव आपः । सूर्यः स्वकिरणैः जलम्
आकर्षति खलु एवं मधुविद्यां विजानतः जीवने सर्वत्र सदा मधुरं सुखं लभ्यते ॥
<DOC_END>
<DOC_START>
अस्तमिते आदित्ये याज्ञवल्क्य, चन्द्रमसि अस्तमिते, शान्ते अग्नौ
शान्तायां वाचि, किंज्योतिरेवायं पुरुष इति । आत्मैवास्य ज्योतिर्भवति
इति होवाच भगवान् याज्ञवल्क्यः ॥ बृहदारण्यकोपनिषत् ४-३-७
भगवन् याज्ञवल्क्य, आदित्ये अस्तमिते सति, चन्द्रमसि अस्तमिते,
अग्नौ शान्ते सति, वागिन्द्रिये च शान्ते सति अस्य पुरुषस्य किं
ज्योतिर्भवति ब्रूहि, इति जनकेन राज्ञा पृष्टः भगवान् याज्ञवल्क्यः
'आत्मैव अस्य ज्योतिर्भवति' इति उवाच ॥
अहः काले सूर्यः ज्योतिः, रात्रौ तु चन्द्र अग्नि वागिन्द्रियाणि ज्योतिर्भवन्ति ।
अपि तु एतेषां बाह्यानां ज्योतिषामभावे सति आत्मा एव परं ज्योतिः ।
आत्मना एव ज्योतिषा सर्वाणि इन्द्रियाणि मनांसि च स्वस्वव्यापारं कुर्वन्ति ।
जडानाम् इन्द्रियाणाम् आत्मचैतन्यशक्तिरेव मूलकारणम् । परं ज्योतिरात्मा ॥
<DOC_END>
<DOC_START>
कण्ठः विद्यते, मस्तकं न विद्यते । उभौ भुजौ स्तः, किन्तु करौ न स्तः ।
सीतापहरणे समर्थः, किन्तु रामः अपि न, रावणः अपि न । अत्र
’सीता’ इत्यस्य शैत्यम् इति अर्थः ग्रहीतव्यः । कञ्चुकं नाम चोलं शैत्यम् अपहरति ।
<DOC_END>
<DOC_START>
अस्थि नास्ति, मस्तकम् अस्ति, बाहुः अस्ति किन्तु अङ्गुली नास्ति ।
पादौ न विद्यतः किन्तु शरीरं दृढम् आलिङ्गति ।
<DOC_END>
<DOC_START>
अस्मिन् आत्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः
सर्वे एते आत्मानः समर्पिताः ॥ बृहदारण्यकोपनिषत् २-५-१५
अस्मिन्नेव आत्मनि सर्वाणि भूतानि, सर्वा देवताः, सर्वे लोकाः, सर्वे प्राणिनः, इमे
आत्मा नाम जगत्कारणभूतं परं ब्रह्म । आत्मैव ब्रह्म, ब्रह्मैव च आत्मा । आत्मनः
जातमिदं विश्वम् आत्मन्येव लीयते हि । आप्नोति इति आत्मा इति व्युत्पत्तिम् अनुसृत्य
अस्मिन्नेव आत्मनि सर्वे प्राणिनः समर्पिताः । ब्रह्मादयः पिपीलिकापर्यन्ताः सर्वेऽपि प्राणिनः
आत्मैव । इन्द्रचन्द्रादयश्च सर्वे देवाः आत्मैव । चतुर्दश लोकाश्च आत्मैव । सर्वे प्राणाः
(सर्वाणि इन्द्रियाणि) आत्मैव । सर्वे जीवात्मानश्च आत्मैव । ईदृशम् आत्मानम् आत्मत्वेन
जानन् ज्ञानी अपि सर्वात्मा भवति । सर्वोऽपि अयं द्वैतप्रपञ्चः आत्मन्येव कल्पितो दृश्यते ॥
<DOC_END>
<DOC_START>
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि ।
द्रविणं सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥ तैत्तिरीयोपनिषत् १-१०
अहमेव अस्य संसारवृक्षस्य प्रेरयिता, मम यशः पर्वतवत् उन्नतम्, अहम् ऊर्ध्वपवित्रः सन्
सूर्य इव अमृतः । अहं ब्रह्मवर्चसा युक्तः । अहमेव द्रविणम् अस्मि, अहं मेधावी । अहं नाशरहितः
आत्मा अस्मि- इत्येषः त्रिशङ्कोः उद्गारः ॥
त्रिशङ्कुर्नाम ज्ञानी एषः । तस्य स्वानुभववचः इदम् । अस्य संसारवृक्षस्य कारणभूतं ब्रह्म अहमेवास्मि
इति अयं त्रिशाङ्कुः उच्चैः उद्घोषयति । ब्रह्मवदेव ज्ञानी स्वयमपि जगतः कारणभूतः । ज्ञानी सूर्यवत् वर्चस्वी,
ब्रह्मवित् सर्वज्ञश्च भवति । ब्रह्मज्ञानमेव हि ब्रह्मविदः सम्पत् । ज्ञानेन मोक्ष एव लभ्यते । अहम् अमृतः अव्ययश्च
इति ज्ञानी आत्मानं जानाति । ज्ञानिपुङ्गवस्य त्रिशङ्कोः धीरवचनमिदम् । ईदृशः अनुभवोदयः सर्वेषामपि
ब्रह्मज्ञानिनां स्वाभाविकः । अहं ब्रह्मास्मि इति यः जानाति सः ज्ञानी ब्रह्मवदेव सर्वात्मा च भवति ॥
<DOC_END>
<DOC_START>
==अहं सूर्य इवाजनि ॥ सामवेदः १५२
अहं सूर्यः इव प्रकाशवान् भविष्यामि ।
: सूर्योदयेन अन्धकारः अपसरति, सर्वं स्पष्टं दृश्यते । सुप्ताः पशुपक्षिणः उत्थाय कलरवं कुर्वन्तः सोत्साहं नित्यकर्मणि आत्मानं नियोजयन्ति । सूर्यस्य गतिचलनादयः नियमबद्धाः, कालबद्धाः, अनुशासनबद्धाश्च भवन्ति । सूर्यस्य अयं स्वभावः मानवानां कृते आदर्शरूपः अस्ति । अस्माकं चिन्तन-वचन-व्यवहारादिभिः अज्ञानस्य, अन्धःश्रद्धायाः, अर्थहीनसम्प्रदायस्य च अन्त्यं विधाय, यथार्थज्ञानस्य प्राप्तेः निमित्तं प्रयत्नं कर्तुं शक्नुमः । मार्गभ्रष्टाः सन्तः स्वस्य पथे अन्येषां पथे च क्लेशान् दूरीकर्तुं शक्नुमः । सोत्साहं जगतः हितकार्येषु आत्मानं योजयन्तः अन्यान् अपि सत्कर्मेषु प्रेरयन्तः सार्थकजीवनं यापयितुं शक्यते । जीवनस्य ल्क्ष्य-मार्गादयः यथा अपेक्षिताः तथैव तस्मिन् मार्गे गमनावसरे रीति-नीति-नियमाः, कालदृष्ट्या पूर्वयोजितगतिः, अनुशासनबद्धाः व्यवहाराश्च अत्यपेक्षिताः । सर्वप्रेरकः समस्तस्य जगतः सञ्चालकः परमात्मा अपि सूर्यः एव सः यदि अस्माकम् आदर्शरूपः भवेत् तर्हि दैवीगुणानां सम्पादनाय प्रयतामहे । अयं सङ्कल्पः अस्मासु उदीयात् ।
<DOC_END>
<DOC_START>
अहमन्नमहमन्नमहमन्नम् । अहमन्नादो अहमन्नादो अहमन्नादः । तैत्तिरीयोपनिषत् ३-१०-८
अहमेव अन्नम्, अहमेव अन्नम्, अहमेव अन्नमस्मि । अहमेव च अन्नादः, अहमेव अन्नादः, अहमेव अन्नादः
अस्मि इति ज्ञानी आत्मानं जानाति ॥
ब्रह्म आत्मस्वरूपत्वेन विज्ञाय ज्ञानी कृतार्थः संवृत्तः । सर्वात्मभूतं ब्रह्म विज्ञाय ज्ञानी अपि स्वयं सर्वात्मा भवति ।
तादृशः ज्ञानी स्वानुभवं प्रदर्शयितुम्, स्वस्य स्वानन्दामृतसागरमग्नत्वं प्रकाशयितुम् इदं साम गायति ॥
'अहमेव अन्नम् अन्नादश्च अस्मि' इति ज्ञानी उद्घोषयति । यद्यपि स्वयम् ज्ञानी अद्वितीयः आत्मा एव, तथापि
अन्नम् अन्नादश्च अहमेव इति ज्ञानी जानाति आत्मानम् । अन्नं नाम खाद्यः आहारः, अन्नादो नाम खादकः,
अन्नम् अन्नादश्च उभयमपि ब्रह्मस्वरूपमेव । आत्मज्ञानिनः पूर्णदृष्ट्या उच्चनीचभेद एव नास्ति । सर्वेषु पदार्थेषु
परिपूर्णः एक आत्मा नाम ब्रह्मैव । ज्ञानिनः अनुभवोऽयम् ॥
<DOC_END>
<DOC_START>
==अहमस्मि वीरिणी ॥ ऋग्वेदः १०-४८-५
: महिला इति गौणदृष्टिः जगति सर्वत्र दरीदृश्यते । महिला जीवने यावदधिकं साधयति चेदपि तस्याः अस्तित्वं तु द्वितीयस्तरे एव । पुरुषस्य कामतृषनिवारिणी, पुत्राणां प्रसवयन्त्रमात्रम्, केषुचित् समाजेषु गृहसेविका इति तस्याः अभिज्ञानम् । अस्यामपि परिस्थितौ काचित् धैर्येण यत्किञ्चित् साधयति चेत् सा अपवादरूपेण परिगण्यते । एतस्य कारणं वेदाः, वेदाध्ययनाय स्त्रीणाम् अवसरः नास्ति इत्येतत् इति केचन अज्ञानिनः लपन्ति । एवं तर्हि एते वेदमन्त्राः कस्याः मुखतः उद्भूताः ?
: कल्पनालोके विहरन्तः कवयः स्त्रीं चञ्चलां मन्यते चेदपि, गृहं, गृहजनानां मनांसि तया निरूह्यते । भावीप्रजानां गर्भावस्थातः वर्धनस्य उत्तरदायित्वं समर्थतया निर्वहति महिला एव पतिः यदि अवगमनपूर्वकं व्यवहरेत् तर्हि सा भवति आत्मीया सखी । महिला स्वस्य सहजसामार्थ्यानि अभिजानती धैर्यशालिनी भवेत्, साधिका भवेत्, उत्तमा प्रेरिका भवेत् । अव्यवस्थितस्य समाजस्य परिष्काराय 'अहं वीरिणी अस्मि' इति सा घोषयेत् । स्वेच्छाचारः पुरुषाय अपि न शोभते, न वा महिलायै ।
<DOC_END>
<DOC_START>
==अहमस्मि सहमानः ॥ अथर्ववेदः १२-१-५४
: धनात्मकचिन्तनमेव जीवने बहूनां साधनानां मूलहेतुः भवति । मनः इत्येतत् चञ्चलं दुर्बलञ्च । इदं लोभ-काम-क्रोध-मात्सर्यादिभिः बद्धं भवति अचिरादेव । एवं बद्धेन मनसा किं समीचीनं किं न इत्यादीनां विवेचनासामर्थ्यं नश्यति । महत्याः विपत्तेः प्राप्त्यनन्तरमपि इदं ज्ञायेत कदाचित् न स्यादेव । किन्तु धनात्मकचिन्तनमेव यदि क्रियेत तर्हि मनः दृढं समर्थञ्च भविष्यति । लोभ-काम-क्रोध-मात्सर्यादीनां ताडनं समर्थतया सोढुं शक्नोति । सहनशीलं भविष्यति । विवेचनारहितं न भविष्यति । अग्रिमविपत्तीः आदौ एव निवारयितुं शक्यते ।
<DOC_END>
<DOC_START>
==अहमिन्द्रो न पराजिग्ये ॥ ऋग्वेदः १०-४८-५
अहम् इन्द्रः अस्मि, पराजितः न भवामि ।
<DOC_END>
<DOC_START>
==आ नो भद्राः क्रतवो यन्तु विश्वतः ॥ ऋग्वेदः १-८९-१
कल्याणकराः विचाराः सर्वतः आगम्यन्ताम् ।
: सर्वः अपि स्वस्य परिसरात् बहून् विचारान् ज्ञातवन्तः भवन्ति । तस्मिन् परिसरे विद्यमानानां ज्येष्ठानां वचन-व्यवहारादीनि अस्माभिः अभ्यस्तानि भवन्ति । सम्प्रदाय-मत-मठ-जात्यादीनां बन्धनैः युक्ताः भवामः । गुरूणाम् आचार्याणां सङ्घसंस्थादीनां सिद्धान्तैः मनसा बद्धाः भवामः । 'अस्माकं विचारधारा एव समीचीना' तदतिरिच्य विद्यमानं सर्वम् अनृतमिति भवति अस्माकं मनोभावः । एषः मनोभावः अपायकरः स्वस्य जगतः कृते अपि । एतैः कारणैः इतिहासे कियान् रक्तपातः जातः अद्यत्वे अपि प्रचलति । एतैः अनुकरणेभ्यः, बन्धनेभ्यः, मनोभावेभ्यः मुक्ताः स्याम । 'मम विश्वासः एव सत्यभूतः' इति न अपि तु 'सत्यभूते एव अहं विश्वसिमि' इत्येवं यदि चिन्तयेम तदा मनः मुक्तं भवति । सत्योपेताः विचाराः कुतश्चित् वा आगच्छन्तु नाम, स्वीकुर्याम मुक्तमनसा ।
<DOC_END>
<DOC_START>
आचार्यः पूर्वरूपम् । अन्तेवास्युत्तररूपम् । विद्या सन्धिः ।
प्रवचनं सन्धानम् । इत्यधिविद्यम् ॥ तैत्तिरीयोपनिषत् १-३
आचार्यः पूर्वरूपम्, शिष्यः उत्तररूपम् । विद्या सन्धिः, प्रवचनं सन्धानम् ॥
विद्यासम्पादनद्वारा कृतकृत्यताप्राप्तिर्हि मानवस्य प्रधानं कर्तव्यम् । तत्रापि ब्रह्मविद्या
एव हि अन्वर्थविद्या । अनया एव मोक्षप्राप्तिः । मोक्ष एव मानवजन्मनः परमा गतिः ।
शीष्येणैव हि सम्पादनीया ब्रह्मविद्या तस्याः प्रतिपादयिता आचार्यः ॥
आचार्यस्य अनुग्रहादेव अस्माकं ब्रह्मविद्याप्राप्तिर्भवेत् । तस्मात् आचार्यस्य उच्चतमं
स्थानमस्ति । आचार्य एव देवः, आचार्य एव च सर्वस्वं शिष्यस्य । आचार्यस्य सेवया,
आचार्यस्य अनुग्रहादेव अस्माकम् आत्मज्ञानं प्राप्येत । प्रवचनं हि गुरुशिष्यौ उभावपि
संयोजयति । एतयोः संयोगस्य फलमेव विद्या नाम । एवं हि साधकेन मन्तव्यम् ।
सद्गुरूपासनेन योग्याय शिष्याय आत्मज्ञानोदयो भवति । ततः मोक्षप्राप्तिश्च फलम् ॥
<DOC_END>
<DOC_START>
आत्मना विन्दते वीर्यम्, विद्यया विन्दते अमृतम् । केनोपनिषत् २-४
आत्मना वीर्यं विन्दते । आत्मविद्यया अमृतत्वं प्राप्नोति ।
वीरस्य भावो हि वीर्यं नाम । अस्मिन् विशाले जगति नानाविधानि वीर्याणि सन्ति । जपवीर्यम्, मन्त्रवीर्यम्,
औषधवीर्यम्, आरोग्यवीर्यम्, तपोवीर्यम् इत्यादीनि । एतानि वीर्याणि स्वस्वदृष्ट्या अद्भुतान्येव; न हि तावता
सुलभेन एतेषां सम्पादनं भवति । अपि तु आत्मवीर्यस्य पुरतः एतानि सर्वाण्यपि निर्वीर्याण्येव भवन्ति ।
आत्मवीर्यमेकमेव निजं वीर्यम् । आत्मवीर्येणैकेन हि केवलेन मानवः मृत्युं जयति, संसारभयात् मुच्यते, न तु
आत्मविद्यया एव अमृतत्वं मोक्षं प्राप्नुयात् मानवः । आत्मविद्याम् एकां विहाय इतरासां सर्वासामपि विद्यानाम्
‘अनात्मविद्या’ इति नामधेयम् । अनात्मविद्यया धनं, कीर्तिः अधिकारः, आरोग्यादीनि लभ्यन्ते; नैव तु मोक्षः
<DOC_END>
<DOC_START>
आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेन इदं
सर्वं विदितम् । बृहदारण्यकोपनिषत् २-४-५</poem>
अरे मैत्रेयि, आत्मनो दर्शनेन श्रवणेन मननेन तथा विज्ञानेन
इदं सर्वं विश्वं विदितं भवति ॥
आत्मा नाम प्रत्यगात्मा । आत्मा नाम अत्र परं ब्रह्म । आत्मा
नाम समस्तस्यापि जगतः कारणभूतं परं तत्त्वम् । आत्मैव
जगद्रूपेण अवभासते । तस्मात् आत्मनि सम्यक् ज्ञाते सति
सर्वेऽप्ययं प्रपञ्चः ज्ञातप्राय एव । मूलकारणे विज्ञाते तत्कार्यं
सर्वमपि विज्ञातमेव खलु भवति ?
जगत्कारणभूते आत्मनि विज्ञाते सति तत्कार्यभूतः प्रपञ्चः
विज्ञातो भवति । आत्मनि श्रुते सर्वमपि जगत् श्रुतं भवति ।
सद्गुरोः सकाशात् आत्मनि श्रुते तथा मते निदिध्यासिते सति
विश्वमिदं सर्वमपि विज्ञातं भवति । मृदि विदितायां तत्कार्यं
सर्वमपि ज्ञातं भवति हि समस्तस्यापि प्रपञ्चस्य कारणभूते
परमात्मनि एकस्मिन् विज्ञाते सति तद्भिन्नतया प्रपञ्चो नाम
पदार्थो नावशिष्यते एव इत्यर्थः । अयम् हि आत्मज्ञानस्य महिमा !
<DOC_END>
<DOC_START>
* तूष्णिमालम्बसे चेत्कथमपि वितता वत्स संहृत्य वृत्तीर्भात्यादर्शे
* अधीत्य विधिवद्देदं शस्त्रं चाभ्यस्य यत्नतः पुराणमपि चावेक्ष्य,
:शान्तिं यो नाधिगच्छति। स्वात्मनं च न जानाति न्रो नासौ स गर्दभः ॥
* सर्वत्रात्मनाश एवधमशुश्रुषायाः पारितोषिकम् ।
* य आत्मबलं ज्ञात्वा भारं तुलितं वहति मनुष्यः ।
:तस्य स्खलनं न जायते न च कान्तारगतो विपद्यते ॥
*बुद्धिः शरीरं विषयेद्रियाणि सुखं च दुःखैकनिकेतननि ।
<DOC_END>
<DOC_START>
आत्मा वा इदमेक एवाग्र आसीत् पुरुषविधः । बृहदारण्यकोपनिषत् १-४-१
इदं सर्वं पुरा पुरुषविधः आत्मा एव एकः आसीत् ।
अत्र आत्मा नाम प्रजापतिः ब्रह्मा । अयमेव पुरुषविधः । इदानीं नामरूपाभ्यां भिन्नभिन्नतया
दृश्यमानम् इदं विश्वं सृष्टेः पूर्वं किमासीत् इति चेत्, आत्मैव आसीत् । अत्र आत्मा नाम
विराट् पुरुष एव । अयमेव हिरण्यगर्भः इति च कथ्यते ॥
पुरुषविधत्वं नाम शिरः पाणिपादम् नेत्रम् श्रोत्रम् इत्याद्येव । सूक्ष्मरूपेण अयमात्मा पुरुषविधः
आसीत् । अस्मादेव च इदानीं सर्वे पुरुषाः जाताः । अयं विराटपुरुषः आत्मानमेव अवलोक्य
सर्वान् जीवान् आत्मानन्यान् वीक्ष्य “अहमेव सर्वं जगत् अस्मि” इति यस्मात् ज्ञातवान्, तस्मात्
सृष्टेः पूर्वं परमार्थतः आत्मा एक एव आसीत्, स एव आत्मा प्रजापतिरूपेणापि अवभासते इति ।
अत्र मन्त्रे आत्मा इति प्रजापतिरपि भवति । अयमेव अव्याकृतात्मा इति च भवति ॥
<DOC_END>
<DOC_START>
आत्मा वा इदमेक एवाग्र आसीत् । नान्यत् किञ्चन मिषत् ।
स ईक्षत लोकान्नु सृजा इति ॥ ऐतरेयोपनिषत् १-१-१
इदं जगत् पुरा आत्मैव आसीत् । चञ्चलं किमपि अन्यत् नासीत् । ‘अहम् इदानीं
लोकान् सृजानि’ इति आलोचनं कृत्वा आत्मा इदं सर्वम् असृजत ॥
इदानीम् अस्मत्पुरतः दृश्यमानमिदं विश्वं भिन्नभिन्नतया चित्रविचित्रतया अद्भुतमिव खलु
अस्यैव व्याकृतप्रपञ्चः इति नामधेयम् । वि विविधम्, आ= समन्तात्, कृतम् व्याकृतम् ।
नाम, रूपं, क्रिया, देशकालौ, कार्यं, कारणादिरूपेण दृश्यमानमिदं हि विश्वं कार्यमुच्यते ।
इदं कार्यं जगत्सृष्टेः पूर्वं नैव आसीत् । तदा विद्यमानं तत्त्वम् आत्मा एक एव ।
आत्मा एक एव तदा आसीत् । आत्मना सह न किञ्चिदासीत् ॥
तर्हि कथमिदं द्वैतं जगत् इदानीं दृश्यते इति चेत्, आत्मन एव आगतमिदं जगत् ।
चिन्मात्रः आत्मा ‘लोकान् सृजानि’ इति कृत्वा स्वयमेव इदं विश्वं सृष्टवान् ।
आत्मैव स्वयमेव आत्मानमेव प्रपञ्चरूपेण सृजति । प्रपञ्चो नाम आत्मनः
<DOC_END>
<DOC_START>
आत्मानं चेद्विजानीयात् अयमस्मीति पूरुषः ।
किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥ बृहदारण्यकोपनिषत् ४-४-१२
यः मानवः प्रत्यगात्मानम् आत्मत्वेन जानाति, सः किं फलम् इच्छन्, कस्य कामस्य प्राप्त्यर्थम्
इदं शरीरम् अनु संज्वरेत् ?
अयं हि सुप्रसिद्धो जनप्रियश्च मन्त्रः । आत्मतत्त्वे सम्यक् विज्ञाते सति तस्य धीरस्य दुः खमेव न
विद्यते ।‘अहं निरुपाधिकः असंसारी आत्मा’ इति यः जानाति स एव धीरः। अस्य ज्ञानस्य ‘ब्रह्मात्मविद्या’
इत्यपि नाम भवति । ‘अहं नित्यशुद्धनित्यबुद्धनित्यमुक्तः आत्मा अस्मि’ इतिज्ञानमेव आत्मदर्शनं नाम ।
इदमेव च सत्यदर्शनं सम्यग्दर्शनं चेति कथ्यते ॥
एवंविदः उपादेयं वा हेयं वा न किञ्चिदस्ति । किं वा एषः कामयेत् सर्वमपि अहमेव इति जानतः कामाः
न सम्भवन्ति खलु एवं स्थिते अस्य सुखदुःखानि सम्भवन्ति वा न कदापि सम्भवन्ति ।
सर्वात्मदर्शनसम्पन्नस्य आत्मज्ञानिनः संसारदुःखस्य सम्बन्धो नास्ति ॥
<DOC_END>
<DOC_START>
परं परोपकारार्थं यो जीवति स जीवति ॥ सु.भा. प
<DOC_END>
<DOC_START>
सङ्घशक्तिं विना राष्ट्रं कुतो वा कुत उन्नतिः ॥
<DOC_END>
<DOC_START>
जले उद्भूतस्य नारायणस्य पुत्रस्य ब्रह्मणः पुत्रस्य दक्षस्य शत्रुः, नारायणस्य पुत्रस्य शत्रुः यः शिवः तस्य आभरणमस्ति सर्पः । तस्य शत्रुः मूषिकः । तस्य स्वामी गकाररूपः गणपतिः मां रक्षतु ।
<DOC_END>
<DOC_START>
==आप्नुहि श्रेयांसमति समं क्राम ॥ अथर्ववेदः २-११-१
समानान् अतिक्रम्य गम्यताम्, श्रेयः प्राप्यताम् ।
यत्र स्मः तत्रैव यदि तिष्ठेम तर्हि सुख-शान्ति-सम्पत्तयः अस्मान् अन्विष्य नागमिष्यन्ति । अस्माभिः ते उपसर्पणीयाः । स्पर्धामनोभावः यदि स्यात् तर्हि इदम् उपसर्पणं तीव्रतरं स्यात् । समानान् अतिक्रम्य गमनोत्साहः उद्भवति । किन्तु इयं स्पर्धा भवेत् स्वास्थ्ययुता । अद्यत्वे अस्मिन् जगति अतिशयेन स्पर्धा विद्यते चेदपि, स्पर्धायां सर्वेपि वेगेन धावन्तः दृश्यन्ते चेदपि 'श्रेयः प्राप्यताम्' इत्येतत् वचनं तु स्वप्नायते एव । युद्धे, परस्परविनाशने एव उद्युक्ताः स्मः । समग्रविनाशस्य असिः शिरसः उपरि डोलायमानः एव विद्यते । अस्य कारणमिदमेव अग्रे धावनावसरे समानान् अग्रेसृतान् च मर्दयन्तः चलन्तः स्मः अन्येषां स्मारकस्य उपरि अस्माकं भवनस्य निर्माणे उद्युक्ताः स्मः । इदं सर्वथा न युक्तम् । पार्श्वे गमनावसरे श्रेयः प्राप्तुं शक्यः । न केवलं तावत्, पृष्ठतः पतितानां करावलम्बनमपि दातुं शक्यम् । तदा ते अस्मत्समम् आगताः भवन्ति । तदा अस्माभिः अग्रे सरणीयम् । एवं पृष्ठतः विद्यमानान् समानान् कुर्याम, पुनः समानान् अतिक्रम्य अग्रे गच्छेम । अयमेव श्रेयोमार्गः
<DOC_END>
<DOC_START>
आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः ।
व्याहृत्युपासकः स्वाराज्यं प्राप्नोति, मनसाम् अधिपतिर्भवति । वागिन्द्रियस्य नेत्रेन्द्रियस्य
च अधिपतिर्भवति । श्रोत्रेन्द्रियाणां विज्ञानस्य च अयम् अधिपतिर्भवति ॥
योऽयम् उपासकः भूः, भुवः, सुवः, महः इत्येताः चतस्रः व्याहृतीः भूर्लोकः, अन्तरिक्षलोकः,
स्वर्गलोकः, आदित्यः इति एवंरूपेण उपास्ते तस्य स्वाराज्यफलमेव लभ्यते । महः इति
एवमुपासकस्य स्वाराज्यं लभ्यते । एतासां व्याहृतीनाम् आत्मा भूत्वा उपासकः विराटपुरुषवत्
स्वयमपि स्वराट् भवति । अयमुपासकः आत्मार्थं सर्वानपि कामान् लभेत, तथैव परेभ्योऽपि
मनसः, वचसः, नेत्राणाम्, श्रोत्राणाम् विज्ञानस्य च अयम् अधिपतिर्भवति । सिद्धसङ्कल्पो ह्ययम् ।
स्वाधीनकृताष्टमहासिद्धिः अयं धीरः । अनेन व्याहृत्युपासनेन स्वाराज्यफलमेव प्राप्नोति ॥
<DOC_END>
<DOC_START>
==आयुष्मान्जीव मा मृथाः ॥ अथर्ववेदः १९-२७-८
आयुष्मान् सन् जीव्यताम्, न म्रियताम् ।
: अनेन शरीरेण सह दीर्घकालं यावत् जीवनीयम् । मरणम् अतिक्रान्तुम् अशक्यम्, किन्तु अकालमृत्युः न स्यात् । मानवजन्मनः प्राप्तिः एव कश्चन अमूल्यः अवसरः । आत्मनः उन्नत्यै आवश्यकं ज्ञानम् अनुभवञ्च प्राप्तुं, सत्कर्मणां निर्वर्तनाय च प्राप्तः कश्चन अपूर्वः अवसरः । आयुः यावदधिकं स्यात् तावदधिकप्रमाणेन सत्कर्माणि कर्तुं शक्यानि, तेन आत्मोन्नतिः साधयितुं शक्या । आयुः पूर्वनिश्चितमित्येतत् न साधु । शरीरस्य सामर्थ्यं निश्चितम् । जागरूकतया यदि उपयुञ्ज्महे तर्हि दीर्घकालम् उपयोगाय भवति । दुरभ्यासवशात् वा, अनियतायाः जीवनशैल्याः कारणात् वा शरीरसामर्थ्यस्य ह्रासे सति मरणप्राप्तिः, अजागरूकतया अपघातकारणात् मरणप्राप्तिः, मानसिकरोगेण उद्वेगेन वा आत्महत्याकरणं वा अकालमृत्युः इति कथ्यते ।
<DOC_END>
<DOC_START>
==आरे बाधस्व दुच्छुनाम् ॥ (ऋक् ९-६६-१९, साम ६२७
: काम-क्रोध-लोभ-मोह-मद-मात्सर्यानि एव दुष्टाः वेगाः । एते सर्वान् अपि वेगेन आकर्षन्ति, आक्रामन्ति च । लघुः अवसरः कल्पितः चेदपि पूर्णतया अस्मान् आवृण्वन्ति । दूरतः एव ते निवारणीयाः । इदं कार्यं दृढेन मनसा कठिनश्रमेण क्रियेत चेदेव जयस्य प्राप्तिः । अस्य कार्यस्य समर्पकतया निर्वहणाय इच्छाशक्तिः बलवीर्यादयः दीयन्ताम् इति भवेत् अस्माकं प्रार्थना । मया एवमेव आचर्यते इति दृढः सङ्कल्पः स्यात् अस्माकम् । तथा अस्माभिः यदि न अनुष्ठीयेत तर्हि प्रार्थना भवेत् निरर्थिका ।
<DOC_END>
<DOC_START>
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥
<DOC_END>
<DOC_START>
इदं ब्रह्म, इदं क्षत्रम्, इमे लोकाः, इमे वेदाः, इमे देवाः, इमानि भूतानि, इदं सर्वं यदयमात्मा । बृहदारण्यकोपनिषत् २-४-६
इदं ब्रह्म, इदं क्षत्रम्, इमे लोकाः, इमे वेदाः, इमे देवाः, इमानि भूतानि-इत्येतत् सर्वम् आत्मैव ।
‘इदं सर्वं यदयमात्मा’ इत्येषः प्रसिद्धो मन्त्रः । 'इदं सर्वम् आत्मैव' इति अस्य मन्त्रस्य अर्थः । ‘इदं सर्वम्’
इत्युक्ते सर्व शब्देन किं किं स्वीकार्यम् इति संशये अयं मन्त्रः तं परिहरति । ब्रह्म, क्षत्रियम्, वैश्यम्, शूद्रम्
इति चत्वारोऽपि वर्णाः आत्मैव । ब्रह्मचर्यम्, गार्हस्थ्यम्, वानप्रस्थता, संन्यासः इति चत्वारोऽपि आश्रमाः
आत्मैव । अतल वितल सुतल रसातल तलातल महातल पातालाख्याः सप्त अधोलोकाः आत्मैव । भूः भुवः
सुवः महः जनः तपः सत्याख्याः ऊर्ध्वलोकाः सप्त आत्मैव ॥
ऋग्वेद यजुर्वेद सामवेद अथर्ववेदाख्याः चत्वारोऽपि वेदाः आत्मैव । इन्द्र आदित्य वरुण मित्राद्याः सर्वे देवाश्च
आत्मैव । एताः सर्वाः प्रजाश्च आत्मैव । इदं सर्वम् आत्मैव ॥
<DOC_END>
<DOC_START>
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यत् श्रेयो वेदयन्ते प्रमूढाः । मुण्डकोपनिषत् १-२-१०
इष्टापूर्तं कर्मैव ये वरिष्ठं मन्यन्ते, इतो अन्यत् श्रेयः आत्मतत्त्वं ये न मन्यन्ते, ते प्रमूढाः ॥
श्रौतानि स्मार्तानि इति शास्रीयकर्माणि द्वेधा विभक्तानि सन्ति । इष्टम् इति श्रौतं कर्म पूर्तम् इति स्मार्तं कर्म उच्यते ॥
::अग्निहोत्रं तपः सत्यं वेदानां परिपालनम् ।
::आतिथ्यं वैश्वदेवं च ‘इष्टम्’ इत्यभिधीयते ॥
अग्निहोत्रानुष्ठानम्, तपः, सत्यवचनम्, वेदाध्ययनम्, अध्यापनम्, आतिथ्यम्, वैश्वदेवं- च इतीदम् इष्टम् उच्यते ॥
वापी, कूपः, तटाका, देवालयः, अन्नदानम्, आरामनिर्माणम् इत्येतत् पूर्तम् उच्यते ॥
एतानि इष्टापूर्तकर्माण्येव वरिष्ठानि इति, मुक्तिरिति, जन्मसार्थकसाधनमिति च ये मन्यन्ते ते प्रमूढा एव भवन्ति ॥
<DOC_END>
<DOC_START>
को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् ॥ तैत्तिरीयोपनिषत् २-७-३
यदि अयमात्मानन्दः नाभविष्यत्, को वा प्राणी प्राणव्यापारं कुर्यात् को वा जीवितुम् इच्छेत् ?
आत्मनः आनन्दस्वरूपत्वेन विद्यमानत्वादेव सर्वो जन्तुः प्राणनव्यापारं करोति । प्रमाणागोचरोऽपि
सन् आत्मा ‘नास्ति’ इति वक्तुं न शक्यते । मनसोऽपि प्रत्यगात्मत्वेन सूक्ष्मत्वात् आत्मनः ॥
अचेतनोऽयं देहेन्द्रियादिसङ्घातः स्वव्यापारं कुर्वन् अस्ति इत्येतदेव लिङ्गम् आत्मनः अस्तित्वे ।
आत्मार्थो हि सकलेन्द्रियव्यापारः । आत्मने हि इन्द्रियव्यापारजन्यः आनन्दः । आनन्दानुभवार्थं हि
सर्वे प्राणिनः जिजीविषन्ति सर्वेषां सर्वविधव्यापारोऽपि आनन्दार्थ एव खलु । अस्माकं सर्वेषां सर्वेऽपि
व्यवहाराः आनन्दार्था एव हि आनन्दाभावे को वा जन्तुः बहुकालं जिजीविषेत् आत्मा आनन्दस्वरूपः,
आत्मैव ब्रह्म । ब्रह्मैव आनन्दः । एतद्रहस्यं विजानतां विवेकिनां हि ब्रह्मानन्दप्राप्तिः ॥
<DOC_END>
<DOC_START>
क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ॥
<DOC_END>
<DOC_START>
क्षरात्मानौ ईशते देव एकः ।
भूयश्चान्ते विश्वमायानिवृत्तिः ॥ श्वेताश्वतरोपनिषत् १-१०
प्रधानं क्षरम्, हरस्तु अमृतः अक्षरश्च । परमात्मा एक
एव क्षरं प्रधानम्, जीवात्मानं च ईशते । तस्य परमात्मनः
अभिध्यानात्, तस्य योगात्, तस्य ज्ञानात्, अन्ते मायायाः निवृत्तिर्भवति ॥
कापिलसाङ्ख्यदर्शने प्रतिपादितं परमं तत्त्वं नाम प्रधानम् ।
इदमेव मूलप्रकृतिः इत्यपि कथ्यते । वेदान्तदर्शनानुसारेण
इदं प्रधानम् अचेतनम्, क्षरम्, अनित्यं च । जीवात्मा
संसारी सन् सुखदुःखानि अनुभवति । साङ्ख्याः जीवान्
वेदान्तेशु प्रधानं जीवाश्च अनात्मभूता एव । एतयोः द्वयोरपि
ईशिता ईश्वरः । एष एव मुमुक्षुभिः ध्येयः । एष एव विचारार्हः;
अस्य मननेन जीवोऽपि ईश्वर एव भवति । ईश्वरात्मैक्यज्ञानेन
माया नश्यति । तदा जीवात्मा मुक्तो भवति ॥
<DOC_END>
<DOC_START>
इव । कण्टकाः यथा दुःखं यच्छन्ति तथैव दुष्टाः क्षणं यावत्
सम्पर्के भवन्ति चेदपि दुःखं यच्छन्ति ।
<DOC_END>
<DOC_START>
शताधिकानि योजनानि अग्रे गच्छेत् । गरुडः निश्चलः तिष्ठति चेत् पदमात्रमपि अग्रे न गच्छेत् ।
<DOC_END>
<DOC_START>
गर्भे नु सन् नु अन्वेषामवेदम् अहं देवानां जनिमानि विश्वा ।…. गर्भे एवैतत् शयानो
वामदेव एवमुवाच ॥ ऎतरेयोपनिषत् २-१-५
मातृगर्भे एव शयानो वामदेवमहर्षिः 'अहं गर्भे एव विद्यमानः सन् सर्वासां देवतानां जन्मानि वेद' इति ज्ञातवान् ।
यौवने वा वार्धक्ये वा ज्ञानं प्राप्तव्यम् इति नियमो नास्ति, पूर्वजन्मसंस्कारप्राबल्यात् गर्भस्थस्यैव पुरुषस्य आत्मज्ञानोदयो
भवेत् । जन्मान्तरकृततपसा शुद्धान्तःकरणस्य अस्मिन्नेव जन्मनि बाल्ये एव आत्मज्ञानं प्राप्येत ॥
वामदेवमहर्षिः मातृगर्भे शयान एव सर्वात्मभावरूपम् आत्मज्ञानं लब्धवान् इति अयं मन्त्रः उदघोषयति । देवानामपि
आदिरहम्, समस्तस्यापि विश्वस्य अहमेव कारणम् इति ज्ञानमेव हि आत्मज्ञानं नाम । इदं सर्वेषामपि सुलभम् ।
सर्वथा चित्तशुद्धिमतः आत्मज्ञानं सर्वात्मभावरूपो मोक्षश्च निश्चितमेव भवति इत्यर्थः । ज्ञानोदयसमकाले एव मोक्षप्राप्तिः ॥
<DOC_END>
<DOC_START>
गायत्री वा इदं सर्वं भूतं यदिदं किञ्च । वाग्वै गायत्री वाग्वा इदं सर्वं भूतम् ।
गायति च त्रायते च ॥ छान्दोग्योपनिषत् ३-१२-१
इदं सर्वं गायत्री एव । यद्यदस्ति तत् सर्वं गायत्री एव । वागेव गायत्री । सर्वं गायति
इति, त्रायते इति च गायत्री ॥
गायत्री इति छन्दः । षड्भिः अक्षरैः युक्ताः चत्वारः पादाः यस्मिन् विद्यन्ते तत्
गायत्रीच्छन्दः इति कथ्यते । चतुर्विंशत्यक्षरैः युक्तमेतत् गायत्रीच्छन्दः । सर्वमिदं
जगत् गायत्रीच्छन्द एव । सर्वोऽयं प्रपञ्चः नाममात्रः खलु नाम, अभिधानम्,
वाक्, वाचकम्, शब्दः – इत्येतानि पर्यायपदानि ॥
अस्मिन् जगति विद्यमानानि सर्वाण्यपि वस्तूनि नामवन्ति । कार्यं हि सर्वं केवलं
नाममात्रमेव । एकस्यैव वस्तुनः भिन्नानि भिन्नानि नामानि भवन्ति । नामानि
भिन्नानि, पदार्थस्तु एक एव । वाचैव व्यवहाराः, वाचैव सुखदुःखे, वाचैव
मानापमाने, वाचैव बन्धुबान्धवाः; सा वागेव अत्र ‘गायत्री’ इति उपदिश्यते ॥
<DOC_END>
<DOC_START>
*अचेतनं नाम गुणं न लक्षयेत् ।
*जगत् विश्वस्तं मे निवसति गुणो नष्टमयशः ।
*मृतैः प्राप्यः स्वर्गॊ यदिह कथयत्येतदनृतं ।
:परोक्षॊ न स्वर्गो बहुगुणमिहैवैष फलति ॥
*न वसन्त्येकत्र सर्वॆ गुणाः ।
*शास्त्रॆ प्रतीष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी ।
:कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुधाः क्रियासु ॥
*हतेषु देहेषु गुणा धरन्ते ।
*समाने प्रभवादौ च गुणवत्ता तथेतरा ।
:समुद्रादेव जायन्ते मुक्ताश्चापि वराटिकाः ॥
*गुणेषु यत्नः पुरुषेण कर्यो न किञ्चिदप्राप्यतमं गुणानाम् ।
*गूणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा ।
*गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ।
*पुरुषः शूद्रो भवेदुच्चकुलसूतो वा ?
<DOC_END>
<DOC_START>
==गृहे वसतु नो अतिथिः ॥ (अथर्ववेदः १०-६-५
: अस्माकम् अह्वानम् अङ्गीकृत्य ये आगच्छन्ति ते न अतिथयः, अपि तु अभ्यागताः । अनिरीक्षितरूपेण आगन्तारः अतिथयः ।
<DOC_END>
<DOC_START>
रथी अस्ति, एकं चक्रं, किन्तु सूर्यः न । सारथिः भूमौ तिष्ठति ।
अगस्त्य(कुम्भसम्भवः इति ख्यातः)तातनिर्माणः कः इति यदि
<DOC_END>
<DOC_START>
प्रस्थानाय तिथिर्यस्य तस्मादतिथिरुच्यते ॥ poem big
{{gap}}य: अतति सातत्येन गच्छति स: ‘अतिथि:’ उच्यते शास्त्रे (अत इथिन्) । किन्तु केचन तु गृहम् आगता: सन्त: गमनलक्षणं न दर्शयन्ति एव । तेषां प्रस्थानदिनं निश्चितं न भवति । ‘अयं कदा वा इत: निर्गच्छेत्’ इति चिन्तयन् गृहस्वामी यथा बहुधा खिद्येत तथा स्थितिं निर्मान्ति ते । अत: एव कवि: कश्चन वदति यस्य (गमन)तिथि: न विद्यते स: ‘अतिथि:’ इति उच्यते इति । अत्र व्युत्पत्तौ तात्पर्ये वा असम्मतिं दर्शयितुं नार्हाम: वयम् । भवताम् आशय: क: एतस्मिन् विषये ?
विचित्रानुल्लिखेत् विघ्नान् तिष्ठासुरतिथिश्चिरम् ॥ poem big
{{gap}}यदि कस्यचित् गृहे अतिथित्वेन दीर्घकालं स्थातुम् इच्छा तर्हि अत्र सन्ति केचन उपाया: । ‘त्वरया प्रस्थातव्यमस्ति मया’ इति वदता एव आतिथेयस्य गृहं प्रवेष्टव्यम् । ‘अद्य गच्छामि’ इति प्रतिदिनम् अपि वदेत् । प्रतिदिनम् अपि निर्गमनबाधकानि विचित्राणि कारणानि वक्तव्यानि च ।
एतादृशा: अन्ये अपि उपाया: आश्रिता: चेत् आतिथेयस्य गृहे दीर्घकालं वास: अवश्यं शक्य: ।
<DOC_END>
<DOC_START>
जपयज्ञश्च यज्ञेषु रोचते लोभशालिनाम् ॥ poem big
{{gap}}लोभयुक्तं जनं पृच्छन्तु भवन्तः धार्मिककार्येषु किं भवतः प्रियम् इति । सः वदेत् उपवासः एव मम प्रियः' इति । यतः तदर्थं वराटिकाव्ययः अपि कारणीयः नास्ति । 'चिकित्साक्रमे कः योग्यः इति पृष्टः लोभी वदेत् लङ्घनं (निराहारस्थितिः) परमौषधम्' इति । यतः अत्रापि व्ययप्रसक्तिः सर्वथा नास्ति । 'यज्ञेषु कः यज्ञः प्रियः इति पृष्टः सः वदेत् व्ययं विनैव कर्तुं शक्यः नामजपयज्ञः एव मम प्रियः' इति । एवं यत् व्ययं विना सिद्ध्येत् तदेव रोचते लोभिने ।
नेत्रे न नापि वसु नो वनितां स वव्रे छत्राभिरामसुतदर्शनमित्युवाच ॥ poem big
तासामर्थरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽस्ति भवतः भ्रष्टस्य का वा गतिः ॥ poem big
{{gap}}कश्चन भिक्षुः (संन्यासी) मांसं खादन् आसीत् । तं दृष्ट्वा कश्चित् अपृच्छत् आर्य किं भवता मांसं सेव्यते
भिक्षुः अवदत् आम् । किन्तु मांसेन सह मद्यम् अपि नास्ति किल इति मम खेदः' इति ।
प्रष्टा आश्चर्येण अपृच्छत् किं मद्यसेवनाभ्यासः अपि अस्ति भवतः इति ।
'वाराङ्गनार्थं धनम् आवश्यकं खलु तत् कथं प्राप्यते प्रष्टा अपृच्छत् ।
'तत् तु द्यूतेन चौर्येण वा प्राप्यते इति शान्ततया अवदत् भिक्षुः ।
तदा भिक्षुः खेदेन अवदत् यदि भ्रष्टता प्राप्यते तर्हि एवमेव अधोगतिः भवति क्रमशः । सकृत् भ्रष्टस्य अधःपतनं सहजम्' इति ।
कम्पः को वा गुरुस्ते किमिह बलभिदा जृम्भितेनात्र याहि ।
यस्मै लक्ष्मीमदाद् वः स दहतु दुरितं मन्थमुग्धः पयोधिः ॥ poem big
{{gap}}लक्ष्म्याः स्वयंवरः प्रचलत् आसीत् । लक्ष्म्याः पिता सागरः तु स्वपुत्रीं विष्णवे दातुम् इच्छति । तां परिणेतुम् इच्छवः इन्द्रादयः अपि उपस्थिताः आसन् सभायाम् । ते स्वपुत्र्याः यथा न अङ्गीकृताः स्युः तथा करणीया आसीत् तेन । अतः सः पुत्र्याः भीतिं निवारयन् इव वदति वत्से विषादः मास्तु । दीर्घश्वासः अपि मास्तु भवत्याः । गुरुः कम्पोऽपि मास्तु बलमित् जृम्भिमत् अपि मास्तु' इति । तस्य तात्पर्यम् एवं भवति विषादः विषसेवी शिवः मास्तु, श्वसनं- वायुः मास्तु, कस्य-जलस्य पाता रक्षकः वरुणः मास्तु, गुरुः बृहस्पतिः अपि मास्तु, बलमित् बलनामकस्य राक्षसस्य संहर्ता इन्द्रः मास्तु, अत्र विष्णुसमीपम् आगच्छतु' इति । एवम् उपायेन पुत्र्याः विवाहं निर्णीतवान् सागरः भवतां पापं निवरयतु ।
तृप्तिर्नास्ति महोदरस्य बहुभिर्घासैः पलालैरपि ।
हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते
को गृह्णाति कपर्दकैरलमिति ग्राम्यैर्गजो हस्यते ॥ poem big
{{gap}}कदाचित् ग्रामीणाः गजम् ऐदम्प्राथम्येन दृष्टवन्तः । ते अचिन्तयन् अहो, महाकारता एतस्य एषः मेषः इव ऊर्णं न ददाति, क्षीरम् अपि न ददाति । एतम् आरुह्य सञ्चारोऽपि कर्तुं न शक्यः । उन्नतपृष्ठत्वात् एतस्य उपरि भारस्य आरोपणम् अपि न शक्यम् । अस्मै प्रभूतं तृणादिकं दातव्यं भवति । एतस्य निग्रहः अपि क्लेशकरः । अधिकधनस्य दानेन विलक्षणम् एतं को वा क्रीणीयात् वयं तु काश्चन वराटिकाः दातुं शक्नुयाम, तावदेव' इति । स्वयोग्यतानुगुणं चिन्तितं तैः । अल्पाः जनाः महत्तमस्य योग्यतां गुणवत्ताम् उपयोगितां वा अवगन्तुं न अर्हन्ति खलु ?
अज्ञाता एव गृहिणां भक्षयन्त्याखुवद् गृहे ॥ poem big
{{gap}}यदि कश्चन गृहस्थः धनिकः अस्ति तर्हि ततः लाभं प्राप्तुं निरन्तरं प्रयतन्ते जामातारः, भगिनीपुत्राः, मातुः भ्रातरः, पत्न्याः बान्धवाः च । एतादृशाः बान्धवाः बलात् निवारयितुं न शक्याः । गृहस्वामी यथा न जानीयात् तथा एते गृहस्य एैश्वर्यस्य लुण्ठनं कुर्वन्ति । मूषकः अपि एवमेव करोति । अतः एते बान्धवाः मूषकाः इव ।
मिलन्ति यदि चत्वारि तद्दिशेऽपि नमो नमः ॥ poem big
{{gap}}दायादवैरं, ज्ञानशून्यता, कर्णेजापत्वं दारिद्र्यं चेति चत्वारि अपि हानिकारकाणि । यदि एतानि एकत्रैव सम्मिलन्ति तर्हि किं वा वक्तव्यम् एतानि यस्मिन् भवन्ति, सः यत्र निवसति सा दिक् अपि न द्रष्टव्या । दूरात् एव सा दिक् नमस्करणीया ।
सत्यं वैदुष्यमित्येष योगो दारिद्य्रकारकः ॥ poem big
{{gap}}असत्यकथनं चाटुवादश्च धनलाभम् आनयति । सत्यप्रियता वैदुष्यञ्च दारिद्र्यम् आनयति ।
विश्वसम्मोहिनी वित्तदायिनीति गुणद्वयम् ॥ poem big
{{gap}}आयुर्वेदाचार्यः वाग्भटः तुलस्याः विविधान् गुणान् उपवर्णयति । किन्तु तेन तस्याः विशिष्टं गुणद्वयं तु न उक्तम् । तत् गुणद्वयं विश्वसम्मोहिनीत्वं, वित्तावर्जकत्वं चेति ।
एतत् गुणद्वयं कुत्र दृष्टम् इति तुलसीमालां हस्तेन गृहीत्वा तुलसीमणीन् गणयन्तः मठाधीशाः बहवः, धार्मिकपुरुषाः अनेके च विश्वं मोहयन्तः किं धनं न अर्जयन्ति प्रभूततया महाप्राज्ञोऽपि वाग्भटः तुलस्याः एतत् वैशिष्ट्यं ज्ञातुं न शक्तवान् आसीत् । अहो, माहात्म्यातिशयः तुलस्याः !
ब्रूते पङ्कनिमग्नः कर्दमसाम्यं न चन्दनं वहति ॥ poem big
{{gap}}कदाचित् चन्दनकर्दमयोः कलहः प्रवृत्तः ‘आवयोः कतरः श्रेयान्’ इति । तदा कश्चन मण्डूकः माध्यस्थ्यम् आवहत् । मण्डूकः कर्दमप्रियः, कर्दमवासी च इति सर्वे जानन्ति एव । सः अवदत् ‘चन्दनं कर्दमसाम्यं वोढुं न अर्हति । अतः कर्दमः एव श्रेयान्’ इति ।
यः चन्दनमूल्यम् एव न जानाति तस्य निर्णयः एतस्मात् भिन्नं भवितुं न अर्हति खलु एषु दिनेषु एतादृशः व्यवहारः आधिक्येन दृश्यते लोके ।
यदि वेदाः प्रमाणं स्युः कुम्भीपाके भविष्यति ॥ poem big
{{gap}}काचित् प्रेयसी स्वस्य प्रियं विटम् अपृच्छत् आवयोः पुनः मेलनं कदा कुत्र वा भवितुम् अर्हति
तदा विटः झटिति अवदत् अहमस्मि जारः । भवती अपि जारवृत्तिका एव । आवयोः
उभयोः अपि कृत्यं पापाय । एतादृशं पापं ये कुर्वन्ति ते कुम्भीपाकरूपं नरकं गच्छन्ति इति वदन्ति
वेदाः । वेदैः यत् उक्तं तत् प्रमाणं यदि स्यात् तर्हि कुम्भीपाकनामके नरके आवयोः मेलनं तु निश्चयेन भविष्यति' इति ।
किं चाक्षिरोगजनकं च तदस्य भोगे बीजं नृणां नहि नहि व्यसनं विनान्यत् ॥ poem big
{{gap}}तमाखुसेवनम् अद्य विविधैः प्रकारैः दृश्यते । तस्य सेवनं कुर्वतां सङ्ख्या दिने दिने वर्धते अपि । तस्मिन् गुणाः के सन्ति किं तत् औषधम् न । किं तत् सुगन्धि तदपि न । किं तु रमणीयम् सर्वथा न । किं तत् रसवत् तदपि न, शुष्कं नीरसं च तत् । तस्य सेवनात् कर्कादिरोगजनकत्वम् अपि । तथापि जनाः बहुधा सेवन्ते यत् तस्य बीजं किम् कविः वदति ‘दुर्व्यसनप्रियतायाः ऋते नान्यत् किमपि’ इति ।
दुर्व्यसनवतां व्यसनस्य कारणं किमपि न भवति । गुणावगुणादिकं ते न पश्यन्ति अपि ।
पत्राधिक्यं स्पृहेज्जाया माता तु त्रितयं स्पृहेत् ॥ poem big
{{gap}}ताम्बूलं सर्वे जानन्ति एव । जीवने कदाचित् वा तत् सेवितवन्तः स्युः अपि सर्वे । आयुर्वेदः अपि वदति ‘‘ताम्बूलस्य सखे त्रयोदश गुणाः’’ इति । ताम्बूलस्य त्रीणि अङ्गानि सुधा, पूगफलं, नागवल्लीपत्रं चेति ।
ताम्बूलं यत् सेव्यते तत्र सुधाधिक्यं भवतु इति शत्रुः इच्छति । यतः सुधाधिक्ये जिह्वादाहः, ततश्च अस्वास्थ्यम् । शत्रोः एतदेव खलु प्रियम्? वैद्यः इच्छति पूगफलस्य आधिक्यं भवतु इति । पूगफलस्य आधिक्ये अस्वास्थ्यं वर्धते । तस्मात् वैद्यस्य आयोऽपि वर्धते । पत्राणि रागं (रक्तवर्णतां) वर्धयन्ति । अतः पत्नी तम् इच्छति । माता तु त्रितयस्यापि समत्वम् इच्छति । त्रितयस्य समत्वे एव आरोग्यकरत्वम् । पुत्रस्य हितम् एव खलु मातुः प्रियतमम् ?
अर्थशास्त्री समक्षं यो मुष्णाति वसु कोटिशः ॥ poem big
{{gap}}लोके धनवन्तः भवन्ति बहवः । तेभ्यः धनापहर्तारः द्विविधाः प्रत्यक्षचोराः अप्रत्यक्षचोराः चेति । प्रत्यक्षचोराः तावत् महता श्रमेण आपत्तिबहुलं मार्गम् अवलम्बमानाः धनम् अपहरन्ति, क्वचित् अपराधितारोपं प्राप्य कारागारवासम् अनुभवन्ति च ।
परोक्षचोराः तु एवं न । ते कोटिशः धनम् अपहरन्ति । तथापि कारागारवासं तु न प्राप्नुवन्ति । ते सन्ति कराधिकारि-गणनापरीक्षकादयः । न्यायवादिवैद्यादयः एतेषां भ्रातरः इति यदि वदेम तर्हि न सा अत्युक्तिः ।
देशधर्मस्त्वनाचारे पृच्छतां सिद्धमुत्तरम् ॥ poem big
{{gap}}मन्त्रकथनावसरे यदि दोषः भवेत् तर्हि झटिति वक्तव्यम् ‘अस्माकं सम्प्रदायः ईदृशः’ इति । यदि व्याकरणदोषः सम्भवति तर्हि अविलम्बेन कथनीयम् ‘आर्षप्रयोगः एतादृशः एव’ इति । आचारे यदि दोषः कृतः स्यात् तर्हि सपदि एव वदनीयम् -‘अस्मत्प्रदेशे एषः एव आचारः’ इति । एवं पुरोहितः प्रश्नसमनन्तरम् एव उत्तरदानाय सन्नद्धः एव स्यात् ।
अङ्गानि लोमरहितानि हिताय भर्तुः पुच्छं न तुच्छमिति कुत्र समस्तवस्तु ॥ poem big
{{gap}}वनवासम् अङ्गीकृत्य सीता वनं गता खलु तदा वनवासिन्यः वानर्यः तां द्रष्टुम् आगतवत्यः । ताः परस्परं वदन्ति स्म एतस्याः गौरं शरीरम् । नयने विशाले । नासिका, कटिः इत्यादयः अपि प्रशस्ताः । वस्त्रम् अपि विलक्षणं दृश्यते । अङ्गानि रोमरहितानि, येषां च स्पर्शनात् भर्ता सन्तोषम् अनुभवेत् । किन्तु एतस्याम् एका एव न्यूनता नाम एतस्याः तुच्छम् अपि पुच्छं नास्ति इति' इति ।
वानरीणां दृष्ट्या पुच्छराहित्यम् असौन्दर्यस्य लक्षणम् । सुन्दरम् अपि असुन्दरं भावयन्तः एतादृशाः जनाः अद्यापि दृश्यन्ते एव खलु लोके ?
आद्यक्षराणि सङ्गृह्य कायस्थः केन निर्मितः ॥ poem big
{{gap}}यः आधुनिके काले ‘ॐण्ठज्ञढ्ढ’ इत्यादिभिः पदैः निर्दिश्यते, यश्च सर्वकारीयेषु कार्यालयेषु तिष्ठन् सामान्यान् जनान् बहुधा पीडयति सः प्राचीने काले 'कायस्थः' इति निर्दिश्यते स्म । कायस्थवृत्तिमन्तः प्रतिग्रामं, प्रतिनगरं, प्रतिकार्यालयं च भवन्ति एव । तेषां दुर्व्यवहाराः सोढुं न शक्याः, किन्तु अनन्यगतिकतया सोढव्याः एव भवन्ति । तादृशात् कायस्थात् पीडां प्राप्य नितरां खिन्नः कश्चन कविः वदति काकात् चाञ्चल्यं, यमात् क्रौर्यं, स्थपतितः दृढघातितां च सङ्गृह्य तेषां त्रयाणाम् अद्यक्षराणि च सङ्गृह्य ब्रह्मा ‘कायस्थं’ निर्मितवान् स्यात्' इति ।
प्राणिनां कलिना सृष्टाः पञ्च प्राणा इमेऽपरे ॥ poem big
{{gap}}पत्नी यस्य परमप्रिया भवति तस्य परमप्रियाः भवन्ति तदीयाः बान्धवाः अपि । तान् प्राणसमान् भावयति सः । (पत्नीं तु प्राणेभ्योऽपि गरीयसीं भावयति सः) यथा प्राणैः विना कस्यचित् जीवनम् एव असम्भवं तद्वत् एव गृहिणी, तस्याः भगिनी, तस्याः माता, पिता, तस्याः भ्राता इत्येतैः विना अपि सः जीवितुं न शक्नोति । यतः एते पञ्च जनाः बहिश्चराः प्राणाः इव भवन्ति तस्य ।
नो स्थाणुः किमु कीलको न हि पशुस्वामी तु गोप्ता गवां । दोलाखेलनकर्मणीति विजयागौर्योर्वचः पातु वः ॥ काव्यानुशासनात् poem big
{{gap}}दोलाखेलनावसरे कदाचित् लक्ष्मीः पार्वतीम् अवदत् प्रेम्णा गौरि पत्युः नाम उच्यताम् । अन्यथा अहं क्रीडाब्जेन भवतीं ताडयेयम्' इति । तदा पार्वती अवदत् मम पत्युः नाम शिवः' इति । शिवपदस्य शृगालः इत्यर्थं मत्त्वा लक्ष्मीः अपृच्छत् किं भवत्याः पतिः शृगालः इति । 'मम पतिः स्थाणुरिति निर्दिश्यते' इति उक्तवतीं पार्वतीं लक्ष्मीः अवदत् किं सः स्तम्भः इति । 'सः अस्ति पशुपतिः' इति अवदत् पार्वती । 'तन्नाम सः पशून् चारयति इत्यर्थः' इति अवदत् लक्ष्मीः । एतादृशः लक्ष्मीपार्वत्योः संलापः सर्वेषां मङ्गलाय भवतु ।
मनुष्याणां तु तन्मानं गर्ह्यते स कुतः सुधीः ॥ poem big आत्रेयलघुलेखमाला
{{gap}}लोके अश्वशुनकादीनां सत्कुलप्रसूतत्वं प्रशस्यते । उत्तमे कुले जाताः एव ते अधिकं मौल्यम् अर्हन्ति । किन्तु मानवेषु सत्कुलप्रसूतत्वं योग्यतापरिगणनावसरे न परिगण्यते । एतत् तु महते विषादाय एव खलु अहो, कलिकालमहिमा !
भीतोऽवश्यं चौर्याच्चोराणां हेमकाराणाम् ॥ poem big
{{gap}}मेरुपर्वतः जनवसतितः सुदूरे अस्ति । तस्य कारणं कश्चन कविः एवम् उत्प्रेक्षते मेरुपर्वतः सुवर्णमयः इति ख्यातः । सुवर्णकाराः च सुवर्णचौर्यं वृत्तेः अङ्गमेव मन्यन्ते । भगिन्या आभरणनिर्माणाय दत्तस्य सुवर्णस्य कश्चन अंशः सुवर्णकारैः चोर्येत एव इति वचनं श्रूयते लोके । एते सुवर्णकाराः स्वीयं सुवर्णम् अपहरेयुः नैरन्तर्येण इति चिन्तयन् मेरुपर्वतः जनवसतितः दूरे तिष्ठति ।'
अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥ poem big
{{gap}}प्राचीनकालीनः श्लोकः अयं वदति कविः यां कवितां रचयेत् सा कदाचित् अश्वप्राप्तिकारणं भवेत्, पुनः कदाचित् गजप्राप्तिकारणं स्यात्, ग्रामप्राप्तिकारणं वा भवेत् । एतादृशं महत् किमपि न प्राप्येत चेत् वस्त्रं, भोजनं, ताम्बूलं वा तु प्राप्येत एव । एतादृशानां प्राप्तिः कवितायाः योग्यतां, दातुः मनःस्थितिं च अवलम्ब भवति ।
यावदर्थाः प्रसिद्ध्यन्ति यावच्चापलमावृतम् ॥ poem big
{{gap}}यः उपायज्ञः स्यात् सः घटकं कञ्चित् कार्ये नियोज्य, विविधैः उपायैः तं बहुधा सन्तोष्य कार्यसिद्धिं निश्चित्य डाम्भिकानि वचनानि वदति जनानां पुरतः न कापि अपेक्षा मम । अहं सर्वथा निःस्पृहः अस्मि' इति । कार्यसिद्धिपर्यन्तम् एव एषः व्यवहारः । फले हस्तगते निःस्पृहतादयः तेन सर्वथा विस्मृताः भवन्ति ।
राजकर्णे जपः सद्यः सर्वकर्मविनाशनः ॥ poem big
{{gap}}गोकर्णक्षेत्रे यदि जपः क्रियेत तर्हि दुष्कार्यजन्यानि पापानि अपगतानि भवेयुः । भद्रजनकर्णे यदि कृतम् अकार्यादिकं पात्येत तर्हि तस्य मार्गदर्शनात् दुष्कर्मणां फलं क्षीणं भवेत् । किन्तु राज्ञः कर्णे यदि कश्चित् अस्मद्विरुद्धं पिशुनतासूचकं किमपि वदेत् तर्हि अस्मदीयानि सर्वाणि कार्याणि विनष्टानि भवेयुः ।
जीर्णौ च मातापितरौ एकैकं नरकाधिकम् ॥ poem big
{{gap}}यस्य उभे भार्ये, बहवः पुत्राः, महत् दारिद्र्यं, रोगपीडा पौनःपुन्येन, मातापितरौ वृद्धौ च, तस्य गृहं नरकम् अपि अतिशेते । वस्तुतः तु एतेषु एकैकस्य अंशस्य सत्त्वात् अपि जीवनं नरकायेत । एवं स्थिते सर्वेषाम् अंशानाम् एकत्र एव संस्थित्या जीवनं कुतः न अतिनरकायेत ?
अश्रान्तकलहो नाम योगोऽयं गृहमेधिनाम् ॥ poem big
{{gap}}कश्चन गृहस्थः । तस्य उभे भार्ये । तयोः परस्परं कलहः । उभयोः अपि बहवः पुत्राः । पतिविहीना भगिनी अपि तस्य गृहम् आश्रितवती अस्ति अनन्यगतिकतया । एतादृशस्य गृहस्थस्य जीवने 'अश्रान्तकलहः' नाम योगः स्थिरतया तिष्ठति इत्यत्र कः सन्देहः एषः 'अश्रान्तकलह'योगः बहुषु गृहेषु द्रष्टुं शक्यः पूर्वोक्तेषु कारणेषु असत्स्वपि । यतः अखण्डकलहस्य कारणानि अनन्तानि भवितुम् अर्हन्ति ननु ?
कर्तृकर्मव्यतीहारादहो निम्नोन्नतं कियत् ॥ poem big
{{gap}}दातारः अर्थिभिः (याचकैः) अर्थ्यन्ते (प्रार्थ्यन्ते) । ते च याचकाः दातृभिः अर्थिनः (अर्थवन्तः) क्रियन्ते । एतस्मिन् श्लोके 'अर्थी' इत्यस्य अर्थद्वयम् । अर्थयते इति अर्थी याचकः । अर्थाः सन्ति अस्मिन् इति अर्थी धनिकः । ‘अर्थिनः अर्थिनः क्रियन्ते’ इति वाक्यस्य पठनात् विरोधः दृश्यते । ‘अर्थिनः (याचकाः) अर्थिनः (धनिकाः) क्रियन्ते दातृभिः’ इति अवगमनात् विरोधपरिहारः । प्रथमवाक्यस्य कर्ता द्वितीये वाक्ये कर्म, प्रथमवाक्यस्य कर्म द्वितीये वाक्ये कर्ता । एवं कर्तृकर्मपदयोः व्यत्ययात् अर्थव्यत्ययः महान् एव सम्भवति ।
अन्त्राणि यन्न भुक्तानि तस्य हेतुरदन्तता ॥ poem big
{{gap}}कायस्थः नाम गणनालेखकः । स तु उत्कोचस्वीकरणनिपुणः । सर्वस्मादपि सः कथमपि धनं प्राप्नुयात् एव । धनं गिलति सः । एषः स्वभावः जन्मना एव अर्जितः भवति तेन । मातुः गर्भे यदा सः आसीत् तदा कोमलानि मातुः अन्त्राणि किमर्थं तेन न भुक्तानि तत्रापि आमिषत्वं तेन दृष्टं स्यात् एव । तत्र कारणं तु तदीयं दन्तहीनत्वम् । यदि तस्याम् एव अवस्थायां सः दन्तवान् अभविष्यत् तर्हि निश्चयेन मातुः अन्त्राणि अपि अखादिष्यत् एव
एकोनं शतमंशमद्य कर इत्यादाय राज्यस्य यत् पर्याप्नोति न सेवकोदरकृतेऽप्येषा विचित्रा स्थितिः ॥ poem big
{{gap}}पूर्वं राजानः प्रजाभ्यः षष्ठं भागं करत्वेन स्वीकुर्वन्ति स्म । ततः एव राज्यशासनं सुष्ठु प्रचलति स्म । प्रजाश्च सुखेन भवन्ति स्म । किन्तु अद्यत्वे सर्वकारः तु एकोनशततमं भागं (99 स्वीकरोति जनेभ्यः करत्वेन । तथापि सर्वकारेण यत् प्राप्येत तत् तत्रत्यानाम् उद्योगिनां वेतनाय अपि अपर्याप्तं भवति । एवमस्ति शासनदक्षता अहो कालस्य विचित्रा गतिः
पासालसहिता देवाः सदा तिष्ठन्तु मे गृहे ॥ poem big
{{gap}}आपाततः दर्शनात् अस्य श्लोकस्य तात्पर्यं न अवगम्यते । श्लोकार्थः तु ‘‘गरुडः, हंसः वृषभः च येषां वाहनं, त्रिशूलं, शङ्खः चक्रं च येषां हस्ते विराजते, पार्वती सावित्री लक्ष्मीः च येषां पत्न्यः, ते देवाः मम गृहे सदा निवसन्तु’’ इति । पूर्णस्य श्लोकार्थस्य अवगमनात् एव खलु स्वारस्यम् अनुभूयते ?
स्वच्छन्दचरितः क्व श्वा विक्रीतात्मा क्व सेवकः ॥ poem big
{{gap}}सेवा नाम शुनकस्य आचारः इव इति वदन्ति केचन । तत् अयुक्तम् इति एतस्य श्लोकस्य रचयितुः आशयः । शुनकः तु स्वच्छन्दव्यवहारवान् । तस्य सञ्चारे न कस्यापि निर्बन्धः । (पालितः शुनकः बन्धनादिना निर्बध्यते इति तु अन्यत्) सेवकः तु भवति विक्रीतात्मा । अभिमानशून्यतया जीव्यते तेन । अतः सेवकस्य शुनः च न भवितुम् अर्हति सादृश्यम् ।
शत्रुघ्नं भरतं हित्वा सीतया किं प्रयोजनम् poem big
{{gap उत्तमपुच्छयुक्तः, भीकरं शब्दं कुर्वाणः, मनोहरः, सुन्दरकण्ठयुक्तः, क्वचित् उग्ररूपं धरन्, शत्रुसंहारकः, भारवहनसमर्थः वृषभः यदि न भवेत् तर्हि कृषिपद्धत्या न किमपि प्रयोजनम्' इति वदति कश्चन कृषिकः । आपाततः श्लोकस्य दर्शनात् अर्थावगतिम् अप्राप्य चिन्ताक्रान्तानां भवतां सन्देहाः इदानीम् अपगताः स्युः ननु ?
अधिकारमदः पुंसां सर्वाशी राक्षसः क्रूरः ॥ poem big
{{gap}}अधिकारमदः यस्य भवति सः सर्वदा वक्रगतिः भवति, घोरः भवति, परुषवाक्यवक्ता भवति, हठात् आघातं करोति च । स्वेच्छाचारस्य तस्य दुर्व्यवहारस्य इयत्ता एव न भवति । यद्यत् लभ्येत तत्सर्वं स्वायत्तीकर्तुं प्रयतमानः सः क्रूरः राक्षसः एव’ इति सुभाषितस्यास्य आशयः । एतादृशः एव व्यवहारः अधिकारमदमत्तेषु जनेषु अद्यापि दृश्यते एव ननु ?
तावन्माहात्म्यरूपेण पर्यवस्यति मान्त्रिके ॥ poem big
{{gap}}मान्त्रिकाः, ज्योतिषिकाः, पुरोहिताः, नेतारः इत्यादयः स्वमाहात्म्यं वर्धयितुम् इच्छन्ति सदापि । तान् उद्दिश्य कविः कश्चन अत्र मार्गद्वयं दर्शयति । 'करणीये कार्ये अज्ञानं यदि स्यात् तर्हि मौनम् आचरणीयम् । अथवा विलक्षणः व्यवहारः करणीयः । तदा अनयोः व्यवहारयोः विशिष्टार्थं कञ्चित् परिकल्पयन्तः द्रष्टारः आचरितरि अधिकं गौरवं प्रदर्शयन्ति ।'
<DOC_END>
<DOC_START>
मौनमेकान्तिता चेति मूर्खसञ्जीवनानि षट् ॥ poem big
{{gap}}मूर्खोऽपि सुखेन यदि जीवितुम् इच्छति तर्हि तेन कौपीनं धृत्वा भस्मना शरीरस्य लेपनं करणीयम् । दर्भासने उपविश्य रुद्राक्षमालिका चालनीया हस्तेन । एकान्ते वसता तेन मौनम् अवलम्बनीयम् । एतावत् कृतं चेत् जनाः अहमहमिकया आगत्य प्रणमन्ति, अर्चन्ति, सत्कुर्वन्ति च ।
अतः मूर्खता अस्ति चेदपि चिन्ता न करणीया । वेषधारणात् जनप्रीतिः प्राप्तुं शक्या निश्चयेन ।
धर्मवादं विना केन भवेदुदरपूरणम् ॥ poem big
{{gap}}लोके कृषिवाणिज्यादिषु निपुणाः स्ववृत्त्या आनन्देन जीवन्ति । तद्रहिताः अपि यदि बुद्धिमन्तः स्युः ते अपि आनन्देन जीवन्ति । किन्तु केचन कृषिवाणिज्यादिषु अनिपुणाः, बुद्धिपौरुषेण हीनाः च भवन्ति । ते कथं जीवन्ति ते तु धर्मोपदेशव्याजेन जीवन्ति ।
सत्यं खलु एतत् धर्मोपदेशकाः सर्वे वैराग्यवन्तः, धर्मैकसक्ताः वा न भवन्ति । केचन उपजीविकायै एव धर्मोपदेशम् अवलम्बितवन्तः भवन्ति । अस्माकं देशे धर्मोपदेशकानां विषये महती श्रद्धा भवति सामान्यानाम् । अतः तेषां जीवनं प्रचलति निरातङ्कम् ।
बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥ poem big
{{gap}}लोके केचन पौरुषेण जीवन्ति । शरीरबलप्रधानं कार्यं कुर्वन्ति ते । अन्ये केचन बुद्धिप्रधानानि कार्याणि कुर्वन्तः जीवन्ति । एतादृशम् उभयविधम् अपि सामर्थ्यं येषां न भवति ते अग्निहोत्रादिकं, त्रीन् वेदान्, त्रिपुण्ड्रधारणं, भस्मधारणं वा अवलम्ब्य जीवन्ति ।
मान्त्रिकास्तु भविष्यामो योगिनो यतयोऽपि वा ॥ poem big
{{gap}}विद्या हि श्रमसाध्या । अतः एव प्राचीनैः उक्तम् ‘अलसस्य कुतो विद्या’ इति । किन्तु केचन अल्पां विद्याम् अधिगत्य चिन्तयन्ति इतः परं मया अध्येतुं सर्वथा न शक्यते इति । तादृशः कश्चन प्राप्ताल्पविद्यः अलसः वदति ‘विद्यायां मनः न प्रवर्तते मम । अतः मान्त्रिकः ज्योतिषिकः, पुरोहितः वा) योगी यतिः वा भविष्यामि’ इति । मान्त्रिकत्वयोगित्वयतित्वादीनि अपि वस्तुतः प्रयत्नसाध्यानि एव । किन्तु तत्र डाम्भिकाः अपि अल्पेन एव प्रयत्नेन ख्यातिं प्राप्तुम् अर्हन्ति । अतः एव अद्य एतादृशेषु क्षेत्रेषु डाम्भिकानाम् एव विजृम्भणं दृश्यते, न तु योग्यतावताम् ।
<DOC_END>
<DOC_START>
अहो महदिदं भूतमुत्तमर्णाभिशब्दितम् ॥ poem big
{{gap}}यस्य स्मरणमात्रेण शरीरं शक्तिहीनं भवेत्, यस्य दर्शनात् बुद्धिः कार्यासमर्था भवेत् सः कः स तु अस्ति ‘ऋणदाता’ । तस्य महापिशाचस्य पीडा तु अवर्णनीया । अतः एव स्मरणमात्रात् एव शरीरे कम्पः । दर्शनेन तु जङ्घाबलं विलुप्यते अतः एव प्राचीनैः उक्तम् ‘ऋणगर्ते पतनं विनाशाय’ इति ।
न कालनियमः कश्चित् उत्तमर्णस्य विद्यते ॥ poem big
{{gap}}यावत् मरणकालः सन्निहितः न भवेत् तावत् यमः अपि कस्यापि प्राणान् अपहर्तुं नार्हति । किन्तु तादृशं कालनियमं न अनुसरति ऋणदाता । यदाकदाचित् गृहद्वारे उपस्थाय ‘ऋणं प्रत्यर्पणीयम् इदानीम् एव’ इति भीतिजननपूर्वकं वदन् ऋणस्वीकर्तुः प्राणहरणाय एव उद्यतः भवति सः ।
<DOC_END>
<DOC_START>
गृहिणी स्वजनं वक्ति शुष्काहारमिताशनम् ।
गृहं प्रति अतिथित्वेन पतिबान्धवाः आगच्छन्ति, पत्नीबान्धवाः अपि आगच्छन्ति । यदा पतिबान्धवाः आगच्छन्ति तदा पत्नी वदति भवतः बान्धवाः बहु खादन्ति, गृहे स्थितं क्षीरं ते एव पिबन्ति बहुधा । तावदेव न, गृहे स्थितानि वस्तूनि चोरयित्वा नयन्ति अपि' इति । यदा स्वस्य बान्धवाः आगच्छन्ति तदा सा वदति अहो, मम बान्धवाः शुष्कम् एव आहारं सेवन्ते । मितम् एव सेवन्ते इति । एषः एव लोकव्यवहारः नाम ।
आः पाकं करोषि पापिनि कथं पापी त्वदीयः पिता
निर्गच्छ त्वरितं गृहाद्बहिरितो नेदं त्वदीयं गृहम्
चेदेवं बहिरेमि गर्दभगृहान्नात्रवतिष्ठे क्षणम् ॥
यत्र विषमदाम्पत्यं भवति तत्र कलहः प्रवर्तते प्रतिदिनम् अपि । तादृशस्य विषमदाम्पत्यस्य चित्रणम् अस्ति अत्र । पत्न्या पाकः न कृतः इत्यतः कुपितः पतिः पृच्छति अये दुष्टे, पापिनि, किमर्थं पाकः न कृतः त्वया ?’ इति । तदा कुपिता पत्नी प्रत्युत्तरं वदति ‘नाहं पापिनी । तव पिता एव पापी’ इति । एतत् श्रुतवतः पत्युः कोपः प्रवृद्धः । सः अवदत् ‘रण्डे, किमर्थं वृथा जल्पसि ?’ इति । तदा पत्नी आह ‘तव जननी रण्डा, तव भगिनी च रण्डा, न अहम्’ इति । एतस्मात् क्रुद्धः पतिः गर्जति ‘एतादृशानि दुर्वचनानि वदन्ती त्वम् अत्र स्थातुं नार्हसि । त्वरितं निर्गच्छ इतः’ इति । ‘एवं चेत् एषाऽहं निर्गच्छामि । गर्दभस्य तव गृहे क्षणमात्रम् अपि न तिष्ठामि’ इति वदति पत्नी ।
अहो विषमदाम्प्यत्ययुक्तस्य गृहस्य दुर्गतिः ।
भाण्डानि शतसहस्रं भग्नानि मम मस्तके ।
अहो गुणवती भार्या भाण्डमूल्यं न याचते ॥
कश्चन शान्तस्वभावः आसीत् । तस्य पत्नी तु चण्डी । यदा यदा कोपः प्राप्यते तदा तदा सा मृद्घटेन पतिं शिरसि प्रहरति । एवं शताधिकाः सहस्राधिकाः च घटाः भग्नाः । एतादृशीम् अपि पत्नीं सः वर्णयति ‘अहो, सा गुणवती !’ इति । ‘बहुवारं घटाः भग्नाः चेदपि तया एकवारम् अपि भाण्डमूल्यं न याचितम् । अतः सा गुणवती एव’ इति अभिप्रैति सः ।
पीडाकरीं पत्नीम् अपि गुणवतीं कथयतः तस्य कथनं वयं किमर्थं निराकुर्याम ?
मध्ये चाखुरिवाभाति पत्नीद्वययुतो नरः ॥
अनपत्यताकारणतः, अर्थलाभादिहेतुना, अन्यकारणेन वा केचन पत्नीद्वययुताः भवन्ति । तादृशानां जीवनं नितरां शोचनीयं भवति प्रायः । मार्जारेण अनुधाव्यमानः कश्चन मूषकः कदाचित् एकं बिलं प्राविशत् । तस्य पुरतः उपस्थितः आसीत् घोरः सर्पः अग्रे गतं चेत् सर्पात् अपायः, पृष्ठतः गतं चेत्, तत्रैव स्थितं चेत् वा मार्जारात् विपत्तिः । एतादृश्यां स्थितौ सः वराकः अनन्यगतिकः किं वा कुर्यात् तस्य यथा, तथैव भवति पत्नीद्वययुतस्य मनुष्यस्यापि स्थितिः । एवं ननु ?
<DOC_END>
<DOC_START>
प्रबुध्यमाने सारल्यं प्रबुद्धेऽस्मिन् पलायनम् ॥ poem big
{{gap}}पत्न्या: भ्राता (श्याल यावत् बाल: भवति तावत् जामाता श्वशुरगृहे अधिकाधिकवक्रतां दर्शयति । किन्तु यथा यथा श्यालस्य प्रबुद्धता वर्धते तथा तथा जामातु: व्यवहारे सरलता दृश्यते । किन्तु यदा श्याल: प्रबुद्ध: भवति तदा तु जामाता स्वस्य वक्रतां सर्वथा न्यूनीकरोति । तावदेव न, प्रबुद्धे च श्याले, श्वशुरगृहं प्रति गमनम् अपि न्यूनीकरोति स: । यत्र पूजा अल्पा तत्र अनादर: खलु भवति ?
श्वशुरः तु प्रवासी च जामातुर्भाग्यकारणात् ॥ poem big
{{gap}}यस्य भार्या स्वमातापित्रोः ज्येष्ठपुत्री भवति, श्यालः च अल्पवयस्कः भवति, श्वश्रूः च स्वातन्त्र्येणा व्यवहरन्ती भवति, श्वशुरः सदा प्रवासनिरतः भवति तादृशस्य जामातुः परमसौभाग्यम् ।
यतः श्वशुरगृहस्य सम्पत्तेः उपयोगे न कोऽपि विघ्नः तस्य । एतादृशं जामातृत्वं सौभाग्यात् एव लभ्यते ।
कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥ poem big
{{gap}}लोके ‘नव ग्रहाः सन्ति ’ इति सर्वे जानन्ति एव । किन्तु कविः वदति दशमः अपि कश्चन ग्रहः अस्ति इति । जामाता एव दशमः इति कवेः आशयः । कथं तस्य ग्रहत्वम् इति पृष्टे कविः वदति – ‘जामाता कन्याराशौ तिष्ठति । क्वचित् तुष्टः भवति, पुनः क्वचित् रुष्टः भवति । सदा पूजां (सम्माननं) च अपेक्षते । ग्रहाणां स्वरुपम् अपि एवम् एव । अतः जामाता दशमः ग्रहः इत्यत्र नास्ति सन्देहः’ इति । अन्यग्रहाणां परिणामः समग्रे लोके भवति । किन्तु जामातृग्रहस्य परिणामस्तु श्वशुरगृहमात्रे भवति ।
यदि भवति दिनानि त्रीणि पञ्चाथ सप्त ।
तदुपरि निवसेत् चेत् पादरक्षाप्रयोगः ॥ poem big
{{gap}}‘सारं श्वशुरमन्दिरम्’ इति मत्वा श्वशुरगृहे दीर्घवासः न करणीयः इति बोधयति कश्चन कविः । यदि श्वशुरगृहे द्वित्राणि पञ्चषाणि वा दिनानि वासः क्रियते तर्हि स्वर्गसुखम् एव अनुभूयते । भक्ष्यभोज्यक्षीरादिदानैः जामाता बहुधा सत्क्रियते । यदि सः दीर्घकालं तत्र वसेत् तर्हि कःपदार्थः इव परिगण्येत । पादरक्षाप्रयोगः तत्सदृशः अन्यः अवमानकरः व्यवहारः वा तत्र भवेत् कदाचित् । अतः श्वशुरगृहवासविषये औचित्यप्रज्ञा सदा भवतु, परगृहवासविषये अपि यदि एषा औचित्यप्रज्ञा स्यात् तर्हि अपि वरम् एव ।
हरो हिमालये शेते हरिश्शेते महोदधौ ॥</poem big
{{gap}}ईश्वरः हिमालये, विष्णुः समुद्रे च किमर्थं शयनं कुरुतः कविः कश्चन कथयति – ’श्वशुरगृहवासः एव निस्सारे एतस्मिन् संसारे सारभूतम् इति तौ चिन्तयतः इत्यतः तथा कुरुतः‘ इति ।
श्वशुरगृहे जामातुः विशेषादरः भवत्येव । अतः एतत् अपि उत्तरं युक्तं स्यात् कदाचित् ।
<DOC_END>
<DOC_START>
निर्माय खलजिह्वाग्रं सर्वप्राणहरं नृणाम् ।
चकार हि वृथा शश्त्रविषवह्नीन् प्रजापतिः ॥
लोके अग्निशस्त्रविषादयः प्राणहरत्वेन ख्याताः । प्रजापतिः प्राणहरणाय आदौ तानि विषादीनि एव असृजत् । किन्तु अनन्तरकाले पिशुनजनानां जिह्वा तेन सृष्टा तत्कार्याय एव । खलजिह्वायाः सृष्टेः अनन्तरं प्राणहरणकार्यं समग्रं तया एव क्रियमाणम् अभवत् इत्यतः विषादीनां सृष्टिः व्यर्था जाता । अपारसामर्थ्यवति वस्तुनि स्थिते अल्पसामर्थ्यवन्ति वस्तूनि अप्रयोजनकारीणि खलु भवन्ति ?
कदाचित् दन्ता: जिह्वाम् अवदन् हे जिह्वे, वयं बहव: स्म: । भवती एकाकिनी अस्ति । वयं सर्वे सम्भूय भवतीं दशाम: चेत् एकाकिनी असहाया भवती किं वा कुर्यात् इति ।
तदा जिह्वा शान्तेन स्वरेण अवदत् भवन्त: बहुसंख्याका: स्यु: नाम । एकाकिनी अपि सती अहम् असहाया तु न । यदि भवन्त: मां दशेयु: तर्हि अहं तादृशम् एकं वाक्यं वदिष्यामि येन श्रोता क्रुद्ध: सन् हस्तप्रहारेण भवत: सर्वान् पातयेत्' इति ।
सत्यं खलु लोके बलवत्त्वम् असहायकता च तत्तस्य बुद्धिमत्ताम् अवलम्बते ?
<DOC_END>
<DOC_START>
आयुःप्रश्ने दीर्घमायुः वाच्यं मौहूर्तिकैः द्विजैः ।
जीवन्तो बहु मन्यन्ते मृता जीवन्ति किं पुनः ॥
यदि कश्चित् ज्योतिषिकं मम आयुः कियत् इति पृच्छति तर्हि 'दीर्घायुः भवान्' इत्येव वक्तव्यम् । तन्नाम 'शताधिकवर्षाणि जीविष्यति भवान्' इति वक्तव्यम् । यः तावद्दीर्घं जीविष्यति स तु ज्योतिषिकविषये परमादरं प्रकटयति एव । यः अल्पे एव वयसि दिवं गतःस तु ज्योतिषिकसमीपम् आगन्तुं नार्हति । अतः दीर्घायुष्कत्वकथनात् न कापि हानिः ।
पुत्र इत्येव पितरि कन्यकेत्येव मातरि ।
गर्भप्रश्नेषु कथयन् दैवज्ञो विजयी भवेत् ॥
गर्भवती यदा पृच्छति मम पुत्रः जायते, उत पुत्री इति, तदा पुत्री इति, तस्याः पतिः यदा एतं प्रश्नं पृच्छति तदा पुत्रः इति च यः ज्योतिषिकः वदति सः निश्चयेन खलु जनप्रियतां प्राप्य प्रभूतं धनं सम्पादयेत् प्रियवक्तरि सर्वे खलु तुष्यन्ति ?
अपि सागरपर्यन्ता विचेतव्या वसुन्धरा ।
देशो ह्यरत्निमात्रोऽपि नास्ति दैवज्ञवर्जितः ॥ कलिविडम्बना
ज्योतिषिकाः (दैवज्ञाः) भवन्ति एव सर्वत्र । शास्त्रं समग्रम् अधीत्य ज्योतिषिकत्वस्य प्राप्तिः अन्या । शास्त्रस्य अल्पं भागम् अधीत्य ज्योतिषवृत्तिम् अवलम्ब्य जीवनयापनम् अन्यत् । लोके आधिक्येन दृश्यन्ते द्वितीयविधाः एव 'ज्योतिषिकाः' । तान् मनसि निधाय कविः वदति समग्रे प्रपञ्चे अन्वेषणं क्रियेत चेदपि ज्योतिषिकविरहता अल्पा अपि भूमिः न प्राप्येत' इति । कवेः कथने उत्प्रेक्षांशस्य अल्पता एव इति भासते खलु ?
सर्वं कोटिद्वयोपेतं सर्वं कालद्वयावधि ।
सर्वं व्यामिश्रमिव च वक्तव्यं दैवचिन्तकैः ॥
जातकफलं ज्ञातुं यदा जनाः आगच्छन्ति तदा ज्योतिषिकेण सर्वदा 'एवं भवति, एवं वा भवति' इति द्विविधम् उत्तरं वक्तव्यम् । तथैव 'अमुककाले भवति, अमुककाले वा भवति' इति कालद्वयात्मकतया वक्तव्यम् । सर्वम् अपि भ्रमजनकतया अपि वक्तव्यम् । तदा एव ज्योतिषिकः आक्षेप्तॄणाम् आक्षेपात् आत्मानं रक्षितुम् अर्हति ।
<DOC_END>
<DOC_START>
लोभः पितातिवृद्धो जननी माया सहोदरः कूटः ।
भु्रकुटिरचना च विद्या पुत्रो दम्भस्य हुङ्कारः ॥
अन्येषां तोषणाय कृत्रिमान् व्यवहारान् यः आचरति सः उच्यते ‘दम्भः’ इति । लोभः एव तस्य पिता । मायापूर्णा व्यवहृतिः तस्य माता । कुटिलव्यवहारः तस्य भ्राता । भ्रुकुटिवक्रतादिकं (कोपादिकं) तस्य कौशलम् । हुङ्कारः भवति तस्य पुत्रः । एतादृशानां साहाय्ये सति, इष्टस्य साधनं क्लेशाय भवेत् कथम् ?
यथा जानन्ति बहवः यथा वक्ष्यन्ति दातरि ।
तथा धर्मं चरेन्नित्यं न वृथा किञ्चिदाचरेत् ॥
धार्मिककार्याणाम् उद्देशः उभयथा भवति । केचन तानि कार्याणि पारलौकिकसुखाय कुर्वन्ति । अन्ये केचन ततः ऐहिकलाभं प्राप्तुम् इच्छन्ति । ये ऐहिकलाभेच्छवः तान् उद्दिश्य कविः अत्र कांश्चन उपायान् वदति । सर्वे यथा पश्येयुः (जानीयुः वा) तथा धर्माचरणं करणीयम् इति तु प्रथमः अंशः । दानशीलानां कर्णपथम् अपि धर्माचरणवार्ता यथा प्राप्नुयात् तथा जागरूकता वोढव्या इति तु द्वितीयः अंशः । एतादृशानि प्रयोजनानि यस्मात् न भवेयुः तादृशं धर्माचरणं न करणीयम् इति तु कवेः आप्तोपदेशः ।
तावद्दीर्घं नित्यकर्म यावत् स्याद्रष्टृमेलनम् ।
तावत्संक्षिप्यते सर्वं यावद्द्रष्टा न विद्यते ॥
दम्भाचारार्थं ये सन्ध्यावन्दनदेवपूजनादिकं कुर्वन्ति तेषां कृत्यानि द्रष्टृणाम् उपस्थितिं संख्यां च अवलम्बन्ते । यदि द्रष्टारः भवन्ति तर्हि जपमालाचालनं, देवस्थापनम्, अलङ्कारः, नीराजनम् इत्यादिकं दीर्घकालं यावत् महता आटोपेन भवति । यदि द्रष्टा कोऽपि न भवति तर्हि सर्वम् अत्यल्पकाले एव परिसमाप्यते द्रष्टुः अभावे आडम्बरस्य किं वा महत्त्वम् अवशिष्येत् ?
दम्भाचारार्थं केचन संन्यासिवेषं धरन्ति । विरक्तिः तेषु नाम मात्रेण अपि न भवति । तेषां सर्वे आचाराः बाह्यप्रदर्शनार्थं जनाकर्षणार्थं च भवति । अतः ते आमध्याह्नं नद्यां नदीतीरे वा तिष्ठन्ति । (यतः मध्याह्नपर्यन्तं तत्र जनानां गमनागमनं भवति एव ।) सर्वे यथा पश्येयुः तथा ते वैभवेन देवपूजां कुर्वन्ति । सर्वदा शुभ्रवेषं काषायवेषं च धरन्ति । एवम् उदरनिमित्तं बहुकृतवेषाः ते ।
<DOC_END>
<DOC_START>
शत्रौ सान्त्वं प्रतीकारः सर्वरोगेषु भेषजम् ।
मृत्यौ मृत्युञ्जयध्यानं दारिद्र्ये तु न किञ्चन ॥
शत्रुत्वं यदा दृश्यते तदा जनैः प्रतीकारः चिन्त्यते । प्रतीकारकारणतः शत्रुता उपशान्ता भवति । रोगेषु उपस्थितेषु जनैः औषधं सेव्यते । औषधसेवनात् रोगोपशमनं भवति । मरणभीतौ उपस्थितायां जनैः मृत्युञ्जयजपः क्रियते । तस्मात् सा भीतिः अपगच्छति । एवं शत्रु-रोग-मरणभीत्यादीनां निवारणाय अस्ति एव कोऽपि मार्गः । किन्तु दारिद्र्यस्य निवारणाय नास्ति एव कोऽपि मार्गः ।
यत्प्रयोगेण धनिनो निर्धनान् शिक्षयन्ति यत् ।
दुःखदं नास्ति दारिद्र्यं तद्वै दर्शनशास्त्रकम् ॥ डा प्रशस्यमित्रशास्त्री)
दारिद्र्यं भवति सदा दुःखकारकम् । किन्तु धनवन्तः जनाः दर्शनशास्त्रोक्तान् अंशान् अवलम्ब्य निर्धनान् बोधयन्ति दारिद्र्यं दुःखदं नास्ति' इति । लोभमोहादयः त्यक्तव्याः इति खलु उपदिशति दर्शनशास्त्रम् स्वयं लोभमोहादिवशं गताः सन्तः धनिनः लोभमोहादित्यागाय दारिद्र्यम् उपकारकम् एव' इति वदन्तः साधनत्वेन दर्शनशास्त्रस्य उपयोगं कुर्वन्ति ।
अयं पटः प्रावरितुं न शक्यते
अयं पटः संवृत एव शोभते ॥
अत्रास्ति कस्यचित् दरिद्रस्य कथा । तत्समीपे सन्ति त्रिचतुराणि वस्त्राणि । एकं वस्त्रं छिन्नसूत्रयुक्तत्वात् धारणयोग्यं न । अपरस्मिन् शताधिकानि रन्ध्राणि दृश्यन्ते । तृतीयम् अस्ति । किन्तु तत् धृतं चेत् जनाः निश्चयेन हसेयुः । चतुर्थम् अपि अस्ति वस्त्रम् । किन्तु पुटीकृत्य स्थापितं चेदेव तस्य शोभा (प्रसारितं तत् मानहानिं जनयेत्) कष्टं खलु दरिद्रजीवनम् ?
रात्रौ जानु दिवा भानुः कृशानुस्सन्ध्ययोर्द्वयोः
एवं शीतं मया नीतं जानुभानुकृशानुभिः ॥
कश्चन निर्धनः अन्येन पृष्टः शीतदिनानि भवता कथं यापितानि ऊर्णवस्त्रादीनि भवतः समीपे न सन्ति खलु इति ।
तदा निर्धनः अवदत् रात्रौ जानुनोः मध्ये मुखं निवेश्य स्थितम् । दिवाकाले भानुः (सूर्यः) मम साहाय्यम् अकरोत् । सन्ध्याकाले (प्रातः सायं च कृशानुः (अग्निः) मम उपकारकः आसीत् । एवं मया जानुभानुकृशानूनां साहाय्येन शीतकालः यापितः' इति ।
न तेन दृष्टं कविना समस्तं
कालिदासः वदति ‘‘यत्र बहवः गुणाः भवन्ति तत्र स्थितः एकः दोषः न लक्ष्यते । चन्द्रे गुणाः बहवः । अतः एव तत्रत्यः कलङ्कः जनैः प्रमुखदोषत्वेन न परिगण्यते’’ इति ।
कश्चन दारिद्र्यपीडितः कालिदासम् अधिक्षिपन् वदति ‘‘कालिदासेन समस्तः प्रपञ्चः न अवलोकितः । अतः सः गुणसन्निपाते एकः दोषः निमज्जति इति वदति । किन्तु दारिद्र्यरूपः कश्चन प्रबलः दोषः अस्ति यश्च कोटिशः गुणान् अपि हरति’’ इति ।
सत्यं खलु एतत् लोके गुणवान् अपि जनः यदि दरिद्रः भवति तस्य उपेक्षा एव प्रचलति सर्वथा ।
अम्बा कुप्यति न मया न स्नुषया
साऽपि नाम्बया न मया ।
अहमपि न तया न तया
वद राजन् कस्य दोषोऽयम् ॥
कश्चन निर्धनः राज्ञः समीपम् आगत्य वदति ‘‘महाराज मम गृहे वयं त्रयः स्मः अहं मम पत्नी माता चेति । मम अम्बा कुप्यति । तत्र कारणं न अहं, न वा मम पत्नी । मम पत्नी अपि कुप्यति । तस्य कारणं न अहं, न वा मम अम्बा । अहम् अपि कुप्यामि । मम पत्नी अम्बा वा तत्र न कारणम् । अस्माकं त्रयाणाम् अपि कोपस्य कारणीभूतः कः ?’’ इति ।
एतत् श्रुतवता राज्ञा अवगतं यत् त्रयाणाम् अपि कोपानां कारणं दारिद्र्यम् एव इति । अतः सः स्वस्य दारिद्र्यं भङ्ग्यन्तरेण कथितवते तस्मै निर्धनाय कवये प्रभूतं धनं दत्तवान् ।
शक्तिं करोति सञ्चारे शीतोष्णे मर्षयत्यपि ।
दीपयत्युदरे वह्निं दारिद्र्यं परमौषधम् ॥
दारिद्र्यं कष्टाय एव इति वदन्ति सर्वे । किन्तु दारिद्र्ये केचन गुणाः अपि सन्ति । दरिद्रः आहारधनादिनिमित्तं सञ्चरति बहुधा । एषा सञ्चारशक्तिः कुतः प्राप्ता तेन दारिद्र्यात् एव खलु दरिद्रे शीतोष्णसहनशक्तिः अपि वर्धते । यतः सहनं विना नान्या गतिः तस्य दरिद्रस्य उदरे जाठराग्निः सदा उद्दीप्तः एव भवति । एवं दारिद्र्यम् उत्तमम् औषधम् इव अपि आचरति
एको हि दोषो गुणसन्निपाते निमज्जीतीन्दोरिति यो बभाषे ।
न तेन दृष्टं कविना समस्तं दारिद्र्यमेकं गुणकोटिहारि ॥
'गुणानां समूहे स्थितः एकः दोषः प्राधान्येन न भासते । चन्दे्र यद्यपि कलङ्कः अस्ति, तथापि शोभातिशयकारणतः सः हानिकारकत्वेन न परिगण्यते' इति कालिदासः उक्तवान् । तं निन्दति कश्चन दारिद्र्यपीडितः कविः सः यद्यपि महाकविः, तथापि प्रपञ्चं समग्रं न परिशीलितवान् । दारिद्र्यरूपः दोषः अस्ति चेत् गुणसमूहे तस्य अदर्शनं दूरे तिष्ठतु, सः एकः एव कोटिगुणान् अपि अपहरति । अतः अनन्तगुणानां खनी अपि कश्चित् यदि निर्धनः भवति तर्हि सः अल्पाम् अपि पूजां न प्राप्नोति' इति ।
<DOC_END>
<DOC_START>
अनृतं चाटुवादश्च धनयोगे महानयम् ।
सत्यं वैदुष्यमित्येष योगो दारिद्र्यकारकः ॥
असत्यम् उक्तं चेत्, प्रीतिकरं वचनम् उक्तं चेत् भवन्तः प्रभूतं धनं सम्पादयितुं शक्नुवन्ति । सत्यवादिता, पाण्डित्यप्राप्त्यर्थं प्रयत्नः च दारिद्र्यं जनयति । एवं धनसम्पादनमार्गः दारिद्र्यहेतुकमार्गश्च भवतां पुरतः अस्ति । यत् इष्यते तत् चेतुं स्वतन्त्राः भवन्तः ।
कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥
अनर्हः कश्चित् अकाले अधिकं धनं यदि प्राप्नुयात् तर्हि स्तुतिकाराणां वचनमेव यथार्थं मन्यते सः । ‘अहम् एव देवः, देवन्द्रो वा’ इति सः चिन्तयति । ‘अन्ये एते जनाः सर्वे कीटवत् सन्ति । एते सर्वे उपेक्षार्हाः’ इति चिन्तयति सः । धनमदः एतत्सर्वं कारयति ।
घृतं न श्रूयते कर्णे दधि स्वप्ने न दृश्यते ।
मुग्धे दुग्धस्य का वार्ता तक्रं शक्रस्य दुर्लभम् ॥
कश्चन निर्धनः । दारिद्र्यपूर्णं जीवनं तस्य । उपवासादिकं तस्य दैनन्दिनजीवनस्य अङ्गम् । एतादृशस्य जीवने दुग्ध-घृत-दध्यादयः नाम्ना अपि न श्रूयन्ते । तादृशः कश्चित् दुग्धादिविषये पत्न्या पृष्टः । प्रायः सद्योविवाहिता सती पतिगृहम् आगता स्यात् सा । पत्न्या पृष्टः सः निर्धनः अवदत् ‘‘मुग्धे भवत्या मम गृहस्य स्थितिः सम्यक् ज्ञाता नास्ति इति अहं भावयामि । घृतम् इति शब्दः एव न श्रुतः मया । दधि तु स्वप्ने अपि न दृष्टम् । दुग्धस्य वार्ता एव नास्ति गृहे । तक्रं तु शक्रस्यापि दुर्लभम् । एवं स्थिते तक्रं गृहे दुर्लभम् इति तु पुनर्वक्तव्यं नास्ति’’ इति ।
क्षणमात्रं ग्रहावेशो याममात्रं सुरामदः ।
दुष्टग्रहाः यदि मानवं प्रविशेयुः तर्हि सः आवेशः अल्पकालं तिष्ठेत् । सुरा यदि केनचित् पीयेत तर्हि तज्जन्यः मदः यामं यावत् तिष्ठेत् । किन्तु अविवेकिभिः प्राप्तः लक्ष्मीमदः तु आजीवनं भवति । अविवेकिनं प्राप्तवती लक्ष्मीः निश्चयेन मदं जनयेत् एव । स च मदः यावज्जीवं भवेत् एव ।
लेखन्या गणकः पत्रे चोरः कुञ्चिकया गृहे ।
चित्रं वितनुतो रन्ध्रं ग्रहीतुं धनिनां धनम् ॥
चोरस्य सदा एका एव चिन्ता ‘कस्य धनिकस्य धनं कथं चोरणीयम्’ इति । भित्तौ रन्ध्रं विधाय धनम् अपहरति सः । धनिकस्य कार्यालये स्थितः गणकः अपि धनम् अपहरति । तदपि रन्ध्रं विधाय एव। किन्तु तत् रन्ध्रं भित्तौ न भवति । प्रत्युत भवति गणनालेखने । गणनालेखने वञ्चनं कृत्वा गणकाः यथा, तथैव महोद्यमपतयः अपि वञ्चनापूर्णां गणनां प्रस्तूय सामान्यानां धनं मज्जयन्तः दृश्यन्ते एषु दिनेषु ।
लाभो हेतुः धनं साध्यं दृष्टान्तस्तु पुरोहितः ।
आत्मोत्कर्षो निगमनम् अनुमानेष्वयं विधिः ॥ कलिविडम्बनम्
अनुभवबलात् व्याप्यवस्तुनः यत् ज्ञानं जायेत तत् अवलम्ब्य व्यापकवस्तुनः ज्ञानम् अनुमानम् । शास्त्रचर्चायाम् एषा अनुमानप्रक्रिया बहुधा उपयुज्यते । किन्तु अद्यत्वे दृश्यन्ते सर्वे धनेप्सवः । अतः जनानां लक्ष्यं भवति कथमपि धनं सम्पादनीयम् इति । धनप्राप्त्या एव सुखादिलाभाः भवन्ति इति चिन्तयन्ति ते । पुरोहितादयः यथा अल्पश्रमेण धनं सम्पादयन्ति तथा करणीयम् अस्माभिः अपि इति तेषां सङ्कल्पः । एवं करणात् एव आत्मनः उत्कर्षः भवेत् इति भावयन्ति ते । एवम् आधुनिके काले हेतुसाध्यदृष्टान्तादीनां स्वरूपं सर्वथा परिवृत्तम् अस्ति ।
अविलम्बे कृत्यसिद्धौ मान्त्रिकैराप्यते यशः ।
विलम्बे विघ्नबाहुल्यं विख्याप्यावाप्यते धनम् ॥
विभिन्नाभिः समस्याभिः ग्रस्ताः जनाः समस्यानां परिहाराय कौशलवताम् अवलम्बनं कुर्वन्ति । ते कौशलवन्तः तु स्वार्थसाधने सुनिपुणाः । आत्मना उक्तस्य उपायस्य आश्रयणेन यदि अविलम्बेन कार्यं सिद्ध्येत् तर्हि ते स्वसामर्थ्यं ख्यापयन्तः कीर्तिम् आसादयन्ति । कार्यसिद्धिं प्राप्तवन्तः तु कृतज्ञताभावेन उपायसूचकाय धनादिकं दद्युः एव । यदि कार्यसिद्धौ विलम्बः स्यात् तर्हि ते उपायसूचकाः वदन्ति विघ्नाः सन्ति बहवः इति । विघ्ननिवारणव्याजेन तैः प्रभूतं धनं स्वीक्रियते एव । एवं कार्यस्य सिद्धिः असिद्धिः वा तेषां लाभाय एव भवति । प्रायः न्यायवादि-वैद्य-पुरोहित-दैवज्ञ-मान्त्रिकादयः एतादृशाः एव भवन्ति ।
अध्यापयन्ति शास्त्राणि तृणीकुर्वन्ति पण्डितान् ।
विस्मारयन्ति जातिं स्वां वराटाः पञ्चषाः करे ॥
धनस्य महिमा केन वा न ज्ञायते यस्य धनमदः भवति सः स्वस्य योग्यतादिकं विस्मरति । तन्नाम धनं तादृशं विस्मरणं कारयति । विदुषां विषये अनादरताम् अपि कारयति तदेव धनम् । यस्य धनमदः भवति सः चिन्तयति यत् मम शास्त्रज्ञानम् उत्कृष्टम् अस्ति, शास्त्राध्यापन-योग्यता अपि मम अस्ति इति । एवं यस्य हस्ते कानिचन नाणकानि भवेयुः सः किं किं न कुर्यात् अहो, धनप्राबल्यविजृम्भणं लोके !
<DOC_END>
<DOC_START>
अविदितसकलसमासः सदस्सु सदा द्वन्द्वमेव जानाति ॥
केचन आत्मानं पण्डितं मन्यन्ते । किन्तु यदा ते विषयस्य उपस्थापनाय उद्युक्ताः भवन्ति तदा न स्मर्यन्ते साधुशब्दाः, विस्मर्यन्ते लिङ्गानि, सर्वे शब्दाः नपुंसकलिङ्गाः इति भ्रान्तिः भवति । (अतः देवालयम्, प्रकोष्ठम् इत्यादीन् प्रयोगान् कुर्वन्ति ते प्रथमाविभक्तौ ।) समासव्यवस्था नितराम् अस्तव्यस्ता भवति । एतादृशे प्रसङ्गे मानसिकद्वन्द्वम् अनुभवन्तः ते यत्किञ्चित् प्रलपन्ति इत्यत्र न किमपि आश्चर्यम् !
पृष्टो विघ्नं कुरुते विस्मृतलट्प्रत्ययोः विद्वान् ॥
विद्वत्सभायां कदाचित् अन्येन पृष्टस्य प्रश्नस्य उत्तरं विस्मृत्यादिवशात् अजानन् विषयोपस्थापकः कष्टम् अनुभवति । विषयस्मरणार्थं बहुधा प्रयत्नं करोति सः । तथापि किमपि न स्मर्यते । तदा स्वस्य असहायकतां गोपयितुं सः नासां पौनः पुन्येन स्पृशन् थूत्कारशब्दं करोति, मिथ्याकासम् उत्पादयति । ध्वनिसमीकरणव्याजेन कण्ठशब्दं करोति । एवं बहुभिः शरीरव्यापारैः सः स्वस्य विस्मृतेः (अज्ञानस्य वा) प्रकाशनं निवारयितुं प्रयतते ।
एषा एव स्थितिः मौखिकपरीक्षासु, कक्ष्यादिषु चापि दृष्टिगोचरतां याति ननु बहुधा ?
<DOC_END>
<DOC_START>
चीयते चित्तविस्फूर्तिः चीयते कायिकं बलम् ।
चीयते पटुता वाचि तस्माच्चाय इति प्रथा ॥ (-आत्रेयलघुलेखमालातः)
लोके तादृशः प्रायः कोऽपि नास्ति, यश्च 'चाय'पेयं न जानीयात् । एतस्य पेयस्य 'चायः' इति नाम किमर्थम् आगतम् कविः वदति – 'एतस्य पानात् स्फूर्तिः चीयते (वर्धते शरीरबलम् अपि चीयते, वचनपाटवम् अपि चीयते । एवं मनसः कार्यस्य वचसः च शक्तेः चायकस्य एतस्य पेयस्य नाम 'चायः' इति जातम्' इति ।
न वयं विप्रतिपत्तिं वदामः कवेः नामकरणविषये ।
गुणत्रययुता माया कापि काफीति कथ्यते ॥ आत्रेयलघुलेखमालातः)
'काफी'नामकं पेयं मायाशबलितम्, गुणत्रयात्मकं च । तस्य मोहकगुणकारणतः मायामयत्वं कदाचित् अङ्गीक्रियेत । किन्तु त्रिगुणात्मकता कथम् कविः वदति पयसः सत्त्वगुणः (श्वेतत्वात्) पूर्णकषायस्य तमोगुणः (कृष्णमयत्वात्) शर्करिकायाः रजोगुणः (चूर्णमयत्वात्) च तस्मिन् अस्ति' इति ।
पेयेऽस्मिन् यद्यपि सात्त्विकता सर्वथा नास्ति, तथापि कविना या युक्तिः दर्शिता तदनुगुणं चिन्तयामः चेत् सत्त्वगुणोपेतत्वम् अपि अङ्गीकरणीयम् एव ।
<DOC_END>
<DOC_START>
सर्वं मार्जन्ति कवयः शालीनां मुष्टिकिङ्कराः ॥ कलिविडम्बनम्
भीरुता, अविनीतता, कृपणता, अविवेकिता इत्यादयः बहवः दुर्गुणाः येषु भवेयुः तान् अपि कवयः स्तुवन्ति ‘एषः गुणानां खनी’ ‘गुणवत्सु अग्रेसरः’ ‘अनन्तगुणसम्पन्नः’ ‘गुणिगणचूडामणिः’ इत्यादिभिः शब्दैः । किमर्थम् एवं क्रियते तैः यतः ते मुष्टिमितस्य धान्यस्य, केषाञ्चित् नाणकानां च दासाः भवन्ति । धनादीनां दासत्वम् आपन्नाः अगुणम् अपि महागुणत्वेन स्तुवन्ति इत्यत्र नास्ति आश्चर्यम् । काकणिकानां प्रभावः एव तादृशः
वर्णयन्ति नराभासान् वाणीं लब्ध्वापि ये जनाः ।
लब्ध्वापि कामधेनुं ते लाङ्गले विनियुञ्जते ॥ कलिविडम्बनम्
केचन प्रतिभावन्तः सन्तोऽपि कस्यचित् अधमस्य स्तुत्या एव कालं यापयन्ति । राजनीतौ स्थितं, मठाधीशत्वम् आप्तवन्तम्, अधिकारिपदे विराजमानं वा कञ्चित् अधमं स्तुवन्तः कालं यापयन्ति बहवः प्रतिभावन्तः । अस्थाने प्रतिभा विनियुज्यते तैः । तादृशान् दृष्ट्वा कविः वदति ‘‘कामधेनुं प्राप्य एते तां कर्षणकार्ये विनियुञ्जते’ इति । कर्षणकार्ये कामधेन्वाः योजकानां बुद्धिः हतप्रभा जाता अस्ति इति किं पुनर्वक्तव्यम् ?
वासः पुण्येषु तीर्थेषु प्रसिद्धश्च मृतो गुरुः ।
मम वासः अमुके पुण्यक्षेत्रे महापण्डितः अमुकः विद्वान् एव मम गुरुः आसीत् प्रसिद्धाः अमुकजनाः मया पाठिताः एतादृशानि आत्मख्यापनवचनानि ये वदन्ति ते धनसम्पादने विशेषक्लेशं न अनुभवन्ति ।
स्तोतारः के भविष्यन्ति मूर्खस्य जगतीतले ।
न स्तौति चेत्स्वयं च स्वं कदा तस्यास्तु निर्वृतिः ॥
उष्ट्रकस्य विवाहे तु गीतं गायन्ति गर्दभाः ।
परस्परं प्रशंसन्ति अहो रूपमहो ध्वनिः ॥
उष्ट्रस्य रूपसौन्दर्यं सर्वैः ज्ञातम् एव । तादृशस्य कस्यचित् उष्ट्रस्य विवाहावसरे गर्दभाः गायकत्वेन गताः आसन् । गर्दभानां कण्ठस्वरस्य माधुर्यं पुनर्वक्तव्यं नास्ति खलु विवाहमण्डपे गायकाः गर्दभाः उष्ट्रम् अङ्गुल्या निर्दिशन्तः प्रशंसां कृतवन्तः – 'अहो रुपम् उष्ट्रवरस्य' इति । उष्ट्रः अपि गर्दभानां प्रशंसाम् अकरोत्
एतेषाम् अहो कण्ठमाधुर्यम्' इति ।
लोके अपि असमर्थयोः एतादृशी परस्परप्रशंसा क्वचित् दृश्यते एव खलु !
<DOC_END>
<DOC_START>
घटं भिन्द्यात् पटं छिन्द्यात् कुर्यात् रासभरोहणम् ।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥ poem>
तार्किकाः सदापि 'घटः पटः रासभः इत्यादीन् शब्दान् एव उच्चारयन्तः भवन्ति उदाहरणावसरे । अतः कश्चित् तान् उपहसन् वदति घटः भेत्तव्यः, पटः छेत्तव्यः, रासभः आरोढव्यः वा । केनचित् उपायेन प्रसिद्धिप्राप्तिः चिन्तनीया' इति ।
अद्य जनाः एतदेव कुर्वन्तः दृश्यन्ते । प्रसिद्धिप्राप्त्यर्थं विलक्षणान् अर्थहीनान् उपायान् आश्रयन्तोऽपि ते न लज्जन्ते ।
नीचैरनीचैरतिनीचनीचैः सर्वैरुपायैः फलमेव साध्यम् ॥ poem>
'येन केन प्रकारेण प्रसिद्धपुरुषो भव' इति तु अद्यतनः मन्त्रः । प्रसिद्धिप्राप्तिकाले धनसम्पादनकाले च न्याय्यान्यायस्य चिन्ता उचितानुचितविवेचनं वा न क्रियते अद्य । एतत् अनुचितं न इति वदति कश्चन चाटुश्लोचककारः । सः भगवन्तं महाविष्णुं दर्शयन् वदति विष्णुः इष्टसाधनार्थं क्वचित् त्रिविक्रमः जातः, पुनरन्यदा वामनः । वराहावतारः तेन आश्रितः, मत्स्यकूर्माद्यवताराः अपि अवलम्बिताः । नृसिंहः अपि जातः सः । एवं केनचित् प्रकारेण तेन इष्टं साधितम् । इष्टसाधनकाले उपायस्य नीचानीचता मनसि न स्थापनीया' इति ।
<DOC_END>
<DOC_START>
गन्धं सुवर्णे फलमिक्षुदण्डे नाकारि पुष्पं खलु चन्दनेषु ।
विद्वान् धनाढ्यो नृपतिश्चिरायुः धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥
ब्रह्मा उत्तमवर्णयुक्तम् अमूल्यं सुवर्णं सृष्टवान् । किन्तु तत्र सः गन्धं न योजितवान् । माधुर्ययुक्तम् इक्षुदण्डं सृष्टवान् सः तस्मिन् फलदानसामर्थ्यं न योजितवान् एव । सुगन्धयुक्तं चन्दनवृक्षं सृष्टवान् सः चन्दनवृक्षेषु पुष्पयोजनं विस्मृतवान् । पण्डितान् सृष्टवान् सः तेभ्यः धनानुकूल्यं न कल्पितवान् । सकलभोगसाधनानि राज्ञे दत्तवान् सः दीर्घायुष्यं न दत्तवान् एव । एवं सृष्टिकर्ता बहून् प्रमादान् कृतवान् । सृष्टिकाले योग्यः मार्गदर्शी कोऽपि ब्रह्मणः पार्श्वे न आसीत् यत् तस्यैव फलम् एतत् !
का नाम बुद्धिहीनस्य विधेरस्य विदग्धता ।
कूष्माण्डेषु न यश्चक्रे तैलमूर्णं च दन्तिषु ॥
ब्रह्मा सृष्टिकर्ता । किन्तु तस्य विवेकः न्यूनः इति भाति कदाचित् । सः तैलांशम् अल्पाकारेषु तिलेषु निक्षिप्तवान् । यदि सः एव तैलांशः तेन कूष्माण्डेषु निक्षिप्तः स्यात् तर्हि, अहो, कियत् तैलं प्राप्तम् अभविष्यत् महाकारकः गजः सृष्टः अस्ति तेन । किन्तु ऊर्णं तेन स्थापितं मेषेषु । यदि गजः ऊर्णवत्त्वेन सृष्टः स्यात् तर्हि महान् लाभः खलु अभविष्यत् ?
अजागलस्थं स्तनमुष्ट्रपुच्छम् अण्डद्वयं वाजिगले च केशान् ।
वृथासृजत् साहिणिमारभूपं पूजां न लेभे भुवि पद्मयोनिः ॥
लोके त्रिमूर्तिषु अन्यतमस्य ब्रह्मदेवस्य पूजा नास्ति । तत्र कारणं स्यात् किमपि पौराणिकम् । किन्तु कविः कश्चन वदति ‘‘अजागलस्तनौ, उष्ट्रपुच्छम्, अण्डद्वयम्, अश्वकण्ठे केशाः, साहिणिमारनामकः राजा इत्यादीन् प्रयोजनरहितान् ब्रह्मा सृष्टवान् । अतः एव कुपिताः जनाः ब्रह्मणः पूजां त्यक्तवन्तः’’ इति । निष्प्रयोजकानि कार्याणि कुर्वति जने अनादरः खलु सहजः ?
<DOC_END>
<DOC_START>
सदा जपपटो हस्ते मध्ये मध्येऽक्षिमीलनम् ।
सर्वं ब्रह्मेतिवादश्च सद्यः प्रत्ययहेतवः ॥
सदा हस्तेन जपमालिका धर्तव्या । मध्ये मध्ये नेत्रनिमीलनं कृत्वा ध्यानाभिनयः करणीयः । 'सर्वं खल्विदं ब्रह्म सर्वं ब्रह्ममयम् अहं ब्रह्मास्मि' इत्यादीनि महावाक्यानि पौनःपुन्येन वक्तव्यानि । एतादृशाः व्यवहाराः यस्मिन् भवन्ति तस्मिन् जनाः अवश्यं विश्वासं प्राप्नुवन्ति । जनानां विश्वासः प्राप्तः चेत् जीवने न भविष्यति कापि चिन्ता । एवं ननु ?
बालो विद्याव्यसनी तारुण्ये भोगमनर्गलो भुङ्क्ते ।
जिह्वाचपलो वृद्धः नैकत्र निर्वृतिसुखं लभते ॥ आत्रेयलेखमालातः)
मानवजीवनं लालसामयम् । तृष्णाबहुलम् । तस्मात् एव जीवने असन्तृप्तिः, असन्तोषः च । आ बाल्यात् अपि एषा एव प्रवृत्तिः । बाल्ये विद्यायां व्यसनम् । तत्रापि असन्तृप्तिः । तावता तारुण्यं प्राप्यते । तारुण्ये भोगेच्छा जागर्ति । तत्रापि तृप्तिप्राप्तितः पूर्वम् एव वार्धक्यप्राप्तिः । वार्धके च जिह्वाचापलं बाधते । वार्धक्यस्य अन्ते का स्थितिः इति वयं जानीमः एव । एवं मानवः आजीवनम् अतृप्तिमयम् एव जीवनं यापयति । निर्वृतिविषये चिन्तनं तु कदापि न भवति तस्य ।
मित्रास्मिन् नगरे महान् कथय कः तालद्रुमाणां गणः
को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि ।
को दक्षः परवित्तदारहरणे सर्वेऽपि दक्षाः स्वयम्
कस्माज्जीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥
कश्चन यात्रिकः कञ्चित् ग्रामं प्राप्य अपृच्छत् मित्र अस्मिन् ग्रामे महान् कः अस्ति
ग्रामीणः अवदत् महान्तः अत्र बहवः । तालद्रुमाणां गणः एव अस्ति । तत्रत्याः सर्वे वृक्षाः महान्तः (उन्नताः) एव' इति ।
'दाता कः अस्ति यात्रिकः अपृच्छत् ।
'रजकः । सः प्रातः वस्त्रं नीत्वा सायं ददाति' इति अवदत् ग्रामीणः ।
'अत्र दक्षः कः यात्रिकः अपृच्छत् ।
'अन्येषां धनस्य पत्न्याः च हरणे सर्वे अपि दक्षाः एव इति ग्रामीणः अवदत् ।
'एतादृशे कुत्सिते ग्रामे कथं वासः क्रियते भवता इति अपृच्छत् यात्रिकः ।
'विषकृमिन्यायेन जीवामि । विषे स्थितः कृमिः आदौ कष्टम् अनुभवति चेदपि गच्छता कालेन अभ्यस्तविषवासः सः तत्रैव सुखेन जीवति । तद्वद् अहम् अपि जीवामि' इति विषादेन उक्तवान् ग्रामीणः ।
टीका विरुद्धा मूलस्य गौरवं वहति प्रथाम् ।
स टीकार्थो यदि पृथक् ग्रन्थे कर्षति नो दृशम् ॥ आत्रेयलघुलेखमाला
केनचित् शास्त्रकारेण यः मूलग्रन्थः लिख्येत तं विरुध्य यदि कश्चित् टीकां लिखेत् तर्हि सः महतीं प्रसिद्धिम् आप्नुयात् । सः एव मूलकारस्य आशयं विवृण्वन् महाकारकं टीकाग्रन्थं यदि लिखेत् तर्हि अपि सः प्रसिद्धिं न प्राप्नुयात् । अल्पः अपि विरोधः प्रसिद्धये स्यात् । महान् अपि समर्थनप्रयासः अनादराय स्यात् । एषो हि लोकः
किं तस्य साधनैरन्यैः किङ्कराः सर्वपार्थिवाः ॥
इच्छानुगुणं यः आनन्दं बाष्पं रोमाञ्चं च प्रदर्शियितुं शक्नोति सः, भूमिपतीन् धनिकान् अधिकारिणः वा वशीकर्तुम् अन्यत् साधनं न अपेक्षते । पुरतः स्थितस्य मनः प्रसन्नं यथा स्यात् तथा आचरन्तः बहवः अद्यापि स्वस्य इष्टं साधयन्ति एव । इष्टसाधनम्
एव यस्य उद्देशः, सः किं किं न कुर्यात् ?
मौनं कालविलम्बश्च प्रयाणं भूमिदर्शनम् ।
भ्रुकुटिश्चान्यवार्ता च नकारः षड्विधः स्मृतः ॥
कश्चित् धनं साहाय्यं वा यदा याचते परिश्रमकार्यं सदा सूच्यते, असम्मतं किमपि वा यदा उच्यते तदा निराकृतिः दर्शनीया भवति । प्रत्यक्षतया निराकृतिदर्शनं कदाचित् अप्रियतायै अगौरवाय च भवति । एतादृशेषु प्रसङ्गेषु निषेधप्रदर्शनाय अत्र सन्ति षड् उपायाः । मौनस्य अवलम्बनं श्वः पश्याम' इति कथनं, ततः उत्थाय गमनं, मुखम् अधः कृत्वा उपवेशनं, भ्रुवोः वक्रतासम्पादनम्, अन्यस्य विषयस्य उपस्थापनम् इत्येते एव ते षड् उपायाः ।
लिप्समानेषु वैद्येषु चिरादासाद्य रोगिणम् ।
दायादाः सम्प्ररोहन्ति दैवज्ञा मान्त्रिका अपि ॥
चिरकालानन्तरं रोगी यदि प्राप्येत तर्हि वैद्याः ततः प्रभूतं धनं स्वीकर्तुम् उपायान् चिन्तयन्ति । व्याधिग्रस्ततां वदन्तः महाव्ययसाध्यां चिकित्सां वदन्ति ते । एतस्य दर्शनात् असूयावन्तः दायादाः सन्तुष्टाः भवन्ति सहजतया एव । दैवज्ञमान्त्रिकादयः अपि सन्तुष्टाः भवन्ति इतः परम् अयम् अचिरात् एव अस्मत्समीपम् आगच्छन् अस्मदीयायाः आयवृद्धेः कारणं भविष्यति इति ।
अद्याष्टमीति नवमीति चतुर्दशीति ज्योतिष्यवाचोपवसन्ति भक्त्या ।
अहो, श्रुतेस्तत्त्वमसीति वाक्यं न विश्वसन्तीत्यद्भुतमेतदेव ॥
'अद्य अष्टमी, अतः भोजनं न क्रियते अद्य नवमी, अतः मम उपवासः चतुर्दशीकारणतः उपवासः क्रियते मया' इत्यादीनि वचनानि बहुधा श्रूयन्ते लोके । तादृशेषु दिनेषु उपवासस्य आचरणात् पुण्यम् इति ज्योतिषिकैः यत् उक्तं तत्र विश्वसन्तः जनाः एवं व्यवहरन्ति । किन्तु तत्त्वमसि'प्रभृतिषु वाक्येषु जनाः विश्वासं न कुर्वन्ति । बाह्याचरणे अधिकश्रद्धा, तत्त्वे अश्रद्धा च लोकस्य स्वभावः भवति प्रायः ।
मृता मोहमयी माता जातो ज्ञानमयः सुतः ।
आशौचं वर्तते नित्यं कथं सन्ध्यामुपास्महे ॥
कश्चन वटुः सन्ध्यावन्दनात् पराङ्मुखः आसीत् । कदाचित् तस्य मित्रं तम् अपृच्छत् किं भवान् सन्ध्यावन्दनं न करोति इति ।
'मम आशौचम्' इति अवदत् सः वटुः ।
'भवता कदापि सन्ध्यावन्दनं कृतं न दृष्टं मया । किं प्रतिदिनं आशौचं भवतः इति अपृच्छत् मित्रम् ।
'अथ किम् प्रतिदिनं मोहमयी माता मृता भवति ज्ञानमयः सुतः जायते । एतस्मात् प्रतिदिनं जाताशौचं, मरणाशौचं च मम । अतः एव सन्ध्यावन्दनं न क्रियते मया' इति अवदत् सः वटुः । व्याजकथकाः व्याजत्वेन किं किं न कथयेयुः ?
<DOC_END>
<DOC_START>
अतो मया पुष्पवदेव धार्यते ॥
कस्यचन निर्धनस्य समीपे एकं प्राचीनं जीर्णं च वस्त्रम् आसीत् । तस्य धारणसमये सः विशेषजागरूकतां वहति स्म । 'एतस्य कारणं किम् इति पृष्टः सः वदति-
'एतत् वस्त्रं मम पिता धरति स्म । यदा एतत् नूतनम् आसीत् तदा एतत् पितामहप्रपितामहादयः धरन्ति स्म । एतत् एव मम पुत्रपौत्रदयः अपि धरिष्यन्ति । अतः एव वस्त्रस्य कापि क्षतिः यथा न स्यात् तथा विशेषजागरूकतया पुस्पवत् धरामि' ।
अद्वितीयमहं वन्दे मद्वस्त्रसदृशं विभुम् ॥
कश्चन दरिद्रः स्वसमीपे स्थितं वस्त्रं वर्णयति – 'एतस्य वस्त्रस्य आदिः मध्यम् अन्तं च नास्ति । दशा अपि नास्ति । पुरातनम् अपि एतत् । एतादृशम् अन्यत् नास्ति एव' ।
दरिद्रः अपि सः कविः चतुरः । सः वदति – 'देवः अपि मद्वस्त्रसदृशः अस्ति' इति । कथं देवः जीर्णवस्त्रसदृशः भवेत् इति देवस्य आदिमध्यान्तादयः यथा न सन्ति तथैव एतस्य वस्त्रस्यापि । देवः दशाहीनः (बाल्यादिदशाः तस्य न सन्ति वस्त्रम् अपि दशाहीनम् । देवः पुरातनः । वस्त्रम् अपि तथैव । देवः अद्वितीयः । वस्त्रम् अपि तादृशम् एव । एवं च सिद्धं खलु –जीर्णवस्त्रभगवतोः सादृश्यम्
<DOC_END>
<DOC_START>
न भेतव्यं न बोद्धव्यं न श्राव्यं वादिनो वचः ।
झटिति प्रतिवक्तव्यं सभासु विजिगीषुभिः ॥
सभायां वादप्रतिवादसमये क्वचित् अस्माकम् अपजयः यदा सन्निहितः भवेत्, मदीयः पक्षः दुर्बलः इति भावः यदा अन्तरङ्गे उत्पद्येत तदा मनसि प्रश्नः उद्भवेत् इदानीं किं करणीयम् इति । कश्चन कविः तत्र मार्गम् उपदिशति ‘‘तादृशे प्रसङ्गे न भेतव्यम् इति तु प्रथमः अंशः । अपरः अंशः ‘झटिति उच्चस्वरेण प्रतिवक्तव्यम्’ इति । प्रतिवचनसमये वादिनः कथनस्य अवगमने श्रवणे वा अवधातव्यं नास्ति । यस्य स्वरः उच्चः, यस्य कथनम् अप्रतिहतं तस्य एव जयः’’ इति । एतादृशम् उत्कृष्टम् उपायं ज्ञापितवते तस्मै कवये नमस्कारान् समर्पयेम खलु वयम् ?
पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ॥
वादभाषणस्पर्धादिषु भागं वहता जनेन आदौ अवगन्तव्यं यत् निर्णायकः कीदृशः इति । यदि सः विद्वान् न स्यात् तर्हि अटाटोपादिसहिततया वादः उपस्थापनीयः । तेन प्रभावितः सः निर्णायकः अस्मदानुकूल्येन निर्णयं श्रावयेत् । यदि सः विद्वान् स्यात् तर्हि तस्मिन् पक्षपातप्रवृत्तिः आरोपणीया । वैदुष्येण जयप्राप्तिः एकविधा । तन्त्रकुतन्त्रादिभिः जयप्राप्तिः अन्यविधा । अद्य लोके द्वितीयस्यैव प्रकारस्य अवलम्बनं दृश्यते आधिक्येन ।
<DOC_END>
<DOC_START>
जृम्भमाणेषु रोगेषु म्रियमाणेषु जन्तुषु ।
कश्चन रोगः आकस्मिकतया सर्वत्र प्रसरन् जनेषु भीतिं जनयति । सर्वत्र रोगप्रसरः दृश्यते । जनानां मरणम् अपि आधिक्येन दृश्यते । एतस्य रोगस्य चिकित्सा कीदृशी भवेत् इति अजानन्तः वैद्याः अपि दिग्भ्रान्ताः भवन्ति । विविधेभ्यः जनेभ्यः विविधानाम् औषधानां दानेन गच्छता कालेन वैद्याः अवगच्छन्ति यत् एतस्य रोगस्य निवारणाय एतादृशी चिकित्सा समुचिता स्यात् इति । एवं रोगिणां मरणे वेगेन जायमाने, चिकित्सकेषु व्युत्पत्तिः रोगतत्त्वज्ञानं च मन्दम् उत्पद्यते । अहो विडम्बना एषा ।
ज्ञानवृद्धास्तपोवृद्धाः वयोवृद्धाश्च ये नराः ।
सर्वे च धनवृद्धस्य द्वारि तिष्ठन्ति वारिताः ॥
ज्ञानवृद्धाः, वयोवृद्धाः, तपोवृद्धाः इत्यादयः लोके आदरपात्रभूताः भवन्ति । जनाः तेषु महतीं श्रद्धां वहन्ति । किन्तु खेदस्य विषयः नाम ते ज्ञानवृद्धादयः सर्वे धनवृद्धस्य (धनिकस्य) गृहस्य पुरतः दैन्येन तिष्ठन्ति तेषां प्रवेशः तत्र निवारितः भवति अपि । लोके दृश्यमाना महती विडम्बना खलु एषा
<DOC_END>
<DOC_START>
अवतारत्रयं दृष्ट्वा मानवै: कवलीकृतम् ।
ततस्तु भगवान् साक्षात् नारसिंहं वपुर्दधौ ॥
भगवान् विष्णु: नरसिंहावतारं किमर्थं प्राप्तवान् हिरण्यकशिपो: वधार्थम् इति वदेयु: भवन्त: । किन्तु कश्चन चाटुश्लोककार: एतत् वचनं न अङ्गकिरोति । स: वदति -
भगवता विष्णुना मत्स्यरूपेण, कूर्मरूपेण, वराहरूपेण च भूमौ अवतार: कृत: । किन्तु तान् आहाररूपेण उपयोक्तुं मानवा: यदा उद्युक्ता: तदा तान् दृष्ट्वा क्रुद्ध: भगवान् उग्रं नरसिंहं रूपं धृतवान् । एवम् अवताररूपस्य जीविन: खादनपरम्परा मानवै: या आरब्धा तां भङ्क्तुं भगवान् नरसिंहरूपेण अवतारं प्राप्तवान् इति । स्यात् खलु एवम् अपि ?
कोऽयं द्वारि हरि: प्रयाह्युपवनं शाखामृगस्यात्र किम्
कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् ।
राधेऽहं मधुसूदनो व्रज लतां तामेव पुष्पान्विताम्
इत्थं निर्वचनीकृतो दयितया ह्रीणो हरि: पातु व: ॥
कदाचित् कुत्रापि गत: विष्णु: गृहम् आगत्य द्वारशब्दं कृतवान् । तदा राधा अन्तर्भागत: अपृच्छत् ‘क: भवान् ?’ इति । विष्णुना उक्तम् ‘अहमस्मि हरि:’ इति । हरिशब्दस्य सिंह: इत्यपि अर्थ: । अत: तम् अर्थं मनसि निधाय सा वदति ‘सिंह: वनं गच्छेत् । तस्य नात्र किमपि कार्यम्’ इति । ‘अहं कृष्ण: अस्मि’ इति पुनर्वदति विष्णु: । कृष्णपदस्य कृष्णमुख: वानर: इत्यर्थं परिकल्प्य राधा अवदत् ‘कृष्णमुखात् वानरात् भीति: मम । अत: इत: निर्गच्छ’ इति । ‘अहं मधुसूदन: अस्मि’ इति विष्णुना पुन: उक्तम् । मधुशब्दस्य लतार्थं मन्वाना सा ‘तां पुष्पयुतां लतां प्रति एव गच्छ’ इति अवदत् । एवं युक्तियुक्तेन वचनेन पत्न्या य: मूकीकृत: स: हरि: युष्मान् रक्षतु ।
कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया तथ्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् ।
व्यादेहीति विदारिते च वदने दृष्ट्वा समस्तं जगत् माता यस्य जगाम विस्मयपदं पायात्स न: केशव: ॥
कदाचित् बलभद्र: मातरम् अवदत् अम्ब कृष्णेन मृत्तिका भक्षिता' इति । तदा माता यशोदा कृष्णं पृष्टवती किम् एतत् सत्यम् किं त्वया मृत् भक्षिता इति । किमपि अजानन् इव कृष्ण: अपृच्छत् केन एवम् उक्तम् इति । यशोदा अवदत् बलभद्रेण उक्तम्' इति । 'स: असत्यम् उक्तवान्' इति उक्तवान् कृष्ण । 'रे, मुखम् उद्घाटय, अहं परीक्षे' इति अवदत् यशोदा । कृष्ण: मुखम् उद्घाटितवान् । तदा तत्र यशोदया समस्तं जगत् एव दृष्टम् । तस्मात् सा नितराम् आश्चर्यचकिता जाता ।
'यस्य माता एवं विस्मयं प्राप्तवती । स: केशव: अस्मान् सर्वान्, पातु' इति वदति कवि: ।
एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया
पुत्रस्त्वेको व्यसनरसिकः मन्मथो दुर्निवारः ।
शेषः शय्या वसतिरुदधौ वाहनं पन्नगारिः
स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारिः ॥
विष्णुः काष्ठरूपः सन् पुर्यां तिष्ठति इति सर्वे जानन्ति एव । पुरीनगरे काष्ठमयी विष्णोः मूर्तिः पूज्यते । विष्णुः काष्ठरूपं प्राप्तवान् यत् तस्य कारणम् एवं वदति कश्चन चाटुश्लोककारः –
विष्णोः पत्नीद्वयम् । एका तु मुखरस्वभावा । सर्वदा वदन्ती एव भवति । अपरा चञ्चलचित्ता । तस्याः (लक्ष्म्याः) चञ्चलत्वं सुप्रसिद्धम् । तस्य पुत्रः मम्मथः । सः नियन्त्रणरहितः । शीतलकायः आदिशेषः तदीया शय्या । जलमये समुद्रे वासः । वाहनं तु पक्षी (गरुडः) । एवं नितरां खिन्नः विष्णुः काष्ठरूपं प्राप्तवान् ।
लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम् ।
शेषे धराभराक्रान्ते शेते नारायणः सुखम् ॥
धनिकाः अन्यस्य कष्टदुःखादिकं न जानन्ति कदाचिदपि इति तु लोकसिद्धः विषयः । भगवान् नारायणः अपि लक्ष्मीवान् ।(यतः तस्य पत्नी लक्ष्मीः) अतः तस्मिन् अपि धनिकव्यवहारः दृश्यते । आदिशेषः तस्य शय्या । भूभारवहनात् नितरां परिश्रान्तः अस्ति शेषः । एवं श्रान्तस्य तस्य उपरि नारायणः सुखेन शेते
अङ्गुल्या कः कवाटं प्रहरति कुटिले माधवः किं वसन्तः
नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः ।
नाहं घोराहिमर्दी किमुत खगपतिः नो हरिः किं कपीन्द्रः
इत्येवं सत्यभामाप्रतिवचनजितः पातु वश्चक्रपाणिः ॥
कदाचित् कृष्णः सत्यभामायाः अन्तर्गृहद्वारे शब्दं कृतवान् । तदा सत्यभामा तम् अपृच्छत् –'कः द्वारे शब्दापयति कृष्णः अवदत् – 'अहं माधवः।' माधवः इत्यस्य वसन्तऋतुः इत्यर्थं कल्पयित्वा सत्यभामा अवदत् – 'भवान् वसन्तः वा कृष्णः अवदत् – 'अहं चक्री।’ सुदर्शनचक्रं तस्य अस्ति । अतः सः चक्री । परन्तु कुलालस्य निकटे अपि चक्रं भवति । घटस्य निर्माणे सः चक्रस्य उपयोगं करोति । अतः सत्यभामा 'भवान् कुलालः किम् इति पृच्छति । अहं धरणिधरः इति कृष्णः उक्तवान् । सः भूमिम् उद्धृतवान् आसीत् । परन्तु सत्यभामा भूभारं वहन्तम् आदिशेषं स्मृत्वा 'किं भवान् आदिशेषः इति पृच्छति । तदा तु कृष्णः 'अहं घोरस्य सर्पस्य मर्दनकर्ता' इति अवदत् । कालियमर्दनं तु तेन कृतमेव । परन्तु सत्यभामा अवदत् सर्पनाशकः गरुडः किम् नैव भोः, अहं हरिः' इति कृष्णः अवदत् । 'हरिः' इत्यस्य कपिः इत्यर्थं गृहीत्वा सत्यभामा 'किं त्वं कपिः इति अपृच्छत् । एवं सत्यभामया यः जितः सः कृष्णः भवतः सर्वान् रक्षतु ।
<DOC_END>
<DOC_START>
गृध्री गृध्रं पृच्छति पितृवनमध्ये न दृश्यते धूम: ।
मन्ये सम्प्रति वैद्योऽप्यन्यग्रामं गतो नूनम् ॥
काचित् गृध्री गृध्रं पृच्छति अद्य श्मशानभूमौ धूमोद्गम: एव न दृश्यते किमर्थम् इति । तदा गृध्र: वदति अद्य वैद्य: ग्रामान्तरं गतवान् स्यात् । तस्मात् ग्रामे कस्यापि मरणं न जातम् । अत: अद्य श्मशाने न धूम इति । एतदर्थकानि एतादृशानि वा पद्यानि बहूति दृश्यन्ते संस्कृतक्षेत्रे । प्राय: कवय: वैद्यान् बहुधा निन्दन्त: अपि न तृप्यन्ति । अत्र दोष: कवीनाम् उत वैद्यानाम् इति न विद्म: वयम् ।
मूर्धानं प्रथमं विधूय तदनु ध्यात्वा चिरं मौनवान् आहारं प्रथमं निरुध्य रुचिरानन्यान् विशेषानपि ॥
क्वाथै: कर्शितकायमातुरनरं तैलं घृतं पाचयन् हृत्वा दक्षिणया वसु व्यसुममुं त्यक्त्वा भिषग् धावति ॥
रोगिण: परीक्षायै आगत: वैद्य: आदौ दीर्घकालं परीक्षते । तत: शिरस: इतस्तत: चालनेन रोगिण: अस्वास्थ्याधिक्यं ज्ञापयति । तत: दीर्घकालिकेन मौनेन रोगिणि उद्वेगं जनयति । पथ्यव्याजेन रुचिमयानाम् आहाराणां, मधुरखाद्यादीनां च सेवनस्य निषेधं कृत्वा तिक्तानि औषधानि सेवनीयानि इति आदिशति । जुगुप्सावहानां तैलघृतादीनां सेवनं कारयति । एवं सर्वं कृत्वा रोगिणं बहुधा सम्पीड्य शुल्कत्वेन प्रभूतं धनं स्वीकृत्य रोगिणं च मरणावस्थां प्रापय्य वैद्य: तत: धावति । एतत्सर्वं जानद्भि: अपि जनै: रोगकाले वैद्या: सेवनीया: एव भवन्ति अनन्यगतिकतया । अहो पराधीनता मानवानाम् !
मया चिकित्सितस्सद्यो मार्कण्डेयोऽपि स्यान्मृत: ॥
कश्चन वैद्य: वदति ‘‘अहमस्मि वैद्य: । सर्वेषां व्याधिप्रकाराणाम् आश्रय: अस्मि अहमेव । अपकीर्ति: मम निधि: । यदि मार्कण्डेयोऽपि चिकित्सार्थं मत्समीपम् आगच्छेत् तर्हि तस्यापि मरणं निश्चितम्’’ इति । परमेश्वरभक्तस्य मार्कण्डेयस्य प्राणानाम् अपहरणं कर्तुं यमोऽपि असमर्थ: । परं वैद्य: तस्यापि प्राणान् हरिष्यति निश्चयेन । अत: वैद्यस्य श्रेष्ठता (क्रूरता तु अङ्गीकरणीया एव खलु भवति ?
एतद्वैद्यस्य वैद्यत्वं न वैद्य: प्रभुरायुष: ॥
वैद्यशास्त्रस्य सिद्धान्त: यत् वैद्यशास्त्रवेत्ता चिकित्सया जनसेवां कुर्यात् इति । किन्तु बहव: वैद्या: तां वृत्तिम् आश्रयन्ति धनाशया । अत: कश्चन चाटुश्लोककार: वदति रोगिभ्य: अधिकधनस्य स्वीकारे वैद्या: भवन्ति निपुणा: । रोगिण: मरणे उपस्थिते मौनेन पलायन्ते ते । आयुष: दाने रक्षणे वा न भवति तेषां सामर्थ्यम् आसक्ति: वा' इति ।
अद्यतनवैद्यानां व्यवहारस्य दर्शनात् भाति यत् चाटुश्लोके उक्ते अंशे उत्प्रेक्षा नास्ति इति । एवं ननु ?
त्यजेद्दूराद् भिषक्पाशान् पाशान् वैवस्वतानिव ॥
केचन वैद्या: वैद्यशास्त्रीयान् विषयान् तु अधीतवन्त: भवन्ति, किन्तु शास्त्रसारं न जानन्ति, अनुभवजन्यं ज्ञानं न अर्जयन्ति वा । तादृशानां चिकित्सा बहुत्र यमपाशायेत, तन्नाम सा यमलोकं प्रापयेत् । (अद्य तु तादृशा: वैद्या: बहव: दृश्यन्ते अत: ते दूरात् एव परित्याज्या: । वैद्यवृत्त्यवलम्बनाय अर्हा: न ते ।
बहुमानार्थमन्ते च जिहीर्षन्ति चिकित्सका: ॥
वैद्य: यदि द्रष्टव्य: तर्हि आदौ पञ्जीकरणशुल्कं (ख्रठडड्ढथदज्ञञदड्ढतत् इठठ) दातव्यम् । वैद्य: परीक्ष्य ‘परीक्षणानि कारणीयानि’ इति आदिशति । तदर्थं पुन: व्यय: करणीय: । चिकित्सानिमित्तम् अन्ते वैद्यस्य ड्ढण्ण् अस्मत्पुरत: उपस्थितं भवति । एषा अद्यतनी स्थिति: न । पूर्वमपि एवमेव आसीत् । अत: कश्चन कवि: वदति ‘चिकित्साया: आरम्भे शुल्कं देयम् । तत: औषधनिमित्तं धनं देयम् । अन्ते बहुमानरूपेण धनं देयम् । एवं त्रिषु अपि स्तरेषु (आरम्भे मध्ये अन्ते च) धनम् आहर्तुम् इच्छन्ति वैद्या:’ इति । धनदानात् ऋते का वा गति: स्यात् रोगिण
भैषज्यं तु यथाकामं पथ्यं तु कठिनं वदेत् ।
यदा रोगी आगच्छति तदा चतुरेण वैद्येन औषधं तु यत्किमपि वक्तव्यं, किन्तु पथ्यं तु कठिनं वक्तव्यम् । यदि दैवानुग्रहात् आरोग्यं भवति तर्हि वरम् एव । मम चिकित्साप्रभावत: एव भवत: स्वास्थ्यलाभ: जात इति वक्तुं शक्यते । यदि अनारोग्यं वर्धते तर्हि 'अपथ्यकारणत: एवं जातम्' इति वक्तुं शक्यते एव ।
वैद्यानां शारदी माता पिता च कुसुमाकर: ।
यमदंष्ट्रा स्वसा प्रोक्ता हितभुक् मितभुक् रिपु: ॥
शरत्काले रोगाणां वृद्धि: सहजा । अत: ताम् ऋतुं वैद्या: मातरं मन्यन्ते । वसन्तकाले आमोदप्रमोदादय: अधिका: । तत्कारणत: व्याधय: वर्धन्ते । अत: वसन्तं ते पितरं मन्यन्ते । यम: दंष्ट्राभि: यान् दशति तेषां विपत्ति: निश्चिता । अत: यमदंष्ट्रा तेषां स्वसा भवति । ये हिताहारसेविन: मिताहारसेविन: च भवन्ति ते सर्वदा स्वस्था: एव भवन्त: वैद्यं न पश्यन्ति । अत: ते वैद्यस्य शत्रव:’ इति वदति कश्चन चाटुकार: ।
दृष्टे रवौ सरसिजं कुमुदं हिमांशौ नीलम्बुवाहनिबिडे गगने शिखी च ।
प्रायस्तथा न हि भजन्ति विकासलक्ष्मीं व्याधौ यथा धनवतां भिषजां मुखानि ॥
सूर्य: दृष्ट: चेत् कमलिन्या: मुखं विकसितं भवति । चन्द्र: दृष्ट: चेत् कुमुदिन्या: मुखं सुविशालं भवति आनन्दातिशयात् । आकाशे मेघा: दृष्टा: चेत् मयूर: विकसितान्तरङ्ग: भवति । एतै: त्रिभि: यावान् आनन्द: प्राप्येत ततोऽपि अधिक: आनन्द: वैद्येन प्राप्येत, यदा महाधनिक: कश्चित् अस्वस्थ: सन् चिकित्सालयद्वारे उपस्थित: भवेत् ।
चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयतां गतः ।
नाहं गतो न मे भ्राता कस्यैदं हस्तलाघवम् ॥
कश्चन वैद्यः ग्रामान्तरं गत्वा प्रत्यागच्छन् मार्गपार्श्वे एकां चितां दृष्टवान् । तत् दृष्टवतः तस्य महत् आश्चर्य जातम् । सः वदति एतस्य गृहं प्रति अहं तु न गतः । मम सहोदरः अपि न गतः । अतः एतस्य अकालिकं मरणं भवितुं न अर्हति । तथापि एषः अकाले मृतः एवं तर्हि कः एतत् साहसकृत्यं कृतवान् स्यात् इति ।
त्वयि विन्यस्तभारोऽयं कृतान्तः सुखमेधते ॥
जनानां प्राणहरणं यमस्य कर्तव्यं खलु किन्तु यमः इदानीं तत् अतिकष्टकरं भारं वहन् नास्ति, प्रत्युत सुखेन कालं यापयन् अस्ति । यदि लोके मरणम् एव न भवेत् तर्हि लोकयात्रा कथं प्रचलेत् इति आशङ्कायाः तु न अवसरः । यतः जनानां प्राणानाम् अपहरणं तु निरन्तरं कुर्वन् अस्ति वैद्यः । अतः एव यमस्य कार्यं नास्ति । तदर्थं सः सुखेन शेते
वैद्यः प्राणान् धनानि च ॥
वैद्यकीयवृत्त्या धनम् अपहरन्तं कञ्चित् वैद्यम् उद्दिश्य वदन् कश्चित् द्वरात् एव नमस्करोति- ’भोः वैद्यराज भवते नमस्काराः । भवान् यमराजस्य सहोदरः एव अस्ति । अथवा यमराजात् अपि भवान् एव श्रेष्ठः स्यात् । यतः यमः प्राणमात्रं हरति । वैद्यः भवान् तु जनानां प्राणान् तु हरति एव । तेनैव सह तेषां धनस्य अपि अपहरणं करोति’ इति ।
एतादृशाः धनापहारकाः वैद्याः अद्यापि केचन दृश्यन्ते खलु लोके ?
नातिधैर्यं प्रदातव्यं नातिभीतिं च रोगिणे ।
नैश्चिन्त्यात्रादिमे दानं नैराश्यादेव नान्तिमे ॥
वैद्यस्य कृते कश्चन व्यवहारसाध्यः उत्तमः हितोपदेशः अत्र अस्ति –
रोगिणम् उद्दिश्य अति धैर्यवचनानि न वक्तव्यानि । यदि तथा उच्येत तर्हि सः वैद्यसमीपम् आगमनम् एव परित्यजेत् । ततः वैद्यस्य आये न्यूनता स्यात् । अति भीतिः अपि रोगिणि न जनयितव्या । यतः अति भीतिः जनिता चेत्, नैराश्यं प्राप्य रोगी चिकित्साम् एव परित्यजेत् । तदा अपि वैद्यस्य हानिः एव खलु ?
रोगस्योपक्रमे सान्त्वं मध्ये किञ्चिद्धनव्यय: ।
शनैरनादर: शान्तौ स्नातो वैद्यं न पश्यति ॥
वैद्या: धनापहरणैकचित्ता: इति सर्वदा निन्दावचनं श्रूयते । किन्तु रोगिणां व्यवहारविषये अधिकं विवरणं न श्रूयते । अत्रास्ति तादृशं विवरणम् । यदा रोगस्य बाधाया: आरम्भ: भवेत् तदा रोगिण: वैद्यस्य पुरत: महान्तमेव विनयं दर्शयन्त: मधुरै: वचनै: व्यवहरन्ति । मध्ये वैद्याय किञ्चित् धनमपि यच्छन्ति । यदा रोगस्य उपशमनं भवेत् तदा तै: वैद्ये अनादर: दर्श्यते । पूर्णत: स्वस्थता यदा स्यात् तदा तु वैद्यस्य नाम अपि न स्मर्यते ।
कृषीवलानां भुवि कालवर्षात् अकालवर्षात् भिषजां प्रमोद: ।
यत्सस्यवृद्धिं कुरुते च पूर्वं प्रजासु रोगप्रचयं द्वितीयम् ॥
काले वृष्टि: यदि भवेत् तर्हि सर्वे कृषीवला: सन्तुष्टा: भवेयु: । अकालवृष्टि न इच्छन्ति ते । यत: अकालवृष्टि: सस्यवृद्धिं नाशयति । किन्तु ‘अकालवृष्टि: भवतु’ इति इच्छां प्रकटयन्त: अपि भवन्ति केचन । ते सन्ति वैद्या: । यत: अकालवृष्टि: रोगाणां वृद्धे: कारणम् । रोगेषु प्रवृद्धेषु एव खलु वैद्यानाम् आय: वर्धेत ?
<DOC_END>
<DOC_START>
गुरोर्गिरः पञ्चदिनान्यधीत्य वेदान्तशास्त्राणि दिनत्रयं च ।
अमी समाघ्राय च तर्कशास्त्रं समागताः कुक्कुटामिश्रपादाः ॥
आत्मानं पण्डितं मन्यमानः कश्चन आत्मानं वेषभूषादिभिः अलङ्कृत्य सभां प्रविष्टवान् । तं दूरात् एव दृष्ट्वा कश्चित् अन्यम् अवदत् ‘‘अहो एतस्य पाण्डित्यम् एषः गुरोः सकाशात् पञ्च दिनानि यावत् विद्याभ्यासं कृतवान् । दिनत्रयं वेदान्तशास्त्रम् अपि अधीतम् एतेन । तर्कशास्त्रस्य आघ्राणनम् अपि एतेन कृतम् अस्ति । तादृशः ‘महाविद्वान्’ कुक्कुटमिश्रः एषः उपस्थितः’’ इति ।
अध्ययनकालः एव तदीयं ‘पाण्डित्यं’ किं न ज्ञापयति ?
भूयास्त्वमेव दश पञ्च च वासराणि
पारम्परिकाध्ययनक्रमे अनध्ययनानि (विरामदिनानि) त्रयोदशीतः प्रतिपत्पर्यन्तं भवन्ति । (शनिभानुवासरयोः न) कश्चन छात्रः विवाहानन्तरम् अपि पारम्परिकविद्यालये अध्ययनं कुर्वन् अस्ति । सः वदति हे त्रयोदशि भवती सर्वसिद्धिकरी अस्ति । भवत्याः आगमनस्य अनन्तरं विरामस्य आरम्भः इत्यतः भवती एव भवेत् समग्रे पक्षे अपि । विरामदिनेषु एव पत्न्याः सङ्गमः सम्भवति । अतः भवती मम प्रिया । किन्तु वराकी द्वितीयातिथिः कदापि न भवेत् । यतः सा शालारम्भकारिणी अस्ति ।'
त्रयश्शिष्यगुणा ह्येते मूर्खाचार्यस्य भाग्यजाः ॥
केचन शिष्याः अन्या गतिः नास्ति इत्यतः गुरोः समीपम् आगच्छन्ति । पुनः केचन अतिश्रद्धावन्तः भवन्ति । अन्ये केचन ज्ञानाभासं प्राप्यैव तृप्ताः भवन्ति । एते त्रिविधाः शिष्याः मूर्खाचार्यैः सौभाग्यात् एव प्राप्यन्ते ।
अन्दोलनप्रवृत्तीनाम् आलयो यस्तु सर्वदा ।
विद्यायास्तु लयो यत्र तस्माद् विद्यालयः स्मृतः ॥
यः विद्यायाः आलयः भवति सः 'विद्यालय'शब्देन निर्दिश्यते इति तु लोकव्यवहारः । किन्तु विद्यायाः लयस्य कारणतः अपि तस्य 'विद्यालयः' इति नाम भवितुम् अर्हति इति वदति कश्चन कविः । 'यत्र स्थिताः छात्राः सदा कर्मविरामान्दोलनादिषु व्यापृताः भवन्ति तत्र विद्यायाः लयः एव भवति' इति तस्य आशयः ।
अद्यतनं छात्राणां व्यवहारं पश्यामः चेत् भासते यत् कविना उक्तम् असत्यं न इति ।
मूलं व्याख्यां पुनः पुनः ।
अजानता अपि शिक्षकेण कथं पाठः करणीयः इति अत्र वर्णितम् अस्ति । सः प्रथमं मूलं पठेत् । तदनु तत्रत्यां व्याख्यां पठेत् । पुनरपि मूलं पठेत्, व्याख्यामपि पुनः पठेत् । एवं मूलं व्याख्यां च पुनः पुनः पठन् सः मध्ये मध्ये 'ज्ञातं किम् इति छात्रान् पृच्छेत् । तदा तु छात्राः 'आम्' इति वदन्ति एव ।
वाच्यतां समयोऽतीतः स्पष्टमग्रे भविष्यति ।
इति पाठयतां ग्रन्थे काठिन्यं कुत्र विद्यते ॥
यदि शिष्यः पाठ्यभानविषये कठिनं प्रश्नं पृच्छति तर्हि उत्तरकथनं निवारयितुं त्रयः मार्गाः । 'रे पठपठ' इति तर्जनं प्रथमः प्रकारः । 'इदानीं समयः नास्ति । श्वः वदिष्यामि' इति कथनं द्वितीयः मार्गः । 'एषः विषयः भवता इदानीं न बुध्यते । कालान्तरे भवान् ज्ञास्यति' इति कथनं तृतीयः प्रकारः । एतान् प्रकारान् अवलम्ब्य ये पाठयन्ति ते कस्यापि ग्रन्थस्य पाठने काटिन्यं न अनुभवन्ति ।
वाच्यतां समयोऽतीतः स्पष्टमग्रे भविष्यति ।
इति पाठयतां ग्रन्थे काठिन्यं कुत्र विद्यते ॥
यदि शिष्यः पाठ्यभागविषये कठिनं प्रश्नं पृच्छति तर्हि उत्तरकथनं निवारयितुं त्रयः मार्गाः । 'रे पठ पठ' इति तर्जनं प्रथमः प्रकारः । 'इदानीं समयः नास्ति । श्वः वदिष्यामि' इति कथनं द्वितीयः मार्गः । 'एषः विषयः भवता इदानीं न बुध्यते । कालान्तरे भवान् ज्ञास्यति' इति कथनं तृतीयः प्रकारः । एतान् प्रकारान् अवलम्ब्य ये पाठयन्ति ते कस्यापि ग्रन्थस्य पाठने काठिन्यं न अनुभवन्ति ।
न ब्रह्यचारी न गृही न वनस्थो न वा यतिः ।
छात्रावासेषु वसन्तः सर्वे अध्ययनैकासक्ताः भवन्ति इति न । भोजनादिव्यवस्था भवति तत्र इत्यतः सुखजीवनाय अपि वसन्ति केचन । तान् दृष्ट्वा केनचित् रचितः श्लोकः एषः ।
'लोके चत्वारः आश्रमाः प्रसिद्धाः ब्रह्मचर्यं, गार्हस्थ्यं वानप्रस्थं, संन्यासः चेति । छात्रावासवासिनः एतेभ्यः आश्रमेभ्यः बहिर्भूताः, एतेभ्यो अन्येन पञ्चमेन प्रकारेण जीवन्ति । पञ्चेन्द्रियाणां तृप्त्यै येन केनचित् प्रकारेण प्रयतन्ते इत्यतः ते 'पञ्चभद्राः' इति निर्दिश्यन्ते । तादृशानां छात्राणाम् आवासः एषः' इति सः श्लोककारः वदति छात्रावासं दृष्ट्वा ।
<DOC_END>
<DOC_START>
अर्धं दानववैरिणा गिरिजयाप्यर्धं शिवस्याहृतं देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति ।
गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत् त्वां मां च भिक्षाटनम् ॥
कदाचित् कश्चन अर्थी राजानं याचितुम् आगतः । सः अवदत् महाराज लोके भगवतः शिवस्य अभावः जातः अस्ति' इति ।
'कथमेतत् इति पृष्टं राज्ञा ।
'शिवस्य अर्धं विष्णुना स्वीकृतं, पुनरर्धं पार्वत्या हृतम् । (अर्धनारीश्वरत्वात्) एवं विष्णुना पार्वत्या च अर्धं पुनरर्धं च हृतम् इत्यतः शिवस्य अभावः समुत्पन्नः ।'
'एवं तर्हि शिवं श्रितवतां गङ्गाचन्द्रादीनां का गतिः राजा अपृच्छत् ।
'गङ्गा सागरं गता । चन्द्रकला आकाशम् अगमत् । सर्पः पातालम् अगच्छत् । शिवस्य सर्वज्ञत्वम् ईश्वरत्वं च त्वां प्राप्नोत् । वराकं भिक्षाटनं तु मया प्राप्तम्' इति अवदत् अर्थी ।
तस्य चाटूक्तिं श्रुतवान् राजा प्रभूतं धनं दत्तवान् इति किं पुनर्वक्तव्यम् ?
सन्ध्यां यत् प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदीं विलज्जशिरसा तच्चापि सोढं मया ।
श्रीर्यातामृतमन्थने यदि हरिं कस्माद्विषं भक्षितम् मा स्त्रीलम्पट मा स्पृशेति गदितो गौर्या हरः पातु वः ॥
शिवस्य पत्नी पार्वती । सा पतिव्यवहारे स्त्रीलम्पटत्वं पश्यति । सा पतिं वदति जनानां पुरतः एव बद्धाञ्जलिः सन् त्वं सन्ध्यां याचसे । नदीं गङ्गां निर्लज्जं शिरसि धरसि । अमृतमन्थनावसरे विष्णुना लक्ष्मीः प्राप्ता इत्यतः विषण्णमनस्कः सन् त्वं विषं पीतवान् । एवं तव स्त्रीलम्पटत्वं नितराम् असह्यम् । अतः मां मा स्पृश' इति ।
वस्तुतः तु शिवेन सन्ध्या (स्त्री) नमस्कृता कर्तव्यबुद्ध्या । लोकोपकाराय एव तेन गङ्गा (स्त्री) शिरसि धृता । घोरं विषम् अपि तदर्थम् एव निर्भीति पीतम् । किन्तु पार्वती अत्र सर्वत्र स्त्रीलम्पटत्वं पश्यति सन्देहदग्धमनस्काः एवमेव खलु चिन्तयन्ति ?
न विवाहितः कुमारः नास्ति द्वितीयो बलीवर्दः ।
स्वयमपि भिक्षाचारी तदिह कपर्दीति दुर्वादः ॥
शिवः कपर्दी इति निर्दिश्यते । कपर्दः इत्यस्य अर्थद्वयं शिवस्य जटाजूटः, अल्पमूल्यकः नाणकविशेषः चेति । शिवस्य कपर्दी इति नाम तु जटाजूटकारणतः । तथापि तस्यैव पदस्य अन्यम् अर्थं मनसि निधाय चाटुश्लोककारः कश्चित् वदति शिवस्य पुत्रः अविवाहितः । (अतः एव कुमारः इति तस्य नाम एकः एव वृषभः अस्ति तन्निकटे । अपरस्य क्रयणे धनं नास्ति तस्य । स्वयं च भिक्षाटनं करोति उदरपूरणाय । अतः एव ‘कपर्दी’ (अल्पधनयुक्तः) इति निर्दिश्यते सः' इति ।
एषा ते हर का सुगात्रि कतमा मूर्घ्नि स्थिता किं जटा हंसः किं भजते जटां न हि शशी चन्द्रो जलं सेवते
मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरङ्गायते दृश्यं यो विनिगूहते त्रिपथगां पायात्स वः शङ्करः ॥
शिवः शिरसि गङ्गां धरति । शिरसि अन्यस्याः स्थापनं पत्नी पार्वती न सहते । अतः कदाचित् पार्वती पृष्टवती एषा का भवत्समीपे इति । 'कस्याः विषये पृष्टं भवत्या इति शिवः अपृच्छत् । 'या भवतः शिरसि तिष्ठति तस्याः विषये पृच्छामि । तत्र तु जटा अस्ति किं जटायां हंसः विहरेत् हंसः क्व स तु चन्द्रः । चन्द्रः किं जले तिष्ठति न तत्र जलम् । भस्मनः छटा दृश्यते तत्र किं भस्मनि तरङ्गाः उत्पद्यन्ते एवं शिरसि स्थितां गङ्गां निगूहितुम् इच्छन् शिवः सर्वान् पातु ।
सेवां नो कुरुते करोति न कृषिं वाणिज्यमस्यास्ति नो पैत्र्यं नास्ति धनं न बान्धवबलं नैवास्ति कश्चिद्गुणः ॥
द्यूतस्त्रीव्यसनं न मुञ्चति तथापीशस्तदस्मात्फलं किं मे स्यादिति चिन्तयन्निव कृशो भृङ्गी चिरं पातु वः ॥
भृङ्गी शिवस्य सेवकः । स्वामिना योग्यं वेतनं दीयेत चेदेव भृत्यस्य सन्तोषः । स्वामी शिवः न क्वापि उद्योगं करोति । कृष्यादिकार्यमपि न करोति । वाणिज्यादिवृत्तिरपि शिवस्य नास्ति । पित्रार्जिता सम्पत्तिः तु शून्या एव । बान्धवाः अपि न हि धनिकाः । स्त्रीव्यसनम् अपि अस्ति । अतः एतस्य स्वामिनः हस्ते कदापि धनं भवितुं नार्हति । एतादृशः अकिञ्चनः जनः मया स्वामित्वेन वृतः एषः मह्यं वेतनत्वेन किं वा दद्यात् इत्येवं चिन्तयन् भृङ्गी दिने दिने कृशतां प्राप्नुवन् अस्ति ।
वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् ।
मात्रैवं प्रहिते गुहे विघटयत्याकृष्य सन्त्याञ्जलिम्
शम्भोर्भिन्नसमाधिरुद्धरभसो हासोद्गमः पातु वः ॥
कदाचित् शिवः ध्यानमग्नः आसीत् । तदा सः करस्य उपरि करं स्थापयित्वा उपविष्टः आसीत् । तत् दृष्ट्वा बालकः गुहः मातरं पृष्टवान् अम्ब तातस्य अङ्गुलिपुटे किम् अस्ति इति । तदा विनोदाय पार्वती उक्तवती वत्स तत्र स्वादुफलम् अस्ति ।' गुहेन पृष्टम् तत् सः मह्यं किमर्थं न ददाति पार्वत्या उक्तम् भवान् एव गत्वा तत् स्वीकरोतु' इति । गुहः झटिति गत्वा पितुः करं गृहीत्वा आकृष्टवान् । एतेन शिवस्य ध्यानस्थितिः भग्ना । पुत्रस्य कृत्यं दृष्टवतः तस्य हासः आगतः । स च हासः भवतः सर्वान् रक्षतु ।
कस्त्वं शूली मृगय भिषजं नीलकण्ठः प्रियेऽहम्
केकामेकां कुरु पशुपतिर्नैव दृष्टे विषाणे ।
स्थाणुर्मुग्धे न वदति तरुर्जीवितेशः शिवायाः
गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥
कदाचित् कुत्रापि गतः शिवः गृहं प्रत्यागतः । द्वारं पिहितम् आसीत् । शिवः यदा द्वारशब्दं कृतवान् तदा पार्वती अपृच्छत् कः भवान् शिवः अवदत् अहं शूली ।' शूली इत्यस्य शूलरोगयुक्तः इत्यर्थं कल्पयित्वा पार्वती अवदत् वैद्यसमीपं गच्छतु ।' शिवः अवदत् अहं नीलकण्ठः ।' मयूरस्यापि कण्ठः नीलः । अतः पार्वती नीलकण्ठपदस्य मयूरः इत्यर्थं कल्पयित्वा अवदत् भवान् नीलकण्ठः (मयूरः) चेत् एकां केकां करोतु' इति । शिवः अवदत् अहं पशुपतिः ।' पार्वती अवदत् पशूनां पतिः चेत् भवतः शृङ्गौ कुत्र इति । 'अहं स्थाणुः अस्मि शिवः अवदत् । स्थाणुः इत्यस्य शाखादिरहितः शुष्कवृक्षकाण्डभागः इत्यपि अर्थः । अतः पार्वती वदति स्थाणुः न वदति' इति । 'अहं शिवायाः पतिः' इति वदति शिवः । शिवा नाम शृगाली अपि । अतः पार्वती वदति भवान् शिवायाः पतिः चेत् अरण्यं गत्वा तत्र वासं करोतु' इति । एवं पार्वती यं वचनैः जितवती सः शिवः भवतः सर्वान् रक्षतु ।
प्रेतेशान्महिषं तवास्ति वृषभः फालं त्रिशूलं तव ।
शक्ताहं तव चान्नदानकरणे स्कन्दोऽस्ति गोरक्षणे
खिन्नाहं हर भिक्षया कुरु कृषिं गौरीवचः पातु वः ॥
कदाचित् पार्वती शिवम् उक्तवती भवतः भिक्षायाचनं दृष्ट्वा अहं खिन्ना अस्मि । अतः कृपया कृषिं करोतु' इति । तदा शिवः अपृच्छत् किं कृषिः सुका तदर्थं नास्ति भूमिः अस्माकम् । जीबहलादयः न सन्ति । वृषभाः न सन्ति । वृषभाः यदि भवेयुः तर्हि तेषां पोषणरक्षणादिकं करणीयम् । किम् एतत्सर्वं शक्यम् इति । तदा पार्वती अकैकम् अपि समस्या परिहरन्ती अवदत् परशुरामः समग्रभूमण्डलमेव स्ववशीकृतवान् अस्ति । ततः भूमिं प्राप्नोतु । कुबेरः धनधान्याधिपः । सः भवतः मित्रम् । ततः बीजार्थं धान्यं प्राप्नोतु । यमात् महिषं प्राप्नोतु । भवतः वृषभः अस्ति एव । अतः तौ एव हले योजयामः । भवतः त्रिशूलं हलाग्रं (फालं भवतु) कृषिसमये आहारम् आनीय दातुं गोपोषणार्थं च अहम् अस्मि । स्कन्दः गोरक्षणं करिष्यति । एवं विशेषव्ययं विना कृषिः शक्या' इति ।
एतादृशानि जौरीवचनानि भवतः सर्वान् रक्षन्तु ।
स्वयं पञ्चमुखः पुत्रौ गजाननषडाननौ ।
दिगम्बरः कथं जीवेत् अन्नपूर्णा न चेत् गृहे ॥
शिवः पञ्चभिः मुखैः युक्तः । पञ्च अपि मुखानि खादनम् इच्छन्ति । शिवस्य एकः पुत्रः गजाननः । अतः एव गजवत् प्रभूतं खादति सः । अपरः पुत्रः षडाननः । एवं पूरणीयानि उदराणि बहूनि । ईश्वरः तु स्वयं दिगम्बरः, अतः एव अकिञ्चनः । ‘तथापि तस्य जीवनं कथं प्रचलति’ इति वा भवतां सन्देहः पत्न्याः अन्नपूर्णायाः कृपा । अन्नपूर्णा सा सर्वेभ्यः प्रभूतम् अन्नं दातुं समर्था । एवं पत्नीकृपातः शिवः सुखेन जीवति
विष्णोरागमनं निशम्य सहसा कृत्वा फणीन्द्रं गुणं
कौपीनं परिधाय चर्म कठिनं शम्भौ पुरो धावति ।
कृत्तिर्विस्खलिता ह्रिया नतमुखो नग्नो हरः पातुः वः ॥
कदाचित् विष्णुः शिवस्य गृहम् आगतवान् । विष्णोः आगमनं ज्ञात्वा शिवः कठिनचर्म धृत्वा तदुपरि सर्पं रज्जुत्वेन बद्ध्वा स्वागतार्थं वेगेन गतवान् । विष्णोः वाहनं गरुडः खलु तं दृष्ट्वा सर्पः नितरां भीतः । ततः सः पलायितवान् । रज्जुरूपस्य सर्पस्य अभावतः शिवस्य कटौ स्थितं चर्म अपतत् । तदा शिवस्य कीदृशी स्थितिः स्यात् इति भवन्तः एव ऊहन्ताम् । एतया घटनया लज्जाकारणतः अवनतमुखः सन् स्थितः शिवः भवतः सर्वान् पातु ।
हलमगु बलस्यैकोऽनड्वान् हरस्य न लाङ्गलम्
क्रमपरिमिता भूमिविर्र्ष्णोः न गौर्न च लाङ्गलम् ।
जगति सकले नेदृग्दृष्टं दरिद्रकुटुम्बकम् ॥
बलरामः हलवान्, किन्तु तस्य वृषभः नास्ति । अतः सः हलयुक्तोऽपि कृषिं तु कर्तुं न शक्नोति । शिवस्य वृषभः अस्ति, किन्तु न हलम् । तस्मात् सोऽपि कृषिं कर्तुं न शक्नोति । विष्णोः अल्पा भूमिः अस्ति त्रिपादपरिमिता) किन्तु न वृषभः, न वा लाङ्गलम् । एवम् एते त्रयः अपि अन्यसाहाय्यं विना स्वातन्त्र्येण कृषिं कर्तुं न अर्हन्ति । एवं साधनराहित्यरूपेण दारिद्र्येण युक्तं कुटुम्बकं जगति अन्यत्र न दृश्यते प्रायः ।
सखा धनेशः तनयो गणेशः ।
ईश्वरः अकिञ्चनः, भिक्षया जीवनं करोति इति सर्वे जानन्ति एव । किन्तु तस्य योग्यता न सामान्या । सः स्वयं जगदीश्वरः । कस्यचित् राज्यस्य प्रभोः एव कियत् ऐश्वर्यं भवति इति वयं जानीमः । जगतः एव ईश्वरः महत् र्एश्वर्यं प्राप्तुम् अर्हेत् एव । तस्य श्वशुरः हिमालयः रत्नानाम् आकरः । धनदः कुबेरः तस्य मित्रम् । आदिपूज्यः गणाधिपः तस्य पुत्रः । एवम् अत्युत्कृष्टा पारिवारिकी स्थितिः अस्ति चेदपि शिवः अद्यापि भिक्षाटनेन जीवनं यापयति । सर्वं खलु विधिविलसितम् !
कलङ्की शीतांशुः कुटिलहृदया सापि तटिनी
पशुर्नन्दी सोऽयं कठिनहृदया शैलतनया ।
कृतां वा मद्भक्तिं भव भवति विज्ञापयति कः ॥
कश्चन भक्तः परशिवे भक्तिम् अकरोत् । किन्तु सा भक्तिः भगवता न ज्ञायते इति विषादः तस्य । भक्तस्य भक्तितीव्रता भगवता ज्ञायेत एव खलु इति चिन्तयेयुः भवन्तः । किन्तु कविः वदति मद्भक्तिज्ञानाय अनुकूलः परिसरः नास्ति भगवतः समीपे । शिवं परितः ये सन्ति ते नहि अनुकूलाः । भगवतः पार्श्वे चन्द्रः, गङ्गा, नन्दी, पार्वती इत्यादयः भवन्ति । तेषु चन्द्रः तु कलङ्कित्वेन विख्यातः । गङ्गा तु वक्रगतियुक्ता । नन्दी तु स्वयं पशुः (अतः विवेकहीनः पार्वती तु पर्वतपुत्री । पर्वतात् जातायाः हृदयं कठिनम् एव खलु भवेत् । शिवः सदा पत्न्या युक्तः एव भवति अर्धनारीश्वरत्वात्) इत्यतः अन्यः तत्समीपं गन्तुं नार्हति । अतः एव मम भक्तिं शिवः अवगन्तुं नार्हति' इति ।
कलङ्की शीतांशुः कुटिलहृदया सापि तटिनी पशुर्नन्दी सोऽयं कठिनहृदया शैलतनया ।
निषेधादन्येषां सततसमवेते दयितया कृतां वा मद्भक्तिं भव भवति विज्ञापयति कः ॥
श्रुत्वा षडाननजनुर्मुदितान्तरेण पञ्चाननेन सहसा चतुराननाय ।
शार्दूलचर्म भुजगाभरणं सभस्म दत्तं निशम्य गिरिजाहसितं पुनातु ॥
'षण्मुखः जातः' इत्येतां वार्तां श्रुत्वा नितरां सन्तुष्टः शिवः वार्ताम् आनीतवते ब्रह्मदेवाय शार्दूलचर्म, भस्म, सर्पाभरणं च अपनीय दत्तवान्’ इत्येषा वार्ता पार्वत्या श्रुता । (शिवसमीपे दानयोग्यम् आसीत् खलु तावन्मात्रमेव पत्युः एतादृशं विलक्षणं व्यवहारं श्रुत्वा सा मनसा हसितवती ।
अत्तुं वाञ्छति वाहनं गणापतेराखुं क्षुधार्थः फणी
तञ्च क्रौञ्चपतेः शिखी च गिरिजासिंहोऽपि नागाननम् ।
निर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम् ॥
शिवः हालाहलं यत् पीतवान् तस्य कारणं भङ्ग्यन्तरेण विवृणोति अपरः कविः – गणपतेः वाहनं खादितुम् इच्छति बुभुक्षितः सर्पः । तं च सर्पं खादितुम् इच्छति मयूरः, यश्च षणमुखस्य वाहनम् । गिरिजायाः वाहनं सिंहः गजमुखं गणपतिं दृष्ट्वा क्रोधेन सदा गर्जति । तं च मारयितुम् इच्छति । गौरी सपत्न्याः जाह्नव्याः उपस्थितिं न सहते । तथैव चन्द्रस्य स्थितिं कपालानलः न सहते । एतस्य सर्वस्य कारणतः शिवस्य कुटुम्बे सदा कलहः । एतां कलहस्थितिं कथमपि निवारयितुम् अशक्नुवन् शिवः निर्वेदं प्राप्य हालाहलं पीतवान् ।
कृत्तिं कृन्तति मूषकोऽपि रजनौ भिक्षान्नमाभक्षयन्
दुःखेनेति दिगम्बरः स्मरहरो हालाहलं पीतवान् ॥
हालाहलं घोरं विषं, प्राणापहारकं च । तत् शिवः किमर्थं पीतवान् इति किं भवन्तः जानन्ति तस्य कारणं वदति कश्चन चाटुपद्यकारः इत्थम् –
पार्वत्याः वाहनं सिंहं दृष्ट्वा शिवस्य वाहनं वृद्धवृषभः पलायते । षण्मुखस्य वाहनं मयूरं दृष्ट्वा भूषणार्थं धृताः सर्पाः अपि पलायन्ते । गणपतेः वाहनं मूषिकः भिक्षया प्राप्तम् अपि अन्नं रात्रौ खादन् चर्म दन्तैः विदारयन् नाशयति । एवं गृहे अनेके क्लेशाः । एतत्सर्वं सोढुम् अशक्नुवन् शिवः हालाहलं पीतवान् । यः क्लेशबाहुल्यं सोढुं न शक्नोति तस्य आत्महत्या एव खलु शरणम् ?
एका भार्या समररसिका निम्नगा च द्वितीया
पुत्रोऽप्येको द्विरदवदनो ष्ण्मुखश्च द्वितीयः ।
नन्दी भृङ्गी च कपिवदनो वाहनं पुङ्गवेशः
स्मारं स्मारं स्वगृहचरितं भस्मदेहो महेशः ॥
विष्णोः तु गृहे सुखं नास्ति । किं शिवस्य तत् अस्ति न' इति वदति कश्चन चाटुश्लोककारः । शिवस्य गृहक्लेशः एवम्- शिवस्य पत्नी दुर्गा सर्वदा युद्धासक्ता । यत्र युद्धं तत्र गन्तुकामा । अपरा गङ्गा सर्वदा अधोगतिम् एव इच्छति । (नदी अधोमुखं प्रवहति खलु एकः पुत्रः गजमुखः । अतः एव असुन्दरः । अपरः षणमुखः सन् लोकविलक्षणतया राजते । गणेषु अन्यतमः भृङ्गी कपिवदनः । वाहनं च वृद्धवृषभः । एवं गृहे सुखहेतुकं किमपि नास्ति सर्वथा । अतः एव वैराग्यं प्राप्य शिवः भस्म धृत्वा श्मशानवासी जातः ।
यदि नैव तस्य सुतः कथमद्यापि कुमारः ॥
शिवः अर्धनारीश्वरः इति तु सर्वे जानन्ति । किन्तु सः किमर्थं तादृशं रूपं धृतवान् इति तु केचन एव जानीयुः ।
दारिद्र्यम् एव अर्धनारीश्वरत्वस्य कारणम् । यदि पत्नी पार्थक्येन स्यात् तर्हि उदरद्वयं पूरणीयं भवति – स्वस्य पत्न्याः चेति । अतः एव शिवः अर्धनारीश्वरत्वं प्राप्य अपरोदरस्य पूरणस्य कष्टं निवारितवान् । ‘एवं न’ इति वदेयुः भवन्तः । यदि एवं न स्यात् तर्हि स्वस्य पुत्रस्य विवाहः अद्यावधि किमर्थं तेन न निर्वर्तितः तदीयः पुत्रः अद्यापि किमर्थं 'कुमारः अविवाहितः) एव तिष्ठति अतः सिद्धं यत् स्नुषा पोषणीया भवेत् इत्यतः शिवः पुत्रस्य विवाहं न निर्वर्तितवान् इति, पत्नी पोषणीया भवेत् इत्यतः सः अर्धनारीश्वरः जातः इति च ।
सहस्रास्यो नागः प्रभुरपि मतः पञ्चवदनः
षडास्यो हन्तैकस्तनय इतरो वारणमुखः ।
सदा भैक्ष्यं शश्वत्प्रभवतु कथं वर्तनमिति
श्वसत्यां पार्वत्यामथ जयति शम्भुः स्मितमुखः ॥
शिवस्य गृहस्य स्थितिः विलक्षणा । तदीयः सर्पः सहस्रमुखः । शिवः स्वयं पञ्चमुखः । एकः पुत्रः षण्मुखः । अपरः गजमुखः । एतेषां सर्वेषाम् उदरपूरणं कथम् इति पार्वत्याः चिन्ता । आयः तु कोऽपि नास्ति । भिक्षा एव शरणं सदापि । 'कथं गृहपोषणम् इति पार्वती शिवं पृच्छति दीर्घं निश्श्वसती । शिवः तु निरातङ्कः सन् हसति
<DOC_END>
<DOC_START>
नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः ।
तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥
कश्चन अचिन्तयत् मनः (मनश्शब्दः) नपुंसकम् । तत् प्रियायाः समीपं प्रेष्यते चेत् न काऽपि हानिः' इति । अतः प्रियायाः समीपं मनः प्रेषितवान् सः । किन्तु तत् मनः तत्रैव रममाणम् अतिष्ठत् ।
अतः सः विषादेन वदति मनश्शब्दं नपुंसकलिङ्गं कुर्वता पाणिनिना वयं हताः' इति ।
'मनश्शब्दः' नपुंसकः अस्ति चेत् 'मनः' अपि नपुंसकं स्यादिति नास्ति नियमः । एतत् अजानता तेन कष्टम् अनुभूतं यत् तदर्थं तस्मै विषीदामः वयम् ।
काचं मणिं काञ्चनमेकसूत्रे ग्रथ्नातु बाला किमिहात्र चित्रम् ।
अशेषवित् पाणिनिरेकसूत्रे श्वानं युवानं मघवानमूचे ॥
कदाचित् काचित् बालिका काञ्चनमणिभिः हारं रचयन्ती आसीत् । मध्ये मध्ये तया काचमणयः अपि योजिताः आसन् । सुवर्णमणिभिः सह स्थिताः काचमणयः अपि सुवर्णमणिवत् भासन्ते इत्यतः तया भ्रान्त्या एवं कृतम् आसीत् । एतत् दृष्ट्वा कश्चित् तस्याः अविवेकिताम् अनिन्दत् । तदा अपरः अवदत् काचमणीन् काञ्चनमणीन् च एकसूत्रतया योजयित्वा एषा हारं रचितवती इत्येतत् न महते अपराधाय । यतः एषा तु अल्पवयस्का बाला । किन्तु आश्चर्यं नाम सर्वं जानन् पाणिनिः एव श्वानं, युवकम्, इन्द्रं च एकसूत्रतया योजितवान् अस्ति' इति ।
(पाणिनिः 'श्वयुवमघोनाम् इति व्याकरणसूत्रं रचयन् स्वसूत्रे शुनकं, युवकम्, इन्द्रं च एकत्रैव निवेशितवान् अस्ति ।)
<DOC_END>
<DOC_START>
* विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥
* पण्डिते च गुणास्सर्वे मूर्खे दोषा हि केवलं ।
तस्मात् मूर्खसहस्रेभ्य: प्राज्ञ एको विशिष्यते ॥
* परोक्षे कार्यहंतारं प्रत्यक्षे प्रियवादिनं ।
वर्जयेत्तादृशं मित्रं विषकुंभं पयोमुखम् ॥
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुका: ॥
* ताराणां भूषणं चन्द्रो नारीणाम् भूषणं पतिः ।
प्रिथिव्या भूषणं भूषणं राजा विद्या सर्वस्य भूषणम् ॥
* कोऽर्थः पुत्रेण जातेन यो न विद्वान् न भक्तिमान् ।
कानेन चक्षुषा किं वा चक्षु: पीडैव केवलम् ॥
* लालयेत् पंच वर्षाणि दश वर्षानि ताडयेत् ।
प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥
* एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
वासितं स्यात् वनं सर्वं सुपुत्रेण कुलं तथा ॥
* एकेन शुष्क वृक्षेण दह्यमानेन वह्निना ।
दह्यते हि वनं सर्वं कुपुत्रेण कुलं तथा ॥
* निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रश्चण्डालवेश्मनि ॥
* विद्या मित्रं प्रवासेषु माता मित्रं गृहेशु च ।
व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥
* न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद्रिपुः ।
* दुर्जन: प्रियवादी च नैतद्विश्वासकारणं ।
मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ॥
* दुर्जनः परिहर्तव्यो विद्ययाऽलंकृतोऽपि सन् ।
मणिना भूषितस्सर्पः किमसौ न भयंकर ॥।
* सर्प क्रूरः खल क्रूरः सर्पात् क्रूरतर खलः।
मन्त्रौषधिवशः सर्पः कलः केन निवार्यते ॥
* धनानि जीवितश्चैव परार्थे प्राज्ञ उत्सृजेत्
सन्निम्मित्ते वरं त्यागो विनाशे नियते सति
* आयुष क्षण एकोऽपि न लभ्य: स्वर्णकोटिभि ।
स चेन्निरर्थकं नीतः का नु हानिस्ततोधिका ॥
* शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् ।
शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥
* धनिक: श्रोत्रियो राज नदी वैद्यश्च पंचमः ।
पंच यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥
* मूर्खा: यत्र न पूज्यन्ते धान्यं यत्र सुसंचितं ।
दंपत्योः कलहो नास्ति तत्र श्री स्वयमागता॥
* अस्ति पुत्रो वशे यस्य भृत्यो भार्या तथैव च।
अभावेऽप्यस्ति सन्तोषः स्वर्गस्थोऽसौ महीतले ॥
* माता यस्य गृहे नास्ति भार्याचाप्रियवदिनी ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम॥।
* कोकिलानां स्वरो रूपं नरी रूपं पतिव्रतं ।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥
* गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
* स जीवति गुणा यस्य धर्मो यस्य जीवति ।
* दुर्लभं प्राकृतं मित्रं कुर्लभ: क्षेमकृत् सुतः ।
दुर्लभा सदृशी भार्या दुर्लभः स्वजन प्रियः ॥
* साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः।
तीर्थं फलति कालेन सद्यः साधुसमागमः
* सत्संगः केसवे भक्तिः गंगांभसि निमज्जनं ।
असारे खलु संसारे थ्रीणि सारानि भावयेत् ॥
* शान्तितुल्यं तपो नास्ति न संतोषात् परं सुखं ।
न तृष्णाया परो व्याधिर्न च धर्मो दया समः ॥
* अन्नदाता भयत्राता विद्यादाता तथैव च। ।
जनिता चोपनेता च पंचैते पितरः स्मृताः॥
* आदौ माता गुरोः पत्नी ब्राह्मणी राजपत्निका ।
धेनुर्धात्री तथा पृथ्वी सप्तैताः मातरः स्मृताः॥
* आपदाम् कथितः पन्था इन्द्रियाणामसंयमः ।
तज्जय संपदाम् मार्गो येनेष्टम् तेन गम्यताम् ॥
* समुद्रावरणा भूमिः प्राकारावरणं गृहं।
* परोपकरणं येषां जागर्ति हृदये सतां।
नश्यन्ति विपदस्तेषां सम्पसह् स्युः पदे पदे ॥
* नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः।
नास्ति रागसमं दु:खं नास्ति त्यागसमं सुखं॥
* पादपानां भयं वातात् पद्मानाम् शिशिराद्भयं।
पर्वतानां भयं वज्रात् साधूनां दुर्जनाअद्भयं ॥
* सुभिक्षं कृषके नित्यं नित्यं सुखमरोगिनः।
भार्या भर्तु: प्रिया यस्य तस्य नित्योत्सवं गृहं ॥
* प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनं।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति॥
* क्षमया दयया प्रेम्णा सूनृतेनार्जवेन च।
वशीकुर्याज्जगत्सर्वं विनयेन च सेवया ॥
* अजरामरवत् प्राज्ञो विद्यामर्थम् च चिन्तयेत्।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥
सर्वस्य लोचनं यस्य नास्त्यंध एव सः ॥
* मनस्यन्यत् वचस्यन्यत् कर्मण्यन्यत् दुरात्मनां ।
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥
* प्रविचार्योत्तरं देयं सहसा न वदेत् क्वचित्।
शत्रोरपि गुणा ग्राह्याः दोषास्त्याज्या गुरोरपि॥
* त्यज दुर्जनसंसर्गं भज साधुसमागमं।
* दृष्टिपूतं न्येसेत्पादं वस्त्रपूतं जलं पिबेत्।
सत्यपूतम् वदेद्वाचं मनःपूतं समाचरेत् ॥
* सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वायवो वान्ति सर्वं सत्ये प्रतिष्ठितम् ॥
* कोऽतिभारः समर्थानां किं दूरे व्यवसायिनां।
को विदेशः सविद्यानां कः परः प्रियवादिनाम्
* शोकस्थानसस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥
* दरिद्रता धीरतया विराजते कुरूपता शीलतया विराजते।
कुभोजनं उष्णतया विराजते कुवस्त्रता शुभ्रतया विरजते ॥
* यथा चतुर्भिः कनकं परीक्ष्यते निकर्षणछेदनतापताडनैः ।
तथा चतुर्भिः पुरुषः परीक्ष्यते श्रुतेन शीलेन कुलेन कर्मणा॥
* अनभ्यासे विषं विद्या अजीर्णे भोजनं विषं ।
विषं गॊष्ठी दरिद्रस्य भोजनान्ते जलं विषं ॥
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः॥
* दानेन पाणिर्नतुकंकणेन स्नानेन शुद्धिर्नतु चन्दनेन।
मानेन तृप्तिर्नतुभोजनेन ज्ञानेन मुक्तिर्नतु मण्डनेन ॥
* कः कालः कानि मित्राणि को देशः कौ व्ययागमौ।
कस्याहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहु: ॥
* अत्यन्तकोपः कटुका च वाणी दरिद्रता च स्वजनेषु वैरं ।
नीचप्रसङ्ग: कुलहीनसेवा चिह्नानि देहे नरकस्थितानाम् ॥
* धनधान्यप्रयोगेषु विद्यासंग्रहणेषु च ।
आहारे व्यवहारे च त्यक्तलज्ज सुखी भवेत् ॥
प्रासादशिखरस्थोऽपि काक: किं गरुडायते ?॥
* प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता॥
* पुस्तकेषु च या विद्या विद्या परहस्तेषु यद्धनं।
उत्पन्नेषु च कार्येषु न सा विद्या न तद्धनम्
* सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने।
त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः॥
अन्तरेण न गन्तव्यं हलस्य वृषभस्य च ॥
<DOC_END>
<DOC_START>
अधमा धनमिच्छन्ति धनमानौ च मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥१॥
इक्षुरापः पयो मूलं ताम्बूलं फलमौषधम् ।
भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः ॥२॥
दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते ।
यदन्नं भक्षयते नित्यं जायते तादृशी प्रजा ॥३॥
वित्तं देहि गुणान्वितेषु मतिमन्नान्यत्र देहि क्वचित्
प्राप्तं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं सदा ।
भूयः पश्य तदेव कोटिगुणितं गच्छन्तमम्भोनिधिम् ॥४॥
एको हि यवनः प्रोक्तो न नीचो यवनात्परः ॥५॥
तैलाभ्यङ्गे चिताधूमे मैथुने क्षौरकर्मणि ।
तावद्भवति चाण्डालो यावत्स्नानं न चाचरेत॥६॥
अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् ।
भोजने चामृतं वारि भोजनान्ते विषापहम् ॥७॥
हतं ज्ञानं क्रियाहीनं हतश्चाज्ञानतो नरः ।
हतं निर्णायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः ॥८॥
वृद्धकाले मृता भार्या बन्धुहस्तगतं धनम् ।
भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥९॥
नाग्निहोत्रं विना वेदा न च दानं विना क्रिया ।
न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥१०॥
न देवो विद्यते काष्ठे न पाषाणे न मृन्मये ।
भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥११॥
काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् ।
श्रद्धया च तथा सिद्धिस्तस्य विष्णुप्रसादतः ॥१२॥
काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् ।
श्रद्धया च तथा सिद्धिस्तस्य विष्णोः प्रसादतः ॥१३॥
शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् ।
न तृष्णाया परा व्याधिर्न च धर्मो दयापरः ॥१४॥
गुणो भूषयते रूपं शीलं भूषयते कुलम् ।
सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम् ॥१५॥
निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् ।
असिद्धस्य हता विद्या ह्यभोगेन हतं धनम् ॥१६॥
शुद्धं भूमिगतं तोयं शुद्धा नारी पतिव्रता ।
शुचिः क्षेमकरो राजा सन्तोषो ब्राहमणः शुचिः ॥१७॥
असन्तुष्टा द्विजा नष्टाः संतुष्टाश्च महीभृतः ।
किं कुलेन विशालेन विद्याहीनेन देहिनाम् ।
दुष्कुलं चापि विदुषो देवैरपि स पूज्यते ॥१९॥
विद्वान्प्रशस्यते लोके विद्वान्सर्वत्र पूज्यते ।
विद्यया लभते सर्वं विद्या सर्वत्र पूज्यते ॥२०॥
विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा ॥२१॥
पशुभिः पुरुषाकारैर्भाराक्रान्ता हि मेदिनी ॥२२॥
अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनश्च ऋत्विजः ।
यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥२३॥
<DOC_END>
<DOC_START>
अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः ॥१॥
स्वयमेव लयं याति यथा राजान्यधर्मतः ॥२॥
हस्ती स्थूलतनुः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कुशो
दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः ।
वज्रेणापि हताः पतन्ति गिरयः किं वज्रमात्रं नगास्
तेजो यस्य विराजते स बलवान्स्थूलेषु कः प्रत्ययः ॥३॥
कलौ दशसहस्राणि हरिस्त्यजति मेदिनीम् ।
तदर्धं जाह्नवीतोयं तदर्धं ग्रामदेवताः ॥४॥
गृहासक्तस्य नो विद्या नो दया मांसभोजिनः ।
द्रव्यलुब्धस्य नो सत्यं स्त्रैणस्य न पवित्रता ॥५॥
न (किं) निम्बवृक्षो मधुरत्वमेति ॥६॥
न शुध्यति यथा भाण्डं सुराया दाहितं च सत॥७॥
न वेत्ति यो यस्य गुणप्रकर्षं
स तं सदा निन्दति नात्र चित्रम् ।
मुक्तां परित्यज्य बिभर्ति गुञ्जाम् ॥८॥
ये तु संवत्सरं पूर्णं नित्यं मौनेन भुञ्जते ।
युगकोटिसहस्रं तैः स्वर्गलोके महीयते ॥९॥
कामक्रोधौ तथा लोभं स्वादुशृङ्गारकौतुके ।
अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत॥१०॥
कुरुतेऽहरहः श्राद्धं ऋषिर्विप्रः स उच्यते ॥११॥
एकाहारेण संतुष्टः षट्कर्मनिरतः सदा ।
ऋतुकालाभिगामी च स विप्रो द्विज उच्यते ॥१२॥
लौकिके कर्मणि रतः पशूनां परिपालकः ।
वाणिज्यकृषिकर्मा यः स विप्रो वैश्य उच्यते ॥१३॥
विक्रेता मद्यमांसानां स विप्रः शूद्र उच्यते ॥१४॥
परकार्यविहन्ता च दाम्भिकः स्वार्थसाधकः ।
छली द्वेषी मृदुः क्रूरो विप्रो मार्जार उच्यते ॥१५॥
उच्छेदने निराशङ्कः स विप्रो म्लेच्छ उच्यते ॥१६॥
निर्वाहः सर्वभूतेषु विप्रश्चाण्डाल उच्यते ॥१७॥
देयं भोज्यधनं धनं सुकृतिभिर्नो सञ्चयस्तस्य वै
श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिता ।
निर्वाणादिति नैजपादयुगलं धर्षन्त्यहो मक्षिकाः ॥१८॥
<DOC_END>
<DOC_START>
आयुः कर्म च वित्तं च विद्या निधनमेव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥१॥
साधुभ्यस्ते निवर्तन्ते पुत्रमित्राणि बान्धवाः ।
ये च तैः सह गन्तारस्तद्धर्मात्सुकृतं कुलम् ॥२॥
दर्शनध्यानसंस्पर्शैर्मत्स्यी कूर्मी च पक्षिणी ।
शिशुं पालयते नित्यं तथा सज्जनसङ्गतिः ॥३॥
यावत्स्वस्थो ह्ययं देहो यावन्मृत्युश्च दूरतः ।
तावदात्महितं कुर्यात्प्राणान्ते किं करिष्यति ॥४॥
प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥५॥
एकोऽपि गुणवान्पुत्रो निर्गुणेन शतेन किम् ।
एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्रशः ॥६॥
मृतः स चाल्पदुःखाय यावज्जीवं जडो दहेत्॥७॥
कुग्रामवासः कुलहीनसेवा कुभोजनं क्रोधमुखी च भार्या ।
पुत्रश्च मूर्खो विधवा च कन्या विनाग्निना षट्प्रदहन्ति कायम् ॥८॥
किं तया क्रियते धेन्वा या न दोग्ध्री न गर्भिणी ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान॥९॥
अपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥१०॥
सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः ।
एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः ।
चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभी रणः ॥१२॥
सा भार्या या शुचिर्दक्षा सा भार्या या पतिव्रता ।
सा भार्या या पतिप्रीता सा भार्या सत्यवादिनी ॥१३॥
अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः ।
मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥१४॥
अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम् ।
दरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम् ॥१५॥
त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत्।
अध्वा जरा देहवतां पर्वतानां जलं जरा ।
असंभोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा ॥१७॥
कः कालः कानि मित्राणि को देशः कौ व्ययागमौ ।
कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥१८॥
अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् ।
<DOC_END>
<DOC_START>
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥१॥
पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही ।
एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥३॥
बहूनां चैव सत्त्वानां समवायो रिपुञ्जयः ।
प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः ॥५॥
धर्माख्याने श्मशाने च रोगिणां या मतिर्भवेत।
सा सर्वदैव तिष्ठेच्चेत्को न मुच्येत बन्धनात्॥६॥
तादृशी यदि पूर्वं स्यात्कस्य न स्यान्महोदयः ॥७॥
दाने तपसि शौर्ये वा विज्ञाने विनये नये ।
विस्मयो न हि कर्तव्यो बहुरत्ना वसुन्धरा ॥८॥
दूरस्थोऽपि न दूरस्थो यो यस्य मनसि स्थितः ।
यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥९॥
यस्माच्च प्रियमिच्छेत्तु तस्य ब्रूयात्सदा प्रियम् ।
व्याधो मृगवधं कर्तुं गीतं गायति सुस्वरम् ॥१०॥
अत्यासन्ना विनाशाय दूरस्था न फलप्रदा ।
तस्मादाहृत्य दातव्या भूमिः पार्थिवसत्तम ॥११॥
नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट्॥१२॥
स जीवति गुणा यस्य यस्य धर्मः स जीवति ।
यदीच्छसि वशीकर्तुं जगदेकेन कर्मणा ।
पुरा पञ्चदशास्य्भ्यो गां चरन्ती निवारय ॥१४॥
प्रस्तावसदृशं वाक्यं प्रभावसदृशं प्रियम् ।
आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥१५॥
एक एव पदार्थस्तु त्रिधा भवति वीक्षितः ।
कुणपं कमिनी मांसं योगिभिः कामिभिः श्वभिः ॥१६॥
सुसिद्धमौषधं धर्मं गृहच्छिद्रं च मैथुनम् ।
कुभुक्तं कुश्रुतं चैव मतिमान्न प्रकाशयेत्॥१७॥
तावन्मौनेन नीयन्ते कोकिलैश्चैव वासराः ।
धर्मं धनं च धान्यं च गुरोर्वचनमौषधम् ।
सुगृहीतं च कर्तव्यमन्यथा तु न जीवति ॥१९॥
त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।
कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यतः ॥२०॥
<DOC_END>
<DOC_START>
कस्य दोषः कुले नास्ति व्याधिना को न पीडितः ।
व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥१॥
आचारः कुलमाख्याति देशमाख्याति भाषणम् ।
संभ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥२॥
सुकुले योजयेत्कन्यां पुत्रं विद्यासु योजयेत्।
व्यसने योजयेच्छत्रुं मित्रं धर्मे नियोजयेत्॥३॥
दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः ।
सर्पो दंशति काले तु दुर्जनस्तु पदे पदे ॥४॥
एतदर्थे कुलीनानां नृपाः कुर्वन्ति संग्रहम् ।
आदिमध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥५॥
प्रलये भिन्नमर्यादा भवन्ति किल सागराः ।
सागरा भेदमिच्छन्ति प्रलयेऽपि न साधवः ॥६॥
मूर्खस्तु प्रहर्तव्यः प्रत्यक्षो द्विपदः पशुः ।
भिद्यते वाक्यशल्येन अदृशं कण्टकं यथा ॥७॥
विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा (इव किंशुकाः) ॥८॥
कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम् ।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥९॥
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥१०॥
उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम् ।
मौनेन कलहो नास्ति नास्ति जागरिते भयम् ॥११॥
अतिरूपेण च सीता अतिगर्वेण रावणः ।
को हि भारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥१३॥
एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥१४॥
एकेन शुष्कवृक्षेण दह्यमानेन वह्निना ।
दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥१५॥
एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना ।
आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी ॥१६॥
किं जातैर्बहुभिः पुत्रैः शोकसन्तापकारकैः ।
वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम् ॥१७॥
प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत॥१८॥
उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे ।
असाधुजनसंपर्के यः पलायेत्स जीवति ॥१९॥
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।
जन्मजन्म नि मर्त्येषु मरणं तस्य केवलम् ॥२०॥
मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम् ।
दाम्पत्ये कलहो नास्ति तत्र श्रीः स्वयमागता ॥२१॥
<DOC_END>
<DOC_START>
मुहूर्तमपि जीवेच्च नरः शुक्लेन कर्मणा ।
न कल्पमपि कष्टेन लोकद्वयविरोधिना ॥१॥
गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥२॥
स्वभावेन हि तुष्यन्ति देवाः सत्पुरुषाः पिता ।
ज्ञातयः स्नानपानाभ्यां वाक्यदानेन पण्डिताः ॥३॥
अहो बत विचित्राणि चरितानि महात्मनाम् ।
लक्ष्मीं तृणाय मन्यन्ते तद्भारेण नमन्ति च ॥४॥
यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम् ।
स्नेहमूलानि दुःखानि तानि त्यक्त्वा वसेत्सुखम् ॥५॥
द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥६॥
द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥७॥
राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः ।
राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥८॥
जीवन्तं मृतवन्मन्ये देहिनं धर्मवर्जितम् ।
मृतो धर्मेण संयुक्तो दीर्घजीवी न संशयः ॥९॥
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥१०॥
दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना ।
अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ॥११॥
बन्धाय विषयासङ्गो मुक्त्यै निर्विषयं मनः ।
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥१२॥
देहाभिमाने गलितं ज्ञानेन परमात्मनि ।
यत्र यत्र मनो याति तत्र तत्र समाधयः ॥१३॥
ईप्सितं मनसः सर्वं कस्य संपद्यते सुखम् ।
यथा धेनुसहस्रेषु वत्सो गच्छति मातरम् ।
तथा यच्च कृतं कर्म कर्तारमनुगच्छति ॥१५॥
अनवस्थितकार्यस्य न जने न वने सुखम् ।
खनित्वा हि खनित्रेण भूतले वारि विन्दति ।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥१७॥
कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी ।
तथापि सुधियश्चार्या सुविचार्यैव कुर्वते ॥१८॥
सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने ।
त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥१९॥
एकाक्षरप्रदातारं यो गुरुं नाभिवन्दते ।
युगान्ते प्रचलेन्मेरुः कल्पान्ते सप्त सागराः ।
साधवः प्रतिपन्नार्थान्न चलन्ति कदाचन ॥२१॥
<DOC_END>
<DOC_START>
धनहीनो न हीनश्च धनिकः स सुनिश्चयः ।
विद्यारत्नेन हीनो यः स हीनः सर्ववस्तुषु ॥१॥
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ।
सुखार्थी चेत्त्यजेद्विद्यां विद्यार्थी चेत्त्यजेत्सुखम् ।
सुखार्थिनः कुतो विद्या सुखं विद्यार्थिनः कुतः ॥३॥
कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः ।
मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥४॥
रङ्कं करोति राजानं राजानं रङ्कमेव च ।
धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ॥५॥
लुब्धानां याचकः शत्रुर्मूर्खानां बोधको रिपुः ।
जारस्त्रीणां पतिः शत्रुश्चौराणां चन्द्रमा रिपुः ॥६॥
येषां न विद्या न तपो न दानं
ज्ञानं न शीलं न गुणो न धर्मः ।
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥९॥
दुर्जनं सज्जनं कर्तुमुपायो नहि भूतले ।
अपानं शतधा धौतं न श्रेष्ठमिन्द्रियं भवेत॥१०॥
विप्रो वृक्षस्तस्य मूलं च सन्ध्या
वेदः शाखा धर्मकर्माणि पत्रम् ।
छिन्ने मूले नैव शाखा न पत्रम् ॥१३॥
माता च कमला देवी पिता देवो जनार्दनः ।
बान्धवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम् ॥१४॥
प्रातर्दश दिशो यान्ति का तत्र परिदेवना ॥१५॥
बुद्धिर्यस्य बलं तस्य निर्बुद्धेश्च कुतो बलम् ।
वने सिंहो यदोन्मत्तः शशकेन निपातितः ॥१६॥
का चिन्ता मम जीवने यदि हरिर्विश्वंभरो गीयते
नो चेदर्भकजीवनाय जननीस्तन्यं कथं निर्ममे ।
त्वत्पादाम्बुजसेवनेन सततं कालो मया नीयते ॥१७॥
अन्नाद्दशगुणं पिष्टं पिष्टाद्दशगुणं पयः ।
पयसोऽष्टगुणं मांसं मांसाद्दशगुणं घृतम् ॥१९॥
शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः ।
घृतेन वर्धते वीर्यं मांसान्मांसं प्रवर्धते ॥२०॥
<DOC_END>
<DOC_START>
सानन्दं सदनं सुतास्तु सुधियः कान्ता प्रियालापिनी
इच्छापूर्तिधनं स्वयोषिति रतिः स्वाज्ञापराः सेवकाः ।
आतिथ्यं शिवपूजनं प्रतिदिनं मिष्टान्नपानं गृहे
साधोः सङ्गमुपासते च सततं धन्यो गृहस्थाश्रमः ॥१॥
आर्तेषु विप्रेषु दयान्वितश्च यच्छ्रद्धया स्वल्पमुपैति दानम् ।
अनन्तपारं समुपैति राजन् यद्दीयते तन्न लभेद्द्विजेभ्यः ॥२॥
दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने
प्रीतिः साधुजने स्मयः खलजने विद्वज्जने चार्जवम् ।
शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता
इत्थं ये पुरुषा कलासु कुशलास्तेष्वेव लोकस्थितिः ॥३॥
नेत्रे साधुविलोकनेन रहिते पादौ न तीर्थं गतौ ।
रे रे जम्बुक मुञ्च मुञ्च सहसा नीचं सुनिन्द्यं वपुः ॥४॥
धिक्तान्धिक्तान्धिगेतान्कथयति सततं कीर्तनस्थो मृदङ्गः ॥५॥
पत्रं नैव यदा करीलविटपे दोषो वसन्तस्य किं
नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् ।
वर्षा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं
यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥६॥
सत्सङ्गाद्भवति हि साधुना खलानां साधूनां नहि खलसङ्गतः खलत्वम् ।
आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं नहि कुसुमानि धारयन्ति ॥७॥
साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ।
कालेन फलते तीर्थं सद्यः साधुसमागमः ॥८॥
को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि ।
को दक्षः परवित्तदारहरणे सर्वोऽपि दक्षो जनः
कस्माज्जीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥९॥
न विप्रपादोदककर्दमाणि न वेदशास्त्रध्वनिगर्जितानि ।
स्वाहास्वधाकारविवर्जितानि श्मशानतुल्यानि गृहाणि तानि ॥१०॥
सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा ।
शान्तिः पत्नी क्षमा पुत्रः षडेते मम बान्धवाः ॥११॥
अनित्यानि शरीराणि विभवो नैव शाश्वतः ।
नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥१२॥
निमन्त्रोत्सवा विप्रा गावो नवतृणोत्सवाः ।
पत्युत्साहयुता भार्या अहं कृष्णचरणोत्सवः ॥१३॥
आत्मवत्सर्वभूतेषु यः पश्यति स पण्‚इतः ॥१४॥
धर्मे तत्परता मुखे मधुरता दाने समुत्साहता
मित्रेऽवञ्चकता गुरौ विनयता चित्तेऽतिमभीरता ।
आचारे शुचिता गुणे रसिकता शास्त्रेषु विज्ञानता
रूपे सुन्दरता शिवे भजनता त्वय्यस्ति भो राघव ॥१५॥
सूर्यस्तीव्रकरः शशी च विकलः क्षारो हि वारां निधिः ।
कामो नष्टतनुर्बलिर्दितिसुतो नन्दी पशुः कामगो
नैतांस्ते तुलयामि भो रघुपते कस्योपमा दीयते ॥१६॥
विद्या मित्रं प्रवासे च भार्या मित्रं गृहेषु च ।
व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥१७॥
विनयं राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम् ।
अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् ॥१८॥
अनालोक्य व्ययं कर्ता अनाथः कलहप्रियः ।
आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति ॥१९॥
नाहारं चिन्तयेत्प्राज्ञो धर्ममेकं हि चिन्तयेत।
आहारो हि मनुष्याणां जन्मना सह जायते ॥२०॥
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत॥२१॥
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥२२॥
वयसः परिणामेऽपि यः खलः खल एव सः ।
<DOC_END>
<DOC_START>
अनृतं साहसं माया मूर्खत्वमतिलोभिता ।
अशौचत्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः ॥१॥
विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥२॥
यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी ।
विभवे यश्च सन्तुष्टस्तस्य स्वर्ग इहैव हि ॥३॥
ते पुत्रा ये पितुर्भक्ताः स पिता यस्तु पोषकः ।
तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः ॥४॥
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥५॥
न विश्वसेत्कुमित्रे च मित्रे चापि न विश्वसेत्।
मनसा चिन्तितं कार्यं वाचा नैव प्रकाशयेत्।
मन्त्रेण रक्षयेद्गूढं कार्ये चापि नियोजयेत्॥७॥
कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् ।
शैले शैले च माणिक्यं मौक्तिकं न गजे गजे ।
साधवो न हि सर्वत्र चन्दनं न वने वने ॥९॥
पुत्राश्च विविधैः शीलैर्नियोज्याः सततं बुधैः ।
नीतिज्ञाः शीलसम्पन्ना भवन्ति कुलपूजिताः ॥१०॥
माता शत्रुः पिता वैरी याभ्यां बाला न पाठिताः ।
सभामध्ये न शोभन्ते हंसमध्ये बको यथा ॥११॥
लालनाद्बहवो दोषास्ताडने बहवो गुणाः ।
अतश्छात्रांश्च पुत्रांश्च ताडयेन्न तु लालयेत्॥१२॥
श्लोकेन वा तदर्धेन तदर्धार्धाक्षरेण वा ।
कान्तावियोगः स्वजनापमानं ऋणस्य शेषं कुनृपस्य सेवा ।
दारिद्र्यभावाद्विमुखं च मित्रं विनाग्निना पञ्च दहन्ति कायम् ॥१४॥
नदीतीरे च ये वृक्षाः परगेहेषु कामिनी ।
मन्त्रिहीनाश्च राजानः शीघ्रं नश्यन्त्यसंशयः ॥१५॥
बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा ।
बलं वित्तं च वैश्यानां शूद्राणां पारिचर्यकम् ॥१६॥
खगा वीतफलं वृक्षं भुक्त्वा चाभ्यागतो गृहम् ॥१७॥
गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् ।
प्राप्तविद्या गुरुं शिष्या दग्धारण्यं मृगास्तथा ॥१८॥
दुराचारी दुरादृष्टिर्दुरावासी च दुर्जनः ।
यन्मैत्री क्रियते पुम्भिर्नरः शीघ्रं विनश्यति ॥१९॥
समाने शोभते प्रीतिः राज्ञि सेवा च शोभते ।
वाणिज्यं व्यवहारेषु दिव्या स्त्री शोभते गृहे ॥२०॥
<DOC_END>
<DOC_START>
परस्परस्य मर्माणि ये भाषन्ते नराधमाः ।
त एव विलयं यान्ति वल्मीकोदरसर्पवत॥२॥
नाकारि पुष्पं खलु चन्दनस्य ।
धातुः पुरा कोऽपि न बुद्धिदोऽभूत॥३॥
सर्वेषु गात्रेषु शिरः प्रधानम् ॥४॥
दूतो न संचरति खे न चलेच्च वार्ता
पूर्वं न जल्पितमिदं न च सङ्गमोऽस्ति ।
जानाति यो द्विजवरः स कथं न विद्वान॥५॥
विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः ।
भाण्डारी प्रतिहारी च सप्त सुप्तान्प्रबोधयेत॥६॥
अहिं नृपं च शार्दूलं वृद्धं च बालकं तथा ।
परश्वानं च मूर्खं च सप्त सुप्तान्न बोधयेत॥७॥
ते द्विजाः किं करिष्यन्ति निर्विषा इव पन्नगाः ॥८॥
यस्मिन्रुष्टे भयं नास्ति तुष्टे नैव धनागमः ।
निग्रहोऽनुग्रहो नास्ति स रुष्टः किं करिष्यति ॥९॥
निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषमस्तु न चाप्यस्तु घटाटोपो भयङ्करः ॥१०॥
रात्रौ चौरप्रसङ्गेन कालो गच्छन्ति धीमताम् ॥११॥
स्वहस्तलिखितं स्तोत्रं शक्रस्यापि श्रियं हरेत॥१२॥
इक्षुदण्दास्तिलाः शूद्राः कान्ता हेम च मेदिनी ।
चन्दनं दधि ताम्बूलं मर्दनं गुणवर्धनम् ॥१३॥
<DOC_END>
<DOC_START>
यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु ।
तस्य ज्ञानेन मोक्षेण किं जटाभस्मलेपनैः ॥१॥
एकमप्यक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत।
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृणी भवेत॥२॥
खलानां कण्टकानां च द्विविधैव प्रतिक्रिया ।
उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥३॥
कुचैलिनं दन्तमलोपधारिणं बह्वाशिनं निष्ठुरभाषिणं च ।
सूर्योदये चास्तमिते शयानं विमुञ्चति श्रीर्यदि चक्रपाणिः ॥४॥
त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च ।
तमर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके मनुषस्य बन्धुः ॥५॥
अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति ।
प्राप्ते चैकादशे वर्षे समूलं तद्विनश्यति ॥६॥
अयुक्तं स्वामिनो युक्तं युक्तं नीचस्य दूषणम् ।
अमृतं राहवे मृत्युर्विषं शङ्करभूषणम् ॥७॥
तद्भोजनं यद्द्विजभुक्तशेषं तत्सौहृदं यत्क्रियते परस्मिन।
सा प्राज्ञता या न करोति पापं दम्भं विना यः क्रियते स धर्मः ॥८॥
मणिर्लुण्ठति पादाग्रे काचः शिरसि धार्यते ।
क्रयविक्रयवेलायां काचः काचो मणिर्मणिः ॥९॥
अनन्तशास्त्रं बहुलाश्च विद्याः स्वल्पश्च कालो बहुविघ्नता च ।
यत्सारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमध्यात॥१०॥
दूरागतं पथि श्रान्तं वृथा च गृहमागतम् ।
अनर्चयित्वा यो भुङ्क्ते स वै चाण्डाल उच्यते ॥११॥
आत्मानं नैव जानन्ति दर्वी पाकरसं यथा ॥१२॥
धन्या द्विजमयी नौका विपरीता भवार्णवे ।
तरन्त्यधोगताः सर्वे उपरिष्ठाः पतन्त्यधः ॥१३॥
अयममृतनिधानं नायकोऽप्योषधीनां अमृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः ।
भवति विगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं न याति ॥१४॥
विधिवशात्परदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥१५॥
पीतः क्रुद्धेन तातश्चरणतलहतो वल्लभो येन रोषाद्
आबाल्याद्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे ।
तस्मात्खिन्ना सदाहं द्विजकुलनिलयं नाथ युक्तं त्यजामि ॥१६॥
बन्धनानि खलु सन्ति बहूनि प्रेमरज्जुकृतबन्धनमन्यत।
दारुभेदनिपुणोऽपि षडङ्घ्रिर् निष्क्रियो भवति पङ्कजकोशे ॥१७॥
वृद्धोपि वापणपतिर्न जहाति लाभं ।
यंत्रार्पितो मधुरतां न जहाति चेक्षुः
क्षीणोपि न त्यजति शीलगुणान् कुलीनः ॥ ॥१८॥
उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया
तेन त्वं दिवि भूतले च सततं गोवर्धनो गीयसे ।
त्वां त्रैलोक्यधरं वहामि कुचयोर्गरेण तद्गण्यते
किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते ॥१९॥
<DOC_END>
<DOC_START>
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥१॥
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः ।
तथा चतुर्भिः पुरुषः परीक्ष्यते त्यागेन शीलेन गुणेन कर्मणा ॥२॥
आगतं तु भयं वीक्ष्य प्रहर्तव्यमशङ्कया ॥३॥
न भवन्ति समाः शीले यथा बदरकण्टकाः ॥४॥
निःस्पृहो नाधिकारी स्यान्नाकामो मण्डनप्रियः ।
नाविदग्धः प्रियं ब्रूयात्स्पष्टवक्ता न वञ्चकः ॥५॥
मूर्खाणां पण्डिता द्वेष्या अधनानां महाधनाः ।
पराङ्गना कुलस्त्रीणां सुभगानां च दुर्भगाः ॥६॥
आलस्योपगता विद्या परहस्तगतं धनम् ।
अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥७॥
अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते ।
गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥८॥
वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम् ॥९॥
अन्यथा तत्पदं शान्तं लोकाः क्लिश्यन्ति चान्यथा ॥१०॥
दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम् ।
नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः ।
नास्ति कोपसमो वह्निर्नास्ति ज्ञानात्परं सुखम् ॥१२॥
जन्ममृत्यू हि यात्येको भुनक्त्येकः शुभाशुभम् ।
नरकेषु पतत्येक एको याति परां गतिम् ॥१३॥
तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् ।
जिताशस्य तृणं नारी निःस्पृहस्य तृणं जगत॥१४॥
विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।
व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥१५॥
वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् ।
वृथा दानं समर्थस्य वृथा दीपो दिवापि च ॥१६॥
नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम् ।
नास्ति चक्षुःसमं तेजो नास्ति धान्यसमं प्रियम् ॥१७॥
अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः ।
मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः ॥१८॥
सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥१९॥
चला लक्ष्मीश्चलाः प्राणाश्चले जीवितमन्दिरे ।
चलाचले च संसारे धर्म एको हि निश्चलः ॥२०॥
नराणां नापितो धूर्तः पक्षिणां चैव वायसः ।
चतुष्पदां शृगालस्तु स्त्रीणां धूर्ता च मालिनी ॥२१॥
जनिता चोपनेता च यस्तु विद्यां प्रयच्छति ।
अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥२२॥
राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च ।
पत्नीमाता स्वमाता च पञ्चैता मातरः स्मृताः ॥२३॥
<DOC_END>
<DOC_START>
प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् ।
अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः ।
तदहं सम्प्रवक्ष्यामि लोकानां हितकाम्यया ।
येन विज्ञातमात्रेण सर्वज्ञत्वं प्रपद्यते ॥३॥
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।
ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥५॥
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥६॥
आपदर्थे धनं रक्षेच्छ्रीमतां कुत आपदः ।
कदाचिच्चलते लक्ष्मीः संचितोऽपि विनश्यति ॥७॥
यस्मिन्देशे न संमानो न वृत्तिर्न च बान्धवाः ।
न च विद्यागमोऽप्यस्ति वासं तत्र न कारयेत्॥८॥
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत्॥९॥
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता ।
पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥१०॥
मित्रं चापत्तिकालेषु भार्यां च विभवक्षये ॥११॥
आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥१२॥
यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥१३॥
वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् ।
रूपशीलां न नीचस्य विवाहः सदृशे कुले ॥१४॥
नदीनां शस्त्रपाणीनां नखीनां शृङ्गिणां तथा ।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥१५॥
अमित्रादपि सद्वृत्तं बालादपि सुभाषितम् ॥१६॥
स्त्रीणां द्विगुण आहारो लज्जा चापि चतुर्गुणा ।
साहसं षड्गुणं चैव कामश्चाष्टगुणः स्मृतः ॥१७॥
<DOC_END>
<DOC_START>
श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् ।
पक्षिणः काकश्चण्डालः पशूनां चैव कुक्कुरः ।
भस्मना शुद्ध्यते कास्यं ताम्रमम्लेन शुद्ध्यति ।
रजसा शुद्ध्यते नारी नदी वेगेन शुद्ध्यति ॥३॥
भ्रमन्सम्पूज्यते राजा भ्रमन्सम्पूज्यते द्विजः ।
भ्रमन्सम्पूज्यते योगी स्त्री भ्रमन्ती विनश्यति ॥४॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः ॥५॥
तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः ।
सहायास्तादृशा एव यादृशी भवितव्यता ॥६॥
कालः पचति भूतानि कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥७॥
न पश्यति च जन्मान्धः कामान्धो नैव पश्यति ।
मदोन्मत्ता न पश्यन्ति अर्थी दोषं न पश्यति ॥८॥
स्वयं कर्म करोत्यात्मा स्वयं तत्फलमश्नुते ।
स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते ॥९॥
राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः ।
भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥१०॥
ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥११॥
मूर्खं छन्दोऽनुवृत्त्या च यथार्थत्वेन पण्डितम् ॥१२॥
वरं न राज्यं न कुराजराज्यं वरं न मित्रं न कुमित्रमित्रम् ।
वरं न शिष्यो न कुशिष्यशिष्यो वरं न दारा न कुदारदारः ॥१३॥
कुराजराज्येन कुतः प्रजासुखं कुमित्रमित्रेण कुतोऽभिनिर्वृतिः ।
कुदारदारैश्च कुतो गृहे रतिः कुशिष्यशिष्यमध्यापयतः कुतो यशः ॥१४॥
प्रभूतं कार्यमल्पं वा यन्नरः कर्तुमिच्छति ।
सर्वारम्भेण तत्कार्यं सिंहादेकं प्रचक्षते ॥१६॥
इन्द्रियाणि च संयम्य रागद्वेषविवर्जितः ।
समदुःखसुखः शान्तः तत्त्वज्ञः साधुरुच्यते ॥१७॥
प्रत्युत्थानं च युद्धं च संविभागं च बन्धुषु ।
स्वयमाक्रम्य भुक्तं च शिक्षेच्चत्वारि कुक्कुटात॥१८॥
गूढमैथुनचारित्वं काले काले च संग्रहम् ।
बह्वाशी स्वल्पसन्तुष्टः सनिद्रो लघुचेतनः ।
स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः ॥२०॥
सुश्रान्तोऽपि वहेद्भारं शीतोष्णं न च पश्यति ।
सन्तुष्टश्चरते नित्यं त्रीणि शिक्षेच्च गर्दभात॥२१॥
कार्यावस्थासु सर्वासु अजेयः स भविष्यति ॥२२॥
<DOC_END>
<DOC_START>
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥१॥
जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हृदये चिन्तयन्त्यन्यं न स्त्रीणामेकतो रतिः ॥२॥
यो मोहान्मन्यते मूढो रक्तेयं मयि कामिनी ।
स तस्या वशगो भूत्वा नृत्येत्क्रीडाशकुन्तवत॥३॥
कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राजप्रियः ।
कः कालस्य न गोचरत्वमगमत्कोऽर्थी गतो गौरवं
को वा दुर्जनदुर्गमेषु पतितः क्षेमेण यातः पथि ॥४॥
न निर्मिता केन न दृष्टपूर्वा न श्रूयते हेममयी कुरङ्गी ।
तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥५॥
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥६॥
गुणाः सर्वत्र पूज्यन्ते न महत्योऽपि सम्पदः ।
पूर्णेन्दुः किं तथा वन्द्यो निष्कलङ्को यथा कृशः ॥७॥
परैरुक्तगुणो यस्तु निर्गुणोऽपि गुणी भवेत।
इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ॥८॥
विवेकिनमनुप्राप्ता गुणा यान्ति मनोज्ञताम् ।
गुणैः सर्वज्ञतुल्योऽपि सीदत्येको निराश्रयः ।
परपीडा च या वृत्तिर्नैव साधुषु विद्यते ॥११॥
किं तया क्रियते लक्ष्म्या या वधूरिव केवला ।
या तु वेश्येव सामान्या पथिकैरपि भुज्यते ॥१२॥
धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु ।
अतृप्ताः प्राणिनः सर्वे याता यास्यन्ति यान्ति च ॥१३॥
न क्षीयते पात्रदानमभयं सर्वदेहिनाम् ॥१४॥
तृणं लघु तृणात्तूलं तूलादपि च याचकः ।
वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥१५॥
प्राणत्यागे क्षणं दुःखं मानभङ्गे दिने दिने ॥१६॥
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥१७॥
संसारविषवृक्षस्य द्वे फले अमृतोपमे ।
सुभाषितं च सुस्वादु सङ्गतिः सज्जने जने ॥१८॥
जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः ।
तेनैवाभ्यासयोगेन देही चाभ्यस्यते पुनः ॥१९॥
पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥२०॥
<DOC_END>
<DOC_START>
सभामध्ये न शोभन्ते जारगर्भा इव स्त्रियः ॥१॥
कृते प्रतिकृतिं कुर्याद्धिंसने प्रतिहिंसनम् ।
तत्र दोषो न पतति दुष्टे दुष्टं समाचरेत॥२॥
यद्दूरं यद्दुराराध्यं यच्च दूरे व्यवस्थितम् ।
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥३॥
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।
सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥४॥
पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरी ।
शङ्खो भिक्षाटनं कुर्यान्न दत्तमुपतिष्ठते ॥५॥
अशक्तस्तु भवेत्साधुर्ब्रह्मचारी वा निर्धनः ।
व्याधितो देवभक्तश्च वृद्धा नारी पतिव्रता ॥६॥
नान्नोदकसमं दानं न तिथिर्द्वादशी समा ।
न गायत्र्याः परो मन्त्रो न मातुर्दैवतं परम् ॥७॥
तक्षकस्य विषं दन्ते मक्षिकायास्तु मस्तके ।
वृश्चिकस्य विषं पुच्छे सर्वाङ्गे दुर्जने विषम् ॥८॥
पत्युराज्ञां विना नारी ह्युपोष्य व्रतचारिणी ।
आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत्॥९॥
न दानैः शुध्यते नारी नोपवासशतैरपि ।
न तीर्थसेवया तद्वद्भर्तुः पादोदकैर्यथा ॥१०॥
पादशेषं पीतशेषं सन्ध्याशेषं तथैव च ।
श्वानमूत्रसमं तोयं पीत्वा चान्द्रायणं चरेत्॥११॥
दानेन पाणिर्न तु कङ्कणेन स्नानेन शुद्धिर्न तु चन्दनेन ।
मानेन तृप्तिर्न तु भोजनेन ज्ञानेन मुक्तिर्न तु मण्डनेन ॥१२॥
नापितस्य गृहे क्षौरं पाषाणे गन्धलेपनम् ।
आत्मरूपं जले पश्यन्शक्रस्यापि श्रियं हरेत्॥१३॥
सद्यः प्रज्ञाहरा तुण्डी सद्यः प्रज्ञाकरी वचा ।
सद्यः शक्तिहरा नारी सद्यः शक्तिकरं पयः ॥१४॥
परोपकरणं येषां जागर्ति हृदये सताम् ।
नश्यन्ति विपदस्तेषां सम्पदः स्युः पदे पदे ॥१५॥
यदि रामा यदि च रमा यदि तनयो विनयगुणोपेतः ।
तनये तनयोत्पत्तिः सुरवरनगरे किमाधिक्यम् ॥१६॥
ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥१७॥
दानार्थिनो मधुकरा यदि कर्णतालैर्दूरीकृताः करिवरेण मदान्धबुद्ध्या ।
तस्यैव गण्डयुगमण्डनहानिरेषा भृङ्गाः पुनर्विकचपद्मवने वसन्ति ॥१८॥
परदुःखं न जानन्ति अष्टमो ग्रामकण्टकः ॥१९॥
अधः पश्यसि किं बाले पतितं तव किं भुवि ।
व्यालाश्रयापि विकलापि सकण्टकापि वक्रापि पङ्किलभवापि दुरासदापि ।
गन्धेन बन्धुरसि केतकि सर्वजन्ता रेको गुणः खलु निहन्ति समस्तदोषान॥२१॥
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥२२॥
<DOC_END>
<DOC_START>
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत॥१॥
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत॥२॥
सन्तोषामृततृप्तानां यत्सुखं शान्तिरेव च ।
न च तद्धनलुब्धानामितश्चेतश्च धावताम् ॥३॥
सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने ।
त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥४॥
अन्तरेण न गन्तव्यं हलस्य वृषभस्य च ॥५॥
पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च ।
नैव गां न कुमारीं च न वृद्धं न शिशुं तथा ॥६॥
शकटं पञ्चहस्तेन दशहस्तेन वाजिनम् ।
हस्ती हस्तसहस्रेण देशत्यागेन दुर्जनम् ॥७॥
हस्ती अङ्कुशमात्रेण वाजी हस्तेन ताड्यते ।
शृङ्गी लगुडहस्तेन खड्गहस्तेन दुर्जनः ॥८॥
तुष्यन्ति भोजने विप्रा मयूरा घनगर्जिते ।
साधवः परसम्पत्तौ खलाः परविपत्तिषु ॥९॥
अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् ।
आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ॥१०॥
बाहुवीर्यं बलं राज्ञां ब्रह्मणो ब्राह्मविद्बली ।
नात्यन्तं सरलैर्भाव्यं गत्वा पश्य वनस्थलीम् ।
छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः ॥१२॥
उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ।
यस्यार्थस्तस्य मित्राणि यस्यार्थस्तस्य बान्धवाः ।
यस्यार्थः स पुमांल्लोके यस्यार्थः स च जीवति ॥१५॥
चत्वारि चिह्नानि वसन्ति देहे ।
दरिद्रता च स्वजनेषु वैरम् ।
शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना ।
न गुह्यगोपने शक्तं न च दंशनिवारणे ॥१९॥
वाचां शौचं च मनसः शौचमिन्द्रियनिग्रहः ।
पुष्पे गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम् ।
इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ॥२१॥
<DOC_END>
<DOC_START>
रतार्ता तित्तिरी रौति तीरे तीरे तरौ तरौ ॥
नाता नूतनतातान्तिं तनौ तेनातनोति नः ॥
<DOC_END>
<DOC_START>
==चोदस्व महते धनाय ॥ ऋग्वेदः १-१०४-७
: वेदाः वैराग्यमात्रं बोधयन्ति इत्येतत् मूढकल्पना, आरोपमात्रम् एव । सम्पत्तेः सम्पादनविषये कोपि विरोधः नास्ति । किन्तु नैजा सम्पत्तिः का तस्याः सम्पादनमार्गः कः भवेत् इति वेदः ज्ञापयति । सम्पत्तिः आन्तरिकमौल्यैः युक्ता स्यात् । वाणिज्यस्य न्यूनाधिक्यम् अस्य मौल्यस्य परिवर्तनं न कुर्यात् । सम्पत्तिं प्राप्तवान् जनः ततः पोषणं प्राप्नुयात् । सम्पादनमार्गः ऋजुः पारदर्शकश्च भवेत् । एतान् नियमान् उल्लङ्घ्य सम्पत्तेः सम्पादनं यदि क्रियेत तर्हि तस्य लाभं प्राप्नुवन्ति आरक्षकाः, चोराः, वैद्याः, न्यायवादिनश्च भ्रष्टाचारेण प्राप्तस्य उत्कोचस्य गौरवं न विद्यते । सम्पत्तेः स्वामिनः सन्तः वयमपि महिमानं सम्पादयेम ।
<DOC_END>
<DOC_START>
जगद्गुरुरामभद्राचार्यः १९५०– पूर्वाश्रमे गिरिधरमिश्राख्यः रामानन्दसम्प्रदायस्य वर्तमानजगद्गुरुरामानन्दाचार्यचतुष्टये एकोऽस्ति, अस्मिन् पदे १९८८तमे ईसवीयाब्दे प्रतिष्ठापितवांश्च। सः उत्तरप्रदेशराज्ये चित्रकूटस्थस्य तुलसीदासनामस्थापितस्य श्रीतुलसीपीठ इत्यस्य धार्मिकसामाजिकसेवासंस्थानस्य संस्थापकोऽध्यक्षश्च। अपि च, सः चित्रकूटस्थितस्य जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयस्य संस्थापक आजीवनकुलाधिपतिश्च। एषो विश्वविद्यालयः चतुर्विधविकलाङ्गविद्यार्थिभ्य एव स्नातकस्नातकोत्तराश्च पाठ्यक्रमोपाधीः प्रददाति। जगद्गुरुरामभद्राचार्यः मासद्वयाल्पायावेव नेत्रज्योतिरहितोऽभवत् – ततः प्रभृति प्रज्ञाचक्षुरेषः। अध्ययनाय रचनायै वा तेन ब्रेललिपिः कदापि न प्रयुक्ता। बहुभाषाविदस्ति द्वाविंशतिभाषासम्भाषणशौण्डः रामभद्राचार्यः। सः संस्कृतहिन्द्यवधीमैथिल्यादिभाषासु आशुकविः रचनाकारश्च। तेन अशीत्यधिकाः ग्रन्थाः प्रणीताः, येषु चत्वारि महाकाव्यानि (संस्कृते द्वे हिन्द्यां द्वे च रामचरितमानसे हिन्दीटीका, अष्टाध्याय्यां काव्यात्मकसंस्कृतटीका, प्रस्थानत्रयीसंस्कृतभाष्यानि च सम्मिलितानि। सः तुलसीदाससाहित्यक्षेत्रे भारतस्य सर्वश्रेष्ठविशेषज्ञेषु गण्यते, रामचरितमानसस्य एकायाः प्रामाणिकप्रत्याः सम्पादकश्च, एषा प्रतिः तुलसीपीठेन प्रकाशिता। स्वामिरामभद्राचार्यः रामायणभागवतयोः सुप्रसिद्धकथाकारः वर्तते – भारतस्य भिन्नभिन्ननगरेषु तस्य कथाकार्यक्रमाः नियमितरूपेणायुज्यन्ते संस्कारटीवीसनातनटीवीत्यादिचैनलेषु प्रसार्यन्ते च।
प्रभो पाहि मां सेवकक्लेशहर्त्तः ॥}}
गिरिधरकरं गृहीत्वा कथयति यशोदा अवगुण्ठनधृतवती ॥}}
*रामप्राणप्रिये रामे रमे राजीवलोचने ।
राहि राज्ञि रतिं रम्यां रामे राजनि राघवे ॥
*कः कौ के केककेकाकः काककाकाककः ककः ।
*नो निर्वाति क्षणमपि सखेऽद्यापि नीराजनास्याः
*क्रन्दिग्रामः किमु न करुणैः क्रन्दितै रामबन्धो-
*ग्रामो रामो गत इत अतो ग्रामनामा सुधामा
*कं ब्रह्माणं मधुमथनमं मं महेशं नियच्छ-
*शशाङ्के कुतः श्यामता जाता ।
*कौसल्यासुप्रजा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥
*उत्तिष्ठोत्तिष्ठ भो राम उत्तिष्ठ राघव प्रभो ।
उत्तिष्ठ जानकीनाथ सर्वलोकं सुखीकुरु ॥
*मन्दं मन्दमवन् पवन् सुपवनः प्रालेयलेपापहृन्
*वेदाः सुस्मृतयः समे मुनिवराः सप्तर्षिवर्या बुधाः
*सप्ताश्वो ननु भानुमान् स भगवानिन्दुर्द्विजानां पतिः
<DOC_END>
<DOC_START>
==जहि रक्षांसि सुक्रतो ॥ ऋग्वेदः ६-१६-२९
हे सत्कर्मशील राक्षसीयगुणान् विनाशय ।
: येभ्यः आत्मा रक्षयितव्यः ते एव राक्षसप्रवृत्तयः, शक्तयः, गुणाः । एते अस्माकम् अन्तः तिष्ठन्तः एव अस्मान् नाशयन्ति । दुराशा स्यात्, कोपः स्यात्, अतृप्तिः स्यात्, आकर्षणं स्यात्, दुरहङ्कारः स्यात्, असूया स्यात् । एतेषां दासाः यदि भवेम तर्हि अस्माकं विनाशः निश्चितः एव । परिश्रमपूर्वकम् एते निगृहीताः चेत् वरम् । एतेभ्यः मुक्तिः प्राप्तव्या चेत् सदा सत्कर्मेषु एव प्रवृत्तिः स्यात् । स्वार्थरहितानि, लोकहितचिन्तनैः युक्तानि कार्याणि एव सत्कर्माणि । अयम् एव अस्माकं सहजस्वभावः भवेत् ।
<DOC_END>
<DOC_START>
जाग्रत् स्वप्न सुषुप्त्यादि प्रपञ्चं यत् प्रकाशते
तद् ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ कैवल्योपनिषत् १-१७
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं सर्वं यत् प्रकाशते ‘तद् ब्रह्मैव अहम्’ इति ज्ञात्वा
वेदान्तेषु ‘ब्रह्म’ शब्दः पौनः पुन्येन प्रयुज्यते । ‘ब्रह्म’ शब्दस्य वेदः, तपः, सृष्टिकर्ता,
ब्राह्मणः – इति च अर्थाः भवन्ति । औपनिषदं ब्रह्म तु नान्यतमम् । ‘ब्रह्मज्ञानेन मुक्तिः’
इत्यत्र ‘ब्रह्म’ शब्दस्य अर्थः एतेभ्यः अन्य एव ॥
तर्हि वेदान्तेषु ‘ब्रह्म’ पदार्थः कः इति संशये अयं मन्त्रः परिहरति । अवस्थात्रयसाक्षिभूतः,
अवस्थात्रयविलक्षणः, अवस्थात्रयास्पदभूतः, निर्विकारी, असंसारी आत्मैव औपनिषदं परब्रह्म ।
इदं परब्रह्म न स्वस्मात् भिन्नभूतम् अनात्मवस्तु । इदं ब्रह्म इन्द्रचन्द्रादिदेवतासु अन्यतमा
परिच्छिन्ना देवता न भवति । किं तु परिपूर्णं निरूपाधिकं तत्त्वमेतत् । ‘इदं ब्रह्मैव अहम्’ इति
विजानतः संसारबन्धनम् भवेद्वा भयं भवेद्वा दुःखं भवेद्वा नैव ॥
<DOC_END>
<DOC_START>
==जानतां सं गमेमहि ॥ ऋग्वेदः ५-५१-१५
सज्जनानां सङ्गः मधुपानमिव' इति श्रुतमेव । सर्वेषां जीविनां हितमेव चिन्तयन्ति सज्जनाः । तेषां सहवासे वयं सुरक्षिताः भवामः । सज्जनाः स्वहितेन सह अन्येषां हितमपि अभिलषन्ति इत्यतः तेषां सन्तोषः वर्धते । तेषां सहवासे अस्माभिः अपि इदम् अनुभूयते । अधिकसन्तोषस्य तृप्तेः च प्राप्त्यर्थं स्वार्थातीताः स्याम इत्येतं पाठम् अधिगच्छामः । सर्वेषां हिते अस्माकं हितमपि अन्तर्निहितमस्ति इत्येतत् सरलं सुन्दरञ्च सत्यम् अस्माभिः अवगम्यते । तदा अस्माकं जीवने किञ्चन परिवर्तनं जायते । अस्माकं प्रगतौ अन्येषां प्रगतिः, अन्येषां प्रगतौ अस्माकं प्रगतिश्च संयुक्तं भवति । तदा वस्तुतः उत्तमस्य मानवसमाजस्य निर्माणं भविष्यति ।
<DOC_END>
<DOC_START>
==जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥ अथर्ववेदः ३-३०-२
पत्नी भर्तारं मधुराणि शान्तिदायकानि वचनानि वदन्तु ।
:पत्नी यथा मधुरं शान्तिदायकं वचनं वदेत् तथैव पतिः अपि पत्नीं मधुराणि शान्तिदायकानि वचनानि वदेत् । नीतिनियमसम्बद्धानि वचनानि पुरुषमहिलयोः पतिपत्न्योः कृते समानतया अन्वेति । कुटुम्बे सामरस्यं यदि अपेक्षितं तर्हि उभाभ्यामपि स्वीयानि कर्तव्यानि समीचीनतया निर्वहणीयानि । केन प्रथमं कृतं, कीयता प्रमाणेन कृतमित्यादीनि चिन्तनानि न भवेयुः । इदमेव प्रेम, त्यागः । मातापुत्रयोः केषाञ्चन मासानां सामीप्यं भवति । दीर्घकालं यावत् विद्यमानः अत्यन्तं निकटसम्बन्धः भवति पतिपत्न्योः । मधुरं शान्तियुतञ्च सम्भाषणम्, आत्मीयः व्यवहारश्च शारीरकातीतं सामीप्यम् आनयति । अस्मिन् सामीप्ये हितं, निरातङ्कः, सामञ्जस्यं, शान्तिः, समाधानं, शक्तिः, प्रेरणा च प्राप्यन्ते यानि भवन्ति अनन्यानि अमूल्यानि च । सम्भाव्यमानान् भेदान् गौणीकृत्य इदं सामीप्यं यदि साधयेम तर्हि शान्ति-समाधान-सुरक्षा-स्वास्थ्यादयः अस्मदीयाः भविष्यन्ति ।
<DOC_END>
<DOC_START>
: मृत्तिकाशिलाभिः निर्मितं भवनमात्रम् । न तु गृहम् तत् गृहं तदा एव भवेत् यदा इदं मदीयं भावयन्ती, तस्मिन् प्रीति-प्रेम-त्याग-सहकारादिभावान् प्रवाहयन्ती काचित् गृहिणी तत्र स्यात् । सा एव गृहायते । 'न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते इत्येतस्य सुभाषितस्य मूलम् अस्मिन् वेदमन्त्रे विद्यते । मृत्तिकाशिलाभिः निर्मितमेव गृहं यदि स्यात् तर्हि उपाहारमन्दिरं छात्रावासादयः अपि गृहाणि अभविष्यन् अत्रापि यद्यपि भोजन-वसत्यादयः विद्यन्ते, आदर-नमस्कारादयः दृश्यन्ते तथापि अत्र विद्यमाना दृष्टिः एका एव धनम् । किन्तु गृहिणी धननिमित्तं न कार्यं करोति । स्वकीयानां हिताय तया क्रियमाणः त्याग-सेवादयः अमूल्याः । पुरुषाणाम् उपजीविकायाः बहु गुणितमेव भवेत् तदीयः परिश्रमः । किन्तु रूढौ बहिः कार्यं कुर्वाणः पुरुषः श्रेष्ठः, गृहे कार्यं कुर्वाणा महिला सेविकामात्रम् इत्येषः भावः बहूनां कुटुम्बानां समस्यायाः मूलकारणं जातमस्ति । स्वस्य गर्भे स्वस्य गृहे अग्रिमस्य सन्तानस्य रूपयित्री पत्नी/जननी एव गृहम् । तस्याः निमित्तमेव गृहम् इति यदि अवगमनं स्यात् तर्हि बह्व्यः कौटुम्बिकसमस्याः परिहृताः स्युः, सबलायाः सन्ततेः निर्माणमपि साध्यं भवेत् ।
<DOC_END>
<DOC_START>
जारत्कारवः आर्तभागः पप्रच्छ… कति ग्रहाः कत्यतिग्रहाः इति ।
अष्टौ ग्रहाः, अष्टौ अतिग्रहा इति । बृहदारण्यकोपनिषत् ३-२-१
जनकराजस्य विद्वत्सभायाम् अनेके विद्वांसः आसन् । तेषाम् अन्यतमः जारत्कारवः
आर्तभागः । एषः याज्ञवल्क्यम् महर्षिम् पृष्टवान् 'कति ग्रहाः कति अतिग्रहाः इति ।
प्रत्युत्तरत्वेन याज्ञवल्क्यः वदति “ अष्टौ ग्रहाः, अष्टौ अतिग्रहाः” इति ॥
अत्र ग्रहा नाम इन्द्रियाणि, अतिग्रहा नाम विषयाः इत्यर्थः । गृह्णन्ति, ग्राहयन्ति इति ग्रहाः ।
इन्द्रियाणि जीवम् आत्मसकाशम् आकर्षन्ति इति ग्रहाः उच्यन्ते । अस्मान् इन्द्रियाणि स्वसमीपं
गृहणन्ति खलु विषयास्तु इमानि ग्रहाख्यानि इन्द्रियाण्यपि स्वाभिमुखानि कुर्वन्ति इति अतिग्रहाः
विषयाणां च दासभूताः विषयभोगेषु मग्नः सन्तः अनर्थपरम्पराः अनुभवन्ति । विवेकिनस्तु इन्द्रियाख्यान्
ग्रहान् विषयाख्यान् अतिग्रहान् च स्वाधीनान् कृत्वा तेषामनधीनाः सन्तः धीरा विवेकिनः उच्यन्ते ॥
<DOC_END>
<DOC_START>
ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैः जन्ममृत्युप्रहाणिः । श्वेताश्वतरोपनिषत् १-११
देवं ज्ञात्वा सर्वबन्धनानां नाशः, क्लेशानां नाशे सति जन्ममृत्युनाशः ।
पाशो नाम रज्जुः, गुणः बन्धनम् । अज्ञस्य जीवस्य सर्वतः शतं, सहस्रं
बन्धनानि विद्यन्ते । जन्मबन्धः, कर्मबन्धः, जराबन्धः, दुःखबन्धः रोगबन्धः,
मरणबन्धः इति सर्वमपि बन्धनमेव । नागपाशवत् एते बन्धाः उग्राः क्रूराश्च भवन्ति ॥
आत्मज्ञानमात्रेण हि एतेषां नागपाशानां ध्वंसः । आत्मज्ञानरूपया गारुडमन्त्रशक्त्या
जन्मजरादुःखमरणरूपाणां नागपाशानां मूलसहितो नाशो भवति । गाढान्धकारस्य
सूर्यप्रकाशः एक एव रामबाणः खलु ?
अविद्या अस्मिता रागः द्वेषः अभिनिवेशश्च इति पञ्चक्लेशाः मानवानां दुःखानि
कुर्वन्ति । आत्मज्ञानेन पाशनाशः, क्लेशनिवृत्तिः, जन्ममरणसंसारचक्रस्य
प्रध्वंसः । किं गरुडस्य सर्पेभ्यो भयमस्ति नैव । आत्मज्ञानिनः
<DOC_END>
<DOC_START>
==ज्योतिर्वृणीत तमसो विजानन् ॥ ऋग्वेदः ३-३९-७
अन्धकारात् अपसार्य ज्ञानज्योतिः चीयताम् ।
: अज्ञानमेव अन्धकारः । ज्ञानमेव ज्योतिः, प्रकाशः । ज्ञानेनैव मानवः अन्येभ्यः जीविभ्यः भिन्नः वर्तते । अन्येषां पशूनां ज्ञानं स्वाभाविकमात्रम् । किन्तु मानवस्य ज्ञानं स्वाभाविकं नैमित्तिकञ्च । किम् किमर्थम् कथम् इत्यादीन् प्रश्नान् पृच्छन् ज्ञानं सम्पादयितुम् अर्हति मानवः । तेन श्रेष्ठताम् आप्तुम् अर्हति । अथवा अज्ञानसागरे एव निमज्जनं कुर्वन् क्षुल्लकः दानवः अपि भवेत् । आनन्द-सुख-शान्त्यादयः श्रेष्ठमानवानां सम्पत्तिः ज्ञानं नाम किम्
: मादृशाः एव अन्ये । अन्तः बहिश्च समानता । अन्यस्य सम्पत्तिः मम मास्तु । इन्द्रियाणाम् अत्युपयोगः एव रोगस्य कारणम् । अनावश्यकं वस्तुसङ्ग्रहणं न करोमि । अन्तर्बहिः शुद्धश्चेदेव आनन्दानुभवः तृप्तिश्च । जीवने प्राप्यमाणस्य उन्नतेः अवनतेः च विषये समदृष्टिः । सत्यान्वेषणोत्सुका श्रद्धा । भगवता यद्यत् दत्तं तन्निमित्तं कृतज्ञता । इत्येतेषाम् अवगमनेव ज्ञानसम्पादनम् ।
<DOC_END>
<DOC_START>
*विश्वे स्थितानां विभिन्नधर्माणाम् अध्ययनं चत्वारिंशत् वर्षाणि कृत्वा मया निष्कर्षः प्राप्तः यत् हिन्दुत्वसदृशः परिपूर्णः वैज्ञानिकः दार्शनिकः आध्यात्मिकः च धर्मः अन्यः नास्ति इति। एतद्विषये कोऽपि प्रमादं न कुर्यात्। हिन्दुत्वात् ऋते भारतस्य भविष्यं न स्यात्। हिन्दुत्वं तादृशी भूमिः, यस्यां भारतस्य मूलानि अतिगभीरं गतानि सन्ति।
**गर्वेण उच्यतां वयं हिन्दवः इति, राष्ट्रजागरणाभियानम्, पृ ५-६)
*चत्वारिंशद् वर्षाणि यावत् विश्वस्य विभिन्नधर्माणाम् अध्ययनं कृतवत्या मया अवगतम् अस्ति यत् हिन्दु-धर्मसदृशः परिपूर्णः वैज्ञानिकः दार्शनिकः आध्यात्मिकः धर्मः अन्यः न विद्यते इति। हिन्दुत्वं विना भारतस्य भविष्यं न विद्यते इत्येतत् केनापि न विस्मर्तव्यम्। हिन्दुत्वं तादृशी भूमिः, यत्र भारतस्य मूलानि गभीरतया संलग्नानि सन्ति।
**गर्वेण उच्यतां वयं हिन्दवः राष्ट्रजागरणाभियानम् पृ. ५-६)
<DOC_END>
<DOC_START>
* एषः देशः आ सहस्राधिकवर्षेभ्यः स्वस्य सांस्कृतिकसमरसतायाः विशिष्टतायाः च कारणतः एव सङ्घटितः अस्ति । एतत् सङ्कलनं सांस्कृतिकरूपेण सुग्रथितम् अस्ति । एतदाधारेण अहं वदामि एतस्मात् प्रायद्वीपात् ऋते जगतः कस्मिंश्चिदपि देशे एतादृशी सांस्कृतिकसमरसता न दृश्यते इति । न केवलं भौगोलिकदृष्ट्या वयं सुसङ्घटिताः स्मः, अपि तु अस्माकं सांस्कृतिकैकता अपि अविच्छिन्ना अखण्डा च अस्ति एव, या च समग्रे देशे सर्वासु दिक्षु अभिव्याप्ता अस्ति । (रैटिंग्स् एण्ड् स्पीचस्, खण्ड १, पृ.६)
* राष्ट्रं सजीवात्मोपेतम् । एषः कश्चन आत्मिकः सिद्धान्तः । एतदर्थम् आवश्यकौ स्तः स्मृतीनां बहुमूल्यसम्पत्तेः सामान्यः अधिकारः, वर्तमानकाले वास्तविकः सहमतिभावः च । सम्भूय जीवनयापने इच्छा, पूर्वजैः अस्मभ्यं समर्पिता आभिजात्यसम्पत्तिः सम्यक् रक्षणीया इति प्रबला इच्छा च अस्मासु भवेत् । एतत् नितान्तम् आवश्यकम् । (बाबासाहब व्यक्ति और जीवन डा. कृष्णगोपाल, पृ.92)
* सर्वासां प्रजानां धारणं यतः भवेत् सः एव धर्मो नाम । एतत् व्याख्यानं न मम, अपि तु सनातनधर्मस्य अग्रनायकस्य लोकमान्यतिलकस्य । अहम् एतत् व्याख्याम् अनुमन्ये । धर्मस्य मूल्याङ्कनं समाजस्य नैतिकताम् अवलम्बितवता सामाजिकेन मानदण्डेन करणीयम् । धर्मः जनकल्याणस्य मार्गः करणीयः चेत् अन्यः मानदण्डः उपयोगाय न भवेत् निश्चयेन ।
<DOC_END>
<DOC_START>
हिन्दुत्वं काचित् जीवनपद्धति न तु विचारधारा । हिन्दुत्वेन यत्र वैचारिकाभिव्यक्तिस्वातन्त्र्यं दीयते तत्रैव उच्यते व्यावहारिकनियमकठोरता अङ्गीकरणीया इति । नास्तिक: आस्तिक: चापि हिन्दु: भवितुम् अर्हति । किन्तु तेन हिन्दुसंस्कृति: जीवनपद्धति: च अङ्गीकरणीया इति तु नियम: ।
<DOC_END>
<DOC_START>
तं न पश्यन्ति, अकृत्स्नो हि सः; प्राणन्नेव प्राणो नाम भवति, वदन् वाक्
पश्यन् चक्षुः शृण्वन् श्रोत्रं, मन्वानो मनः, तान्यस्य एतानि कर्मनामानि भवन्ति । बृहदारण्यकोपनिषत् १-४-७
ते परिपूर्णम् आत्मानं न पश्यन्ति । तैः दृश्यमानोऽयमात्मा अपरिपूर्ण एव । यदा प्राणिति तदा प्राणो भवति ।
यदा वदति तदा वाक् भवति । यदा पश्यति तदा चक्षुर्भवति । यदा शृणोति तदा श्रोत्रं भवति । यदा मनुते तदा
मनो भवति । एवम् एतानि नामानि तत्तत्क्रियाजातानि कर्मनामानि भवन्ति ॥
आत्मनः विद्यमानं नैजं स्वरूपम् अन्यत्, अज्ञानिभिः ज्ञायमानं स्वरूपमेव अन्यत् । तद्यथा, आत्मा परिपूर्णः
अज्ञानिनस्तु तम् आत्मानं प्राणः इति वा, वाक् इति वा, चक्षुः, श्रोत्रम्, मनः इति वा पश्यन्ति । इमानि सर्वाण्यपि
नामानि तत्तत्क्रियाजातान्येव न तु आत्मनः स्वरूपम् । ये तु आत्मनः इयदेव आत्मस्वरूपम् इति मन्यन्ते, ते अकृत्स्नविदः
एव । न ते पूर्णज्ञानिनः । एतानि सर्वाणि औपाधिकनामानि अविद्याकल्पितान्येव ॥
<DOC_END>
<DOC_START>
तं होवाच नैतत् अब्राह्मणो विवक्तुम् अर्हति, समिधम् सोम्य आहर
उप त्वा नेष्ये न सत्यादगाः । - छान्दोग्योपनिषत् ४-४-५
तं सत्यकामजाबालं प्रति हारिद्रुमतगौतमो नाम आचार्यः एवम् उवाच अब्राह्मणः नैवं वदेत्,
अतः सोम्य, समिधम् आहर, अहमेव ते उपनयनसंस्कारं करोमि । यतः त्वं सत्यात् न अगाः ।'
ब्राह्मणो हि स्वप्नेऽपि न अनृतं वदेत् । ब्राह्मणः सदा सत्यमेव वदति । सत्यवदनो हि ब्राह्मणो
भवितुम् अर्हति । ब्राह्मणस्य लक्षणं ह्येतत् । न हि सत्यनिष्ठायाः परं तपः अस्ति । सत्यनिष्ठया आत्मज्ञानं प्राप्यते ॥
हारिद्रुमतगौतमस्य आचार्यस्य सत्यकामजाबालसत्यव्रतत्वं वीक्ष्य अतीव आनन्दः सञ्जातः ।
अविज्ञातगोत्रस्यापि शिष्यस्य स्वयमेव आचार्यः जनकस्थाने स्थित्वा उपनयनसंस्कारं कर्तुम् उद्यतः ।
अत्र मुख्यं कारणं तु बालकस्य सत्यव्रतत्वम्, न कदापि अयम् अनृतम् अवदत् इति ।
सत्यनिष्ठे साधके गुर्वनुग्रहः वर्तते इत्यत्र संशयः अस्ति वा नैव । अहो, सत्यव्रतस्य महिमा !
<DOC_END>
<DOC_START>
तत् सर्वं परे देवे मनसि एकीभवति । प्रश्नोपनिषत् ४-२
तत् सर्वमपि परे देवे मनसि एकीभवति ।
जागरितम्, स्वप्नः, सुषुप्तिरिति प्रत्यहम् अस्माकं तिस्रो अवस्थाः भवन्ति । एतस्यैव
अनुभवस्य वेदान्तेषु ‘अवस्थात्रय’म् इति नाम भवति । जागरिते शरीरेन्द्रियमनांसि
स्वीयानि स्वीयानि कर्माणि कुर्वन्ति । स्वप्ने तु इमानि शरीरेन्द्रियाणि वा शब्दस्पर्शादिविषया
स्वप्ने केवलं मन एव विद्यते । मनसः एव सर्वं जायते, मनस्येव च सर्वं लीयते । गाढनिद्रायां
न कोऽपि व्यापारः सम्भवति । तत्र सर्वेऽपि व्यापाराः मनस्येव लीयन्ते । सूर्योदये सर्वाणि किरणानि
जायन्ते, सूर्यास्तमाने तत्रैव यथा लीयन्ते, तथैव स्वप्ने सर्वेऽपि पदार्थाः मनसो जायन्ते, सुषुप्तौ
मनस्येव लीयन्ते । तन्मन एव परो देवः । मन एव सर्वं भवति । अस्मिन्नेव मनसि चराचरात्मकः
प्रपञ्चः लीयते च । मन अधीनतयैव प्रपञ्चः अवभासते । अयमेव हि मनोदेवस्य महिमा, इदमेव
<DOC_END>
<DOC_START>
तत् सृष्ट्वा । तदेवानुप्राविशत् ॥ तैत्तिरीयोपनिषत् २-६-६
तद् ब्रह्म इमं प्रपञ्चं सृष्ट्वा अनन्तरं स्वयमेव इमं प्रपञ्चं प्राविशत् ।
परमात्मा हि सर्वज्ञः सर्वशक्तश्च । स परमात्मा स्वयमेव इदं जगत् सृष्टवान् ।
सर्वज्ञत्वात् परमात्मा अस्य जगतः निमित्तं कारणम्, सर्वशक्तत्वाच्च स एव उपादानकारणं च ।
सर्वथापि परमात्मा स्वयमेव आत्मानमेव प्रपञ्चरूपेण सृष्टवान्, इमान् देहादीन् च स एव सृष्टवानस्ति ॥
इमं देहं सृष्ट्वा स भगवान् स्वयमेव इमं देहं प्रविष्टवान् । सन्देशस्यास्य रहस्यं किं वा भवेत्
इति चिन्त्यम् । अस्मिन् देहे जीवरूपेण, कर्तृभोक्तृरूपेण प्रमातृरूपेण च अवभासमानः स एव
सृष्टिकर्ता भगवान् । संसारिजीवरूपेण अवभासमानः अयम् आत्मा परमार्थतः असंसारी परमात्मैव
नित्यशुद्धः आत्मैव देहाद्युपाधि-सम्बन्धेन संसारीव जीवात्मा इव च अवभासते । परमार्थतस्तु
जीवात्मा नाम परमात्मैव इत्यर्थः । ‘ब्रह्म देहं प्रविष्टम्’ इत्युक्ते एष एवार्थः । जीवस्य संसारित्वम्
<DOC_END>
<DOC_START>
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदो अथर्ववेदः, शिक्षा कल्पो व्याकरणं
निरुक्तं छन्दो ज्योतिषम् इति । मुण्डकोपनिषत् १-१-५
ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः, शिक्षा, कल्पः, व्याकरणं,
निरुक्तम्, छन्दः, ज्योतिषम् इत्येषा अपरा विद्या ॥
सम्प्रदायमनुसृत्य अस्य मन्त्रस्य अर्थोऽवगन्तव्यः । नो चेत्
अपार्थ एव भवति । शाङ्करभाष्यम् अनुसृत्य सम्यगर्थो ज्ञातव्यः ।
चत्वारो वेदाः, षड्ङ्गानि च भारतीयसंस्कृतौ परमपवित्रत्वेन प्रसिद्धानि ।
अपौरुषेयान् वेदान् तथा आर्षप्रासादिक ग्रंथरूपाणि शिक्षादीनि षडङ्गानि
च – अपरा विद्या इति अयं मन्त्रः धैर्येण उद्घोषयति । तत् कस्मिन्नर्थे
ऋग्वेदो वा यजुर्वेदो वा केवलं शब्दराशिः खलु शिक्षादीनि षडप्यङ्गानि
शब्दराशिरेव । सर्वोऽपि केवलः शब्दराशिरयम् अनात्मविषयक एव इति
अपरा विद्या एव भवति । तस्मादेव च इदं सर्वम्, अविद्या एव । ‘वेदाः
त्रैगुण्यविषया एव’ इति गीताचार्योऽपि शब्दराशिभूतान् वेदान् ‘त्रिगुणात्मकाः’
<DOC_END>
<DOC_START>
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः । ईशावास्योपनिषत् ५
तद् ब्रह्मैव अस्य विश्वस्य अन्तः बहिश्च पूर्णम् ।
आत्मानं विचारपरत्वेन विमर्शकत्वेन मन्यमानाः केचित् प्राज्ञाः एवं पृच्छन्ति 'देवः कुत्रास्ति यथा
‘सूर्यः कुत्रास्ति’ आकाशे । जलं कुत्रास्ति भूमौ । नक्षत्राणि कुत्र सन्ति आकाशे । एवमेव देवः
आत्मानं बुद्धिमत्त्वेन मन्यमानाः पण्डिताः अस्य प्रश्नस्य उत्तरत्वेन 'देवः सर्वत्रापि विद्यते' इति प्रतिवदन्ति च ।
इदं प्रश्नप्रतिवचनद्वयमपि हास्यास्पदमेव भवति । अयं प्रश्नः इदं प्रतिवचनम् इति द्वयमपि अनुचितमेव । यतो
हि परमात्मा नाम नैव साकारः सविशेषः कश्चित् पदार्थविशेषः । येन, ‘सः कुत्र अस्ति?’ इति प्रश्नो वा, ‘सः
सर्वत्रापि अस्ति’ इति प्रतिवचनं वा साधु अभविष्यत् । तस्मिन्नेव परमात्मनि देशः कालश्च अवभासते । अन्तः
बहिः सर्वत्रापि भगवानेव । भगवान् नाम देशकालयोरपि कारणभूतः सन् प्रपञ्चत्वेन दृश्यते इत्यर्थः ॥
<DOC_END>
<DOC_START>
तदिदमप्येतर्हि य एवं वेद ‘अहं ब्रह्मास्मि’ इति स इदं सर्वं भवति । बृहदारण्यकोपनिषत् १-४-१०
तस्मात् अस्मिन्नपि काले इदानीमपि 'अहं ब्रह्मास्मि' इति यः विजानाति सः सर्वमिदं भूत्वा सर्वात्मा भवति ॥
'अहं ब्रह्मास्मि' इतिविज्ञानं तदा इदानीम्, तेषाम् एतेषाम्, तत्र अत्रापि, देवानां मानवानां राक्षसानां च समानमेव ।
तस्मात् अद्यापि यः कश्चिदपि ब्रह्मात्मज्ञानं लब्ध्वा सर्वात्मत्वं प्राप्नुयात् ॥
अस्मिन् कलियुगे, अस्मिन् काले, एतस्मिन् कलुषिते एकविंशतितमे शतमाने अस्मादृशानां दुर्बलानां जनानाम्
अत्युत्तम कालीनं तादृशं श्रेष्ठम् ब्रह्मात्मज्ञानं प्राप्यते वा इति अस्माकं मनसि संशयो जायेत खलु सत्यम्,
जायते । अपि तु न योक्तोऽयं संशयः । यस्मात् ब्रह्मणि वा ब्रह्मात्मज्ञाने वा तत्फले मोक्षे वा न कोऽपि देशकालभेदो
विद्यते । आत्मज्ञानस्य निर्विशेषस्य एकरूपत्वात् । तस्मात् वेदकालीनं शुद्धं ब्रह्मात्मज्ञानमेव इदानीमपि मानवानां
सामान्यानाम् अस्माकम् नूनं प्राप्यते एव ॥
<DOC_END>
<DOC_START>
तदेतत् प्रेयः पुत्रात्, प्रेयो वित्तात्, प्रेयोऽन्यस्मात् सर्वस्मात्
अन्तरतमं यत् अयमात्मा । बृहदारण्यकोपनिषत् १-४-८
सोऽयमात्मा पुत्रात् प्रियः, वित्तात् प्रियः, अन्यस्मात् सर्वस्मादपि प्रियः, अयम्
आत्मा नाम स्वयमेव । आप्नोति इति आत्मा । अयमेव आत्मा अस्माभिः ज्ञेयः,
अयमेव च प्राप्तव्यः । अस्य आत्मनः ज्ञानेनैव ब्रह्मानन्दप्राप्तिः, आत्मज्ञानानन्द एव
परमः पुरुषार्थः । तस्मात् आत्मैव ज्ञेयः ॥
कुतः एतत् यतः आत्मैव सर्वस्मादपि प्रियतमः । लोके हि पत्नी-पुत्र-गृहवाहनादीनि
अस्माकं प्रियत्वेन प्रसिद्धानि सन्ति खलु कुतः, इति ज्ञायते वा आत्मार्थत्वात् ।
आत्मा हि नाम स्वयम् । आत्मा नाम स्वरूपम् । पुत्रादपि आत्मा आत्मनः अत्यन्तं प्रियः ।
पत्न्याः अपि आत्मा आत्मनः अत्यन्तं प्रियः । पत्युः अपि आत्मा आत्मनः अत्यन्तं प्रियः
खलु अस्मिन् प्रपञ्चे सर्वेभ्यः प्रियवस्तुभ्योऽपि आत्मैव आत्मनः प्रियतमः खलु
तस्मात् अस्मिन् आत्मनि एकस्मिन् विज्ञाते सर्वमिदं विश्वमेव विज्ञातं भवति ॥
<DOC_END>
<DOC_START>
तदेतत् सत्यम् । मन्त्रेषु कर्माणि कवयो यान्यपश्यन्
तानि त्रेतायां बहुधा सन्ततानि ॥ मुण्डकोपनिषत् १-२-१
कर्म सत्यम्, कवयः मन्त्रेषु यानि कर्माणि अपश्यन्, तानि
कर्माणि त्रेतायां बहुधा सन्ततानि ।
वेदमन्त्रेषु कर्माणि विहितानि । अत्र कर्माणि इति प्रधानतया
अग्निहोत्रादीनि । एतेषु कर्मसु विधिवत् श्रद्धया अनुष्ठितेषु सत्सु
अवश्यमेव तानि तानि फलानि निश्चितानि भवन्त्येव ।
सम्यगनुष्ठितानां कर्मणां नियतानि फलानि भवन्त्येव इतिहेतुना
कर्माणि ‘सत्यम्’ इति उच्यन्ते । ‘एकान्तपुरुषार्थसाधनत्वात्’
इति भगवत्पादीयं शाङ्करं भाष्यम् ॥
वैदिकानि इमानि कर्माणि त्रेतायां विहितानि । त्रेतायाम् इति
ऋग्वेद, यजुर्वेद, सामवेदेषु सन्ततानि इत्यर्थः । ऋग्वेदस्य
होतरि, यजुर्वेदस्य अध्वर्यौ, तथा सामवेदस्य उद्गातरि वैदिकानि
कर्माणि सन्ततानि । अथवा ‘त्रेतायुगे’ इत्यपि अर्थो ग्राह्यः ।
कृतयुगे ध्यानम् त्रेतायुगे वैदिकानि यज्ञादीनि कर्माणि, द्वापरयुगे
अर्चनम्, कलियुगे नामसंकीर्तनम् च सुप्रसिद्धं खलु सर्वथापि
तु कर्मणां फलानि नियतानि ॥
<DOC_END>
<DOC_START>
तदेतत् सर्वेभ्योऽङ्गेभ्यः तेजः सम्भूतम् । आत्मन्येवात्मानं बिभर्ति । तद्यदा स्त्रियां
सिञ्चति अथैनत् जनयति, तदस्य प्रथमं जन्म ॥ ऎतरेयोपनिषत् २-१-१
तदेतद् वीर्यं सर्वेभ्यः अङ्गेभ्यः रेतोरूपेण उत्पद्यते । आत्मानम् आत्मन्येव अयं जीवः धरति ।
यदा पुरुषः तद् रेतः स्वभार्यायां सिञ्चति तदा इमं जीवम् उत्पादयति । इदं प्रथमं जन्म ॥
अस्य मानवस्य त्रीणि जन्मानि भवन्ति । मातुः योनिं पितृरेतोरूपेण प्रविशति इति यत् तदेवास्य
प्रथमं जन्म । नवमासानन्तरं योनिद्वारा भूलोकं प्रति बहिरागमनम् एव द्वितीयं जन्म । मरणानन्तरं पुनः
पुत्ररूपेण जननमेव तृतीयं जन्म । एवम् अविद्यावतः जीवात्मनः त्रीणि जन्मानि भवन्ति ॥
प्रकृते अत्र मन्त्रे जीवस्य प्रथमजन्मविवरणं कथ्यते । वीर्यं नाम मानवस्य सर्वाङ्गानां सारभूतं तेजः ।
एको वीर्यबिन्दुः मानवेन भुक्तस्य समस्तस्य आहारस्य सारतमो रसः । यदा वीर्यबिन्दुः स्त्रीयोनिं
प्रविशति तदा एव अस्य जीवस्य प्रथमं जन्म प्राप्तमिव । अविद्यया कामः, कामेन कर्माणि, कर्मभिः
जन्मानि । विद्यया अविद्यायां निवृत्तायां पुनः जन्मान्तरप्राप्तिर्नास्ति ॥
<DOC_END>
<DOC_START>
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । केनोपनिषत् १-५
तदेव ‘ब्रह्म’ इति त्वं विजानीहि, ‘इदम्’ इति उपास्यते चेत् न तद् परं ब्रह्म भवति ।
उपनिषत्सु ब्रह्म उपास्यत्वेन ज्ञेयत्वेन च उपदिश्यते । उपासनविषयं चेत् ‘उपास्यं’ भवति,
उपास्यं चेत् सोपाधिकं भवति । उपास्यं ब्रह्म सगुणं भवति । उपासकः, उपासनम्, उपास्यम्
च इति त्रिपुटीसहितमेतत् । उपासनेन उपास्यदेवतासायुज्यमेव फलं, न तु मोक्षः ॥
ज्ञेयं ब्रह्म तु सर्वथा अविषयभूतम् । ज्ञेयं ब्रह्म निरुपाधिकं निरवयवं निर्विशेषं परिपूर्णं च भवति ।
इदमेव च परब्रह्मणः निजस्वरूपम् । ब्रह्मणि ज्ञातृज्ञेयज्ञानरूपा त्रिपुटिः न विद्यते । परमार्थतस्तु
ब्रह्म ‘ज्ञेय’मपि न भवति । ज्ञानस्य विषयश्चेत् ‘ज्ञेयम्’ भवेत् । कर्मणां वा उपासनानां वा ज्ञानस्य
वा अविषयभूतं ब्रह्म् कथं वा ज्ञेयत्वेन उपदिश्येत ब्रह्म ‘उपास्यं न भवति’ इति वक्तुं ‘ज्ञेयम्’
इति उपनिषत्सु उपदिश्यते । एवमवगते हि सम्यग्दर्शनं भवति, अनेनैव सम्यग्दर्शनेन मोक्षप्राप्तिश्च ॥
<DOC_END>
<DOC_START>
तदैक्षत बहु स्यां प्रजायेय इति । छान्दोग्योपनिषत् ६-२-३
तद् ब्रह्म ‘अहं बहु स्याम्’ इति, ‘अहं प्रजायेय’ इति च ऎक्षत् ॥
‘तत्’ इति सत्स्वरूपं ब्रह्म । तत् एक्षत अचिन्तयत्' इत्युक्तत्वात् चिन्तनकर्तृ,
आलोचनकर्तृ, चिन्मात्रस्वरूपं ब्रह्मैव, न तु अचेतनं प्रधानम् । अचेतनस्य प्रधानस्य
भवतु, तद् ब्रह्म किमिति ऎक्षत उच्यते । अहमेव प्रपञ्चो भवानि, अहमेव प्रपञ्चरूपेणा
जायेय इति अचिन्तयत् । न तु यथा कुलालः मृदा घटघटिकादीन् सृजै इति चिन्तयति तथा ॥
कुलालः घटादीनां निमित्तं कारणम्, मृत्तिका तु उपादानं कारणम् । उभयं कारणं भिन्नभिन्नमेव ।
ब्रह्म तु एकमेव अस्य जगतः निमित्तं कारणम् उपादानं च । अस्यैव अभिन्ननिमित्तोपादानसत्कार्यवादः
इति वेदान्तेषु नाम । अभिन्ननिमित्तोपादान् कारणात् ब्रह्मणः जातं विश्वमिदं सर्वदा ब्रह्मस्वरूपमेव ।
कार्यकारणानन्यत्वन्यायेन ब्रह्माभिन्नमेवेदं जगत् इति विज्ञेयम् ।
<DOC_END>
<DOC_START>
तद्धास्य विजज्ञाविति विजज्ञाविति छान्दोग्योपनिषत् ६-७-६
जनकस्य उपदेशं पुत्रः श्वेतकेतुः सम्यक् विज्ञातवान्, विज्ञातवानेव ।
अत्र उद्दालकः पिता, पुत्रस्तु श्वेतकेतुः । पिता स्वपुत्रं प्रति 'तत् सत्यम्, स आत्मा तत्त्वमसि श्वेतकेतो' इति नवकृत्वः
उपदिष्टवान् । 'तद् ब्रह्मैव एकं सत्यम्, तद् ब्रह्मैव आत्मा, तद् ब्रह्मैवासि त्वम्' इति उपदेशं कृतवान् पिता ॥
अयम् उपदेशः यद्यपि दृप्तस्य श्वेतकेतोः प्रारम्भे अवगन्तुम् कष्ट इव दृष्टः, तथापि अन्ते सुलभतया स्पष्टतया च
श्वेतकेतुः उपदेशार्थम् अवगतवानेव । अहं ब्रह्मास्मि इति ज्ञानं जिज्ञासूनां जायेत वा न वा इति संशयो मास्तु । वेदान्तेषु
उपदिष्टं ब्रह्मात्मज्ञानं चित्तशुद्धिमतां मुमुक्षूणां मनसि परिपक्वं भवति । गुरुभक्तानां सात्त्विकानां श्रवणतत्पराणां च
जिज्ञासूनां ब्रह्मात्मज्ञानोदयः नूनं भवत्येव ॥
<DOC_END>
<DOC_START>
तद्धेदं तर्हि अव्याकृतमासीत्, तन्नामरूपाभ्यामेव व्याक्रियत । बृहदारण्यकोपनिषत् १-४-७
तदिदं जगत् तदा सृष्टेः पूर्वम् अव्याकृतमेव आसीत्, अनन्तरम् नामरूपाभ्यां व्याकृतम् अक्रियत ।
इदानीं दृश्यमानस्य अस्य विश्वस्य ‘व्याकृतम्’ इति नामधेयम् । सृष्टेः पूर्वम् इदम् ‘अव्याकृतम्’ आसीत् ।
व्याकृतं नाम वि आ+ कृतम्; वि विविधनामभिः, रूपैः, क्रियाभिश्च; आ=समन्तात् विविक्ततया सुस्पष्टतया;
कृतम्= सृष्टम् । व्याकृतस्य सर्वस्यापि वस्तुनः विलक्षणानि नामानि, आकाराः, वर्णाश्च विद्यन्ते एव ॥
इदं व्याकृतं विश्वं सृष्टेः पूर्वम् एवम् विविक्ततया, भिन्नभिन्नतया नासीत्, किं तु बीजरूपेण आसीत्, अत
एव ‘अव्याकृत’म् इति तस्य नाम । इदम् अव्याकृतं हि अविद्याकल्पितम् आभासरूपम् । आत्मन्येव कल्पितं
सत् गूढमासीत् । तदेव इदानीं व्याकृतप्रपञ्चत्वेन अवभासते । इदं व्याकृतं जगत् इदानीमपि परमार्थदृष्ट्या
<DOC_END>
<DOC_START>
तद्धैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे 'अहं मनुरभवं सूर्यश्च' इति । बृहदारण्यकोपनिषत् १-४-१०
तम् एतम् आत्मानं विदित्वा वामदेवमहर्षिः 'अहमेव मनुरस्मि अहमेव च सूर्यः' इति स्वानुभवेन प्रतिपन्नवान् ॥
लब्धात्मज्ञानेन वामदेवमहर्षिणा उद्घोषितोऽयं मन्त्रः 'अहं मनुरभवं सूर्यश्च' इति । अस्यैव सर्वात्मभावः इति नाम ॥
वामदेवो नाम कश्चित् महर्षिः सः ‘अहं ब्रह्मास्मि’ इति विज्ञातवान् । ब्रह्मैवाहम्, अहमेव ब्रह्म; नेदं शरीरमहमस्मि,
न च परिच्छिन्नः सामान्यः ऋषिरस्मि अहम्; किं तु परिपूर्णं निरवयवं सर्वात्मकं सर्वव्यापि ब्रह्मैवाहम् इति वामदेवः
स्वानुभवेन अवबुद्धवान् । एतदेव हि ब्रह्मात्मज्ञानं नाम ॥
ईदृशब्रह्मात्मज्ञानफलमेव हि सर्वात्मभावः । अहमेव मनुः, अहमेव सूर्यचन्द्रनक्षत्राणि; साध्यात्मिकं साधिभौतिकं
साधिदैविकं च विश्वं सर्वमपि अहमेव इति वामदेवमहर्षिः स्वानुभवेन ज्ञातवान् । वामदेवमहर्षेः धीरोद्गारोऽयम् !
<DOC_END>
<DOC_START>
तद्यथा अहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत, एवमेवेदं शरीरं शेते ।
अथायम् अशरीरो अमृतः प्राणो ब्रह्मैव तेज एव ॥ बृहदारण्यकोपनिषत् ४-४-७
यथा सर्पत्वक् वल्मीके मृता त्यक्ता पतति, एवमेव ज्ञानिनः शरीरमपि तूष्णीं पतति ।
अथ अयम् अशरीर एव अमृत एव, प्राण एव, ब्रह्मैव एषः । तेज एव संवृत्तः ॥
ब्रह्मज्ञानिनः मनसि कामाभावात् तस्य विषयभोगेषु आसक्तिर्न विद्यते । ज्ञानिनः
शरीराभिमानाभावात् शरीरपोषणेच्छा न विद्यते । अनेन देहेन कार्यं प्रयोजनं नाम
मुक्तिरेव । तस्यां मुक्तौ प्राप्तायां सत्यां ज्ञानिनः अनेन देहेन प्राप्तव्यानि फलानि न सन्ति हि ॥
अस्यार्थस्य प्रकाशनाय सर्पत्वचः दृष्टान्तः । आत्मनः भिन्नायां त्वचि सर्पस्य अभिमानः
अस्ति किम् यथा सर्पः तां मुक्तां त्वचं तत्रैव विहाय तत्र निरभिमानः सन् वर्तते, एवमेव
ज्ञानी अपि देहाभिमानरहितः सानन्दः वर्तते । देहादीनां प्रारब्धं यथाकथञ्चित् वर्ततां नाम,
आत्मज्ञानी तु सदा आत्मानन्दनिष्ठो भवति ॥
<DOC_END>
<DOC_START>
तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णानि, एवम् ओङ्कारेण सर्वा वाक्
सन्तृण्णा । ओङ्कार एवेदं सर्वम् ॥ छान्दोग्योपनिषत् २-२३-३
यथा तन्तुना सर्वाणि पर्णानि सन्तृण्णानि, संव्याप्तानि भवन्ति, एवमेव ओङ्कारेण
सर्वाः वाचः सन्तृण्णाः भवन्ति । इदं सर्वमपि ओङ्कार एव ॥
अश्वत्थपत्रेषु, न्यग्रोधपत्रेषु च अन्तः सूक्ष्माणि तन्तुरूपाणि विद्यन्ते खलु ते
तन्तवः सर्वाणि पत्राणि व्याप्नुवन्ति । पत्राणां पश्चात्, पुरस्तात्, वामतः, दक्षिणतश्च
तन्तव एव विद्यन्ते खलु एवमेव सर्वा अपि वाचः ओङ्कारः व्याप्नोति ॥
अक्षरवर्णमालायां विद्यमानानां सर्वेषामप्यक्षराणां व्यापकः ओङ्कारः । सकलस्यापि
वाक्प्रपञ्चस्य ओङ्कार एव आधारभूतः । अभिधानप्रपञ्चं सर्वमपि संव्याप्य विद्यमानम्
एकं श्रेष्ठमभिधानं नाम ओङ्कार एव । ओङ्कारे सकलोऽपि वाक्प्रपञ्चः अन्तर्भवति ।
वर्णमालायां विद्यमानानि सर्वाण्यपि अक्षराणि ओङ्कार एव । सर्वेषां वेदानाम्, उपनिषदां,
शास्त्राणां, पुराणानां च सार एव ओङ्कारः ॥
<DOC_END>
<DOC_START>
तद्यो यो देवानां प्रत्यबुद्ध्यत स एव तदभवत् । तथा ऋषीणां
तथा मनुष्याणाम् । बृहदारण्यकोपनिषत् १-४-१०
देवानां मध्ये यो यो ब्रह्म प्रत्यबुद्ध्यत, स एव ब्रह्म अभवत् । तथा ऋषीणां
मध्ये, मनुष्याणां मध्ये यः कश्चिदपि 'अहं ब्रह्मास्मि' इति जानाति, सः सर्वोऽपि
ब्रह्मात्मज्ञानं वा ब्रह्मात्मभावो वा न केवलं प्राचीनकालस्य, प्राचीनमहर्षीणां, महतां
देवानां वा सम्बद्धो विशेषः । किं तु सर्वेषामपि । ब्रह्मणः सर्वेषामात्मत्वात् इदानीमपि
यः कश्चिदपि तद् ब्रह्म आत्मत्वेन विज्ञाय सर्वात्मभावम् आप्नुयात् ॥
वेदान्तेषु उपदिष्टं तादृशं प्राचीनतमं ब्रह्मात्मज्ञानम् अस्मादृशानामपि लभ्यं वा
अर्वाचीनानां दुर्बलानाम् अस्माकमपि सर्वात्मभावरूपः मोक्षः लभ्यते वा इति
संशयः सर्वथा नोपपद्येत । अल्पसामर्थ्यानामप्यस्माकमपि आत्मनः ब्रह्मस्वरूपत्वात्
इदानीमपि आत्मज्ञानं सर्वेषामपि लभ्यमेव । परिपूर्णस्य ब्रह्मणः सर्वेषामपि समतया
आत्मत्वात् । सूर्यप्रकाशवत्, अग्न्यौष्ण्यवच्च मोक्षस्य सर्वसमत्वात् अस्माभिरपि
मोक्षः विद्यया प्राप्यत एव ॥
<DOC_END>
<DOC_START>
तद्वा अस्य एतत् आप्तकामम्, आत्मकामम् अकामं रूपं
इदमेव अस्य आप्तकामम् आत्मकामम् अकामं रूपम् । इदं
सुषुप्तौ आत्मा कामकर्मरहितः स्वस्थो भवति । जागरिते आत्मा
कामहतः कामदासः काममयः सन् दुःखसागरे निमग्नो भवति ।
कामाभावे जागरिते व्यवहाराभावः । काममयत्वमेव जीवस्य जीवत्वम् ॥
गाढनिद्रायां तु कामसम्बन्धाभावः । सुषुप्तिस्वरूपम् अयं मन्त्रः
सुन्दरतया सुलभतया वर्णयति । सुषुप्तिर्नाम आप्तकामम् आत्मकामम्
अकामं स्थानम् । आप्तसर्वकामः आत्मकामः कामरहितश्च तत्र भवति ।
सुषुप्तिर्हि शोकान्तरं, शोकवर्जितं स्थानम् । दुःखसम्बन्धरहितम्
आनन्दस्वरूपं तत् । अविद्यायां सत्यां ततः कामकर्माणि, सुखदुःखानि
शोकमोहादीनि च भवन्ति । सुषुप्तौ तु अविद्यादिदोषाः न भवन्ति ।
सहजानन्दस्वरूपमेव हि सुषुप्तिर्नाम । एष एव सुषुप्तेर्महिमा ॥
<DOC_END>
<DOC_START>
तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥ तैत्तिरीयोपनिषत् १-१
तद् ब्रह्म माम् अवतु । तद् ब्रह्म वक्तारम् आचार्यम् अवतु । अवतु माम् । अवतु वक्तारम् ॥
पाठ प्रवचनस्य प्रारम्भे पठितव्योऽयं मन्त्रः । भगवति शिष्येण क्रियमाणा प्रार्थना इयम् । शिष्यो
हि स्वयं कृतार्थो बुभूषते । आचार्यस्तु स्वयं कृतार्थ एव । सद्गुरुभ्यः वेदान्तसन्देशान् श्रुत्वा
तेन आत्मज्ञानं लब्ध्वा मोक्षं प्रेप्सुः साधकः शिष्यः खलु ?
उपनिषत्सु प्रतिपादितस्य तत्त्वस्य ‘ब्रह्म’ इति नाम । ब्रह्म सर्वज्ञं सर्वशक्तं च इति वर्णयन्ति । इदं
ब्रह्म अस्माकं प्रत्यगात्मस्वरूपभूतम् । परब्रह्मस्वरूपजिज्ञासुं मां ब्रह्म पालयतु, ज्ञानिनं सद्गुरुं च
पालयतु इति शिष्यः प्रार्थयते । मम ज्ञानोदयपर्यन्तमपि आवाम् उभावपि अन्योन्यं सन्तोषिणौ यथा
स्याव तथा आवाम् उभावपि भगवान् परिपालयतु इत्यर्थः । ईश्वरानुग्रहादेव खलु मुमुक्षोः सद्गुरुलाभः,
<DOC_END>
<DOC_START>
==तन्मे मनः शिवसङ्कल्पमस्तु ॥ यजुर्वेदः ३४-१
मम मनः मङ्गलसङ्कल्पैः युक्तं भवतु ।
: कार्याणि शुभकराणि स्युः, अशुभकराणि स्युः । किन्तु एतेषां पृष्ठतः किञ्चन मनः सक्रियं भवति । तस्य प्रेरणानुगुणं मङ्गलकार्याणि अमङ्गलकार्याणि वा सम्पद्यन्ते । कदाचित् अस्माकं वचनस्य अग्रिमे स्तरे भवति मङ्गलम् अमङ्गलं वा कार्यम् । तस्य वचनस्य पृष्ठभूमिकायामपि तदेव मनः कार्यं कुर्वत् तिष्ठति । अमङ्गलानि कार्याणि न भवेयुः इति चेत् मनः सत्प्रेरणां दद्यात् । दुष्टस्वभावात् दूरं तिष्ठेत् । अनिगृहीतं मनः स्वेच्छानुसारं प्रेरयति । के अस्य निगृहीतारः वयमेव मनसः प्रेरयितारः वयमेव, अस्मासु विद्यमानाः संस्काराः एव मङ्गलकार्याणाम् आरम्भः इतः भवेत् । आत्मविमर्शेन अस्माकं संस्काराः अभिज्ञातव्याः । मनः यथा शुभसंस्कारैः प्रचोदितं स्यात्, तस्मिन् मङ्गलसङ्कल्पाः यथा स्युः तथा अवधातव्यम् । अस्माकं कृते अन्येभ्यश्च यत् स्थिरतां शान्तिञ्च प्रयच्छेत् तदेव मङ्गलकरम् । ततः अस्माकं वचनं व्यवहारश्च भवति मङ्गलकरम् ।
<DOC_END>
<DOC_START>
तपः श्रद्धे ये ह्यपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः । सूर्यद्वारेण ते विरजाः
प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ मुण्डकोपनिषत् १-२-११
ये हि संन्यासिनः तपः उपासनं च कुर्वन्तः अरण्ये वसन्ति, शान्ताः सन्तः भिक्षान्नमात्रभोजनाः जीवन्ति
ते पापमुक्ताः सन्तः सूर्यमार्गद्वारेण हिरण्यगर्भलोकं प्राप्नुवन्ति ।
वानप्रस्थानां संन्यासिनां च अयं मन्त्रः मार्गदर्शनं करोति । वानप्रस्थाः इन्द्रियनिग्रहतत्पराः सन्तः हिरण्यगर्भब्रह्मणः
उपासनं कुर्युः । संन्यासिनश्चेत् ते केवलं प्रणवोपासनतत्पराः भवेयुः । उभौ अपि एतौ अरण्यवासिनौ एव ।
अरण्यमित्युक्ते न ‘वनम्’ इत्येव, किं तु जनसंमर्दरहितं शान्तं मङ्गलस्थानमित्यर्थः ॥
वानप्रस्थसंन्यासिनौ उभावपि भिक्षान्नमात्रेण जीवनं निर्वहन्तौ ओङ्कारोपासननिष्ठौ चेत् उत्तरायणेन मार्गेण सुषुम्नानाडीद्वारेण
ब्रह्मलोकं गत्वा तत्र ब्रह्मणा सहैव वसतः । तत्रलोके आत्मज्ञानोदयस्यापि अवकाशो भवति । ब्रह्मज्ञाने जाते तु मुक्तौ भवतः ॥
<DOC_END>
<DOC_START>
तमात्मस्थं येऽनुपश्यन्ति धीराः । तेषां सुखं शाश्वतं नेतरेषाम् ॥ श्वेताश्वतरोपनिषत् ६-१२
स्वस्मिन् एव स्थितम् आत्मानं ये अनुभवेन पश्यन्ति, तेषां धीराणामेव
शाश्वतं सुखं, शाश्वती शान्तिः, न तु इतरेषाम् ॥
प्रत्यगात्मा नाम प्रत्यक् आत्मा स्वस्मिन्नेव विद्यमानः आत्मा । स्वस्मिन्नेव
विद्यमानमपि आत्मानं वयं न जानीमः । सामान्यतः वयं सर्वेऽपि स्वस्मिन्
रक्तमांस-अस्थिमज्जादीनेव पश्यामः, शरीरेन्द्रियमनः प्राणादींश्च पश्यामः ।
नैव तु आत्मानं पश्यामः । चैतन्यस्वरूपः आत्मा तु असंसारी सन् स्वस्मिन् एव विद्यते ॥
एनम् आत्मानं चक्षुर्भ्यां द्र्ष्टुं न शक्यते । स्वस्मिन्नेव विद्यमानमपि आत्मानमेनम्
अज्ञानिनः न विजानीयुः । कथं तर्हि आत्मानं पश्येयुः साधकाः ‘अनुदर्शनेन’
इति अयं मन्त्रः उपदिशति । इन्द्रियैः प्रत्यक्षप्रमाणैः आत्मानं द्र्ष्टुं न शक्यते ।
अनुभवम् अनुसृत्य आत्मा द्र्ष्टव्यः । शास्त्रम् अनु, गुरूपदेशं च अनु (शास्त्राचार्योपदेशम्
अनुसृत्य) श्रवणं कृत्वा श्रवणानुगुण्येन तथैव आत्मानम् अनुभवे पश्येत् । स
एव धीरः । तस्यैव शाश्वतं सुखं लभ्यते ॥
<DOC_END>
<DOC_START>
तमु ह परः प्रत्युवाच अह हारे त्वा शूद्र तवैव सह गोभिरस्तु
तं जानश्रुतिनामानं राजानं प्रति सः ज्ञानिपुङ्गवः रैक्वः एवम् उवाच ।
अह रे शूद्र, गोभिः युक्ता सर्वापि सम्पत् तवैव भवतु, मम तु न
दारिद्र्ययुक्तेन कण्डूयमानेन शकटस्य अधस्तात् उपविष्टेन, अपि तु
ब्रह्मज्ञानिपुङ्गवेन रैक्वनाम्ना धीरेण उक्तमेतद्वचनम् । कं प्रति
जानश्रुतिनामानं राजानं प्रति । कः सन्दर्भः चक्रवर्ती जानश्रुतिः
यदा स्वसम्पत्प्रदानेन एनं ब्रह्मज्ञानिनं सन्तोषयितुं प्रायतत तदा ।
रे शूद्र, तवैव गोभिरस्तु इति ॥
ब्रह्मज्ञानिनः लौकिक्या दृष्ट्या यद्यपि दरिद्राः, रोगिष्ठाः, कुरूपिणः
भिक्षुकाश्च भवेयुः तथापि एते ब्रह्मनिष्ठाः आप्तकामाः, अकामाश्च ।
‘न कर्मणा न प्रजया धनेन’ इतिमन्त्रस्य मूलपुरुषा हीमे
लौकिकसम्पत्त्या न मेयाः । न च धनेन क्रय्या एते । केवलं
गुरुभक्तिसमधिगम्याः गुरुभक्तितोषयितव्या एते ब्रह्मज्ञानिनः ॥
<DOC_END>
<DOC_START>
त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥ श्वेताश्वतरोपनिषत् १-४
एकनेमिं त्रिवृतं षोडशान्तं, पञ्चाशदरं विंशतिप्रत्यरं षड्भिः अष्टकैः युक्तं विश्वरूपैकपाशं
त्रिमार्गं द्वयोर्निमित्तम् एकमोहम् परमात्मानम् चिन्तयेत् ॥
समस्तस्याप्यस्य जगतः ब्रह्मैकमेव कारणम् । इदं जगत् सत्त्वरजस्तमोगुणैः अन्वितम् । पञ्चभूतानि,
पञ्चज्ञानेन्द्रियाणि, पञ्चकर्मेन्द्रियाणि, मनश्च इति षोडशवस्तुभिः संयुक्तम् । पञ्च विपर्ययाः अष्टाविंशतिः
अशक्तयः, नव तुष्टयः अष्टौ सिद्धयः- एवं पञ्चाशतगुणैः सम्पूर्णम् । दश इन्द्रियाणि, दश विषयाश्च । प्रकृतिः,
धातुः, ऎश्वर्यं, भावः, देवः, षट् गुणाष्टकम्, अस्मिन् जगति सन्ति । धर्मः, अधर्मः अज्ञानमिति त्रयो मार्गाः
सन्ति । पुण्यपापकर्मणोः निमित्तं चेदं जगत् । इदृशस्य जगतः परं ब्रह्मैव कारणम् ॥
<DOC_END>
<DOC_START>
तयोः श्रेय आददानस्य साधु भवति । हीयते अर्थात् य उ प्रेयो वृणीते ॥ काठकोपनिषत् १-२-१
तयोः मध्ये यः श्रेयः स्वीकरोति तस्य मोक्षरूपं सत्यं फलं लभ्यते, यस्तु प्रेयः अपेक्षते सः
मोक्षात् श्रेयसः अधः पतति ॥
श्रेयः, निः श्रेयसम्, मोक्षः, अमृतत्वम्, कैवल्यम् इति पर्यायपदानि । इदमेकमेव शाश्वतं फलम् ।
बुद्धिमता साधकेन अनित्यानि फलानि विहाय, नित्यं शाश्वतम् अजम् अजरम् अमृतम् अभयम्
अद्वितीयं च मोक्षफलमेव प्राप्तुं प्रयत्नः कर्तव्यः । मुमुक्षुसाधकः एक एव धीरः, एष एव च बुद्धिमान्,
विवेकी, पण्डितश्च । अयं हि आत्मज्ञानं लब्ध्वा तेन मोक्षमेव लब्ध्वा कृतार्थो भवति । जन्ममरणरूपात्
संसारचक्रात् आत्मानं विमोच्य कृतकृत्यो भवति अयं धीरो मुमुक्षुः ॥
मोक्षमार्गे प्रयत्नमेव अकृत्वा प्रेयोमार्गे एव निमग्नस्य अनित्यान्येव फलानि लभ्यन्ते । तुषान्येव
स्वीकुर्वतः तावतैव तुष्यतः अविवेकिनः सारतमाः तण्डुलाः लभ्यन्ते किम् ?
<DOC_END>
<DOC_START>
तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति । मुण्डकोपनिषत् ३-१-१
जीवसाक्षिणोः मध्ये अन्यो जीवः कर्मफलं सम्यक् भुङ्क्ते, अन्यस्तु साक्षी ईश्वरः कर्मफलानि न
अस्माकं शरीरे द्वौ आत्मानौ भवतः, जीवात्मा परमात्मा चेति । उभावप्येतौ पक्षिद्वयरूपकेण अत्र
उपनिषदि उपदिष्टौ । एतौ उभौ अपि पक्षिणौ एकमेव शरीरवृक्षम् आश्रित्य सहैव तिष्ठतः । यद्यपि
एकस्मिन्नेव शरीरे उभावपि विद्येते, तथापि एकः आत्मा कर्माणि कुर्वन् तेषां फलानि अनुभवन्
नित्यसंसारी भवति, अयमेव कर्तृभोक्तृस्वरूपः जीवात्मा ॥
इतरस्तु न कान्यपि कर्माणि करोति, अत एव तस्य सुखदुःखे न सम्भवतः, जन्ममरणसंसारस्तु
नितरां सम्भवति । अयं साक्षिमात्रः सन् सर्वान् विकारान् निर्विकारः सन् अवभासते । सर्वसंसार
धर्मविलक्षणः अयं प्रत्यगात्मा । अयमेव असंसारी परमात्मा । उभावप्येतौ परस्परं विलक्षणौ ।
असंसारी प्रत्यगात्मा एव अहं इति यः धीरो जानाति स एव ब्रह्मवित् जीवन्मुक्तश्च ॥
<DOC_END>
<DOC_START>
तरति शोकं, तरति पाप्मानम्, गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति । मुण्डकोपनिषत् ३-२-९
ब्रह्मज्ञानी शोकसागरं तरति, पापसागरं तरति, हृदयग्रन्थिभ्यः मुक्तो भवति, अमृतश्च भवति ।
फलयुगोऽयम्, प्रयोजनयुगोऽयम् । सर्वत्रापि साधनमार्गे प्रथमः प्रश्नो नाम ‘किं प्रयोजनम्’ इत्येव । एवमेव
आत्मज्ञानमार्गेऽपि 'आत्मनि विज्ञाते किं फलं भवति इति साधकाः पृच्छन्ति । बाढम्, आत्मज्ञानेन इमानि
:१. आत्मज्ञानेन शोकसागरं तरति । ज्ञानेन सर्वे शोकाः नश्यन्ति ।
:२. पापसागरं तरति । पुण्यपापानि सागरवदेव दुस्तराणि वर्तन्ते । पुनर्जन्मनः हेतुभूतानां पुण्यपापकर्मणां विनाशो भवति ॥
:३. गुहाग्रन्थिविमोक्षः । गुहाग्रन्थयो नाम अविद्याकामवासनाः । आत्मविद्यया हि अविद्याकामवासनाग्रन्थीनां विनाशः ॥
:४. अमृतो भवति । आत्मविद्योदये सति सद्य एव अमृतो भवति, जीवन्मुक्तो भवति । न आत्मवित् पुनर्जायते ॥
<DOC_END>
<DOC_START>
==तस्मा इन्द्राय गायत ॥ ऋग्वेदः १-५-४
: पञ्चभूतैः जातमिदं ब्रह्माण्डं तस्य भगवतः सृष्टिः । ज्ञानं, भूमिः, वायुः, जलं, सस्यं, सूर्यः, चन्द्रः इत्यादयः जीविनाम् अस्माकं कृते प्रदत्ताः व्यवस्थाः, उपायनानि, साधनानि, कार्यक्षेत्रं च । एतेषां सदुपयोगेन प्रत्येकं जीविः अपि आत्मबलं वर्धयन् आनन्दम् अनुभोक्तुम् आवश्यकानि शक्तिसामर्थ्यादीनि सम्पादयितुं शक्यानि । सकलजीवराशीनां लक्ष्यम् एतदेव । मानवजीवने अस्य अवसरः आधिक्येन लभ्यते । भगवतः दया, करुणा, औदर्यादीनि यदा अवलोकयाम तदा हृदयं कृतज्ञतापूर्णं भवति । गायनेन कृतज्ञताभावः अस्माकम् अन्तरङ्गे मुद्रितः भवेत्, भगवतः उपायनानां मूल्यं न विस्मरेम, तानि संरक्षेम च । अद्यत्वे प्रत्यक्षरूपेण, परोक्षरूपेण च अस्माभिः क्रियमाणं मालिन्यं तदा न करिष्यामः । अन्येषां सम्पत्तिं बलात् प्राप्तुं प्रयत्नं न कुर्मः । भगवन्तम् अनुसरन्तः सम्पत्तिं सर्वैः संविभज्य अनुभवामः । इयं रीतिः अस्माकं कृते जगतः कृते च अपेक्षितः मनोभावः । एतैः भावैः हृदयं पूर्णं यदा भवति तदा गानस्य अभिव्यक्तिः भवति । सामगानस्य अभिव्यक्तिः भवेत् ।
<DOC_END>
<DOC_START>
तस्माद्वा एतस्मात् आत्मनः आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः ।
अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात् पुरुषः ॥ तैत्तिरीयोपनिषत् २-१-२
सत्यज्ञानानन्तस्वरूपात् आत्मनः आकाशः सम्भूतः, आकाशात् वायुः उत्पन्नः, वायोः अग्निः, अग्नेः
आपः उद्भूताः, अद्भ्यः पृथिवी सञ्जाता, पृथिव्याः ओषधयः, ओषधीभ्यो अन्नम्, अन्नाच्च पुरुषः सञ्जातः ॥
‘जगतः ब्रह्म कारणम्’ इति वेदान्ताः उद्घोषयन्ति । सत्यज्ञानानन्तस्वरूपं हि ब्रह्म । इदं ब्रह्म न अस्मत्तः
भिन्नं वस्तु सर्वस्य जीवस्य स्वरूपमेव ब्रह्म । ब्रह्मैव अस्माकं प्रत्यगात्मा । अस्माकम् आत्मा एव ब्रह्म ।
अस्माकं स्वरूपभूतात् ब्रह्मण एव इदं समस्तं विश्वं जातं सत् ब्रह्मण्येव विद्यमानं सत्, ब्रह्मण्येव लीयते च ॥
अकाशादीनि पञ्चभूतानि ब्रह्मादयः पीपीलिकान्ताः समस्ताः चेतनप्राणिनश्च ब्रह्मण एव उत्पन्नाः । सर्वस्यापि
जगतः ब्रह्मैव अभिन्नं निमित्तोपादानकारणम् । अतः कार्यभूतमिदं जगत् ब्रह्मैव ॥
<DOC_END>
<DOC_START>
==तस्मिन् ह तस्थुर्भुवनानि विश्वा ॥ यजुर्वेदः ३१-१९
समग्रं ब्रह्माण्डं तस्मिन् विद्यते ।
: तत् किम् सा एव परमात्मरूपा शक्तिः । इयं शक्तिः सः सा तत् इति केनापि शब्देन निर्देष्टुं शक्या अस्याः शक्तेः शरीराकारादयः न विद्यन्ते इत्यतः लिङ्गव्यवस्थातीता वर्तते । इयं शक्तिः सर्वव्यापिनी विद्यते । अस्याः व्याप्तेः ऊहने अपि मानवस्य मस्तिष्कम् असमर्थं भवति । भूमिः, सौरमण्डलं, क्षीरपथः, नीहारिकाः, नक्षत्रमण्डलानि एतैः युक्तम् इदं ब्रह्माण्डम् अगाधम् अनन्तञ्च वर्तते । वेगशाली प्रकाशः एकस्मिन् वर्षे यावद्दूरं क्रमते तद्दूरं 'ज्योतिर्वर्षम्' इति निर्दिश्यते । लक्षाधिकज्योतिर्वर्षाणाम् इव विस्तारयुतस्य ब्रह्माण्डस्य अन्त्यं केनापि न ऊह्यते इदं ब्रह्माण्डम् अत्यन्तं हितकरं रमणीयञ्च किञ्चन रचनाविशेषः । एतादृशं हितकरं रमणीयं स्वस्य गर्भे धरति इत्यतः एव तां शक्तिं वेदाः 'हिरण्यगर्भ' इति निर्दिशन्ति । एतादृशी शक्तिः देवालय-क्रैस्तालय-यवनालयेषु बद्धवन्तः स्मः इति भ्रमया वाणिज्यवस्तुरूपं कृतवताम् अस्माकं मौढ्यं किमिति वदेम
<DOC_END>
<DOC_START>
तस्मिन्नपो मातरिश्वा दधाति । ईशावास्योपनिषत् ४
तस्मिन् परस्मिन् ब्रह्मणि सति एव हिरण्यगर्भः कर्मफलानि विदधाति ।
प्राणिनां कर्मफलदाता भगवानेव । परमात्मा हि कर्मणां कर्मफलानां च केवलं साक्षिभूतः । 'कर्माध्यक्षः'
इति हि तस्य नाम । चैतन्यरूपेण सूर्यवत् कूटस्थः परमात्मा वर्तते ॥
तर्हि कर्मफलनियामकः कः? स एव हिरण्यगर्भः । अयं हि सर्वेषां प्राणिनाम् अन्तर्यामितया समष्टिरूपः प्राणात्मा ।
अयमेव आध्यात्मिकोपाधिना प्राणः इति वैश्वानरः इति च व्यपदिश्यते । अयमेव आधिभौतिकोपाधिना अयमेव
हिरण्यगर्भः विराट् पुरूषः, सूत्रात्मा च इति उच्यते ॥
परमात्मनः अधीनतया अयं हिरण्यगर्भः अस्य विश्वस्य सृष्टिस्थितिलयकर्माणि कुर्वाणः कर्मफलनियमान् च करोति ।
परमात्मनि न कोऽपि विकारः सम्भवति । परं ब्रह्म तु स्वतः परिपूर्णं कूटस्थं सत्यं चिन्मात्रस्वरूपम् अद्वितीयं च वर्तते ॥
<DOC_END>
<DOC_START>
तस्य त्रय आवसथाः । त्रयः स्वप्नाः । ऎतरेयोपनिषत् १-३-१२
आत्मनः त्रीणि वासस्थानानि, त्रयः स्वप्नाः ।
आत्मनः त्रयः वासालयाः । परिपूर्णस्य आत्मनः परमार्थतः नैकमपि वासगृहम् विद्यते ।
आकाशस्य वासस्थानमिति वर्तते किम् देशकालवस्तुभिः परिच्छिन्नानां पदार्थानां हि
वासस्थानं सम्भवति । तर्हि आत्मनः त्रीणि वासस्थानानि इत्युक्ते कोऽर्थः । अत्र आत्मा
नाम देहाभिमानी जीवः । अस्य जीवस्य जाग्रदाद्याः तिस्रः अवस्थाः वासस्थानानि इव भवन्ति ॥
आत्मनः तानि त्रीणि वासस्थानानि कानि इति चेत्, जाग्रदवस्थायाम् आत्मनः दक्षिणं
चक्षुरेव वासस्थानम्, स्वप्ने मनः वासस्थानम् सुषुप्तौ तु हृदयम् । सर्वोऽपि जागरितव्यवहारः
इन्द्रियाधीन एव, इन्द्रियाभावे व्यवहाराभावात् । स्वप्ने सर्वे व्यवहाराः मनोऽधीनाः । स्वप्ने
जागरितशरीरं वा इन्द्रियाणि वा न विद्यन्ते । तथापि मनस्येव सर्वे व्यवहाराः भवन्ति । निद्रावस्थायां
तु हृदयाकाशे आत्मनः सुप्तत्वात् तदेव हृदयं वासस्थानम् । परमार्थदृष्ट्या एताः तिस्रोऽप्यवस्थाः
<DOC_END>
<DOC_START>
तस्य ह न देवाश्च नाभूत्यै ईशते । आत्मा ह्येषां स भवति ॥ बृहदारण्यकोपनिषत् १-४-१०
देवा अपि तस्य ज्ञानिनः विघ्नं कर्तुं न ईशते । यतः एषां देवानां सः
लब्धब्रह्मात्मज्ञानश्चेत् सः मुच्येत वा न वा इति संशयो नास्ति । ज्ञानी
चेत् स सर्वात्मा भवत्येव । मुक्त एव । ज्ञानस्य मुक्तेश्च अविनाभावसम्बन्धः ।
एकेन ज्ञानिना भाव्यम्, अपि तु तेन ज्ञानेन सः सर्वात्मा सन् मुच्येत वा न
वा इति संशयो न युक्तः ॥
भवतु, अत्र कश्चित् संशयो जायेत । तद्यथा, मानवाः दुर्बलाः, देवास्तु बलिष्ठाः ।
देवाः अणिमादिसिद्धिमन्तः, निग्रहानुग्रहसमर्थाश्च । तादृशा देवाः अस्य ब्रह्मज्ञानिनः
मोक्षं प्राप्तुं विघ्नं कुर्युः खलु इति चेत् । न । नैष संशयो न्याय्यः । यतः
ब्रह्मज्ञानी देवतानामपि आत्मभूतः, तस्मात् देवा अपि अस्य विघ्नं नैव कुर्युः ।
यतो हि सर्वात्मभूतस्य आत्मज्ञानिनः शत्रवो नैव भवन्ति । न हि स्वयमेव
<DOC_END>
<DOC_START>
तस्याभिध्यानात् तृतीयं देहभेदे विश्वैश्वर्यं केवलः आप्तकामः । श्वेताश्वतरोपनिषत् १-११
तस्य परमात्मनः ध्यानेन, देहपतनानन्तरं विश्वैश्वर्यरूपां तृतीयाम् अवस्थां प्राप्नोति । ततः सः केवलं
ब्रह्मस्वरूपः सन् आप्तकामो भविष्यति ॥
वेदान्तेषु जीवन्मुक्तिः विदेहमुक्तिश्च इति मुक्तिः द्विधा विभज्यते । उत्तमाधिकारिणः ब्रह्मात्मज्ञानिनः अस्मिन्नेव
जन्मनि जीवन्मुक्ता भवन्ति । एतेषां साक्षान्मार्गः, वस्तुतन्त्रज्ञानमार्गः, साक्षात् शुकमार्गः; अपरः परम्परामार्गः,
परब्रह्मोपासकाश्चेत् तादृशाः एतस्य शरीरस्य पतनानन्तरं हिरण्यगर्भस्य लोकं गच्छन्ति । तत्रलोके हिरण्यगर्भब्रह्मणा
सह सर्वान् दिव्यान् भोगान् अनुभविष्यन्ति । अनन्तरं ब्रह्मणि लीयन्ते । तत्र ब्रह्मज्ञानं प्राप्य ते आप्तकामाः भविष्यन्ति ।
अविद्याकामकर्मभिः बन्धनैः मुच्यन्ते । तेषां पुनर्जन्मनः सम्भवो नास्ति । इयमेव च विदेहमुक्तिः इति कथ्यते ॥
<DOC_END>
<DOC_START>
तस्यै तपो दमः कर्मेति प्रतिष्ठा । वेदाः सर्वाङ्गानि सत्यम् आयतनम् ॥ केनोपनिषत् ४-८
तां परब्रह्मविद्यां प्राप्तुं तपः, दमः, कर्माणि, वेदाध्ययनं, षडङ्गानि, सत्यवचनं च साधनानि भवन्ति ॥
ब्रह्मविद्ययैव कृतकृत्यता, ब्रह्मविद्ययैव मोक्षप्राप्तिः, ब्रह्मविद्या सर्वविद्याप्रतिष्ठा, ब्रह्मविद्या सर्वैः मानवैः सम्पाद्या
एव इत्यादिरूपेण हि उपनिषत्सु ब्रह्मविद्या संस्तूयते ॥
तपसा खलु एषा ब्रह्मविद्या सुसम्पाद्या भवति । तपो नाम देवद्विजगुरुपूजनम्; शौचम्, आर्जवं च तपः । दमो नाम
बाह्यविषयेभ्यः इन्द्रियाणाम् उपशमः । भगवदर्पणबुद्ध्या चित्तशुद्ध्यर्थं क्रियमाणमेव कर्म । अधिकारिभिः द्विजैः
क्रियमाणं वेदाध्ययनमपि आत्मज्ञानप्राप्त्यै साधनं भवति । शिक्षा, व्याकरणं, छन्दः, निरुक्तं, ज्योतिषं, कल्पश्च
इति षडङ्गानामपि अध्ययनं कर्तव्यमेव । सर्वैरपि मुमुक्षुभिः साधकैः आत्मज्ञानार्थम् अनुष्ठेयं सुलभतमं साधनं नाम
सत्यवचनम् । उपरि उक्तानि सर्वाणि साधनानि ब्रह्मविद्याप्राप्त्यर्थानि भवन्ति ॥
<DOC_END>
<DOC_START>
तस्योपनिषत् ‘सत्यस्य सत्यम्’ इति । प्राणा वै सत्यं तेषामेष
‘सत्यस्य सत्यम्’ इति तस्य उपनिषत् । प्राणा एव सत्यम्, सत्यानां
उपनिषत्सु आत्मा अनेकैः नामभिः कथितोऽस्ति । आत्मनः ईशः, साक्षी,
सत्यम्, अक्षरम्, पुरुषः, अन्तर्यामी, ब्रह्म, विज्ञानम्, आनन्दः – इत्यादीनि
अनेकानि नामानि उपनिषत्सु उपदिष्टानि ॥
अस्मिन् प्रकृते मन्त्रे तु आत्मनः ‘सत्यस्य सत्यम्’ इति नाम उपदिष्टं दृश्यते ।
अयमात्मा ‘सत्यस्य सत्यम्’ । प्राणा एव हि सत्यम् । अत्र प्राणा इति इन्द्रियाणि
मनश्च । इन्द्रियैः दृष्टं वस्तु सत्यं खलु तस्मात् इन्द्रियमनोबुद्धयः सत्यशब्देन
उच्यन्ते । एतेषाम् आस्पदभूतो हि अयमात्मा । इन्द्रियाणां चैतन्याधायकः आत्मा ।
एष आत्मैव नूनं ‘सत्यम्’ । आत्मन एव हि सर्वाणि इन्द्रियाणि स्वस्वव्यापारं कुर्वन्ति ।
आत्मचैतन्यनिमित्त एव हि सर्वकरणव्यापारः आत्मैव खलु इन्द्रियमनोबुद्धीनाम् आधारः?
तस्मात् आत्मा ‘सत्यस्य सत्यम्’ इति कथ्यतेऽत्र । इदं हि आत्मनः रहस्यं नाम ॥
<DOC_END>
<DOC_START>
ता एता देवताः सृष्टाः अस्मिन् महत्यर्णवे प्रापतन् । ऎतरेयोपनिषत् १-२-१
परमात्मना सृष्टाः एते इन्द्रादयो देवाः अस्मिन् संसारसागरे निपतितवन्तः ।
इन्द्र आदित्य चन्द्रादयो देवाः मानवदृष्ट्या श्रेष्ठाः महान्त एव, तेषाम् अद्भुतानि शक्तिसामर्थ्यानि
विद्यन्ते । सत्यमेतत् । तावन्मात्रेण न ते देवाः परमेव ब्रह्म । एते देवाः परस्माद् ब्रह्मणो हि जाताः ।
जाता एते देवाः मानववदेव महासंसारिण एव ॥
एते देवा अपि संसारसागरे एव निमग्नाः परिच्छिन्नात्मान एव, न तु परं ब्रह्म । देवाधिदेवा अपि
संसारिण एव । अत्र संसारो नाम रागद्वेषौ, शोकमोहौ, इष्टानिष्टे, शोभनाशोभने, जन्ममरणे –
इत्यादिरूपं द्वन्द्वमेव; देवानामपि द्वन्द्वम् अस्त्येव ॥
देवत्वमात्रेण न तैः ब्रह्मज्ञानिभिर्भाव्यम् । न तैः ब्रह्मनिष्ठैर्भाव्यम् । देवाः अमरा एव भवन्ति न तु
अमृतात्मानः । आत्मज्ञानादेव अमृतत्वम् आत्मज्ञानादेव च मुक्तिः लभ्यते, न तु अन्यथा ॥
<DOC_END>
<DOC_START>
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ईशावास्योपनिषत् ३
वेदान्तानाम् अयं धीरः सन्देशः सामान्यलौकिकानाम् आश्चर्यम् उत्पादयति । अस्य मन्त्रस्य
अर्थः सम्यक् न गृह्यते चेत् तदा अपार्थ एव भवति ॥
'आत्महनः स्वर्गलोकं गच्छन्ति' इत्युक्ते कोऽर्थः आत्महनो’ नाम आत्मानं ये घ्नन्ति ते इत्यर्थः ।
आत्मा नाम सच्चिदानन्दरूपः प्रत्यगात्मा । अस्य सम्यक् अज्ञानमेव हि अस्य हननम् । सर्वोऽपि जीवः
परमार्थतः अमृत एव सन्नपि एवम् एनम् अविज्ञाय, शरीरमेव अहम् इति जानाति खलु, एतदेव आत्महननं
शरीरमेव आत्मत्वेन गृहीत्वा जन्मजरामरणादिविकाररहितम् निजम् आत्मानं विस्मृत्य अविज्ञाय,
अविद्याकामकर्मसु ये निमग्नाः ते अज्ञानिनः आत्मघातकाः न भवन्ति किम् ?
<DOC_END>
<DOC_START>
तान् ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । प्रश्नोपनिषत् १-२
ब्रह्मविद्याचार्यः पिप्पलादमहर्षिः तान् सुकेशाभारद्वाजादीन् जिज्ञासून् प्रति 'यूयं तपसा ब्रह्मचर्येण श्रद्धया च पुनः
संवत्सरम् एकम् अस्मासु संवसत' इत्युक्तवान् ।
ब्रह्मविद्यां सम्पादयितुम् आत्मनः सकाशम् आगतेभ्यः सर्वेभ्यः शिष्येभ्यः अविचार्य उपदेशं न कुर्यादाचार्यः । प्रप्रथमतः
ते शिष्याः सम्यक् परीक्ष्याः, अनन्तरमेव तेभ्यः शिष्येभ्यः ब्रह्मतत्त्वम् उपदिशेत् आचार्यः । यतो हि जिज्ञासूनां चित्तशुद्ध्यभावे
उपदिष्टापि ब्रह्मविद्या न अनुभवम् आरोहति ॥
ब्रह्मविद्यापेक्षिणः साधकाः तपः ब्रह्मचर्यं च अनुतिष्ठेयुः । तपो नाम इन्द्रियनिग्रहः । सत्यवचनम्, अहिंसा, जपादयश्च ।
ब्रह्मचर्यं हि प्रधानं साधनम् । सद्गुरुसेवापरायणः सन् सद्गुरुसेवया सद्गुरून् सन्तोष्य अनन्तरं तेभ्यः ब्रह्मविद्योपदेशश्रवणं
कुर्यात् साधकः । सद्गुरुभक्त्या तपसा च विना न ब्रह्मज्ञानं लभ्यते ॥
<DOC_END>
<DOC_START>
तान् होवाच, ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः, स एता गाः उदजतामिति । बृहदारण्यकोपनिषत् ३-१-२
तान् विदुषः 'भोः पूज्याः विद्वांसः ब्राह्मणाः युष्मासु यो ब्रह्मिष्ठः सः एताः गाः नयतु' इति जनकमहाराजः उवाच ॥
बृहदारण्यकोपनिषदि कश्चन कथासन्दर्भोऽयम् । जनकः सम्राट् विदुषां सभाम् एकाम् आयोज्य तत्र स्वर्णालङ्कृतशृङ्गैः
अलङ्कृताः एकसहस्रं गाः विद्वत्तायाः पणत्वेन स्थापितवान् आसीत् । तां सभां प्रति देशस्य नानादिग्भ्यः पण्डितोत्तमाः
आगताः आसन् । तान् विदुषः प्रति जनकः एतानि वचांसि उक्तवान् । तद्यथा –
'भोः पूज्याः विद्वांसः, भवत्सु यः कोऽपि विद्वान् ब्रह्मनिष्ठश्चेत् अवश्यं तादृशः इमाः धेनूः स्वगृहं नयेत्' इति जनकः
उद्घोषितवान् । अनेन जनकराजस्य सम्पत्, तदनुगुणम् औदार्यम्, ब्रह्मजिज्ञासासक्तिः, ब्रह्मज्ञानिषु तस्य भक्तिगौरवम्,
स्वतः आत्मनः मुमुक्षुत्वं च इत्येतत् सर्वं विज्ञायते । ब्रह्मिष्ठेभ्यः स्वसर्वसम्पदमपि दातुं सिद्धोऽयम् । सम्पदः साफल्यमिदम् !
<DOC_END>
<DOC_START>
ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम् । श्वेताश्वतरोपनिषत् १-३
ते ऋषयः ध्यानयोगानुगताः सन्तः स्वगुणैः निगूढां देवात्मशक्तिम् अपश्यन् ।
ध्यानयोगस्य महिमानम् अयं मन्त्रः प्रदर्शयति । ध्यानं नाम मनसः एकाग्रता । बाह्यात्
अनात्मप्रपञ्चात् मनसः प्रत्यक्प्रवणतया आत्मनः अनुसन्धानमेव हि ध्यानं नाम मनसः
परमात्मनि संयोजनमेव ध्यानयोगः । अनेन ध्यानयोगेन अतीन्द्रियगोचराश्च विषयाः ज्ञायन्ते ॥
भगवतः अद्भुता शक्तिः यद्यपि अस्मास्वेव विद्यते तथापि सा मायया प्रतिबद्धा अस्ति ।
बाह्यान् अनात्मविषयानेव सत्यत्वेन गृहीत्वा तेष्वेव अनुरक्तता हि माया नाम । बाह्यविषयानुरक्तता
एव माया । अज्ञानिनः मायापाशया बद्धाः सन्ति । मायावरणेन अस्माकं पारमार्थिकं स्वरूपं
न अवभासते । ध्यानेन तु मायावरणस्य विनिवृत्तिर्भवति । अस्माकं प्राचीनमहर्षयः इदं रहस्यं
प्रदर्शितवन्तः । भगवतः ध्यानेन वयमपि मायाजालात् मुक्ता भवेम ॥
<DOC_END>
<DOC_START>
==ते स्याम देव वरुण ॥ ऋग्वेदः ७-६६-९
हे वरणीय वयं त्वदीयाः स्याम ।
: अद्वितीयः सः भगवान् स्वीकरणयोग्यः इत्यतः 'वरुणः' इति निर्दिश्यते । वयं भगवतः पक्षीयः स्याम । तदा तस्य भगवतः आनन्दे अस्माकमपि भागः प्राप्यते । भगवतः पक्षस्य प्रवेशनाय तस्य नियमाः अवगन्तव्याः, आचरणे पालनीयाश्च । भगवान् करुणामयः, दयामयश्च । अस्माकं जीवने अहिंसा, मैत्री, प्रीतिः इत्यादीन् गुणान् यदि सम्पादयेम तर्हि तस्य भगवतः पक्षं प्रवेष्टुम् अर्हता प्राप्यते । भगवान् सर्वज्ञः । वयं ज्ञानम् इच्छन्तः, ज्ञानवर्धनाय प्रयतमानाः सन्तः, ज्ञानप्रसारकार्ये उद्युक्ताः चेत् तस्य पक्षे अस्माकमपि किञ्चन स्थानं प्राप्यते । अत्र ज्ञानं नाम भगवतः सृष्टेः विनाशम् अकुर्वन्तः सर्वेषां जीविनां हिताय ज्ञातव्याः अंशाः आचरणानि च । परमात्मा विश्वब्रह्माण्डस्य नायकः । अस्मभ्यं दत्तस्य अस्य विश्वस्य पिण्डाण्डस्य एतस्य शरीरस्य वयं नायकाः भवेम तर्हि पक्षप्रवेशनाय अनुमतिः प्राप्यते । इन्द्रियाणां वशाः चेत्, भोगानां दासाः चेत् पक्षे प्रवेशः न भवति । साधनेन भगवतः पक्षीयाः भवेम ।
<DOC_END>
<DOC_START>
तेन त्यक्तेन भुञ्जीथाः । ईशावास्योपनिषत् १
हे मानव, त्वं तेन त्यागेनैव भोगम् आनन्दम् अनुभव ।
आनन्दं प्राप्तुं किं कुर्यात् इति जिज्ञासायां सत्याम् 'त्यागेन आनन्दम् अनुभव' इति
ईशावास्योपनिषत् उपदिशति । न भोगेन आनन्दः, किं तु त्यागेनैव इति उपदिशति अयं मन्त्रः ॥
किम् त्यागेन आनन्दः त्यागः अयं शब्द एव अनेकेषां भयम् उत्पादयति । त्यागो नाम
विसर्जनम् । अस्माभिः प्रयत्नपूर्वकं श्रमपूर्वकं सम्पादितस्य धनादेः वस्तुनः इतरेभ्यः दानं नाम
महत् कष्टकरम् । अनेन त्यागेन आनन्दो वा त्यागकर्तुः नष्टम्, त्यागप्राप्तुः पुनः आनन्दो भवेत् ।
त्यागकृतः नष्टवस्तुनः दुःखमेव भवति खलु इति सामान्यदृष्टेः भाति ॥
नैतद्युक्तम् । अत्र त्यागो नाम न केवलं दानम् । अत्र त्यागः इतरेभ्यः न वस्तुनः दानम् । किं तु
आत्मज्ञानमेव त्यागः । सर्वम् आत्मैव, इति विवेके उत्पन्ने सति ‘मदीयम्’ इति न किञ्चित् अवशिष्यते ।
‘अहं’ ‘मम’ इतिरूपायाः अविद्यायाः ज्ञानेन परिहार एव वेदान्तेषु त्यागः । ईदृशेन त्यागेन आनन्दः
<DOC_END>
<DOC_START>
तेभ्यो देवेभ्यः हैतदक्षरमुवाच ‘द’ इति, मनुष्येभ्यः हैतदक्षरमुवाच ‘द’ इति
असुरेभ्यः हैतदक्षरमुवाच ‘द’ इति । बृहदारण्यकोपनिषत् ५-२-२
पिता प्रजापतिः तेभ्यः देवेभ्यः मानवेभ्यः असुरेभ्यश्च समानतया एकमेव ‘द’ कारम् उपदिष्टवान् ।
प्रजापतिब्रह्मणः देवाः, मनुष्याः, असुराः इति त्रयः पुत्राः । ते पितरम् उपगम्य 'अस्मभ्यं हितोपदेशं कुरू'
इति प्रार्थितवन्तः । संवत्सरमेकं ब्रह्मचर्यव्रतम् अनुष्ठीयताम् – इति पित्रा आज्ञप्ताः ते त्रयोऽपि तथैव कृत्वा
पुनः उपदेशार्थम् आगतवद्भ्यः तेभ्यः द द द इत्येव पिता उपदिदेश । किं मम उपदेशस्य अर्थः ज्ञातो वा?
इति पृष्टाः ते त्रयोऽपि पुत्राः ‘सत्यम्’ इति प्रत्युत्तरितवन्तः ॥
विषयानुभोगनिरताः देवताः दमम् लोभिनः स्वार्थिनश्च मानवाः दानम् क्रूरिणः हिंसाचाराश्च असुराः
दयाम् इति प्रजापत्युपदेशस्य तात्पर्यं समधिगतवन्तः । समानेऽप्युपदेशे स्वस्वसंस्कारानुगुण्येन तात्पर्यग्रहणं
<DOC_END>
<DOC_START>
तेषामसौ विरजो ब्रह्मलोको न येषु जिह्मम् अनृतं न माया चेति । प्रश्नोपनिषत् १-१६
येषु उपासकेषु कुटिलता, अनृतम्, अनार्जवं च इति त्रयो दोषाः न विद्यन्ते, तेषामेव
उपासकानां मरणानन्तरम् उपास्यदेवतालोकप्राप्तिर्भवति । अनन्तरं च तद्देवतासायुज्यमेव ते
प्राप्नुवन्ति । हिरण्यगर्भोपासकानां मरणानन्तरं ब्रह्मलोकप्राप्तिर्भवति ॥
तपः, इन्द्रियनिग्रहः, उपासननिष्ठा च इति गुणत्रयम् उपासकानां प्रधानम् । उपासने क्रियमाणेऽपि
अफलदायित्वे त्रयो दोषाः । ते तु जिह्मम्, अनृतम् माया च इति । एते दोषाः त्याज्याः ॥
जिह्मं नाम कुटिलता, वक्रस्वभावः, व्यङ्यस्वभावः ।
अनृतं नाम मृषावचनम्, विनोदार्थं वा स्वार्थसम्पादनाय वा स्वप्रतिष्ठाप्रदर्शनार्थं वा मृषावचनम् ।
माया नाम मिथ्याचारः । मनसि अन्यथा बाहिरेवान्यथा । अनार्जवम् इति च एषा एव । ईदृशैः
<DOC_END>
<DOC_START>
त्रयं वा इदं नाम रूपं कर्म । बृहदारण्यकोपनिषत् १-६-१
इदं जगन्नाम, नाम रूपं कर्म च ।
अयं व्याकृतप्रपञ्चः अत्यन्तं विशालः महान् च । अस्य विस्तारः अद्भुतः । इमं प्रपञ्चं शब्दैः
कृत्स्नतया वर्णयितुं न कोऽपि समर्थः, चेतनप्राणिभिः अचेतनवस्तुभिश्च सम्पूर्णोऽयं प्रपञ्चः ।
साङ्ख्यादिदर्शनानि अस्य प्रपञ्चस्य मूलम् अन्वेष्टुं प्रवृत्तानि । पञ्चभूतानि, नक्षत्रमण्डलानि, देवाः,
असुराः, मनुष्याः, पशुपक्षिणः, क्रिमिकीटादयः – इत्यादिरूपेण विस्तृतोऽयं विशालः प्रपञ्चः ॥
इमं प्रपञ्चं त्रेधा विभजते वेदान्तः । अयं विभागस्तु नाम, रूपं, कर्म च इति । नामरूपक्रियाः विहाय
प्रपञ्चो नाम नास्त्येव । सर्वस्यापि वस्तुनः एकं नाम, एकं रूपं विद्यते एव । चेतनं वस्तु चेत् तस्य
एका क्रियाऽपि विद्यते । मनुष्याणां पशुपक्षिक्रिमिकीटानां च समानमेव जातकमेतत् । एतावदेव अस्य
विशालप्रपञ्चस्य सारम् । अस्य आश्रयभूतं ब्रह्मतत्त्वम् । परं ब्रह्म तु नामरूपक्रियाऽतीतम् ॥
<DOC_END>
<DOC_START>
त्रयो धर्मस्कन्धाः यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयः, ब्रह्मचारी
आचार्यकुलवासी तृतीयः अत्यन्तम् आत्मानम् आचार्यकुले अवसादयन्; सर्वे
एते पुण्यलोका भवन्ति । ब्रह्मसंस्थो अमृतत्वमेति ॥ छान्दोग्योपनिषत् २-२३-१
धर्मस्य त्रयः स्कंधाः; यज्ञः, अध्ययनं, दानम् इति प्रथमः स्कंधः; तप अनुष्ठानतत्परः वानप्रस्थः
द्वितीयः स्कंधः; नैष्ठिकब्रह्मचारी सन् गुरुकुलवासी गुरुसेवातत्परः ब्रह्मचारी तृतीयः स्कंधः; एते
त्रयोऽपि पुण्यान् लोकान् प्राप्नुवन्ति । ब्रह्मसंस्थः ज्ञानी तु अमृतत्वमेव मोक्षमेव एति ॥
एक एव धर्मः गृहस्थधर्मः, वानप्रस्थधर्मः, ब्रह्मचारिधर्मः इति त्रिधा विभक्तः । यजनयाजने, अध्ययन
अध्यापने, दानप्रतिग्रहौ इति षट् गृहस्थधर्माः; शरीरस्य दण्डनम्, उपवासः मौनादीनि च वानप्रस्थस्य
धर्माः; सद्गुरुसेवा, भिक्षा, ब्रह्मचर्यादीनि च ब्रह्मचारिणः धर्माः । एतेषां त्रयाणामपि पुण्यलोकप्राप्तिः
फलं भवति । ब्रह्मनिष्ठस्य संन्यासिनः आत्मविदस्तु मोक्ष एव फलं लभ्यते । परिपूर्णब्रह्मात्मविदः ब्रह्मिष्ठस्य
<DOC_END>
<DOC_START>
स्रोतांसि सर्वाणि भयावहानि ॥ श्वेताश्वतरोपनिषत् २-८
विवेकी साधकः त्रिभिः उन्नतं शरीरं समं संस्थाप्य, इन्द्रियाणि विवेकेन मनसि संनिवेश्य,
प्रणवोडुपेन भयङ्करं संसारसागरं सुलभतया तरेत् ॥
अयं संसारः सामान्यतः सागरेण उपमीयते उपनिषत्सु । जन्मजरामरणरूपः संसारसागरः
तावता सुलभेन तरीतुं न शक्यते । तरीतुं सर्वथा अशक्यम् इत्यपि न । तरणाय उपायोऽस्ति ॥
तर्हि संसारसागरतरणाय साधकैः किं कर्तव्यम् इति चेत्, उपायविशेषम् उपदिशति अयं मन्त्रः ।
शरीरं समं धारयेत् । शिरः, ग्रीवम्, उरश्च समानि कृत्वा चञ्चलानि इन्द्रियाणि बाह्यविषयेभ्यः प्रत्यक्
उपसंहरेत् । अनन्तरम् ओङ्कारोपासनद्वारा परमात्मानं ध्यायेत् । अनेन उपायेन आत्मज्ञानं लब्ध्वा
<DOC_END>
<DOC_START>
त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सनातनः ॥ कैवल्योपनिषत् १-१८
त्रिषु धामसु भोग्यम्, भोक्ता, भोगः इति यद्यद् दृश्यते, तस्मात् विलक्षणः साक्षी
अहं चिन्मात्रः सनातनश्च अस्मि इति जानाति आत्मवित् ।
त्रीणि स्थानानि इति जाग्रत् स्वप्न सुषुप्तानि अवस्थात्रयम् इति कथ्यन्ते । एतानि
त्रीणि स्थानानि विहाय चतुर्थं स्थानं न कोऽपि लोके दृष्टवान् । एतासु तिसृषु अवस्थासु
दृश्यमानाः पदार्थाश्च त्रय एव । ते एव प्रमाता, प्रमाणं, प्रमेयश्च । एतेषां त्रिपुटी इति नाम ॥
आत्मा नाम प्रत्यगात्मा एभ्यो विलक्षणः । आत्मा साक्षिभूतः । अस्य आत्मनः त्रिपुटिसम्बन्धो
नास्ति । आत्मनः अवस्थात्रयलेपो नास्ति । आत्मा चैतन्यस्वरूपः । आत्मा देशकालातीतः ।
एषः प्रत्यगात्मा एव अहम् इति यो विजानाति सः आत्मज्ञानी । आत्मवत् आत्मविदपि
<DOC_END>
<DOC_START>
==त्वं विश्वस्य धनदा असि ॥ ऋग्वेदः ७-३२-१७
त्वं जगतः सम्पद्धाता असि ।
: हे विश्वचैतन्यशक्ते अस्य जगतः समग्रा सम्पत्तिः भवतः एव । जननावसरे इयं सम्पत्तिः मया न आनीता, गमनावसरे नयनम् असाध्यमेव । मम योग्यतायाः कर्मणश्च अनुसारम् इयं सम्पत्तिः भवतः नियमानुसारं मह्यं दत्तमस्ति । नाशनाय न, अपव्ययाय अपि न । संरक्ष्य अग्रिमसन्तानाय दत्त्वा गमनाय आम् । अहं मम पुत्रान्, पौत्रान् च विशेषतः प्रीणामि । तेषां कृते इयं सम्पत्तिः रक्षणीया एव । पूर्वजाः रक्षितवन्तः इत्यनेन एव इयं सम्पत्तिः मया प्राप्ता इत्येतत् सत्यम् । अहं भवतः सम्पत्तेः विश्वस्तमात्रम् इदं कार्यं कृतम् इत्यतः भवतः सम्पत्तेः वर्धमानः भागः मम वेतनम् । ततः मम सरलम् असङ्ग्रहयुतं जीवनम् । इदं सत्यम् अनवगच्छता मया इयं सम्पत्तिः मम एव इति अधिकारः प्रदर्श्यते । मम इच्छानुसारम् आडम्बरप्रदर्शनाय लालसया अस्याः सम्पत्तेः दुरुपयोगं करोमि । भौतिकसम्पत्तेः कृते एव यस्य कस्यचित् जनस्य आश्रयं प्राप्नोमि । जगति विद्यमानेभ्यः सर्वेभ्यः भौतिकाध्यात्मिकसम्पत्तेः दाता भवान् एव इत्ययम् अंशः मया विस्मृतः आसीत् । इतः परं न विस्मरामि ।
<DOC_END>
<DOC_START>
दन्ताः न विद्यन्ते चेदपि शिलाः खादति । जीवः नास्ति चेदपि बहु सम्भाषणं करोति ।
बहुभिः गुणैः युक्तश्चेदपि अन्यान् अनुसरति । किं स्यात् ?
<DOC_END>
<DOC_START>
पण्डितः दीनदयाल उपाध्यायः (सेप्टेम्बर् २५, १९१६ फेब्रवरि ११, १९६८) भारतीयतत्त्वज्ञानी, अर्थशास्त्रज्ञः, इतिहासज्ञः, पत्रिकोद्यमी, राजनैतिकक्रान्तिकारी च आसीत् ।
*समग्रस्य राष्ट्रस्य सेवा करणीया इत्येतत् व्रतं वयम् आश्रितवन्तः स्मः । सर्वे देशवासिनः अस्माकं बान्धवाः । यावत् अहं भारतमातुः सुपुत्रः अस्मि इति सर्वे बान्धवाः गौरवं न अनुभवन्ति तावत् वयं तूष्णीं न स्थास्यामः । वयं भारतमातरं वस्तुतः अपि सुजलां सुफलां करिष्यामः । एषा दशप्रहरिणी दुर्गा भूत्वा असुराणां संहारं करिष्यति, लक्ष्मीः भूत्वा सर्वेषां समृद्धिं कल्पयिष्यति, सरस्वती भूत्वा अज्ञानान्धकारं दूरीकृत्य ज्ञानप्रकाशं प्रसारयिष्यति च । हिन्दुमहासागरेण हिमालयेन च परिवेष्टिते एतस्मिन् भरतखण्डे वास्तविकीं सङ्क्रान्तिम् आनेष्यामः । यावत् भरतखण्डे एकरसता, कर्मठता, समानता, सम्पन्नता, ज्ञानवत्ता, सुखं, शान्तिः चेति सप्तानां जाह्नवीनां पुण्यप्रवाहः न आनेष्यते तावत् अस्माकं भागीरथं तपः समाप्तिं न एष्यति ।
*भारतीयसंस्कृतेः प्रथमं वैशिष्ट्यं नाम समग्रं जीवनं सम्पूर्णां सृष्टिं च सा अखण्डतादृष्ट्या पश्यति इति । तस्याः दृष्टिः एकात्मवादिनी अस्ति । खण्डशः चिन्तनं विशेषज्ञदृष्ट्या युक्तं स्यात् कदाचित् । किन्तु व्यावहारिकदृष्ट्या तत् अयुक्तम् एव । (एकात्मभावदर्शनम्, पृ 18)
*अर्थप्राबल्यवादेन समाजवादेन वा मानवः सम्यक्तया पूर्णतया वा न अवगतः एव । एकेन वादेन सः स्वार्थी, अर्थपरायणः, सङ्घर्षशीलः, मात्स्यन्यायप्रवणः जीवी इति भावितम् । अपरेण वादेन चिन्तितं यत् सः व्यवस्थायाः परिस्थितीनां च दासः, अकिञ्चनः, अनास्थामयः चेति । शक्तेः केन्द्रीकरणम् उभयत्रापि अभिप्रेतम् । तस्मात् उभयोः अपि फलम् अमानवीयकरणे एव पर्यवस्यति । भगवतः सर्वश्रेष्ठकृतिरूपः मानवः स्वत्वनाशं प्राप्नुवन् अस्ति । अस्माभिः सः तदीये स्थाने प्रतिष्ठापनीयः अस्ति, तदीयः गरिमा अवगमनीयः अस्ति, तदीया शक्तिः जागरणीया, देवत्वप्राप्तये तस्मिन् पुरुषार्थशीलता कल्पनीया च । (पं दीनदयाल उपाध्याय कर्तृत्व एवं विचार, डा. महेशचन्द्र शर्मा, पृ. 132)
*धर्मराज्यस्य स्वरूपं ‘साम्प्रदायप्रधानराज्यात्’ सर्वथा भिन्नम् एव । धर्मसम्प्रदायौ न अभिन्नौ । आङ्ग्लभाषीयं ‘रिलिजन्’पदं ‘धर्म’शब्देन अनूदितम् इत्यतः अयं भ्रमः समुत्पन्नः अस्ति । धर्मः व्यापकः । उपासनासम्प्रदायादयः एकम् अङ्गम् अधिकृत्य चिन्तयन्ति । चतुर्षु पुरुषार्थेषु अन्यतमस्य व्यक्तिगतम् आधारम् अवलम्ब्य सम्प्रदायः चिन्तयति । अतः धर्मराज्यं ‘थियोक्रेटिक् स्टेट्’ इति पदेन निर्देष्टुं योग्यं न भवेत् । यत्र राजा एव धर्मगुरुः भवेत् तत्र ‘थियोक्रसी’ इत्यस्य जन्म सम्भवेत् । भारते राज्ञे एतत् पदं कदापि न प्रदत्तम् एव । (राष्ट्रचिन्तन, राष्ट्रधर्म पुस्तकप्रकाशन, पृ. 132)
*लोकमतपरिष्कारकार्यं तु वीतरागिणां द्वन्द्वातीतानां संन्यासिनाम् । लोकमतानुगुणं चलनं तु राज्यस्य कार्यम् । संन्यासिनः तु सर्वदा धर्मतत्त्वानुसारं जनानाम् ऐहिकम् आध्यात्मिकं च समुत्कर्षं कामयमानाः स्वस्य वचनैः निःस्पृहव्यवहारेण च जनजीवने संस्कारं समुत्पादयन्ति, जनान् धर्ममर्यादाम् अवगमयन्ति च । लोभः मोहः वा तेषु न भवति इत्यतः ते सहजतया सत्यम् उच्चारयितुम् अर्हन्ति । लोकशिक्षणस्य लोककल्याणस्य च ते एव केन्द्रभूताः ।
*भारतीयसंस्कृतेः प्रमुखं वैशिष्ट्यं नाम सा सम्पूर्ण-जीवनस्य, समग्रसृष्टेः च सङ्कलितविचारविमर्शं करोति । तदीया दृष्टिः एकात्मवादयुक्ता अस्ति । खण्डशः चिन्तनं विशेषज्ञानां दृष्ट्या समीचीनं स्यात्, किन्तु व्यावहारिकदृष्ट्या तत् प्रयोजनाय न भवेत् । (एकात्ममानवदर्शनम्, पृ. 18
*शिक्षणं यावती व्यापिका गभीरा व्यवस्था प्रवर्तेत तावत् समाजः अधिकपुष्टः गभीरः च स्यात् । प्राचीनज्ञाननिधिः यत् प्राप्येत तत् एव मूलधनत्वेन मत्त्वा नूतनपरम्परीयाः जनाः जीवनकार्यक्षेत्रे अग्रे सरेयुः । प्राप्तं मूलधनं निरन्तरं प्रवर्धेत इति तु सहजम् एव । अतः शिक्षणविषये व्यापिका वैविध्यपूर्णा योजना करणीया अस्ति ।
<DOC_END>
<DOC_START>
दुष्टाश्वयुक्तमिव वाहमेनं विद्वान् मनो धारयेत अप्रमत्तः । श्वेताश्वतरोपनिषत् २-९
दुष्टाश्वैः युक्तं वाहनमिव दुष्टं मनः विद्वान् साधकः अप्रमत्तः सन् धारयेत् ॥
मनो नाम अत्यन्तं श्रेष्ठं साधनम् । इदं मनः मृदु कठोरं च । इन्द्रियाणि इदं मनः आत्माभिमुखं
कर्तुम् इन्छन्ति सन्ति अश्वा इव वर्तन्ते । यद्यपि रथः उत्तमः तथापि रथबद्धाः अश्वाः अदान्ताः
दुष्टाश्चेत् तदा विपद् आपतत्येव । तस्मात् विवेकिना सारथिना प्रथमं तावत् अश्वाः सुशिक्षितव्याः ॥
एवमेव अश्वस्थानीयानि इन्द्रियाणि सात्त्विकानि भवेयुः । इन्द्रियाणि योग्यानि चेत् मनश्च सात्त्विकं
भवत्येव । तस्मात् साधकेन इन्द्रियाणि मनश्च सात्त्विकानि कर्तव्यानि । सात्त्विकान् विषयानेव इन्द्रियेभ्यः
दद्यात् साधकः । सत्सङ्गः, सदाचारः, सद्वर्तनम्, जपः, तपः, पूजा, भक्तिः, नामस्मरणम्, कथाश्रवणम्,
सत्सहवासः, उपासनं च इत्यादिसाधनैः साधकः इन्द्रियाणि दान्तानि कुर्यात् । विषयध्यानं विहाय
आत्मचिन्तनम् वर्धनीयम् । सर्वथा अतिजागरूकतया एतत् साधनं मुमुक्षुणा विवेकिना अनुष्ठातव्यम् ॥
<DOC_END>
<DOC_START>
==देवस्य पश्य काव्यं न ममार न जीर्यति ॥ अथर्ववेदः १०-८-३२
भगवतः सृष्टिं पश्य, न क्षीयते, न म्रीयते वा ।
: इयं समग्रा सृष्टिः भगवतः एव । उपशतवर्षाणि वयं जगत् पश्येम, अवगच्छेम । किन्तु अस्याः सृष्टेः कालः तु सहस्राधिककोटिवर्षाणि । अतः अयं सृष्टिः, सृष्टेः नियमाः अजराः अमराश्च । अग्रे प्रलयः भवेत् चेदपि अवशिष्टानि मूलवस्तूनि उपयुज्य भगवान् नूतनां सृष्टिं करिष्यति । 'सूर्या चन्द्रमसौ धाता यथापूर्वम् अकल्पयत्' । सर्वया अपि दृष्ट्या भगवान्, तदीया सृष्टिः, सृष्टिनियमाः सर्वेपि चिरन्तनः । इदं यदि अवगच्छेम तर्हि अस्माकं जीवनस्य संरचनावसरे, अपेक्षितस्य मार्गदर्शनस्य प्राप्तेः समये च भगवतः सृष्टेः नियमान् एव आश्रयामः । ते एव दृढाः, स्वीकरणयोग्याः च । एतेन एव जीवात्मा विविधेषु जन्मसु योग्यं मार्गम् आश्रित्य अग्रे सरन् जन्ममरणचक्रात् मुक्तः भवितुम् अर्हति । सा मुक्तिस्थितिः अपि शाश्वता अमरा च ।
<DOC_END>
<DOC_START>
न हि सुविज्ञेयम् अणुरेष धर्मः ॥ काठकोपनिषत् १-१-२१
देवतानामपि परब्रह्मस्वरूपनिर्णये संशयो विद्यते । यस्मात् प्रत्यक्षादिप्रमाणैः
परं तत्त्वं सम्यग् अवगन्तुं न शक्यते ॥
उपनिषत्सु प्रतिपादितो ह्यात्मा औपनिषदः पुरुषः । अस्यैव परं ब्रह्म इत्यपि नाम
भवति । अस्य आत्मनः नामरूपक्रियागुणधर्माः न विद्यन्ते । अतः इमम् आत्मानं
तर्केण वा शास्त्रपाण्डित्येन वा विज्ञातुं नैव शक्यते ॥
इन्द्रचन्द्र आदित्यादिदेवताभिश्च अयमात्मा अवगन्तुं न शक्यते । देवाः सर्वज्ञाः
सर्वशक्ताश्च, सिद्धिसम्पन्नाः अद्भुता एव । तावन्मात्रेणा देवैः परं ब्रह्म अधिगतमेव
इति नियमो नास्ति । महामहा देवाधिदेवाश्च विचारं कृत्वा, चर्चां कृत्वा, विमृश्यापि
परब्रह्मस्वरूपे अलब्धनिर्णयाः शान्ताः । किमु वक्ततव्वं सामान्या मानवाः स्वबुद्धिसामर्थ्येन
आत्मानं न जानीयुरिति अध्यारोपापवादसम्प्रदाय विद्भ्यः श्रोत्रियब्रह्मनिष्ठेभ्यः
सद्गुरुभ्य एव ब्रह्म अवगन्तव्यम्, न तु स्वबुद्ध्या ॥
<DOC_END>
<DOC_START>
देवो भूत्वा देवान् अप्येति य एवं विद्वान् एतदुपास्ते । बृहदारण्यकोपनिषत् ४-१-२
यः एवं देवतास्वरूपं विद्वान् देवतोपासनं करोति, सः तादृश देवतास्वरूप एव सन् मरणानन्तरं
‘देवो भूत्वा देवानप्येति’ इत्येषः मन्त्रः बृहदारण्यकोपनिषदि षड्वारम् श्रूयते । अयं मन्त्रः उपासनस्य
महत्त्वं दर्शयति । याम् देवताम् उपास्ते तस्याः देवतायाः साक्षात्कारम् अस्मिन्नेव जन्मनि प्राप्य,
मरणानन्तरं तस्याः देवतायाः सायुज्यमेव प्राप्नोति इत्यर्थः ॥
उपासनस्य द्वे फले भवतः । एकं दृष्टं फलम्, अपरम् अदृष्टं फलम् । देवतासाक्षात्कार एव दृष्टं फलम्,
देवतासायुज्यं तु अदृष्टं फलम् । जीवत एव उपासकस्य देवतानुग्रहेण सकलाः सम्पदः लभ्यन्ते,
देवतासाक्षात्कारश्च भवति । निग्रहानुग्रहशक्तिः, अष्टसिद्धयश्च प्राप्यन्ते । ततो मरणानन्तरं
तद्देवतासायुज्यप्राप्तिश्च भवति । न त्वेषा मुक्तिः । ज्ञायताम् । यतः उपासकस्यापि देवलोकात्
<DOC_END>
<DOC_START>
द्वया ह प्राजापत्याः देवाश्च असुराश्च । ततः कानीयसा एव देवाः, ज्यायसाः असुराः ॥ बृहदारण्यकोपनिषत् १-३-१
प्रजापतिपुत्राः देवाः असुराः इति द्विधा भवन्ति । तेषां देवाः न्यूनाः, असुराः अधिका भवन्ति ॥
प्रजापतिर्नाम प्रजानां पतिः । अयमेव ब्रह्मा, विराटपुरुषश्च । एष एव हि सर्वेषां प्राणिनां मूलभूतः प्रप्रथमः
पुरुषः । अस्य हि पुत्राः (प्रजापतेः अपत्यानि पुमांसः) प्राजापत्याः इति उच्यन्ते ॥
इमे प्राजापत्याः देवाः असुराः इति द्विधा विभज्यन्ते । शास्त्रात् लब्धविवेकज्ञानाः देवाः, दीव्यन्ति इति देवाः,
इन्द्रियाणि प्रकाशयन्ति इति देवाः धर्म –ज्ञान – ऐश्वर्यादिभिः विराजमानाः देवाः । असुरास्तु असुषु रमन्ते इति ।
इन्द्रियभोगनिरताः असुराः । दृष्ट फलभोगनिमग्नाः असुराः । ईदृशाः असुरा एव बहुसङ्ख्याकाः । देवास्तु अल्पीयांस
एव । मानवेषु अस्मास्वेव ईदृशाः देवाः असुराश्च विद्यन्ते । मनुष्येष्वेव राजसाः केचित् असुरस्वभावाः सात्त्विकाः
<DOC_END>
<DOC_START>
==द्विषतां पात्वंहसः ॥ ऋग्वेदः १०-१६४-४
: अस्माकं नाशकाः शत्रवः कुत्र सन्ति सामान्यतः बहिः अन्विष्यामः किन्तु अस्माकं शत्रवः अस्मासु एव विद्यन्ते अस्मदुपरि एतेषाम् आक्रमणं कदा कथं भवति इत्येव न ज्ञायते तेषु शत्रुषु इदं द्वयं विद्यते । अप्रीतिः एव द्वेषः । आत्मनः अधःपातनमेव पापम् एतद् द्वयमपि आत्मनः शक्तिं विनाशयन्ति । सकलजीवराशेः विषये हृत्पूर्विका प्रीतिः आत्मबलं वर्धयति । सुहृदां विषये प्रीतिः सहजा एव । अस्मान् शत्रवः इति ये भावयन्ति तेषां विषये प्रीतिः कष्टसाध्या इति भासते चेदपि तस्य साधनेन आत्मबलं वर्धते । धनस्य, अधिकारस्य, इन्द्रियभोगस्य च प्राप्तये कस्यचित् मार्गस्य अनुसरणं सुलभसाध्यम् । किन्तु एतेषां प्राप्त्यर्थं पारदर्शकस्य निष्कपटस्य च मार्गस्य अनुसरणं भवति कष्टसाध्यम् । किन्तु आत्मशक्तेः तन्नाम आनन्दस्य वर्धनं
<DOC_END>
<DOC_START>
द्वे वाव ब्रह्मणो रूपे मूर्तं चैव अमूर्तं च । बृहदारण्यकोपनिषत् २-३-१
कल्पिते द्वे रूपे ब्रह्मणः विद्येते, ते एव मूर्तम् अमूर्तं चेति ।
परब्रह्म नाम समस्तस्यापि जगतः मूलकारणं परिपूर्णतत्त्वम् । ब्रह्मणः कार्यमेव इदं विश्वं नाम ।
ब्रह्मणः रूपमेव अयं प्रपञ्चः । ब्रह्मणः विकार एव इदं ब्रह्माण्डम् । अयं प्रपञ्चः मूर्तम् अमूर्तमिति
द्वेधा विभज्यते । मूर्तं नाम इन्द्रियैः ग्राह्याणि शब्दस्पर्शरूपरसगन्धात्मकानि वस्तूनि । अमूर्तं नाम
प्रमाणैः अगृह्यमाणं नामरूपरहितम् अव्याकृतं तत्त्वम् ॥
इमे मूर्तामूर्ते, क्षराक्षरे, व्यक्ताव्यक्ते, कार्यकारणे, स्थूलसूक्ष्मे, मर्त्यामृते, व्याकृताव्याकृते च इत्यादिशब्दैः
कथ्येते । निरूपाधिकस्य ब्रह्मणः एते द्वे अपि अविद्याकृते सोपाधिके रूपे भवतः । व्याकृताव्याकृते द्वे अपि
परस्य ब्रह्मणः रूपे एव । परमार्थतस्तु परस्मात् ब्रह्मणः भिन्नतया व्याकृतं वा अव्याकृतं वा नैव विद्यते । परं च
ब्रह्म स्वरूपतः न व्याकृतं न च अव्याकृतम् । उभयातीतमेव परं ब्रह्म ॥
<DOC_END>
<DOC_START>
द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति परा चैवापरा च । मुण्डकोपनिषत् १-१-४
परा विद्या अपरा विद्या इति वेदितव्ये द्वे विद्ये भवतः इति ब्रह्मविदो वदन्ति ।
ब्रह्मविद्याचार्येण अङ्गिरसा स्वशिष्याय शौनकाय उपदिष्टोऽयं सन्देशः । अत्र सन्देशे वेदान्तस्य महत्त्वम्,
व्यापकता, विशिष्टता च सूच्यन्ते । अस्मिन् विशाले प्रपञ्चे शताधिकाः सहस्राधिकाः विद्याः सन्ति ।
यथा वेदविद्या, वेदान्तविद्या, तर्कः, व्याकरणम्, मीमांसा, ज्योतिषम्, अस्त्रम्, शस्त्रम्, वैद्यम्, हस्तसामुद्रिकम्,
नक्षत्रविद्याद्याः; अथ आधुनिकतान्त्रिकविद्याः, आभिः सह ब्रह्मविद्या, आत्मविद्या च । सर्वा अपि एताः
विद्याः अत्र द्वेधा विभज्यन्ते । अनयोः द्वयोरेव विद्ययोः सर्वा अपि विद्याः अन्तर्भवन्ति ॥
के ते द्वे विद्ये इति चेत् । परा विद्या अपरा विद्या च । न परा अपरा, अश्रेष्ठा । अपरा नाम अवरा इत्यर्थः ।
अविद्यां नाशयितुम् असमर्था हि अपरा विद्या । परा विद्या तु श्रेष्ठा उत्तमा विद्या इत्यर्थः । परब्रह्मविद्या एव
परा विद्या । मुक्त्यै साधनभूता विद्या एव परा विद्या । ब्रह्मविद्या एका एव परा विद्या भवेत् ॥
<DOC_END>
<DOC_START>
==द्वौ सन्निषद्य यन्मन्त्रयेते राजा तद्वेद वरुणस्तृतीयः ॥ ऋग्वेदः ४-१६-२
उभौ रहस्येन यत् चिन्तयेतां तत् तृतीयेन प्रकाशेन वरुणेन ज्ञायते एव ।
: अस्माकं सर्वेषाम् अन्तरङ्गे अपि बहूनि रहस्यानि अन्तर्निहितानि भवन्ति । सामान्यतः तानि दुष्टानि भवन्ति । अतः एव तानि रहस्यानि शुद्धाः भावाः कुतः गोपनीयाः भवेयुः विविधैः कारणैः कमपि तानि न वदाम । रहस्योद्घाटनेन आत्मनः व्यक्तित्वस्य मौल्यं न्यूनं भवेत्, सम्बन्धाः नष्टाः भवेयुः, दण्डः अपि प्राप्येत कदाचित् समानदोषयुक्ताः परस्परं वार्तालापेन समाधानं प्राप्नुयुः । तृतीयेन न ज्ञातम् इति निरातङ्काः भवामः । किन्तु अस्माभिः सर्वैः अपि सः सर्वव्यापी परमात्मा विस्मर्यते सा अनन्तशक्तिः देवालये क्रैस्तालये यवनालये वा बद्धा अस्ति इति धैर्यं वहामः वस्तुतः सा शक्तिः बद्धा न भविष्यति । अस्माकम् अन्तरङ्गे अपि विद्यते इत्यतः रहस्यं न किञ्चित् भवति । अस्माभिः जागरूकैः भवितव्यम् । कर्मणः फलम् अस्माभिः एव भोक्तव्यं खलु !
<DOC_END>
<DOC_START>
==धियो यो नः प्रचोदयात् ॥ यजुर्वेदः ३-३५
अस्माकं प्रज्ञाकर्माणि तस्मात् विश्वचेतनात् प्रेरितानि भवन्तु ।
: अद्यत्वे अस्माकं मार्गदर्शकस्थाने के विराजन्ते केषां वचनव्यवहारादयः अस्मान् प्रेरयन्ति चारित्र्यहीनाः अभिनेतारः, नीतिहीनाः नेतारः । केनचित् मार्गेण कथञ्चित् अचिरात् सम्पत्तिं प्रसिद्धिञ्च सम्पादितवन्तः एते । एतानि बाह्यानि । अन्तः विद्यन्ते काम-क्रोध-लोभ-मोह-मद-मात्सर्याः । एतैः प्रभावैः युक्तानि अस्माकं प्रज्ञाकर्माणि किं शान्ति-आरोग्यादीनि आनयेयुः
:दयामयः विश्वचेतनः अस्माकं निमित्तं न केवलम् अस्य जगतः रचनाम् अकरोत्, अपि च अत्र कथं जीवनीयम् इत्येतस्मिन् विषये मार्गदर्शनमपि कृतवान् अस्ति । तेन दर्शितेन सन्मार्गेण यदि चलेम तर्हि पापचिन्तनानि एव समीपं न आगच्छेयुः । एवं चेत् दुष्टवचनानां दुष्टकार्याणाञ्च प्रसक्तिः कुत्र सत्प्रेरणेभ्यः स्वागतं क्रियेत चेदेव आत्मशुद्धिः । शुद्धात्मनः एव शान्तिः, आरोग्यं, जनन-मरणाभ्यां
<DOC_END>
<DOC_START>
एते दश धर्मस्य लक्षणम् ।
<DOC_END>
<DOC_START>
==धेहि तनूषु नः ॥ ऋग्वेदः ३-५३-१८
अस्माकं शरीरेषु बलं धारयतु ।
: शरीरं नश्वरम् इत्येतत् तु सत्यमेव । किन्तु तस्मिन् निर्लक्ष्यं न युक्तम् । शरीरमेव सर्वम् इति भावयद्भिः तस्य पोषणे एव मग्नाः सन्तः तस्य सौन्दर्यवर्धने एव मनः इत्येतदपि न युक्तम् । एतयोः मध्ये विद्यते अस्य मन्त्रस्य तात्पर्यम्
: इदं शरीरं भिन्नम् । अस्मिन् आश्रयभूतः जीवात्मा भिन्नः । पञ्चभूतेन निर्मितम् इदं शरीरं कस्मिंश्चित् दिने पञ्चभूते एव लीनं भविष्यति इत्यतः इदं न भवेत् अस्माकं परमं लक्ष्यम् । शाश्वतरूपः जीवात्मा एव अस्माकं परमं लक्ष्यम् । तस्य बलस्य, शक्तेः, पावित्र्यस्य च वर्धनमेव जीवनस्य उद्देशः, अर्थश्च । तन्निमित्तं सद्विचाराः ज्ञातव्याः, सदाचाराः पालनीयाश्च ।
: विषयाणाम् अवगमनाय, जीवने आचरणे अन्वयनाय च इन्द्रियैः युक्तम् इदं शरीरम् अवश्यमेव इदं शरीरं यावत् बलयुतं, यावत् दीर्घायुयुतं स्यात् तावन् लाभः भवति आत्मनः । अतः एव इयं प्रार्थना । 'देहि' इति चेत् दीयताम् इत्येतावदेव भवति अर्थः । प्राप्तं रक्षितुं शक्येत कदाचित् न शक्येत अपि । किन्तु धेहि' इति यदि कथयेम तर्हि तस्य सदुपयोगप्राप्त्यै या शक्तिः सामर्थ्यञ्च अपेक्षितं तदपि देहि इत्यर्थः !
<DOC_END>
<DOC_START>
ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् । कैवल्योपनिषत् १-७
भूतकारणं विश्वसाक्षिणम् आत्मानं ध्यात्वा, विजानन् मुनिः, अविद्यातमसः परस्तात् मोक्षम् आप्नोति ॥
आत्मानं ध्यात्वा मुक्तिर्लभ्यते इति उपदिशति अयं मन्त्रः । अत्र ध्यानं नाम ज्ञानमेव । आत्मनः
निजस्वरूपानुसन्धानमेव अत्र ध्यानशब्दार्थः । चित्तशुद्धिं लब्ध्वा साधकः सद्गुरूणां मार्गदर्शनानुसारेण
कोऽसावात्मा न हि आत्मा नाम स्वस्मात् भिन्नः कश्चित् देवताविशेषः । न च एकः पुरुषः । किं तु
आत्मा नाम भूतयोनिः । भूतानां योनिभूतं परमात्मानमेव अत्र साधकः चिन्तयेत् । अयमेव आत्मा
समस्तस्यापि विश्वस्य साक्षिभूतः । स्वस्मिन्नेव स्थित्वा यः सकलानपि व्यापारान् निर्विकारतया अवभासयति,
स एव अहमिति यदा ज्ञायते तदेव ध्यानम् । तस्य फलमेव मुक्तिः । अयमात्मा तमसः परस्तात् । अविद्यातमः
आत्मनि नास्ति । आत्मा चिन्मात्रस्वरूपः अहम् इति विजानीयात् । ध्यानफलमेतत् ॥
<DOC_END>
<DOC_START>
न कर्मणा न प्रजया धनेन, त्यागेनैके अमृतत्वम् आनशुः। कैवल्योपनिषत् १-२
कर्मणा वा प्रजया वा धनेन वा अमृतत्वं न प्राप्यते । किं तु एके ज्ञानिनः त्यागेन अमृतत्वं
अमृतत्वाय त्याग एव एकं साधनम् इति धैर्येण प्रतिपादयति अयं मन्त्रः । वैदिकसम्प्रदाये अयं
मन्त्रः यतिवन्दनमन्त्रः इति सुप्रसिद्धः जनप्रियश्च ॥
जपपूजापारायणहोमदानध्यानादीनि कर्माणि । एतेभ्यः इष्टफलानि लभ्यन्ते । कर्मभ्यः इष्टफलानि
लभ्यन्ते । कर्मभ्यः अभ्युदयफलानि केवलानि लभ्यन्ते न तु मुक्तिः । सत्पुत्रेभ्यश्च गृहस्थानाम्
अमृतत्वं न लभ्यते । अथ, धनम् धनेन हि अद्यतनकाले सर्वं सम्पाद्येत । धनेन असाध्यमिति
न किञ्चिदस्ति । अपि तु स्वतस्सिद्धः स्वाभाविको मोक्षः धनेनापि न लभ्यः ॥
तर्हि मोक्षस्य किं वा साधनम् इति चेत् । त्यागः, त्यागो नाम अध्यासस्य त्यागः । अहङ्कारममकारयोरेव
त्यागः । अविद्याहानिरेव त्यागः । आत्मज्ञानमेव नूनं त्यागः । त्यागेनैव मुक्तिः ॥
<DOC_END>
<DOC_START>
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैः तपसा कर्मणा वा । मुण्डकोपनिषत् ३-१-८
चक्षुषा वा वागिन्द्रियेण वा इतरैः इन्द्रियैर्वा तपसा वा कर्मणा वा प्रत्यगात्मानं द्रष्टुं न शक्यते ।
अनेन चर्मचक्षुषा परब्रह्मतत्त्वं द्रष्टुं न शक्यते । चक्षुषः चक्षुर्भूतम् आत्मानं चक्षुषा द्रष्टुं शक्यते वा
नैव । रूपयुक्तान् पदार्थानेव चक्षुरिन्द्रियं पश्येत् । अरूपोऽयमात्मा । अतः नेत्राणि आत्मानं न पश्येयुः ।
तर्हि वागिन्द्रियेण आत्मानं ज्ञातुं शक्यते किम् न शक्यते । यतः आत्मा निर्गुणः निर्धर्मकः ॥
भवतु, इतरैः इन्द्रियैः आत्मा ज्ञायते वा तदपि न शक्यते । सर्वथा अविषयभूतम् आत्मानं न केनापि
इन्द्रियेण ज्ञातुं शक्यते । भवतु, उपवास व्रतानुष्ठान् जपमौनादिना तपसा ज्ञातुं शक्यते वा नैव शक्यते ।
अस्तु, अग्निहोत्रादिना श्रौतेन कर्मणा आत्मानं विज्ञातुं शक्यते वा तेनापि न शक्यते । तर्हि, कथमात्मा
ज्ञातुं शक्यते इति चेत् । उच्यते । स्वतः सिद्धम् अस्माकं प्रत्यगात्मानं वेदान्तार्थविचारजनितया
ब्रह्मविद्यया एव केवलया जानीयात्, उपायान्तरेणा नैव शक्यते ॥
<DOC_END>
<DOC_START>
न जायते म्रियते वा विपश्चित् । काठकोपनिषत् १-२-१८
आत्मा न जायते, न च म्रियते ।
उपनिषत्सु उपदिष्टस्य आत्मनः स्वरूपं सम्यग् ज्ञातव्यम् ।
देहेन्द्रियमन आदिभ्यः उपाधिभ्यः विलक्षणम् आत्मानम्
उपदिशन्ति वेदान्ताः । अयमेव प्रत्यगात्मा इति कथ्यते ।
वेदान्तान् विहाय इतराणि सर्वाण्यपि दर्शनानि तथा मतानि
आत्मानं संसारिणं जीवमेव वदन्ति । देहादीनां धर्मान् आत्मन्येव
वयम् अविद्यया आरोपयामः । देहे जाते अहमेव जातः इति,
आत्मनः नैजं स्वरूपम् । सा एषा अविद्या ॥
अस्तु । तर्हि, वेदान्तेषु आत्मनः स्वरूपं किम् आत्मा न
शरीरम्, अतः आत्मनः न जन्ममरणे भवतः । नात्मा प्राणः,
अतः नात्मनः अशनायापिपासे । नात्मा चित्तम्, अतः नात्मनः
शोकमोहौ स्तः । नात्मा अहङ्कारः, अतः तस्य बन्धमोक्षौ न
स्तः । आत्मा नित्यशुद्ध नित्यबुद्ध नित्यमुक्त स्वरूपः । आत्मा
अजः, अजरः, अमरः, अमृतः । आत्मा सच्चिदानन्दस्वरूपः ।
आत्मा अकर्तृ अभोक्तृस्वरूपः । इदमेव आत्मनः निजस्वरूपम् ॥
<DOC_END>
<DOC_START>
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । केनोपनिषत् १-३
तत्र परस्मिन् ब्रह्मणि चक्षुर्वा वाग्वा मनो वा न गच्छति ।
‘चक्षुषा दृष्टं सत्यम्, श्रोत्रेण श्रुतं तु मिथ्या’ इति हि सामान्यतः प्रसिद्धम् । एषा सूक्तिः लोके प्रसिद्धानां
सर्वेषां साकारपदार्थानां विषये सफला एव । विद्यमानाः पदार्थाः सूक्ष्मा अपि, स्थूलैरिन्द्रियैः अगृह्यमाणा
अपि सूक्ष्मदर्शकपारदर्शकदूरदर्शकादिसाधनैः अवश्यमेव विषयीक्रियन्ते । सहस्राधिकप्रकाशसंवत्सरैः
(Thousands of Light years) अन्तरितानि तारकाणि दूरस्थानि अपि चक्षुषा एव खलु गृह्यन्ते, चक्षुरेव
सत्यमेवेदम्, अपि तु प्रत्यगात्मा नैवं चक्षुषा दृश्यते, न केनापि प्रमाणेन आत्मा विषयीक्रियेत । कस्मात्
रूपादिरहितत्वात् । रूपादियुक्तान् खलु पदार्थान् नेत्रादीनि प्रमाणानि दर्शयेयुः, न हि रूपरहितं पदार्थं नेत्रं
प्रकाशयेत् । स्वस्वविषयानेव हि तानि तानि इन्द्रियाणि प्रकाशयेयुः । शब्दस्पर्शरूपरसगन्धरहितमात्मानं तु न
कथञ्चिदपि प्रमाणानि गृह्युः । अनुभवमात्रैकप्रमाणगोचरोऽयमात्मा ॥
<DOC_END>
<DOC_START>
न तत्र रथाः न रथयोगाः न पन्थानो भवन्ति, अथ रथान् रथयोगान्
पथः सृजते । बृहदारण्यकोपनिषत् ४-३-१०
तत्र रथाः, अश्वाः, पन्थानो वा न विद्यन्ते । तथापि आत्मा स्वयमेव रथान्, अश्वान्,
स्वप्ने आत्मा स्वयंज्योतिः स्वरूपः । जागरिते आत्मनः सहायकत्वेन शरीरेन्द्रियमनोबुद्धिप्राणाः
शब्दस्पर्शादिविषयाश्च विद्यन्ते । जाग्रदवस्थायां प्रमातृप्रमाणप्रमेयाः क्रियाकारकफलानि सर्वाणि
विद्यन्ते । जागरिते रथाः, अश्वाः, मार्गाः, सारथिः, गन्तव्यं स्थानं च इति सर्वं विद्यते ॥
स्वप्ने तु न किञ्चिदेतत् विद्यते । स्वप्नावस्थायाम् अश्वाः न विद्यन्ते, रथाः न सन्ति, पन्थानश्च
न विद्यन्ते, सारथिश्च न विद्यते । तथापि तत्र स्वप्ने आत्मा सर्वमपि स्वयमेव एकः सन् सृजति ।
स्वप्नेऽपि वयं भोजनादिकं कुर्मः होमहवनादिकं च कुर्मः । देशात् देशान्तरं च गच्छामः । यद्यपि तत्र
न कानिचन वस्तूनि विद्यन्ते, तथापि तानि सर्वाणि आत्मैव सृजति, आत्मा स्वयमेव सर्वं भवति ।
अनेन आत्मनः सर्वशक्तित्वं स्वयंप्रकाशत्वं च ज्ञायते ॥
<DOC_END>
<DOC_START>
न तस्य कश्चित् पतिरस्ति लोके, न चेशिता, नैव च तस्य लिङ्गम् । श्वेताश्वतरोपनिषत् ६-९
तस्य परमात्मनः अन्यः पतिः नास्ति, स एव सर्वस्यापि पतिः, स एव ईशः, स एव सर्वस्यापि प्रभुः ।
तस्मात् अन्यः ईशिता नास्ति, यस्य वशे परमात्मा वर्तेत । परमार्थतः अस्य विश्वस्य स एव एकः प्रभुः ।
नैवम्, किन्तु स एव एकः परमार्थः ॥
इन्द्रचन्द्रादयो देवाधिदेवाः अपि अस्य आत्मनः अधीनभूता एव जीवन्ति । आत्मा तु न कस्यापि देवस्य
अधीनभूतः । न चास्य आत्मनः बाह्यानि लक्षणानि विद्यन्ते । आत्मनः पाणिपादाः, इन्द्रियमनांसि, पत्नीपुत्राः
शस्त्रास्त्राणि, वाहनानि च न विद्यन्ते । अयमेव आत्मा अस्माकं निजस्वरूपम् । अयमेव हि परमात्मा नाम ।
वेदान्तेषु प्रतिपादितश्च अयमेव । ब्रह्मविष्णुमहेशाः त्रिमूर्तयः सोपाधिकाः देवाः । एतेषामपि प्रभुः परमात्मा एव
वेदान्तेषु प्रतिपादितं परं ब्रह्म । एतस्यैव हि ज्ञानेन मुक्तिः लभ्यते ॥
<DOC_END>
<DOC_START>
==न तस्य प्रतिमा अस्ति ॥ (यजु ३२-३
:'प्रति समानम् 'मा' मानम् एव प्रतिमा । भगवतः प्रतिमा न विद्यते इति वेदः घोषयति । कारणं सरलं विद्यते । भगवतः लक्षण-गुण-स्वभावादयः अनन्ताः । जगति तादृशम् अस्तित्वं न अन्यस्य कस्यापि । प्रतिमाः येन केनाऽपि निर्मीयेत चेदपि ते जडस्वरूपाः एव । अचेतनं किञ्चित् कथं परमचेतनत्वं प्राप्नुयात् प्राणप्रतिष्ठायाः द्वारा परमात्मानम् आनयामः इत्येतत् दार्ष्ट्यद्योतकम् । जीवात्मसु केचन देवाः अवताररूपाः इति निर्देष्टुं न शक्यते यतः ते सचेतनाः चेदपि न सर्वज्ञाः । महात्मानः सर्वे अपि कदाचित् जाताः, अग्रे मरिष्यन्ति, मृताः वा । किन्तु सः भगवान् अस्ति सर्वज्ञः, अमरः, निराकारश्च ।
<DOC_END>
<DOC_START>
न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति । बृहदारण्यकोपनिषत् ४-४-६
तस्य ब्रह्मज्ञानिनः प्राणाः न उत्क्रामन्ति, यतः अयम् इदानीं ब्रह्मैव सन् ब्रह्म अप्येति ।
अज्ञानिनां कामिनाम् उत्क्रान्तिः गतिः आगतिश्च सम्भवत्येव । कामरहितस्य आत्मज्ञानिनस्तु गतिः
अज्ञः पुनः पुनः जायते म्रियते च । अज्ञो हि जन्ममरणचक्रे बद्धः सुखदुःखफलानि अनुभवति ॥
ब्रह्मज्ञानिनस्तु कामाभावात् कर्माभावः । आप्तकामस्य आत्मकामस्य अकामस्य ब्रह्मविदः लोकान्तरजन्मान्तरगमनाभावात्
तस्य इन्द्रियाणि न उत्क्रामन्ति । निर्विशेषः अद्वैतः परिपूर्णश्च आत्मा अहमस्मि इति अनुभवेन ज्ञातवतः ज्ञानिनः कुतः किं
विहाय कुत्र वा गमनं भवेत् अत्रैव इदानीमेव ज्ञानी ब्रह्मस्वरूप एव सन् परस्मिन् ब्रह्मण्येव एकीभवति । जीवन्मुक्तो हि ज्ञानी
नाम अस्य ब्रह्मविदः गतिर्नास्ति ॥
<DOC_END>
<DOC_START>
राज्यं न प्रार्थये, स्वर्गं न प्रार्थये । मोक्षमपि न प्रार्थये । किन्तु दुःखतप्तानां जीविनां दुःखनाशमात्रम् इच्छामि ।
<DOC_END>
<DOC_START>
न दृष्टेर्द्रष्टारं पश्येः, न श्रुतेः श्रोतारं शृणुयाः, न मतेर्मन्तारं मन्वीथः
न विज्ञातेः विज्ञातारं विजानीयाः । बृहदारण्यकोपनिषत् ३-४-२
दृष्टेः द्र्ष्टारं न त्वं पश्येः, श्रुतेः श्रोतारं त्वं न शृणुयाः, मतेः मन्तारं
त्वं न मन्वीथाः, विज्ञातेर्विज्ञातारं त्वं न विजानीयाः ।
उषस्तचाक्रायणप्रश्नस्य प्रतिवचनत्वेन याज्ञवल्क्येन उक्तमेतद् वचः ।
आत्मानं लक्षयित्वा ‘अयमात्मा’ इति विशेषेण ब्रूहि इति चाक्रायणेन
पृष्टः भगवान् याज्ञवल्क्यः एवम् उवाच, न हि आत्मा नाम धेनुवत्
अश्ववत् कश्चित् सविशेषः पदार्थः, येन आत्मानम् अधिकृत्य एवम्
एवम् आत्मा इति वक्तुम् आत्मा शक्येत । अपि तु न आत्मा
कथं तर्हि आत्मा अस्ति सर्वेन्द्रियाणि संव्याप्य इन्द्रियाणामपि
इन्द्रियभूतः । ईदृशमात्मानम् इन्द्रियैः विज्ञातुं नैव शक्यते । नेत्रैः
रूपाणि द्र्ष्टुं शक्यन्ते, न तु नेत्रद्र्ष्टारमात्मानं नेत्रैः द्र्ष्टुं शक्यते ।
श्रोत्राणामात्मभूतम् आत्मानम् श्रोत्रैः श्रोतुं न शक्यते । मनसोऽपि
साक्षिभूतम् आत्मानं मनसा मन्तुं न शक्यते ॥
<DOC_END>
<DOC_START>
किन्तु महान्तं शब्दं करोति । कः सः ?
<DOC_END>
<DOC_START>
==न पापत्वाय रासीय ॥ ऋग्वेदः ७-३२-१८
मया कृतानि दानानि पापाय उपयुक्तानि न भवेयुः ।
: दानगुणः उत्तमः एव । किन्तु केचन नियमाः भवन्ति । पूर्वं प्राप्तस्य उपकारस्य प्रत्युपकाररूपेण, अग्रे प्राप्यमाणं लाभं मनसि निधाय वा यदि दीयते तर्ही तत् दानमिति न उच्यते । पूर्वापरसम्बन्धं विना यत् दीयेत तत् भवेत् दानम् । कस्मै दीयते इत्येतदपि बहु प्रमुखम् । दानमात्रम् अस्माकं कार्यं, तस्य उपयोगः कथं क्रियते इत्येतत् अस्माकं सम्बद्धं न इति व्यवहारः उत्तरदायित्वात् पलायनं भवेत् । कोपि कष्टपरिस्थितौ सन्ति इति दत्तं साहायधनं सः द्यूताय, सुरापानाय, दुरभ्यासाय वा यदि उपयुज्येत तर्हि तस्य जनस्य आरोग्यनाशने अस्माकं सम्मतिः, प्रोत्साहनञ्च दत्तं भवेत् खलु समाजे मौढ्यस्य, अर्थहीनसम्प्रदायस्य, द्वेषासूयानां वर्धनं याः संस्थाः कुर्युः ताभ्यः दानमपि अहितकरपरिणामं जनयन्ति । एतानि अपात्रदानानि । अस्माकं दानं सत्कार्याय यदा उपयुज्येत तदा तत् सत्पात्रदानं भवति । इयं जागरा प्रत्येकस्मिन् अपि जने भवेदेव ।
<DOC_END>
<DOC_START>
==न रिष्यते त्वावतः सखा ॥ ऋग्वेदः १-९१-८
भवतः स्नेहपात्राः केऽपि न विनश्यन्ति ।
: भवतः भगवतः । एकाकी भवति चेत् यावान् आतङ्कः स्यात् सः महता प्रमाणेन न्यूनं भवति यदि भवेत् अन्यस्य सहवासः । यदि सः अन्यः भगवान् स्यात् किन्तु भगवतः स्नेहस्तु भगवद्भक्तमात्रेण लभ्यते । भक्तिः नाम कायस्योपरि ध्रियमाणाः सङ्केतादयः, श्मश्रुजटादयाः, तालभजनादयो वा न । दया-नायकत्व-ज्ञान-न्यायादीन् भगवतः स्वभावान् आत्मसात् यदि कुर्याम तर्हि वयं भवेम भक्ताः । अन्यान् आत्मभावेन दर्शनमेव दया । इन्द्रियनिग्रहः एव नायकत्वम् । सत्यान्वेषणद्वारा अवगमनवर्धनं ज्ञानम् । स्वस्य योग्यतानुसारं मानवीयः व्यवहारः न्यायम् । एतादृशाः भक्ताः अन्तरङ्गे दृढाः भवन्ति, अचलाः भवन्ति । धैर्यवन्तः भवन्ति । इदमेव अमृतत्त्वम् । तेषां विनाशः कदापि न भविष्यति । भौतिकजगतः न्यूनाधिक्यं, लाभालाभाः एतान् न स्पृशन्ति ।
<DOC_END>
<DOC_START>
न वित्तेन तर्पणीयो मनुष्यः । काठकोपनिषत् १-१-२७
वित्तेन, धनेन मनुष्यं तर्पयितुं नैव शक्यते ।
मनुष्याय अधिकेनापि धनेन, अधिकारेण, यशसा, आरोग्येण, अधिकेनापि आयुरादिना
नालंभवेत् । तत् मे, इदं मे स्यात्, सर्वमपि मे भवेत् इति । केचित् अधिकारिणः कोटिशः
धनं सम्पादयन्ति । भार्यायै, पुत्रेभ्यः, जामातृभ्यः, पौत्रेभ्यः, श्यालेभ्यः, नप्त्रेभ्यः, प्रप्रपौत्रेभ्यः
इति अधिकं धनं सम्पाद्य राशीकुर्वन्ति । भवतु, किं तावता धनसम्पादनेन तेषां तृप्तिर्जाता नैव ॥
यतो हि धनस्य स्वभाव एव एषः । अस्मिन् प्रपञ्चे एतावत् पर्यन्तं न कस्मैचिदपि धनेन तृप्तिर्नाम जाता
अस्ति । दशरूप्यकेषु प्राप्तेषु शतं रूप्यकाणि स्युः, शतेषु रूप्यकेषु लब्धेषु सहस्रं रूप्यकाणि भवेयुः,
सहस्रेषु रूप्यकेषु प्राप्तेषु दशसहस्रं रूप्यकाणि भवेयुः, तेषु प्राप्तेषु सत्सु ततोऽधिकं ततोऽप्यधिकं,
ततः शतगुणं, सहस्रगुणम् इत्यादि । एवं धनाशा वर्धमाना एव वर्तते । घृतेन हुतेन अग्निः वर्धते खलु
एवमेव धनाशा अपि । सर्वथा धनेन न कस्मैचित् तृप्तिः दृष्टा । धनस्य दौर्भाग्यमेतत् । दुस्थितिरेषा ॥
<DOC_END>
<DOC_START>
न स तत् पदमाप्नोति संसारं चाधिगच्छति । काठकोपनिषत् १-३-७
मानवाय विवेकयुक्ता बुद्धिः, शुद्धं मनः, अत्यन्तोपयोगीनि इन्द्रियाणि, समर्थं शरीरं च
भगवता दत्तानि सन्ति । एतानि सर्वाण्यपि विवेकेन साधुमार्गेण उपयुज्यन्ते चेत् तदा
साधकः मुक्तिं लब्ध्वा कृतार्थो भवेत्, अन्यथा यथेच्छम् उपयुज्यन्ते चेत्, तदा तस्य
किं तत् इति चेत्, मुक्तेः अप्राप्तिः प्रथमा हानिः, संसारस्य प्राप्तिः द्वितीया हानिः ।
शरीरमेव हि मानवस्य दिव्यो रथः, शरीरं हि श्रेष्ठो रथः, इन्द्रियाण्येव उत्तमाः अश्वाः,
मनः प्रग्रहम्, बुद्धिश्च विवेकी सारथिः, शब्दादयो विषयाः मार्गाः । एतानि सर्वाण्यपि
मानवः साधुक्रमेण न उपयुङ्क्ते चेत् तदा तस्य आत्मज्ञानं वा मुक्तिर्वा न प्राप्यते इत्येव
न, किं तु सः पुनः पुनः संसारमेव प्राप्नोति । एवम् अज्ञस्य नष्टद्वयं भवति ॥
<DOC_END>
<DOC_START>
न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । काठकोपनिषत् २-३-९
नास्य आत्मनः रूपं सन्दर्शनयोग्यम्, अत एव न कश्चिदपि इमम् आत्मानं नेत्राभ्यां पश्येत् ।
अग्निः, आदित्यः, इन्द्रः, सोमः, रामः, कृष्णः सरस्वती, लक्ष्मीः, गायत्री – इत्याद्याः देवताः उपासन्ते,
उपासकाः पश्यन्ति च । ताभिः देवताभिः सह ते सम्भाषन्ते च । नैतत् सर्वथा असाध्यम्, यतः एतेषां
देवानां भिन्नाः नामरूपगुणकर्मशक्तयो भवन्ति ॥
परब्रह्म तु नैवम् । नामरूपातीतं खलु परं ब्रह्म । न नेत्रगोचरं, न च श्रोतृविषयं ब्रह्म । परमात्मा हि इन्द्रियाणाम्
अविषयः । नेत्रस्य नेत्रभूतम् आत्मानं नेत्रैः द्रष्टुं शक्यते किम् नैव ॥
‘अहं ब्रह्म दृष्टवानस्मि, तुभ्यमपि दर्शयामि’ इति यः कश्चित् वदति चेत् नैतत् साधु वचः । यद् दृष्टं न तद्
ब्रह्म, यद् दर्श्यते तच्च न ब्रह्म, सर्वसाक्षिभूतं चिन्मात्रस्वरूपमेव ब्रह्म, तदेव अहमिति जानीयात् एतदेव हि
वेदान्तेषु 'आत्मा ज्ञातव्यः, आत्मा द्र्ष्टव्यः' इति उपदिश्यते ॥
<DOC_END>
<DOC_START>
==न स्तेयमद्मि ॥ (अथर्व १४-१-५७
चौर्येण भोगं न अनुभवामि ।
:अयं मन्त्रः वैदिकविवाहसंस्कारे वधूम् उद्दिश्य वरेण प्रतिज्ञाकरणावसरे उच्यते । अर्थम् अवगत्य वरः यदि इमं मन्त्रं वदेत् तर्हि अग्रिमे दाम्पत्यजीवने व्यभिचारादीनि कुकृत्यानि न सम्भवन्ति । व्यक्तिदृष्ट्या समाजदृष्ट्या च स्वास्थ्यकरम् एकपत्नीव्रतं पालयितुं सत्प्रेरणां यच्छति अयं मन्त्रः । एतेन पतिपत्न्योः सम्बन्धः दृढः भवति । एतस्यां पृष्ठभूमिकायां जायमाना सन्ततिः श्रेष्ठा भवति । स्वस्थकुटुम्बाः एव स्वस्थसमाजस्य आधारभूताः ।
<DOC_END>
<DOC_START>
न हि प्रज्ञापेतं शरीरं सुखं दुःखं किञ्चन प्रज्ञापयेत् । कौषीतकिब्राह्मणोपनिषत् ३-७
प्रज्ञारहितं चेत् शरीरं सुखं दुःखं वा किञ्चन न विजानीयात् ॥
अस्मिन् शरीरे अनेके व्यापाराः सततं भवन्ति । अल्पम् अन्नं, किञ्चित् जलं च दत्तं चेत्, एतद् शरीरं
स्वयमेव सकलानि कर्माणि करोति । अस्मिन् शरीरे नेत्रे पश्यतः, श्रोत्रे शृणुतः, मनसि सुखदुःखानुभवो
भवति । इदं कथं साध्यम् शरीरादीनि सर्वाण्यपि जडानि खलु इति चेत्, अयं मन्त्रः प्रतिवचनं ददाति ॥
सर्वेऽप्येते व्यापाराः प्रज्ञानिमित्ताः । प्रज्ञा नाम चिन्मात्रस्वरूपः आत्मैव । अचेतनस्यापि मनसः
सुखदुःखानुभवशक्तिः प्रज्ञानिमित्तैव । प्रज्ञासम्बन्धः विच्छिन्नश्चेत् इदं शरीरं शव एव भवति ।
प्रज्ञा एव देहे शक्तिः । प्रज्ञा नाम शुद्धा निरुपाधिका चैतन्यशक्तिः । आत्मन एव प्रज्ञा इति
नामान्तरम् । सूर्यस्य प्रकाशवत् आत्मनः स्वरूपभूतया प्रज्ञया सर्वे व्यापाराः, सर्वाणि कार्याणि
च भवन्ति । प्रज्ञा एव ब्रह्म । परमेव ब्रह्म प्रज्ञारूपेण अवभासते ॥
<DOC_END>
<DOC_START>
न हि विज्ञातुर्विज्ञातेः विपरिलोपो विद्यते, अविनाशित्वात् । बृहदारण्यकोपनिषत् ४-३-३०
विज्ञातुः विज्ञातेः विपरिलोपो न हि विद्यते । अविनाशित्वात् |
विजानाति इति विज्ञाता, नाम ज्ञाता । विज्ञातिर्नाम विज्ञानम् । विज्ञाता, प्रमाता, द्र्ष्टा –
इति पर्यायपदानि । प्रमाणानि स्वीकृत्य प्रमेयान् यः विजानाति असौ प्रमाता एव विज्ञाता
भवति । नेत्राभ्यां रूपाणि पश्यति, श्रोत्राभ्यां शब्दान् शृणोति । एवमेव इन्द्रियैः तान् तान्
विषयान् यः विषयीकरोति स एव प्रमाता भवति । अस्मिन् प्रमातरि विक्रिया सम्भवति ॥
अपि तु, अस्य प्रमातुरपि स्वरूपभूता या प्रमितिः विज्ञातिरस्ति तस्याः नाशो नास्ति ।
विज्ञातुः मूलमेव विज्ञातिः । शुद्धा अविक्रिया चितिरेव विज्ञातिः । विज्ञानं विज्ञप्तिः इति
विज्ञातेरेव नामान्तरे । परिशुद्धा परिपूर्णा ज्ञप्तिरेव विज्ञप्तिर्नाम । अस्याः विज्ञप्तेः नाशो नाम
सर्वथा नास्त्येव । एषा एव विज्ञातिः साक्षी इत्यपि उच्यते । विज्ञातृविज्ञानविज्ञेयान् या
साक्षितया प्रकाशयति सा एव विज्ञातिः । निर्विकारा विज्ञातिरेव ब्रह्म ॥
<DOC_END>
<DOC_START>
नमः परमऋषिभ्यो नमः परमऋषिभ्यः । मुण्डकोपनिषत् ३-२-११
परममहर्षिभ्यः पुनः पुनः नमांसि भूयांसि ।
अस्माकम् भारतीय-सनातन-हिंदूसंस्कृतौ नमस्कारस्य विशेषमहत्त्वमस्ति । नमस्कारो नाम
भक्तिपूर्विका कृतज्ञता । गौरवपूर्विका प्रीतिपूर्विका गुरुदक्षिणा हि नमस्कारः । इतरेभ्यः उपकारे
स्वीकृते कृतज्ञतापूर्वकं क्रियमाणः प्रत्युपकारो हि नमस्कारः । नमस्कारो न चमत्कारपुरस्सरः,
किं तु श्रद्धागौरव भक्तिकृतज्ञतासहितो भवेत् ॥
लौकिकविद्याविषये एव एवं स्थिते, किमु वक्तव्यं ब्रह्मविद्याचार्याणां महर्षीणां विषये । भक्तिपूर्वकं
नमस्कारार्हा इमे । ब्रह्मविद्यासम्प्रदायप्रवर्तकाः एते सर्वे ब्रह्मर्षय एव, महर्षय एव । कृतार्थैः शिष्यैः
सद्गुरुभ्यः देया गुरुदक्षिणा नाम भक्तिपूर्वकः नमस्कार एव । ये गुरवः अस्मान् अस्मात् जन्ममरणरूपात्
संसारसागरात् आत्मविद्योपदेशेन तारितवन्तः तेभ्यः ब्रह्मविद्याचार्येभ्यः भूयो भूयो साष्टाङ्गनमांसि भूयांसि भवन्तु ॥
<DOC_END>
<DOC_START>
अहो क्षणिकाल्पसुखसाधने जनो यतते न
त्वखण्डानन्दायेति महद्विस्मयास्पदम् । स्वानुभूतिः पृ ६
<DOC_END>
<DOC_START>
कृशानुना सह तृणानां कीदृशः कलहः । - सुभद्राहरणम् पृ ३
<DOC_END>
<DOC_START>
==नान्यः पन्था विद्यतेऽयनाय ॥ यजुर्वेदः ३१-१८
क्रमणाय अन्यः मार्गः एव न विद्यते ।
: सामान्यतः साधकानां लक्ष्यं भवति आनन्दः, आत्मसाक्षात्कारश्च । स्वविश्वासानुसारं स्वधर्मानुसारम् इदं लक्ष्यं प्राप्तुं विभिन्नाः मार्गाः भवन्ति । येन केनापि यः कोपि मार्गः अनुसर्तुं शक्यः इति बहुभिः चिन्त्यते । किन्तु तथा विविधाः मार्गाः न विद्यन्ते । विद्यमानः मार्गः एकः एव इति स्पष्टं घोषयति अयं यजुर्वेदीयः मन्त्रः । कः अयम् अद्वितीयः मार्गः सः अस्ति मानवीयः मार्गः । अनुकम्पः, अन्यस्य जीविनः सुखदुःखेषु स्पन्दनसामर्थ्यं मानवानामेव वैशिष्ट्यम् । तदर्थमेव मानवशरीरे विशेषसामर्थ्ययुतं मस्तिष्कं विद्यते । अहिंसा, सत्यं, निष्कपटता, इन्द्रियनिग्रहः, असङ्ग्रहः, सरलता इत्यादयः अनुकम्पस्य विविधानि मुखानि । आनन्ददायकाः सन्तोषकराश्च एते गुणाः अन्येषु भवन्तु इति वयम् अपेक्षामहे । अन्ये अपि अस्माभिः इदमेव अपेक्षन्ते खलु दत्त्वा प्राप्नुयाम अन्यः मार्गः न विद्यते
<DOC_END>
<DOC_START>
==नाभिरहं रयीणां नाभिः समानानां भूयासम् ॥ अथर्ववेदः १६-४-१
सम्पत्तेः केन्द्रं समानानां केन्द्रम् अहं भवेयम् ।
: भगवतः सम्पत्तिः सर्वत्र प्रसृता अस्ति । मतिहीनैः इव सम्पत्तेः विनाशः कर्तुं शक्यः । बुद्धिम् उपयुज्य तस्याः रक्षणमपि शक्यम् । चातुर्येण लोकोपकारभावेन तस्य वर्धनमपि शक्यम् । रक्षकस्य वर्धकस्य पात्रं यदा निरूह्यते तदा वयं सम्पत्तेः केन्द्ररूपाः भवामः
: स्नेहः समानैः सह भवति । असमानैः सह स्नेहः भवति चेदपि अल्पकाले एव विरसः उत्पद्येत । समानैः सह स्नेहसम्बन्धः यदा भवेत् तदा वयं स्नेहस्य केन्द्रभूताः भवेम अस्मासु सर्वः अपि एवं सम्पत्तेः स्नेहस्य केन्द्ररूपाः भवेम चेत् अस्माकमपि हिताय भवति, जगते अपि हिताय भवति ।
<DOC_END>
<DOC_START>
नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाप्यलिङ्गात् । मुण्डकोपनिषत् ३-२-४
बलहीनेन साधकेन नात्मा ज्ञायते; प्रमादात्, लिङ्गरहितात् तपसो वा आत्मा न लभ्यते ।
बलहीनो नाम दुर्बलः । बलं, धैर्यं, शाक्तिः इति पर्यायपदानि । बलं नाम नैषा शरीरस्य वा बुद्धेर्वा शक्तिः । किं
तु विवेकस्य बलम्, आत्मज्ञानस्य बलम्, आत्मनिष्ठाजातम्, अनुभवस्य बलमेतत् । विवेकज्ञानबलमेव हि बलं
नाम । बलान्तराणि सर्वाणि दुर्बलान्येव । एतैः दुर्बलैः नात्मा अवगन्तुं शक्यते । न च प्रमादात् आत्मा ज्ञातुं
शक्यते । प्रमादो नाम लौकिकवस्तुषु विशेषानुरागनिमित्तः अध्यासातिशयः । एवं प्रमत्तस्यापि आत्मज्ञानं नोदेति ॥
विवेकवैराग्यमुमुक्षुत्वादिरहितात् केवलात् शास्त्रपाण्डित्यादपि नात्मज्ञानम् उदेति । न हि आत्मानं ज्ञातुम् अतीव
बुद्धिमता भाव्यम्, न च विशेषशक्तिमता भाव्यम् न च विशेषविद्यावता भाव्यम् । ईदृशैः विशेषबुद्धिशक्तिविद्यासामर्थ्यैः
लौकिकसम्पदः प्राप्येरन्, न तु मुक्तिः । अतः लौकिकदृष्ट्या धनादिसम्पद्भिः बलिष्ठोऽपि अनात्मज्ञश्चेत् वेदान्तदृष्टया
<DOC_END>
<DOC_START>
नाविरतो दुश्चरितात् नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ काठकोपनिषत् १-२-२४
दुश्चरितात् अविरतः, अशान्तः, असमाहितः, अशान्तमानसश्च साधकः एनम् आत्मानं प्रज्ञानेन ज्ञातुं न शक्नोति ।
आत्मज्ञानं तु अत्यन्तं सुलभमेव, तथापि तस्य अनुत्पत्तौ अनेके दोषाः भवन्ति । एते सर्वेऽपि दोषाः मानसा एव । एतैः
दोषैः युक्तस्य मनसः ‘अशुद्धं मनः’ इति नाम । एतेभ्यः दोषेभ्यः मुक्तमेव 'शुद्धं मनः' । अध्यात्मसाधकैः एतेषां मानसदोषाणां
के एते दोषाः इति चेत्, दुराचारः प्रथमो दोषः, इन्द्रियाणां स्वेच्छाविहाराय अवकाशदानमेव दुराचारो नाम । शास्त्रविरुद्धाः
अनाचाररूपाः सम्प्रदायबाह्याः व्यवहाराः साधकेन सर्वथा परिहर्तव्याः । अशान्तमनस्त्वं द्वितीयो दोषः । मनसि विषयवासनापूर्णस्य
साधकस्य आत्मज्ञानं लभ्यते वा नैव लभ्यते । सदाचारसम्पन्नस्य शान्तमनसः वेदान्तवाक्यार्थविचारपरस्य साधकस्य
<DOC_END>
<DOC_START>
निचाय्य तत् मृत्युमुखात् प्रमुच्यते । काठकोपनिषत् १-३-१५
निरुपाधिकं तम् आत्मानं विज्ञाय मानवः मरणग्राहात् मुच्यते ।
आत्मा ज्ञातव्यः । आत्मनि ज्ञाते किं फलं भवति इत्युक्ते मुक्तिरेव फलम् । मुक्तिर्नाम मोक्षणम् ।
कस्मात् मृत्युमुखात् । मरणग्राहात् इत्यर्थः । मरणम् अयं शब्द एव अस्माकं भयङ्करः । मरणं,
मृत्युः, यमः – इत्यादयः शब्दाः, तद्विचारश्च – अमङ्गलः इत्येव सर्वे वदन्ति । एवं स्थिते, अमङ्गलात्
मरणात् मुक्तिश्चेत् कियान् आनन्दः कीदृशं सौभाग्यम् कीदृशं मङ्गलम् को वा नेच्छति मरणात् मुक्तिम् ?
ईदृशी मुक्तिः किमस्माभिः प्राप्तुं शक्यते इति चेत् नूनं शक्यते एव । तर्हि किं कर्तव्यम् आत्मा ज्ञातव्यः ।
अस्तु, स आत्मा कथम् अस्ति इति चेत् इयं श्रुतिः उपदिशति । आत्मा नाम शब्दस्पर्शरूपरसगन्धरहितः ।
आत्मनः देहेन्द्रियमनोबुद्धिप्राणसम्बन्धोऽपि नास्ति । आत्मा तु नित्यशुद्धनित्यबुद्धनित्यमुक्तस्वरूपः । आत्मा
हि सर्वविकाराणां साक्षिभूतः। आत्मा विकाररहितः कूटस्थस्वरूपः । एवम् आत्मानं विजानतः किं मरणभयं सम्भवति ?
<DOC_END>
<DOC_START>
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥
<DOC_END>
<DOC_START>
भगिनी निवेदिता लेखिका, शिक्षिका, विवेकानन्दस्य शिष्या च ।
* भारते सर्वेषां जनानां ‘भारतीयत्वं’ स्यात्, नाडीषु राष्ट्रियतारक्तं प्रवहेत्, राष्ट्रियं चिन्तनम् अनुशासितं स्यात् । अस्माकं सञ्चालनस्य दिशां वयम् एव निश्चिनुयाम । दिशानिर्देष्टा अन्यः कोऽपि न भवेत् सर्वथा । वयम् अन्यस्य कार्यक्रमस्य स्वीकरणं न कुर्याम । अस्मदीयं कार्यक्रमं स्वप्रज्ञाबलात् वयम् एव निर्णयेम ।
* सत्यस्य एकाधिकारः कस्यचित् सम्प्रदायस्य वशे न विद्यते । न किञ्चन मतं भ्रान्तिरहितम् इत्यपि वयं निर्णेतुं न शक्नुमः । सत्यस्य अन्वेषणे न किमपि ज्ञानम् अन्तिमं, कोऽपि महापुरुषः अन्तिमः साक्षात्कारवान् न, ईश्वरस्य एकमात्र-प्रतिनिधिः अपि न । ज्ञानस्य सागरः अस्ति अगाधः । अतः यः जिज्ञासुः श्रद्धया प्रयतेत तेन सत्यस्य विविधमुखानि दृश्येरन् । (पथ और पाथेय, लोकहितप्रकाशन पृ ४८)
<DOC_END>
<DOC_START>
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।
अमृतस्य परं सेतुम् दग्धेन्धनमिवानलम् ॥ श्वेताश्वतरोपनिषत् ६-१९
कलारहितं क्रियारहितं शान्तं दोषरहितं सङ्गरहितम् अमृतत्वस्य सेतुं दग्धेन्धनम्
अनलमिव स्थितम् आत्मानं विजानीयात् ।
आत्मनः नैजं स्वरूपम् उपदिशति अयं मन्त्रः । न हि आत्मा नाम कश्चित् मानवः ।
न च एका देवता, न च अचेतनं वस्तु । आत्मनि अवयवाः, अंशाः, भागा वा न सन्ति ।
आत्मनि स्वतः न कापि क्रिया सम्भवति । न च आत्मनि विकाराः विक्रियाः सन्ति ।
आत्मनि पुण्यपापकर्मणां लेपः नैव सम्भवति ॥
आत्मनि गुणादोषाः न सन्ति । ईदृशस्य एव आत्मनः ज्ञानम् अमृतत्वप्राप्त्यै साधनं भवति ।
‘अहम् ईदृशः आत्मा अस्मि’ इति ज्ञाते एव मोक्षः प्राप्यते । दग्धेन्धनः अग्निरिव आत्मा शान्तः ।
आत्मनि न कापि विक्रिया अस्ति, विकारो नास्ति। आत्मा परिपूर्णः निरवयवः चिन्मात्रस्वरूपश्च ।
एवंविदः अमृतत्वफलमेव लभ्यते । संसारसागरं तीर्त्वा अमृतत्वं प्राप्तुम् आत्मज्ञानमेव साधनं भवति ॥
<DOC_END>
<DOC_START>
एतेषु निश्चलता, सत्यवचनम्, ऋजुः व्यवहारः इत्यादीनां गुणानां प्रामुख्यं सर्वे सुलभतया ग्रहीतुं शक्नुवन्ति । अध्यात्मिकप्रगतौ अवश्यम् इति व्यासेन सूचितः 'उपरमः' इत्येषः गुणः विशेषतया अवलोकनीयः । नैरन्तर्येण कार्यकरणं यावत् मुख्यं तावदेव मुख्यं भवति नियतम् आत्मावलोकनम् । तेन एव स्वस्य परिष्कारः शक्यः भवेत्, मनसः शान्तिः आसादिता भवेत् च ।
<DOC_END>
<DOC_START>
नैवेह किञ्चनाग्र आसीत्, मृत्युनैवेदमावृतम् आसीत् अशनायया, अशनाया
हि मृत्युः ॥ बृहदारण्यकोपनिषत् १-२-१
सृष्टेः पूर्वम् इह न किञ्चित् आसीत् । इदं सर्वं तदा अशनायारूपेण मृत्युना आवृतमासीत् ।
इदानीं नामरूपाभ्यां व्याकृततया दृश्यमानमिदं जगत् व्याकृतप्रपञ्चः इत्यभिधीयते । इदं व्याकृतं
जगत् इदानीम् इव पूर्वमपि न व्याकृतमेव आसीत् । तर्हि शून्यम् आसीद्वा इति चेत्, न । किं
तु सृष्टेः पूर्वम् इदं जगत् मृत्युना आवृतमासीत् ॥
मृत्युर्नाम अशनाया अत्तुम् इच्छा अशनाया, खादितुम् इच्छा । इयम् अशनाया एव मृत्युः । जिघत्सुम्
अशनाया हन्तीव । तस्मात् अशनायां हि मृत्युम् वदति अयं मन्त्रः । हिरण्यगर्भमेव अथवा अव्याकृतात्मानमेव
अत्र मृत्युशब्देन अभिदधाति मन्त्रः ॥
परमात्मापि अत्र अव्याकृतशब्देन उच्येत् । स एव हि हिरण्यगर्भात्मना मृत्युरूपेणा च अवभासते । सर्वथा
अयं प्रपञ्चः पुरा परमात्मैव आसीत् । तस्मादेव परमात्मनः अयं प्रपञ्चो जातः ॥
<DOC_END>
<DOC_START>
पञ्चाशद्भेदां पञ्चपर्वामधीमः ॥ श्वेताश्वतरोपनिषत् १-५
नदीरूपः परमात्मा पञ्चस्रोतोरूपेण, पञ्चकारणभूतः । उग्रः वक्रश्च पञ्चप्राणोर्मिः, पञ्चज्ञानादिमूलभूतः,
पञ्चावर्तः, पञ्चदुःखप्रवाहः, पञ्चाशद्भेदः पञ्चपर्वात्मकश्च परमात्मा दृश्यते । एवं परमात्मानं ध्यायेत ॥
परमात्मा एव नदीरूपेणापि कल्प्यते । अस्याः नद्याः पञ्च ज्ञानेन्द्रियाण्येव स्रोतांसि, पञ्च शब्दादयो
पञ्च वीचयः भवन्ति । पञ्चानामपि ज्ञानानां मूलभूतं मन एव अस्याः परमात्मनद्याः मूलम् ।
शब्दस्पर्शरूपरसगंधा एव आवर्ताः; गर्भवासजन्मजरारोगमरणान्येव प्रवाहाः, पञ्चाशद्भेदवती
इयं नदी । अविद्या – अस्मिता- राग- द्वेष – अभिनिवेशाख्यैः पञ्चपर्वभिः संयुक्ता एषा नदी ।
एवं नदीरूपेण दृश्यमानं वस्तु परं ब्रह्मैव । परमेव ब्रह्म नदीसमुद्रगिरिपर्वतादिरूपैः अवभासते इत्यर्थः ॥
<DOC_END>
<DOC_START>
संवर्तक, आरुणि, श्वेतकेतु, दुर्वास, ऋभु, निदाघ, जडभरत, दत्तात्रेय, रैवतकादयः परमहंसाः ।
कुटीचकाः, बहूदकाः, हंसाः, परमहंसाश्च इति चतुर्धा विभज्यन्ते संन्यासिनः । चत्वारोऽप्येते संन्यासिन एव ।
कुटीचकाः, बहूदकाः, हंसाश्च इति एते त्रयः संन्यासिनः साधनपरायणाः वेदान्तचिन्तननिष्ठाश्च भवन्ति । परमहंसाः
पुनः ब्रह्मज्ञानिपुङ्गवाः । एते गुणातीताः विद्वत्संन्यासिनः, एते एव ब्रह्मनिष्ठाश्च ॥
तत्त्वमसि, अहं ब्रह्मास्मि इत्यादिमहावाक्यानाम् अर्थम् स्वानुभवे दृष्टवन्तः एते धीराः । इमे परमहंसाः कृतकृत्याः
ब्रह्मनिष्ठाश्च । एतेषु केषाञ्चित् नामानि अत्र स्मर्यन्ते । संवर्तकः, आरुणिः श्वेतकेतुः दुर्वासाः, ऋभुः निदाघः,
जडभरतः, दत्तात्रेय, रैवतकः इत्यादयः परमहंसपुङ्गवत्वेन सुप्रसिद्धाः । एते हि अवधूतपुङ्गवाश्च भवन्ति ॥
<DOC_END>
<DOC_START>
==परोऽपेहि मनस्पाप ॥ अथर्ववेदः ६-४५-१
हे पाप मम मनस्तः दूरं गम्यताम् ।
: पापमुद्दिश्य उक्तमिति भाति चेदपि इदम् अस्माकं मनः उद्दिश्य एव उक्तं वर्तते पापस्य उद्भवः अत्रैव भवति । तस्य उद्भवः एव यथा न स्यात् तथा जागरूकता वोढव्या । किन्तु संस्कारस्य प्रभावात् यदि उद्भवेत् अङ्कुरावस्थायामेव तत् मर्दनीयम् । अन्यथा तच्च पापं समग्रे मनसि प्रसृत्य मनः दुर्बलं करोति । ततः वचनरूपं प्राप्नोति । वचनरूपस्य पापस्य क्रियारूपप्राप्तेः कति क्षणाः अपेक्षिताः पापक्रियाभिः सर्वनाशः भविष्यति । किं नाम पापम् यत् आत्मानं पातयेत्, यत् आत्मशक्तिं नाशयेत् तदेव पापम् उदाहरणाय असत्यकथनेन आतङ्कः, सत्यकथनेन शान्तिः ।
<DOC_END>
<DOC_START>
==पापमाहुर्यः स्वसारं निगच्छात् ॥ अथर्ववेदः १८-१-१४
सहोदर्या सह शरीरसम्पर्कः पापाय ।
: प्राणिषु महिला-पुरुषः इति जातिद्वयमेव विद्यते । अनेकेषु प्राणिवर्गेषु कुटुम्बव्यवस्थां पश्यामः यत्र एकः पुरुषः एकया सह एव सम्पर्कं संस्थाप्य अपत्यैः सह जीवति । मानवः अपि प्राणिषु एव अन्तर्भवति चेदपि तस्मिन् बुद्धिः, चिन्तनाशक्तिः विद्यते इत्यतः अन्येषां प्राणिवर्गाणां नियमाः न अन्वयन्ति । मानवसमाजे माता, पिता, अग्रजः, अनुजा, अग्रजा, अनुजः इत्यादयः सम्बन्धाः विद्यन्ते । शारीरकसम्पर्काय, सन्तानोत्पत्तये च विभिन्नाः नियमाः विद्यन्ते । उत्तमस्य सन्तानस्य प्राप्त्यै रक्तसम्बन्धाः न समीचीनाः । आनुवंशिकदोषाणां सम्भवः तत्र अधिकाः । बहुसमीपस्थाः रक्तसम्बन्धाः तु सङ्कराः इति उच्यन्ते । ते तु निषिद्धाः एव । निषिद्धेभ्यः सम्पर्केभ्यः, विकृतकामेन च भयानकाः मारणान्तिकाः रोगाः जगति प्रसार्यमाणाः सन्ति इत्येतत् दरीदृश्यते सर्वत्र ।
<DOC_END>
<DOC_START>
पुण्येन पुण्यं लोकं नयति, पापेन पापम्, उभाभ्यामेव मनुष्यलोकम् । प्रश्नोपनिषत् ३-७
उदानः सुषुम्नानाडीद्वारेण पुण्येन कर्मणा पुण्यलोकं नयति, पापेन कर्मणा पापलोकं नयति, पुण्यपापमिश्रेण कर्मणा
सर्वस्य मानवस्य शरीरे एकोत्तरशतसङ्ख्याकाः प्रधाननाड्यः वर्तन्ते । तासां मुख्या एका नाडी विद्यते, तस्याः
सुषुम्नानाडी इति नाम । तया नाड्या उदानवायुः प्राणोत्क्रमणं कारयति ॥
मानवानां प्रधानतया तिस्रो गतयो भवन्ति । शास्त्रविहितपुण्यकर्मानुष्ठायिनाम् उत्तमा गतिः, उत्तमं जन्म लभ्यते ।
पितरः, गन्धर्वाः, देवाः- तेषां लोकाः पुण्यलोकाः ॥
पापकर्मभिः, शास्त्रनिषिद्धकर्मभिः पापलोकान् प्राप्नोति । श्वानः, जम्बूकाः, सर्पाः, वृश्चिकाः, क्रिमिकीटाः – तेषां
जन्मानि पापलोकाः । पुण्यपापकर्मानुष्ठायिनां तु आगामिनि जन्मनि मनुष्यजन्मैव लभ्यते । कर्मानुगुणानि जन्मानि भवन्ति ॥
<DOC_END>
<DOC_START>
==पुनन्तु मा देवजना ॥ अथर्ववेदः ६-१९-१
ज्ञानिनः सज्जनाः मां पूतं कुर्वन्तु ।
: शरीरस्य मालिन्यं जलेन निर्गच्छति, ततः शरीरं शुद्धं भवति । उपवासादिभिः शरीरस्य अन्तर्भागः शुद्धः पवित्रश्च भविष्यति । काम-क्रोध-लोभ-मोह-मद-मात्सर्यादिभिः बद्धं सत् मनः पीडितं यदि न भविष्यति तर्हि तत् भवति पवित्रम् । स्वस्मिन् विद्यमानान् दुष्टसंस्कारान् नाशयित्वा शिष्टसंस्कारान् यदि स्वागतीकरोति तर्हि आत्मा पवित्रः भविष्यति । एतस्य स्तरत्रयस्य शुद्धीकरणकार्यमपि अत्यन्तं सङ्कीर्णम् । अधिका सहना, परिश्रमः, कालः, अवगमनञ्च अपेक्षते । अस्यां दिशि ये अग्रेसराः सन्ति ते पृष्ठतः विद्यमानानां साहाय्यं दातुम् अर्हन्ति । ते साहाय्यं कुर्युः, कुर्वन्ति च । ते एव ज्ञानिनः सज्जनाः । अधिकस्य ज्ञानस्य प्राप्तेः निमित्तं सदा मुक्तहृदयाः भवन्ति । आत्मनः पवित्रतायाः निमित्तं सर्वदा प्रयतमानाः भवन्ति । 'अस्मान् पवित्रतायाः दिशि नीयताम्' इति यदा प्रार्थ्यते तदा 'आगतोऽहम्' इति कथयन्ति ते । प्रत्युपकाररूपेण न किमपि प्रतीक्षन्ते । वचनानुसारं प्रवर्तन्ते ते । एतेषां जीवनम् उद्घाटितं पुस्तकमिव भवति । एतादृशानां मार्गदर्शनं सहवासश्च प्राप्यताम् इति प्रार्थयामहे ।
<DOC_END>
<DOC_START>
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् । एतद्यो वेद निहितं गुहायां
सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ मुण्डकोपनिषत् २-१-१०
कर्माणि, तपश्च – इत्यादिरूपं विश्वं सर्वमपि परामृतः पुरुष एव । पुरुष एव परं ब्रह्म ।
इदं ब्रह्म गुहायां निहितमिति यो वेद, हे सोम्य, सः अविद्याग्रन्थिं विकिरति, नाशयति ॥
सर्वोऽप्ययं प्रपञ्चः पुरुषादेव जायते, पुरुषेणैव जीवति, पुरुषे एव च लीयते; तस्मात् पुरुषात्
भिन्नतया नैव विद्यते । इदं सर्वमपि विश्वं पुरुष एव । अत एव 'पुरुषे आत्मनि एकस्मिन्
विदिते सर्वोऽप्ययं प्रपञ्चः विदितो भवति' इति श्रुतिः ब्रवीति ॥
अस्मिन् विश्वे प्राणः, मनः, इन्द्रियाणि, हिरण्यगर्भः, विराट् पुरुषः, वेदाः, यज्ञाः, संवत्सरः,
दक्षिणाः, लोकाः, देवताः, साध्याः, मनुष्याः, प्राणिनः, नक्षत्राणि, ग्रहाश्च अन्तर्भवन्ति । ईदृशस्य
विश्वस्य कारणं पुरुषः । ‘अहमेवास्मि अयं पुरुषः’ इति विज्ञाते सति इहैव जीवन्नेव अविद्याग्रंथिः
<DOC_END>
<DOC_START>
पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः । काठकोपनिषत् १-३-११
पुरुषात् न परं किञ्चिदप्यस्ति । सा काष्ठा, सा एव परा गतिश्च ॥
अस्मिन् विशाले प्रपञ्चे ‘तारतम्यं’ सर्वक्षेत्रेष्वपि दृश्यते । न हि कश्चिदपि पदार्थः अन्तिमनिर्णयत्वेन
दृश्यते । ‘मीनात् मीनः’, ‘वृक्षात् वृक्षः’ इतिवत् एकस्मात् अपरः महत्तरः मनुष्यः अस्त्येव । वैषम्यं
तारतम्यमेव हि अस्य प्रपञ्चस्य स्वभावः ॥
अपि तु वेदान्तप्रतिपादितात् पुरुषात् परं महत्तरं वस्तु न किञ्चिदस्ति । पाञ्चभौतिकात् शरीरात् इन्द्रियाणि
सूक्ष्माणि, इन्द्रियेभ्यः प्राणः श्रेष्ठः, प्राणाच्च मनः श्रेष्ठम्, मनसोऽपि बुद्धिः श्रेष्ठा, बुद्धेरपि समष्टिरूपः
हिरण्यगर्भः सूक्ष्मः श्रेष्ठः, व्यापकश्च । सर्वेभ्योऽपि एतेभ्यः पुरुषः श्रेष्ठः सूक्ष्मः व्यापकश्च ॥
पूर्णम् अनेन सर्वम् इति पुरुषः । अनेनैव हि समस्तमपि विश्वं परिपूर्णम् । पुरि शेते इति वा पुरुषः । अस्मासु
एव वर्तते इति पुरुषः । पुरुषात् श्रेष्ठः पुरुषेण समः अन्यो नास्ति । अयमेव हि परमः पुरुषः ॥
<DOC_END>
<DOC_START>
पुरुषो वाव यज्ञः, तस्य यानि चतुर्विंशतिवर्षाणि तत् प्रातस्सवनम् । छान्दोग्योपनिषत् ३-१६-१
पुरुष एव यज्ञः, तस्य यानि चतुर्विंशतिवर्षाणि तदेव प्रातः- सवनम् ।
अस्य ‘पुरुषविद्या’ इति नामधेयम् । पुरुष एव यज्ञत्वेन उपास्यः । अत्र पुरुषो नाम जीवात्मा । इमम् एव
‘यज्ञः’ इति उपासीत । पुरुषस्य यज्ञस्य च साम्यम् उपदिशति अयं मन्त्रः ॥
यज्ञो हि सामान्येन प्रातस्सवनम्, माध्यन्दिनसवनम्, सायंसवनम् च ति त्रेधा विभज्यते । तद्वदेव पुरुषस्य
आयुरपि कौमारम्, यौवनम्, वार्धक्यं च इति त्रिधा विभज्यते ॥
प्राथमिकं चतुर्विंशतिसंवत्सराख्यम् आयुः परिमाणं गायत्री प्रातस्सवनम् इति, मध्यस्थं चतुश्चत्वारिंशत्
संवत्सरपरिमाणम् आयुः त्रिष्टुप् माध्यन्दिनसवनम् इति, अन्त्यम् अष्टचत्वारिंशत् संवत्सरपरिमितम् आयुः
जगती सायंसवनम् इति च उपासितव्यम् । तादृशस्य उपासकस्य आरोग्यसन्तोषयुक्तं षोडशोत्तरशत
<DOC_END>
<DOC_START>
पुरुषोऽमानवः, स एनान् ब्रह्म गमयति, एष देवपथः ब्रह्मपथः, एतेन प्रतिपद्यमानाः
इमं मानवम् आवर्तं नावर्तन्ते नावर्तन्ते । छान्दोग्योपनिषत् ४-१५-५
अमानवः पुरुषः इमान् उपासकान् ब्रह्मलोकं गमयति, अयमेव देवयानमार्गः । अयमेव च
ब्रह्ममार्गः । अनेन देवयानमार्गेण ये प्रयान्ति, ते इमं मानवं जन्म पुनः न प्रतिपद्यन्ते ॥
नैष्ठिकब्रह्मचारिणां तथा संन्यासिनां सतां ब्रह्मोपासकानां साधकानाम् उपदिष्टोऽयं देवयानमार्गः ।
अत्र ब्रह्मशब्देन उपास्यम् अपरं ब्रह्म । ब्रह्मलोकस्थं हिरण्यगर्भं ये उपासते, तेषाम् एतद्देह पतनानन्तरं
प्राप्यः गतिप्रकारः अत्र उपदिश्यते । अमानवः पुरुषः एतानुपासकान् मरणानन्तरम् अपरस्य
शवसंस्कारेण कृतेन वा अकृतेन वा एतेषाम् उपासकानां ब्रह्मलोकगमने न कोऽपि विघ्नः
सम्भवेत् । एतेषां मार्गः राजमार्गः, एतेषां गतिः उत्तरायणगतिः । एते क्रमेण ब्रह्मलोकं
गत्वा तत्र ब्रह्मणा सह उषित्वा, तेनैव सह मुक्ताः भविष्यन्ति । तस्मात् न ते शरीरान्तरग्रहणाय
प्रत्यावर्तन्ते । इयमेव हि विदेहमुक्तिः ॥
<DOC_END>
<DOC_START>
==पृथिवीं मा हिंसीः ॥ यजुर्वेदः १३-१८
भूमेः हिंसा न क्रियताम् ।
: भूमिः जडरूपा । अस्याः विषये हिंसाहिंसयोः आचरणं नाम किम् भूमिं
मलिनां न करोतु इत्यर्थः । एतेन भूमेः अपेक्षया भूमौ वसतां जीवराशिनाम्
एव लाभः । अधिकफलोदयस्य प्राप्त्यर्थं वाणिज्यलाभाय अद्यत्वे अस्माभिः
भूमौ न योजितः विषः एव न विद्येत किञ्चुलकाः अन्ये बहवः सूक्ष्मजीविनश्च
स्वाभाविकतया एव भूमौ फलयुक्ततां वर्धयन्ति । किन्तु रसगोभराणां
कृतकगोभराणां स्थापनाधिक्येन अद्यत्वे अस्माभिः भूमौ किञ्चुलकाः
अन्वेष्टव्याः सन्ति कुतृणनाशकाः, कृमिनाशकाः, कीटनाशकाश्च सन्ति
अत्यधिकविषयुक्ताः एते भूमिं प्रविश्य तद्द्वारा वर्धमानेषु धान्येषु प्रविश्य,
ततः अस्माकम् उदरमेव प्रविशन्तः सन्ति चेदपि अस्माभिः जागरा न प्राप्ता
वृष्टिकारणतः एते विषाः कूप-कासार-नदीः प्रविष्टाः इत्यतः जलमपि मलिनं
जायमानमस्ति । इदं मलिनजलं भाष्पीभूय वायुमालिन्यम् उत्पादयति, वृष्टेः
आम्लता च वर्धमाना अस्ति । आम्लवर्षा अद्यत्वे जागतिकसमस्या जाता अस्ति ।
: भूमेः पावित्र्यं रक्षेम । भूमौ जीवतः जीविनः प्रीत्या पालयेम ।
: भूमेः सम्पत्तेः सदुपयोगं कुर्याम ।
<DOC_END>
<DOC_START>
==प्र प्रदातारं तारिष ॥ यजुर्वेदः ११-८३
: अस्य मन्त्रस्य अवशिष्टे भागे अन्नस्य विचारः प्रस्तुतः इत्यतः अत्र 'अन्नम्' इति योजितमस्ति । कृषकः एव अन्नदाता । भूमिपुत्रः इति निर्देशने वस्तुतः यः अर्हः सः एव कृषकः । परिश्रमपूर्वकं सः यदि अन्नस्य उत्पादनं न कुर्यात् तर्हि सर्वे अपि अहारेण विना परमसङ्कष्टं अनुभवेयुः । कृषिं विना अन्येषु जीवनक्रमेषु विद्यमानाः सर्वेपि परोपजीविनः एव सर्वे अधमर्णाः एव कृषकस्य श्रेयोभिलाषः, तेषां हिताय व्यवसायः कृषकेतरजनानां सर्वेषाम् आद्यं कर्तव्यं भवति । भूमेः परमगभीरम् आन्तर्यं विदार्य जलं यः उद्धरेत्, अधिकाय फलोदयाय भूमये विषयुक्तं रासायनिकं गोभरं यः योजयेत्, लाभः स्वस्य मात्रं भवेत् इत्यनेन अन्येभ्यः भागदातृभ्यः प्राणि-पक्षि-कृमि-कीटेभ्यः विषं यः भोजयेत्, वाणिज्यदृष्टिमान् सन् वैविध्यमयं कृषिं विस्मृत्य यः एकस्यैव धान्यस्य कृषिं कुर्यात्, दुरभ्यास-दुर्व्यवहार-भोगेच्छाभिः युक्तः सन् यः सर्वकार-यन्त्रागार-मध्यवर्ती-नगरवासिनः अवलम्बितवान् स्यत् सः किं भवेत् योग्यः कृषकः अस्य प्रश्नस्य समीचीने परिहारे सर्वेषां हितं विद्यते ।
<DOC_END>
<DOC_START>
प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामानि आप्नोति । कौषीतकिब्राह्मणोपनिषत् ३-६
जीवात्मा प्रज्ञया वाचं समारुह्य, वाचा सर्वाणि नामानि व्याप्नोति ।
जीवात्मा नाम चेतनः आत्मा । अयं प्रज्ञया चैतन्येन, वाचं वागिन्द्रियं समारोहति । अचेतनस्य
वागिन्द्रियस्य चैतन्यदाता अयमेव आत्मा । आत्मनः अनुग्रहादेव खलु वागादीनि इन्द्रियाणि आत्मनः
कार्याणि कुर्वन्ति सन्ति । आत्मा इन्द्रियेषु चैतन्यं पूरयति ॥
अनेन चैतन्येन पूर्णानि इन्द्रियाणि स्वस्वविषयान् प्रकाशयन्ति । अस्मिन् विशाले जगति विद्यमानं
सर्वं वस्तु केवलं द्वयमेव । एकं नाम, अपरं रूपं च । नामप्रपञ्चं सर्वमपि व्याप्य स्थितम् इन्द्रियं नाम
वागेव । सर्वे वेदाः, सर्वाणि शास्त्राणि, सर्वाणि पुराणानि च वाग्रूपाण्येव भवन्ति । वाचा अव्याप्तं नामैव
न स्यात् । ओङ्कारः सकलाः वाचः व्याप्नोति । प्रज्ञा एव ओङ्कारमपि व्याप्नोति । एतां प्रज्ञां परं
<DOC_END>
<DOC_START>
प्रज्ञाने सर्वं प्रतिष्ठितं, प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा ‘प्रज्ञानं ब्रह्म’ ॥ ऎतरेयोपनिषत् ३-१-३
सर्वं प्रज्ञाने प्रतिष्ठितम् । अयं लोकः प्रज्ञानेत्रः । प्रज्ञा एव प्रतिष्ठा, प्रज्ञानं ब्रह्म ॥
जीवब्रह्मणोः एकत्वप्रतिपादनपराणि इमानि महावाक्यानि । चत्वारि प्रसिद्धानि महावाक्यानि सन्ति ।
ऋग्वेदीय ऎतरेयोपनिषदि प्रज्ञानं ब्रह्म; यजुर्वेदीय बृहदारण्यकोपनिषदि अहं ब्रह्मास्मि; सामवेदीय
छान्दोग्योपनिषदि तत्त्वमसि; तथा अथर्ववेदीय माण्डूक्योपनिषदि अयमात्मा ब्रह्म इति ।
एतेषु एकैकमपि महावाक्यम् उपनिषदां परमसन्देश एव ॥
प्रकृते 'प्रज्ञानं ब्रह्म' इत्येतत् ऎतरेयोपनिषदः महावाक्यम् । 'प्रज्ञानम्' इति –प्रकृष्टं ज्ञानं प्रज्ञानम् ।
इन्द्रियोपाधिद्वारा भिन्नभिन्नतया अवभासमानाः चैतन्यस्वरूपाः जीवाः प्रज्ञानम् इति कथ्यन्ते । एते परिच्छिन्ना
जीवाः सर्वे परमार्थतः अरिपूर्णब्रह्मस्वरूपा एव । प्रज्ञानं नाम पूर्णं ब्रह्मैव । जीवाः नूनं परं ब्रह्मैव ॥
<DOC_END>
<DOC_START>
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । मुण्डकोपनिषत् २-२-४
प्रणव एव धनुः, आत्मैव शरः, ब्रह्मैव लक्ष्यम्, अप्रमत्तः सन् लक्ष्ये शरं योजयेत् ।
साधकैः ब्रह्मणि एकता प्राप्तव्या । परब्रह्मणः आत्मनश्च अभेदो द्र्ष्टव्यः । सर्वासाम्
उपनिषदां सन्देशोऽयम् । अभेदं प्राप्तुम् अनेके मार्गाः वेदान्तेषु उपदिष्टाः सन्ति ।
प्रकृतोऽयं मन्त्रः ओङ्कारद्वारा ब्रह्मणि अभेदप्राप्तिं दर्शयति ॥
ओङ्कारः धनुर्भवेत् । शरं लक्ष्ये प्रवेशयितुं, योजयितुं धनुः अवश्यं खलु धनुषि
हि शरः संधेयः तथैव जीवात्मरूपं शरं ब्रह्मरूपे लक्ष्ये ताडयितुं धनुर्नाम ओङ्कार
एव । जीव एव शरः । देहाद्युपाधिभिः उपलक्षितः जीवः अस्मिन् देहे, ‘अहम् अहम्’
इतिरूपेण अवभासते खलु अयमेव शरः । ब्रह्मैव गन्तव्यं लक्ष्यम् । जीवः जीवत्वं
विहाय निरुपाधिके ब्रह्मणि एकत्वं प्राप्नुयात् । ओङ्कारोपासनेन कल्पितं जीवत्वं
त्यक्त्वा साधकेन स्वरूपभूते ब्रह्मणि ऎकाग्य्रेण जीवः प्रविलापयितव्यः ॥
<DOC_END>
<DOC_START>
प्रतिबोधविदितं मतम् अमृतत्वं हि विन्दते । केनोपनिषत् २-४
सर्वमानसप्रत्ययानां साक्षित्वेन यदा आत्मा विज्ञातो भवति, तदैव सः सम्यग् विदितो भवति ।
मनसि शतशः सहस्रशः लक्षशः प्रत्ययाः जायन्ते च नश्यन्ति च । अत्यन्तचञ्चलस्य अस्य मनसः
व्यापारान् निरोद्धुं वा गणयितुं वा न केनापि शक्यते । अपि तु एतेषां प्रत्ययानां साक्षिभूतं कूटस्थम्
आत्मानम् प्रत्यभिज्ञातुं सर्वेणापि शक्येत । मनसि जायमानानां सुखदुःखे, भयाश्चर्ये, शोकमोहौ,
रागद्वेषौ, कामक्रोधादीन् प्रत्ययान् निर्विकारतया प्रकाशमानं चैतन्यं तु एकमेव अस्ति खलु
अस्यैव वेदान्तेषु आत्मा, ब्रह्म इति नामधेयम् ॥
मनसोऽपि मनस्त्वेन, मनसः, विकारान् प्रकाशमानः, स्वतः अविकारी, मनःप्रत्ययविदूरः,
नित्यशुद्धनित्यबुद्धनित्यमुक्तस्वरूपः आत्मा अहमेव इतिज्ञानमेव ‘आत्मज्ञानं’ भवति । अनेन
ज्ञानेन अमृतत्वं मोक्षम् इहैव प्राप्नोति मुमुक्षुसाधकः ॥
<DOC_END>
<DOC_START>
प्रतिवादिभयङ्कर श्री अनन्ताचार्य (अपि ज्ञात आननांगरचरयर एवः पी बी अन्नान वेंकटेश्वरा सुप्रभातमस्य लेखक।
*कौसल्यासुप्रजा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥
*तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले ।</br>
हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या ।</br>
दिव्यं विहत्सरिति हेमघटेषु पूर्णम् ।</br>
तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥</br>
सम्पूरयन्ति निनदैः ककुभो विहङ्गाः ।</br>
धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ॥</br>
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।</br>
<DOC_END>
<DOC_START>
प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् । प्रश्नोपनिषत् २-१३
इदं सर्वं जगत् प्राणस्य वशे एव वर्तते । स्वर्गस्थं सर्वमपि प्राणस्य एव वशे भवति ॥
इदं कृत्स्नं विश्वं प्राणादेव जनित्वा, प्राणे एव स्थित्वा, प्राणे एव लीयते । अस्यैव प्राणस्य हिरण्यगर्भः,
विराटपुरुष, सूत्रात्मा इति च नामान्तराणि ॥
इदं विश्वम् आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकं च इति त्रेधा विभज्यते । आध्यात्मिकप्रपञ्चो
नाम शरीरम्, इन्द्रियाणि, मनः, बुद्धिः, अहंकारः, प्राणश्च । अस्यैव हि कार्यकरणसङ्घातः इति नाम ।
इदं सर्वं प्राणादेव जातं सत् प्राणेनैव जीवति । सकलानि करणानि प्राणेनैव आत्मवन्ति भवन्ति ॥
आधिभौतिकप्रपञ्चो नाम पृथिव्यादयः आकाशान्ताः शब्दादिविषयाश्च । सर्वस्यास्य आश्रयभूतो वायुः ।
आधिदैविकप्रपञ्चे ग्रहनक्षत्रदेवताः पितरश्च अन्तर्गच्छन्ति । हिरण्यगर्भो हि सर्वस्यास्य आधारभूतः ।
अस्य उपासनात् ब्रह्मलोकप्राप्तिरेव फलम् ॥
<DOC_END>
<DOC_START>
प्राणो वाव संवर्गः, प्राणमेव वागप्येति, प्राणां चक्षुः, प्राणं श्रोत्रं, प्राणं मनः
प्राणो ह्येव एतान् सर्वान् संवृङ्क्ते । छान्दोग्योपनिषत् ४-३-३
प्राण एव संवर्गः । निद्रासमये वागिन्द्रियं प्राणमेव अप्येति । नेत्रमपि प्राणमेव अप्येति,
श्रोत्रमपि प्राणमेव अप्येति, मनश्च प्राणमेव अप्येति । प्राण एव हि सर्वमेतत् आत्मनि संवर्जयति ॥
अस्य प्राणसंवर्गविद्या इति नाम । अत्र प्राणो नाम मुख्यः प्राणः । अयमेव आधिभौतिकदृष्ट्या
वायुर्भवति, आधिदैविकदृष्ट्या हिरण्यगर्भो भवति । अत्र प्रकृते आध्यात्मिकस्य प्राणस्य उपासनम्
इदमुच्यते । वाक् श्रोत्रनेत्रादीनि ज्ञानेन्द्रियाणि, मनो नाम अन्तरिन्द्रियम् – इत्येतत् सर्वं निद्राकाले
प्राणमेव अप्येति । सकलेषु इन्द्रियेषु प्रलीनेषु एक एव प्राणः जागर्ति; अयं प्राण एव ब्रह्म, प्राण एव
राजा, प्राण एव च सर्वं भवति । अस्मिन्नेव प्राणे जगत् सर्वं लीयते । संवर्जनात्, आत्मनि उपसंहारात्
संवर्गः प्राणः । तस्मात् इममेव प्राणं ‘संवर्गाः’ इति साधकः उपासीत ॥
<DOC_END>
<DOC_START>
प्राणो वै ग्रहः, वाग्वै ग्रहः, जिह्वा वै ग्रहः, चक्षुर्वै ग्रहः, श्रोत्रं वै ग्रहः
मनो वै ग्रहः, हस्तौ वै ग्रहः, त्वग्वै ग्रहः । बृहदारण्यकोपनिषत् ३-२-२
जारत्कारवेण आर्तभागेन पृष्टः याज्ञवल्क्यः उवाच । अष्टौ ग्रहाः इति । ते च – प्राणः,
वाक्, जिह्वा, नेत्रम्, श्रोत्रम्, मनः, हस्तौ, त्वक् च ग्रहाः ॥
अस्यां बृहदारण्यकोपनिषदि इन्द्रियाणि ‘ग्रहाः’ इति, विषयाः ‘अतिग्रहाः’ इति च
व्यपदिश्यन्ते । अष्टौ ग्रहाः, अष्टौ अतिग्रहाश्च भवन्ति । नेत्रम्, श्रोत्रम्, नासिका,
जिह्वा, चर्म, वाक्, मनः, हस्तौ च इति अष्टौ इन्द्रियाणि अष्टौ ग्रहाः उच्यन्ते ।
शब्दादिविषयग्रहणात् इन्द्रियाणि ग्रहाः । इमे वेदान्तेषु अष्टौ ग्रहाः ॥
एते इन्द्रियरूपाः अष्टौ ग्रहाः मानवान् स्वाभिमुखान् आकर्षन्ति । इन्द्रियाणाम् अनधीनः
मनुष्य एव नास्ति इत्युक्ते नासाधु वचनम् । इन्द्रियाणां शक्तिसामर्थ्यम् अद्भुतम् ।
साधकश्रेष्ठान् तपस्विपुङ्गवानपि बलवन्ति इन्द्रियाणि स्वाधीनान् कुर्वन्ति । अत एव
कारणात् इन्द्रियाणि ग्रहाः (गृह्णन्ति इति ग्रहाः) इति उच्यन्ते ॥
<DOC_END>
<DOC_START>
प्रिया बत अरे नः सती प्रियं भाषसे, एहि आस्स्व व्याख्यास्यामि ते
व्याचक्षाणस्य तु मे निदिध्यासस्व इति । बृहदारण्यकोपनिषत् २-४-४
अरे मैत्रेयि, त्वं मम इदानीम् अत्यन्तं प्रीतिपात्रम् असि, यतः मम प्रियमेव
त्वं वदसि । आगच्छ सामीप्यं मम । उपविश, तुभ्यम् अहं वदामि । उपदेशं
कुर्वतः मम वचः निदिध्यासस्व ॥
याज्ञवल्को महर्षिः स्वीयां प्रियपत्नीं मैत्रेयीम् इदमाह वचः । मैत्रेयी याज्ञवल्क्यं
प्रति एवं प्रार्थयते 'अहम् अमृतत्वमेव अपेक्षे, आत्मज्ञानमेव अहम् अर्थये,
अमृतत्वस्य असाधनभूतां लौकिकीं सम्पदम् अहं न कामये; भवानेव मह्यम्
आत्मज्ञानोपदेशं करोतु' । एतद्वचः श्रुत्वा याज्ञवल्क्यमहर्षिः मैत्रेयीं स्वपत्नीमिदं
पतये पत्नी अत्यन्तं प्रिया कदा भवति । यदा मुमुक्षुर्भवति तदा । आत्मज्ञानप्रेप्सुः
यदा भवति पत्नी तदैव खलु सा भर्त्रे अधिकं प्रिया भवति ब्रह्मिष्ठेन भर्त्रा स्वप्रियायै
पत्न्यै प्रदेया सम्पत् नाम आत्मज्ञानमेव, अमृतत्वमेव । पश्यत भारतीयभव्य-
दिव्यपरंपरायां पतिपत्न्योः अन्योन्यता, प्रीतिविश्वासः, आदर्शश्च कथमस्ति
<DOC_END>
<DOC_START>
==प्रेता जयता नरः ॥ सामवेदः १८६-२
: प्र इता । नरः इता प्र जयत ।
: अग्रेसरणं विजयीभवनं च मानवमात्रेण प्राप्तं सौभाग्यम् । मानवेतरपशु-पक्षी-कृमि-कीटादयः स्वस्य मूलभूतप्रवृत्त्यनुसारमात्रं (निद्रा-आहार-भय-मैथुनानि) जीवनं कर्तुम् अर्हन्ति प्राप्तमानवजन्मा अपि मूलभूतप्रवृत्तीनां तर्पणायमात्रं जीवनं यापयति चेत् मानवजन्म व्यर्थीकृतवान् इत्यर्थः अग्रे सरणाय प्राप्तः अवसरः विनष्टः इत्येव
: ज्ञान-अवगमन-चिन्तन-प्रश्न-प्रयोगादिभिः प्राप्यमाणं सत्यस्य ज्ञानं मानवेषु प्रगतिम्, अनुकम्पं, सहजीविनां सुखदुःखेषु स्पन्दनसूक्ष्मतां च वर्धयति । मानवीयगुणाः यावदधिकाः भवेयुः तावत् प्रगतिः भवति निर्विघ्ना ।
: एवम् अग्रेसरन् मानवः सहजीविनां प्रीतिविश्वासादीनि सम्पादयति । भगवतः आनन्दम् अनुभवति । विजयानां विजयः अयमेव !
<DOC_END>
<DOC_START>
==प्रेतो मुञ्चामि ॥ अथर्ववेदः १४-१-१७
: प्र इतः प्रेतः । विद्यमाने स्थले एव यदि तिष्ठेम तर्हि स्थितं जलमिव दुर्गन्धयुताः भवेम । जीवनं विकासशीलं, प्रगतिशीलं च । धन-अधिकारादिभिः भौतिकविचारदृष्ट्या न । मनः भौतिकाकर्षणेषु इन्द्रियसुखेषु एव आवृतं चेत् आत्मनः विचारः विस्मृतः इव । मनः अतीते भूतकाले लग्नं चेत्, व्यक्तिपूजा-संस्थाबन्धेषु युक्तञ्चेत् आत्मोन्नतिमार्गस्य दर्शनं दुष्करमेव स्यात् । अग्रेगमनाय एताभिः शृङ्खलाभिः मुक्तिः अवश्यं प्राप्तव्या । सत्यान्वेषणस्य औत्सुक्यम्, असत्यस्य त्यागः, पूर्वाग्रहैः मुक्तं मनः च आत्मनः पुरतः प्रकाशं प्रसारयन्ति । आत्मा अग्रे सरति । श्रेष्ठव्यक्तीनां चिन्तनं जीवनस्य प्रेरणायै भवेत् इति तु सत्यं किन्तु ताभिः व्यक्तिभिः बद्धाः न भवेम । तैः दर्शिते मार्गे अग्रे सरणीयम् । आरम्भस्तरे कदाचित् साङ्घिकशक्तेः आवश्यकता भवेत् चेदपि तत् मार्गावरोधाय यथा न स्यात् तथा जागरूकता वोढव्या । बन्धनैः मुञ्चिताः चेदेव अग्रे गमनं साध्यम् ।
<DOC_END>
<DOC_START>
प्रेयो मन्दो योगक्षेमाद् वृणीते । काठकोपनिषत् १-२-२
मन्दः योगक्षेमार्थं प्रेय एव वृणीते ।
लोके मनुष्यान् ‘बालाः’ ‘वृद्धाः’ (बुद्धिमन्तः) इति द्वेधा विभजन्ति ।
दशवर्षपर्यन्तान् ‘बालाः’ इति, दशोत्तरसंवत्सरपरिमितान् मानवान्
‘बुद्धिमन्तः’ इति च वयं कथयामः । अप्रबुद्ध-बुद्धिमन्तः,
अपर्याप्तविचारवन्तः, विवेकचिन्तनशक्तिरहिता एव बाला उच्यन्ते ।
विवेकविचारसामर्थ्यवन्तः वृद्धाः इति कथ्यन्ते । चाकोलेट्, केक्,
बिस्कत्, ब्रेड, बन् इत्यादयः बालानां प्रियाः भवन्ति । न तु
स्वर्णहारः, धनम्, निवेशनम्, गृहादिसम्पदः इष्टा भवन्ति । यदा
एते एव बाला वर्धमानाः बुद्धिमन्तो भवन्ति तदा एतेषामेव सैकल्,
स्कूटर, टि.वि, कार्, प्रमुखाः सर्वेऽपि पदार्थाः अपेक्ष्यन्ते । यतो हि
एवमेव वेदान्तेऽपि साधकाः ‘मन्दाः’, ‘धीराः’ इति विभज्यन्ते ।
एते यद्यपि साधका एव तथापि मन्दसाधकाः केचित्, धीरसाधकाः
केचित् । अनित्यफलप्रेप्सवो मन्दाः । एते एव बालाः मूढाः,
अविवेकिनः, कृपणाश्च इति उच्यन्ते ॥
<DOC_END>
<DOC_START>
प्रोक्ता अन्येनैव सुज्ञानाय प्रेष्ठ । काठकोपनिषत् १-२-९
हे प्रीतिपात्रभूत नचिकेतः, ब्रह्मिष्ठेन आचार्येण उपदिष्टे सति अयमात्मा
ब्रह्मनिष्ठस्य ब्रह्मविद्याचार्यस्य मृत्युदेवस्य सन्देशोऽयम् । यः आचार्यः
शिष्येभ्यः परब्रह्मतत्त्वम् उपदिशति स यदि केवलं कलाशालासु अधीतशास्त्रः
शुष्कपण्डितः शालोपाध्यायः भवति, तावता तस्य उपदेशेन अनादेः अविद्यायाः
नाशो न भवति, न च मुक्तिर्लभ्यते । इदानीं तु ईदृशाः एव शुष्कपण्डिताः
आचार्याः सर्वत्रापि दरीदृश्यन्ते । न च ते स्वयं ब्रह्मज्ञानिनः, तेषां
वेदान्तोपदेशेन श्रोतॄणां ब्रह्मज्ञानं च नोदेति ॥
ब्रह्मविद्याचार्येण ब्रह्मज्ञानिवरेण्येन भाव्यम् । स्वयं ब्रह्मनिष्ठः ब्रह्मानुभवनिष्ठश्चेत्
तस्योपदेशेन शिष्याणाम् आत्मज्ञानम् उदेति । सम्प्रदायविदः, वेदान्तरहस्यविदः
परब्रह्मनिष्ठाश्च सद्गुरवः लौकिकगुरुभ्यः विलक्षणा भवन्ति । एतेषां सम्यग्दर्शिनाम्
आत्मनिष्ठानाम् सद्गुरूणामेव उपदेशः कार्यक्षमो भवति, नेतरेषाम् ॥
<DOC_END>
<DOC_START>
परं परोपकारार्थं यो जीवति स जीवति ॥
निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता ॥
छेदेऽपि चन्दनतरु: सुरभयति मुखं कुठारस्य ॥
तदेव काले आरब्धं महतेऽर्थाय कल्पते ॥
तृणं न खादन्नपि जीवमान: तद्भागधेयं परमं पशूनाम् ॥
तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥
पापं तापं च दैन्यं च घ्नन्ति सन्तो महाशया: ॥
सर्वमात्मकृतं कर्म लोकवादो ग्रहा इति ॥
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥
तथा पुराकृतं कर्म कर्तारमनुगच्छति ॥
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ।।
निजहृदि विकसन्त: सन्ति सन्त: कियन्त ॥
तत्तेजस्वी पुरुष: परकृतनिकृतिं कथं सहते ॥
पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम् ॥
खे सूर्य कमलं भूमौ दृष्ट्वेदं स्फुटति प्रियाः ॥
सत्सङ्गति: कथय किं न करोति पुंसाम् ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥
क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ ॥
धेनुं धीराः सूनृतां वाचमाहुः ॥
सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेत् सुखम् ॥
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥
वृणुते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥
सन्तोष एव पुरुषस्य परं निधानम् ॥
मनसि च परितुष्टे कोर्थवान् को दरिद्रः ॥
<DOC_END>
<DOC_START>
बंकिम चंद्र चटर्जी महोदयेण "वन्‍दे मातरम्‌" १८८२ तमे इति रचितम्‌ अस्‍ति।
शस्यश्यामलां मातरम्। वन्दे मातरम् ।।१।।
सुखदां वरदां मातरम् । वन्दे मातरम् ।।२।।
रिपुदलवारिणीं मातरम्। वन्दे मातरम् ।।३।।
* तुमि विद्या तुमि धर्म,
तोमारेई प्रतिमा गड़ि मन्दिरे-मन्दिरे। वन्दे मातरम् ।।४।।
* त्वं हि दुर्गा दशप्रहरणधारिणी,
सुजलां सुफलां मातरम्। वन्दे मातरम् ।।५।।
* श्यामलां सरलां सुस्मितां भूषिताम्,
धरणीं भरणीं मातरम्। वन्दे मातरम् ।।६।।
<DOC_END>
<DOC_START>
[[बाबासाहेब आप्टे राष्ट्रियस्वयंसेवकसङ्घस्य आरम्भकालीनेषु प्रचारकेषु अन्यतमः ।
*आधारशिला: अनेकानि वर्षाणि भवनस्य भारं वहन्ति । तथापि ता: स्वस्थानं न परित्यजन्ति, न वा भग्ना: भवन्ति । उपरि आगमनस्य इच्छाम् अपि न वहन्ति । स्वस्य नाम ज्ञापयितुम् इच्छाम् अपि न प्रकटयन्ति । एतादृशा: निस्स्वार्था दृढा पवित्रा विशुद्धाचरणवन्त अखण्डाविचलकर्मशीला: प्रेरणास्रोतोभूता: कार्यकर्तार: अद्य आवश्यका: ।
*हिन्दुसमाजसम्बद्धं तादृशं सङ्घटनं निर्मातव्यं येन समग्रे समाजे सम्यक् कार्यचेतना जागृयात् । यत्र हिन्दव: अल्पसंख्याका यत्र च ते बहुसंख्याका तदुभयत्रापि समानरूपं सङ्घटनं निर्मातव्यम् । हिन्दुसमाजे एकतत्त्व-चेतना जागरणीया अस्ति । नागरिक ग्रामीण सुशिक्षित दरिद्र धनवान् इत्यादीनां सर्वविधानाम् अपि हिन्दूनां सङ्घटनं करणीयम् ।
*तस्मिन् काले हिन्दुषु कश्चन दोष: आसीत् । तेषां हृदये स्वाभिमान: बलं च आसीत्, अन्यविधा: गुणा: अपि आसन्, किन्तु सर्वेषां हृदयम् अभिन्नम् न आसीत् । सर्वै: एकताबद्धतया स्थातव्यम् इति भावना न आसीत् । यदि तस्मिन् काले आसेतुहिमाचलं जागरणतरङ्गा: उत्पन्ना: स्यु: तर्हि इतिहासस्य मार्ग: एव परिवृत्त: अभविष्यत् ।
*अस्माकं कार्यस्य लक्ष्यस्य अन्तिमं स्वरूपम् अस्मदीयस्य समाजस्य पूर्णसङ्घटितावस्था । ये शान्त्या अविरतं प्रयासं कुर्वन्ति तादृशा: शतश: सहस्रश: च समर्पितजीवना: एतस्य लक्ष्यस्य प्राप्तये आवश्यका: । विपरीतपरिस्थितिषु अपि, प्रलोभनेषु सत्सु अपि ये स्थिरतया कार्यं कुर्यु: तादृशानां सबलानां धैर्यवतां हृदयानाम् आवश्यकता अस्ति । एतादृशस्य स्फूर्तजीवनस्य निर्माणाय सङ्घ: दैनन्दिनसंस्कारविषये अधिकम् अवधानं ददाति ।
*यत्र बाण: लग्न: भवेत् तत्र मारणं किं धनुष्मत्ताया लक्षणम् आदौ स्थानं निश्चित्य तत: तत्रैव लक्ष्यं भेद्यते यत् तत् एव धनुष्मत्ता नाम । एवम् आदौ सङ्कल्प: तत: प्रतिज्ञा च करणीया इत्येतां परम्परां वयं व्यक्तिगते सामूहिके च जीवने विस्मृतवन्त: आस्म । तं पुनरपि स्मारयन्तं विधिं डाक्टर्-हेडगेवारवर्य: अस्मभ्यं प्रदत्तवान् अस्ति । प्रतिज्ञा न बन्धनाय, अपि तु आधाराय । (सङ्घचिन्तनम्, बाबासाहेब-आप्टे, पृ 23)
*समाजे एकात्मतां प्राप्तुं या भूमिका निर्वोढव्या सा चरितार्था करणीया इत्येतदेव प्रतिज्ञाया: लक्ष्यम् । सर्वासु दिक्षु निराशतामये वातावरणे सत्यपि अस्माभि: समर्थस्य, सङ्घटितस्य, समग्रस्य समाजस्य मार्गदर्शनं कर्तुं क्षमस्य हिन्दुराष्ट्रस्य पुनर्निर्माणं करणीयम् अस्ति । कर्तव्यविमुखताप्रसङ्गे आपतिते अपि, आत्मन: समत्वसम्पादनाय प्रतिज्ञा एव आश्रय: अस्माकम् । यदि तत् कार्यान्वितं कर्तुं योग्येन प्रकारेण वयं प्रयत्नशीला: भवेम तर्हि हिन्दुराष्ट्रस्य भाग्यसूर्य: अचिरात् एव दिगन्ते उदित: भवेत् । (सङ्घ चिन्तन, जागृति प्रकाशन, पृ.26)
<DOC_END>
<DOC_START>
रवेरविषये किं न प्रदीपस्य प्रकाशनम् ॥
रवेरविषये किं न प्रदीपस्य प्रकाशनम् ॥
<DOC_END>
<DOC_START>
ब्रह्म तं परादात् योऽन्यत्र आत्मनो ब्रह्म वेद; क्षत्रं, लोकाः, देवाः, भूतानि
सर्वं तं परादात् योऽन्यत्र आत्मनः सर्वं वेद । बृहदारण्यकोपनिषत् २-४-६
आत्मनः भिन्नत्वेन येन दृष्टं ब्राह्मण्यं तं मूढं तत् निराकरोति, तथा आत्मनः भिन्नत्वेन
येन दृष्टा क्षत्रियजातिः तं सा तिरस्करोति; तथा लोकाः देवाः भूतानि आत्मनः भिन्नत्वेन
ज्ञातानि चेत् तदा तादृशं मूढं तानि सर्वाणि तिरस्कुर्वन्ति ॥
न किञ्चित् वस्तु आत्मनः भिन्नतया जीवेत् । आत्मनः भिन्नतया न किञ्चित् वस्तु परमार्थतः
अस्ति । इदं रहस्यम् अविज्ञाय अज्ञानिनः दुःखकूपे पतिताः सन्तः नित्यदुःखिनो भवन्ति ॥
तस्मात् आत्मनः भिन्नत्वेन दृष्टं यत्किञ्चित् वस्तु भवतु, तत् स्वयं नैव सन्तोषम् अनुभवति ।
न केवलं तावदेव, किं तु तादृशं वस्तु तथादर्शिनं निराकरोति । आत्मनः भिन्नत्वेन दृष्टाः लोकाः
तथादर्शिनम् अज्ञानिनं तिरस्कुर्वन्ति । आत्मनः भिन्नत्वेन ज्ञाताः देवाः तम् अज्ञानिनं मूढत्वेन
निराकुर्वन्ति । भूतानि, प्राणाश्च आत्मनः भिन्नत्वेन दृष्टाश्चेत् ते तं भेददर्शिनं तिरस्कुर्वन्ति ॥
<DOC_END>
<DOC_START>
ब्रह्म वा इदमग्र आसीत्, तदात्मानमेवावेत् ‘अहं ब्रह्मास्मि’ इति । तस्मात् तत् सर्वमभवत् ॥ बृहदारण्यकोपनिषत् १-४-१०
अग्रे इदं सर्वं ब्रह्मैव आसीत् । तद् ब्रह्म आत्मानमेव 'अहं ब्रह्मास्मि' इति अजानात् । तेन तद् ब्रह्म सर्वम् अभवत् ॥
'अहं ब्रह्मास्मि' इत्येतत् एकं महावाक्यम् । शुक्लयजुर्वेदीयायाः बृहदारण्यकोपनिषदः सारभूतोऽयं मन्त्रः 'अहं ब्रह्मास्मि' इति ।
अयं मन्त्रः जीवब्रह्मणोः ऎक्यम् उपदिशति । प्रज्ञानं ब्रह्म, अहं ब्रह्मास्मि, तत्त्वमसि, अयमात्मा ब्रह्म, इति हि चत्वारि वाक्यानि
वेदान्तमहावाक्यानि इति सुप्रसिद्धानि सन्ति । कल्पितं जीवत्वम् अपोद्य अस्य जीवस्य ब्रह्मत्वम् उपदिशन्ति एते मन्त्राः ॥
‘अहं ब्रह्मास्मि’ इत्यत्र ‘अहं’ इति जीवः, ‘ब्रह्मास्मि’ इति चिन्मात्रं तत्त्वम्, अस्मि इत्यर्थः । नाहं जीवः, किं तु ब्रह्मैवास्मि इत्यर्थः ।
जीवभावः आविद्यकः कल्पितः, आभासमात्रः । ब्रह्मस्वरूपमेव सहजं, पारमार्थिकम् । विचारे कृते एतत् स्पष्टतया ज्ञायते ।
वेदान्तवाक्यार्थविचारेण इदं रहस्यं ज्ञायते ॥
<DOC_END>
<DOC_START>
ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति । काठकोपनिषत् १-१-१७
परमात्मजातम् ईड्यं देवं विदित्वा सम्पूज्य, उपास्य परमां शान्तिम् एति ।
विराटपुरुषः, प्रथमजः, हिरण्यगर्भः, ब्रह्मा – इत्यादयः शब्दाः उपनिषत्सु दृश्यन्ते । अयमेव
‘अपरं ब्रह्म’ इति च कथ्यते । अयं हि परस्मात् ब्रह्मणः जातः प्रप्रथमः प्राणी । अयमेव च
समष्टिरूपः सर्वकरणोपाधिकः सूक्ष्मातिसूक्ष्मः सोपाधिकः आत्मा । एष एव ’चेतनभूता
परा प्रकृतिः’ इति च कथ्यते ॥
परं ब्रह्म निर्विशेषम्, अयं हिरण्यगर्भस्तु सविशेषः । सर्वप्राणिनाम् आत्मभूतोऽयम् । सर्वकर्माणि
विहाय सदा विराट् पुरुषोपासनपराणां नैष्ठिकब्रह्मचारिणां तुरीयाश्रमिणां संन्यासिनां च मरणानन्तरं
ब्रह्मलोकप्राप्तिः फलं भवति । तत्र ब्रह्मलोके ब्रह्मणा सह उषित्वा उपासकाः तत्रस्थान् सकलान्
भोगान् अनुभवन्ति । तत्र आत्मज्ञाने जाते सति ते मुक्ता एव भवन्ति ॥
<DOC_END>
<DOC_START>
ब्रह्मवादिनो वदन्ति किं कारणं ब्रह्म कुतः स्म जाताः जीवाम केन क्व च सम्प्रतिष्ठाः
अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥ - श्वेताश्वतरोपनिषत् १-१
ब्रह्मविदः एवं परस्परं विचारं कुर्वन्ति । तद्यथा, किम् अस्य जगतः ब्रह्म कारणम् वयं कस्मात्
जाताः केन जीवामः कुत्र गत्वा संविशामः सुखदुःखानुभवः कथं भवति अस्य जगतः व्यवस्था
अस्माकम् भारतीयसंस्कृतेः महिमानम् अयं मन्त्रः दर्शयति । पुराकाले चत्वारः पञ्च वा ऋषयः, तपस्विनः,
संन्यासिनः अथवा महात्मानः एकत्र मिलिताः सन्तः परमेव ब्रह्म अधिकृत्य परस्परम् अन्योन्यं विचारं कुर्वन्तः
आसन् । न तु लौकिकविषयान् अधिकृत्य । लौकिकवस्तुविचारेण पुनः पुनः दुःखमेव प्राप्यते खलु ?
आत्मविचारेण तु आनन्दः प्राप्यते । ब्रह्म–देव–भगवत्परमात्मविचारेण हि अस्माकम् अविद्या दूरीक्रियते ।
ब्रह्मविचारो हि वेदान्तेषु क्रियते । जगद्ब्रह्मणोः सम्बन्धः अस्माकमपि अन्वयीभवति । परस्य ब्रह्मणो विचारेणैव
कल्याणं, शान्तिः, आनन्दश्च प्राप्यते ॥
<DOC_END>
<DOC_START>
ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानम् अनन्तं ब्रह्म । यो वेद निहितं
गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति ॥ तैत्तिरीयोपनिषत् २-१-१
ब्रह्मवित् परं ब्रह्म आप्नोति । अयं मन्त्रः इदं विवृणोति । ब्रह्म, सत्यं ज्ञानम् अनन्तं च ।
परमे व्योम्नि गुहायां निहितं ब्रह्म यो वेद, सः सर्वान् कामान् सर्वज्ञेन ब्रह्मणा सह अश्नुते ॥
बृंहति इति ब्रह्म । चिन्मात्रस्वरूपं परिपूर्णं तत्त्वमेव ब्रह्म । सत्यम् अविकारि ब्रह्म, ज्ञानं
ज्ञप्तिमात्रं ब्रह्म, अनन्तम् अपरिच्छिन्नं च ब्रह्म । न कुत्रापि बहिः अस्मत्तः भिन्नतया देशान्तरे
कालान्तरे वा ब्रह्म विद्यते । देशकालयोरेव कारणभूतं ब्रह्म देशकालपरिच्छिन्नं भवेद्वा
एवंभूतं ब्रह्म विदितवतः फलं ब्रह्मप्राप्तिरेव । ब्रह्मज्ञानेन ब्रह्मप्राप्तिः ॥
इदं ब्रह्म अस्मासु गुहायां निहितमस्ति । परमार्थदृष्ट्या स्वयमेव ब्रह्म । परिपूर्णेन ब्रह्मणा
सहैव ब्रह्मवित् सर्वान् कामान् अवाप्नोति सर्वमेव जगत् ब्रह्मैव इति विजानतः ब्रह्मभिन्नतया
प्राप्याः कामाः नैव विद्येरन् इत्यर्थः ॥
<DOC_END>
<DOC_START>
विश्वस्य कर्ता भुवनस्य गोप्ता ।
अथर्वाय ज्येष्ठपुत्राय प्राह ॥ मुण्डकोपनिषत् १-१-१
सर्वदेवानां प्रथमत्वेन ब्रह्मा आविर्बभूव । एषः विश्वस्य कर्ता, भुवनस्य गोप्ता ।
अयं ब्रह्मा सर्वविद्याप्रतिष्ठां ब्रह्मविद्यां ज्येष्ठपुत्राय अथर्वाय प्राह ॥
मानवजन्मनः महत् लक्ष्यं नाम मोक्ष एव । मोक्षस्य साधनं च ब्रह्मविद्या एव ।
ब्रह्मविद्यया समाना अन्या सम्पत् नास्त्येव । परस्माद् ब्रह्मणः आगता इति ब्रह्मविद्या ।
ब्रह्मणा अपरेण प्राप्तत्वात् ब्रह्मविद्या । ब्रह्मद्वारा प्रसृतत्वात् ब्रह्मविद्या । परब्रह्म अधिकृत्य
प्रवृत्तत्वात् ब्रह्मविद्या । परा च असौ विद्या च इति च ब्रह्मविद्या । परब्रह्मविषया
बृहत्तमतत्वविषया च ब्रह्मविद्या । एवं ब्रह्मविद्याचार्यैः स्वशिष्येभ्यः,विवेकिभिः जनकैः
स्वपुत्रेभ्यश्च उपदिश्यमाना मुक्तिसाधनभूता ब्रह्मविद्या । सकलवेदशास्त्रपुराणसारभूता च ब्रह्मविद्या ॥
<DOC_END>
<DOC_START>
भगवत गीता एकः धार्मिक ग्रन्थ अस्ति एतद वैदिक योगिक वेदान्तिक तांत्रिक तत्वज्ञान च सांक्षेपिक अस्ति
"न जयते म्रियते व कदाचिन
नें भूत्वा भविता व न भूयः
अजो नित्यः सस्वतो ’यम पुरानो
<DOC_END>
<DOC_START>
* कर्मण्येवैधिकारस्ते मा फलेषु कदाचन ।
* यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः ।
<DOC_END>
<DOC_START>
भगवांस्त्वेव मे तद् ब्रवीतु । छान्दोग्योपनिषत् ६-१-७
भगवान् भवानेव तं विचारम् मह्यम् आवेदयतु ।
पुत्रेण श्वेतकेतुना पितरम् उद्दालकं प्रति उक्तमिदं वचनम् । 'गुरोः सकाशात् आत्मविषयकः
विचारः त्वया श्रुतः किम् इति पित्रा पृष्टः श्वेतकेतुः इदं वचः जनकं प्रति वदति ॥
ब्रह्मनिष्ठो हि सद्गुरुः । गुरुर्नाम जनको वा पुत्रो वा भवेत् । तम् उपगम्य तस्मादेव आत्मतत्त्वम्
अवगन्तव्यम् । अत्र हि मन्त्रे गुरवे ‘भगवान्’ इति विशॆषणं दत्तमस्ति । उपनिषत्सु हि ब्रह्मविद्याचार्याय
सद्गुरवे ‘भगवान्’ इति विशेषणं सामान्यतो दीयते ॥
भगवान् नाम पूज्यः इत्यर्थः । गुरौ हि भगवद्दृष्टिः कर्तव्या । गुरवो हि अस्मदादिवदेव देहवन्त इव दृश्यमाना
अपि न ते सामान्य मनुष्यवत् मन्तव्याः । गुरूषु भक्तिपूर्विका पूज्यभावना विद्यते चेत् तदा तेषाम् उपदेशः
फलकारी भवेत् । तस्मादेव सद्गुरवः ‘भगवः’, ‘भगवन्’ इति विशेषणैः शास्त्रेषु सम्बोध्यन्ते ॥
<DOC_END>
<DOC_START>
गौतमबुद्धः (५६३-४८३ पूर्वशकः) बोधकः धार्मिकनायकश्च आसीत् । 'बुद्धः' इत्यस्य अर्थः बोधं प्राप्तवान्, साक्षात्कारं प्राप्तवान् इत्यर्थः, इदं नाम न, बिरुदमात्रम् । अस्य मूलनाम सिद्धार्थगौतमः इति । अयं बौद्धधर्मस्य संस्थापकः ।
सार्थकं जीवनं येन यापितं तेन मरणादपि भेतव्यं नास्ति ।
* इन्द्रियभोगः भवतः प्रथमः शत्रुः ।
:अपमार्गेण अर्जितः लाभः, उपायनानि, प्रसिद्धिः
:भीरुः एतत्सर्वं जेतुं नार्हति । किन्तु यः जयति सः परमानन्दं प्राप्स्यसि ।
ते स्वस्य दृढसङ्कल्पं प्रदर्शयन्तु ।
कोऽपि अस्मान् न उद्धरति, केनापि न शक्यं, न कुर्यात् । अस्माभिः एव मार्गः क्रान्तव्यः किन्तु बुद्धाः स्पष्टतया मार्गं दर्शयन्ति ।
दुष्टतनं प्रत्यस्तं स्यात् । उत्तमं कर्तव्यम् । मनसः पावित्र्यं रक्षणीयम् इत्येतदेव बुद्धस्य बोधनम् ।
* जगत् सर्वदा उद्विग्नं यदि भवेत् तर्हि विनोदानन्दाः किं भवेयुः अन्धकारे आवृतेन भवता प्रकाशः अन्वेष्टव्यः खलु ?
<DOC_END>
<DOC_START>
विप्रलंभइर विवाहइस का, कुमार’-ओड़ाया-वर्णनाइह मंत्र-दूता-प्रयाण’-अजी-नायक’-अभ्युदयइर अपि;
आलम-क्र्तम, आ-संकसीपटम, रसा-भव-निरंतरम सरगईर अन-अतिविस्तीर्माइह, श्रव्य-व्र्त्तइह सु-संधिभिह,
सर्वत्र भिन्न-व्र्त्तंटाइर उपेटम, loka-रंजनम कवयम कल्प’-अंतरा-स्थायी जयते सद-अलंकर्ति
<DOC_END>
<DOC_START>
==भद्रं कर्णेभिः शृणुयाम ॥ यजुर्वेदः २५-२१
: बहिः जगतः विषयान् आत्मानं प्रति नयनम्, आत्मनः प्रतिस्पन्दं बहिः जगत् प्रति प्रापणं च शरीरेन्द्रियाणां निरन्तरं कर्म । शरीरेन्द्रियाणां द्वारा श्रेष्ठवस्तु-विचारादयः यदि अन्तः प्रविशेयुः तर्हि आत्मनि विद्यमानं मालिन्यं दुष्टसंस्कारादयः विनष्टाः भवन्ति । आत्मनि यावती शुद्धता भवेत् तावत् आत्मबलम् आत्मशक्तिश्च वर्धते । तदा शरीरेन्द्रियाणां द्वारा आत्मनः प्रतिस्पन्दाः श्रेष्ठरीत्या अभिव्यक्ताः भवन्ति । आत्मबलस्य वर्धनेन आनन्दानुभवसामर्थ्यञ्च वर्धते । अस्य आनन्दस्य निमित्तमेव खलु सर्वः अपि जीवी जिजीविषति अतः मङ्गलकरमेव शृणुयाम, मङ्गलकरमेव पश्येम, दृढानि शरीरेन्द्रियाणि सत्कर्मेषु योजयन्तः तेषां सम्पूर्णं सदुपयोगं स्वीकुर्मः ।
<DOC_END>
<DOC_START>
==भद्रा इन्द्रस्य रातयः ॥ ऋक् ८-६२-१==
भगवतः उपायनानि सदा भवन्ति कल्याणकराणि
:आकाशः, वायुः, जलम्, अग्निः, भूमिः इत्येतैः सृष्टम् इदं जगत् भगवतः उपायनमेव । इदं सर्वं कल्याणकरमेव । इदं शरीरं, ज्ञानञ्च भगवतः उपायनमेव । इदमपि शुद्धम् । भगवता दत्तानि शुद्धानि उपायनानि वयम् अस्माकं कृतकजीवनपद्धत्या मलिनानि कृतवन्तः स्मः । वायुमालिन्यं, जलमालिन्यं, भूमालिन्यं, बुद्धिमालिन्यञ्च अस्माभिः एव सृष्टमस्ति । सकलजीवराशेः पोषणाय वर्धनाय च विद्यमाना सर्वा सम्पत्तिः अस्माभिः संरक्षणीया । वयमपि सुखेन जीवेम । अन्येषां सुखजीवनाय पूर्णमनसा सहकुर्याम ।
<DOC_END>
<DOC_START>
भयादस्याग्निस्तपति भयात् तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ काठकोपनिषत् २-३-३
अस्य परमात्मनः भयादेव अग्निः तपति, सूर्यः तपति । अस्य आत्मनः भयादेव
इन्द्रश्च वायुश्च स्वव्यापारं कुरुतः । अत्र क्रमसङ्ख्यया पञ्चमः मृत्युरपि
अस्य भयादेव प्राणिनां प्राणं हरति ॥
अग्नि सूर्य इन्द्र वायु मृत्यु देवतानां वेदपुराणेषु अद्भुतं स्थानं श्रेष्ठां योग्यतां च वर्णयन्ति ।
एतासां देवतानां सामर्थ्यं वेदेषु विस्तरतः वर्ण्यते । एतासां देवतानाम् आराधनेन
मानवानां विशेषफलानि च भवन्त्येव । एतासां देवतानाम् अणिमाद्याः अष्टौ सिद्धयः,
तथा निग्रहानुग्रहादिसामर्थ्यानि च नूनं भवन्ति ॥
सर्वमप्येतत् सत्यमेव, तथापि नैव ते देवाः स्वतन्त्राः । नैव तेषाम् अधिकारः शाश्वतः ।
नैव ते परं ब्रह्म भवितुम् अर्हन्ति । सूर्यादयः स्वस्वकार्याणि साधु सम्यक् कुर्वन्ति खलु
कुतः भगवतो भयात् । भगवानेव एषां दाता धाता च । सः मृत्योरपि मृत्युः । अतः
<DOC_END>
<DOC_START>
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे । । १ । ।
बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।
अबोधोपहताः चान्ये जीर्णम् अङ्गे सुभाषितम् । । २ । ।
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति । । ३ । ।
न तु प्रतिनिविष्टमूर्खजनचित्तम् आराधयेत् । । ४ । ।
लभेत सिकतासु तैलम् अपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।
न तु प्रतिनिविष्टमूर्खजनचित्तम् आराधयेत् । । ५ । ।
छेत्तुं वज्रमणिं शिरीषकुसुमप्रान्तेन सन्नह्यते ।
नेतुं वाञ्छन्ति यः खलान्पथि सतां सूक्तैः सुधास्यन्दिभिः । । ६ । ।
स्वायत्तम् एकान्तगुणं विधात्रा विनिर्मितं छादनम् अज्ञतायाः ।
विशेषतः सर्वविदां समाजे विभूषणं मौनम् अपण्डितानाम् । । ७ । ।
यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः । । ८ । ।
निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम् ।
सुरपतिम् अपि श्वा पार्श्वस्थं विलोक्य न शङ्कते
न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् । । ९ । ।
अधोऽधो गङ्गेयं पदम् उपगता स्तोकमथवा
विवेकभ्रष्टानां भवति विनिपातः शतमुखः ।। १० ।।
शक्यो वारयितुं जलेन हुतभुक्च्छत्रेण सूर्यातपो
नागेन्द्रो निशिताग्कुशेन समदो दण्डेन गोगर्दभौ ।
सर्वस्यौषधं अस्ति शास्त्रविहितं मूर्खस्य नस्त्यौषधिं । । ११ । ।
तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनां । । १२ । ।
येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ।
ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति । । १३ । ।
वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह
न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि । । १४ । ।
विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः ।
कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः । । १५ । ।
हर्तुर्याति न गोचरं किं अपि शं पुष्णाति यत्सर्वदाऽप्य्
अर्थिभ्यः प्रतिपाद्यमानं अनिशं प्राप्नोति वृद्धिं परां ।
कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यं अन्तर्धनं
येषां तान्प्रति मानं उज्झत नृपाः कस्तैः सह स्पर्धते । । १६ । ।
तृणं इव लघु लक्ष्मीर्नैव तान्संरुणद्धि ।
न भवति बिसतन्तुर्वारणं वारणानां । । १७ । ।
अम्भोजिनीवनविहारविलासं एव हंसस्य हन्ति नितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्धीकीर्तिं अपहर्तुं असौ समर्थः । । १८ । ।
केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणं । । १९ । ।
विद्या नाम नरस्य रूपं अधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः ।
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः । । २० । ।
क्षान्तिश्चेत्कवचेन किं किं अरिभिः क्रोधोऽस्ति चेद्देहिनां
ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधं किं फलं ।
किं सर्पैर्यदि दुर्जनाः किं उ धनैर्विद्याऽनवद्या यदि
व्रीडा चेत्किं उ भूषणैः सुकविता यद्यस्ति राज्येन किं । । २१ । ।
दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने
प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवं ।
शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता
ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः । । २२ । ।
जाड्यं धियो हरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पापं अपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं
सत्सङ्गतिः कथय किं न करोति पुंसां । । २३ । ।
जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।
नास्ति येषां यशःकाये जरामरणजं भयं । । २४ । ।
सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः
स्निग्धं मित्रं अवञ्चकः परिजनो निःक्लेशलेशं मनः ।
आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं
तुष्टे विष्टपकष्टहारिणि हरौ सम्प्राप्यते देहिना । । २५ । ।
काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषां ।
तृष्णास्रोतो विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा
सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसां एष पन्थाः । । २६ । ।
प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धं उत्तमजना न परित्यजन्ति । । २७ । ।
असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः
प्रिया न्याय्या वृत्तिर्मलिनं असुभङ्गेऽप्यसुकरं ।
विपद्युच्चैः स्थेयं पदं अनुविधेयं च महतां
सतां केनोद्दिष्टं विषमं असिधाराव्रतं इदं । । २८ । ।
क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशाम्
आपन्नोऽपि विपन्नदीधितिरिति प्राणेषु नश्यत्स्वपि ।
किं जीर्णं तृणं अत्ति मानमहतां अग्रेसरः केसरी । । २९ । ।
श्वा लब्ध्वा परितोषं एति न तु तत्तस्य क्षुधाशान्तये ।
सिंहो जम्बुकं अङ्कं आगतं अपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छन्ति जनः सत्त्वानुरूपं फलं । । ३० । ।
लाङ्गूलचालनं अधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते । । ३१ । ।
परिवर्तिनि संसारे मृतः को वा न जायते ।
स जातो येन जातेन याति वंशः समुन्नतिं । । ३२ । ।
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा । । ३३ । ।
तान्प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते ।
भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः । । ३४ । ।
कमठपतिना मध्येपृष्ठं सदा स च धार्यते ।
तं अपि कुरुते क्रोडाधीनं पयोधिरनादराद्
अहह महतां निःसीमानश्चरित्रविभूतयः । । ३५ । ।
न चासौ सम्पातः पयसि पयसां पत्युरुचितः । । ३६ । ।
सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः । । ३७ । ।
शीलं शैलतटात्पतत्वभिजनः सन्दह्यतां वह्निना ।
शौर्ये वैरिणि वज्रं आशु निपतत्वर्थोऽस्तु नः केवलं
येनैकेन विना गुणस्तृणलवप्रायाः समस्ता इमे । । ३८ । ।
धनं अर्जय काकुत्स्थ धनमूलं इदं जगत् ।
अन्तरं नाभिजानामि निर्धनस्य मृतस्य च । । ३९ । ।
तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः क्षणेन सोऽप्यन्य एव भवतीति विचित्रं एतथ् । । ४० । ।
यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान्गुणज्ञः ।
स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनं आश्रयन्ति । । ४१ । ।
मैत्री चाप्रणयात्समृद्धिरनयात्त्यागप्रमादाद्धनं । । ४२ । ।
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति । । ४३ । ।
मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः ।
तन्निम्ना शोभन्ते गलितविभवाश्चार्थिषु नराः । । ४४ । ।
स पश्चात्सम्पूर्णः कलयति धरित्रीं तृणसमां ।
अवस्था वस्तूनि प्रथयति च सङ्कोचयति च । । ४५ । ।
राजन्दुधुक्षसि यदि क्षितिधेनुं एतां तेनाद्य वत्सं इव लोकं अमुं पुषाण
तस्मिंश्च सम्यगनिशं परिपोष्यमाणे नानाफलैः फलति कल्पलतेव भूमिः । । ४६ । ।
सत्यानृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या ।
नित्यव्यया प्रचुरनित्यधनागमा च वाराङ्गनेव नृपनीतिरनेकरूपा । । ४७ । ।
आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च
येषां एते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण । । ४८ । ।
यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं
तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकं ।
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा सा कृथाः
कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलं । । ४९ । ।
त्वं एव चातकाधारोऽ सीति केषां न गोचरः ।
किं अम्भोदवरास्माकं कार्पण्योक्तं प्रतीक्षसे । । ५० । ।
रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम्
अम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैतादृशाः ।
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः । । ५१ । ।
अकरुणत्वं अकारणविग्रहः परधने परयोषिति च स्पृहा ।
सुजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धं इदं हि दुरात्मनां । । ५२ । ।
दुर्जनः परिहर्तव्यो विद्ययाऽलकृतोऽपि सन् ।
मणिना भूषितः सर्पः किं असौ न भयङ्करः । । ५३ । ।
जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं
शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि ।
तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः । । ५४ । ।
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किं ।
सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना । । ५५ । ।
शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखं अनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे । । ५६ । ।
न कश्चिच्चण्डकोपानाम् आत्मीयो नाम भूभुजां ।
होतारं अपि जुह्वानं स्पृष्टो वहति पावकः । । ५७ । ।
धृष्टः पार्श्वे वसति च सदा दूरतश्चाप्रगल्भः ।
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो योगिनां अप्यगम्यः । । ५८ । ।
नीचस्य गोचरगतैः सुखं आप्यते । । ५९ । ।
आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानां । । ६० । ।
लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति । । ६१ । ।
वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिर्गुरौ नम्रता
विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयं ।
भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खले
येष्वेते निवसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः । । ६२ । ।
विपदि धैर्यं अथाभ्युदये क्षमा सदसि वाक्यपटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धं इदं हि महात्मनां । । ६३ । ।
प्रदानं प्रच्छन्नं गृहं उपगते सम्भ्रमविधिः
प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः ।
सतां केनोद्दिष्टं विषमं असिधाराव्रतं इदं । । ६४ । ।
मुखे सत्या वाणी विजयि भुजयोर्वीर्यं अतुलं ।
हृदि स्वच्छा वृत्तिः श्रुतिं अधिगतं च श्रवणयोर्
विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनं इदं । । ६५ । ।
सम्पत्सु महतां चित्तं भवत्युत्पलक्ॐअलं ।
आपत्सु च महाशैलशिला सङ्घातकर्कशं । । ६६ । ।
सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते । । ६७ । ।
प्रीणाति यः सुचरितैः पितरं स पुत्रो
यद्भर्तुरेव हितं इच्छति तत्कलत्रं ।
तन्मित्रं आपदि सुखे च समक्रियं यद्
एतत्त्रयं जगति पुण्यकृतो लभन्ते । । ६८ । ।
एको देवः केशवो वा शिवो वा ह्येकं मित्रं भूपतिर्वा यतिर्वा ।
एको वासः पत्तने वा वने वा ह्येका भार्या सुन्दरी वा दरी वा । । ६९ । ।
सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः । । ७० । ।
भवन्ति नम्रास्तरवः फलोद्गमैर् नवाम्बुभिर्दूरावलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एष परोपकारिणां । । ७१ । ।
श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन ।
आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणं इदं प्रवदन्ति सन्तः । । ७३ । ।
पद्माकरं दिनकरो विकचीकरोति चम्द्र्प्वोलासयति कैरवचक्रवालं ।
नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहिते विहिताभियोगाः । । ७४ । ।
एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यजन्ति ये
सामान्यास्तु परार्थं उद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे । । ७५ । ।
क्षीरेणात्मगतोदकाय हि गुणा दत्ता पुरा तेऽखिला
क्षीरोत्तापं अवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः ।
गन्तुं पावकं उन्मनस्तदभवद्दृष्ट्वा तु मित्रापदं
युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी । । ७६ । ।
इतः स्वपिति केशवः कुलं इतस्तदीयद्विषाम्
इतश्च शरणार्थिनां शिखरिणां गणाः शेरते ।
अहो विततं ऊर्जितं भरसहं सिन्धोर्वपुः । । ७७ । ।
तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः
सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनं ।
कीर्तिं पालय दुःखिते कुरु दयां एतत्सतां चेष्टितं । । ७८ । ।
मनसि वचसि काये पुण्यपीयूषपूर्णास् त्रिभुवनं उपकारश्रेणिभिः प्रीणयन्तः ।
परगुणपरमाणून्पर्वतीकृत्य नित्यं निजहृदि विकसन्तः सन्त सन्तः कियन्तः । । ७९ । ।
किं तेन हेमगिरिणा रजताद्रिणा वा यत्राश्रिताश्च तरवस्तरवस्त एव ।
मन्यामहे मलयं एव यद्आश्रयेण कङ्कोलनिम्बकटुजा अपि चन्दनाः स्युः । । ८० । ।
रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिं ।
सुधां विना न परयुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः । । ८१ । ।
क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः ।
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखं । । ८२ । ।
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो
ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।
सर्वेषां अपि सर्वकारणं इदं शीलं परं भूषणं । । ८३ । ।
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्ठं ।
अद्यैव वा मरणं अस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः । । ८४ । ।
कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरं असौ तेनैव यातः यथा
लोकाः पश्यत दैवं एव हि नृणां वृद्धौ क्षये कारणं । । ८५ । ।
आलस्यं हि मनुष्याणां शरीरस्थो महान्रिपुः ।
नास्त्युद्यमसमो बन्धुः कुर्वाणो नावसीदति । । ८६ । ।
छिन्नोऽपि रोहति तर्क्षीणोऽप्युपचीयते पुनश्चन्द्रः ।
इति विमृशन्तः सन्तः सन्तप्यन्ते न दुःखेषु । । ८७ । ।
नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः
स्वर्गो दुर्गं अनुग्रहः किल हरेरैरावतो वारणः ।
तद्व्यक्तं ननु दैवं एव शरणं धिग्धिग्वृथा पौरुषं । । ८८ । ।
कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी ।
तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता । । ८९ । ।
खल्वाटो दिवसेश्वरस्य किरणैः सन्ताडितो मस्तके
वाञ्छन्देशं अनातपं विधिवशात्तालस्य मूलं गतः ।
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः । । ९० । ।
मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः । । ९१ । ।
सृजति तावदशेषगुणकरं पुरुषरत्नं अलङ्करणं भुवः ।
तदपि तत्क्षणभङ्गि करोति चेदहह कष्टं अपण्डितता विधेः । । ९२ । ।
पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम्
नोलूकोऽप्यवओकते यदि दिवा सूर्यस्य किं दूषणं ।
धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम्
यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः । । ९३ । ।
फलं कर्मायत्तं यदि किं अमरैः किं च विधिना
नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति । । ९४ । ।
विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः
सूर्यो भ्राम्यति नित्यं एव गगने तस्मै नमः कर्मणे । । ९५ । ।
नैवाकृतिः फलति नैवा कुलं न शीलं विद्यापि नैव न च यत्नकृतापि सेवा ।
भाग्यानि पूर्वतपसा खलु सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः । । ९६ । ।
सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि । । ९७ । ।
या साधूंश्च खलान्करोति विदुषो मूर्खान्हितान्द्वेषिणः
प्रत्यक्षं कुरुते परीक्षं अमृतं हालाहलं तत्क्षणात् ।
तां आराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं
हे साधो व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा मा कृथाः । । ९८ । ।
गुणवदगुणवद्वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन ।
अतिरभसकृतानां कर्मणां आविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः । । ९९ । ।
सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधां अर्कमूलस्य हेतोः ।
कृत्वा कर्पूरखण्डान्वृत्तिं इह कुरुते कोद्रवाणां समन्तात्
प्राप्येमां कर्म्भूमिं न चरति मनुजो यस्तोप मन्दभाग्यः । । १०० । ।
मज्जत्वम्भसि यातु मेरुशिखरं शत्रुं जयत्वाहवे
वाणिज्यं कृषिसेवने च सकला विद्याः कलाः शिक्षतां ।
आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं
नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः । । १०१ । ।
भीमं वनं भवति तस्य पुरं प्रधानं
सर्वो जनः स्वजनतां उपयाति तस्य ।
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य । । १०२ । ।
को लाभो गुणिसङ्गमः किं असुखं प्राज्ञेतरैः सङ्गतिः
का हानिः समयच्युतिर्निपुणता का धर्मतत्त्वे रतिः ।
कः शूरो विजितेन्द्रियः प्रियतमा काऽनुव्रता किं धनं
विद्या किं सुखं अप्रवासगमनं राज्यं किं आज्ञाफलं । । १०३ । ।
परपरिवादनिवृत्तैः क्वचित्क्वचिन्मण्डिता वसुधा । । १०४ । ।
कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टुं ।
अध्ॐउखस्यापि कृतस्य वह्नेर्नाधः शिखा याति कदाचिदेव । । १०५ । ।
चित्तं न निर्दहति किपकृशानुतापः ।
लोकत्रयं जयति कृत्स्नं इदं स धीरः । । १०६ । ।
एकेनापि हि शूरेण पादाक्रान्तं महीतलं ।
क्रियते भास्करेणैव स्फारस्फुरिततेजसा । । १०७ । ।
वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान्
मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।
यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति । । १०८ । ।
सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञां । । १०९ । ।
<DOC_END>
<DOC_START>
श्वेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः । । १ । ।
भ्रान्तं देशं अनेकदुर्गविषमं प्राप्तं न किञ्चित्फलं
त्यक्त्वा जातिकुलाभिमानं उचितं सेवा कृता निष्फला ।
तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि । । २ । ।
उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो
निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तोषिताः ।
मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः
प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव । । ३ । ।
खलालापाः सौढाः कथं अपि तद्आराधनपरैर्निगृह्यान्तर्
बाष्पं हसितं अपि शून्येन मनसा ।
त्वं आशे मोघाशे किम अपरं अतो नर्तयसि मां । । ४ । ।
कृतं मावव्रीडैर्निजगुणकथापातकं अपि । । ५ । ।
क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः
सोढो दुःसहशीततापपवनक्लेशो न तप्तं तपः ।
ध्यातं वित्तं अहर्निशं नित्यमितप्राणैर्न शम्भोः पदं
तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः । । ६ । ।
भोगा न भुक्ता वयं एव भुक्तास्
तपो न तप्तं वयं एव तप्ताः ।
कालो न यातो वयं एव यातास्तृष्णा
न जीर्णा वयं एव जीर्णाः । । ७ । ।
बलिभिर्मुखं आक्रान्तं पलितेनाङ्कितं शिरः ।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते । । ८ । ।
विवेकव्याकोशे विदधति समे शाम्यति तृषा
परिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणता ।
यस्यां भवति मरुतां अप्यधिपतिः । । ८*१ । ।
समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः ।
तस्याः परगता विशुद्धं अलसो नन्दन्ति योगीश्वराः । । १० । ।
न संसारोत्पन्नं चरितं अनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः ।
महान्तो जायन्ते व्यसनं इव दातुं विषयिणां । । ११ । ।
वियोगे को भेदस्त्यजति न जनो यत्स्वयं अमून् ।
स्वयं त्यक्ता ह्येते शमसुखं अनन्तं विदधति । । १२ । ।
सम्प्रातान्न पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययान्
वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयं । । १३ । ।
धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायतामानन्दाश्रु
जलं पिबन्ति शकुना निःशङ्कं अङ्केशयाः ।
काननकेलिकौतुकजुषां आयुः परं क्षीयते । । १४ । ।
शय्या च भूः परिजनो निजदेहमात्रं ।
हा हा तथापि विषया न परित्यजन्ति । । १५ । ।
मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितं ।
मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरुकृतं । । १६ । ।
एको रागिषु राजते प्रियतमादेहार्धहारी हरो
नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः ।
शेषः कामविडम्बितान्न विषयान्भोक्तुं न मोक्तुं क्षमः । । १७ । ।
स मीनोऽप्यज्ञानाद्बडिशयुतं अश्नातु पिशितं ।
न मुञ्चामः कानां अहह गहनो मोहमहिमा । । १८ । ।
तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं
क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितं ।
प्रदीप्ते कामाग्नौ सुदृढतरं आलिङ्गति वधूं
प्रतीकारं व्याधः सुखं इति विपर्यस्यति जनः । । १९ । ।
तुङ्गं वेश्म सुताः सतां अभिमताः सङ्ख्यातिगाः सम्पदः
कल्याणी दयिता वयश्च नवं इत्यज्ञानमूढो जनः ।
मत्वा विश्वं अनश्वरं निविशते संसारकारागृहे
संदृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु सन्न्यस्यति । । २० । ।
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् । । २१ । ।
जठरपिठरी दुस्पुरेयं करोति विडम्बनं । । २२ । ।
पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपालिं
द्वारं द्वारं प्रविष्टो वरं उदरदरीपूरणाय क्षुधार्तो
मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येसु दीनः । । २३ । ।
स्थानानि किं हिमवतः प्रलयं गतानि
यत्सावमानपरपिण्डरता मनुष्याः । । २४ । ।
किं कन्दाः कन्दरेभ्यः प्रलयं उपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरसगलभृतो वल्कलिन्यश्च शाखाः ।
वीक्ष्यन्ते यन्मुखानि प्रसभं अपगतप्रश्रयाणां खलानां
दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानि । । २५ । ।
भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनं ।
वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते । । २६ । ।
फलं स्वेच्छालभ्यं प्रतिवनं अखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरितां ।
सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः । । २७ । ।
ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः ।
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः । । २८ । ।
ये सन्तोषनिरन्तरप्रमुदितस्तेषां न भिन्ना मुदो
ये त्वन्ये धनलुब्धसङ्कलधियस्तेसां न तृष्णाहता ।
इत्थं कस्य कृते कुतः स विधिना कीदृक्पदं सम्पदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते । । २९ । ।
भिक्षाहारं अदैन्यं अप्रतिसुखं भीतिच्छिदं सर्वतो
शम्भोः सत्रं अवायं अक्षयनिधिं शंसन्ति योगीश्वराः । । ३० । ।
भोगे रोगमयं कुले च्युतिभयं वित्ते नृपालाद्भयं
माने धैन्यभयं बले रिपुभयं रूपे जराय भयं ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं
सर्वं वस्तु भयान्वितं भुवि न्éणां वैराग्यं एवाभयं । । ३१ । ।
आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं
सन्तोषो धनलिप्सया शममुखं प्रौढाङ्गनाविभ्रमैः ।
अस्थैर्येण विभूतयोऽप्यपहता ग्रस्तं न किं केन वा । । ३२ । ।
लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः ।
जातं जातं अवश्यं आशु विवशं मृत्युः करोत्यात्मसात्
तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरं । । ३३ । ।
स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः प्रियासु स्थिता ।
तत्संसारं असारं एव निखिलं बुद्ध्वा बुधा बोधका
लोकानुग्रहपेशलेन मनसा यत्नः समाधीयतां । । ३४ । ।
योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः । । ३५ । ।
अर्थाः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः ।
कण्ठाश्लेषोपगूढ तदपि च न चिरं यत्प्रियाभः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवमयाम्भोधिपारं तरीतुं । । ३६ । ।
संसारे रे मनुष्या वदत यदि सुखं स्वल्पं अप्यस्ति किञ्चिथ् । । ३७ । ।
रोगाश्च शत्रव इव प्रहरन्ति देहं ।
लोकस्तथाप्यहितं आचरतीति चित्रं । । ३८ । ।
भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवस्तत्
कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टतैः ।
कामोत्पत्तिवशात्स्वधामनि यदि श्रद्देयं अस्मद्वचः । । ३९ । ।
नयन्ते ये रात्रिं सुकृतचयचिन्तैकशरणाः । । ३९*१ । ।
भोगः कोऽपि स एव एक परमो नित्योदितो जृम्भते
भोः साधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः । । ४० । ।
सा रम्या नगरी महान्स नृपतिः सामन्तचक्रं च तत्
पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।
उद्वृत्तः स राजपुत्रनिवहस्ते वन्दिनस्ताः कथाः
सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः । । ४१ । ।
यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको
यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते ।
कालः कल्यो भुवनफलके क्रडति प्राणिशारैः । । ४२ । ।
व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते ।
पीत्वा मोहमयीं प्रमादमदिरां उन्मत्तभूतं जगथ् । । ४३ । ।
रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो
संसारेण कदर्थिता वयं अहो मोहान्न लज्जामहे । । ४४ । ।
न ध्यानं पदं ईश्वरस्य विधिवत्संसारविच्छित्तये
मातुः केवलं एव यौवनवनच्छेदे कुठारा वयं । । ४५ । ।
खड्गाग्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ।
तारुण्यं गतं एव निष्फलं अहो शून्यालये दीपवथ् । । ४६ । ।
विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं
शुश्रूषापि समाहितेन मनसा पित्रोर्न सम्पादिता ।
कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेर्यते । । ४७ । ।
वयं येभ्यो जाताश्चिरपरिगता एव खलु ते
समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः ।
इदानीं एते स्मः प्रतिदिवसं आसन्नपतना
गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः । । ४८ । ।
आयुर्वर्षशतं न्éणां परिमितं रात्रौ तद्अर्धं गतं
तस्यार्धस्य परस्य चार्धं अपरं बालत्ववृद्धत्वयोः ।
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनां । । ४९ । ।
क्षणं बालो भूत्वा क्षणं पै युवा कामरसिकः
क्षणं वित्तैर्हीनः क्षणं अपि च सम्पूर्णविभवः ।
नरः संसारान्ते विशति यमधानीयवनिकां । । ५० । ।
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।
यद्यस्मासु पराङ्मुखोऽसि वयं अप्येकान्ततो निःस्पृहा । । ५१ । ।
अर्थानां ईशिषे त्वं वयं अपि च गिरां ईश्महे यावदर्थं
शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः ।
सेवन्ते त्वां धनाढ्या मतिमलहतयेमां अपि श्रोतुकामामय्य्
अप्यास्था न ते चेत्त्वयि मम नितरां एव राजन्ननास्था । । ५२ । ।
वयं इह परितुष्टा वल्कलैस्त्वं दुकूलैः
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः । । ५३ । ।
फलं अलं अशनाय स्वादु पानाय तोयं
क्षितिरपि शयनार्थं वाससे वल्कलं च ।
अनुमन्तुं नोत्सहे दुर्जनानां । । ५४ । ।
अश्नीमहि वयं भिक्षां आशावासो वसीमहि ।
शयीमहि महीपृष्ठे कुर्वीमहि किं ईश्वरैः । । ५५ । ।
न नटा ना विटा न गायका न च सभ्येतरवादचुञ्चवः ।
नृपं ईक्षितुं अत्र के वयं स्तनभारानमिता न योषितः । । ५६ । ।
विधृतं अपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।
कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः । । ५७ । ।
अभुक्तायां यस्यां क्षणं अपि न यातं नृपशतैर्
धुवस्तस्या लाभे क इव बहुमानः क्षितिभृतां ।
विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदं । । ५८ । ।
मृत्पिण्डो जलरेखया बलयतिः सर्वोऽप्ययं नन्वणुः
स्वांशीकृत्य स एव सङ्गरशतै राज्ञां गणा भुञ्जते ।
ये दद्युर्ददतोऽथवा किं अपरं क्षुद्रा दरिद्रं भृशं
धिग्धिक्तान्पुरुषाधमान्धनकणान्वाञ्छन्ति तेभ्योऽपि ये । । ५९ । ।
स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं
नमद्भिः कः पुंसां अयं अतुलदर्पज्वरभरः । । ६० । ।
परेषां चेतांसि प्रतिदिवसं आराध्य बहुधा
प्रसादं किं नेतुं विशसि हृदय क्लेशकलितं ।
विविक्तः सङ्कल्पः किं अभिलषितं पुष्यति न ते । । ६१ । ।
सद्वृत्तिं कल्पयन्त्यां बटविटपभवैर्वल्कलैः सत्फलैश्च ।
वक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात्स्वे कुटुम्बेऽनुकम्पां । । ६१*१ । ।
परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां
स्वयं भवति यद्यथा भवति तत्तथा नान्यथा ।
समागमानुभवामि भोगनाहं । । ६२ । ।
स्वात्मीभावं उपैहि सन्त्यज निजां कल्लोललोलं गतिं
मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना । । ६३ । ।
मोहं मार्जय तां उपार्जय रतिं चन्द्रार्धचूडामणौ
चेतः स्वर्गतरङ्गिणीतटभुवां आसङ्गं अङ्गीकुरु ।
को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च
ज्वालाग्रेषु च पन्नगेषु सरिद्वेगेषु च चप्रत्ययः । । ६४ । ।
चेतश्चिन्तय मा रमां सकृदिमां अस्थायिनीं आस्थया
पङ्क्तिषु पाणिपात्रपतितां भिक्षां अपेक्षामहे । । ६५ । ।
नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ । । ६६ । ।
न्यस्तं पदं शिरसि विद्विषतां ततः किं ।
कल्पं स्थितास्तनुभृतां तनवस्ततः किं । । ६७ । ।
स्नेहो न बन्धुषु न मन्मथजा विकाराः ।
वैराग्यं अस्ति किं इतः परमर्थनीयं । । ६८ । ।
तद्ब्रह्म चिन्तय किं एभिरसद्विकल्पैः ।
कृपणलोकमता भवन्ति । । ६९ । ।
दिङ्मण्डलं भ्रमसि मानस चापलेन ।
भ्रान्त्यापि जातु विमलं कथं आत्मनीनं
न ब्रह्म संसरसि विर्वृतिमं एषि येन । । ७० । ।
किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः
स्वात्मानन्दपदप्रवेशकलनं शेसैर्वाणिग्वृत्तिभिः । । ७१ । ।
नायं ते समयो रहस्यं अधुना निद्राति नाथो यदि
स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः ।
चेतस्तानपहाय याहि भवनं देवस्य विश्वेशितुर्
निर्दौवारिकनिर्दयोक्त्य्अपरुषं निःस्ॐअशर्मप्रदं । । ७१*१ । ।
शरीरे का वार्ता करिकलभकर्णाग्रचपले । । ७२ । ।
गात्रं सङ्कुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिर्
दृष्टिर्नक्ष्यति वर्धते वधिरता वक्त्रं च लालायते ।
वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते । । ७३ । ।
वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां
स्थानं जरापरिभवस्य तदा पुमांसं ।
चण्डालकूपं इव दूरतरं तरुण्यः । । ७४ । ।
यावत्स्वस्थं इदं शरीरं अरुजं यावच्च दूरे जरा
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः । । ७५ । ।
तपस्यन्तः सन्तः किं अधिनिवसामः सुरनदीं
न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने । । ७६ । ।
वयं तु स्थूलेच्छाः सुमहति फले बद्धमनसः ।
जरा देहं मृत्युर्हरति दयितं जीवितं इदं
सखे नान्यच्छ्रेयो जगति विदुषेऽन्यत्र तपसः । । ७७ । ।
युक्तं केवलं एतदेव सुधियां यज्जह्नुकन्यापयःपूताग्राव
गिरीन्द्रकन्दरतटीकुञ्जे निवासः क्वचिथ् । । ७८ । ।
रम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः ।
सर्वं रम्यं अनित्यतां उपगते चित्ते न किञ्चित्पुनः । । ७९ । ।
रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं
किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।
चञ्चलं आकलय्य सकलं सन्तो वनान्तं गताः । । ८० । ।
आ संसारात्त्रिभुवनं इदं चिन्वतां तात्तादृङ्नैवास्माकं
नयनपदवीं श्रोत्रमार्गं गतो वा ।
करणकरिणः संयमालानलीलां । । ८१ । ।
सहार्यैः संवासः श्रुतं उपशमैकव्रतफलं ।
मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन्न
जाने कस्यैषा परिणतिरुदारस्य तपसः । । ८२ । ।
जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं
हन्ताङ्गेषु गुणाश्बन्ध्यफलतां याता गुणज्ञैर्विना ।
किं युक्तं सहसाभ्युपैति बलवान्कालः कृतान्तोऽक्षमी
हा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्यो गतिः । । ८३ । ।
तथापि भक्तिस्तरुणेन्दुशेखरे । । ८४ । ।
सुखासीनाः शान्तध्वन्तिसु रजनीषु द्युसरितः ।
कदा यास्यामोऽतर्गतबहुलबाष्पाकुलदशां । । ८५ । ।
महादेवो देवः सरिदपि च सैषा सुरसरिद्गुहा
एवागारं वसनं अपि ता एव हरितः ।
सुहृदा कालोऽयं व्रतं इदं अदैन्यव्रतं इदं
कियद्वा वक्ष्यामो वटविटप एवास्तु दयिता । । ८५*१ । ।
स्मरन्तः संसारे विगुणपरिणामां विधिगतिं ।
त्रियामा नेस्यामो हरचरणचिन्तैकशरणाः । । ८६ । ।
वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटं ।
प्रसीदेत्याक्रोशन्निमिषं इव नेष्यामि दिवसान् । । ८७ । ।
कौपीनावरणं सुवस्त्रं अमितं भिक्षाटनं मण्डनं ।
आसन्नं मरणं च मङ्गलसमं यस्यां समुत्पद्यते
तां काशीं परिहृत्य हन्त विबुधैरन्यत्र किं स्थीयते । । ८७ १ । ।
स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वा
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले ।
दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थं । । ८८ । ।
एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।
कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः । । ८९ । ।
पाणिं पात्रयतां निसर्गशुचिना भैक्षेण सन्तुष्यतां
यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यतां ।
मध्वा कोऽपि शिवप्रसादसुलभः सम्पत्स्यते योगिनां । । ९० । ।
नैश्चिन्त्यं निरपेक्षभैक्ष्यं अशनं निद्रा श्मशाने वने ।
स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा
स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किं । । ९१ । ।
ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः ।
शफरीस्फुर्तेनाब्धिः क्षुब्धो न खलु जायते । । ९२ । ।
मातर्लक्ष्मि भजस्व कञ्चिदपरं मत्काङ्क्षिणी मा स्म भूर्
भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणां असि ।
भिक्षावस्तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे । । ९३ । ।
महाशय्या पृथ्वी विपुलं उपधानं भुजलतां
वितानं चाकाशं व्यजनं अनुकूलोऽयं अनिलः ।
सुखी शान्तः शेते मुनिरतनुभूतिर्नृप इव । । ९४ । ।
निर्मानो निरहङ्कृतिः शमसुखाभोगैकबद्धस्पृहः । । ९५ । ।
चण्डालः किं अयं द्विजातिरथवा शूद्रोऽथ किं तापसः
किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किं ।
न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः । । ९६ । ।
हिंसाशून्यं अयत्नलभ्यं अशनं धात्रा मरुत्कल्पितं
संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां
तां अन्वेषयतां प्रयान्ति सततं सर्वं समाप्तिं गुणाः । । ९७ । ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः
कण्डूयन्ते जरठहरिणाः स्वाङ्गं अङ्गे मदीये । । ९८ । ।
जीर्णाः कन्था ततः किं सितं अमलपटं पट्टसूत्रं ततः किं
एका भार्या ततः किं हयकरिसुगणैरावृतो वा ततः किं ।
भक्तं भुक्तं ततः किं कदशनं अथवा वासरान्ते ततः किं
व्यक्तज्योतिर्न वान्तर्मथितभवभयं वैभवं वा ततः किं । । ९९ । ।
पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यं अक्षय्यं अन्नं
विस्तीर्णं वस्त्रं आशादशकं अचपलं तल्पं अस्वल्पं उर्वीं ।
धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति । । १०० । ।
तल्लब्ध्वासनवस्त्रमानघटने भोगे रतिं मा कृथाः ।
भोगः कोऽपि स एक एव परमो नित्योदिता जृम्भने
यत्स्वादाद्विरसा भवन्ति विसयास्त्रैलोक्यराज्यादयः । । १०१ । ।
भ्रातर्व्य्ॐअ निबद्ध एष भवतां अन्त्यः प्रणामाञ्जलिः ।
समस्तमोहमहिमा लीने परब्रह्मणि । । १०२ । ।
शय्या शैलशिलागृहं गिरिगुहा वस्त्रं तरुणां त्वचः
सारङ्गाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः क्ॐअलैः ।
येसां निर्झरं अम्बुपानं उचितं रत्यै तु विद्याङ्गना
मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवाञ्जलिः । । १०३ । ।
धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी
सत्यं मित्रं इदं दया च भगिनी भ्राता मनःसंयमः ।
शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनं
ह्येते यस्य कुटुम्बिनो वद सखे कस्माद्भयं योगिनः । । १०४ । ।
अहो वा हारे वा बलवति रिपौ वा सुहृदि वा
मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः
क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः । । १०५ । ।
<DOC_END>
<DOC_START>
शम्भुस्वयम्भुहरयो हरिणेक्षणानां येनाक्रियन्त सततं गृहकुम्भदासाः ।
वाचां अगोचरचरित्रविचित्रिताय तस्मै नमो भगवते मकरध्वजाय । । १ । ।
स्मितेन भावेन च लज्जया भिया
समस्तभावैः खलु बन्धनं स्त्रियः । । २ । ।
स्निग्धा वाचो लज्जितान्ताश्च हासाः ।
लीलामन्दं प्रस्थितं च स्थितं च
स्त्रीणां एतद्भूषणं चायुधं च । । ३ । ।
क्वचिद्भूरित्रस्तैः क्वचिदपि च लीलाविललितैः ।
स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः । । ४ । ।
वर्णः स्वर्णं अपाकरिष्णुरलिनीजिष्णुः कचानां चयः ।
वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मण्डनं । । ५ । ।
स्पृशन्त्यास्तारुण्यं किं इव न हि रम्यं मृगदृशः । । ६ । ।
द्रष्टव्येषु किं उत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घ्रातवेष्वपि किं तद्आस्यपवनः श्रव्येषु किं तद्वचः ।
किं स्वाद्येषु तद्ओष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्ध्येयं
किं नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः । । ७ । ।
कुर्वन्ति कस्य न मनो विवशं तरुण्यो वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः । । ८ । ।
नूपुरहंसरणत्पद्मा कं न वशीकुरुते भुवि रामा । । ९ । ।
नूनं हि ते कविवरा विपरीतवाचो ये नित्यं आहुरबला इति कामिनीस्ताः ।
याभिर्विलोलितरतारकदृष्टिपातैः शक्रादयोऽपि विजितास्त्वबलाः कथं ताः । । १० । ।
नूनं आज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।
यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते । । ११ । ।
केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अन्तर्वक्त्रं अपि स्वभावशुचिभीः कीर्णं द्विजानां गणैः ।
तन्वि वपुः प्रशान्तं अपि तेरागं करोत्येव नः । । १२ । ।
मुग्धे धानुष्कता केयं अपूर्वा त्वयि दृश्यते ।
यया विध्यसि चेतांसि गुणैरेव न सायकैः । । १३ । ।
सति प्रदीपे सत्यग्नौ सत्सु तारारवीन्दुषु ।
विना मे मृगशावाक्ष्या तमोभूतं इदं जगथ् । । १४ । ।
उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितं ओष्ठपल्लवं इदं कुर्वन्तु नाम व्यथां ।
मध्यस्थापि करोति तापं अधिकं र्ॐआवलिः केन सा । । १५ । ।
मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा । । १६ । ।
गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा । । १७ । ।
वक्त्रं च चारु तव चित्त किं आकुलत्वं ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना न हि भवन्ति समीहितार्थाः । । १८ । ।
विलासव्यापाराः किं अपि विजयन्ते मृगदृशां । । १९ । ।
रहसि किं अपि स्वैरालापा हरन्ति मृगीदृशां । । २० । ।
विश्रम्य विश्रम्य वनद्रुमाणां छायासु तन्वी विचचार काचित् ।
स्तनोत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् । । २१ । ।
अदर्शने दर्शनमात्रकामा दृष्ट्वा परिष्वङ्गसुखैकलोला ।
आलिङ्गितायां पुनरायताक्ष्यामाशास्महे विग्रहयोरभेदं । । २२ । ।
मालती शिरसि जृम्भणं मुखे चन्दनं वपुषि कुङ्कुमाविलं ।
वक्षसि प्रियतमा मदालसा स्वर्ग एष परिशिष्ट आगमः । । २३ । ।
प्राङ्मां एति मनागनागतरसं जाताभिलाषां ततः
सव्रीडं तदनु श्लथोद्यमं अथ प्रध्वस्तधैर्यं पुनः ।
निःसङ्गाङ्गविकर्षणाधिकसुखरम्यं कुलस्त्रीरतं । । २४ । ।
मधु वधूनां भाग्यवन्तः पिबन्ति । । २५ । ।
आमीलितनयनानां यः सुरतरसोऽनु संविदं भाति ।
मिथुरैर्मिथोऽवधारितमवितथम् इदं एव कामनिर्बर्हणं । । २६ । ।
इदं अनुचितं अक्रमश्च पुंसां यदिह जरास्वपि मन्मथा विकाराः ।
तदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा । । २७ । ।
राजस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं
को वार्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।
रूपं झटिति न जरया लुप्यते प्रेयसीनां । । २८ । ।
लोकेऽस्मिन्न ह्यर्थव्रजकुलभवनयौवनादन्यदस्ति । । २९ । ।
धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने । । ३० । ।
व्यस्तधैर्यं कथं अमलधियो मानसं संविदध्युः ।
प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः । । ३१ । ।
गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो
यद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः । । ३२ । ।
संसार तव पर्यन्तपदवी न दवीयसी ।
अन्तरा दुस्तरा न स्युर्यदि ते मदिरेक्षणां । । ३३ । ।
अरुणनखाग्रैः पाटितं वा वधूभ्यः । । ३४ । ।
असाराः सर्वे ते विरतिविरसाः पापविषया
जुगुप्स्यन्तां यद्वा ननु सकलदोषास्पदं इति ।
न चास्मिन्संसारे कुवलयदृशो रम्यं अपरं । । ३५ । ।
अन्यचित्तकृते कामे शवयोरिव सङ्गमः । । ३५*१ । ।
मात्सर्यं उत्सार्य विचार्य कार्यमार्याःसमर्यादं इदं वदन्तु ।
सेव्या नितम्बाः किं उ भूधराणामत स्मरस्मेरविलासिनीनां । । ३६ । ।
संसारे स्वप्नसारे परिणतितरले द्वे गती पण्डितानां
तत्त्वज्ञानामृताम्भःप्लवललितधियां यातु कालः कथञ्चित् ।
स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानां । । ३७ । ।
आवासः क्रियतां गङ्गे पापहारिणि वारिणि ।
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि । । ३८ । ।
इह पुरुषाणां सर्वदा सेवनीयं ।
स्तनभरपरिखिन्नं यौवनं वा वनं वा । । ३९ । ।
सत्यं जना वच्मि न पक्षपाताल्लोकेषु सप्तस्वपि तथ्यं एतत् ।
नान्यन्मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्न च कश्चिदन्यः । । ४० । ।
दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रियं अहो मोहस्य दुश्चेष्टितं । । ४१ । ।
स्मृता भवति तापाय दृष्टा चोन्मादकारिणी ।
स्पृष्टा भवति मोहाय सा नाम दयिता कथं । । ४२ । ।
चक्षुष्पथादतीता तु विषादप्यतिरिच्यते । । ४३ । ।
नामृतं न विषं किञ्चिदेतां मुक्त्वा नितम्बिनीं ।
सैवामृतलता रक्ता विरक्ता विषवल्लरी । । ४४ । ।
आवर्तः संशयानां अविनयभुवनं पट्टणं साहसानां
दोषाणां सन्निधानं कपटशतमयं क्षेत्रं अप्रत्ययानां ।
स्त्रीयन्त्रं केन सृष्टं विषं अमृतमयं प्राणिलोकस्य पाशः । । ४५ । ।
नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवरद्वन्द्वं
लोचनतां गत न कनकैरप्यङ्गयष्टिः कृता ।
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते । । ४६ । ।
एव मूढस्य हृदि स्फुरन्ति ।
भ्रम्त्येव वृथा षड्अङ्घ्रिः । । ४७ । ।
एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वामनयना न समाचरन्ति । । ४७*१ । ।
मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधरमधु ।
इदं तत्किं पाकद्रुमफलं इदानीं अतिरसव्यतीतेऽस्मिन्
काले विषं इव भविष्य्त्यसुखदं । । ४८ । ।
कान्ताकारधरा नदीयं अभितः क्रूरात्र नापेक्षते
संसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यतां । । ४९ । ।
जल्पन्ति सार्धं अन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषितां । । ५० । ।
मधु तिष्ठति वाचि योषितां हृदि हालाहलं एव केवलं ।
अतएव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते । । ५१ । ।
वनिताभोगिग्रस्तं हि मन्त्रिणः । । ५२ । ।
विस्तारितं मकरकेतनधीवरेण स्त्रीसंज्ञितं बडिशं अत्र भवाम्बुराशौ ।
येनाचिरात्तद्अधरामिषलोलमर्त्य मत्स्यान्विकृष्य विपचत्यनुरागवह्नौ । । ५३ । ।
मा संचर मनः पान्थ तत्रास्ते स्मरतस्करः । । ५४ । ।
व्यादीर्घेण चलेन वक्त्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिनाहिना परं अहं दृष्टो न तच्चक्षुषा ।
दृष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण दर्मार्थिनो
मुग्धाक्ष्क्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधं । । ५५ । ।
इह हि मधुरगीतं नृत्यं एतद्रसोऽयं
स्फुरति परिमलोऽसौ स्पर्श एष स्तनानां ।
स्वहितकरणधूर्तैः पञ्चभिर्वञ्चितोऽस्मि । । ५६ । ।
न गम्यो मन्त्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ।
भ्रमावेशादङ्गे कं अपि विदधद्भङ्गं असकृत्
स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च । । ५७ । ।
जात्य्अन्धाय च दुर्मुखाय च जराजीर्णा खिलाङ्गाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु राज्येत कः । । ५८ । ।
कामिभिर्यत्र हूयन्ते यौवनानि धनानि च । । ५९ । ।
कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञं अपि ।
चारभटचोरचेटकनटविटनिष्ठीवनशरावं । । ६० । ।
धन्यास्त एव धवलायतलोचनानां तारुण्यदर्पघनपीनपयोधराणां ।
क्षामोदरोपरि लसत्त्रिवलीलतानां दृष्ट्वाकृतिं विकृतिं एति मनो न येषां । । ६१ । ।
बाले लीलामुकुलितं अमी मन्थरा दृष्टिपाताः
किं क्षिप्यन्ते विरमविरम व्यर्थ एष श्रमस्ते ।
सम्प्रत्यन्ये वयं उपरतं बाल्यं आस्था वनान्ते
क्षीणो मोहस्तृणं इव जगज्जालं आलोकयामः । । ६२ । ।
इयं बाला मां प्रत्यनवरतं इन्दीवरदलप्रभा
चीरं चक्षुः क्षिपति किं अभिप्रेतं अनया ।
ज्वाला शान्ता तदपि न वराकी विरमति । । ६३ । ।
किं कन्दर्प करं कदर्थयसि रे कोदण्डटङ्कारितं
रे रे कोकिल क्ॐअलं कलरवं किं वा वृथा जल्पसि ।
चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते । । ६४ । ।
विरहेऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषां ।
हृदयं अपि विघट्टितं चेत् सङ्गी विरहं विशेषयति । । ६५ । ।
किं गतेन यदि सा न जीवति प्राणिति प्रियतमा तथापि किं ।
इत्युदीक्ष्य नवमेघमालिकां न प्रयाति पथिकः स्वमन्दिरं । । ६६ । ।
न खलु नरके हाराक्रान्तं घनस्तनमण्डलं
शरणं अथवा श्रोणीबिम्बं रणन्मणिमेखलं । । ६७ । ।
मैत्री स्फुरति कृतिनस्तस्य किं उ तैः ।
सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः । । ६८ । ।
तदा दृष्टनारीमयं इदं अशेषं जगदिति ।
समीभूता दृष्टिस्त्रिभुवनं अपि ब्रह्म मनुते । । ६९ । ।
तावदेव कृतिनां अपि स्फुरत्येष निर्मलविवेकदीपकः ।
यावदेव न कुरङ्गचक्षुषां ताड्यते चटुललोचनाञ्चलैः । । ७० । ।
वचसि भवति सङ्गत्यागं उद्दिश्य वार्ता
कुवलयनयनानां को विहातुं समर्थः । । ७१ । ।
स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतीः ।
यस्मात्तपसोऽपि फलं स्वर्गः स्वर्गेऽपि चाप्सरसः । । ७२ । ।
किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य
कन्दर्पदर्पदलने विरला मनुष्याः । । ७३ । ।
सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां
लज्जां तावद्विधत्ते विनयं अपि समालम्बते तावदेव ।
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति । । ७४ । ।
तत्र प्रत्यूहं आधातुं ब्रह्मापि खलु कातरः । । ७५ । ।
तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता ।
यावज्ज्वलति नाङ्गेषु हतः पञ्चेषुपावकः । । ७६ । ।
संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनां ।
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव । । ७७ । ।
कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
शुनीं अन्वेति श्वा हतं अपि च हन्त्येव मदनः । । ७८ । ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे । । ७९ । ।
स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ।
शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवास्तेषाम्
इन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागरे । । ८० । ।
प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः । । ८१ । ।
मधुरयं मधुरैरपि कोकिला कलरवैर्मलयस्य च वायुभिः ।
विरहिणः प्रहिणस्ति शरीरिणो विपदि हन्त सुधापि विषायते । । ८२ । ।
कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ।
गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः
केषांचित्सुखयन्ति चात्र हृदयं चैत्रे विचित्राः क्षपाः । । ८३ । ।
वान्तिक्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः । । ८४ । ।
प्रथितः प्रणयवतीनां तावत्पदं आतनोतु हृदि मानः ।
भवति न यावच्चन्दनतरु सुरभिर्मलयपवमानः । । ८५ । ।
मधुरमधुरविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा । । ८६ । ।
धारागृहाणि कुसुमानि च क्ॐउदी च ।
ग्रीष्मे मदं च मदनं च विवर्धयन्ति । । ८७ । ।
परागः कासारो मलयजरजः शीधु विशदं ।
शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो
निदाघर्तावेतद्विलसति लभन्ते सुकृतिनः । । ८८ । ।
स्रजो हृद्यामोदास्तदिदं अखिलं रागिणि जने
करोत्यन्तः क्षोभं न तु विषयसंसर्गविमुखे । । ८९ । ।
उन्नतपीनपयोधरभारा प्रावृट्तनुते कस्य न हर्षं । । ९० । ।
सुखिनं असुखिनं वा सर्वं उत्कण्ठयन्ति । । ९१ । ।
उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः ।
क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व पातयति । । ९२ । ।
कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः । । ९३ । ।
प्राज्ञंमन्ये पतति पृषतानां च निचये ।
मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशां । । ९४ । ।
आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कम्पनिमित्तं आयतदृशा गाढं समालिङ्ग्यते ।
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासङ्गमे । । ९५ । ।
तृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।
ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मन्दपुण्यः । । ९६ । ।
ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते । । ९७ । ।
येषां नो कण्ठलग्ना क्षणं अपि तुहिनक्षोददक्षा मृगाक्षी
व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः । । ९९ । ।
प्रायः शैशिर एष सम्प्रति मरुत्कान्तासु कान्तायते । । १०० । ।
यद्यस्य नास्ति रुचिरं तस्मिंस्तस्य स्पृहा मनोज्ञेऽपि ।
रमणीयेऽपि सुधांशौ न मनःकामः सरोजिन्याः । । १०१ । ।
वैराग्ये संचरत्येको नीतौ भ्रमति चापरः ।
शृङ्गारे रमते कश्चिद्भुवि भेदाः परस्परं । । १०२ । ।
<DOC_END>
<DOC_START>
विशिष्टार्थगर्भितानां वाक्यानां प्रयोगे भारविः अत्यन्तं निपुणः हितं मनोहारि च दुर्लभं वचः सहसा विदधीत न क्रियाम्' इत्यादयः तस्य प्रयोगाः एतम् अभिप्रायं समर्थयन्ति भारवेः अर्थगौरवम्' इति उक्तिः अपि विमर्शकलोके प्रसिध्दा एकमेव महाकाव्यं लिखित्वा अपि भारविः स्वकवित्वेन, पाण्डित्येन,
वर्णनकौशलेन च कविप्रपञ्चे विशिष्टं स्थानं प्राप्तवान् |
<DOC_END>
<DOC_START>
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ मुण्डकोपनिषत् २-२-९
तस्मिन् परावरे आत्मनि विज्ञाते सति, हृदयस्य ग्रन्थिः भिद्यते,
सर्वसंशयाः छिद्यन्ते, अस्य सर्वकर्माणि क्षीयन्ते च ।
फलयुगोऽयम् । सर्वस्यापि कर्मणः किं फलम् प्रयोजनं किम्
इति पृच्छन्ति । तथैव आत्मज्ञानेन प्रयोजनं किम् इति चेत्,
त्रीणि फलानि भवन्ति इति श्रुतिः घोषयति । अयं परावरः कारणकार्यरूपः
आत्मा अहमेव इति ईदृशेन आत्मज्ञानेन त्रीणि फलानि भवन्ति ॥
हृदयस्य मनसः ग्रन्थिः भिद्यते । अविद्यानिमित्ताः ग्रन्थिवत् सुबद्धाः
कामाः सम्पूर्णतया नश्यन्ति । अनन्तरं न कोऽपि संशयः अस्य ज्ञानिनः
अवशिष्यते । आत्मानं निस्संशयं विदितवतः संशयाः विनिवर्तन्ते ।
तथा कर्मदाह एव तृतीयं फलम् । पुनर्जन्मनः कारणभूतानि कर्माणि
सर्वथा भस्मीक्रियन्ते । ज्ञातं वा ज्ञानस्य फलत्रयम्?
<DOC_END>
<DOC_START>
भिद्येते चासां नामरूपे, पुरूष इत्येवं प्रोच्यते, स एषोऽकलो अमृतो भवति । प्रश्नोपनिषत् ६-५
आसां कलानां नामरूपे भिद्येते, तदा पुरुष इत्येव प्रोच्यते । तदा पुरुषः अकलो भवति अमृतो भवति ॥
पुरुषादेव जाताः षोडश कलाः पुरुषे एव लीयन्ते । इदं दर्शयितुम् अत्र प्रश्नोपनिषदि दृष्टान्तः दीयते ।
यथा – गंगा यमुना गोदावरीप्रमुखाः नद्यः नानादिग्भ्यः प्रवहन्त्यः समुद्रं प्रविशन्त्यः समुद्रे एकीभूय अनन्तरं
समुद्रः इत्येव कथ्यन्ते, एवमेव आत्मनो जाताः सर्वा अपि कलाः अन्ते आत्मन्येव विलीयन्ते ॥
सर्वा अपि कलाः आत्मन एव जायन्ते इति अविद्यावस्थायामेव उपदिश्यते, परमार्थदृष्ट्या तु सर्वा अपि
कलाः आत्मैव भवन्ति । औपनिषदात्मज्ञानेन सर्वा अपि कलाः आत्मन्येव लीयन्ते । आत्मज्ञानादेव केवलात्
कलाकारणभूतं कलाश्रयभूतं निष्कलम् आत्मानं विवेकेन विज्ञाय नामरूपरहितं ब्रह्मैव प्राप्नोति साधकः ॥
<DOC_END>
<DOC_START>
भूतं भवद् भविष्यदिति सर्वमोङ्कार एव । माण्डूक्योपनिषत् १
भूतं, वर्तमानं, भविष्यत् इति सर्वम् ओङ्कार एव ।
कालदेशादिकं सर्वम् ओङ्कार एव । इयं माण्डूक्योपनिषत् ‘ओङ्कारः ब्रह्मैव’ इत्युपदिशति ।
न हि ओङ्कारो नाम केवलम् अकार उकार मकारात्मकं त्र्यक्षरं वर्णमात्रम् । किं तु परिपूर्णं
ब्रह्मैव ओङ्कारः । ओङ्कारस्य ब्रह्मणश्च अत्र अभेदः उपदिश्यते । ओङ्कार एव ब्रह्म, ब्रह्मैव च ओङ्कारः ॥
भूतं, भवत्, भविष्यत् इति कालत्रयम्; तत्र अत्र इति देशाः इमौ कालदेशावपि ब्रह्मणः एव जातौ ॥
यद्यपि देशकालौ सर्वप्रपञ्चव्यापकौ तथापि परं ब्रह्म न तौ स्पृशतः । त्रयः कालाः, सर्वे देशाः,
सर्वाणि वस्तूनि च ब्रह्मणो जातानि, ब्रह्मण्येव लीयन्ते इति परमेव ब्रह्म । अभिधानाभिधेय
विलक्षणः ओङ्कारः परब्रह्म । ओङ्कार एव ब्रह्म, ब्रह्मैव च ओङ्कारः । ओङ्कारो नाम देशकालनामरूपातीतं
परं ब्रह्मैव । अमात्रः, अवर्णः, अनक्षरः, अपादः ओङ्कारो ब्रह्मैव ॥
<DOC_END>
<DOC_START>
भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् । श्वेताश्वतरोपनिषत् १-१२
भोक्ता, भोग्यं, प्रेरिता च – इति एतत् त्रयमपि एतद् ब्रह्मैव इति जानन् एव ज्ञानी भवति ।
अद्वितीयमपि परं ब्रह्म नानानामरूपैः अवभासते । एक एव सन्नपि समुद्रः अनेकैः नामरूपैः अवभासते
खलु अयं मन्त्रः इमं विशालं प्रपञ्चं त्रेधा विभजते । भोक्ता, भोग्यं, प्रेरिता च इति हि त्रेधा विभागः ।
भोक्तारो जीवाः, भोग्यानि नाम भोगविषयाः पदार्थाः, प्रेरिता इति प्रेरकः ईश्वरः ॥
कर्तारो जीवाः इष्टानिष्टफलप्राप्त्यर्थम् अविद्यादोषेण कर्माणि कुर्वन्ति । अनन्तरं ते एव भोक्तारो भवन्ति ।
भोगान् अनुभवन्तः, कर्माणि कुर्वन्तः, दुःखसागरे पतन्ति इति यत् स एव सकलजीवानां सहजो गुणः ।
सकलानि भोग्यवस्तूनि भोक्तुः अधीनानि भवन्ति । भोक्तृभोग्ययोः संयोजकः प्रेरिता सर्वज्ञ ईश्वरः ।
परमार्थतः इदं त्रयमपि परब्रह्मैव । एकमेव ब्रह्म त्रेधा अवभासते ॥
<DOC_END>
<DOC_START>
==मतिश्च मे सुमतिश्च मे यज्ञेन कल्पन्ताम् ॥ यजुर्वेदः १८-११
सुबुद्धिः उत्तमनिश्चयाश्च यज्ञेन मयि जाताः भवन्तु ।
: मानवः बुद्धिजीवी । समर्थतया तस्याः वर्धनम् उपयोगं च यदि कुर्यात् तर्हि सर्वेषां प्राणिनाम् अपेक्षया सः भवति बुद्धिमान् । मानवजीवने बुद्धिः अत्यावश्यकी, अनिवार्या च अस्याः बुद्धेः आधारेण उत्तमाः निश्चयाः सङ्कल्पाः च उद्भवेयुः चेत् जीवनं भव्यं भवेत् । तदा सा सुबुद्धिः उच्यते । एतादृशबुद्धिसङ्कल्पानां प्राप्त्यै 'यज्ञ'मेव साधनं भवति । अग्नेः पुरतः 'स्वाहा' इति कथयद्भिः घृतस्य अर्पणमात्रं यज्ञं न । सर्वम् अपि उत्तमकार्यं भवति यज्ञम् क्रियमाणं चिन्तनं मम, मम कुटुम्बस्य परिधिम् अतिरिच्य समाजस्य जगतः हिताय यदि भवेत् तर्हि तत् अत्युत्तमं चिन्तनम् मदीयं वचनं कोपतापैः अयुक्तं सत् मनसां संयोजनाय, द्वेषासूयादीनां विनाशाय च भवति चेत् तद्भवति यज्ञम् मम कार्यस्य फलेन अनेकेषां जनानां क्षेमः साधितः यदि भवेत् तर्हि तत् भवति
यज्ञम् यज्ञं नाम सत्कार्यम् । अस्य फलमेव सुबुद्धिः सत्सङ्कल्पश्च ।
<DOC_END>
<DOC_START>
: चिन्तनशीलता एव मानवम् अन्येभ्यः प्राणिभ्यः पृथक्करोति । प्राणिनां ज्ञानावगमनानि च बुभुक्षा-पिपासादीनां निवारणाय, विश्रान्त्यर्थं सूक्तं वासस्थानस्य प्राप्तये, स्वस्य जीवस्य रक्षणाय, सन्तानोत्पादनाय मात्रम् अलं भवति । किन्तु मानवः प्रश्नं कुर्वन्, प्रयोगान् कुर्वन् स्वस्य, स्वस्मिन्, स्वं परितः तदन्तश्च विद्यमानायाः शक्तेः अवगमनसामर्थ्यवान् अस्ति । अस्य सामर्थ्यस्य उपयोगं करोति चेत् मानवः अन्यथा तस्य अन्येषां प्राणिनाञ्च कोऽपि भेदः न भवेत् अतः एव वेदाः आदिशन्ति चिन्तनशीलो भव' इति । कस्यापि कार्यस्य करणात् पूर्वम् आमूलं परिशीलनीयम् । कस्य कार्यस्य कः परिणामः लाभः मम केवलम् उत समग्रस्य जगतः लाभः तात्कालिकः उत दीर्घकालिकः भौतिकः उत अध्यात्मिकः इत्यादयः विषयाः चिन्तनीयाः ।
<DOC_END>
<DOC_START>
मनो ब्रह्मेत्युपासीत इत्यध्यात्मम् ॥ छान्दोग्योपनिषत् ३-१८-१
मनः ब्रह्म इति उपासीत् । इदम् अध्यात्मोपासनम् ॥
लौकिकव्यवहारेषु इन्द्रियाणामेव प्राबल्यम्, तत्रापि चक्षुरेव प्रधानम् । चक्षुषि सति प्रपञ्चः, चक्षुरभावे
सर्वं शून्यमेव । वेदान्तेषु तु मन एव प्रधानम् । मनसैव वेदवेदान्तवाक्यानां सन्देशग्रहणम्; लोकेऽपि
खलु मनसः प्रधानं स्थानं नूनम् अस्त्येव । ‘मनसि सति महादेवः’, ‘यथामनः तथा महादेवः’ इति हि वदन्ति ॥
परं ब्रह्म समस्तमेव विश्वं व्याप्नोति । परब्रह्मणः उपासनानि आध्यात्मिकतया, आधिभौतिकतया,
आधिदैविकतया च त्रिषु स्थानेषु उपनिषदः उपदिशन्ति । प्रकृते ‘मनः एव ब्रह्म इत्युपासीत’ इति अयं
मन्त्रः उपदिशति । यद्यपि अचेतनं मनः, चिन्मात्रं तु ब्रह्म, तथापि मनोब्रह्मणोः सादृश्यं भवति । ब्रह्म
सूक्ष्मम्, मनोऽपि सूक्ष्मम्; ब्रह्म व्यापकम्, मनश्च व्यापकम्; ब्रह्म अनन्तम्, मनश्च अनन्तम्; ब्रह्म
सर्वज्ञम्, मनश्च सर्वज्ञम्-इत्यतः मन एव ब्रह्म इत्युपासीत । मनसि ब्रह्मभावः कर्तव्यः ॥
<DOC_END>
<DOC_START>
मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्पः आकाशात्मा सर्वकर्मा
सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदम् अभ्यात्तः अवाकी अनादरः ।
इति ह स्म आह शाण्डिल्यः शाण्डिल्यः ॥ छान्दोग्योपनिषत् ३-१४-२
आत्मा मनोमयः, प्राणशरीरः, भारूपः, सत्यसंकल्पः, आकाशात्मा, सर्वकर्मा,
सर्वकामः, सर्वगन्धः, सर्वरसः; आत्मा इदं सर्वम् अभ्यात्तः । आत्मा अवाकी
अनादरः इति उपासीत । इति शाण्डिल्यः महर्षिः आह ॥
उपर्युक्तसकलगुणैः युक्तः आत्मा इति परमात्मानं श्रद्धया उपासकः उपासीत ।
मन एव आत्मनः प्रधानभूत उपाधिः । मनोद्वारेणैव आत्मनः दर्शनं भवेत् ।
मनश्च आत्मनः समीपतमम् । तस्माद् आत्मा मनोमयः । एवमेव प्राणोपाधिकत्वात्
आत्मा प्राणशरीरश्च भवति । अयमात्मा चैतन्यस्वरूपः, सत्यसङ्कल्पश्च ।
अयमात्मा आकाशवत् सूक्ष्म इति आकाशात्मा । सर्वकामः, सर्वकर्मा, सर्वगन्धः,
सर्वरसः, सर्वव्यापकश्चात्मा वागादीन्द्रियरहितत्वात् आत्मा अवाकी ।
क्रियारहितश्च आत्मा । एवमात्मा उपास्यः ॥
<DOC_END>
<DOC_START>
==मन्युं मयि धेहि ॥ यजुर्वेदः १९-९
: किमेतत् विचित्रा प्रार्थना क्रोधादयः त्यक्तव्याः इति सर्वत्र श्रूयते किन्तु अत्र कोपं मयि स्थापय इत्येतत् वचनं विचित्रं खलु अत्र कश्चन सूक्ष्मांशः विद्यते । अत्र 'मन्यु' इत्येतत् पदं कोपं सूचयति । 'मन्यु' इत्येतस्य शब्दस्य, अस्माभिः उपयुज्यमानस्य 'कोपः क्रोधः' इत्येतस्य शब्दस्य च अजगजान्तरं विद्यते । 'मन्यु'शब्दस्य धातुः वर्तते 'मन ज्ञाने' इति । अस्मिन् मन्युशब्दे ज्ञानं विद्यते, जागरणं विद्यते । मन्यु इत्यस्मिन् भावे स्वार्थं न विद्यते । अन्याय्यस्य, अधर्मस्य च विरुद्धं मन्युः भवति । कोपक्रोधादिषु भावेषु अस्माभिः किं उच्यमानमस्ति, किं क्रियमाणमस्ति इति प्रज्ञा न भवति । अस्माकम् इच्छायाः, कार्यस्य, सम्बन्धस्य अवरोधं यत् जनयेत् तद्विषये कोपः भवति । मन्यौ रुधिरनिपीडः अधिकः न भवति । मन्योः कारणतः आत्मबलं वर्धते, किन्तु कोपस्य कारणतः आत्मबलं विनश्यति । मन्योः कारणतः जगद्धिताय किञ्चित् उत्तमं कार्यं कृतमिति तृप्तिः प्राप्यते, किन्तु कोपस्य परिणामतः बुद्धिभ्रमणं, विनाशश्च भविष्यति । अतः अस्याः सूक्तेः तात्पर्यम् एवं विद्यते ज्ञानयुक्तं सात्त्विकं मन्युं मयि स्थापयतु इति ।
<DOC_END>
<DOC_START>
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद् ब्रह्म अद्वयमस्म्यहम् ॥ कैवल्योपनिषत् १-१९
सकलं मय्येव जातम्, मयि सर्वं प्रतिष्ठितम्, सर्वं मयि लयं याति, तद् अद्वयं ब्रह्म अहमस्मि –
व्यवहारदृष्ट्या ज्ञान्यज्ञानिनौ समानत्वेनैव यद्यपि दृश्येते तथापि तयोः ‘ज्ञाने’ अन्तरम् अस्ति ।
अज्ञो हि आत्मनि प्रपञ्चम् अपश्यन्, प्रपञ्चे आत्मानम् एकं सामान्यं मनुष्यं जानाति ॥
ब्रह्मज्ञानी तु आत्मनि विश्वं पश्यति । आत्मस्वरूपमेव पश्यन् ब्रह्मज्ञानी आत्मानं परिपूर्णं पश्यति ।
आत्मनः एव विश्वम्, आत्मन्येव विश्वम्, समस्तस्यापि विश्वस्य आत्मैव आधारभूतः इति ज्ञानी
अवगच्छति । देहादीन् उपाधीन् अविद्याकल्पितान् विजानतः ब्रह्मज्ञानिनः अध्यासः स्वप्नेऽपि न हि
सम्भवति । ब्रह्मज्ञानी नाम ब्रह्मस्वरूप एव । एवं हि ज्ञानिनः निश्चयः । केवलं देह एव अहम् इति
<DOC_END>
<DOC_START>
==मर्यादे पुत्रमाधेहि ॥ अथर्ववेदः ६-८१-२
कुटुम्बनियन्त्रणम्' इत्येतत् न तावत् आधुनिकं चिन्तनम् । वेदेषु एव निर्दिष्टं चिन्तनम् इदम् । अन्ये पशवः इव सन्ततिप्राप्तिः मानवाय न शोभते । मानवाः स्वीयं सन्ततिं योग्यरीत्या पालयेत्, पोषयेत् च । उत्तमं शिक्षणं प्रदाय राष्ट्रस्य उत्तमप्रजारूपेण निर्माणं मानवस्य उत्तरदायित्वं वर्तते । अधिका सन्ततिः यदि स्यात् तर्हि अस्य कर्तव्यस्य पालनं कष्टसाध्यम् । मितिः अन्तरञ्च भवेदेव । अस्य नियमस्य विरुद्धाचरणं मानवं शक्तिहीनं करोति । नियमानुगुणं ये गृहस्थाः जीवन्ति ते वस्तुतः भवन्ति ब्रह्मचारिणः ।
<DOC_END>
<DOC_START>
[[महात्मा गान्धिः अक्टोबर् २, १८६९ जनवरी ३०, १९४८) सत्याग्रहान्दोलनस्य आरम्भकर्ता । अहिंसाद्वारा ब्रिटिश्-आधिपत्यतः भारतस्य स्वातन्त्र्यसम्पादनाय महान् प्रयासः तेन विहितः ।
*स्वदेशीयतत्वं रोटिका-वस्त्र-गृहसम्बद्धमात्रं न, अपि तु सम्पूर्णजीवनसम्बद्धम् अस्ति । स्वदेशीयतत्त्वम् एतत् देशस्य प्राणवायु: अस्ति । स्वराज्य-स्वाधीनतयो: आश्वासकम् अस्ति तत् । दारिद्र्यात्, बुभुक्षात दास्यात् च मुक्तिं प्राप्तुम् उपाय: अस्ति एतत् । स्वदेशीयतत्त्वस्य अभावे राजनैतिकम्, आर्थिकं, सांस्कृतिकं, मानसिकं च स्वातन्त्र्यं सर्वथा न शक्यते प्राप्तुम् ।
*एषा अस्ति युधिष्ठिरस्य भूमि: । एषा रामचन्द्रस्य भूमि: अपि । ऋषिमुनय: एतस्यां भूमौ तप: आचरितवन्त: । तै: सन्देश: श्रावित: यत् एषा अस्ति कर्मभूमि न तु भोगभूमि इति । एतद्भूमिवासिन: अहं वदामि यत्, यत् वस्तु दयाधर्मबाह्यं स्यात् तस्य समावेश: यदि हिन्दुधर्मे भवेत् तर्हि तस्य नाश: अवश्यं सम्भवेत् इति । (महात्मा गान्धी, नवजीवन दि. 18/1/1925, पृ. 601)
<DOC_END>
<DOC_START>
त्वमग्ने सर्वलोकानां मुखं त्वमसि हव्यवाट्। आदि २२८/२३॥
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः॥ आदि २२८/२४॥
त्वया विश्वमिदं सृष्टं वदन्ति परमर्षयः॥ आदि २२८/२५॥
त्वं धारयसि भूतानि भुवनं त्वं विभर्षि च॥ आदि २३१/१३॥
सृष्ट्वा लोकांस्त्रीनिमान् हव्यवाह काले प्राप्ते पचसि पुनः समिध्दः।
त्वं सर्वस्य भुवनस्य प्रसूतिस्त्वयेवाग्ने भवसि पुनः प्रतिष्ठा॥ आदि २३१॥ १४॥ उद्योग १६/५॥
नित्यप्रवृध्दः पचसि त्वयि सर्वं प्रतिष्ठितम्॥ आदि २३१/१५॥
सूर्यो भूत्वा रश्मिभिर्जातवेदो भूमेरम्भो भूमिजातान् रसांश्च।
विश्वनादाय पुनरुत्सृज्य काले दृष्ट्वा वृष्ट्या भावयसीह शुक्र॥ आदि २३१/१६॥
वेदास्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि॥ सभा ३१/४२॥
अग्निर्ददातु मे तेजो वायुः प्राणं ददातु मे।
पृथिवी बलमाध्याच्छिवं चापो दिशन्तु मे॥ सभा ३१/४५॥
एवं स्तुतोऽसि भगवन् प्रीतेन शुचिना मया।
तुष्टिं पुष्टिं श्रुतिं चैव प्रीतिं चाग्ने प्रयच्छ मे॥ सभा ३९९/४९॥
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति॥ उद्योग १५/३४॥
त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट्।
त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत्॥ उद्योग १६/१॥
त्वया त्यकं जगच्चेदं सद्यो नश्येद् हुताशन॥ उद्योग १६/२॥
यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे॥ उद्योग १६/४॥
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः॥ उद्योग १६/६॥
त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत्।
न तेऽस्त्यविदितं किंचित् त्रिषु लोकेषु पावक॥ उद्योग १६/७॥
न चोपयुङ्क्ते तद् दारु यावन्नोदीप्यते परैः॥ उद्योग ३७/६०॥
नाग्निं मुखेनोपधमेन्न न च पादौ प्रदापयेत्।
नाधः कुर्यात् कदाचित् तु न पृष्ठं परितापयेत्॥ आश्व ९२ दा.पा.अ XIII॥
यावत् तु धारयेत् वेगं तावदप्रयतो भवेत्॥ आश्व ९२ दा.पा.अ XIII॥
सृष्टोऽग्निर्मुखतः पूर्वं लोकानां हितकाम्यया॥ आश्व ९२ दा.पा.अ XVI॥
यस्मदग्रे स भूतानां सर्वेषां निर्मितो मया।
तस्मादग्नीत्यभिहितः पुराणज्ञैर्मनीषिभिः॥ आश्व ९२ दा.पा.अ XVI॥
गृहाणां हि पतित्वं हि गृहपत्यमिति स्मृतम्।
गृहपत्यं तु यस्यासीत् तत् तस्माद् गार्हपत्यता॥ आश्व ९२ दा.पा.अ XVI॥
यजमानं तु यस्मात् तु दक्षिणां तु गतिं नयेत्।
दक्षिणाग्निं तमाहुस्ते दक्षिणायतनं द्विजाः॥ आश्व ९२ दा.पा.अ XVI॥
आहुतिः सर्वमाख्याति हव्यं वै हवनं स्मृतम्।
सर्वहव्यवहो वह्निर्गतश्चाहवनीयताम्॥ आश्व ९२ दा.पा.अ XVI॥
ब्रह्मा च गार्हपत्योऽग्निस्तस्मिन्नेव हि सोऽभवत्।
दक्षिणाग्निस्त्वयं रुद्रः क्रोधात्मा चण्ड एव सः॥ आश्व ९२ दा.पा.अ XVI॥
अहमाहवनीयोऽग्निराहोमाद् यस्य वै मुखे॥ आश्व ९२ दा.पा.अ XVI॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
अज्ञानात् क्लेशमाप्नोति तथापत्सु निमज्जति॥ शान्ति १५९/३॥
रागो द्वेषस्तथा मोहो हर्षः शोकोऽभिमानिता।
कामः क्रोधश्च दर्पश्च तन्द्री चालस्यमेव च॥ शान्ति १५९/६॥
अज्ञानमेतन्निर्दिष्टं पापानां चैव याः क्रियाः॥ शान्ति १५९/७॥
स्थाने स्थानं क्षये क्षैण्यमुपैति विविधां गतिम्॥ शान्ति १५९/१०॥
मूलं लोभस्य मोहो वै कालात्मगतिरेव च।
तस्याज्ञानाध्दि लोभो हि लोभादज्ञानमेव च।
सर्वदोषास्तथा लोभात् तस्माल्लोभं विवर्जयेत्॥ शान्ति १५९/१२॥
एकःशत्रुर्न द्वितीयोऽस्ति शत्रुरज्ञानतुल्यः पुरुषस्य राजन्।
येनावृतः कुरुते सम्प्रयुक्तो घोराणि कर्माणि सुदारुणानि॥ शान्ति २९७/२८॥
अनर्थे चार्थसंज्ञस्त्वं किमर्थं नावबुध्द्यसे॥ शान्ति ३२९/२७॥
कोषकार इवात्मानं वेष्टयन् नावबुध्यसे॥ शान्ति ३२९/२८॥
अलं परिग्रहेणेह दोषवान् हि परिग्रहः।
कृमिर्हि कोषकारस्तु बध्यते स परिग्रहात्॥ शान्ति ३२९/२९॥
पुत्रदार कुटुम्बेषु सक्ताः सीदन्ति जन्तवः।
सरः पङ्कार्णवे मग्ना जीर्णा वनगजा इव॥ शान्ति ३२९/३०॥
कुटुम्बं पुत्रदारांश्च शरीरं संचयाश्च ये।
पारक्यमध्रुवं सर्वं किं स्वं सुकृत दुष्कृतम्॥ शान्ति ३२९/३२॥
यदा सर्वं परित्यज्य गन्तव्यमवशेन ते।
अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्ठसि॥ शान्ति ३२९/३३॥
तमः कान्तारमध्वानं कथमेको गमिष्यसि॥ शान्ति ३२९/३४॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति॥ शान्ति १९१/१२॥
स्वदेशे परदेशे वा अतिथिं नोपवासयेत्।
काम्यकर्मफलं लब्ध्वा गुरूणामुपपादयेत्॥ शान्ति १९३/१५॥
गृहस्थानां च सुश्रोणि नातिथेर्विद्यते परम्॥ अनुशासन २/४४॥
चक्षुर्दद्यान्मनो दद्याद् वाचं दद्याच्च सूनृताम्।
अनुव्रजेदुपासीत् स यज्ञः पञ्चदक्षिणः॥ अनुशासन ७/६॥
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्॥ अनुशासन ७/७॥
दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः॥ अनुशासन ७/१२॥
अर्चयेद् भूतिमन्विच्छन् गृहस्थो गृहमागतम्॥ अनुशासन ६३/१३॥
अपि श्वपाके शुनि वा न दानं विप्रणश्यति॥ अनुशासन ६३/९३॥
अनित्यं हि स्थितो यस्मात् तस्मदतिथिरुच्यते॥ अनुशासन ९७/१९॥
अर्चयीत प्रयत्नेन स हि यज्ञो वरप्रदः॥ अनुशासन १४५ दा.पा.॥
यदर्थो हि नरो राजंस्तदर्थोऽस्यातिथिः स्मृतः॥ आश्रुमवास २६/३७॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
नाधर्मश्चरितो राजन् सद्यः फलति गौरिव।
शनैरावर्त्यमानो हि कर्त्तुर्मूलानि कृन्तति॥ आदि ८०/२॥
पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति।
फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे॥ आदि ८०/३॥
स्वल्पमेव यथा दत्तं दानं बहुगुणं भवेत्।
अधर्म एवं विप्रर्षे बहुदुःखफलप्रदः॥ आदि १०७/१२॥
नाधर्मेण जितः कश्चिद् व्यथते वै पराजये॥ सभा ७८/८॥
नेशे बलस्येति चरेदधर्मम्॥ वन २५/१२॥
ततः सपत्नाञ्जयति समूलस्तु विनश्यति॥ वन ९४/४॥
न कृष्ण धर्मश्चरितो भवाय जन्तोरधर्मश्च पराभवाय॥ वन ११९/५॥
आत्मनैव हतः पापो य पापं कर्त्तुमिच्छति॥ वन २०७/४५॥
नाधर्मो विद्यते कश्चिच्छत्रून् हत्वाऽऽततायिनः॥ उद्योग ३/२०॥
अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम्॥ उद्योग ३/२१॥
धर्म्यं पन्थानमाक्राम्य सानुबन्धो विनश्यति॥ शान्ति २१२/७॥
संस्था यत्नैरपि कृता कालेन प्रतिभिद्यते॥ अनु १६२/३१॥
अधर्मो धर्मरूपेण तृणैः कूप इवावृतः।
ततस्तैर्भिद्यते वृत्तं श्रृणु चैव युधिष्ठिर॥ अनु १६२/१२॥
जिज्ञासा न तु कर्तव्या धर्मस्य परितर्कणात्॥ अनु १६२/२१॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
पित्रा विवदते पुत्रो यश्च स्याद् गुरुतल्पगः।
अप्रजायन् नरव्याघ्र भवत्यधार्मिको नरः॥ शान्ति ३४/१४॥
पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहष्यति॥ शान्ति ९५/१८॥
स वर्धमानः स्तेयेन पापः पापे प्रसज्जति।
न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव॥ शान्ति ९५/१९॥
सम्बध्दो वारुणैः पाशैरमर्त्य इव मन्यते॥ शान्ति ९५/२०॥
नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो जनाः। अनु १६२/२८॥
दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः॥ अनु १६२/३४॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद् वनम्॥ आश्व २७/२॥
नैतदस्ति पृथग्भावः किंचिदन्यत् ततः सुखम्।
नैतदस्त्यपृथग्भावः किंचिद् दुःखतरं ततः॥ आश्व २७/४॥
न तत्राविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः।
न च बिभ्यति केषांचित् तेभ्यो बिभ्यति केचन॥ आश्व २७/६॥
ज्ञानाश्रयं तृप्तितोयमन्तः क्षेत्रज्ञभास्करम्॥ आश्व २७/१५॥
यशो वर्चो भगश्चैव विजयः सिद्धतेजसः।
एवमेवानुवर्तन्ते सप्तज्योतींषि भास्करम्॥ आश्व २७/१९॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
अनित्यं यौवनं यूपं जीवितं द्रव्यसंचयः। शान्ति ३३०/१४॥
आरोग्यं प्रियसंवासो गृध्द्येदेषु न पण्डितः॥
यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु पूरुषः।
अन्यद् रोचयते वस्त्रमेव देहाः शरीरिणाम्॥ स्त्री ३/९॥
बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च।
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्र्याः॥ शान्ति २७/२९॥
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्॥ आश्व ४४/१९॥
न ह्यह्यनि निवर्तन्ते न मासा न पुनः समाः।
जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः॥ शान्ति २८/४९॥
अनित्यं सर्वमेवैतदहं च मम चास्ति यत्।। शान्ति १०४/१२॥
यत् किंचिन्मन्यसेऽस्तीति सर्वं नास्ति विध्दि तत्।
एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः॥ शान्ति १०४/१३॥
यच्च पूर्वं समाहारे यच्च पूर्वं परे परे।
सर्वं तन्नास्ति ते चैव तज्ज्ञात्वा कोऽनुसंज्वरेत्॥ शान्ति १०४/१५॥
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि च॥ शान्ति १०४/१७॥
निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति।
स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत्॥ शान्ति ३३०/२२॥
सुखस्यान्तं सदा दुःखं दुःखस्यान्तं सदा सुखम्॥ आश्व ४४/१८॥
सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम्।
अशाश्वतं हि लोकेऽस्मिन् सदा स्थावरजङ्गमम्॥ आश्व ४४/२०॥
इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये।
सर्वमेतद् विनाशान्तं ज्ञानस्यान्तो न विद्यते॥ आश्व ४४/२१॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
अन्नाद् गृहस्था लोकेऽस्मिन् भिक्षवस्तत एव च।
अन्नात् प्राणः प्रभवति अन्नदः प्राणदो भवेत्॥ शान्ति १८/२८॥
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्।
आयुः सुवर्णकारान्नमवीरायाश्च योषितः॥ शान्ति ३६/२७॥
आपः पिपासतामन्नमन्नं शूरस्य कातराः॥ शान्ति ८८/१५॥
प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः॥ शान्ति १२१/३९॥
भोज्यमन्नं वदान्यस्य कदर्यस्य न वार्धुषेः॥ शान्ति २६४/१३॥
लोकतन्त्रं हि संज्ञाश्च सर्वमन्ने प्रतिष्ठितम्॥ अनुशासन ६३/५॥
अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो॥ अनुशासन ६३/७॥
अन्नाद् भवन्ति वै प्राणाः प्रत्यक्षं नात्र संशयः॥ अनुशासन ६३/८॥
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत॥ अनुशासन ६३/२९॥
अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम्॥ अनुशासन ६३/३१॥
बलं बलवतोऽपीह प्रणशत्यन्नहानितः॥ अनुशासन ६३/३२॥
निवर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते॥ अनुशासन ६३/३३॥
अन्नं वै प्रथमं द्रव्यमन्नं श्रीश्च परा मता।
अन्नात् प्राणः प्रभवति तेजो वीर्यं बलं तथा॥ अनुशासन ६६/५९॥
गोदानानि विवाहाश्च तथा यज्ञसमृध्दयः॥ अनुशासन ९५/२३॥
शास्त्राणि दानानि तथा संयोगा वित्तसंचयाः।
अन्नतः सम्प्रवर्तन्ते तथा त्वं वेत्थ भार्गव॥ अनुशासन ९५/२४॥
सर्वमन्नात् प्रभवति विदितं किर्तयामि ते॥ अनुशासन ९५/२५॥
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम्॥ अनुशासन ११२/१०॥
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते।
अन्ने प्रतिष्ठितो लोकस्तस्मादन्नं प्रशस्यते॥ अनुशासन ११२/११॥
दानवद्भिः कृतः पन्था येन यान्ति मनीषिणः।
ते हि प्राणस्य दातारस्तेभ्यो धर्मः सनातनः॥ अनुशासन ११२/२४॥
अन्नं हि परमा गतिः॥ अनुशासन ११२/२५॥
ग्राम्यादारण्यकैः सिध्दं श्रेष्ठमित्यवधारय॥ अनुशासन १४५ दा.पा.अ.XI॥
अन्नं प्राणो मनुष्याणामन्नदः प्राणदो भवेत्।
तस्मादन्नं विशेषेण दातुमिच्छति मानवः॥ अनुशासन १४५ दा.पा.अ.XI॥
आत्मार्थे पाचयन्नन्नं ममत्वेनोपहन्यते॥ आश्व २५/९॥
अन्नाद् रक्तं च शुक्रं च अन्ने जीवः प्रतिष्ठितः।
इन्द्रयाणि च बुध्दिश्च पुष्णन्त्यन्नेन नित्यशः॥ आश्व ९२ दा.पा.अ.VI॥
तेजो बलं च रूपं च सत्वं वीर्यं धृति र्द्युतिः।
ज्ञानं मेधा तथाऽऽयुश्च सर्वमन्ने प्रतिष्ठितम्॥ आश्व ९२ दा.पा.अ.VI॥
सर्व कालं हि सर्वेषां अन्ने प्राणाः प्रतिष्ठिताः॥ आश्व ९२ दा.पा.अ.VI॥
अन्नं प्रजापते रूपमन्नं प्रजननं स्मृतम्।
सर्वभूतमयं चान्नं जीवश्चान्नमयः स्मृतः॥ आश्व ९२ दा.पा.अ.VI॥
अन्नेनाधिष्ठितः प्राण अपानो व्यान एव च।
उदानश्च समानश्च धाग्यन्ति शरीरिणम्॥ आश्व ९२ दा.पा.अ.VI॥
सर्वसत्त्वकृतं कर्म चानादेव प्रवर्तते॥ आश्व ९२ दा.पा.अ.VI॥
अन्नेन सदृशं दानं न भूतं न भविष्यति॥ आश्व ९२ दा.पा.अ.XII॥
अन्नमूर्जस्करं लोके ह्यन्नात् प्राणाः प्रतिष्ठिताः॥ आश्व ९२ दा.पा.अ.XII॥
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्।
आयुः सुवर्णकारान्नं यशश्चर्मविकृन्तिनः॥ आश्व ९२ दा.पा.अ.XII॥
जलदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः॥ आश्व ९२ दा.पा.अ.XII॥
अन्नात् प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः॥ आश्व ९२ दा.पा.अ.XIII॥
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता॥ आश्व ९२ दा.पा.अ.XIII॥
चण्डालो वा श्वपाको वा काले यः कश्चिदागतः।
अन्नेन पूजनीयः स्यात् परत्र हितमिच्छता॥ आश्व ९२ दा.पा.अ.XIII॥
पिधाय तु गृहद्वारं भुङ्क्ते योऽन्नं प्रहृष्टवान्।
स्वर्गद्वारपिधानं वै कृतं तेन युधिष्ठिर॥ आश्व ९२ दा.पा.अ.XIII॥
अन्नदः प्राणदो लोके प्राणदः सर्वदो भवेत्।
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता॥ आश्व ९२ दा.पा.अ.XIII॥
अन्नप्रणाशे सीदन्ति शरीरे पञ्चधातवः॥ आश्व ९२ दा.पा.अ.XIII॥
तस्मादन्नं विशेषेण श्रध्दयाश्रध्दयापि वा॥ आश्व ९२ दा.पा.अ.XIII॥
आदत्ते हि रसं सर्वमादित्यः स्वगभस्तिभिः।
वायुस्तस्मात् समादाय रसं मेघेषु धारयेत्॥ आश्व ९२ दा.पा.अ.XIII॥
तत् तु मेघगतं भूमौ शक्रो वर्षति तादृशम्।
तेन दिग्धा भवेद् देवी मही प्रीता च भारत॥ आश्व ९२ दा.पा.अ.XIII॥
तस्यां सस्यानि रोहन्ति यै जीविन्त्यखिलाः प्रजाः।
मांसमेदोऽस्थिमज्जानां सम्भवस्तेभ्य एव हि॥ आश्व ९२ दा.पा.अ.XIII॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
अवज्ञानं हि लोकेऽस्मिन् मरणादपि गर्हितम्॥ वन २८/१२॥
गुरूणामवमानो हि वध इत्यभिधीयते॥ कर्ण. ७०/५२॥
सत्कृतं स्वजनेनेह परोऽपि बहु मन्यते।
स्वजनेन त्ववज्ञातं परे परिभवन्त्युत॥ शान्ति. ६७/३५॥
अहिंसा सत्यमक्रोधः सर्वाश्रमगतं तपः॥ शान्ति.१९१/१५॥
अवज्ञातः सुखं शेते इह चामुत्र चाभयम्।
विमुक्तः सर्वदोषेभ्यो योऽवमन्ता स बध्यते॥ शान्ति. २२९/२२॥
तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत्॥ शान्ति.२९९/२५॥
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति॥ शान्ति.२९९/२६॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
अभयं सर्वभूतेभ्यो यो ददाति महीपते।
स गच्छति परं स्थानं विष्णोः पदमनामयम्॥ स्त्री.७/२५॥
न ह्यात्मनः प्रियतरं किंचिद् भूतेषु निश्चितम्।
अनिष्टं सर्वभूतानां मरणं नाम भारत॥ स्त्री. ७/२७॥
तस्मात् सर्वेषु भूतेषु दया कार्या विपश्चिता॥ स्त्री.७/२८॥
यो ददाति सहस्त्राणि गवामश्वशतानि च।
दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुते॥ शान्ति २९८/४॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते।
परस्परं च खादन्ति सर्वथा धिगराजकम्॥ शान्ति.६७/३॥
तस्माद् राजैव कर्तव्यः सततं भूतिमिच्छता।
न धनार्थो न दारार्थस्तेषां येषामराजकम्॥ शान्ति.६७/१२॥
प्रीयते हि हरन् पापः परवित्तमराजके।
यदास्य उद्धरन्त्यन्ये तदा राजानमिच्छति॥ शान्ति.६७/१३॥
राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः।
जले मत्स्यानिवाभक्ष्यन् दुर्बलं बलवत्तराः॥ शान्ति.६७/१६॥
हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत्॥ शान्ति.६८/१४॥
ममेदमिति लोकेऽस्मिन् न भवेत् सम्परिग्रहः।
न दारा न च पुत्रः स्यान्न धनं न परिग्रहः।
विष्वग्लोपः प्रवर्तेत यदि राजा न पालयेत्॥ शान्ति.६८/१५॥
पतेद् बहुविधं शस्त्रं बहुधा धर्मचारिषु।
अधर्मः प्रगृहीतः स्याद् यदि राजा न पालयेत्॥ शान्ति. ६८/१७॥
ममत्वं च न विन्देयुर्यदि राजा न पालयेत्॥ शान्ति. ६८/१९॥
न योनिदोषो वर्तेत न कृर्षिर्न वणिक्पथः।
मज्जेद् धर्मस्त्रयी न स्याद् यदि राजा न न पालयेत्॥ शान्ति.६८/२१॥
विद्यास्नाता व्रतस्नाता यदि राजा न पालयेत्॥ शान्ति.६८/२६॥
अनयाः सम्प्रवर्तेरन् भवेद् वै वर्णसंकरः।
दुर्भिक्षमाविशेद् राष्ट्रं यदि राजा न पालयेत्॥ शान्ति.६८/२९॥
विवृत्य हि यथाकामं गृहद्वाराणि शेरते।
मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः॥ शान्ति.६८/३०॥
नाक्रुष्टं सहते कुतो वा हस्तलाघवम्।
यदि राजा न सम्यग् गां रक्षयत्यपि धार्मिकः॥ शान्ति.६८/३१॥
निर्भयाः प्रतिपद्यन्ते यदि रक्षति भूमिपः॥ शान्ति.६८/३२॥
धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम्।
अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः॥ शान्ति.६८/३३॥
यदा राजा ध्रुरं श्रेष्ठामादाय वहति प्रजाः।
महता बलयोगेन तदा लोकः प्रसीदति॥ शान्ति.६८/३६॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
वषुषा हि तु भूतानां नेत्राणि हृदयानि च।
श्रोत्रं मधुरया वाचा रमयत्यर्जुनो नृणाम्॥ आदि १९९/७ दा.पा.॥
न ह्मुक्तं न चासक्तं नानृतं न च विप्रियम्।
भाषितं चारुभाषस्य जज्ञे पार्थस्य भारती॥ आदि १९९/७ दा.पा.॥
कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः।
बलेन सदृशं नास्ति वीर्यं तु मम रोचते॥ सभा.१६/८॥
आत्मा हि कृष्णः पार्थस्य कृष्णस्यात्मा धनञ्जयः॥ सभा ५२/३१॥
यद् ब्रूयादर्जुनः कृष्णं सर्वं कुर्यादसंशयम्।
कृष्णो धनञ्जयस्यार्थे स्वर्गलोकमपि त्यजेत्॥ सभा. ५२/३२॥
तथैव पार्थः कृष्णार्थे प्राणानपि परित्यजेत्॥ सभा.५२/३३॥
शैत्यं सोमात् प्रणश्येत् मत्सत्यं विचलेत् यदि॥ सभा.७७/३५॥
ममैव त्वं तवैवाहं ये मदीयास्तवैव ते।
अनन्यः पार्थ मत्तस्त्वं त्वत्तश्चाहं तथैव च।
एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम्॥ विराट. २/१८॥
खड्गी च धन्वी च विभाति पार्थः शिखी वृत्तः स्रुग्भिरिवाज्यसिक्तः॥ ॥ विराट २३/९॥
अनाथान् दुःखितान् दीनान् कृशान् वृद्धान् पराजितान्।
न्यस्तशस्त्रान् निराशांश्च नाहं हन्मि कृताञ्जलीन्॥ ॥ विराट ६७/४ दा.पा.॥
दर्शनीयो मनस्वी च लक्ष्मीवान् ब्रह्मवर्चसी।
बलं वीर्यं च तेजश्च शीघ्रता लघुहस्तता।
न स्मराम्यनृतं तावन्न स्मरामि पराजयम्।
यस्तं द्वेष्टि स मां द्वेष्टि यस्तं चानु स मामनु।
इति संकल्प्यतां बुद्ध्या शरीरार्द्धं ममार्जुनः॥ द्रोण. ७९/३३॥
बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः।
कान्त्या शशाङ्कस्य जवेन वायोः स्थैर्येण मेरोः क्षमया पृथिव्याः।
अस्मात् पुरो नो भविता धुनर्धरो नैनं भूतं किंचन जातु जेता।
युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च।
न त्वया सदृशः कश्चित् त्रिषु लोकेषु विद्यते॥ शान्ति.१९/६॥
न च तत् कृतवानेष शूरमानी ततोऽपतत्॥ महाप्रस्थान २/२१॥
तथा चैतन्न तु तथा कर्तव्यं भूतिमिच्छता॥ महाप्रस्थान २/२२॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्॥ भीष्म८३/४१॥
न ह्यृतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः॥ शान्ति. १६७/१२॥
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः॥ शान्ति. १६७/१३॥
अर्थसिद्ध्या विनिर्वृत्तावुभावेतौ भविष्यतः॥ शान्ति. १६७/१४॥
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक्॥ शान्ति. १६७/१६॥
आस्तिका नास्तिकाश्चैव नियताः संयमे परे।
अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशिता॥ शान्ति. १६७/१९॥
भृत्यान् भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान्॥ शान्ति. १६७/२०॥
अर्थयोगं दृढं कुर्याद् योगैरुच्चावचैरपि॥ शान्ति. १६७/२२॥
अस्मिंस्तु वै विनिर्वृत्ते दुर्लभे परमप्रिये।
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः॥ शान्ति. १६७/२३॥
योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः।
तद्धि त्वामृतसंवादं तस्मादेतौ मताविह॥ शान्ति. १६७/२४॥
अनर्थस्य न कमोऽस्ति तथार्थोऽधर्मिणः कुत।
तस्मादुद्विजते लोको धर्मादर्थाद् यो बहिष्कृतः॥ शान्ति. १६७/२५॥
विश्वस्तेषु हि भूतेषु कल्पते सर्वमेव हि॥ शान्ति. १६७/२६॥
धर्मं समाचरेत् पूर्वं ततोऽर्थं धर्मसंयुतम्।
ततः कामं चरेत् पश्चात् सिद्धार्थः स हि तत्परम्॥ शान्ति. १६७/२७॥
अनर्थं बाधते ह्यर्थो अर्थं चैव फलान्युत॥ अनु.१४५ दा.पा.अ.V॥
सुखमर्थवतां लोके कृच्छ्राणां विप्रमोक्षणम्॥ अनु.१४५ दा.पा.अ.V॥
परार्थं नाहरेद् द्रव्यमनामन्त्र्य तु सर्वदा॥ अनु.१४५ दा.पा.अ.V॥
अर्थवन्तं नरं नित्यं पञ्चाभिघ्नन्ति शत्रवः।
राजा चोरश्च दायादा भूतानि क्षय एव च॥
न ह्यनर्थाः प्रबाधन्ते नरमर्थविवर्जितम्॥ अनु.१४५ दा.पा.अ.VIV॥
उपद्रवेषु चार्थानां दुःखं हि नियतं भवेत्॥ अनु.१४५ दा.पा.अ.VIV॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम्।
न हि प्रमादात् परमस्ति कश्चिद् वधो नराणामिह जीवलोके।
सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम्।
भूतिः श्रीर्ह्नीर्घृतिः कीर्तिदक्षे वसति नालसे॥ शान्ति.२७/३१॥
नालसाः प्राप्नुवन्त्यर्थान् न क्लीबा नाभिमानिनः।
न च लोकरवाद् भीता न वै शश्वत् प्रतीक्षिणः॥ शान्ति.१४०/२३॥
सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम्।
भूतिस्त्वेवं श्रिया सार्धं दक्षे वसति नालसे॥ शान्ति.१७४/३८॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
भोजनं ह्यन्तराशुद्धं चातुर्मास्ये विधीयते॥ शान्ति.३५/२९॥
मासार्धमासोपवासाद् यत् तपो मन्यते जनः।
आत्मतन्त्रोपधाती यो न तपस्वी न धर्मवित्॥ अनु.९३/४॥
अन्तरासायमाशं च प्रातराशं च यो नरः।
सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः॥ अनु.९३/१०॥
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा।
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर।। अनु.९३/१३॥
अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम्॥ अनु.९३/१५॥
लभन्ते विपुलं धर्मं तथाऽऽहारपरिक्षयात्॥ अनु.१४५ दा.पा.॥
नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः॥ अनु.१६२/४०॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
न कर्मणा लभ्यते चिन्तया वा नाप्यस्ति दाता पुरुषस्य कश्चित्।
पर्याययोगाद् विहितं विधात्रा कालेन सर्वं लभते मनुष्यः॥ शान्ति.२५/५॥
न बुद्धिशास्त्राध्ययनेन शक्यं प्राप्तुं विशेषं मनुजैरकाले।
मूर्खोऽपि चाप्नोति कदाचिदर्थान् कालो हि कार्यं प्रति निर्विशेषः॥ शान्ति.२५/६॥
प्राप्ते च प्रहरेत् काले न संवर्तते पुनः॥ शान्ति.१०३/२०॥
कालातीतमिहार्थं तु न प्रशंसन्ति पण्डिताः॥ शान्ति.१३८/६०॥
तदेव काल आरब्धं महतेऽर्थाय कल्पते॥ शान्ति.१३८/९५॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
यस्मिन्नाश्वसते कश्चिद् यश्च नाश्वसिति क्वचित्।
न तौ धीराः प्रशंसन्ति नित्यमुद्विग्नमानसौ॥ शान्ति.१३८/५९॥
संक्षेपो नीतिशास्त्राणामविश्वासः परो मतः॥ शान्ति.१३८/१९६॥
वध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि॥ शान्ति.१३८/१९७॥
एकान्ततो न विश्वासः कार्यो विश्वासघातकैः॥ शान्ति.१३९/१२८॥
मनो भवत्यविश्वस्तं कर्म त्रासयतेऽबलान्॥ शान्ति.१३९/३२॥
अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात्।
भयं ह्यशङ्किताज्जातं समूलमपि कृन्तति॥ शान्ति.१४०/४५॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
नानृतं हि सदा लोके पूज्यते दानवोत्तम॥ आदि ५/३४॥
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन् न विवाहकाले।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि॥ आदि ८२/१६॥
पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा वदन्ति मिथ्या पतितं नरेन्द्र।
एकार्थतायां तु समाहितायां मिथ्या वदन्तं त्वनृतं हिनस्ति॥ आदि ८२/१७॥
प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य च।
गुर्वर्थे स्त्रीषु चैव स्याद् विवाहकरणेषु च॥ शान्ति.३४/२५॥
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्॥ शान्ति.१०९/१९॥
अनृतं तमसो रूपं तमसा नीयते ह्यधः।
तमोग्रस्ता न पश्यन्ति प्रकाशं तमसाऽऽवृत्तः॥ शान्ति.१०९/२॥
नायं लोकोऽस्ति न परो न च पूर्वान् स तारयेत्।
कुत एष जनिष्यांस्तु मृषावादपरायणः॥ शान्ति.१९९/६१॥
मृषावादे भवेद् दोषाः सत्ये दोषो न विद्यते॥ अनुशासन ३८/९॥
अनृतं न वदेद् विद्वांस्तपस्तप्त्वा न विस्मयेत्।
यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात्।
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
असन्तोषः श्रियो मूलं तस्मात् तं कामयाम्यहम्।
समुच्छ्र्ये यो यतते स राजन् परमो नयः॥ सभा.५५/११॥
यमस्य वशमायान्ति काममूढाः पुनः पुनः।
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
न गर्वेण भवेत् प्राज्ञः कदाचिदपि मानवः॥ शान्ति.३६/९॥
दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः।
राजा भवति तं जित्वा दासस्तेन पराजितः॥ शान्ति.९०/२८॥
सर्वे लाभाः साभिमाना इति सत्यवती श्रुतिः॥ शान्ति.१८०/१०॥
अज्ञान प्रभवं दुःखमहंकारं परित्यजेत्॥ शान्ति.२१२/१८॥
त्रैलोक्यं सेश्वरं सर्वमहंकारे प्रतिष्ठितम्॥ शान्ति.२१२/१९॥
यथेह नियतः कालो दर्शयत्यार्तवान् गुणान्।
तद्वद् भूतेष्वहंकारं विद्यात् कर्मप्रवर्तकम्॥ शान्ति.२१२/२०॥
प्रवश्च प्रभावश्च नात्मसंस्थः कदाचन॥ शान्ति.२२४/२७॥
मुञ्चेच्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम्॥ शान्ति.२२७/६४॥
एवं स्वराज्यनाशे त्वं शोकं सम्प्रसहिष्यसि।
अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परेषाम्।
प्रभ्रश्यतेऽसौ चरते न सत्यं लोकास्तस्य ह्यन्तवन्तो भवन्ति॥ अनु.२२/१३॥
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः॥ अनुशासन ३६/१७॥
अन्यथा बहु बुद्ध्याढ्यो वाक्यं वदति संसदि।
अन्यथैव ह्यहंवादी दुर्बलं वदते वचः॥ अनु.१४६/३०॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
न वधः पूज्यते वेदे हितं नैव कथंचन॥ भीष्म ३/५४॥
कृताञ्जलेः प्रपन्नस्य प्रमत्तस्य तथैव च।
प्रकीर्णकेशे विमुखे ब्राह्मणेऽथ कृताञ्जलौ॥ कर्ण. ९०/१११॥
न विमुञ्जन्ति शस्त्राणि शूराः साधुव्रते स्थिताः।
न वधः पूज्यते लोके सुप्तानामिह धर्मतः।
ये च ब्रूयूस्तवास्मीति ये च स्युः शरणागताः।
विमुक्तमूर्धजा ये च ये चापि हतवाहनाः॥ सौप्तिक ५/१२॥
मत्तोन्मत्तप्रमत्तेषु न शस्त्राणि च पातयेत्॥ सौप्तिक ६/२२॥
वृथा पशुसमालम्भं नैव कुर्यान्न कारयेत्॥ शान्ति.३४/२८॥
मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम्।
नायुद्ध्यमानो हन्तव्यो न च ग्राह्या बलात् स्त्रियः॥ शान्ति.१३५/१३॥
सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु केनचित्॥ शान्ति.१३५/१४॥
न हिंसयति यो जन्तून् मनोवाक्काय हेतुभिः।
जीवितार्थापनयनैः प्राणिभिर्न स हिंस्यते॥ शान्ति.१७५/२७॥
अमृतः स नित्यं वसति यो हिंसां न प्रपद्यते॥ शान्ति.२४५/१९॥
कामकाराद् विहिंसन्ति बहिर्वेद्यां पशून् नराः॥ शान्ति.२६५/५॥
अहिंसा सर्वभूतेभ्यो धर्मेभ्यो ज्यायसी मता॥ शान्ति.२६५/६॥
सुरा मत्स्या मधु मांसमासवं कृसरौदनम्।
धूर्तैः प्रवर्त्तितं ह्येतन्नैतद् वेदेषु कल्पितम्॥ शान्ति.२६५/९॥
यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा।
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत्॥ शान्ति.२६५/१४॥
अहिंसा सकलो धर्मो हिंसाधर्मस्तथाहितः॥ शान्ति.२७२/२०॥
आत्मोपमस्तु भूतेषु यो वै भवति पूरुषः।
न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते॥ अनु.११३/६॥
एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः पुरा।
कर्मणा लिप्यते जन्तुर्वाचा च मनसापि च॥ अनु.११४/७॥
पूर्वं तु मनसा त्यक्त्वा तथा वाचाथ कर्मणा।
न भक्षयति यो मांसं त्रिविधं स विमुच्यते॥ अनु.११४/८॥
प्राप्तुकामैर्नरैर्हिंसा वर्जिता वै महात्मभिः॥ अनु.११५/६॥
साधूनां सम्मतो नित्यं भवेन्मांसं विवर्जयन्॥ अनु.११५/११॥
अहिंसा परमो धर्मस्तथाहिंसा परं तपः।
अहिंसा परमं सत्यं यतो धर्मः प्रवर्तते॥ अनु.११५/२३॥
अनुद्वेगकरो लोके न चाप्युद्विजते सदा॥ अनु.११५/२८॥
धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्।
ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम्।
भक्ष्यन्ते तेऽपि भूतैस्तैरिति मे नास्ति संशयः॥ अनु.११६/२४॥
माम् स भक्षयते यस्माद् भक्षयिष्ये तमप्यहम्।
येन येन शरीरेण यद् यत् कर्म करोति यः।
तेन तेन शरीरेण तत्तत् फलमुपाश्नुते॥ अनु.११६/२७॥
अहिंसा परमो यज्ञस्तथाहिंसा परमं फलम्।
अहिंसा परमं मित्रमहिंसा परमं सुखम्॥ अनु.११६/२९॥
अहिंस्त्रः सर्वभूतानां यथा माता तथा पिता॥ अनु.११६/३१॥
अहिंसा परमो धर्मो ह्यहिंसा परमं सुखम्।
अहिंसा धर्मशास्त्रेषु सर्वेषु परमं पदम्॥ अनु.१४५ दा.पा.॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते॥ शान्ति.१८२/२३॥
ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः।
तत्र देवाः स्वयं दीप्ता भास्वराभाग्निवर्चसः॥ शान्ति.१८२/२४॥
ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः।
दुर्गमत्वादनन्तत्वादिति मे विद्धि मानद॥ शान्ति.१८२/२५॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
कामं नैतत् प्रशंसन्ति सन्तः स्वबलसंस्तवम्।
गुणसंकीर्तनं चापि स्वयमेव शतक्रतो॥ आदि.३४/२॥
न ह्यात्मस्तव संयुक्तं वक्तव्यमनिमित्ततः॥ आदि.३४/३॥
सर्वो हि मन्यते लोक आत्मनं बुद्धिमत्तरम्।
सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति॥ सौप्तिक ३/४॥
गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः॥ शान्ति.२८७/२७॥
विपश्चिद् गुणसम्पन्नः प्राप्नोत्येव महद् यशः॥ शान्ति.२८७/२८॥
अब्रुवन् वाति सुरभिगन्धिः सुमनसां शुचिः।
तथैवाव्याहरन् भाति विमलो भानुरम्बरे॥ शान्ति.८७/२९॥
अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते॥ शान्ति.२८७/३१॥
दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम्॥ शान्ति.२८७/३२॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।
देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा।
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा ना भूयः।
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति।
कामद्वेषौ च जयति तदाऽऽत्मानं च पश्यति॥ शान्ति.२१/४॥
यदासौ सर्वभूतानां न दुह्यति न काङ्क्षति।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥ शान्ति.२१/५॥
आत्मा फलति कर्माणि नाश्रमो धर्मकारणम्॥ शान्ति.१११/१३॥
बहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा।
आत्मा क्षेत्रज्ञ इत्युक्तः संयुक्तः प्राकृतैर्गुणैः।
तैरेव तु विनिर्मुक्तः परमात्मेत्युदाहृतः॥ शान्ति.१८७/२३॥
तस्मिन् यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे॥ शान्ति.१८७/२४॥
न चात्मा शक्यते द्रष्टुमिन्द्रियैश्च विभागशः।
तत्र तत्र विसृष्टैश्च दुर्वार्यैश्चाकृतात्मभिः॥ शान्ति.१९४/५८॥
न च स्पृशते भावैर्न ते तेन महात्मना।
सरजस्कोऽरजस्कश्च नैव वायुर्भवेद् यथा॥ शान्ति.२११/१४॥
बीजान्यग्न्युपदिग्धानि न रोहन्ति यथा पुनः।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः॥ शान्ति.२११/१७॥
लोहयुक्तं यथा हेम विपक्वं न विराजते।
तथापक्वकषायाख्यं विज्ञानं न प्रकाशते॥ शान्ति.२१२/६॥
इन्द्रियाणि मनोयुङ्क्ते वश्यान् यन्तेव वाजिनः।
मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः॥ शान्ति.२३९/११॥
यथा मरीच्यः सहिताश्चरिन्त सर्वत्र तिष्ठन्ति च दृश्यमानाः।
देहै र्विमुक्तानि चरन्ति लोकांस्तथैव सत्त्वान्यतिमानुषाणि॥ शान्ति.२५३/२॥
जाजले तीर्थमात्मैव मा स्म देशातिथिर्भव॥ शान्ति.२६३/४३॥
नेशेऽयं सततं देही नृपते पापपुण्ययोः।
तत एव समुत्थेन तमसा रुध्यतेऽपि च॥ शान्ति.२७९/८॥
ज्ञानेन हि यदा जन्तुरज्ञान प्रभवं तमः।
व्यपोहति तदा ब्रह्म प्रकाशति सनातनम्॥ शान्ति.२७९/११॥
अयत्नसाध्यं मुनयो वदन्ति ये चापि मुक्तास्त उपासितव्याः॥ शान्ति.२७९/१२॥
निर्विकारः सदैवात्मा स्त्रीत्वं पुंस्त्वं न चात्मनि।
कर्मप्रकारेण तथा जात्यां जात्यां प्रजायते॥
कृत्वा तु पौरुषं कर्म स्त्री पुमानपि जायते।
स्त्री भावयुक् पुमान् कृत्वा कर्मणा प्रमदा भवेत्॥ अनु.१४५ दा.पा.VIII॥
श्रृणु भामिनि कर्तारमात्मा हि न च कर्मकृत्।
प्रकृत्या गुणयुक्तेन क्रियते कर्म नित्यशः॥ अनु.१४५ दा.पा.VIII॥
शरीरं प्राणिनां लोके यथा पित्तकफानिलैः।
व्याप्तमेभिस्त्रिभिर्दोषैस्तथा व्याप्तं त्रिभिर्गुणैः॥ अनु.१४५ दा.पा.अ.VIII॥
रजो दुःखात्मकं तत्र तमो मोहात्मकं स्मृतम्।
त्रिभिरेतैर्गुणैयुक्तं लोके कर्म प्रवर्तते॥ अनु.१४५ दा.पा.अ.VIII॥
सत्यं प्राणिदया शौचं श्रेयः प्रीतिः क्षमा दमः।
एवमादि तथान्यच्च कर्म सात्त्विकमुच्यते॥ अनु.१४५ दा.पा.अ.VIII॥
दाक्ष्यं कर्मपरत्वं च लोभो मोहो विधिं प्रति।
रजसश्चोद्भवं चैतत् कर्म नानाविधं सदा॥ अनु.१४५ दा.पा.अ.VIII॥
अनृतं चैव पारुष्यं धृतिर्विद्वेषिता भृशम्।
हिंसासत्यं च नास्तिक्यं निद्रालस्य भयानि च॥
तमसश्चोद्भवं चैतत् कर्म पापयुतं तथा॥ अनु.१४५ दा.पा.अ.VIII॥
सात्त्विकाः पुण्यलोकेषु राजसा मानुषे पदे।
तिर्यग्योनौ च नरके तिष्ठेयुस्तामसा नराः॥ अनु.१४५ दा.पा.अ.VIII॥
कर्मक्षये तु सम्प्राप्ते प्राणिनां जन्मधारिणाम्।
उपद्रवो भवेद देहे येन केनापि हेतुना॥
तन्निमित्तं शरीरी तु शरीरं प्राप्य संक्षयम्।
अपयाति परित्यज्य ततः कर्मवशेन सः॥ अनु.१४५ दा.पा.अ.VIII॥
देहः क्षयति नैवात्मा वेदनाभिर्न चाल्यते।
तिष्ठेत् कर्मफलं यावद् व्रजत् कर्मक्षये पुनः॥ अनु.१४५ दा.पा.अ.VIII॥
न त्वसौ चक्षुषा ग्राह्यो न च सर्वेरपीन्द्रियैः।
घ्राणेन न तदाघ्रेयं नास्वाद्यं चैव जिह्वया।
अधिष्ठाता मनो नित्यं भूतानां महतां तथा।
इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः।
आत्मा नदी भारत पुण्यतीर्थमात्मा तीर्थं सर्वतीर्थप्रधानम्।
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
ववर्ष भगवान् देवः काले देशे यथेप्सितम्।
नार्यः पतिव्रताः सर्वा रूपवत्यः स्वलंकृताः।
पुमांसः पुण्यशीलाढ्याः स्वं स्वं धर्ममनुव्रताः।
सर्वे नराश्च नार्यश्च सततं प्रियवादिनः।
अवन्ध्यकाला मनुजाः पुरुषार्थेषु च क्रमात्।
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
दीर्घमायुरथेच्छन् हि त्रिरात्रं चोष्णपो भवेत्॥ शान्ति.३६/९॥
स्रवन्ति न निवर्तन्ते स्त्रोतांसि सरितामिव।
आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः॥ शान्ति.३३१/५॥
पापेन कर्मणा देवि बद्धो हिंसारतिर्नरः।
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनयः।
कृष्णसारस्तु चरति मृगो यत्र स्वभावतः।
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
तस्यां विहन्यमानायां दुःखो मृत्युर्न संशयः॥ शान्ति.१२५/४॥
आशां महत्तरां मन्ये पर्वतादपि सदुमात्।
आकाशादपि वा राजन्नप्रमेयैव वा पुनः॥ शान्ति.१२५/६॥
हिमवान् वा महाशैलः समुद्रो वा महोदधिः।
महत्त्वान्नावपद्येतां नभसो वान्तरं तथा॥ शान्ति.१२६/१३॥
आशा हि पुरुषं बालमुत्थापयति तस्थुषी॥ शान्ति.१२८/६॥
कृशत्वेन समं राजन्नाशाया विद्यते नृप॥ शान्ति.१२८/९॥
कृशाकृशे मया ब्रह्मन् गृहीते वचनात् तव।
दुर्लभत्वं च तस्यैव वेदवाक्यमिव द्विज॥ शान्ति.१२८/१०॥
स दुर्लभतरस्तात योऽर्थिनं नावमन्यते॥ शान्ति.१२८/१३॥
सत्कृत्य नोपकुरुते परं शक्त्या यथार्हतः।
या सक्ता सर्वभूतेषु साऽऽशा कृशतरी मया॥ शान्ति.१२८/१४॥
कृतघ्नेषु च या सक्ता नृशंसेष्वलसेषु च।
अपकारिषु चासक्ता साऽऽशा कृशतरी मया॥ शान्ति.१२८/१५॥
एकपुत्रः पिता पुत्रे नष्टे वा प्रोषितेऽपि वा।
प्रवृत्तिं यो न जानाति साऽऽशा कृशतरी मया॥ शान्ति.१२८/१६॥
प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता।
तथा नरेन्द्र धनिनां साऽऽशा कृशतरी मया॥ शान्ति.१२८/१७॥
प्रदानकाङ्क्षिणीनां च कन्यानां वयसि स्थिते।
श्रुत्वा कथास्तथायुक्ताः साऽऽशा कृशतरी मया॥ शान्ति.१२८/१८॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
अगदं वोऽस्तु भद्रं वो॥ सभा.७८/२१॥
अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता॥ सभा.७९/६॥
ह्रीः श्रीः कीर्तिर्द्युतिः पुष्टिरुमा लक्ष्मीः सरस्वती।
विश्वेदेवांस्तथा साध्याञ्छान्त्यर्थं भरतर्षभ॥ वन. ३७/३५॥
स्वस्ति ते चान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक।
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत्।
गुणाश्च षण्मितभुक्तं भजन्ते आरोग्यमायुश्च बलं सुखं च।
यातयामं गतरसं पूति पर्युषितं च यत्।
यस्तु तिक्तं कषायं वा स्वादु वा मधुरं हितम्।
आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते॥ शान्ति.१३९/८०॥
पथ्यं मुक्त्वा तु यो मोहाद् दुष्टमश्नाति भोजनम्।
परिणाममविज्ञाय तदन्तं तस्य जीवितम्॥ शान्ति.१३९/८१॥
यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा॥ शान्ति.२१२/१४॥
आहारनित्यमेनास्य पाप्मा शाम्यति राजसः॥ शान्ति.२१७/१८॥
वैमनस्यं च विषये यान्त्यस्य करणानि च।
तस्मात् तन्मात्रमादद्यात् यावदत्र प्रयोजनम्॥ शान्ति.२१७/१९॥
अन्तरा प्रातरांश च सायमाशं तथैव च।
सदोपवासी स भवेद् यो न भुङ्क्तेऽन्तरा पुनः॥ शान्ति.२२१/१०॥
न भक्षयेत् तथा मांसममांसाशी भवत्यति।
दाननित्यः पवित्रश्च अस्वप्नश्च दिवास्वपन्॥ शान्ति.२२१/१२॥
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु सदा सदा।
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर॥ शान्ति.२२१/१३॥
ब्रह्मचर्यात् परं तात मधुमांसस्य वर्जनम्।
हितं पथ्यं सदाहारं जीर्णं भुञ्जीत मात्रया॥ अनु.१४५ दा.पा.V॥
कृमि केशमलैर्हीनं संवृतं शुद्धदर्शनम्॥ अनु.१४५ दा.पा.XI॥
सदा चात्यशनं नाद्यान्नाति हीनं च कर्हिचित्।
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
न ते जयफलं किंचिद् भोक्तारो जातु कर्हिचित्॥ शान्ति.७/२०॥
अपूर्यां पूरयन्निच्छामायुषापि न शक्नुयात्॥ शान्ति.१७/४॥
यदा संहरते कामान् कूर्मोऽङ्गानीव सर्वशः।
यद् यत् जयति कामानां तत् सुखस्याभिपूर्यते।
एतां बुद्धिं समास्थाय सुखमास्ते गुणान्वितः।
सर्वान् कामान् जुगुप्सेत कामान् कुर्वीत पृष्टतः॥ शान्ति.१७४/४९॥
वृत्त एष हृदि प्रोढौ मृत्युरेष मनोभवः।
क्रोधो नाम शरीरस्थो देहिनां प्रोच्यते बुधैः॥ शान्ति.१७४/५०॥
नोर्ध्वं नावाङ् न तिर्यक् च न क्वचिच्छक्र कामये।
न हि ज्ञेये न विज्ञाने न ज्ञाने कर्म विद्यते॥ शान्ति.२२२/३२॥
यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम्।
यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः।
यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः।
तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च।
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
ॠतौ दारांश्च गच्छन्ति तत् तथा भरतर्षभ।
आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः॥ आदि.६४/१२॥
इन्द्रियाण्येव तत् सर्वं यत् स्वर्गनरकावुभौ।
एवं पुन र्ब्रह्मचर्याप्रसक्तो हित्वा धर्मं यः प्रकरोत्यधर्मम्।
दम्स्तेजो वर्घयति पवित्रं दम उत्तमम्।
नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः॥ सौप्तिक. ५/१॥
तथैव तावन्मेधावी विनयं यो न शिक्षते।
न च किंचन जानाति सोऽपि धर्मार्थ निश्चयम्॥ सौप्तिक. ५/२॥
न स धर्मान् विजानाति दर्वी सूपरसानिव॥ सौप्तिक. ५/३॥
मुहूर्तमपि तं प्राज्ञः पण्डितं पर्युपास्य हि।
क्षिप्रं धर्मान् विजानाति जिह्वा सूपरसानिव॥ सौप्तिक. ५/४॥
जानीयादागमान् सर्वान् ग्राह्यं च न विरोधयेत्॥ सौप्तिक. ५/५॥
दिष्टमुत्सृज्य कल्याणं करोति बहुपापकम्॥ सौप्तिक. ५/६॥
सन्तुष्टः सत्यवादी यः स शान्तिमधिगच्छति॥ स्वी.७/१८॥
छिन्द्याद् दुःखमहाव्याधिं नरः संयतमानसः॥ स्वी.७/२१॥
न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः।
तथोन्मोचयते दुःखाद् यथाऽऽत्मा स्थिरसंयमः॥ स्वी.७/२२॥
दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः॥ स्वी.७/२३॥
शीलरश्मिसमायुक्तः स्थितो यो मानसे रथे।
त्यक्त्वा मृत्युभयं राजन् ब्रह्मलोकं स गच्छति॥ स्वी.७/२४॥
प्रतिषेद्धा न चाप्येषु दुर्बलेष्वहितेष्वपि॥ शान्ति.१०४/४७॥
सत्त्वेन रजसा चैव तमसा चैव मोहिताः।
चक्रवत् परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम्॥ शान्ति.२१२/१७॥
क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च॥ शान्ति.२१२/१५॥
क्रिया तपश्च सत्यं च दमे सर्वं प्रतिष्ठितम्॥ शान्ति.२२०/३॥
विपाप्मा निर्भयो दान्तः पुरुषो विन्दते महत्॥ शान्ति.२२०/४॥
नान्यत्र सर्वसंत्यागात् सिद्धिं विन्दति कश्चन॥ शान्ति.२३९/५॥
चतुर्द्वारं पुरुषं चतुर्मुखं चतुर्धा चैनमुपयाति वाचा।
बाहुभ्यां वाच उदरादुपस्थात् तेषां द्वारं द्वारपालो बुभूषेत्॥शान्ति.२६९/२३॥
नाक्षैर्दीव्येन्नाददीतान्यवित्तं न वायोनीयस्य श्रृतं प्रगृह्णात्।
क्रुद्धो न चैव प्रहरेत धीमांस्तथास्य पाणिपादं सुगुप्तम्॥शान्ति.२६९/२४॥
नाक्रोशमृच्छेन्न वृथा वदेच्च न पैशुनं जनवादं च कुर्यात्।
नानाशनः स्यान्न महाशनः स्यादलोलुपः साधुभिरागतः स्यात्।
न वीर पत्नीं विहरेत नारीं न चापि नारीमनृतावाह्वयीत।
उपस्थमुदरं हस्तौ वाक् चतुर्थी स धर्मवित्॥ शान्ति.१९९/२८॥
संनियम्य तु तान्येव सिद्धिमाप्नोति मानवः॥ शान्ति.३२३/८॥
परिग्रहं परित्यज्य भव तात जितेन्द्रियः।
अशोकं स्थानमातिष्ठ इह चामुत्र चाभयम्॥ शान्ति.३२९/२०॥
हरन्ति दोषजातानि नरं जातं यथेच्छकम्।
दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः॥ अनु.७५/११॥
दाता कुप्यति नो दान्तस्तस्माद् दानात् परं दमः॥ अनु.७५/१५॥
इन्द्रियाणां निरोधेन दानेन च दमेन च।
नरः सर्वमवाप्नोति मनसा यद् यदिच्छति॥अनु.१४५ दा.पा.अ.IV॥
निवृत्तिः परमो धर्मो निवृत्तिः परमं सुखम्।
मनसा विनिवृत्तानां धर्मस्य निचयो महान्॥ अनु.१४५ दा.पा.अ.IV॥
मनः षष्ठानि संयम्य नित्यमात्मनि योजयेत्॥
संनियम्य नु तान्येव ततः सिद्धिमवाप्नुयात्॥
न च पापैर्न चानर्थैः संयुज्येत विचक्षणः॥ अनु.१४५ दा.पा.अ.XIV॥
अरक्षितेषु तेष्वाशु नरो नरकमेति हि॥ अनु.१४५ दा.पा.अ.XIV॥
इन्द्रियेषु च जीर्यत्सु च्छिद्यमाने तथाऽऽयुषि।
पुरस्ताच्च स्थिते मृत्यौ किं सुखं पश्यतः शुभे॥अनु.१४५ दा.पा.अ.XIV॥
नरस्याकृतकृत्यस्य किं सुखं मरणे सति॥ अनु.१४५ दा.पा.अ.XIV॥
संसारे पच्यमानस्तु पापान्नोद्विजते जनः॥ अनु.१४५ दा.पा.अ.XIV॥
यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणि तथिअव च॥ अनु.१६२/४९॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
य ईर्षुः परवित्तेषु रूपे वीर्ये कुलोन्वये।
बहवः पण्डिता मूर्खा लुब्धा मायोपजीविनः।
श्रियं विशिष्टां विपुलं यशो धनं न दोषदर्शी पुरुषः समुश्नते॥शान्ति.१२०/५४॥
सत्यत्यागात् तु मात्सर्यमहितानां च सेवया।
एतत् तु क्षीयते तात साधूनामुपसेवनात्॥ शान्ति.१६३/१५॥
ईर्ष्या कामात् प्रभवति संहर्षाच्चैव जायते।
इतरेषां तु सत्त्वानां प्रज्ञया सा प्रणश्यति॥ शान्ति.१६३/१७॥
न तथा वक्तुमिच्छन्ति कल्याणान् पुरुषे गुणान्।
अनायुष्या भवेदीर्ष्या तस्मादिर्ष्यां विवर्जयेत्॥ अनु.१०४/१३७॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये।
यथा दारुमयी योषा नरवीर समाहिता।
आकाश इव भूतानि व्याप्य सर्वाणि भारत।
मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः।
यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः।
आर्ये कर्मणि युञ्जानः पापे वा पुनरीश्वरः।
उत सन्तमसन्तं वा बालं वृद्धं च संजय।
यतो न वेदा मनसा सहैनमनुप्रविशन्ति ततोऽथमौनम्।
अग्राह्यमव्यक्तमवर्णमेकं पञ्चप्रकारान् ससुजे प्रजानाम्॥ शा.२०१/२६॥
न स्त्री पुमान् नापि नपुंसकं च न सन्न चासत् सदसच्च तन्न।
पश्यन्ति यद् ब्रह्मविदो मनुष्यास्तदक्षरं न क्षरतीति विद्धि॥शा.२०१/२७॥
नोष्णं न शीतं मृदु नापि तीक्ष्णं नाम्लं कषायं मधुरं न तिक्तम्।
न शब्दवन्नपि च गन्धवत्तन्न रूपवत् तत् परमस्वभावम्॥ शा.२०२/३॥
न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः।
मनसा तु प्रदीपेन महानात्मा प्रकाशते॥ शान्ति.२३९/१६॥
अशरीरं शरीरेषु निरीक्षेत निरिन्द्रियम्॥ शान्ति.२३९/१७॥
य एवं सततं वेद सोऽमृतत्वाय कल्पते॥ शान्ति.२३९/२२॥
यस्मिंस्तु पच्यते कालस्तं वेदेह न कश्चन॥ शान्ति.२३९/२५॥
विधूम इव सप्तार्चिरादित्य इव रश्मिमान्।
ईश्वरेण च युक्तोऽयं साध्वसाधु च मानवः।
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः।
अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम्॥ शान्ति.१५३/५१॥
अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च॥ शान्ति.१५३/११६॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च।
अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः।
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
सुहृन्मित्रनास्तेषु सौहृतं न च कुर्वते॥ आदि.७९/१२ दा.पा.१३॥
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि।
शनैर्दुःखं शस्त्र विषाग्नि जातं तान् पण्डितो नावसृजेत् परेषु॥आदि.७९॥१३ दा.पा.॥
संरोहति शरैर्विद्धं वनं परशुना हतम्।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्॥ आदि.१/१३ दा.पा.॥
नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत।शान्ति.२९९/८॥
ययास्य वाचा पर उद्विजेत न तां वदेदुषतीं पापलोक्याम्॥आदि.८७/८॥
विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निर्ऋतिं वहन्तम्॥आदि.८७/८॥
तस्मात् सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित्।
पूज्यान् सम्पूज्येद् दद्यान्न च याचेत कदाचन॥ आदि.८७/१३॥
अमित्रतां याति नरोऽक्षमं ब्रुवन् निगूहते गुह्यममित्रसंस्तवे॥ सभा.६४/५॥
भषन्ति हैवं श्वनराः सदैव॥ सभा.६६/९॥
वाक्संयमो हि नृपते सुदुष्करतमो मतः।
अभ्यावहति कल्याणं विविधं वाक् सुभाषिता।
रोहते सायकैर्विद्धं वनं परशुना हतम्।। आदि.७९/१३ दा.पा.॥
वाक्सायका वदनान्निषपतन्ति यैराहतः शोचति रात्र्यहानि।
मर्माण्यस्थीनि हृदयं तथासून् रूक्षा वाचो निर्दहन्तीह पुंसाम्।
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम्॥ शान्ति.७९/२१॥
ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः॥ शान्ति.८३/७॥
ऊर्ध्वं देहविमोक्षात् ते भवन्त्येतासु योनिषु॥ शान्ति.१०९/२९॥
यस्मिन यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः।
मायाचारो मायया बाधितव्यः साध्वाचारः साधुना प्रत्युपेयः॥ शान्ति.१०९/३०॥
व्याजेन विन्दन् वित्तं हि धर्मात् स परिहीयते॥ शान्ति.१३२/१८॥
न ह्यत्यन्तं बलवन्तो भवन्ति सुखिनोऽपि वा।
तस्मादनार्जवे बुद्धिर्न कार्या ते कदाचन॥ शान्ति.२५९/१४॥
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः।
कर्णं दृष्ट्वा भुवि निपतितं पार्थबाणाभितप्तम्।
जानामि समरे वीर्यं शत्रुभिर्दुःसहं भुवि।
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
कर्मणामी भान्ति देवाः परत्र कर्मणैवेह प्लवते मातरिश्वा।
अतन्द्रिता भारमिमं पहान्तं बिभर्ति देवी पृथिवी बलेन।
अतन्द्रितो वर्षति भूरितेजाः संनादयन्नन्तरिक्षं दिशश्च।
प्रायशो हि कृतं कर्म नाफलं दृश्यते भुवि।
कर्मणा प्राप्यते स्वर्गः सुखं दुःखं च भारत॥ स्त्री.३/११॥
न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः॥ स्त्री.१८/१२॥
अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत्।
तस्मात् कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः॥ शान्ति.१०/२८॥
शुभं हि कर्म राजेन्द्र शुभत्वायोपपद्यते॥ शान्ति.५९/१३०॥
कर्मणा वर्धते धर्मो यथा धर्मस्तथैव सः॥ शान्ति.६५/१०॥
कर्म चात्महितं कार्यं तीक्ष्णं वा यदि व मृदु।
तस्मात् सर्वं व्यपोह्यार्थं कार्य एव पराक्रमः।
सर्वस्वमपि संत्यज्य कार्यमात्महितं नरैः॥ शान्ति.१३९/८४॥
विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम्।
निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः।
एतान्युपहितान्याहु सर्वत्र लभते पुमान्॥ शान्ति.१३९/८६॥
यत् कृतं स्याच्छुभं कर्म पापं वा यदि वाश्नुते।
तस्माच्छुभानि कर्माणि कुर्याद् वा बुद्धिकर्मभिः॥ शान्ति.२१५/५॥
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा।
सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसाः।
च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः।
किंचिद् दैवाद् हठात् किंचित् किंचिदेव स्वकर्मभिः।
धनानि येषां विपुलानि सन्ति नित्यं रमन्ते सुविभूषिताङ्गाः।
ये योगयुक्तास्तपसि प्रसक्ता स्वाध्यायशीलाः जरयन्ति देहान्।
ये धर्ममेव प्रथमं चरन्ति धर्मेण लब्ध्वा च धनानि काले।
विषमां च दशां प्राप्तो देवान् गर्हति वै भृशम्।
न कर्मणां विप्रणाशोऽस्त्यमुत्र पुण्यानां वाप्यथवा पापकानाम्।
जहाति मृत्युं च जरां भयं च न क्षुत्पिपासे मनसोऽप्रियाणि।
तस्मिन् स्थितो वाप्युभयं हि नित्यं ज्ञानेन विद्वान् प्रतिहन्ति सिद्धम्।
शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति।
अनुधावति धावन्तं कर्म पूर्वकृतं नरम्॥ स्त्री.२/३२॥
तस्यां तस्यामवस्थायां तत्फलं समुपाश्नुते॥ स्त्री.२/३३
तेन तेन शरीरेण तत्फलं समुपाश्नुते॥ स्त्री.२/३४॥
अतिरिच्येत यो यत्र तत्कर्ता लभते फलम्॥ शान्ति.३५/४०॥
न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा।
मार्गेणान्येन गच्छन्ति बद्धाः सुकृत दुष्कृतैः॥ शान्ति.१५३/३८॥
एकः क्लेशानवाप्नोति परत्रेह च मानवः॥ शान्ति.१७४/२५॥
पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम्।
प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम्॥ शान्ति.१७४/४७॥
शेते सहशयानेन येन येन यथा कृतम्॥ शान्ति.१८१/८॥
करोति कुर्वतः कर्म च्छायेवानुविधीयते॥ शान्ति.१८१/९॥
येन येन यथा यद् यत् पुरा कर्म समीहितम्। शान्ति.३२२/१०॥
तदेकतरो भुङ्क्ते नित्यं विहितमात्मना॥ शान्ति.१८१/१०॥
अचोद्यमानानि यथा पुष्पाणि फलानि च। शान्ति.३२२/१२॥
स्वं कालं नातिवर्तन्ते तथा कर्म पुरा कृतम्॥ शान्ति.१८१/१२॥
आत्मना विहितं दुःखमात्मना विहितं सुखम्। शान्ति.३२२/१४॥
यथा धेनुसहस्त्रेषु वत्सो विन्दति मातरम्।
तथा पूर्वकृतं कर्म कर्त्तारमनुगच्छति॥ शान्ति.१८१/१६॥
यः करोत्यनभिसंधिपूर्वकं तच्च निर्णुदति यत्पुराकृतम्।
नाप्रियं तदुभयं कुतः प्रियं तस्य तज्जनयतीह सर्वतः॥शान्ति.१९४/६१॥
यथाकर्म तथा लाभ इति शास्त्रनिदर्शनम्॥ शान्ति.२७९/२०॥
तिर्यग् गच्छन्ति नरकं मानुष्यं देवमेव च।
सुखदुःखे प्रिये द्वेष्ये चरित्वा पूर्वमेव ह॥ शान्ति.२७९/२१॥
भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम्।
सुकृतैर्विदन्ते सौख्यं प्राप्य देहक्षयं नरः॥ शान्ति.२९०/१२॥
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्।
कुरुते यादृशं कर्म तादृशं प्रतिपद्यते॥ शान्ति.२९०/१६॥
निरन्तरं च मिश्रं च लभते कर्म पार्थिव।
कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते॥ शान्ति.२९०/१७॥
नायं परस्य सुकृतं दुष्कृतं चापि सेवते।
करोति यादृशं कर्म तादृशं प्रतिपद्यते॥ शान्ति.२८०/२॥
न माता न पिता किंचित् कस्यचित् प्रतिपद्यते।
माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा।
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम्॥ शान्ति.३३१/९॥
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा।
न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह।
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च॥ अनु.७/५॥
पुण्यान् पुण्यकृतो यान्ति पापान् पापकृतो नराः॥ अनु.१०२/२॥
कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये।
धर्मोऽपि हि मनुष्येषु कमार्थश्च तथा गुणाः॥ अनु.११८/४॥
कर्मणा मनसा वाचा ये न हिंसन्ति किंचन॥ अनु.१४४/७॥
तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः॥ अनु.१४४/९॥
यादृशं कुरुते कर्म तादृशं फलमश्नुते।अनु.१४५ दा.पा.अ.VI॥
सर्वदाऽऽत्मा कर्मवशो नानाजातिषु जायते॥ अनु.१४५ दा.पा.अ.X॥
केवलं चाभिसंधाय संरम्भाच्च करोति यत्।
कर्मणस्तस्य नाशस्तु न कथंचन विद्यते॥ अनु.१४५ दा.पा.अ.VIII॥
अन्यथा यत् कृतं पापं प्रमादाद् वा यदृच्छया।
प्रायश्चित्ताश्वमेधाभ्यां श्रेयसा तत् प्रणश्यति॥ अनु.१४५ दा.पा.अ.VIII॥
कर्म कर्त्ता नरोऽभोक्ता स नास्ति दिवि वा भुवि॥अनु.१४५ दा.पा.अ.VIII॥
न शक्यं कर्म चाभोक्तुं सदेवासुरमानुषैः॥ अनु.१४५ दा.पा.अ.VIII॥
शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम्।
यस्य यद् विहितं वीर सोऽवश्यं तदुपाश्नुते॥ महा प्रस्थान २/१७॥
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
मृषा वादं परिहरेत् कुर्यात् प्रियमयाचितः।
काम लोभ ग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम्।
नित्यं क्रोधात् तपो रक्षेद् धर्मं रक्षेच्च मत्सरात्।
आनृशंस्यं परो धर्मः क्षमा च परमं बलम्।
बुद्ध्या भयं प्रणुदति तपसा विन्दते महत्।
स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः।
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम्॥ शान्ति.१३/४॥
ईषदप्यङ्ग दाराणां पुत्राणां वा चराप्रियम्।
ततो ज्ञास्यसि कः कस्य केन वा कथमेव च॥ शान्ति.२५/२७॥
हितहितांस्तु बुद्ध्येथा मा परोक्षमतिर्भवेः॥ शान्ति.८२/३४॥
पर्वतात् विषमाद् दुर्गाद्धस्तिनोऽश्वात् सरीसृपात्॥ शान्ति.९०/३१॥
एतेभ्यो नित्ययत्तः स्यान्नक्तंचर्यां च वर्जयेत्।
अत्यागं चाभिमानं च दम्भं क्रोधं च वर्जयेत्॥ शान्ति.९०/३२॥
अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च।
परभार्यासु कन्यासु नाचेरन्मैथुनं नृपः॥ शान्ति.९०/३३॥
क्रोधं निहन्तुं यो वेद तस्य द्वेष्टा न विद्यते॥ शान्ति.९४/९॥
द्वावेव सुखमेधेते दीर्घसूत्री विनश्यति॥ शान्ति.१३७/१॥
अप्रियं परुषं वापि परद्रोहं परस्त्रियम्।
अधर्ममनृतं चैव दूरात् प्राज्ञो विवर्जयेत्॥ शान्ति.१५३/८०॥
धर्मं सत्यं श्रुतं न्याय्यं महतीं प्राणिनां दयाम्।
अजिह्मत्वमशाठ्यं च यत्नतः परिमार्गत॥ शान्ति.१५३/८१॥
समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्तवत्॥ शान्ति.१७५/३१॥
निर्वेदश्चाविधित्सा च यस्य स्यात् स सुखी नरः॥ शान्ति.१७७/२॥
क्षमिष्ये क्षिपमाणानां न हिंसिष्ये विहिंसितः।
द्वेष्ययुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम्॥ शान्ति.१७७/४३॥
निर्वेदं निर्वृत्ति तृप्तिं शान्तिं सत्यं दमं क्षमाम्।
सर्वभूतदयां चैव विद्धि मां समुपागतम्॥ शान्ति.१७७/४५॥
तस्मात् कामश्च लोभश्च तृष्णा कार्पण्यमेव च।
त्यजन्तुं मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि साम्प्रतम्॥ शान्ति.१७७/४६॥
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना॥ शान्ति.१८९/१४॥
अविस्त्रम्भे न गन्तव्यं विस्त्रम्भे धारयेन्मनः।
मनः प्राणे निगृह्णीयात् प्राणं ब्रह्मणि धारयेत्॥ शान्ति.१८९/१६॥
क्रोधो हर्षो विषादश्च जायन्तेह परस्परात्॥ शान्ति.२१२/८॥
गुरुपूजा च सततं वृध्दानां पर्युपासनम्।
श्रवणं चैव शास्त्राणां कूटस्थं श्रेय उच्यते॥ शान्ति.२८७/२॥
परेषां यदसूयेत न तत् कुर्यात् स्वयं नरः॥ शान्ति.२९०/२४॥
यदा व्यपेत हृल्लेखं मनो भवति तस्य वै।
नानृतं भवति तदा कल्याणमृच्छति॥ शान्ति.२९४/३१॥
निवृत्तिः कर्मणः पापात् सततं पुण्यशीलता।
सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम्॥ शान्ति.३२९/७॥
नित्यं क्रोधात् तपो रक्षेच्छ्रियं रक्षेच्चमत्सरात्।
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः॥ शान्ति.३२९/११॥
न हि त्वां प्रस्थितं कश्चित् पृष्ठतोऽनुगमिष्यति।
सुकृतं दुष्कृतं च त्वां यास्यन्तमनुयास्यति॥ शान्ति.३२९/३५॥
त्यज धर्ममधर्मं च तथा सत्यानृते त्यज।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज॥ शान्ति.३२९/४०॥
उभे सत्यानृते बुध्द्या बुध्दिं परम निश्चयात्॥ शान्ति.३२९/४१॥
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
त्यागः कामवतीनां हि स्त्रीणां सद्मिर्विगर्हितः॥ आदि.९७/५॥
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम्।
तस्माद् धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः।
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च।
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम्॥
उपस्थितस्य कामस्य प्रतिवादो न विद्यते।
कामे प्रसक्तः पुरुषः किमकार्यं विवर्जयेत्॥ शान्ति.८८/२१॥
संकल्पाज्जायते कामः सेव्यमानो विवर्धते॥ शान्ति.१६३/८॥
यदा प्राज्ञो विरमते तदा सद्यः प्रणश्यति॥
नाकामः कामयानोऽस्ति तस्मात् कामः विशिष्यते॥ शा.१६७/२९॥
वणिजः कर्षकाः गोपाः कारवः शिल्पिनस्तथा।
देवकर्मकृतश्चैव युक्ताः कामेन कर्मसु॥ शान्ति.१६७/३२॥
श्रेयस्तैलं हि पिण्याकाद् घृतं श्रेय उदश्वितः॥
श्रेयः पुष्पफलं काष्ठात् कामो धर्मार्थयोर्वरः॥ शान्ति.१६७/३५॥
यः कामानाप्नुयात् सर्वान् यश्चैतान् केवलांस्त्यजेत्।
प्रापणात् सर्वकामानां परित्यागो विशिष्यते॥ शान्ति.१७७/१६॥
न पूर्वे नापरे जातु कामानामन्तमाप्नुवन्।
त्यक्त्वा सर्वसमारम्भान् प्रतिबुद्धोऽस्मि जागृमि॥ शान्ति.१७७/२२॥
जानामि काम त्वां चैव यच्च किंचित् प्रियं तव।
काम जानामि ते मूलं संकल्पात् किल जायसे।
न त्वां संकल्पयिष्यामि समूलो न भविष्यसि॥ शान्ति.१७७/२५॥
तृष्णशोकश्रमाणां हि त्वं काम प्रभवः सदा॥ शान्ति.१७७/३३॥
यद् यदालम्बसे काम तत्तदेवानुरुध्यसे॥ शान्ति.१७७/३७॥
नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम्॥ शान्ति.१७७/३८॥
परित्यजामि काम त्वां हित्वा सर्वमनोगतीः।
न त्वं मया पुनः काम वत्स्यसे न च रंस्यसे॥ शान्ति.१७७/४२॥
तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन्।
न सकामं करिष्यामि त्वामहं शत्रुमात्मनः॥ शान्ति.१७७/४४॥
यद् यत् त्यजति कामानां तत् सुखस्याभिपूर्यते।
कामस्य वशगो नित्यं दुःखमेव प्रपद्यते॥ शान्ति.१७७/४८॥
कामानुबन्धं नुदेत यत् किंचित् पुरुषो रजः।
आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम्।
प्राप्यावध्यं ब्रह्मपुरं राजेव स्यामहं सुखी॥ शान्ति.१७७/५२॥
परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम्।
मूलं बुद्धिरिन्द्रियग्रामं शकुन्तमिव पञ्जरे॥ शान्ति.१८०/२८॥
न खल्वप्यरसज्ञस्य कामः क्वचन जायते।
संस्पर्शाद् दर्शनाद् वापि श्रवणाद् वापि जायते॥ शान्ति.१८०/३०॥
यां यामवस्थां पुरुषोऽधिगच्छेत् तस्यां रमेतापरितप्यमानः।
एवं प्रवृद्धं प्रणुदन्मनोजं संतापनीयं सकलं शरीरात्॥शान्ति.२२६/१७॥
सोऽभ्यसूयापलाशो हि पुरा दुष्कृतसारवान्॥ शान्ति.२५४/२॥
आयसैः संयुताः पाशैः फलदं परिवेष्ट्य तम्॥ शान्ति.२५४/४॥
यस्तान् पाशान् वशे कृत्वा तं वृक्षमपकर्षति।
गतः स दुःखयोरन्तं जरामरणयोर्द्वयोः॥ शान्ति.२५४/५॥
अलभश्चापि रक्तस्य सोऽपि दोषो विषोपमः॥ शान्ति.३२०/६९॥
सर्वोपयात् तु कामस्य क्रोधस्य च विनिग्रहः।
कार्यः श्रेयोऽर्थिना तौ हि श्रेयोघातार्थमुद्यतौ॥ शान्ति.३२९/१०॥
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
कालमूलमिदं सर्वं भावाभावौ सुखासुखे॥ आदि.१/२४७॥
कालः सृजति भूतानि कालः संहरते प्रजाः।
संहरन्तं प्रजाः कालं कालः शमयते पुनः॥ आदि.१/२४८॥
कालः सुप्तेशु जागर्ति कालो हि दुरतिक्रमः।
कालः सर्वेषु भूतेषु चरत्यविधृतः समः॥ आदि.१/२५०॥
अतीतानागता भावा ये च वर्तन्ति साम्प्रतम्।
तान् निर्मितान् बुद्धवा न संज्ञां हातुमर्हसि॥ आदि.१/२५१॥
त्रीण्यर्पितान्यत्र शतानि मध्ये षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन्।
चक्रे चतुर्विंशतिपर्वयोगे षड् वै कुमाराः परिवर्तयन्ति॥ आदि.३/१४६॥
तन्त्रं चेदं विश्वरूपे युवत्यौ वयतस्तन्तून् सततं वर्तयन्त्यौ।
कृष्णान् सितांश्चैव विवर्तयन्त्यौ भुत्यान्यजस्त्रं भुवनानि चैव॥आदि.३/१४७॥
न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित्।
असंशयं पार्थिवेन्द्र कालः संक्षिपते जगत्।
कालः कर्षति भूतानि सर्वाणि विविधान्युत।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम॥ स्त्री.२/८॥
कालः पचति भूतानि कालः संहरते प्रजाः॥ स्त्री.२/२४॥
न तस्य मातापितरौ नानुग्राह्यो हि कश्चन।
कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः॥ शान्ति.३३/१७॥
यध्दन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम्॥ शान्ति.३३/१८॥
कालो नित्यमुपादत्ते सुखं दुःखं च देहिनाम्॥ शान्ति.१३९/५२॥
कालः सर्वं समादत्ते कालः सर्वम् प्रयच्छति।
कालेन विहितं सर्वं मा कृथाः शक्र पौरुषम्॥ शान्ति.२२४/२५॥
कालः स्थापयते सर्वं कालः पचति वै तथा॥ शान्ति.२२४/३८॥
पूर्वाह्णमपराह्णं च मध्यान्हमपि चापरे॥ शान्ति.२२४/५३॥
तं कालमिति जानीहि यस्य सर्वमिदं वशे॥ शान्ति.२२४/५४॥
न विद्या न तपो दानं न मित्राणि न बान्धवाः।
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम्॥ शान्ति.२२७/३१॥
लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ॥ शान्ति.२२७/८३॥
वधबन्ध प्रमोक्षं च सर्वं कालेन लभ्यते।
न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति॥ शान्ति.२२७/८६॥
तेन शक्र न शोचामि नास्ति शोके सहायता।
न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित्॥ शा.२२७/९३॥
अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु॥ शान्ति.२२७/९५॥
अहोरात्रांश्च मासांश्च क्षणान् काष्ठा लवान् कलाः॥ शा.२२७/९७॥
सम्पीडयति यः कालो वृध्दिं वार्धुषिको यथा।
आवार्तमानमजरं विवर्तनं षण्णाभिकं द्वादशारं सुपर्व।
यस्येदमास्ये परियाति विश्वं तत् कालचक्रं निहितं गुहायाम्॥ शान्ति.२४५/३२॥
यथाऽऽकाशे न तिष्ठेत द्रव्यं किंचिदचेतनम्।
तथा धावति कालोऽयं क्षणं किंचिन्न तिष्ठति॥ अनु.१४५ दा. पा.॥
एवं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत॥ मौसल ८/३२॥
काल एव समादत्ते पुनरेव यदृच्छया।
स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः।
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्॥ शान्ति.१७३/२०॥
अर्थी तु शक्यते भोक्तुं कृतकार्योऽवमन्यते।
तस्मात् सर्वाणि कार्याणि सावशेषाणि कारयेत्॥ शान्ति.१४०/२०॥
क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते॥ शान्ति.१७२/२४॥
ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा। शान्ति.२७१/११॥
निष्कृतिर्विहिता राजन् कृतघ्ने नास्ति निष्कृतिः॥ शान्ति.१७२/२५॥
मित्रद्रोही बुधैः पापः कृतघ्नश्च नराधमः।
क्रव्यादैः कृमिभिश्चैव न भुज्यन्ते हि तादृशाः॥ शान्ति.१७२/२६॥
परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः।
लोभः पुत्रो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम्॥ शान्ति.२७१/१२॥
कृतघ्नानां गतिस्तात नरकं शाश्वती समाः।
मातापितृगुरूणां च ये न तिष्ठन्ति शासने॥
दुर्लभो हि पुनस्तेषां मानुष्ये पुनरुद्भवः॥ अनु.१२ दाक्षिणात्य पाठ॥
कृतघ्ना नरकं यान्ति ये तु विश्वासघातिनः॥ अनु.१२ दा.पा.॥
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
यतः कृष्णस्ततः सर्वे यतः कृष्णस्ततो जयः॥ आदि.२०४/२६॥
जयोऽस्माकं गोविन्द येषां नाथो भवान् सदा॥ सभा.१५/दा.पा.१३॥
न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी॥ सभा.२०/१०॥
न शौरिणा विना पार्थो न शौरिः पाण्डवं विना॥ सभा.२०/१४॥
पुरस्कुर्वीत कार्येषु कृष्णं कार्यार्थसिद्धये॥ सभा.२०/१९॥
नृणां लोके हि कोऽन्योऽस्ति विशिष्टः केशवादृते॥ सभा.३८/१९॥
दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्त्तिर्बुद्धिरुत्तमा।
सन्नतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते॥ सभा.३८/२०॥
ॠत्विग् गुरुस्तथाऽऽचार्यः स्नातको नृपतिः प्रियः।
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन।
द्यौश्च ते शिरसा व्याप्ता पद्भ्यां च पृथिवी प्रभो।
यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः।
कालचक्रं जगच्चक्रं युगचक्रं च केशवः।
त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम्।
ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु संनतिः।
जय एव ध्रुवस्तस्य कुत एव पराजयः।
ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव।
ब्रह्म सत्यं दमः शौचं धर्मौ ह्रीः श्रीर्धृतिः क्षमा।
कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्नतः।
आगमो हि परः कृष्ण त्वत्तो नो वासवानुज॥ शान्ति.४८/१५॥
कृते युगे धर्म आसीत् समग्रस्त्रेताकाले ज्ञानमनुप्रपन्नः।
बलं त्वासीद् द्वापरे पार्थ कलौ कृष्णः त्वधर्मः क्षितिमेवाजगाम॥अनु.१५८/१०॥
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम्॥ आदि.४२/८॥
यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा।
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते॥ आदि.७९/२॥
देवयानि विजानीहि तेन सर्वमिदं जितम्॥ आदि.७९/३॥
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम्॥ आदि.७९/५॥
पुत्रभृत्य सुहृन्मित्र भार्या धर्मश्च सत्यता।
तस्यैतान्यपयास्यन्ति क्रोधशीलस्य निश्चितम्॥ आदि.७९/६ दा.पा.७॥
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षिता।
स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्वजिगीषुभिः॥ आदि.१७९/४॥
यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति।
नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम्॥ आदि.१७९/३॥
आशीविषान् नेत्रविषान् कोपयेन्न पण्डितः॥ सभा.६४/२०॥
सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य॥ सभा.६४/१८॥
अस्थाने वा यदि स्थाने सततं रजसाऽऽवृतः।
मित्रैः सह विरोधं च प्राप्नुते तेजसाऽऽवृतः।
क्रुद्धः पापं नरः कुर्यात् क्रुद्धो हन्याद् गुरूनपि।
वाच्यावाच्ये हि कुपितः न प्रजानाति कर्हिचित्।
हिंस्यात् क्रोधादवध्यांस्तु वध्यान् सम्पूजयीत च।
शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात्।
न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः।
कोपाग्निः शाम्यते राजंस्तोयाऽग्निरिव सागरे॥ शान्ति.१३९/४५॥
लोभात् क्रोधः प्रभवति परदोषैरुदीर्यते॥ शान्ति.१६३/७॥
क्षमया तिष्ठते राजन् क्षमया विनिवर्तते॥
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः।
एतत् पवित्रं ज्ञानानां तथा चैवात्मसंयमः॥ शान्ति.१८९/९॥
नित्यं क्रोधाच्छ्रियं रक्ष्येत् तपोरक्षेच्च मत्सरात्॥ शा.१८९/१०॥
तस्य माया पिनध्दाङ्गा नष्टज्ञाना विचेतसः।
मानवा ज्ञानसम्मोहात् ततः क्रोधं प्रयान्ति वै॥ शान्ति.२१२/३॥
क्रोधात् काममवाप्याथ लोभमोहौ च मानवाः।
मोघः श्रमो भवति हि क्रोधनस्य॥ शान्ति.२९९/२७॥
न च रोषादहं साध्वि पश्येयमधिकं तमः॥ शान्ति.३६०/१४॥
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
क्षत्रियो बाहुवीर्यस्तु न तथा वाक्वीर्यवान्॥ सभा.२१/५१॥
क्षत्रियस्य महाराज जये वृत्तिः समाहिता।
स वै धर्मस्त्वधर्मो वा स्ववृत्ती का परीक्षणा॥ सभा.५५/७॥
यो न दर्शयते तेजः क्षत्रियः काल आगते।
तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति।
न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः।
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव।
नैष शूरै स्मृतो धर्मः क्षत्रियस्य पलायनम्।
तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रमत्तोऽथ दत्वा।
आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः।
क्रव्याद् भय इव भूतानामदान्तेभ्यः सदा भयम्।
जयो वधो वा संग्रामे धात्राऽऽदिष्टः सनातनः।
स्ववीर्याद् यः पराक्रम्य पाप आह्वयते परान्।
अधर्मः क्षत्रियस्यैष यद् व्याधिमरणं गृहे।
क्षतत्राता क्षताज्जीवन् क्षन्ता स्त्रीष्वपि साधुषु।
एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम्।
यज्ञो विद्या समुत्थानमसन्तोषः श्रियं प्रति।
द्रविणोपार्जनं भूरि पात्रे च प्रतिपादनम्॥ शान्ति.२३/११॥
दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम्॥ शान्ति.२३/४७॥
सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम्॥ शान्ति.६४/५॥
आत्मत्यागः सर्वभूतानुकम्पा लोकज्ञानं पालनं मोक्षणं च।
विषण्णानां मोक्षणं पीडितानां क्षात्रे धर्मे विद्यते पार्थिवानाम्॥शान्ति.६४/२७॥
क्षत्रिये संगतं नास्ति न प्रीतिर्न सौहृदम्।
कारणात् सान्त्वयन्त्येते कृतार्थाः संत्यजन्ति च॥ शान्ति.१३९/१६॥
क्षत्रियेषु न विश्वासः कार्यः सर्वापकारिषु।
अपकृत्यापि सततं सान्त्वयति निरर्थकम्॥ शान्ति.१३९/१७॥
क्षत्रज्ञं सेवते कर्म वेदाध्ययन संगतः।
दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते॥ शान्ति.१८९/५॥
बाहुभ्यां क्षत्रियाः सृष्टास्तस्मात् ते बाहुगर्विताः॥ अनु.१४१ दा.पा.॥
क्षत्रियस्य स्मृतो धर्मः प्रजापालनमादितः॥ अनु.१४१/४७॥
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
यो नित्यं क्षमते तात बहून् दोषान् स विन्दति।
यदि न स्युर्मानुषेषु क्षमिणः पृथिवी समाः।
क्षमा सत्यं क्षमा दानं क्षमा धर्मः क्षमा तपः।
नातः श्रीमत्तरं किंचिदन्यत् पथ्यतमं मतम्।
तपोबलं तापसानां ब्रह्म ब्रह्मविदां बलम्।
न दुष्करमिदं पुत्र यत् प्रभुर्घातयेत् परम्।
श्लाघनीया यशस्या च लोके प्रभवतां क्षमा॥ शान्ति.१११/६८॥
तस्मात् क्षमेत बालाय जडान्धबधिराय च।
बलाधिकाय राजेन्द्र तद् दृष्टं त्वयि शत्रुहन्॥ शान्ति.१५७/१३॥
यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम्।
हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः॥ शान्ति.२२७/२३॥
श्रेष्ठं ह्येतद् यत्क्षमामाहुरार्याः सत्यं तथैवार्जवमानृशंस्यम्॥ शान्ति.२९९/१२॥
पापीयसः क्षमेतैव श्रेयसः सदृशस्य च।
विमानितो हतोत्क्रुष्ट एवं सिद्धिं गमिष्यति॥ शान्ति.२९९/१८॥
नाहं शप्तः प्रतिशपामि किंचिद् दमं द्वारं ह्यमृतस्येह वेद्मि।
गुह्यं ब्रह्म तदिदं ब्रवीमि न मानुषाच्छ्रेष्ठतरं हि किंचित्॥ शा.२९९/२०॥
क्षमा यशः क्षमा दानं क्षमा यज्ञः क्षमा दमः।
क्षमावान् प्राप्नुयात् स्वर्गं क्षमावानाप्नुयाद् यशः।
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
उग्रेण तपसा युक्ता सततं सत्यवादिनी॥ स्त्री.१६/२॥
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
मा हासीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम्॥ सभा.७८/१७॥
ऐन्द्रे जये धृतमना याम्ये कोपविधारणे॥ सभा.७८/१८॥
तथा विसर्गे कौबेरे वारुणे चैव संयमे।
भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात्।
वायोर्बलं प्राप्नुहि त्वं भूतेभ्यश्चात्मसम्पदम्॥ सभा.७८/२०॥
दान्तः शमपरः शश्वत् परिक्लेशं न विन्दति।
संविभक्ता च दाता च भोगवान् सुखवान् नरः।
मान्यमानयिता जन्म कुले महति विन्दति।
षडेते तु गुणाः पुंसा न हातव्याः कदाचन।
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च।
इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा।
धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा।
न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः।
गुणवन्तः हि यो द्वेष्टि निर्गुणं कुरुते प्रभुम्।
उभयं सर्वकार्येषु दृश्यते साध्वसाधु वा॥ शान्ति.१५/५०॥
वाग्देह मनसां शौचं क्षमा सत्यं धृतिः स्मृतिः।
सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुनाञ्छुभान्॥ शा.२१४/६॥
वृद्धशुश्रूषया शक्र पुरुषो लभते महत्॥ शान्ति.२२२/३४॥
दमः क्षमा धृतिस्तेजः संतोषं सत्यवादिता।
ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः॥ शान्ति.२९०/२०॥
सत्यं दमं ह्यार्जवमानृशंस्यं धृतिं तितिक्षामतिसेवमानः।
लोको ह्यार्यगुणानेव भूयिष्ठं तु प्रशंसति॥ अनु.१२२/२॥
एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत।
निर्वैरता महाराज सत्यमक्रोध एव च॥ आश्रमवास २८/९॥
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
स्त्रिया मूढेन बालेन लुब्धेन लघुनाति वा।
मन्त्रयेत् सह विद्वद्भिः शक्तैः कर्माणि कारयेत्।
नासुहृत् परमं मन्त्रं भारतार्हति वेदितुम्।
यथा स्याद् विदितं राजंस्तथा कार्यं कुरुद्वह।
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
समीक्षेथा धर्मवतीमवेक्षां गुरोः सकाशात् प्राप्य विद्यां सविद्यः॥ आदि.७६/६७॥
यः श्रोत्रयोरमृतं संनिषिञ्चेद् विद्यामविद्यस्य यथा ममायम्।
तं मन्येऽहं पितरं मातरं च तस्मै न दुह्येत् कृतमस्य जानन्॥ आदि.७६/६३॥
ॠतस्य दातारमनुत्तमस्य निधिं निधीनामपि लब्धविद्याः।
ये नाद्रियन्ते गुरुमर्चनीयं पापाल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः॥ आदि.७६/६४॥
उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः।
न कथंचन कौरव्य प्रहर्तव्यं गुराविति॥ द्रोण १४७/२५॥
गुरुर्गरीयान् पितृतो मार्तृतश्चेति मे मतिः॥ शान्ति.१०८/१८॥
शरीरमेव सृजतः पिता माता च भारत॥ शान्ति.१०८/१९॥
आचार्यशिष्टा या जातिः सा दिव्या सा जरामरा॥
यश्चावृणोत्यत्यवितथेन कर्मणा ॠतं ब्रुवन्ननृतं सम्प्रयच्छन्।
तं वै मन्येत पितरं मातरं च तस्मै न दुह्येत् कृतमस्य जानन्॥ शा.१०८/२२॥
विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते प्रत्यासन्ना मनसा कर्मणा वा।
तेषां पापं भ्रूणहत्याविशिष्टं नान्यस्तेभ्यः पापकृदस्ति लोके।
यथैव ते गुरुभिर्भावनीयास्तथा तेषां गुरवोऽभ्यर्चनीयाः॥ शा.१०८/२३॥
मातृतः पितृश्चैव तस्मात् पूज्यतमो गुरुः॥ शा.१०८/२६॥
केनचिन्न च वृत्तेन ह्यवज्ञेयो गुरुर्भवेत्।
न च माता न च पिता मन्यते यादृशो गुरुः॥ शान्ति.१०८/२७॥
न तेऽवमानमर्हन्ति न तेषां दूषयेत् कृतम्॥ शान्ति.१०८/२९॥
चतुर्णाः वयमेतेषां निष्कृतिं नानुशुश्रुम॥ शान्ति.१०८/३२॥
उपलभ्य तु विज्ञानं ज्ञानं वाप्यनुसूयकः।
यथावमन्येत गुरुं तथा तेषु प्रवर्तते।
व्यर्थमस्य श्रुतं भवति ज्ञानमज्ञानतां व्रजेत्॥ अनु. ९६ दा.पा.अ.I॥
शरीरमेतौ सृजतः पिता माता च भारत॥ अनुशासन१०५/१८॥
आचार्यशास्ता या जातिः सा सत्या सा जरामरा॥
गुरूणां च गरीयांसस्त्रयो लोकेषु पूजिताः।
उपाध्यायः पिता माता सम्पूज्यन्ते विशेषतः॥ अनु.१४५ दा.पा.अ.XI॥
उपाध्यायस्य यः पुत्रो यश्च तस्य भवेद् गुरुः।
ॠत्विग् गुरुः पिता चेति गुरवः सम्प्रकीर्तिताः॥ अनु.१४५ दा.पा.अ.XI॥
ज्येष्ठो भ्राता नरेन्द्रश्च मातुलः श्वसुरस्तथा।
भयत्राता च भर्ता च गुरवस्ते प्रकीर्तिताः॥ अनु.१४५ दा.पा.अ.XI॥
कलहांश्च विवादांश्च गुरुभिः सह वर्जयेत्।
कैतवं परिहासांश्च मन्युकामाश्रयांस्तथा॥ अनु.१४५ दा.पा.अ.XI॥
स्वमर्थं स्वशरीरं च गुर्वर्थे संत्यजेत् बुधः।
विवादं धनहेतोर्वा मोहाद् वा तैर्न रोचयेत्॥ अनु.१४५ दा.पा.अ.XI॥
गुरुमभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया॥ अनु.१६२/४४॥
वृद्धान् नाभिभवेज्जातु न चैतान् प्रेषयेदिति।
नासीनः स्यात् स्थितेष्वेवमायुरस्य न रिष्यते॥ अनु.१६२/४५॥
तीर्थानां गुरवस्तीर्थं चोक्षाणां हृदयं शुचि।
दर्शनानां परः ज्ञानं सन्तोषः परमं सुखम्॥ अनु.१६२/४७॥
श्रुतं प्राप्नोति हि नरः सततं वृद्धसेवया॥ अनु.१६२/४८॥
निषेकादीनि कर्माणि यः करोति यथाविधिः।
साङ्गाश्च वेदानध्याप्य शिक्षयित्वा व्रतानि च।
उपाध्यायाद् दशाचार्य आचार्याणां शतं पिता।
एतेषामपि सर्वेषां गरीयान् ज्ञानदो गुरुः।
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
धर्मागतं प्राप्य धनं यजेत दद्यात् सदैवातिथीन् भोजयेच्च।
अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत् पुराणी॥ आदि.९१/३॥
चक्षुर्दद्यान्मनो दद्याद् मनो दद्यात् सुभाषितम्।
उत्थाय चासनं दद्यादेष धर्मः सनातनः।
आत्मार्थं पाचयेन्नानं न वृथा घातयेत् पशून्।
एकतश्च त्रयो राजन् गृहस्थाश्रम एकतः॥ शान्ति.१२/१२॥
समीक्ष्य तुलया पार्थ कामं स्वर्गं च भारत।
अयं पन्था महर्षीणामियं लोकविदं गतिः॥ शान्ति.१२/१३॥
गृहस्थं हि सदा देवाः पितरोऽतिथयस्तथा।
भृत्याश्चैवोपजीवन्ति तान् भरस्व महीपते॥ शान्ति.२३/४॥
वयांसि पशवश्चैव भूताति च जनाधिप।
गृहस्थैव धार्यन्ते तस्माच्छ्रेष्ठो गृहश्रमः॥ शान्ति.२३/५॥
तं चराद्य विधिं पार्थ दुश्चरं दुर्बलेन्द्रियैः॥ शान्ति.२३/६॥
देवानृषीन् मनुष्यांश्च पितृन् गृह्याश्च देवताः॥ शान्ति.३६/३४॥
पूजयित्वा ततः पश्चाद् गृहस्थो भोक्तुमर्हति।
यथा प्रव्रजितो भिक्षुस्तथैव स्वे गृहे वसेत्॥ शान्ति.३६/३५॥
अधीत्य वेदान् कृतसर्वकृत्यः सन्तानमुत्पाद्य सुखानि भुक्त्वा।
समाहितः प्रचरेद् दुष्करं यो गार्हस्थ्यधर्मं मुनिधर्मजुष्टम्॥ शान्ति.६१/१०॥
स्वदारतुष्टस्त्वृतुकालगामी नियोगसेवी न शठो न जिह्मः।
मिताशनो देवरतः कृतज्ञः सत्यो मृदुश्चानृशंसः क्षमावान्॥ शान्ति.६१/११॥
दान्तो विधेयो हव्यकव्येऽप्रमत्तो ह्यन्नस्य दाता सततं द्विजेभ्यः।
अमत्सरी सर्वलिङ्गप्रदाता वैताननित्यश्च गृहाश्रमी स्यात्॥ शान्ति.६१/१२॥
अपि चात्र् यज्ञक्रियाभिर्देवताः प्रीयन्ते। निवापेन पितरो
विद्याभ्यास श्रवण धारणेन ॠषयः। अपत्योत्पादनेन प्रजापतिरिति॥ शान्ति.१९१/१३॥
यत्र पक्वकषायो हि दान्तः सर्वत्र सिध्द्यति॥ शान्ति.२३४/६॥
प्रजावाञ्श्रोत्रियो यज्वा मुक्त एव ॠणैस्त्रिभिः।
अथान्यानाश्रमान् पश्चात् पूतो गच्छेत कर्मभिः॥ शान्ति.२३४/७॥
यत् पृथिव्यां पुण्यतमं विद्यात् स्थानं तदावसेत्।
यतेत तस्मिन् प्रामाण्यं गन्तुं यशसि चोत्तमे॥ शान्ति.२३४/८॥
भ्राता ज्येष्ठः समःपित्रा भार्या पुत्रः स्वका तनुः।
छाया स्वा दासवर्गश्च दुहिता कृपणं परम्॥ शान्ति.२४३/२०॥
गृहधर्मपरो विद्वान् धर्मशीलो जितक्लमः॥ शान्ति.२४३/२१॥
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः॥ अनु.१४१ दा.पा.॥
एवं गार्हस्थ्यमाश्रित्य वर्तन्त इतराश्रमाः॥ शान्ति.२६९/६॥
गृहस्थ एव यजते गृहस्थस्तप्यते तपः।
गार्हस्थ्यमस्य धर्मस्य मूलं यत्किंचिदेजते॥ शान्ति.२६९/७॥
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मति॥ शान्ति.२९५/३५॥
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्।
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्॥ शान्ति.२९५/३९॥
ॠषयः पितरो देवा मनुष्याश्चैव माधव।
इज्याश्चार्चनीयाश्च यथा चैव निबोध मे॥ अनु.९७/५॥
सदा यज्ञेन देवाश्च सदाऽऽतिथ्येन मानुषाः।
छन्दतश्च यथा नित्यमर्हान् भुञ्जीत नित्यशः॥ अनु.९७/६॥
वैश्वदेवं हि नामैतत् सायं प्रातर्विधीयते॥ अनु.९७/२२॥
पत्नी रजस्वला या च नाभिगच्छेन्न चाह्वयेत्॥ अनु.१०४/१४९॥
स्नातां चतुर्थे दिवसे रात्रौ गच्छेद् विचक्षणः।
पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान् भवेत्॥ अनु.१०४/१५०॥
यो भर्ता वासिता तुष्टो भर्तुस्तुष्टा च वासिता।
यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते॥ अनु.१२२/१७॥
शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः॥ अनु.१४१/२५॥
विघसाशी यताहारो गृहस्थः सत्यवाक् शुचिः॥ अनु.१४१/३९॥
तस्मात् स्वादरनिरतो ब्रह्मचारी विधीयते॥ अनु.१४१ दा.पा.॥
दीपं प्रतिश्रयं चैव यो ददाति स धार्मिकः॥ अनु.१४१/७३॥
आश्रमाणां च सर्वेषां गार्हस्थ्यं नात्र संशयः।
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः।
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा।
प्रहरेन्न नरेन्द्रेषु न हन्याद् गां तथैव च।
गौभिस्तुल्यं न पश्यामि धनं किंचिदिहाच्युत॥ अनु.५१/२६॥
गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते।
अमृतं ह्यव्ययं दिव्यं क्षरन्ति च वहन्ति च।
तेजसा वपुषा चैव गावो वह्निसमा भुवि।
गावो हि सुमहत् तेजः प्राणिनां च सुखप्रदाः॥ अनु.५१/३१॥
निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम्।
गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः।
पयसा हविषा दध्ना शकृता चाथ चर्मणा।
अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः।
न वधार्थं प्रदातव्या न कीनाशे न नास्तिके।
कल्मषं गुरुशुश्रूषा हन्ति मानो महद् यशः।
लोकान् सिसृक्षुणा पूर्वं गावः सृष्टाः स्वयम्भुवा।
वृत्त्यर्थं सर्वभूतानां तस्मात् ता मातरः स्मृताः॥ अनु.१४५ दा.पा.अ.XI॥
लोकज्येष्ठा लोकवृत्त्यां प्रवृत्ता मय्यायत्ताः सोमनिष्यन्दभूताः।
सौम्याः पुण्यदाः कामदाः प्राणदाश्च तस्मात् पूज्याः पुण्यकामैर्मनुष्यैः॥ अनु.१४५ दा.पा.अ.XI॥
हव्यकव्यव्यपेतस्य न दद्याद् गाः कथंचन॥ अनु.१४५ दा.पा.अ.XI॥
न चासां मांसमश्नीयाद् गोषु भक्तः सदा भवेत्॥ अनु.१४५ दा.पा.अ.XI॥
गवामुभयतः काले नित्यं स्वस्त्ययनं वदेत्।
न चासां चिन्तयेत् पापमिति धर्मविदो विदुः॥ अनु.१४५ दा.पा.अ.XI॥
गावः पवित्रं परमं गोषु लोकाः प्रतिष्ठिताः।
कथंचिन्नावमन्तव्या गावो लोकस्य मातरः॥ अनु.१४५ दा.पा.अ.XI॥
गोषु पूजा च भक्तिश्च नरस्यायुष्यतां वहेत्॥ अनु.१४५ दा.पा.अ.XI॥
सभा प्रपा गृहाश्चाषि देवतायतनानि च।
गावो यज्ञार्थमुत्पन्ना दक्षिणार्थं तथैव च।
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
मानवानां महाभागे न तु कर्मकराः स्वयम्॥ अनु.१४५ दा.पा.॥
केवलं ग्रहनक्षत्रं न करोति शुभाशुभम्।
सर्वमात्मकृतं कर्म लोकवादो ग्रहा इति॥ अनु.१४५ दा.पा.॥
प्रजानां तु हितार्थाय शुभाशुभविधिं प्रति।
अनागतमतिक्रान्तं ज्योतिष्चक्रेण बोध्यते॥ अनु.१४५ दा.पा.॥
[[Category:महाभारतसूक्तयः (भागः २ कवर्गादयः विषयाः
<DOC_END>
<DOC_START>
वृत्तं यत्नेन सरंक्ष्यं ब्राह्मणेन विशेषतः।
न कुलं कृतहीनस्य प्रमाणमिति मे मतिः।
शीलं प्रधानं पुरुषे तद् यस्येह प्रणश्यति।
वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
गोभिः पशुभिरश्वैश्च कृष्या च सुसमृद्धया।
आचारः फलते धर्ममाचारः फलते धनम्।
शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः।
न हि किंचिदसाध्यं वै लोके शीलवतां भवेत्॥ शान्ति.१२४/१५॥
धर्मः सत्यं तथा वृत्तं बलं चैव तथाप्यहम्।
शीलभूता महाप्राज्ञ सदा नास्त्यत्र संशयः॥ शान्ति.१२४/६२॥
अद्रोहः सर्वभूतेशु कर्मणा मनसा गिरा।
अनुग्रहश्च दानं च शीलमेतत् प्रशस्यते॥ शान्ति.१२४/६६॥
यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम्।
अपत्रपेत वा येन न तत् कुर्यात् कथंचन॥ शान्ति.१२४/६७॥
तत्तु कर्म तथा कुर्याद् येन श्लाघ्येत संसदि।
शीलं समासेनैतत् ते कथितं कुरुसत्तम॥ शान्ति.१२४/६८॥
आचारमेव मन्यन्ते गरीयो धर्मलक्षणम्॥ शान्ति.१३२/१५॥
न बान्धवा न च वित्तं न कौल्यं न च श्रुतं न च मन्त्रा न वीर्यम्।
दुःखात् त्रातुं सर्व एवोत्सहन्ते परत्र शीलेन तु यान्ति शान्तिम्॥ शान्ति.२८६/१५॥
आगमानां हि सर्वेषाम् आचारः श्रेष्ठ उच्यते।
[[Category:महाभारतसूक्तयः (भागः ३ चवर्गादयः विषयाः
<DOC_END>
<DOC_START>
संसारे पच्यते जन्तुस्तत्कथं नावबुद्ध्यसे॥ शान्ति.३२९/२६॥
वर्जयन्ति च पापानि जन्मप्रभृति ये नराः।
अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत॥ अनु.१११/१२९॥
तिर्यग्योन्याः शूद्रतामभ्युपैति शूद्रो वैश्यं क्षत्रियत्वं च वैश्यः।
वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः॥ अनु.११८/२४॥
ये मृताः सहसा मर्त्या जायन्ते सहसा पुनः।
तेषां पौराणिकोऽभ्यासः कंचित् कालं हि तिष्ठति॥अनु.१४५ दा.पा.अ.IX॥
तेषां विवर्धतां संज्ञा स्वप्नवत् सा प्रणश्यति॥
परलोकस्य चास्तित्वे मूढानां कारणं त्विदम्॥ अनु.१४५ दा.पा.अ.IX॥
[[Category:महाभारतसूक्तयः (भागः ३ चवर्गादयः विषयाः
<DOC_END>
<DOC_START>
जयं जानीत धर्मस्य मूलं सर्वसुखस्य च।
या भीरूणां परा ग्लानिः शूरास्तामधिगच्छति॥ शान्ति.१००/४०॥
उदीर्णमनसो योधा वाहनानि च भारत।
यस्यां भवन्ति सेनायां ध्रुवं तस्यां परो जयः॥ शान्ति.१०२/५॥
जघन्य एव विजयो यद् युध्दं नाम भारत।
यादृच्छिको युधि जयो दैवो वेति विचारणम्॥ शान्ति.१०२/१७॥
[[Category:महाभारतसूक्तयः (भागः ३ चवर्गादयः विषयाः
<DOC_END>
<DOC_START>
पानीयं परमं लोके जीवानां जीवनं स्मृतम्।
अद्भिः सर्वाणि भूतानि जीवन्ति प्रभवन्ति च।
[[Category:महाभारतसूक्तयः (भागः ३ चवर्गादयः विषयाः
<DOC_END>
<DOC_START>
नैते तव न तेषां त्वं तत्र का परिदेवना॥ स्त्री.२/१३॥
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्॥ स्त्री.२/२१॥
यथा यथैव जीवेद्धि तत् कर्तव्यमहेलया।
जीवितं मरणाच्छ्रेयो जीवन् धर्ममवाप्नुयात्॥ शान्ति.१४१/६५॥
जीवन् पुण्यमवाप्नोति पुरुषो भद्रमश्नुते॥ शान्ति.१४१/१०१॥
[[Category:महाभारतसूक्तयः (भागः ३ चवर्गादयः विषयाः
<DOC_END>
<DOC_START>
ज्ञाननिष्ठेषु कार्याणि प्रतिष्ठाप्यानि पाण्डव॥ शान्ति.२६/६॥
अन्तिके रमणं सन्तं नैनमध्यगमं पुरा॥ शान्ति.१७४/५८॥
का हि कान्तमिहायान्तमयं कान्तेति मंस्यते॥ शान्ति.१७४/५९॥
न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि॥ शान्ति.१७४/६०॥
अनर्थो हि भवेदर्थो दैवात् पूर्वकृतेन वा।
सुखं निराशः स्वपिति नैराश्यं परमं सुखम्।
आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला॥ शान्ति.१७४/६२॥
इष्टं त्वनिष्टं च न मां भजेतेत्येतत्कृते ज्ञानविधिः प्रवृत्तः॥शान्ति.२०१/११॥
नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि।
विपक्वबुद्धिः कालेन आदत्ते मानसं बलम्॥ शान्ति.२१४/२८॥
ज्ञानवानेव कर्माणि कुर्वन् सर्वत्र सिध्यति॥ शान्ति.२३८/१॥
कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते।
तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः॥ शान्ति.२४१/७॥
कर्मणा जायते प्रेत्य मूर्तिमान् षोडशात्मकः।
विद्यया जायते नित्यमव्यक्तं ह्युव्ययात्मकम्॥ शान्ति.२४१/८॥
विद्यया तदवाप्नोति यत्र गत्वा न शोचति॥ शान्ति.२४१/११॥
द्वन्द्वैर्न बाध्यन्ते मानसेन च कर्मणा।
समाः सर्वत्र मैत्राश्च सर्वभूत हिते रताः॥ शान्ति.२४१/१४॥
तमो रजश्च सत्त्वं च विद्धि जीवगुणात्मकम्।
ज्ञानं प्लावयते सर्वं यो ज्ञानं ह्यनुवर्तते।
ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः॥ शान्ति.२६९/५०॥
शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः।
कषाये कर्मभिः पक्वे रसज्ञाने च तिष्ठति॥ शान्ति.२७०/३८॥
असङ्गः श्रेयसो मूलं ज्ञानं चैव परा गतिः।
चीर्णं तपो न प्रणश्येद् वापः क्षेत्रे न नश्यति॥ शान्ति.२९८/३॥
न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत्।
न विना गुरुसम्बन्धं ज्ञानस्याधिगमः स्मृतः॥ शान्ति.३२६/२२॥
गुरु प्लाविता तस्य ज्ञानं प्लव इहोच्यते।
विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत्॥ शान्ति.३२६/२३॥
शक्यते ह्यागमादेव गतिं प्राप्तुमनामयम्॥ अनुशासन ९६ दा.पा.॥
न चाप्यक्षीणपापस्य ज्ञानं भवति देहिनः।
ज्ञानोपलब्धिर्भवति कृतकृत्यो यदा भवेत्॥ अनु.९६ दा.पा.॥
एवमेव हि नोत्सेको कर्तव्यो ज्ञानसम्भवः।
फलं ज्ञानस्य हि शमः प्रशमाय यतेत् सदा॥ अनु.९६ दा.पा.॥
तथा निष्किंचनत्वं च मनसश्च प्रसन्नता॥ अनु.१०८/११॥
ज्ञानोप्तन्नं च यच्छौचं तच्छौचं परमं स्मृतम्॥ अनु.१०८/१२॥
न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्यचित्॥ अनु.१४६/२३॥
सुखःदुखे यथा सम्पगनित्ये यः प्रपश्यति।
यच्च किंचित्सुखं तच्च दुःखं सर्वमिति स्मरन्।
गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः।
[[Category:महाभारतसूक्तयः (भागः ३ चवर्गादयः विषयाः
<DOC_END>
<DOC_START>
ये पापानि न कुर्वन्ति मनोवाक्कर्मबुद्धिभिः।
तिष्ठन् गृहे चैव मुनिर्नित्यं शुचिरलंकृत।
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः।
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः।
सत्कारमानपूजार्थं तपो दम्भेन चैव यत्।
मूढग्राहेणात्मनो यत् पीडया क्रियते तपः।
एतत् तपो विदुर्धीरा न शरीरस्य शोषणम्॥ शान्ति.७९/१८॥
तपश्चर्यापरः सद्यः पापाद् विपरिमुच्यते॥ शान्ति.१५२/२६॥
सर्वमेतत् तपो मूलं कवयः परिचक्षते।
तपसैव ससर्जान्नं फलमूलानि यानि च।
त्रींल्लोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः॥ शान्ति.१६१/३॥
निवृत्त्या वर्तमानस्य तपो नानशनात् परम्॥ शान्ति.१६१/७॥
एतेभ्यो हि महाराज तपो नानशनात् परम्॥ शान्ति.१६१/८॥
त्रैविद्येभ्यः परं नास्ति संन्यासः परमं तपः॥ शान्ति.१६१/९॥
तपसा शक्यते प्राप्तुं देवत्वमपि निश्चयात्। शान्ति.१६१/१३॥
सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि॥ शान्ति.२१७/१५॥
प्रकाशस्तपसो ज्ञानं लोके संशब्दितं तपः।
रजस्तमोघ्नं यत् कर्म तपसस्तत् स्वलक्षणम्॥ शान्ति.२१७/१६॥
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते।
वाङ्मनोनियमः सम्यङ् मानसं तप उच्यते॥ शान्ति.२१७/१७॥
मासपक्षोपवासेन मन्यन्ते यत् तपो जनाः।
आत्मतन्त्रोपघातस्तु न तपस्तत्सतां मतम्॥ शान्ति.२२१/४॥
त्यागश्च संनतिश्चैव शिष्यते तप उत्तमम्।
सदोपवासी च भवेद् ब्रह्मचारी सदा भवेत्॥ शान्ति.२२१/५॥
तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः।
तेन सर्वानवाप्नोति यान् कामान् मनसेच्छति॥ शान्ति.२३२/२२॥
तपसा तदवाप्नोति यद भूतं सृजते जगत्।
स तद भूतश्च सर्वेषां भूतानां भवति प्रभुः॥ शान्ति.२३२/२३४॥
अनादिनिधना विद्या वागुत्सृष्टा स्वयम्भुवा॥ शान्ति.२३२/२४॥
तेन सर्वानवाप्नोति कामान् यान् मनसेच्छति॥ शान्ति.२३८/९॥
तपसा तद्वाप्नोति यद् भूत्वा सृजते जगत्।
तद् भूतश्च ततः सर्वभूतानां भवति प्रभुः॥ शान्ति.२३८/१०॥
तपः सर्वगतं तात हीनस्यापि विधीयते।
मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः।
महाकुलेषु दृश्यन्ते तत् सर्वं तपसः फलम्॥ शान्ति.२९५/१९॥
प्रसह्य जीवितक्षये तपो महत् समाचर॥ शान्ति.३२१/४२॥
मलिनं हि यथा वस्त्रं पश्चाच्छुद्ध्यति वारिणा।
उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम्॥ शान्ति.३२२/१७॥
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः।
ज्ञानं विज्ञानमारोग्यं रूपं सम्पत् तथैव च।
धनं प्राप्नोति तपसा मौनेनाज्ञां प्रयच्छति।
अहिंसायाः फलं रूपं दिक्षाया जन्म वै कुले।
पयोभक्षो दिवं याति दानेन द्रविणाधिकः।
नित्यस्नायी भवेद् दक्षः संध्ये तु द्वे जपन् द्विजः।
स्थण्डिले शयमानानां गृहाणि शयनानि च।
उदवासं वसेत् यस्तु स नराधिपतिर्भवेत्।
धर्मार्थं संचयो यो वै द्रव्याणां पक्षसम्मतः।
तपोबलाद्धि बलवद् बलमन्यन्न विद्यते॥ अनु.११८/२॥
तपसा महदाप्नोति विद्यया चेति नः श्रुतम्।
यद् यद्धि किंचित् संधाय पुरुषस्तप्यते तपः।
तपसा प्राप्यते सर्वं तपसा प्राप्यते फलम्।
दुष्प्रापमपि यल्लोके तपसा प्राप्यते हि तत्॥ अनु.१४२ दा.पा.॥
यद् दुरापं दुराम्नायं दुराधर्षं दुरन्वयम्।
ये चैव मुक्तास्तपसि प्रयुक्ताः स्वाध्यायशीला जरयन्ति देहम्।
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु॥ आदि.७०/३७॥
तत्र तत्र च विप्रेन्द्रान् नियतान् संशितव्रतान्।
जपहोमपरान् विप्रान् ददर्श परवीरहा॥ आदि.७०/४७॥
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
आतिथेयः परं तीर्थं ब्रह्मतीर्थं सनातनम्।
द्विविधं तीर्थमित्याहुः स्थावरं जङ्गमं तथा।
क्षमा तु परमं तीर्थं सर्वतीर्थेशु पाण्डव।
पावनं सर्वतीर्थानां सत्यं गायन्ति सामगाः।
तपस्तीर्थं दया तीर्थां शीलं तीर्थं युधिष्ठिर।
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्।
ते सर्वे विनिवर्तन्तां ये च मिष्टभुजो द्विजाः।
शाश्वतं परमं चैव धातारं परमं पदम्।
तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः।
तासां प्राक्स्त्रोतसः श्रेष्ठाः सङ्गमश्च परस्परम्॥ अनु.१४५ दा.पा.अ.XI॥
तासामुभयतः कूलं तत्र तत्र मनीषिभिः॥
देवैर्वा सेवितं देवि तत् तीर्थं परमं स्मृतम्॥ अनु.१४५ दा.पा.अ.XI॥
समुद्रश्च महातीर्थं पावनं परमं शुभम्॥ अनु.१४५ दा.पा.अ.XI॥
स्रोतसां पर्वतानां च जोषितानां महर्षिभिः।
अपि कूलं तटाकं वा सेवितं मुनिभिः प्रिये॥
तत् तु तीर्थमिति ज्ञेयं प्रभावात् तु तपस्विनाम्॥अनु.१४५ दा.पा.अ.XI॥
तपोऽर्थं पापनाशार्थं शौचार्थं तीर्थगाहनम्॥ अनु.१४५ दा.पा.अ.XI॥
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥ आदि.८५/१४॥
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्।
निबन्धनी ह्यर्थतृष्णेह पार्थ तामिच्छतां बाध्यते धर्म एव।
चक्षुः श्रोत्रे नासिका त्वक् च जिह्वा ज्ञानस्यैतान्यायतनानि जन्तोः।
शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते॥ शान्ति.१७७/१७॥
न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति।
सम्प्रज्वलति सा भूयः समिद्भिरिव पावकः॥ शान्ति.१८०/२६॥
हीनैश्च करणैर्देही न देहं पुनरर्हति॥ शान्ति.२१३/२१॥
तृष्णाबद्धं जगत् सर्वं चक्रवत् परिवर्तते॥ शान्ति.२१७/३४॥
सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः।
तद्वत् संसारसूत्रं हि तृष्णासूच्या निबध्यते॥ शान्ति.२१७/३६॥
विकारं प्रकृतिं चैव पुरुषं च सनातनम्।
यो यथावद् विजानाति स वितृष्णो विमुच्यते॥ शान्ति.२१७/३७॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्॥ शान्ति.१७४/४६॥
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्॥ शान्ति.२७६/६॥
यथैव श्रृंगं गोः काले वर्धमानस्य वर्धते।
तथैव तृष्णा वित्तेन वर्धमानेन वर्धते॥ शान्ति.२७६/७॥
किंचिदेव ममत्वेन यदा भवति कल्पितम्।
तदेव परितापाय नाशे सम्पद्यते पुनः॥ शान्ति.२७६/८॥
न कामाननुरुध्द्येत दुःखं कामेषु वै रतिः।
प्राप्यार्थमुपयुञ्जीत धर्मं कामान् विसर्जयेत्॥ शान्ति.२७६/९॥
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः।
उत्पन्नस्य रुरोः श्रृङ्गं वर्धमानस्य वर्धतेः।
न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत्।
कामं कामयमानस्य यदा कामः समृध्यते।
लब्धाश्रयो विवर्धेत समिद्ध इव पावकः॥ अनु.१४५ दा.पा.XIV॥
जित्वापि पृथिवीं कृत्स्नां चतुः सागरमेखलाम्।
सागराणां पुनः पारं जेतुमिच्छत्यसंशयम्॥ अनु.१४५ दा.पा.XIV॥
सर्वं ममेति सम्मूढो बलं पश्यति बालिशः।
एवं सर्वोपयोगेषु स्वल्पमस्य प्रयोजनम्॥ अनु.१४५ दा.पा.XIV॥
ततो भूयस्तरो भोगो दुःखाय तपनाय च॥ अनु.१४५ दा.पा.XIV॥
नास्ति तृष्णासमं दुःखं नास्ति त्याग समं सुखम्।
सर्वान् कामान् परित्यज्य ब्रह्मभूयाय कल्पते॥ अनु.१४५ दा.XIV॥
यत् पृथिव्यां ब्रीहियवं हिरण्यं पशवः स्त्रियः।
नालमेकस्य पर्याप्तमिति पश्यन् न मुह्यति॥ अनु.१४५ दा.पा.XIV॥
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते॥
द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः।
कुले जातो बलवान् यो यशश्वी बहुश्रुतः सुखजीवि यतात्मा।
सुखं दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च।
न तुषाग्निरिवानर्चिर्धूमायेत चिरं नरः॥ शान्ति.१४०/१९॥
न हि तेजस्विनां शापस्तेजःसु प्रभवन्ति वै।
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
विप्रो वेदानधीते यः स त्यागी पार्थ उच्यते॥ शान्ति.१२/११॥
त्यागयुक्तं महाराज सर्वमेव महाफलं॥ शान्ति.१२/१६॥
परित्यज्य भवेत् त्यागी न हित्वा प्रतितिष्ठति॥ शान्ति.१२/३५॥
आकिंचन्यं सुखं लोके पथ्यं शिवमनामयम्।
अनमित्रपथो ह्येष दुलर्भः सुलभो मतः॥ शान्ति.१७६/८॥
आकिंचन्यं च राज्यं च तुलया समतोलयम्।
अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम्॥ शान्ति.१७६/१०॥
नैवास्याग्निर्न चारिष्टो न मृत्युर्न दस्यवः।
प्रभवन्ति धनत्यागाद् विमुक्तस्य निराशिषः॥ शान्ति.१७६/१२॥
बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः॥ शान्ति.१७६/१३॥
नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम्।
नात्यक्त्वा चाभयःशेते त्यक्त्वा सर्वं सुखी भवेत्॥ शान्ति.१७६/२२॥
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि।
सुखत्यागे तपो योगं सर्वत्यागे समापना॥ शान्ति.२१९/१८॥
विप्रहाणाय दुःखस्य दुर्गतिस्त्वन्यथा भवेत्॥ शान्ति.२१९/१९॥
परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः॥ शान्ति.२९८/२०॥
तथाऽऽत्मा पुरुषस्येह मनसा परिमुच्यते॥ शान्ति.२९८/२१॥
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
प्रीति दुःखनिबद्धाश्च समस्तांस्रीनथो गुणान्॥ शान्ति.२१२/२१॥
तस्मादात्मवता वर्ज्यं रजश्च तम एव च।
रजस्तमोभ्यां निर्मुक्त्तं सत्त्वं निर्मलतामियात॥ शान्ति.२१२/२९॥
अर्थयुक्तानि चात्यर्थं कामान् सर्वांश्च सेवते॥ शान्ति.२१२/३१॥
तमसा लोभयुक्तानि क्रोधजानि च सेवते।
हिंसा विहाराभिरतस्तन्द्री निद्रा समन्वितः॥ शान्ति.२१२/३२॥
स देही विमलः श्रीमाञ्श्रद्धविद्यासमन्वितः॥ शान्ति.२१२/३३॥
क्रोध लोभौ भयं दर्पं एतेषां सादनाच्छुचिः॥ शान्ति.२१३/१॥
त्रयो वै रिपवो लोके नवधा गुणतः स्मृताः।
तृष्णा क्रोधोऽभिसंरम्भो राजसास्ते गुणाः स्मृताः।
लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रवर्तते।
स लिप्यमानो लभते भूयिष्ठं राजसान् गुणान्।।
स तैगुणैः संहतदेहबन्धनः पुनः पुनर्जायति कर्म चेहते।
तस्मादेतं सम्यगवेक्ष्य लोभं निगृह्य धृत्याऽऽत्मनि राज्यमिच्छेत्।
तमो रजस्तथा सत्त्वं गुणानेतान् प्रचक्षते।
तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः।
नियम्यते तमो यत्र रजस्तत्र प्रवर्तते।
नैशात्मकं तमो विद्यात् त्रिगुणं मोहसंज्ञितम्।
तेषां योनीः प्रवक्ष्यामि नियताः पापकर्मिणाम्।
स्थावराणि च भूतानि पशवो वाहनानि च।
अभिष्वङ्गस्तु कामेषु महामोह इति स्मृतः।
संस्कारा ये च लोकेषु प्रवर्तन्ते पृथक्पृथक्।
अस्मिंल्लोके प्रमोदन्ते जायमानः पुनः पुनः।
आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च।
मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः।
निर्ममो निरहंकारो निराशीः सर्वतः समः।
हित्वा सर्वाणि पापानि निःशोका ह्यथ मानवाः।
ईशित्वं च वशित्वं च लघुत्वं मनसश्च ते।
ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः।
यद् यदिच्छन्ति तत् सर्वं भजन्ते विभजन्ति च।
नैव शक्या गुणा वक्तुं पृथक्त्वेनैव सर्वशः।
यावत्सत्त्वं रजस्तावद् वर्तते नात्र संशयः।
त्रयोगुणाः प्रवर्तन्ते ह्यव्यक्ता नित्यमेव तु।
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
नादण्डः क्षत्रियो भाति नादण्डो भूमिमश्नुते।
नादण्डस्य प्रजा राज्ञः सुखं विन्दति भारत॥ शान्ति.१४/१४॥
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः॥ शान्ति.१५/२५॥
दण्डः संरक्षते धर्मं तथैवार्थं जनाधिप।
कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते॥ शान्ति.१५/३॥
दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते।
एवं विद्वानुपाधत्स्व भावं पश्यस्व लौकिकम्॥ शान्ति.१५/४॥
राजदण्ड भयादेके पापाः पापं न कुर्वते।
परस्परभयादेके पापाः पापं न कुर्वते।
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम्॥ शान्ति.१५/६॥
दण्डस्यैव भयादेके न खादन्ति परस्परम्।
अन्धे तमसि मज्जेयुर्युदि दण्डो न पालयेत्॥ शान्ति.१५/७॥
दमनाद् दण्डनाच्चैव तस्माद् दण्डं विदुर्बुधाः॥ शान्ति.१५/८॥
वाचा दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम्।
मर्यादा स्थापिता लोके दण्डसंज्ञा विशाम्यते॥ शान्ति.१५/१०॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः।
प्रजास्तत्र न मुह्यन्ते नेता चेत् साधु पश्यति॥ शान्ति.१५/११॥
दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः॥ शान्ति.१५/१२॥
नाभीतो यजते राजन् नाभीतो दातुमिच्छति।
नाभीतः पुरुष कश्चित् समये स्थातुमिच्छति॥ शान्ति.१५/१३॥
कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः॥ शान्ति.१५/२९॥
जले मत्स्यानिवाभक्ष्यन् दुर्बलान् बलवत्तराः॥ शान्ति.१५/३०॥
अन्धं तम इवेदं स्यान्न प्राज्ञायत किंचन।
दण्डश्चेन्न भवेल्लोके विभजन् साध्वसाधुनी॥ शान्ति.१५/३२॥
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः॥ शान्ति.१५/३४॥
न ब्रह्मचार्यधीयीत कल्याणी गौर्न दुह्यते।
न कन्योद्वहनं गच्छेद् यदि दण्डो न पालयेत्॥ शान्ति.१५/३७॥
न प्रेष्या वचनं कुर्युर्न बाला जातु कर्हिचित्।
न तिष्ठेत् युवती धर्मे यदि दण्डो न पालयेत्॥ शान्ति.१५/४२॥
दण्डे स्थिता प्रजाः सर्वा भयं दण्डे विदुर्बुधाः॥ शान्ति.१५/४३॥
न तत्र कूटं पापं वा वञ्चना वापि दुश्यते।
अर्थे सर्वे समारम्भाः समायत्ता न संशयः।
स च दण्डे समायत्तः पश्य दण्डस्य गौरवम्॥ शान्ति.१५/४८॥
बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः॥ शान्ति.२३/१३॥
ईश्वरश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम्॥ शान्ति.१२१/१॥
प्रजा रक्षति यः सम्यग्धर्म एव स केवलः॥ शान्ति.१२१/११॥
माता-पिता च भ्राता च भार्या चैव पुरोहितः।
नादण्ड्यो विद्यते राज्ञो यः स्वधर्मे न तिष्ठति॥ शान्ति.१२१/६०॥
विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया।
दुष्टानां निग्रहो दण्डो हिरण्यं बाह्यतः क्रियाः।। शान्ति.१२१/४०॥
व्यङ्गत्वं च शरीरस्य वधो नाल्पस्य कारणात्।
शिष्ट्यर्थं विहितो दण्डो न वृध्द्यर्थं विनिश्चयः।
ये च शिष्टान् प्रबाधन्ते दण्डस्तेषां वधः स्मृतः॥ शान्ति.१३५/२०॥
तस्मात् सर्वाणि भूतानि दण्डेनैव प्रसाधयेत्॥ शान्ति.१४०/८॥
तत्त्वभेदेन यच्छास्त्रं तत् कार्यं नान्यथाविधम्।
अस्मीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि॥ शान्ति.२६७/९॥
न मूलघातः कर्तव्यो नैष धर्मः सनातनः।
अपि स्वल्पवधेनैव प्रायश्चित्तं विधीयते॥ शान्ति.२६७/१२॥
बिभ्रद् दण्डाजिनं मुण्डो ब्राह्मणोऽईति शासनम्॥ शान्ति.२६७/१५॥
पुरा धिग्दण्ड एवासीद् वाग्दण्डस्तदनन्तरम्॥ शान्ति.२६७/१९॥
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
धर्मस्य विधयो नैके ये वै प्रोक्ता महर्षिभिः।
स्वं स्वं विज्ञानमाश्रित्य दमस्तेषां परायणम्॥ शान्ति.१६०/६॥
दमस्तेजो वर्धयति पवित्रं च दमः परम्।
विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत्॥ शान्ति.१६०/९॥
दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम।
दमो हि परमो लोके प्रशस्तः सर्व धर्मिणाम्॥ शान्ति.१६०/१०॥
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते।
सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति॥ शान्ति.१६०/१२॥
क्षमा धृतिरहिंसा च समता सत्यमार्जवम्।
इन्द्रियाभिजयो दाक्ष्यं मार्दवं ह्नीरचापलम्॥ शान्ति.१६०/१५॥
अविहिंसानसूया चाप्येषां समुदयो दमः॥ शान्ति.१६०/१६॥
गुरुपूजा च कौरव्य दया भूतेष्वपैशुनम्।
कामं क्रोधं च लोभं च दर्पं स्तम्भं विकत्थनम्।
रोषमीर्ष्यावमानं च नैव दान्तो निषेवते॥ शान्ति.१६०/१८॥
समुद्रकल्पः स नरो न कथंचन पूर्यते॥ शान्ति.१६०/१९॥
अहं त्वयि मति त्वं च मयि ते तेषु चाप्यहम्।
पूर्वसम्बन्धिसंयोगं नैतद् दान्तो निषेवते॥ शान्ति.१६०/२०॥
सर्वा ग्राम्यास्तथाऽऽरण्या याश्च लोके प्रवृत्तयः।
निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते॥ शान्ति.१६०/२१॥
मुक्तस्य विविधैः सङ्गैस्तस्य प्रेत्य फलं महत्॥ शान्ति.१६०/२२॥
प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते॥ शान्ति.१६०/२३॥
अभयं यस्य भूतेभ्यो भूतानामभयं यतः।
तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश्चन॥ शान्ति.१६०/२६॥
अवाचिनोति कर्माणि न च सम्प्रचिनोति ह।
समः सर्वेषु भूतेषु मैत्रायणगतिश्चरेत्॥ शान्ति.१६०/२७॥
यथा गतिर्न दृश्यते तथा तस्य न संशयः॥ शान्ति.१६०/२८॥
संन्यस्य सर्वकर्माणि संन्यस्य विधिवत् तपः।
संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह॥ शान्ति.१६०/३१॥
प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते॥ शान्ति.१६०/३१॥
नावृत्तिभयमस्तीह परलोक भयं कुतः॥ शान्ति.१६०/३३॥
एक एव दमे दोषो द्वितीयो नोपपद्यते।
यदेनं क्षमया युक्तंमशक्तं मन्यते जनः॥ शान्ति.१६०/३४॥
एकोऽस्य सुमहाप्राज्ञ दोषः स्यात् सुमहान् गुणः।
क्षमया विपुला लोकाः सुलभा हि सहिष्णुता॥ शान्ति.१६०/३५॥
यत्रैव निवसेद् दान्तस्तदरण्यं न चाश्रमः॥ शान्ति.१६०/३६॥
दमो नान्यस्पृहा नित्यं गाम्भीर्यं धैर्यमेव च।
स स्नातो यो दमस्नातः स बाह्याभ्यन्तर शुचिः॥ अनु.१०८/९॥
<DOC_END>
<DOC_START>
पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर।
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः।
श्रद्दधानस्ततो लोको दद्याच्चैव यजेत च॥ शान्ति.२६/२७॥
लब्धस्य त्यागमित्याहुर्न भोगं न च संचयम्॥ शान्ति.२६/२८॥
न दद्याद् यशसे दानं न भयान्नोपकारिणे॥ शान्ति.३६/३६॥
अनुक्रोशात् प्रदातव्यं हीनेष्वव्रतिकेषु च॥ शान्ति.३६/४३॥
न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते॥ शान्ति.७२/२४॥
दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च।
सद्भ्यो यद् दीयते किंचित् तत्परत्रोपतिष्ठते॥ शान्ति.१९१/३॥
असद्भ्यो दीयते यत्तु तद् दानमिह भुज्यते।
याद्दशं दीयते दानं तादृशं फलमश्नुते॥ शान्ति.१९१/४॥
द्विजशुश्रूषया राज्यं द्विजत्वं चापि पुष्कलम्॥ अनु.५७/१९॥
शुभं सर्वपवित्रेभ्यो दानमेव परं द्विज॥ अनु.१२०/१६॥
दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः।
ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः॥ अनु.१२०/१८॥
यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः।
सर्वत्यागो यथा चेह तथा दानमनुत्तमम्॥ अनु.१२०/१९॥
सुखात् सुखतर प्राप्तिमाप्नुते मतिमान्नरः॥ अनु.१२०/२०॥
सुखात् सुखतर प्राप्तिमाप्नुते मतिमान्नरः॥ अनु.१२०/२०॥
श्रीमन्तः प्राप्नुवन्त्यर्थान् दानं यज्ञं तथा सुखम्॥ अनु.१२०/२१॥
यदेव ददतः पुण्यं तदेव प्रतिगृह्यतः।
न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः॥ अनु.१२१/१४॥
दानेन तपसा चैव सर्वपापमपोहति॥ अनु.१२२/१८॥
सौम्यचित्तस्तु यो दद्यात् तध्दि दानमनुत्तमम्॥ अनु.१४१/६०-६१ दा.पा.॥
अल्पमल्पमपि ह्येकं दीयमानं विवर्धते॥ अनु.१४१/६०-६१ दा.पा.॥
नास्ति भूमौ दानसमं नास्ति दानसमं निधिः॥ अनु.१४१/६०-६१ दा.पा.॥
नानुप्तं रोहते सस्यं तद्वद् दानफलं विदुः।
यद् यद् ददाति पुरुषस्तत् तत् प्रोप्नोति केवलम्॥ अनु.१४५ दा.पा.॥
पण्डितोऽपण्डितो वापि भुङ्क्ते दानफलं नरः।
बुद्ध्याऽनपेक्षितं दानं सर्वथा तत् फलत्युत॥ अनु.१४५ दा.पा.॥
तपोदानमयं सर्वमिति विद्धि सुभानने॥ अनु.१४५ दा.पा.॥
दानेन भोगी भवति मेधावी वृद्धसेवया।
अहिंसया च दीर्घायुरिति प्रहुर्मनीषिणः॥ अनु.१६३/१२॥
कालः परतरो दानाच्छ्रध्दा चैव ततः पराः।
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः।
न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति।
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
न तु मन्ये विघाताय ज्ञानं दुःखस्य संजय।
न नूनं परदुःखेन म्रियते कोऽपि संजय।
दुःखेन लभते दुःखं द्वावनर्थौ च विन्दति॥ शान्ति.१६/१०॥
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥ शान्ति.२५/२०॥
दुःखमेवास्ति न सुखं तस्मात् तदुपलभ्यते।
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्॥ शान्ति.२५/२२॥
न नित्यं लभते दुःखं न नित्यं लभते सुखम्॥ शान्ति.२५/२३॥
येन दुःखेन यो दुःखी न स जातु सुखी भवेत्।
दुःखानां हि क्षयो नास्ति जायते ह्यपरात् परम्॥ शान्ति.२५/३०॥
अनिष्टोपनिपातो वा तृतीयं नोपपद्यते॥ शान्ति.२८/१२॥
सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम्।
प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते॥ शान्ति.२८/१६॥
मानसादपि दुःखाध्दि शारीरं बलवत्तरम्॥ शान्ति.५०/१४॥
ये दम्भान्नाचरन्ति स्म येषां वृत्तिश्च संयता।
विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/३॥
प्रत्याहुर्नोच्यमाना ये न हिंसन्ति च हिंसिताः।
प्रयच्छन्ति न याचन्ते दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/४॥
वासयन्त्यतिथीन् नित्यं नित्यं ये चानसूयकाः।
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/५॥
मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः।
वर्जयन्ति दिवा स्वप्नं दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/६॥
ये वा पापं न कुर्वन्ति कर्मणा मनसा गिरा।
निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/७॥
अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/९॥
प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/११॥
येषामर्थाश्च सम्बध्दा दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/१२॥
ये च संशान्तरजसः संशान्ति तमसश्च ते।
सत्त्वे स्थिता महात्मानो दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/१५॥
येषां न कश्चित् त्रसति न त्रसन्ति हि कस्यचित्।
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/१६॥
परश्रिया न तप्यन्ति ये सन्तः पुरुषर्षभाः।
सर्वान् देवान् नमस्यन्ति सर्वधर्माश्च श्रृण्वते।
ये श्रद्दधानाः शान्ताश्च दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/१८॥
ये न मानित्वमिच्छन्ति मानयन्ति च ये परान्।
मान्यमानात् नमस्यन्ति दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/१९॥
ये क्रोधं संनियच्छन्ति क्रुध्दान् संशमयन्ति च।
न च कुप्यन्ति भूतानां दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/२१॥
मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः।
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/२२॥
यात्रार्थं भोजनं येषां सन्तानार्थं च मैथुनम्।
वाक् सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/२३॥
भक्ता नारायणं देवं दुर्गाण्यतितरन्ति ते॥ शान्ति.११०/२४॥
सुखात् बहुतरं दुःखं जीविते नात्र संशयः। शान्ति.३३०/१६॥
वधवन्धकृतं दुःखं स्त्रीकृतं सहजं तथा।
दुःखं सुतेन सततं जनान् विपरिवर्तते॥ शान्ति.१३९/६४॥
सुखात् संजायते दुःखं दुःखमेव पुनः पुनः॥ शान्ति.१७४/१८॥
सुखदुःखे मनुष्याणां चक्रवत् परिवर्ततः॥ शान्ति.१७४/१९॥
लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः॥ शान्ति.१९०/६॥
यद् यत्प्रियं यस्य सुखं तदाहुस्तदेव दुःखं प्रवदन्त्यनिष्टम्॥ शान्ति.२०१/१०॥
यस्मिन् न शक्यते कर्तुं यत्नस्तं नानुचिन्तयेत्॥ शान्ति.२०५/१॥
चिन्त्यमानं हि चाभ्येति भूयश्चापि प्रवर्तते॥ शान्ति.२०५/२॥
एतद् विज्ञानसामर्थ्यं न बालैः समतामियात्॥ शान्ति.२०५/३॥
सुखाद् बहुतरं दुःखं जीविते नात्र संशयः।
परित्यजति यो दुःखं सुखं वाप्युभयं नरः।
अभ्येति ब्रह्म सोऽत्यन्तं न ते शोचन्ति पण्डिताः॥ शान्ति.२०५/७॥
त्यागात् तेभ्यो निरोधः स्यान्निरोधज्ञो विमुच्यते॥ शान्ति.२१३/१९॥
सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति॥ शान्ति.२२७/२८॥
न ह्येव दुःखानि सदा भवन्ति सुखस्य वा नित्यशो लाभ एव॥ शान्ति.२८६/१२॥
धृतिश्च दुःखत्यागश्चेत्युभयं तु सुखं नृप॥ शान्ति.२८६/१६॥
प्राक्सम्प्रयोगाद् भूतानां नास्ति दुःखं परायणम्।
विप्रयोगात् तु सर्वस्य न शोचेत् प्रकृतिस्थितः॥ शान्ति.३३०/२७॥
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
यद् वै पुरा जातमात्रो रुराव गोमायुवद् विस्वरं पापचेताः।
दुर्योधनो भरतानां कुलघ्नः सोऽयं युक्तो भवतां कालहेतुः॥ सभा.६२/३।।
एकः शास्ता न द्वितीयोऽस्ति शास्तागर्भे शयानं पुरुषं शास्ति शास्ता।
तेनानुशिष्टः प्रवणादिवाम्भोयथा नियुक्तोऽस्मि तथा भवामि॥ सभा.६४/८।।
मज्जन्त्यलाबूनि शिलाः प्लवन्ते मुह्यन्ति नावोऽम्भसि शश्वदेव।
मूढो राजा धृतराष्ट्रस्य पुत्रो न मे वाचः पथ्यरूपाः श्रृणोति॥ सभा.६६/११।।
अन्तः कामं कुलस्यास्तु न शक्नोमि निवारितुम्॥ सभा.७५/११।।
गर्दभे मार्दवं कुर्याद् गोषु तीक्ष्णं समाचरेत्।
मानघ्नस्यासौ मानकामस्य चेर्षोः संरम्भिणश्चार्थ धर्मातिगस्य।
सुयोधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः।
म्रियेतापि न भज्येत नैव जह्यात् स्वकं मतम्।
अर्थधर्मातिगो मन्दः संरम्भी च जनार्दन।
धर्मशास्त्रातिगो मूढो दुरात्मा प्रग्रहं गतः।
कामात्मा प्राज्ञमानी च मित्रध्रुक् सर्वशङ्कितः।
यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः।
यावद्धि तीक्ष्णया सूच्या विध्येदग्रेण केशव।
कालोऽयं पुत्ररूपेण तव जातो विशाम्पते।
प्रक्षिप्तः सम्मतः क्षुद्रः पुत्रो मे पुरुषाधम।
न धर्मः सत्कृतः कश्चिन्नित्यं युदमभीप्सता।
क्रूरो दुर्मर्षणो नित्यमसन्तुष्टश्च वीर्यवान्॥ स्त्री.१/३१॥
कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप।
अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनः॥ स्त्री.८/३०॥
दुःशासनचतुर्थानां कुरवो निधनं गताः॥ अनु.१४८/६१॥
<DOC_END>
<DOC_START>
ॠतश्च पितृरूपश्च त्र्यम्बकश्च महेश्वरः॥ अनु.१५०/१२॥
अंशो भगश्च मित्रश्च वरुणश्च जलेश्वरः॥ अनु.१५०/१४॥
तथा धातार्यमा चैव जयन्तो भास्करस्तथा।
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते॥ अनु.१५०/१५॥
इत्येते द्वादशादित्याः काश्यपेया इति श्रुतिः।
नासत्यश्चापि दस्रश्च स्मृतौ द्वावश्विनावपि॥ अनु.१५०/१७॥
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
द्यूते भेदो हि दृश्यते॥ सभा ५०/११॥
अनर्थमर्थं मन्यसे राजपुत्र संग्रथनं कलहस्याति घोरम्।
तद् वै प्रवृत्तं तु यथा कथंचित् सृजेदसीन् निशितान् सायकांश्च॥सभा.५६/१२॥
द्यूते क्षतः कलहो विद्यते नः को वै द्यूतं रोचयेद् बुध्यमानः॥सभा.५८/१०॥
निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः।
न च नीतिर्ध्रुवा राजन् किं त्वं द्यूतं प्रशंसति॥ सभा.५९/५॥
इदं वै देवनं पापं निकृत्या कितवैः सह।
धर्मेण तु जयो युद्धे तत्परं न तु देवनम्॥ सभा.५९/१०॥
कितवस्येह कृतिनो वृत्तमेतन्न पूज्यते॥ सभा.५९/१३॥
एकाहाद् द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च।
द्यूतमेतत् पुराकल्पे दृष्टं वैरकरं नृणाम्।
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद् विशाम्पते॥ सभा.५२/४८॥
नैव ह्रस्वा न महती न कृष्णा नातिरोहिणी।
नील कुञ्चितकेशी च तया दीव्याम्यहं त्वया॥ सभा.६५/३३॥
तथैव स्यादानृशंस्यात् तथा स्याद् रूपसम्पदा।
तथा स्याच्छीलसम्पत्त्या यामिच्छेत् पुरुषः स्त्रियम्॥ सभा.६५/३५॥
यादृशीं धर्मकामार्थ सिद्धिमिच्छेन्नरः स्त्रियम्॥ सभा.६५/३६॥
आभाति पद्मवद् वक्त्रं सस्वेदं मल्लिकेव च।
वेदिमध्या दीर्घकेशी ताम्रास्या नातिलोमशा॥ सभा.६५/३८॥
यथा च वेदान् सावित्री याज्ञसेनी तथा पतीन्।
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः।
मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः।
अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपिणः॥ शान्ति.१११/६२॥
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
अर्थ प्राप्तौ तु नरकः कृत्स्न एवोपपद्यते।। आदि.१५६/२३॥
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम्॥ आदि.१५६/२४॥
ममत्वं हि न कर्त्तव्यमैश्वर्ये वा धनेऽपि वा।
पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः॥ सभा.५५/१२॥
अर्थ एव हि केषांचिदनर्थं भजते नृणाम्।
धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता।
यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः।
एष नार्थविहीनेन शक्यो राजन् निषेवितुम्।
अर्थेन तु समो नार्थो यत्र लभ्येत नोदयः।
परित्यज्य प्रियान् प्राणान् धनार्थं हि महामते।
न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च।
अधनाद्धि निवर्तन्ते ज्ञातयः सुहृदो द्विजाः।
धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम्।
न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः।
अर्थाद् धर्मश्च कामश्च स्वर्गश्चैव नराधिप।
प्राणयात्रापि लोकस्य विना ह्यर्थं न सिद्ध्यति॥ शान्ति.८/१७॥
यस्यार्थाः स पुमाल्लोके यस्थार्थाः स च पण्डितः॥ शान्ति.८/१९॥
धनात् कुलं प्रभवति धनाद् धर्मः प्रवर्धते।
नाधनस्यास्त्ययं लोके न परः पुरुषोत्तम॥ शान्ति.८/२२॥
भूयान् दोषो हि वर्धेत यस्तं धनमुपाश्रयेत्॥ शान्ति.२०/७॥
यज्ञाय सृष्टानि धनानि धात्रा यज्ञोद्दिष्टः पुरुषो रक्षिता च। शान्ति.२६/२५॥
तस्मात् सर्वं यज्ञ एवोपयोज्यं धनं ततोऽनन्तर एव कामः॥ शान्ति.२०/१०॥
ये वित्तमभिपद्यन्ते सम्यक्त्वं तेषु दुर्लभम्।
दुह्यतः प्रैति तत् प्राहुः प्रतिकूलं यथातथम्॥ शान्ति.२६/२०॥
देवस्वमुपगृह्यैव धनेन न सुखी भवेत्॥ शान्ति.२६/२३॥
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम्॥ शान्ति.२६/३१॥
आहुस्तांस्तान् वै पशुभूतान् मनुष्यान्॥ शान्ति.६५/७॥
कुकुदं सर्वभूतानां धनस्थो नात्र संशयः॥ शान्ति.८८/३०॥
धृतिर्दाक्ष्यं संयमो बुद्धिरात्मा धैर्यं शौर्यं देशकालाप्रमादाः॥
अल्पस्य बा बहुर्नो वा विवृद्धौ धनस्यैतान्यष्ट समिन्धनानि॥ शान्ति.१२०/३७॥
धनेन जयते लोकावुभौ परमिमं तथा।
सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा॥ शान्ति.१३०/४३॥
अधनं दुर्बलं प्राहुर्धनेन बलवान् भवेत्।
सर्वं धनवतां प्राप्यं सर्वं तरति कोशवान्॥ शान्ति.१३०/४९॥
उच्चैर्वृत्तेः श्रियो हानिर्यथैव मरणं तथा।
तस्मात् कोशं बलं मित्रमथ राज्या विवर्धयेत्॥ शान्ति.१३३/५॥
नित्योद्विग्नो हि धनवान् मृत्योरास्यगतो यथा॥ शान्ति.१७६/११॥
तिर्यगीक्षः शुष्कमुखः पापको भृकुटिमुखः॥ शान्ति.१७६/१४॥
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवल मानुषः॥ शान्ति.१७६/१७॥
परिक्षीणः परस्वानामादानं साधु मन्यते॥ शान्ति.१७६/१८॥
संचितं संचितं द्रव्यं नष्टं तव पुनः पुनः।
ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी।
लब्धनाशे यथा मृत्युर्लब्धं भवति वा न वा॥ शान्ति.१७७/२६॥
ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनाच्च्युतम्॥ शान्ति.१७७/३४॥
दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः।
तं मन्यन्ते धनयुक्ताः कृपणैः सम्प्रवर्तितम्॥ शान्ति.२५९/१८॥
न ह्यत्यन्तं धनवन्तो भवन्ति सुखिनोऽपि वा॥ शान्ति.२५९/१९॥
न्यायागतं धनं चैव न्यायेनैव विवर्धितम्।
संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः॥ शान्ति.२९२/४॥
न तु वृद्धिमिहान्विच्छेत् कर्म कृत्वा जुगुप्सितम्॥ शान्ति.२९२/१८॥
येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान्।
धर्मं वै शाश्वतं लोके न जह्याद् धनकाङ्क्षया॥ शान्ति.२९२/१९॥
धनस्य यस्य राजतो भयं न चास्ति चोरतः।
मृतं च यन्न मुञ्चति समर्जयस्व तद् धनम्॥ शान्ति.३२१/४६॥
इहलोके हि धनिनां स्वजनः स्वजनायते।
स्वजनस्तु दरिद्राणां जीवितामपि नश्यति॥ शान्ति.३२१/८८॥
धनेन किं यन्न ददाति नाश्नुते बलेन किं येन रिपुं न बाधते।
श्रुतेन किं येन न धर्ममाचरेत् किमात्मना यो न जितेन्द्रियो वशी॥शान्ति.३२१/९३॥
त्यज्यन्ते दुःखमर्था हि पालने न च ते सुखाः।
दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत्॥ शान्ति.३३०/१८॥
न्याय्यस्यार्थस्य सम्प्राप्तिं कृत्वा फलमुपाश्नुते॥ शान्ति.३६०/११॥
अर्थाश्च नार्यश्च समानमेतच्छ्रेयांसि पुंसामिह मोहयन्ति।
रतिप्रमोदात् प्रमदा हरन्ति भोगैर्धनं चाप्युपहन्ति धर्मान्॥अनु.२२ दा.पा.॥
धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम्।
कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः॥ अनु.१४१/७८॥
एकेनांशेन कामार्थ एकमंशं विवर्धयेत्॥ अनु.१४१/७९॥
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
धर्मे मतिर्भवतु वः सततोत्थितानां स ह्येक एव परलोकगतस्य बन्धुः।
अर्थाः स्त्रिश्च निपुणैरपि सेव्यमाना नैवाप्तभावमुपयान्ति न च स्थिरत्वम्॥आदि.२/३९१॥
धर्म एव हि साधूनां सर्वेषां हितकारणम्।
नित्यं मिथ्याविहीनानां न च दुःखावहो भवेत्॥ आदि.७४ दा.पा.२८-२९॥
मन्यते पापकं कृत्वा न कश्चिद् वेत्ति मामिति।
विदन्ति चैनं देवाश्च यश्चैवान्तरपूरुषः॥ आदि.७४/२९॥
यदा न कुरुते पापं सर्वभूतेषु कर्हिचित्।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥ आदि.७५/५२॥
धर्म एव परः कामादर्थाच्चेति व्यवस्थिताः॥ आदि.१००/५॥
धर्मो हि हतो हन्ति॥ आदि.४१/२२॥
शरीरगुप्त्यभ्यधिकं धर्मं गोपाय पाण्डव॥ आदि.१५४/२॥
आपत्सु यो धारयति धर्मं धर्मविदुत्तमः।
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते॥ आदि.१५४/१४॥
शरीरस्य विनाशेन धर्म एव विशिष्यते॥ आदि.२१२/२०॥
पुण्यं प्राणान् धारयति पुण्यं प्राणदमुच्यते।
येन येनाचरेद् धर्मं तस्मिन् गर्हा न विद्यते॥ आदि.१५४/१५॥
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः।
दानं यज्ञाः सतां पूजा वेदधारणमार्जवम्।
धर्मं यो बाधते धर्मो न स धर्मः कुधर्म तत्।
आचारसम्भवो धर्मो धर्मे वेदाः प्रतिष्ठिताः।
तस्मात् कल्याणवृत्तः स्यादनन्ताय नरः सदा।
वेदोक्तः परमो धर्मः धर्मशास्त्रेषु चापरः।
यशः सत्यं दमः शौचमार्जवं ह्नीरचापलम्।
न तत् परस्य संदध्यात् प्रतिकूलं यदात्मनः।
न जातु कामान्न भयान्न लोभाद् धर्मं जह्याज्जीवितस्यापि हेतोः॥
नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः।
त्यक्त्वाधर्मं च लोभं च मोहं चोद्यमास्थिताः।
यत्र धर्मो द्युतिः कान्तिर्यत्र ह्नीः श्रीस्तथा मतिः।
यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः।
धर्मापेक्षी नरो नित्यं सर्वत्र लभते सुखम्।
यत् स्यादहिंसा संयुक्तं स धर्म इति निश्चयः।
अद्रोहेणैव भूतानां यो धर्मः स सतां मतः॥ शान्ति.२१/११॥
अद्रोहः सत्यवचनं संविभागो दया दमः।
प्रजनं स्वेषु दारेषु मार्दवं ह्नीरचापलम्।
एवं धर्मं प्रधानेष्टं मनुः स्वायम्भुवोऽब्रवीत्॥ शान्ति.२१/१२॥
अहिंसा सत्यमक्रोध इज्या धर्मस्य लक्षणम्॥ शान्ति.३६/१०॥
स एव धर्मः सोऽधर्मः देशकाले प्रतिष्ठितः।
आदानमनृतं हिंसा धर्मो ह्यावस्थिकः स्मृतः॥ शान्ति.३६/११॥
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा।
तस्मिन् ह्रसति ह्रीयन्ते तस्माद् धर्मं न लोपयेत्॥ शान्ति.९०/१७॥
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयम्भुवा॥ शान्ति.९०/१९॥
अस्मिंल्लोके परे चैव धर्मात्मा सुखमेधते॥ शान्ति.९१/५२॥
न कामान्न च संरम्भान्न द्वेषाद् धर्ममुत्सृजेत्॥ शान्ति.९३/९॥
धर्मेण निधनं श्रेयो न जयः पापकर्मणा॥ शान्ति.९५/१७॥
तस्मात् धर्मेण विजयं कोशं लिप्सेत भूमिपः॥ शान्ति.९५/२२॥
सत्येन हि स्थितो धर्म उपपत्या तथा परे।
सत्यानृते विनिश्चित्य ततो भवति धर्मवित्॥ शान्ति.१०९/६॥
प्रभवार्थाय भूतानां धर्म प्रवचनं कृतम्।
यः स्यात् प्रभव संयुक्तः स धर्म इति निश्चयः॥ शान्ति.१०८/१०॥
धारणाद् धर्ममित्याहु धर्मेण विधृताः प्रजाः।
यः स्याद् धारणसंयुक्तः स धर्म इति निश्चयः॥ शान्ति.१०९/११॥
यः स्यादहिंसासंपृक्तः स धर्म इति निश्चयः॥ शान्ति.१०८/१२॥
संकल्पमूलास्ते सर्वे संकल्पो विषयात्मकः॥ शान्ति.१२३/४॥
मूलमेतत् त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते॥ शान्ति.१२३/५॥
कामो रतिफलश्चात्र सर्वे ते च रजस्वलाः॥ शान्ति.१२३/६॥
सम्प्रमोदमलः कामो भूयः स्वगुणवर्जितः॥ शान्ति.१२३/१०॥
स धर्मार्थ परित्यागात् प्रज्ञानाशमिहार्च्छति॥ शान्ति.१२३/१५॥
तस्मान्नास्तिकता चैव दुराचारश्च जायते॥ शान्ति.१२३/१६॥
धर्मो ह्यणीयान् वचनाद् बुद्धिश्च भरतर्षभ।
श्रुत्वोपास्य सदाचारैः साधुर्भवति स क्वचित्॥ शान्ति.१३०/६॥
यथा यथा हि पुरुषो नित्यं शास्त्रमवेक्षते।
तथा तथा विजानाति विज्ञानमथ रोचते॥ शान्ति.१३०/१०॥
यश्चतुर्गुणसम्पन्नं धर्मं ब्रूयात् स धर्मवित्।
अहेरिव धर्मस्य पदं दुःखं गवेषितुम्॥ शान्ति.१३२/२०॥
अतिधर्माद् बलं मन्ये बलाद् धर्मः प्रवर्तते।
बले प्रतिष्ठितो धर्मो धरण्यामिव जङ्गमम्॥ शान्ति.१३४/६॥
धूमो वायोरिव वशे बलं धर्मोऽनुवर्तते।
अनीश्वरो बले धर्मो द्रुमे वल्लीव संश्रिता॥ शान्ति.१३४/७॥
वशे बलवतां धर्मः सुखं भोगवतामिव।
नास्त्यसाध्यं बलवतां सर्वे बलवतां शुचि॥ शान्ति.१३४/८॥
स वै धर्मो यत्र न पापमस्ति॥ शान्ति.१४१/७६॥
धर्मेण देवा ववृधुर्धर्मे चार्थः समाहितः॥ शान्ति.१६७/७॥
धर्मो राजन् गुणः श्रेष्ठो मध्यमो ह्यर्थ उच्यते।
कामो यवीयानिति च प्रवदन्ति मनीषिणः॥ शान्ति.१६७/८॥
युवैव धर्मशीलः स्यादनित्यं खलु जीवितम्।
कृते धर्मे भवेत् कीर्तिरिह प्रेत्य च वै सुखम्॥ शान्ति.१७५/१६॥
लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः॥ शान्ति.२५९/४॥
धर्मस्य निष्ठा त्वाचारस्तमेवाश्रित्य भोत्स्यसे॥ शान्ति.२५९/६॥
न हर्तव्यं परधनमिति धर्मः सनातनः॥ शान्ति.२५९/१२॥
न धर्मः परिपाठेन शक्यो भारत वेदितुम्॥ शान्ति.२६०/३॥
अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः।
आपदस्तु कथं शक्याः परिपाठेन वेदितुम्॥ शान्ति.२६०/४॥
अद्रोहेण भूतानामल्प द्रोहेण वा पुनः।
या वृत्तिः स परो धर्मस्तेन जीवामि जाजले॥ शान्ति.२६२/६॥
सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः।
कर्मणा मनसा वाचा स धर्मं वेद जाजले॥ शान्ति.२६२/९॥
नाहं परेषां कृत्यानि प्रशंसामि न गर्हये।
आकाशस्येव विप्रेन्द्र पश्यंल्लोकस्य चित्रताम्॥ शान्ति.२६२/११॥
देवैरपिहितद्वाराः सोपमा पश्यतो मम॥ शान्ति.२६२/१३॥
यथा वृध्दातुरकृशा निःस्पृहा विषयान् प्रति।
तथार्थकामभोगेषु ममापि विगता स्पृहा॥ शान्ति.२६२/१४॥
न भूतो न भविष्योऽस्ति न च धर्मोऽस्ति कश्चन।
योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम्॥ शान्ति.२६२/१७॥
यस्माद् उद्विजते लोकः सर्वो मृत्युमुखादिव।
वाक्क्रूरात् दण्डपरुषात् स प्राप्नोति महद् भयम्॥ शान्ति.२६२/१८॥
देवता ब्राह्मणाः सन्तो यक्षा मानुष चारणाः।
धार्मिकान् पूजयन्तीह न धनाढ्यान् न कामिनः॥ शान्ति.२७१/५५॥
धने सुखकला काचिद् धर्मे तु परमं सुखम्॥ शान्ति.२७१/५६॥
न धर्मे जायते बुद्धिर्व्याजाद् धर्मं करोति च॥ शान्ति.२७३/६॥
धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती॥ शान्ति.२७३/२४॥
धर्म एव कृतः श्रेयानिह लोके परत्र च॥ शान्ति.२९०/६॥
धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते॥ शान्ति.२९०/६४॥
धर्मः सतां हितः पुंसां धर्मश्चैवाश्रयः सताम्।
न तत् परस्य संदध्यात् प्रतिकूलं यदात्मनः।
चित्तमूलो भवेद् धर्मो धर्ममूलं भवेद् यशः॥ अनु.१४१ दा.पा.॥
शिष्टाचीर्णोऽपरः प्रोक्तस्त्रयो धर्माः सनातनाः॥ अनु.१४१/६५॥
हिंसादोषविमुक्तात्मा स वै धर्मेण युज्यते॥ अनु.१४२/२७॥
सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते॥ अनु.१४२/२८॥
आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते॥ अनु.१४२/३०॥
क्षन्तो दान्तो जितक्रोधो धर्मभूतो विहिंसकः।
धर्मे रतमना नित्यं नरो धर्मेण युज्यते॥ अनु.१४२/३२॥
चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते॥ अनु.१४२/३३॥
यमधर्मेण धर्मोऽस्ति नान्यः शुभतरः प्रिये॥ अनु.१४५ दा.पा.॥
यस्तस्य विपुलो दण्डः सम्यग्धर्मः स कीर्त्यते॥ अनु.१४८/५०॥
ये तु धर्मं महाराज सततं पर्युपासते।
सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः॥ अनु.१६२/२९॥
मनुष्या यदि वा देवाः शरीरमुपताप्य वै।
तस्मात् सर्वाणि भूतानि धर्ममेव समासते॥ अनु.१६२/६०॥
एक एव चरेद् धर्मं न धर्मध्वजिको भवेत्।
धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते॥ अनु.१६२/६१॥
निधिं निदध्यात् पारत्र्यं यात्रार्थं दानशब्दितम्॥ अनु.१६२/६२॥
यदा च क्षीयते पापं कालेन पुरुषस्य तु।
एवं धर्मात् परं नास्ति महत्संसारमोक्षणम्।
तस्मात् धर्मः सदा कार्यो मानुष्यं प्राप्य दुर्लभम्।
एकः प्रजायते जन्तुरेक एव प्रमीयते।
अनागतानि कार्याणि कर्तुं गणयते मनः।
तस्माद् धर्मसहायस्तु धर्मं संचिनुयात् सदा।
बाल्ये विद्यां निषेवेत यौवने दारसंग्रहम्।
ब्राह्मणान् नावमन्येत गुरून् परिवदेन्न च।
सत्येन संवर्धयति यो दमेन शमेन च।
सर्वगश्चैव राजेन्द्र सर्वं व्याप्य चराचरम्।
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे।
[[Category:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः॥ आदि.१५६/१४॥
एतावानेन पुरुषः कृतं यस्मिन् न नश्यति॥ आदि.१६१/१४॥
यावच्च कुर्यादन्योऽस्य कुर्याद् बहुगुणं ततः॥ आदि.१६१/१५॥
यस्य चार्द्रस्य वृक्षस्य शीतच्छायां समाश्रयेत्।
जीवितस्य प्रदातारं कृतज्ञः को नु पूजयेत्॥ शान्ति.१३८/१३१॥
[[Category:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम्।
दाने तपसि सत्ये च यस्य नोच्चरितं यशः।
श्रुतेन तपसा वापि श्रिया वा विक्रमेण वा।
परवीर्यं समाश्रित्य यः समाह्वयते परान्।
[[Category:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः॥ शान्ति ४७/३९॥
शुक्ले देवान् पितॄन् कृष्णे तर्पयत्यमृतेन यः।
यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः॥ शान्ति ४७/४०॥
यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः॥ शान्ति ४७/४१॥
यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे।
यं विप्रसंघा गायन्ति तस्मै वेदात्मने नमः॥ शान्ति ४७/४२॥
यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः॥ शान्ति ४७/४३॥
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च।
हूयते च पुनर्द्वाभ्यां तस्मै होमात्मने नमः॥ शान्ति ४७/४४॥
रथन्तरं बृहत् साम तस्मै स्तोत्रात्मने नमः॥ शान्ति ४७/४५॥
यः सहस्त्रसमे सत्रे जज्ञे विश्वसृजामृषिः।
हिरण्यपक्षः शकुनिस्तस्मै हंसात्मने नमः॥ शान्ति ४७/४६॥
यमाहुरक्षं दिव्यं तस्मै वागात्मने नमः॥ शान्ति ४७/४७॥
धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः॥ शान्ति ४७/५०॥
पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः।। शान्ति ४७/५१॥
यं च व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः।
क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः॥ शान्ति ४७/५३॥
प्राहुः सप्तदशं सांख्यास्तस्मै सांख्यात्मने नमः॥ शान्ति ४७/५४॥
यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः॥ शान्ति ४७/५५॥
शान्ताः सन्यासिनो यान्ति तस्मै मोक्षात्मने नमः॥ शान्ति ४७/५६॥
सम्भक्षयति भूतानि तस्मै घोरात्मने नमः॥ शान्ति ४७/५७॥
सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत्॥
बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः॥ शान्ति ४७/५८॥
तद् यस्य नाभ्यां सम्भूतं यस्मिन् विश्वं प्रतिष्ठितम्।
पुष्करे पुष्कराक्षस्य तस्मै पद्मात्मने नमः॥ शान्ति ४७/५९॥
चतुः समुद्रपर्याय योगनिद्रात्मने नमः॥ शान्ति ४७/६०॥
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः॥ शान्ति ४७/६१॥
यस्मिंश्चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः॥ शान्ति ४७/६२॥
यो निषण्णो भवेत् रात्रौ दिवा भवति विष्ठितः।
इष्टानिष्टस्य च द्रष्टा तस्मै द्रष्टात्मने नमः॥ शान्ति ४७/६३॥
वैकुण्ठस्य च तद् रूपं तस्मै कार्यात्मने नमः॥ शान्ति ४७/६४॥
यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः॥ शान्ति ४७/६६॥
सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः॥ शान्ति ४७/६७॥
ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः।
पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः॥ शान्ति ४७/६८॥
यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः।
सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः॥ शान्ति ४७/६९॥
परः कालात् परो यज्ञात् परात् परतरश्च यः।
अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः॥ शान्ति ४७/७०॥
विषये वर्तमानानां यं ते वैशेषिकैर्गुणैः।
प्राहुर्विषयगोप्तारं तस्मै गोप्वात्मने नमः॥ शान्ति ४७/७१॥
यो धारयति भूतानि तस्मै प्राणात्मने नमः॥ शान्ति ४७/७२॥
प्राणानां धारणार्थाय योऽन्नं भुङ्क्ते चतुर्विधम्।
अन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः॥ शान्ति ४७/७३॥
सर्गस्य रक्षाणार्थाय तस्मै मोहात्मने नमः॥ शान्ति ४७/७७॥
यं ज्ञानेनाभिगच्छन्ति तस्मै ज्ञानात्मने नमः॥ शान्ति ४७/७८॥
अनन्तपरिमेयाय तस्मै दिव्यात्मने नमः॥ शान्ति ४७/७९॥
अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः॥ शान्ति ४७/८३॥
यस्मिन् सर्वे यतः सर्वे यः सर्वे सर्वतश्च यः।
यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः॥ शान्ति ४७/८४॥
न हि पश्यामि ते भावं दिव्यं हि त्रिषु वर्त्मसु।
त्वां तु पश्यामि तत्वेन यत् ते रूपं सनातनम्॥ शान्ति ४७/८८॥
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा।
विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः॥ शान्ति ४७/८८॥
दिशो भुजा रविश्चक्षुर्वीर्ये शुक्रः प्रतिष्ठितः।
सप्त मार्गा निरुध्दास्ते वायोरमित तेजसः॥ शान्ति ४७/९०॥
दुःखशोक परित्राणं हरिरित्यक्षरद्वयम्॥ शान्ति ४७/९६॥
यथा विष्णुमयं सत्यं यथा विष्णुमयं जगत्।
यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा॥ शान्ति ४७/९७॥
त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे।
यच्छ्रेयः पुण्डरीकाक्ष तद् ध्यायस्व च सुरोत्तम॥ शान्ति ४७/८॥
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः॥ शान्ति ४७/९९॥
नारायणः परं ब्रह्म नारायण परं तपः।
नारायणः परो देवः सर्वं नारायण सदा॥ शान्ति ४७/१००॥
[[Category:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
मनसः परमं योनिं खं वायुं ज्योतिषां निधिम्॥ द्रोण ८०/४४॥
स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम्।
देवदानवयक्षाणां मानवानां च साधनम्॥ द्रोण ८०/४५॥
योगानां च परं धाम दृष्टं ब्रह्मविदां निधिम्।
चराचरस्य स्रष्टारं प्रतिहर्तारमेव च॥ द्रोण ८०/४६॥
तमजं कारणमात्मानं जग्मतुः शरणं भवम्॥ द्रोण ८०/४८॥
नमो भवाय शर्वाय रुद्राय वरदाय च।
पशूनां पतये नित्यमुग्राय च कपर्दिने।। द्रोण ८०/५५॥
आत्मनोऽर्धं तु तस्याग्निः सोमोऽर्धं पुनरुच्यते।
ब्रह्यचर्यं चरत्येका शिवा चास्य तनुस्तथा॥ अनु. १६१/५॥
यास्य घोरतमा मूर्तिर्जगत् संहरते तथा।
ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः॥ अनु. १६१/६॥
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत् प्रतापवान्।
मांसशोणितमज्जादो यत् ततो रुद्र उच्यते॥ अनु. १६१/७॥
यच्च विश्वं महत् पाति महादेवस्ततः स्मृतः॥ अनु १६१/८॥
धूम्ररूपं च यत्तस्य धूर्जटीत्यत उच्यते।
समेधयति यन्नित्यं सर्वान् वै सर्वकर्मभिः॥ अनु १६१/९॥
दहत्यूर्ध्वं स्थितो यच्च प्राणान् नॄणां स्थिरश्च यत्।
स्थिरलिङ्गश्च यन्नित्यं तस्मात् स्थाणुरिति स्मृतः॥ अनु. १६१/१०॥
यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा॥ अनु. १६१/११॥
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः।
विश्वे देवाश्च यत्तस्मिन् विश्वरूपस्ततः स्मृतः॥ अनु १६१/१२॥
चक्षुषः प्रभवेत् तेजो नास्त्यन्तोऽथास्य चक्षुषाम्॥ अनु १६१/१३॥
सर्वथा यत् पशून् पाति तैश्च यद् रमते सह।
तेषामधिपतिर्यच्च तस्मात् पशुपतिः स्मृतिः॥ अनु १६१/१४॥
ऎश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते॥ अनु. १६१/२८॥
तस्य देवस्य यद् वक्त्रं समुद्रे वडवामुखम्॥ अनु. १६१/२९॥
अध्यात्मवेदमासाद्य प्रयामि शरणं मुहुः॥ आश्व ८ दा.पा. ३२-३३॥
यस्य नित्यं विधुः स्थानं मोक्षमध्यात्मचिन्तकाः।
यं विधुः सङ्गनिर्मुक्ताः सामान्यं समदर्शिनः।
तं प्रपद्ये जगद्योनिं निर्गुणात्मकम्॥ आश्व ८ दा.पा. ३२-३३॥
असृजद् यस्तु भूरादीन् सप्तलोकान् सनातनात्।
स्थितः सत्योपरि स्थाणुं तं प्रपद्ये सनातनम्॥ आश्व८दा.पा.३२-३३॥
[[Category:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
त्वया संधार्यते लोकस्त्वया लोकः प्रकाश्यते।
त्वया पवित्रीक्रियते निर्व्याजं पाल्यते त्वया॥ वन ३/३८॥
सन्ति चान्यानि सत्त्वानि वीर्यवन्ति महान्ति च।
न तु तेषां तथा दीप्तिः प्रभावो वा यथा तव॥ वन ३/४६॥
सर्वोषधिरसानां च पुनर्वर्षासु मुञ्चति॥ वन ३/४९॥
न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः।
शीतवातार्दितं लोकं यथा तव मरीचयः॥ वन ३/५१॥
तव यद्युदयो न स्यादन्धं जगदिदं भवेत्।
न च धर्मार्थकामेषु प्रवर्तेरन् मनीषिणः॥ वन ३/५३॥
तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः॥ वन ३/५५॥
संहार काले सम्प्राप्ते तव क्रोधविनिसृतः।
आदत्ते रश्मिभिः सूर्यो दिवि तिष्ठंस्ततस्ततः।
रसं हृतं वै वर्षासु प्रवर्षति दिवाकरः॥ अनु ९५/२१॥
ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम्।
अन्नं प्राणा इति यथा वेदेषु परिपठ्यते॥ अनु ९५/२२॥
[[Category:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे किलं त्यजेत्। आदि ११४/३८॥
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥ आदि ८०/१७ दा.पा. १८॥
आपदार्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि। उद्योग ३७/१८॥
आत्मानं सततं रक्षेद् दारैरपि धनैरपि॥ आदि १५७/२७॥
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धनः।
न समं सर्वमेवेति बुधानामेष निश्चयः॥ आदि १५७/२८॥
आत्मकार्यं च सर्वेषां गरीयस्त्रिदशेश्वर॥ कर्ण ८७/७१॥
विपरीतं द्विषत्स्वेतत् षडविधा वृद्धिरात्मनः॥ शल्य ६०/१४॥
सर्वात्मनैव धर्मस्य न परस्य न चात्मनः।
अद्वारतः प्रद्रवति यदा भवति पीडितः॥ शान्ति १३०/२२॥
कृत्वा बलवता सन्धिमात्मानं यो न रक्षति।
अपथ्यमिव तद् भुक्तं तस्य नार्थाय कल्पते॥ शान्ति १३८/१०९॥
न च कश्चित् कृते कार्ये कर्तारं समवेक्षते॥ शान्ति १३८/१११॥
तस्मात् सर्वाणि कार्याणि सावशेषाणि कारयेत्।
आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनानि च।।
आत्मा हि सर्वदा रक्ष्यो दारैरपि धनैरपि॥ शान्ति १३८/१८१॥
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा॥ शान्ति १३८/१९३॥
समाहितश्चरेद् युक्त्या कृत्यार्थश्च न विश्वसेत्।
द्रव्याणि संततिश्चैव सर्वं भवति जीवितः॥ शान्ति १३८/१९६॥
तस्मादभीतवद् भीतो विश्वस्तवदविश्वसन्॥ शान्ति १३८/२०६॥
न ह्यप्रमत्तश्चलति चलितो वा विनश्यति।
पूर्वं सम्मानना यत्र पश्चाच्चैव विमानना।
जह्यात् तत् सत्त्ववान् स्थानं शत्रोः सम्मनितोऽपि सन्॥ शा. १३९/३३॥
अन्यत्र वस्तुं गच्छेद् वा वसेद् वा नित्यमानितः॥ शान्ति १३९/९१॥
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम्।
कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत्॥ शान्ति १३९/९३॥
कुपुत्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः।
कुराज्ये निर्वृत्तिर्नास्ति कुदेशे नास्ति जीविका॥ शान्ति १३९/९४॥
अवमानः कुसम्बन्धे भवत्यर्थविपर्यये॥ शान्ति १३९/९५॥
सा भार्या या प्रियं ब्रूते स पुत्रो यस्य निर्वृतिः।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते॥ शान्ति १३९/९६॥
पयः पिबति यस्तस्यां धेनुस्तस्यास्ति निश्चयः॥ शान्ति १७४/३२॥
पेशलं चानुरूपं च कर्तव्यं हितमात्मनः॥ शान्ति ३२२/२०॥
सात्विकं मार्गमास्थाय पश्येदात्मानमात्मना॥ शान्ति ३२६/२८॥
पुष्टिकर्मविधानं च कर्तव्यं भूतिमिच्छता॥ अनु १४१/७७॥
विघसाशिना सदा भाव्यं सत्पथालम्बिना तथा।
ब्राह्मं हि मार्गमाक्रम्य वर्तितव्यं बूभूषता॥ अनु. १४३/५५॥
धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः॥ अनु. १४५॥
मध्याह्ने वार्धरात्रेः वा गमनं नैव रोचयेत्॥ अनु. १४५ दा.पा.॥
भयाद् वा यदि वा लोभान्न कुर्वीत कदाचन॥ अनु.१४५ दा.पा.॥
मनसा कर्मणा वाचा न च काङ्क्षेत् पातकम्॥ अनु. १४५ दा.पा.॥
बुद्धि श्रद्धा च विनयः करणानि हितैषिणाम्॥ अनु.१४५ दा.पा.॥
[[Category:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
जनयन्ति भयं तीव्रं व्याधयश्चाप्युपेक्षिता॥ शान्ति.१४०/५९॥
भ्यणवान् जायते मर्त्यस्तस्मादनृणतां व्रजेत्॥ शान्ति.२९२/९॥
पितृभ्यः श्राद्धदानेन नृणामम्यर्चनेन च॥ शान्ति.२८२/१०॥
यथावद् भृत्यवर्गस्य, चिकीर्षेत् कर्म आदितः॥ शान्ति.२९२/११॥
यज्ञैस्तु देवान् प्रीणाति स्वाध्यायतपसा मुनीन्॥ आदि.११९/१९॥
पुत्रैः श्राद्धैः पितृंश्चापि आनृशंस्येन मानवान्॥ आदि.११९/२०॥
[[Category:महाभारतसूक्तयः (भागः १ स्वरादयः विषयाः
<DOC_END>
<DOC_START>
==महिमा तेऽन्येन न सन्नशे ॥ यजुर्वेदः २३-३५
तव माहात्म्यम् अन्यैः न सिद्ध्यते ।
: आत्मनः माहात्म्यं प्राप्तुं वयं सर्वेऽपि इच्छामः । किन्तु तच्च माहात्म्यम् अन्येषां परिश्रमेण प्राप्तं न स्यात् । यतः विना परिश्रमेण यत् प्राप्येत तस्य मौल्यं कदापि न ज्ञायते एव । अस्माकं निमित्तम् अन्ये कियत् कालं परिश्रमं कुर्युः तैः क्रियमाणस्य परिश्रमस्य फलम् अस्माभिः अनुभूयते इति जानद्भिः तैः तस्य निवारणाय प्रयत्नः विधीयते एव । अस्माभिः स्वयं परिश्रमः यदि न क्रियेत तर्हि आत्मविश्वासः न वर्धते एव । स्वावलम्बनमेव समाधानयुक्तस्य जीवनस्य सूत्रम् । प्रयत्नपूर्वकं प्राप्तं फलं तृप्तिं प्रयच्छति । इयं तृप्तिः यदा न भवति तदा अन्येषां श्लाघनप्राप्तोत्सुकाः भवामः ।
<DOC_END>
<DOC_START>
==मा क्रुधः ॥ (अथर्व ११-२-२०
<DOC_END>
<DOC_START>
==मा गृधः कस्य स्विद्धनम् ॥ यजुर्वेदः ४०-१
अन्येषां सम्पत्तिः न अपहर्तव्या ।
: ऐहिकजगति याः सम्पत्तयः इति निर्दिश्यन्ते तेषु काः अस्माभिः अत्रागमनावसरे आनीताः अपि च इतः गमनावसरे काः नेष्यामः न किञ्चित् । एतस्यां वस्तुस्थितौ का अस्माकं सम्पत्तिः अस्माकं कर्मणः अनुगुणं जननावसरे एव अस्माभिः किञ्चिदिव सम्पत्तिः प्राप्ता भवति । तस्य रक्षणम् अग्रिमपरम्परायै प्रदानञ्च अस्माकं कर्तव्यम् । सर्वाः सम्पत्तयः तस्य भगवतः एव । कर्मानुसारं कस्मै कियद् दातव्यम् इति निर्णयः तस्य एव । जन्मना प्राप्तायाः सम्पदः न्याययुतेन मार्गेण रक्षणं, वर्धनं च अस्माकं दायित्वम् । तात्कालिकीरूपेण एव सा भवति अस्मदीया । अस्मिन् मार्गे बलात् परिग्रहणस्य प्रसक्तिः एव नास्ति । बलात् स्वीकरणव्यवस्थायां यदि अन्तर्भूताः भवेम अथवा अनुमोदकाः भवेम तर्हि अस्मदीया सम्पत्तिः अन्यायरूपेण यदि अन्ये अपहरेयुः तदा अस्माभिः मौनं सोढव्यं भवति । इदम् अस्मभ्यं न रोचेत खेदाय भवेदपि । य्त् अस्माकं दुःखाय, वेदनायै भवति तत् कदापि अन्येषां कृते न करणीयमेव ।
<DOC_END>
<DOC_START>
मा गृधः कस्यस्विद्धनम् । ईशावास्योपनिषत् १
परकीयां सम्पदं मा गृधः ।
मानवस्य सर्वेषां सद्गुणानां सम्पूर्णतया नाशकारी प्रधानो दुर्गुणो नाम लोभः, योऽयं मानवेषु वसति ।
अनेन लोभाख्येन एकेन अल्पेन दुर्गुणेन दोषेण मानवः दानवः संवृत्तोऽस्ति ॥
किं नाम लोभः अन्येषां धनं प्रति इच्छा । धनवत्त्वेऽपि अतृप्तता, समृद्धधनित्वेऽपि सत्पात्रे विनियोगाकरणम्,
सम्पत्भूयिष्ठत्वेऽपि पुनः पुनः धनलिप्सा, अत्याशा – इत्येतत् सर्वमपि लोभस्य रूपान्तरम् । न हि तावता
सुलभेन साधकानां लोभस्य जयः सम्भवति । प्रयत्ने कृते न शक्यते इत्यपि न ॥
‘अन्यस्य धनं मा गृधः’ इति श्रुतिमाता अस्मान् उपदिशति । अस्मदसम्बद्धम् अनस्मदीयं परकीयं यत् किञ्चित्
वस्तु भवतु, तत् लोष्टसमम् इति जानीयात् । तृप्त्या आनन्दः अनुभोक्तव्यः इति अयं मन्त्रः बोधयति ।
परमार्थतस्तु अस्मासु विद्यमानमपि अस्मदीयं धनं कस्य भगवत एव । एवं व्यवहारं कुर्वतः दुःखं नैव विद्यते ॥
<DOC_END>
<DOC_START>
==मा निन्दत ॥ ऋग्वेदः ४-५-२
: दुष्टाः, द्रोहिणः, हिंसकाः च परितः तिष्ठन्तः निरन्तरं पीडयन्तः यदा भवन्ति तदा अयम् उपदेशः कियता प्रमाणेन युक्तः
: अत्र किञ्चन प्रमुखम् अंशं न विस्मरेम । पीडां सम्मुखीकर्तुं सोढुं वा यदा न शक्नुमः तदा एव अस्माभिः पीडातः हिंसा अनुभूयते । अस्माकं दौर्बल्यं दुष्टानाम् अनुकूलाय भवति । अस्माकं शक्तिं सहनाञ्च अवर्धयन्तः तेषां निन्दनमात्रेण समस्या किं परिह्रियेत अपि च, कति वारं वयं तच्च निन्दनं तेषां पुरतः करणस्य धैर्यं प्रदर्शितवन्तः अधिकतया तेषां पृष्ठतः एव अस्माभिः निन्दनं कृतम् । एतैः निन्दनैः अस्माकं मनः बुद्धिश्च इतोऽपि दुर्बलं मलिनञ्च भवति, समस्यायाः परिहारस्तु निश्चयेन न भवति ।
: दोषान् सम्बद्धजनस्य पुरतः एव खण्डनस्य धैर्यं वहामः । दोषनिवारणस्य मार्गमपि दर्शयाम, साहाय्यमपि कुर्याम । उत्तमा प्रेरणा प्राप्यताम् इति प्रार्थयेम । फलप्राप्तिं यावत् सहनया सम्मुखीकुर्याम ।
<DOC_END>
<DOC_START>
==मा पुरा जरसो मृथाः ॥ अथर्ववेदः ५-३०-१७
वार्धक्यतः पूर्वं मृतः मा भव ।
: सर्वैः मरणं तु प्राप्तव्यमेव । कोऽपि अत्रैव शाश्वतरूपेण भवितुं नार्हति । किन्तु कदा मरणं प्राप्तव्यं, कथं मरणं सम्मुखीकरणीयं, मरणपर्यन्तं किं करणीयम् इत्यादयः प्रश्नाः विद्यन्ते । इदं शरीरनामकं यन्त्रं यथा यथा उपयुञ्ज्महे तथा तथा दुर्वलं भविष्यति । दुरुपयोगेन शीघ्रं नश्यति । सदुपयोगेन दीर्घकालम् उपयोगाय भविष्यति । विनष्टं यन्त्रं परित्यज्य नूतनयन्त्रस्य प्राप्तिः एव पुनर्जन्म । इदं सिद्ध्यति मरणेनैव कुतो भयम् मरणं यावत् यन्त्रं समीचीनतया उपयुक्तं चेत् भयं न बाधते । 'समीचीनं'नाम किम् अस्य यन्त्रस्य उपयोक्ता अस्ति आत्मा । स्वस्य उद्धारः बलवर्धनमेव तदीयः उद्देशः । आत्मबलस्य वर्धनेन भीतिः निर्गच्छति । जीवनं भोगाय एव इति यदि व्यवह्रियेत तर्हि रोगाः प्रविशेयुः, अपघाताः भवेयुः, अकाले वार्धक्यं बाधेत । सार्थकं जीवनं, सकाले वार्धक्यं, धैर्येण मरणप्राप्तिश्च अस्माकं भाग्यं स्यात् ।
<DOC_END>
<DOC_START>
==मा भ्राता भ्रातरं द्विक्षत् ॥ (अथर्व ३-३०-३
सहोदरः सहोदरं न द्विष्यात् ।
: सहोदरा अपि सहोदरां न द्विष्यात् । अभिप्रायाणाम् आचरणानां च विरोधः, सम्पत्त्यादयः विषयः एव प्रायः द्वेषस्य कारणं भवति । रीतिनीतयः यदि समीचीनाः तर्हि विरोधः न कार्यः । समीचीनाः यदि न स्युः तर्हि अपि द्वेषः न कार्यः । शान्तिः, समाधानं, प्रीतिः, प्रेम, त्यागः, तृप्तिः, आरोग्यम् इत्यादयः एव जीवने महासम्पदाः । अशाश्वतस्य सम्पदस्य निमित्तं कलहः मौढ्यद्योतकः । शाश्वतस्य सम्पदस्य सम्पादने यत्नरताः स्याम ।
<DOC_END>
<DOC_START>
==मा रुवण्यः ॥ ऋग्वेदः ८-९६-१२
: रोदनकरणं बहु सुलभम् । मनः दुर्बलं चेत् रोदनं भवेत् । घटितं यत्किमपि स्यात्, अनुकूलकरमेव स्यात्, अन्यथा भावितञ्चेत् मनः दुर्बलं भवेत् । सन्निवेशाः अनुकूलकराः नो चेदपि सर्वत्र उत्तमताम् एव यदि पश्येत् तर्हि मनः दृढं तिष्ठेत् । रोदनेन अन्तःशक्तिः कुण्ठिता भवति । मनः दृढं यदि तिष्ठेत् तर्हि सन्निवेशस्य स्म्मुखीकरणशक्तिः, बुद्धिश्च विकसति । जीवनं नाम कष्टसुख-वेदना-मरणादिभिः युक्तम् इति यदि अवगम्येत तर्हि सम्मुखीकरणाय सिद्धाः भवामः । जीवनमिदं कुसुममार्गः इति भ्रमः यदि स्यात् तर्हि सर्वमपि भवेत् कष्टाय । सम्मुखीकरणस्य छलस्य अपेक्षया रोदनस्य दैन्यता वर्धते । 'यत्किमपि आपततु नाम, कदापि रोदनं न करवाम' इति सङ्कल्पः दृढः भवतु ।
<DOC_END>
<DOC_START>
संस्कृते प्रसिद्धेषु पञ्चसु महाकाव्येषु शिशुपालवधमप्येकम् । महाकविर्माघः अस्य रचयिता । शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते ।
दन्डिन: पदलालित्यं माघे सन्ति त्रयो गुणः।}}
*दाददो दुद्ददुद्दादी दाददो दूददीददोः ।
दुद्दादं दददे दुद्दे दादाददददोऽददः ॥
*तं श्रिया घनयानस्तरुचा सारतया तया ।
यातया तरसा चारुस्तनयानघया श्रितं ॥
मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरे br>
रेकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥</br>
<DOC_END>
<DOC_START>
अपि जीविनः आत्मसमानाः इति भावयन् यः आचरति सः
<DOC_END>
<DOC_START>
माधवरावसदाशिवगोळ्वल्करः (फेब्रवरी १९, १९०६ जून् ५, १९७३ गुरूजी इति नाम्ना प्रसिद्धः आसीत् । अयं राष्ट्रियस्वयंसेवकसङ्घस्य द्वितीयः सरसङ्घचालकः (प्रमुखः अधिकारी) आसीत् ।
*अस्माकं राष्ट्रपुरुषः विजयस्य मूर्तिमत् प्रतीकम् अस्ति । अस्माकं दिव्यवीरपूजायाः प्राणरूपा अस्ति ‘विजयसङ्कल्पशक्तिः’ । एते, ते एव आत्मानः सन्ति, ये च स्वजीवने क्षणं यावत् अपि नेत्रपथात् विजयस्य च्युतिं न सहन्ते, कष्टानि उपस्थितानि चेत् ये च भीताः न भवन्ति, अपि तु निरन्तरम् अग्रे एव सरन्ति ।
*वयं यत्किमपि कुर्याम चेदपि अस्माकं परिधाने, व्यवहारे, जीवनस्य सर्वेषु क्षेत्रेषु चापि भावात्मकनिष्ठा स्पष्टतया अभिव्यक्ता भवेत् । एतदेव अस्माकं सर्वेषाम् उपरि स्थितं महदुत्तरदायित्वं नाम ।
*स्वस्य समाजं शक्तिशालिनं महान्तं सुखिनं च कुर्याम । एषः अस्माकं धर्मः । स्वसमाजविषये सहज-प्रेम भक्तिभावश्च, अस्मदीये राष्ट्रियास्तित्वे भावात्मकश्रद्धा च सर्वेषु कार्येषु निरन्तरं प्रेरणां यच्छन्ति ।
*विचारः अतिश्रेष्ठः चेदपि, तत्त्वज्ञानं सुमहत् चेदपि यावत् कार्यकर्ता स्वयंप्रेरणया तस्य तत्त्वज्ञानस्य निमित्तं सर्वविधं परिश्रमं सर्वप्रकारकं त्यागं च कर्तुं सिद्धः न भवति तावत् कार्यं न वर्धिष्यते इत्येषा ध्येयनिष्ठा सङ्घस्य कार्यकर्तृभ्यः परिचायिता अस्ति । तस्य फलस्वरूपम् एव अस्ति एतत् सङ्घकार्यम् ।
*एतदस्माकं सर्वोत्कृष्टं कर्तव्यं यत् अस्माकं समाजस्य जीवनशक्तेः क्षयं कल्पयन्तं भेदभावं विरोधं च दूरीकृत्य समग्रं समाजं पुनः सङ्घटितं सामञ्जस्यपूर्णं च कुर्याम इति ।
*निस्स्वार्थः आत्मविश्वासयुक्तः निष्ठावान् ध्येयवादी राष्ट्रियवैशिष्ट्याभिमानी जनः एव सर्वदा राष्ट्रिय-विपत्तिकाले स्वराष्ट्रस्य सुप्तं पौरुषं जागरितवान् दृश्यते । स एव भग्नावशेषाणां राशितः तत् पुनः उत्थाप्य सगौरवं स्थापितवान् च दृश्यते ।
*वयं समग्रया शक्त्या तत् ज्योतिः प्रवर्तयेम । तत् देशव्यापि प्रखरं च कुर्याम । एतस्य प्रकाशेन सम्पूर्णः अज्ञानान्धकारः विलुप्तः भविष्यति । सः प्रकाशः प्रपञ्चस्थाः सर्वाः आसुरीयशक्तीः स्पर्धायै निमन्त्रयति, अस्माकं राष्ट्रं च एतस्य दृढाधारस्य उपरि अजेयतया स्थास्यति । सम्पूर्णस्य जगतः पुरतः प्रमाणीकरवाम यत् वयम् एतस्य श्रेष्ठस्य राष्ट्रस्य अजेयसन्तानाः स्मः इति ।
*यः सर्वदा बाह्यकारणतः उत्पन्नेषु सङ्कटेषु सत्सु अपि समाजं सुरक्षितं स्थापयति, अपि च यः राष्ट्रजीवनस्य सर्वाणि क्षेत्राणि अनुप्राणितानि उद्भासितानि च करोति, तादृशस्य सर्वशक्तिमतः सर्वकारस्य निर्माणम् इत्येतत् महत् लक्ष्यम् एव अस्माकं पुरतः अस्ति ।
*अनन्तकालादपि मानवैकतादर्शः, सङ्घर्षसर्वविध-दैन्यादिभ्यः विनिर्मुक्तस्य प्रपञ्चस्य कल्पना च अस्माकं हृदयम् उद्दीपितवन्तौ स्तः । आ युगसहस्रेभ्यः निरन्तरम् अस्माकम् एका प्रार्थना ‘सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः’ इति । (सर्वे सुखिनः भवन्तु, सर्वे अनिष्टेभ्यः विनिर्मुक्ताः भवन्तु इति एतस्य अर्थः ।) सर्वेषां प्राणिनां पूर्णकल्याणसाधनम् एव सदा अस्माकम् उदात्तादर्शः अस्ति ।
*प्रमाणभूताः प्राचीनाः आलेखाः निस्सन्दिग्धतया प्रकटितवन्तः सन्ति यत् विज्ञानकलादीनां सर्वासु अपि शाखासु वयम् अन्यप्रपञ्चात् अपि शताधिकवर्षैः अग्रे आस्म इति । ‘ कृण्वन्तो विश्वमार्यम्’ इति उद्घोषयन्तः अस्मत्पूर्वजाः महात्मानः प्रपञ्चस्य चतुर्षु अपि कोणेषु भ्रमणं कृतवन्तः । अस्माकं कल्याणकारी प्रभावः प्रपञ्चस्य विशालेषु खण्डेषु प्रसृतः आसीत् । अस्माकं पताका च बहुषु देशेषु विराजते स्म । दूरदेशीयाः यात्रिकाः अस्माकं वैभवं द्रष्टुम् अत्र आगच्छन्ति स्म ।
<DOC_END>
<DOC_START>
==मान्तस्थुर्नो अरातयः ॥ ऋग्वेदः १०-५७-१
अस्मासु विद्यमाना कृपणता विनष्टा भवतु
: आदानप्रदानं जगतः निरन्तरनियमः । अनया पृष्ठभूम्या यदा अवलोकयेम तदा प्रकृतौ अनेकानि चक्राणि दृश्यन्ते (उदा जलचक्रम्, आहारचक्रम् इत्यादीनि) । मानवं विहाय अन्ये सर्वेऽपि जीविनः, जडप्रकृतिः अपि स्वाभाविकतया एव आदानप्रदानचक्रे स्वीयं भागं निर्वहन्ति ।
: मानवः अपि तथैव यदि व्यवहरेत् तर्हि तस्य, अन्येषामपि श्रेयस्करं स्यात् । किन्तु तथा करणस्य, अकरणस्य, अन्यथाकरणस्य च 'परिमितं स्वातन्त्र्यं' किञ्चन अस्ति खलु तस्मात् 'दातव्यम्' इति मनः निश्चिनोति चेदेव दानं शक्यं भवति स्वीकरणावसरे अविद्यमानः सङ्कोचः दानावसरे महदाकारेण उपस्थितः भवति अयमेव 'कृपणता'नामकः अन्तः विद्यमानः कश्चन शत्रुः । प्रदानं विना आदानं भवति चेत् आदानप्रदानचक्रम् अव्यवस्थितं भवति इत्येतत् सामान्यज्ञानमपि तत्र अदृश्यतां गच्छति । 'दीयते चेत् लुप्तं भवति खलु' इत्येषः स्वार्थभावः, आतङ्कः, अज्ञानञ्च अन्धकारमेव वर्धयति । आदानप्रदानचक्रे दत्तं सर्वमपि केनचित् रूपेण, कस्याश्चित् दिशायाः, कस्मिंश्चित् दिने प्रत्यागमिष्यति एव विश्वस्यताम् । यावदधिकं दीयेत तावत्या उत्तमरीत्या चक्रमिदं चलति ।
<DOC_END>
<DOC_START>
==माभि द्रुहः ॥ अथर्ववेदः ९-५-४
: द्रोहस्य अनुभवः यावत् न प्राप्येत तावत् अस्माभिः तेन जन्यमानं नष्टं हिंसादयः न अवगम्यन्ते एव केचन अनुभवं प्राप्य अपि द्रोहकरणं न परित्यजन्ति एव द्रोहस्य प्रतिद्रोहः एव प्रत्युत्तरम् इत्येषः एव तेषाम् अवगमनस्तरः
: अनिष्टस्य करणम्, अन्यस्य उपरि तस्य आरोपणं, यत्र विश्वासः ततः आक्रमणम् इत्यादीनि द्रोहकार्याणि । वैचित्र्यं नाम द्रोहस्य आदिमताडनं द्रोहिणा एव प्राप्यते, तदनन्तरमेव अन्यैः इष्टानिष्टानां रूपणावसरे सर्वेषां हितं मनसि निधातव्यम् । अन्येषाम् उपरि आरोपणं कदापि न समीचीनम् । अस्मदुपरि तथा क्रियेत चेत् कथमिति सकृत् चिन्त्यताम् । स्वास्थ्यकरं यत् तत् अवगत्य अङ्गीकर्तव्यम् । तत् आरोपणमिति न भावितव्यम् । जागरणं यथा वर्धेत तथा अनिरीक्षितम् इत्येतत् न्यूनं भविष्यति । विश्वासाघातः क्रियमाणः अस्ति इत्येतत् आदौ अवगम्यते विश्वासाघातकेन एव अहं विश्वासार्हः नास्मि इत्येतत् विश्वासाघातकेन एव ज्ञायते द्रोहिणः स्वस्य योग्यतां स्वयमेव यत् नाश्यते सः आत्मघातः, आत्मद्रोहः ।
<DOC_END>
<DOC_START>
मामेव विजानीहि इति, एतदेव अहं मनुष्याय हिततमं मन्ये, यन्मां विजानीयात् । कौषीतकिब्राह्मणोपनिषत् ३-१
मामेव विजानीहि । एतदेव अहं मनुष्याय हिततमं मन्ये यद् आत्मज्ञानम् ॥
ज्ञानिवरेण्यः देवेन्द्रः दैवोदासिप्रतर्दनं प्रति एतद् वचः उक्तवान् । 'मनुष्याणां हितं किम् कृपया उच्यताम्' इति
प्रतर्दनेन पृष्टः देवेन्द्रः एतद् वचः उक्तवान् । आत्मनः विज्ञानम् एकमेव मानवानां हितभूतम् ॥
बुद्धिमान् मानवः समस्तमेव विश्वं विज्ञातुकामः प्रयतते, यथाशक्ति विजानाति च । न तु एतद् आत्मज्ञानम् ।
न चैतत् हितं भवितुमर्हति । अनेन मुक्तिः न लभ्येत । तर्हि अत्यन्तं हितं किम् आत्मज्ञानमेव । आत्मा नाम
समस्तस्यापि विश्वस्य आस्पदभूतं, समस्तस्य विश्वस्य सारभूतं, विश्वरूपेणा अवभासमानं सर्वव्यापकं ब्रह्म ।
सर्वविकाररहितं परिशुद्धं ब्रह्मैव आत्मा । आत्मज्ञानादेव मुक्तिः । आत्मज्ञानमेकमेव मानवानाम् हिततमम् ॥
<DOC_END>
<DOC_START>
मायां तु प्रकृतिं विद्यात् मायाविनं तु महेश्वरम् । श्वेताश्वतरोपनिषत् ४-१०
प्रकृतिं मायाम्, महेश्वरं च मायाविनं विद्यात् ॥
साङ्ख्यवैशेषिकादिदर्शनेषु वादिनः ‘प्रकृतिम्’, ‘परमाणून्’ च अस्य विश्वस्य मूलकारणम् इति वर्णयन्ति ।
कापिलसाङ्ख्यदर्शनं तु इमां सत्यभूतां मूलप्रकृतिमेव जगत्कारणमिति प्रतिपादयति ॥
यद्यपि वेदान्तदर्शनेऽपि साङ्ख्यानां प्रकृतेः विचारः अनूद्यते, तथापि इमां प्रकृतिं वेदान्तेषु मायाम् वदन्ति
वेदान्तिनः इत्येतावानेव विशेषः । ईश्वराधीना हि प्रकृतिः वेदान्तेषु अविद्याकल्पिता, एषा प्रकृतिः माया चेति
कथ्यते । प्रकृतेः स्वतन्त्रा अस्तिता नास्ति । आत्मनि भ्रान्त्या कल्पिता प्रकृतिः केवलम् आभासरूपा ॥
मायातीतः स्वाधीनकृतमायः मायावी एव ईश्वरः । मायां मायाविनं च अतीत्य स्वीयेन निरुपाधिकेन परिपूर्णस्वरूपेण
विद्यमानमेव परं ब्रह्म । ईश्वरं प्रपद्यमानस्य विज्ञासोः माया अपगच्छति । न हि मायाविनं माया वञ्चयेत् ॥
<DOC_END>
<DOC_START>
==मित्रस्य चक्षुषा समीक्ष्यामहे ॥ यजुर्वेदः ३६-१८
: वेदैः कदापि हिंसा न प्रचोदिता इत्येतस्य साक्षीरूपा विद्यते इयं सूक्तिः । न केवलं मानवसमाजे अपि च समग्रे जीवजगति अयं मैत्रीभावः भवतु इत्येषः हृदयस्थः सदाशयः । वयं सर्वे शान्तिमेव इच्छामः । किन्तु युद्धैः भयोत्पादनैश्च इमां शान्तिं साधयितुं प्रयतामहे । अयं कश्चन महान् विरोधाभासः स्नेहभावाय अन्ये प्राणिनः यथा प्रतिस्पन्दन्ते तथा मानवः न प्रतिस्पन्दते इत्येतत् अधःपतनस्य प्रमाणं द्योतयति । यत्किमपि भवतु नाम, वयं तु सबलाः सन्तः मैत्रीमेव पालयामः । दुर्बलाः सन्तः मैत्रीपालनं भवेत् भीरुता । मैत्र्या एव दुर्जनान् परिष्कुर्मः । विश्वशान्त्यै इदं पन्थाह्वानम् अस्माभिः अङ्गीकरणीयमेव ।
<DOC_END>
<DOC_START>
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।
ब्रह्मप्राप्तो विरजोऽभूत् विमृत्युः ॥ काठकोपनिषत् २-३-१८
मृत्युदेवेन समुपदिष्टां ब्रह्मविद्यां योगविधानं च सम्यक् अवगम्य नचिकेताः आत्मज्ञानं प्राप्य,
तेन पापरहितः सन् मुक्तोऽभवत् अमृतात्मा च अभवत् ॥
वाजश्रवसः एकमात्रसुपुत्रः नचिकेताः पितृनिर्देशेन यमलोकं गतः । गमनसमये शोकमोहाविष्टः
नचिकेताः, तत्र गत्वा, मृत्यूपदेशं श्रद्धया श्रुत्वा शोकातीतोऽभवत् । ब्रह्मविद्याचार्यः ब्रह्मनिष्ठश्च
मृत्युदेवः अन्वर्थसद्गुरुः आसीत्, तथा योग्यः उत्तमश्च शिष्यः नचिकेताः अन्वर्थः जिज्ञासुः
मुमुक्षुश्च आसीत् । अनयोः प्रश्नप्रति वचनफलत्वेन ब्रह्मज्ञानोदयः अभवत् ॥
मृत्युदेवात् ज्ञानोपदेशम् एकाग्रतया श्रुत्वा, मनननिदिध्यासनं च कृत्वा नचिकेताः आत्मज्ञानं
प्राप्तवान् । आत्मज्ञानेन शोकमोह सागरं तीर्त्वा नचिकेताः कृतकृत्यः जीवन्मुक्तश्च अभवत् ।
एवमेव सर्वेऽपि मानवः आत्मज्ञानेन मुक्तो भवति ॥
<DOC_END>
<DOC_START>
==मृत्योरहं ब्रह्मचारी ॥ ऋग्वेदः १०-२२-८
: अद्यत्वे तु विचित्रं सन्निवेशं पश्यामः । नित्यं परितः जायमानानि मरणानि पश्यन्तः एव भवामः । मरणं प्राप्तवद्भिः यानि बन्धनानि स्वयम् आरोपितानि आसन् तानि सर्वाणि अपि क्षणमात्रेण कथं मृत्युना उच्छटितम् इति पश्यन्तः भवामः । तैः महता परिश्रमेण सम्पादितानि सम्पत्ति-ऐश्वर्यादीनि तैः सह न गतम् इत्यपि पश्यन्तः एव भवामः । मातापितृभ्यां परित्यक्ता सुलभतया प्राप्ता सम्पत्तिः पुत्रैः अविवेकेन उपयुज्यमानमपि पश्यामः । तन्निमित्तं क्षुल्लके कोलाहले निमग्नाः अपि दृश्यन्ते । शारीरकोन्नत्यै कृताः सर्वेऽपि प्रयत्नाः निष्प्रयोजकाः जाताः इत्येतदपि दृश्यते ।
: एवं सत्यपि वयमपि पौनःपुन्येन शरीरपोषणाय, इन्द्रियसुखभोगाय एव तीव्रम् अभिलषन्तः भवामः । आवश्यकतापेक्षया अधिकां सम्पत्तिं सञ्चयन्तः स्मः । तन्निमित्तं यत्किमपि कर्तुं सिद्धाः स्मः । बन्धनाः अल्पाः चेत् ततः मुक्तिः सुलभा इति जानन्तः अपि तस्य वर्धने एव मग्नाः स्मः । वयं चिरञ्जीविनः इव व्यवहरन्तः स्मः । एवं मरणात् अस्माभिः कोऽपि पाठः न पठितः
: मरणात् पाठं यदि पठेम तर्हि जीवनम् इतोऽपि समीचीनतया यापयितुं शक्नुयाम
<DOC_END>
<DOC_START>
गान्धीमहोदय: सत्यम् अहिंसाम् च प्रति दृढव्रत: आसीत् । स:वैदेशिकानाम् शासनम् मूलेन उच्छेतुम् भारतमातुश्‍च स्वतन्त्रतायै दृढाम् प्रतिज्ञाम् अकरोत् ।
* यात परिवर्तनाम त्वं संसरे द्राशतुम इच्छसि
* ममानुमत्या विना न कोऽपि मामपराद्धुं अर्हति।
* मम जीवन मम सन्देश अस्ति।
* शुद्धस्नेहाय न किमपि असम्भव अस्ति।
* सेर्ष्यम् कारणमेभ्यः न प्रतीक्षते।
* एकः सत्यस्य नर एकः पालनस्य नर अपि भवनीय।
* अहिंसा मम श्रुद्धः प्रथम लेख अस्ति। एतद मम मतान्तरस्य परम लेख अपि अस्ति।
* अन्तः याथार्थ्य, तत्र इव बहु धर्मा यति व्यक्तयः अस्ति।
<DOC_END>
<DOC_START>
:उप्पण्णमत्थे कज्जे अइचिन्तन्तो गुणागुणे तम्मि
:चिरआलमन्दपेच्छित्तणेण पुरिसो हणइ कज्जम् ॥ १ ॥
:इन्दे प्पवाहिअन्ते गोप्पशवे शंकमं च तालाणम्
:शुपुलिशपाणविपत्ति चत्ताली इमे ण दट्टव्वा ॥ २ ॥
:(इन्द्रः प्रवाह्यमाणो गोप्रसव संक्रमप्टा ताराणाम्
:तुष्टे सति न लाभाय रुष्टे नाशाय नैव च
:एकैकमप्यनार्थाय किमु यत्र चतुष्टयम् ॥४॥ हितोपदेशम्. पृ. २२
:क्षते प्रहारा निपतन्त्यभिक्ष्णं धनक्षये वर्धते जाठराग्निः
:धात्रीव जननी पश्चात्तदा शोकस्य कः क्रमः ॥८॥ नागानन्दम्.४.८
:स्मृत्वा स्मृत्वा याति दुःखं नवत्वम्
:यात्रा त्वेषा यद् विमुच्येह बाष्पं
:अप्रतिबुद्धे श्रोतरि वक्तुर्वाक्यं प्रयाति वैफल्यम्
:लोभप्टोदगुणेन किं पिशुनता यध्यस्ति किं पातकैः
:सत्यं चेत्तपसा च किं शुचि मनो यध्यस्ति तीर्थेन किम्
:सौजन्यं यदि किं गुणैः स्वमहिमा यध्यस्ति किं मण्डनैः
:क्षान्तिप्टोत् कवचेन किं किमरिभिः क्रोधोऽस्ति चेद् देहिनां
:ज्ञातिप्टोदनलेन किं यदि सुहद् दिव्यौषधैः किं फलम्
:किं सर्पैर्यदि दुर्जनाः किमु धनैर्विध्यानवध्या यदि
:क्षणे तुष्टाः क्षणे रुष्टास्तुष्टा रुष्टाः क्षणे क्षणे
:कृतशतमसत्सु नष्टं सुभषितशतं च नष्टमबुधेषु
:आचार परमो धर्म आचारः परमं तपः
:जे आत्मबलमं जाणिअ भालं तुलिदं वहेइ माणुस्से
:ताह खलणं ण जाअदि ण अ कन्ताल्गदो विवज्जदि ॥१८॥
:(यः आत्मबलं ज्ञात्वा भारं तुलितं वहति मनुष्यः
:यावत् स्वस्थामिदं शरीरमरुजं यावज्जरा दूरतो
:आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
:छेत्तु पार्श्वगतां छायां नोपसंहरते द्रुम: ॥ २१॥ हितोपदेशम् १५९.
:आशाया ये दासास्ते दासाः सर्वलोकस्य
<DOC_END>
<DOC_START>
शंजम्मध णिअपोटं णिच्चं जगरोध झाणपदहेण
विरामा इन्दिअचोला हलन्ति चिलशंचिदं घम्मम् ॥२५॥
(संयच्छत निजोदरं नित्यं जागृत ध्यानपटहेने
उत्तम: क्लेशविक्षोभं क्षमः सोढुं न हीतरः
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः
अयं निजः परो वेति गणना लघुचेतसाम्
प्राप्य चलानधिकारान् शत्रुषु मित्रेषु बन्धुवर्गेषु
<DOC_END>
<DOC_START>
न जातु कामः कामानामुपभोगेन शाम्यति
प्रारभ्यते न खलु विघ्नभयेन नीचैः
दुर्णीतं किमिहास्ति किं च सुकृतं कः स्थानलाभे गुणः
ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा
गिह्माअवसंतत्तस्स णिआछाहि व्व पहिअस्स ॥ ३७ ॥
उत्तमे तु क्षणं कोपो मध्यमे घटिकाद्वयम्
क्षमाशस्त्रं करे यस्य दुर्जन: किं करिष्यति
क्षान्तितुल्यं तपो नास्ति संतोषान् न सुखं परम्
ण सुणंति पिसुणवअणं खलाणाँ ऋद्धिं ण पेवखन्ति ॥ ४३ ॥
(धन्या बधिरा अन्धास्त एव जीवन्ति मानुषे लोके
वर्धनं चाथ सम्मानं खलानां प्रीतये कुतः
गुणानां वा विशालानां सत्काराणां च नित्यशः
यदि सन्ति गुणाः पुंसां विकासन्त्येव ते स्वयम्
मातङ्गेन खरक्रयः समातुला कर्पूरकार्पासयो -
संहतिः श्रेयसी राजन् विगुणेष्वपि बन्धुषु
गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा
गुणेषु यत्नः पुरुषेण कार्यो न किंचिदप्राप्यतमं गुणानाम्
दोषो गुणाय गुणिनां माहदपि दोषाय दोषिणां सुकृतम्
चत्वारि ते तात गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे
वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥ ५३ ॥ महाभारतम्
<DOC_END>
<DOC_START>
सर्वन्न यान्ति पुरुषस्य चलाः स्वभावाः
मा दुग्गादोति परिहवो णात्थि कअन्तस्स दुग्गदो णाम
चारित्तेण विहीणो अङ्ढो वि अ दुग्गदो होइ ॥ ५५ ॥
(मा दुर्गत इति परिभवो नास्ति कृतान्तस्य दुर्गतो नाम
कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति
जातस्य नदीतीरे तस्यापि तृणस्य जन्मसाफल्यम्
यथेक्षुरत्यन्तरसप्रपीडिता भुवि प्रविद्धो दहनाय शुष्यते
जितेन्द्रियत्वं विनयस्य कारणं गुणाप्रकर्षो विनयादवाप्यते
गुणप्रकर्षेण जनोऽनुरज्यते जननुरागप्रभवा हि सम्पदः ॥ ६० ॥ अलंकार सर्वस्वम् १७७
जिह्वे प्रमाणं जानीहि भोजने भाषणेऽपि च
<DOC_END>
<DOC_START>
धनानि जीवितं चैव परार्थे उत्सृजेत्
दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्धया
हुतं च दत्तं च तथैव तिष्ठति ॥ ६५ ॥ कर्ण भारम् २२
दानं प्रियवाक्सहितं ज्ञानमगर्व क्षमान्वितं शौर्यम्
जायतां वनोद्देशे कुब्जोऽपि कलु निःशाखः शिथिलपत्रः
अविद्यं जीवनं शून्यं दिक् शून्या चेदबन्धवा
पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता ॥ ६८ ॥ चाणक्य ४७
संगं नैव हि कप्टिदस्य कुरुते संभाषते नादरा -
दरिद्र्यात्पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते
सत्त्वं हासमुपैति शीलशाशिनः दान्तिः परिम्लायते
पक्षविकलप्टा पक्षी शुष्कप्टा तरुः सरप्टा जलहीनम्
शून्यैर्गृहैः खलु समाः पुरुषा दरिद्राः
शून्यमपुत्रस्य गृहं चिरशून्यं नास्ति यस्य सम्मित्रम्
सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम्
निर्विण्णः शुचमेति शोकपिहितो बुद्धया परित्यज्य्ते
परिक्षीणः कप्टित्स्पृहयति यवानां प्रसृतये स
ईर्ष्यी घृणी त्वसंतुष्टः क्रोधनो नित्यशङ्कितः
जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं
शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि
दुर्जनः प्रियवादी च नैतद् विश्वासकारणम्
दुर्जनेन समं सख्यं प्रीतिं चापि न कारयेत्
वार्ता च कौतुककरी विमला च विध्या
तैलस्य बिन्दुरिव वारिणि दुर्निवार -
(अरे कत्ताशब्दो निर्नाणकस्य हरति हृदयं मनुष्यस्य
न च विध्यासमो बन्धुर्न च व्याधिसमो रिपुः
सत्यं ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यमप्रियम्
धर्मो हि यत्नैः पुरुषेण साध्यः
हतेषु देहेषु गुणा धरन्ते ॥८७ ॥ कर्णभारम्. १७
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ ८९ ॥ हितोपदेशम्. प्र. २७
सम्पदि यस्य न हर्षो विपदि दिषदो रणे च धीरत्वम्
अङ्गणवेदी वसुधा कुल्या जलधिः स्थली च पातालम्
असती भवति सलज्जा क्षारं नीरं च शीतलं भवति
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते
सुखमर्थो भवेद् दातुं सुखं प्राणाः सुखं तपः
आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यते
धनैर्वियुक्तस्य नरस्य लोके किं जीवितेनादित एय् तावत्
लहुअन्ति लहुं पुरिसं पव्वअमेत्तं पि दो वि कज्जाइं
णिव्वरणमणिव्वूढे जं अ णिव्वरणम् ॥ १०१ ॥
लघयतो लघु उप्रुषं पर्वतमात्रमपि द्वे अपि कार्य
धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता
घातयितुमेव नीचः परकार्य वेत्ति न प्रसाधयितुम्
<DOC_END>
<DOC_START>
धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम्
दूरेऽपि परस्यागसि पटुर्जनो नात्मनः समीपेऽपि
सम इह परितोषो निर्विशेषो विशेषः
स तु भवति दरिद्रो यस्य तृष्णा विशाला
आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति
संक्षेपात् कथ्यते धर्मो जनाः विस्तरेण वः
यस्मिन् जीवति जीवन्ति बहवः स तु जीवति
कष्टं खलु मूर्खत्वं कष्टं खलु यौवनेषु दारिद्र्यम्
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्
को धर्मो भूतदया किं सौख्यमरोगिता जगति जन्तोः
बालत्वे च मृता माता वृद्धत्वे च मृताः सुताः
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः
जलमग्निर्विषं शस्त्रं क्षुद् व्याधिः पतनं गिरेः
अजरामरवत् प्राज्ञो विध्यामर्थं च साधयेत्
गृहीत एव केशेषु मृत्युना धर्ममाचरेत् ॥ १२१ ॥ हितोपदेशम्. प्र. ३.
तिष्ठन्भाति पितुः पुरो भुवि यथा सिंहासने किं तथा
यत्संवाहयतः सुखं हि चरणौ तातस्य किं राज्यतः
किं भुक्ते भुवनत्रये धृतिरसौ भुक्तोज्झिते या गुरो
अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः
अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः
सुलभा पुरुषा राजन् सततं प्रियवादिनः
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम्
को विदेशः सुविधानां कः परः प्रियवादिनाम् ॥ १२७ ॥ चाणक्य. ७३
अद्दंसणेण पेम्मं अवेइ अइदंसणेण वि अवेइ
पिसुणजणजम्पिएण वि अवेइ एमेअ वि अवेइ ॥ १२८ ॥
उअअस्स व ताविअसीअलस्स विरसो रसो होइ ॥ १२९ ॥
स स्निग्धोऽदुशलान् निवारयति यस्तत् कर्म यन् निर्मलं
सा स्त्री यनुविधायिनी स मतिमान् यः सद्भिरभ्यर्च्यते
सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया मुच्यते
तावद्दृढं बन्धनमस्ति लोके न दारवं तान्तवमायसं वा
दुष्करम् साध्वनार्येण मानिना चैव मार्दवं
उत्सवे व्यवसने चैव दुर्भिक्षे शत्रुविग्रहे
राजद्वारे श्मशाने च यस्तिष्ट्ठति स बान्धवः ॥ १३३ ॥ चाणक्य. १७
यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति
अपराधो न मेऽस्तीति नैतद् विश्वासकारणम्
यदा तु भाग्यक्षयपीडितां दशां नरः कृतान्तोपहितां प्रपद्यते ।
यथा काष्ठं च काष्ठं च समेयातां महोदधौ
यथा हि पथिकः कप्टिच्छायामाश्रित्य तिष्ठति
अर्थनाशं मनस्तापं गृहे दुप्टारितानि च
ता मज्झिमो व्विअ वरं दुज्जणसुअणेहिं दोहिं वि ण कज्जम्
जह दिट्ठो तवइ खलो तहेअ सुअणो अईसन्तो ॥ १४३ ॥
(तन् मध्यम एव वरं दुर्जनसुजनाभ्यां द्वाभ्यामपि न कार्यम् ।
प्रदहन्दहनोऽपि गृह्यते विशरीरः पवनोऽपि गृह्यते
शनैः पन्थाः शनैः कन्था शनैः पर्वतलङ्घनम्
सर्वाः सम्पत्तयस्तस्य सन्तुष्टं यस्य मानसम्
कुसुमस्तबकस्येव द्वे वृत्ती तु मनस्विनः
येषां न विध्या न तपो न दानं
ज्ञानं न शीलं न गुणो न धर्मः
(शिरो मुण्डितं तुण्डं मुण्डितं चित्तं न मुण्डितं किमर्ठं मुण्डितम् ।
श्रुतिर्विभिन्ना स्मृतयप्टा भिन्ना नैको मुनिर्यस्य वचः प्रमाणम्
गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम्
आर्भन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्
वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता
द्वाविमौ पुरुषौ लोके न भूतौ न भविष्यतः
धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चमाः
अधोऽधः पश्यतः कस्य महिमा नोपचीयते
ज्वलति चलितेन्धनोऽग्रिर्विप्रकृतः पन्नगः फणां कुरुते
प्रायः स्वं महिमानं क्षोभात् प्रतिपध्यते जन्तुः ॥ १६० ॥ शाकुन्तलम्
अधमा धनमिच्छन्ति शनमानौ च मध्यमाः
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १६१ ॥ समयोचितपध्यमालिका.
न मातरि न दारेषु न सोदर्ये न चात्मजे
विश्वासस्तादृशः पुसां यादृङ् मित्रे स्वभावजे ॥ १६२ ॥ हितोपदेशम्.
सो अत्थो जो हत्थे तं मित्तं जं णिरन्तरं वसणे
तं रूअं जत्थ गुणा तं विण्णाणं जहिं धम्मो ॥१६३ ॥
(सोऽर्थो यो हस्ते तन् मित्रं यन् निरन्तरं व्यसने
तद् रूपं यत्र गुणास्तद् विज्ञानं यत्र धर्मः ॥) गाथासप्तसती -शतक-गाथा.
उष्ट्राणां च विवाहेषु गीतं गायन्ति गर्दभाः
परस्परं प्रशंसन्ति अहो रूपमहो ध्वनिः ॥ १६४ ॥ समयोचितपध्यमालिका.
ज्ञानलवदुर्विदग्धं ब्रह्मापि तं नरं न रञ्जयति ॥ १६५ ॥ हितोपदेशम्.
शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो
नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ १६६ ॥ भर्तृहरिशतकत्रयम्.
मूर्खस्य पञ्च चिह्नानि गर्वी दुर्वचनी तथा
हठी चाप्रियवादी च परोक्तं नैव मन्यते ॥ १६७ ॥ समयोचितपध्यमालिका
मूर्खोऽपि शोभते तावत् सभायां वस्त्रवेष्टितः
तावच्च शोभते मूर्खो यावत् किंचिन्न भाषते ॥ १६८॥ पञ्चतन्त्रम्.
धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥ १६९ ॥ सुभषितरत्नभाण्डागारम्
शरीरकस्यापि कृते मृढाः पापानि कुर्वते ॥ १७० ॥ नागानन्दम्
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः
विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता ॥ १७१ ॥ हितोपदेशम्.
दुष्टा भार्या शठं मित्रं भ्रुत्यप्टोत्तरदायकः
ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥ १७२ ॥ हितोपदेशम्.
जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारते
आरम्भगुर्वी क्षयिणी क्रमेण लध्वी पुरा वृद्धिमती च पप्टात्
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥ १७४ ॥ भर्तृहरिशतकत्रयम्.
<DOC_END>
<DOC_START>
आरोप्यते शिला शैले यत्नेन महता यथा
निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥ १७५ ॥ हितोपदेशम्.
तावद् भयस्य भेतव्यं यावद् भयमनागतम्
आगतं च भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥ १७६ ॥ हितोपदेशम्.
रवेरविषये किं न प्रदीपस्य प्रकाशनम् ॥ १७७ ॥ हितोपदेशम्.
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च
पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याश्च॥ १७८ ॥ हितोपदेशम्.
यस्यास्ति सर्वत्र गतिः स कस्मात् स्वदेशरागेण हि याति नाशम्
तातस्य कूपोऽयमिति ब्रुवाणाः क्षारं जलं कापुरुषाः पिबन्ति ॥ १७९ ॥ पञ्चतन्त्रम्.
आरम्भन्तस्स धुअं लच्छी मरणं वि होइ पुरिसस्स
तं मरणमणारम्भे वि होइ लच्छी उण ण होइ ॥ १८०॥
(आरभमाणस्य ध्रुवं लक्ष्मीर्मरणमपि भवति पुरुषस्य ।
तन्मरणमनारम्भेऽपि भवति लक्ष्मीः पुनर्न भवति ॥) गाथासप्तसती -शतक-गाथा.
लोकयात्रा नयो लज्जा दाक्षिण्यं त्यागशीलता
पञ्च यत्र न विध्यन्ते न तत्र दिवसं वसेत् ॥ १८१ ॥ हितोपदेशम्.
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ १८२ ॥ उत्तररामचरितम्
अप्रियं पुरुषं चापि परद्रोहं परस्त्रियम्
अधर्ममनृतं चैव दूरात् प्राज्ञो विवर्जयेत् ॥ १८३ ॥ समयोचितपध्यमालिका
मूर्खं छन्दानुरोधेन याथातथ्येन पण्डितम् ॥ १८४ ॥ हितोपदेशम्.
शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं मार्गति वासहेतोः ॥ १८५ ॥ पञ्चतन्त्रम्.
यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः
स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ १८६ ॥ भर्तृहरिशतकत्रयम्.
भक्ष्यते सलिले नक्रैस्तथा सर्वत्र वित्तवान् ॥ १८७ ॥ हितोपदेशम्.
क्षणशः कणशप्टैव विद्यामर्थं च साधयेत्
क्षणत्यागे कुतो विद्या कणत्यागे दुतो धनम् ॥ १८८ ॥ समयोचितपध्यमालिका
अन्या जगद्धितमयी मनसः प्रवृत्तिरन्यैव कापि रचना रचनावलीनाम्
लोकोत्तरा च क्रुतिराकृतिरार्तहृध्या विद्यावतां सकलमेव गिरां दवीयः ॥ १८९ ॥
==यदभावि न तद् भावि चेन्न तदन्यथा==
यथैव पुष्पं प्रथमे विकासे समेत्य पातुं मधुपाः पतन्ति
यो न ददाति न भुङ्क्ते सति विभवे नैव तस्य तद् द्रव्यम्
विरला जानन्ति गुणान् विरलाः कुर्वन्ति निर्धनस्नेहम्
यस्य नास्ति विवेकस्तु केवलं यो बहुश्रुतः
नानृतान् पातकं किञ्चित् न सत्यात् सुकृतं परम्
अनभ्यासे विषं विद्या ह्यजीर्णे भोजनं विषम्
माने तपसि शौर्ये वा विज्ञाने विनये नये
ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी
अबिनीता रिपुर्भार्या पुत्रः शत्रुरपण्डितः २०० चाणक्य ४५
त्यजति किल तं जयश्रीर्जहति च मित्राणि बन्धुवर्गश्च
विश्रब्धं मधुपैर्निपीतकुसुमः शूलाद्यः स एव द्रुमः
पूर्वे वयसि यः शान्तः स शान्त इति मे मतिः
अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च
वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन् ॥ २०५ ॥ हितोपदेशम्. प्र. २०
आदौ चित्ते ततः काये सतां सम्पाद्यते जरा
तृणानि भूमिरुदकं वाक् चतुर्थी च सुनृता
नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान् गुणान् ख्यापयन्तः
मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रि -
पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः
(सुजनो यंदेशमकरोति तमेव करोति प्रवसन्
सुअणो ण कुप्पइ व्विअ अह कुप्पइ विण्णिअं ण चिन्तेइ
(सुजनो न कुप्यत्येव अथ कुप्यति विप्रियं न चिन्तयति
सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि
सुहृदां हितकामानां यः शृणोति न ब् हाषितम्
विण्णाणगुणमहग्घे पुरिसे वेसत्तणं पि रमणिज्जम्
जणणिन्दिए उण जणे पिअत्तणेणावि लज्जामो ॥ २१७ ॥
पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम्
जे पूइदुं पि ण आणादि शे पूआविशेशंपि आणादि ॥ २१९ ॥
(सत्कारधनः खलु सज्जनः कस्य न ब् हवति चलाचलं धनम्
काचः काञ्चनसंसर्गाद् धत्ते मारकतीं द्युतिम्
तथा सत्सन्निधानेन मुर्खो याति प्रवीणताम् ॥ २२० ॥ हितोपदेशम्. प्र. ४२
स्नेहो हि वरमघटितो न वरं सञ्जातविघटितस्नेहः
हृतनयनो हि विषादी न विषादी भवति जात्यन्धः ॥ २२२ ॥ सुभषितरत्नभाण्डागारम्. १७१. ७८९
यावन्तः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान्
एकः स्वादु न भुञ्जीत नैकः सुप्तेषु जागृयात्
सर्वं परवशं दुःखं सर्वमात्म वशं सुखम्
यथा प्ररोहन्ति तृणान्ययत्नतः क्षीतौ प्रयत्नात्तु भवन्ति शालयः
गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम्
मृप्टट इव सुखभेद्यो दुःसन्धानप्टा दुर्जनो भवति
उन्नत्यै नमति प्रभुं प्रभुगृहान् द्रषटं बहिस्तिष्ठति
प्राणान् प्राणितुमेव मुञ्चति रणे क्लिन्नाति भोगेच्छया
सर्वं तद्विपरीतमेव कुरुते तृष्णान्धदृक् सेवकः ॥ २३३ ॥ अलंकार सर्वस्वम्. पृ.१६९
उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम्
किं कलोदि लाअउले तश्श् पललोए हत्थे णिच्चले ॥ २३६ ॥
(हस्तसंयतो मुखसंयत इन्द्रियसंयतः स खलु मनुष्यः
न संशयमनारुह्य नरो भद्राणि पश्यति
हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः
उभे बहुमते लोके नास्ति निष्फलता रणे ॥ २३८ ॥ कर्णभारम्
शश्शपलक्कबलद्दे ण शक्कि वालिदुं अण्णपशत्तकलत्ते ण शक्कि वालिदुम्
जूदपशत्तमणुस्से ण शक्कि वालिदुं जे वि शहाविअदोशे ण शक्कि वालिदुम्
(सस्यलम्पटबलीवर्दो न शक्यो वारयितुमन्यप्रसक्तकलत्रं न शक्यं वारयितुम्
(सृजनः खलु भृत्यानुकम्पकः स्वामी निर्धनकोऽपि शोभते
हिअअण्णएहिं समअं असमताइं पि जह सुहावन्ति
कज्जाइँ मणै ण तहा इअरेहिं समाविआइं पि ॥ २४१ ॥
<DOC_END>
<DOC_START>
१. अकन्दसमुत्थिता पउमिणी अवञ्चओ वणिओ अचोरो सुवणआरो
:अकलहो गामसमागमो अलुद्धा गणिआ त्ति दुक्करं एदे संभावीअन्ति ।
:(अकन्दसमुत्थिता पह्मिनी अवञ्चको वणिक् अचौरः सुवर्णकारः
:(अयुक्तं परपुरुषसंकीर्थनं श्रोतुम् ।) स्वप्रवासवदत्तम् ३. पृ.६४
:(अनतिक्रमणीयो हि विधिः) स्वप्रवासवदत्तम् २. पृ.५८
४. अनतिक्रमणीया भगवती गोकाम्या ब्राह्मणकाम्या च । मृच्छकटिकम् ३. पृ.सं.९२
९. अर्धो घटो घोषमुपैति नूनम् । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
१४. आअमप्पहाणणि सुळहपय्यवत्थणाणि महापुरुसाहि अआणि होति
१५. आकण्ठजलमग्नोऽपि स्वा लिहत्येव जिह्वया । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
१८. उत्तीर्णे च परे पारे नौकायाः किं प्रयोजनम् । सुभषितरत्नभाण्डागारम् २४८. ८५
१९. एअस्सिं दु्ळ्ळहो गुणविभवो त्ति
२५. किं मर्दितोऽपि कस्तूर्यां लशुनो याति सौरभम् । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
२६. किं हीणकुसुमं सहआरपादवं महुअरिओ उण सेवन्ति
२७. क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे । भोजप्रबन्धः
२८. कुकृत्ये को न पण्डितः । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
:(गणिका नाम् पादुकान्तरप्रविष्टेवलेष्टुका दुःखेन पुनर्निराक्रियते ।)
:णिवसन्ति तहिं दुट्टा वि ण जाअन्ति
३७. जे अहिभवन्ति शाहुं ते पावा ते अ चाण्डाला
३८. तरुणीकच इव नीचः कौटिल्यं नैव विजहाति । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
४०. दर्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम् । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
४५. दुर्लभा गुणा विभवप्टा । अपेयेषु तडागेषु बहुतरमुदकं भवति । मृच्छकटिकम् २. प्.सं ६९
४७. देवो दुर्बलघातकः । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
५३. नग्रक्षपणके देशे रजकः किं करिष्यति । चाणक्यनीतिः ११०
५८. नवोवणाणि णाम आदिः जणत्स सअगेहं
५९. न सुवर्णे ध्वनिस्तादृग् यादृक् कास्ये प्रजायते । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
६९. पवनः परागवाही पथ्यासु वहन् रजस्वलो भवति । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
७४. पुरुसजोव्वणाणि विअ गिहजोव्वणाणि खु दसाविसेसं
७५. पुरुसेसु णासा णिक्खिविअन्ति ण उण गेहेसु
७७. बुद्धेः फलमनाग्रहः । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
८३. महुरं पि बहु खादिअं अजिण्णं होइ
८४. मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम् । महाभारतम्
८५. मूले च्छिण्णे कुदो पादवस्स पालणम्
८७. यत्राकृतिस्तत्र गुणा वसन्ति । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
८८. याचनान्तं हि गौरवम् । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
९०. यादृशास्तन्तवः कामं तादृशू जायते पटः । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
९१. यौवनमात्रापराध्यति न चारित्र्यम् । मृच्छकटिकम् ९. पृ.सं २७१
९८. विक्रीते करिणि किमङ्कुशे विवादः । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
१००. विना मलयमन्यत्र चन्दनं न प्ररोहति । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
१०१. विनाशकाले विपरीतबुद्धिः । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
११०. शत्रुः कृतापराधः शरणमुपेत्य पादयोः पतितः शस्त्रेण न हन्तव्यः । मृच्छकटिकम् १०. पृ.सं ३३०
११४. सक्करो हि णाम् सक्करेण पडिच्छिदो पीदिं उप्पादेदि
:(स्वके गेहे कुक्करोऽपि तावचण्डो भवति ।) मृच्छकटिकम् १. पृ सं ३९
११६. सच्चेण सुहं क्खु लब्भइ सच्चालावे ण होइ पावम्
११८. सत्यं यत् परदुःखाय तत्र मौनपरो भवेत् ।
१२१. सदक्खिञ्ञस्स जणस्य परिजणो वि सदक्खिञ्ञो एव्व होदि
:(सदाक्षिण्यस्य परिजनोऽपि सदाक्षिण्य एव भवति ।) स्वप्रवासदत्तम् ४. पृ.८६
१२८. सव्वजणमणोभिरामं खु सोभग्गं णाम
सर्वजनमनोभिरामं खलु सौभाग्यं नाम ।) स्वप्रवासदत्तम् २. पृ. ५८
१२९. साक्षिमन्यासो निर्यातयितव्यः । स्वप्रवासदत्तम् ६. पृ. १२४
१३०. साहसे खलु श्रीर्वसति । चारुदत्तचरितम् ४. पृ.सं ८६
१३९. होतारमपि जुह्वन्तं स्पष्टो दहति पावकः । सुभषितरत्नभाण्डागारे सुभषितरत्नखण्डमञ्जूषा "
<DOC_END>
<DOC_START>
आदौ यकारः, अन्ते सकारः विद्यते । मध्ये ग्रन्थिः विद्यते । इदं यः न जानीयात् स तृणमात्रमपि न जानाति । ’तृणम्’ इत्यस्य पर्यायपदमेव अस्य उत्तरं भवति ।
<DOC_END>
<DOC_START>
य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मा इति होवाच, एतदमृतम् अभयम् एतद् ब्रह्मेति । छान्दोग्योपनिषत् ४-१५-१
चक्षुषि यः पुरुषो दृश्यते एष एव आत्मा इति होवाच । एषः अमृतः, एष एव अभयः; अयमेव च पुरुषो ब्रह्म ॥
अस्या विद्यायाः अक्षिपुरुषविद्या इति नाम । चक्षुषि दृश्यमानमेव पुरुषम् अत्र आत्मा इति उपदिशति अयं मन्त्रः । ब्रह्मचर्यम्,
अहिंसा, इन्द्रियनिग्रहः, शमदमादिसाधनैः युक्तानाम् उपासकानाम् अस्मिन् चक्षुषि आत्मदर्शनं भवति । उपासकाः अक्षिस्थं
पुरुषमेव ब्रह्म इति उपासते ॥
विवेकिनः आत्मज्ञानिनश्च चक्षुषोऽपि चक्षुर्भूतं चिन्मात्रस्वरूपम् आत्मानं पश्यन्ति । नायमात्मा प्रतिबिम्बरूपः छायात्मा । एषः ब्रह्मैव ।
केनोपनिषदि अयमेव आत्मा 'श्रोत्रस्य श्रोतम्, मनसो मनः, वाचो ह वाचम्' इति उपदिष्टोऽस्ति । अयमेव आत्मा इन्द्रियाणां मनसश्च
आत्मा सन् अमृतः अभयश्च ब्रह्मैव च भवति । अयमेव आत्मा अत्र मन्त्रे अक्षिपुरुषत्वेन उपदिश्यते । य एवंवित् सः अमृतो भवति ॥
<DOC_END>
<DOC_START>
यः कारणानि निखिलानि तानि कालात्मयुक्तानि अधितिष्ठत्येकः । श्वेताश्वतरोपनिषत् १-३
योऽसौ परमात्मा कालात्मपर्यन्तस्य सकलस्यापि वस्तुनः ईशिता स एव अस्य जगतः कारणभूतः ।
परमात्मैव जगतः कारणम्, परमात्मैव अस्य नियन्ता, अयं परमात्मैव सर्वतन्त्रस्वतन्त्रः स एव सर्वान् ईष्टे,
स एव एकः अस्य विश्वस्य प्रभुः । परमेव ब्रह्म अस्य जगतः उपादानं निमित्तं च कारणं भवति ॥
कालः, देशः, स्वभावः, कर्माणि, नियमः, प्रकृतिः, जीवाः, सूर्यः, चन्द्रः, नक्षत्राणि, देवाश्च इति एतेषां सर्वेषामपि
वस्तूनाम् एक एव परमात्मा नियामकः, नियन्ता । परब्रह्मणः सान्निध्येनैव इदं विश्वं सुव्यवस्थितं वर्तते । इदं रहस्यं
तु ध्यानयोगादेव ज्ञायेत । देशकालौ अपि अस्मिन् एव विश्वे अन्तर्भवतः । ईदृशस्य विश्वस्य कारणं परब्रह्मैव ।
समस्तस्यापि विश्वस्य कारणं परमेश्वरः । अयमेव हि भगवान् । वयमपि ध्यानयोगबलेन भगवन्तम् आराध्य भगवतः
अनुग्रहेण भगवन्तम् अधिगम्य कृतार्था भवेम ॥
<DOC_END>
<DOC_START>
यः सर्वेषु भूतेषु तिष्ठन्, यः प्राणे तिष्ठन्, यो वाचि तिष्ठन्
यश्चक्षुषि तिष्ठन्, यः श्रोत्रे तिष्ठन्, यो मनसि तिष्ठन्, यः त्वचि
तिष्ठन् ,यो विज्ञाने तिष्ठन्, यो रेतसि तिष्ठन्, अन्तरो यमयति
यः सर्वेषु भूतेषु, प्राणे, वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने,
रेतसि च तिष्ठन् अन्तरो यमयति, एष ते आत्मा अन्तर्यामी, एषः अमृतः ।
अयं मन्त्रः अन्तर्यामिणः आत्मनः स्वरूपं दर्शयति । ‘अन्तः यमयति’
इति अन्तर्यामी । यः आत्मा अन्तस्तिष्ठन् सर्वान् पदार्थान् नियमयति
सः ‘अन्तर्यामी’ इति कथ्यते ।
सर्वेषां भूतानां, सर्वेषां प्राणिनाम् अन्तरेव तिष्ठन् यः एतानि भूतानि
क्रियाशीलानि करोति स एव आत्मा ‘अन्तर्यामी’ भवति । पञ्च ज्ञानेन्द्रियाणि
पञ्च कर्मेन्द्रियाणि मनश्च संव्याप्य तेषां चैतन्याधायकः आत्मा अन्तर्यामी ।
सर्वमेव विश्वं संव्याप्य विद्यमानोऽयम् आत्मा परमार्थतः परमात्मैव भवति ॥
<DOC_END>
<DOC_START>
यजमानेन कः स्वर्गहेतुः सम्यग्विधीयते ।
विहायाद्यन्तयोर्वर्णौ गोत्वं कुत्र स्थितं वद ॥
स्वर्गं यत् प्रापयति तादृशं किं कार्यं मनुष्यः करोति तस्मिन् शब्दे प्रथमम् अन्तिमं च अक्षरं
यदि निष्कासयेम तर्हि गोत्वं (धेनोः गुणधर्माः) कुत्र विद्यते इत्येतस्य उत्तरं प्राप्येत ।
<DOC_END>
<DOC_START>
==यत इन्द्र भयामहे ततो नो अभयं कृधि ॥ ऋग्वेदः ८-६१-१३
इन्द्र यस्मात् भयं भवति ततः एव अभयं करोतु ।
: अस्माकं मनस्सु विद्यमानानां भयानां गणना एव न विद्यते विविधानि, विचित्राणि च तस्मिन् परमैश्वर्यशालिनि परमात्मनि इयं प्रार्थना भयं निवारय अभयं देहि इति । तस्य भगवतः अमूल्यम् ऐश्वर्यमेव ज्ञानम् । अन्धकारस्य भयम् अस्ति इति चिन्त्यताम् । तस्मिन् स्थले कुत्र कुत्र किं विद्यते कथमस्ति क्लेशानां साध्यता कियता प्रमाणेन विद्यते इत्यादयः विषयाः यदि ज्ञाताः भवन्ति तर्हि भयं तावता प्रमाणेन न्यूनं भवति । समय-सन्निवेशानां सम्पूर्णम् अवगमनं यदि स्यात् तर्हि आदौ येन भयम् अनुभूयते स्म तेनैव भयरहिता स्थितिः सम्भवति । व्यक्तेः भयम् इति चिन्त्यताम् । तस्याः व्यक्तेः गुणस्वभावानां, भाव-अवगमनादीनां परिचयः यदि भवेत् तदा अभयमेव कदाचित् परिस्थितेः अवगमनानन्तरमपि भयं न नश्यति । तस्य प्रथमं कारणं विद्यते भयं स्वयं निवारितं न भवति इति । धैर्येण सम्मुखीकरवाम, परिश्राम्यामः । द्वितीयं कारणं भवति भयस्य निवारणाय अस्माकं शक्तेः न्यूनता । शक्तिं वर्धयेम । तावदेव !
<DOC_END>
<DOC_START>
यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति ।
यत् प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद् ब्रह्मेति ॥ तैत्तिरीयोपनिषत् ३-१-३
इमानि भूतानि यतो जायन्ते, जातानि येन जीवन्ति, यदेव अभिसंविशन्ति प्रयन्ति, तदेव ब्रह्म,
उपनिषत्सु प्रतिपादितस्य तत्त्वस्य ‘ब्रह्म’ इति नाम । ‘ब्रह्म’ नाम निरतिशयं निर्विशेषं महत्
तत्त्वम् इत्यर्थः । अस्य परब्रह्मणः लक्षणं तैत्तिरीयोपनिषदः अयं मन्त्रः सुन्दरतया उपदिशति ॥
समस्तम् इदम् विश्वं यस्माद् उत्पद्यते, येनैव जीवति, यस्मिन्नेव च लीयते तदेव ब्रह्म । एवं समस्तस्यापि
जगतः सृष्टिस्थितिलयकारणभूतं तत्त्वं वेदान्तेषु ब्रह्मशब्देन गीयते । सकलस्यास्य विश्वस्य ब्रह्म उपादानं
निमित्तं च कारणं भवति । अतः ब्रह्म नैव कार्यं भवेत् । जगत्कारणत्वेन ब्रह्मण एव प्रतिपादितत्वात्
कापिलसांख्यदर्शने प्रतिपादितं प्रधानं वा वैशेषिकदर्शने प्रतिपादितः परमाणुर्वा जगतः कारणं नैव भवति इत्यभिप्रायः ॥
<DOC_END>
<DOC_START>
यत्र तु अस्य सर्वम् आत्मैवाभूत्, तत् केन कं जिघ्रेत्, पश्येत्, शृणुयात् अभिवदेत् बृहदारण्यकोपनिषत् २-४-१४
यदा अस्य आत्मविदः 'इदं सर्वम् आत्मैव' इति ज्ञानम् उत्पन्नम्, तदा सः केन प्रमाणेन कं पदार्थं जिघ्रेत्
कं वा पश्येत् कं विषयं शृणुयात् कं वा अभिवदेत् ?
आत्मज्ञानोदयो नाम 'अद्वितीयः आत्मा एव अहमस्मि' इति निश्चयः । नैतत् केवलं वाचा उच्चारणम् न च
शास्त्रज्ञानपाण्डित्यम् । किं तु अनुभवस्य रसपाकः । एवंविधं ब्रह्मज्ञानिनः भेदज्ञानं (त्रिपुटिज्ञानं सत्यतया नावशिष्यते ॥
त्रिपुटिज्ञानं नाम प्रमाता अहम् प्रमेयम् इमं प्रमाणेन जानामि इति त्रिवृत्कृतं ज्ञानम् । प्रमाता, प्रमाणम्, प्रमेयं च
परमार्थतः आत्मैव इति निश्चिते ज्ञाने जाते, पुनः तत्र सत्यत्वभ्रमः न सम्भवति । स आत्मविद्भवति । ततः सः केन
प्रमाणेन कीदृशं प्रमेयं कथं वा पश्येत् प्रमाणभूतानि इन्द्रियाणि प्रमेयभूताः पदार्थाः प्रमाता स्वयं च – एतत् त्रयमपि
आत्मैव सम्पन्नम् । एवंविधः व्यवहारः सम्भवति वा ?
<DOC_END>
<DOC_START>
यत्र वा अन्यदिव स्यात् तत्र अन्यो अन्यत् पश्येत् । बृहदारण्यकोपनिषत् ४-३-३१
यत्र ब्रह्मणि भिन्नमिव भवति, तत्र खलु अन्यः अन्यं पश्येत् ।
आत्मनो भिन्नं द्वैतं वस्तु यदा अनुवदति श्रुतिः, तदा ‘इव’ कारं प्रयुनक्ति । तत्त्वतः सर्वम् आत्मैव ।
परमार्थदृष्ट्या सम्यक् विचारिते सति आत्मनः भिन्नतया द्वैतं नाम वस्तु नास्त्येव । आत्मैव सत् अज्ञानिनाम्
अनात्मवस्तुरूपेण दृश्यते । स्वयम् एक एव विद्यमानोऽपि स्वप्ने स्वात्मभिन्नानि इव अनेकानि वस्तूनि उपलभते
खलु । भिन्नानि ‘इव’ इति ‘इव’ कारप्रयोगे परमार्थतः नैव भिन्नानि वस्तूनि इत्यर्थः ॥
द्वैतमिव दृश्यमानकाले प्रमातृप्रमाणप्रमेया दृश्यन्ते । प्रमाता प्रमेयं प्रमिनोति । द्वैतमिति त्रिपुटीभेदः । ज्ञानदृष्ट्या
सर्वम् आत्मैव । आत्मनः अभिन्नत्वेनैव इदं विश्वम् उपनिषत्सु प्रतिपाद्यते । आत्मैव प्रपञ्चरूपेण दृश्यते इत्यर्थः ।
विद्यमानं वस्तु आत्मैव एक इत्यर्थः ॥
<DOC_END>
<DOC_START>
अपि आत्मानं पण्डितं मन्यते, यत्र सर्वः अपि उत्तममेव
स्थानम् अपेक्षते तत्र कार्यं नष्टं भविष्यति ।
<DOC_END>
<DOC_START>
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति
तत् सुषुप्तम् । माण्डूक्योपनिषत् ५
जीवः यदा यत्र न कञ्चन कामं कामयते, न कञ्चन स्वप्नं
पश्यति तदेव हि सुषुप्तं नाम ॥
वेदान्तेषु ‘अवस्थात्रयम्’ अधिकृत्य सुविस्तारं विचारः क्रियते ।
अवस्थात्रयं नाम जाग्रत, स्वप्नः, सुषुप्तिः इति एताः तिस्रो
अवस्थाः । अस्यां माण्डूक्योपनिषदि अवस्थात्रयविचारद्वारा
अवस्थारहितस्य आत्मनः स्वरूपः प्रतिपाद्यते ॥
अस्मिन् मन्त्रे सुषुप्तिस्वरूपम् उपदिश्यते । सुतरां सुप्तिः सुषुप्तिः,
गाढनिद्रा । जाग्रतस्वप्नयोः यथा अनात्मविषयकाः कामा भवन्ति
तथा अस्यां निद्रायां न कोऽपि कामो विद्यते । निद्रावस्थायाम् इष्टानिष्टौ
वा अविद्याकामकर्माणि वा न हि विद्यन्ते । न च द्वैतदर्शनात्मकः
स्वप्नो निद्रायां भवति । सुषुप्तिः सर्वेषां समाना । जातिवर्णाश्रमभेदान्,
देशकालादिभेदान् च अतीत्य सुषुप्तौ सर्वेऽपि मानवाः समत्वेन ब्रह्मस्वरूपा
एव । सुषुप्तेर्महिमा अयम् ॥
<DOC_END>
<DOC_START>
यत्र हि द्वैतमिव भवति तदितरः इतरं पश्यति । बृहदारण्यकोपनिषत् २-४-१४
द्विधा इतं द्वैतम् । प्रमातृप्रमाणप्रमेयरूपेण दृश्यमानत्वमेव हि द्वैतं नाम । द्वैतस्यैव हि 'त्रिपुटिज्ञानम्' इति
नामान्तरम् । इदं त्रिपुटिज्ञानं तु अज्ञानविलासमात्रमेव, न तु पारमार्थिकम् । आत्मज्ञानरहितानाम् अविवेकिनाम्
इदं त्रिपुटिज्ञानमेव समग्ज्ञानमिव अवभासते ॥
द्रष्टृदृश्यदर्शनानि आत्मनः भिन्नानि सत्यान्येव भवन्ति । तथा तस्य प्रमाणानि प्रमेयानि प्रमातारश्च सत्या इव
अवभासन्ते । द्वैतवस्त्वनुवादसमयेऽपि श्रुतिः ‘इव’ शब्दप्रयोगं करोति इति न विस्मर्तव्यम् । आत्मज्ञानोदय समकालमेव
सर्वोऽप्ययं भेदः बाधितो भवति, आत्मैव सम्पद्यते । ज्ञानाज्ञानयोः भेदः ज्ञातो वा ?
<DOC_END>
<DOC_START>
यत्रैतत् पुरुषः स्वपिति नाम, सता सोम्य तदा
सम्पन्नो भवति । छान्दोग्योपनिषत् ६-८-१
यदा अयं जीवः ‘स्वपिति’ इति कथ्यते, तदा, हे
सोम्य अयं सत् स्वरूपे स्वात्मनि सम्पन्नो भवति ।
संस्कृतभाषायां ‘स्वपिति’ इति क्रियापदम् अस्ति ।
‘स्वपिति’ इति ‘निद्रां करोति’ इत्यर्थः । सुप्तं जीवं
दृष्ट्वा इतरे जनाः ‘अयं स्वपिति’ इति वदन्ति । ‘स्वम्
अपीतो भवति इति ‘स्वपिति’ इत्युच्यते । स्वापकाले
जीवात्मा सर्वसंसारबन्धनरहितो भवति खलु ?
तर्हि सुप्तः पुरुषः तदा निद्राकाले कुत्र वर्तते कथं वर्तते
कस्मिन् सम्पन्नो भवति इत्यादीनां प्रश्नानाम् उत्तराणि
वदति अयं मन्त्रः । सुषुप्तिकाले जीवः सता सम्पन्नो भवति ।
‘सत्’ इति ‘शुद्धा सत्ता’ इत्यर्थः । सुषुप्तः मानवः तदा सर्वान्
बाह्यान् सांसारिक धर्मान् त्यक्त्वा स्वस्वरूपे एव वर्तते ।
इदमेव अस्य नैजं स्वरूपं परमार्थस्वरूपं च । सत् चित्
आनन्दः एव अस्य स्वरूपम् । सुषुप्तौ स्वस्मिन् सत्स्वरूपे
एव एषः जीवः सम्पद्यते इत्यर्थः ॥
<DOC_END>
<DOC_START>
यथा अश्मानम् आखणम् ऋत्वा विध्वंसते, एवं हैव स विध्वंसते य एवंविदि पापं कामयते
यश्च एनमभिदासति, स एषः अश्माखणः॥ छान्दोग्योपनिषत् १-२-८
यथा यः कश्चित् कठिनम् अश्मानं कराभ्यां खण्डयितुं प्रवृत्तः स्वयमेव विध्वंसते, एवमेव प्राणोपासकस्य
देवतोपासकाः स्वेष्टदेवतोपासनेन तादृशदेवतानुग्रहपात्राणि भवन्ति । एतेषाम् उपासकानां निग्रहानुग्रहसामर्थ्यं
विद्यते । दिव्यशक्तिमन्तश्च एते ध्यायिनः ॥
लौकिकसम्पदा आढ्याः श्रीमन्तः, अधिकारिणः, राजमहाराजादयः स्वीयसम्पदा सामान्यान् जनान् स्वाधीनान्
कुर्युः, न तु देवोपासकान् वा प्राणोपासकान् वा एते आढ्याः स्वीयसम्पदा चालयेयुः । यतः लौकिकसम्पदोऽपि
उपासनशक्तिः गरीयसी । उपासनेन हि सर्वा सम्पत् लभ्येत, न तु मुक्तिर्लभ्यते ॥
<DOC_END>
<DOC_START>
यथा कृताय विजिताय अधरेयाः संयन्ति, एवमेनम्
सर्वं तदभिसमेति । छान्दोग्योपनिषत् ४-१-४
यथा विजिते कृते अधरेयाः सङ्ख्याः अन्तर्यन्ति, एवमेव
आत्मज्ञानस्य फले मोक्षे सर्वेषां कर्मोपासनानां सर्वाणि फलानि
ज्ञानिपुङ्गवेन रैक्वेन प्रोक्तमेतद् वचः । रैक्वो नाम कश्चित्
सामान्यमनुष्यः यः शकटस्य अधस्तात् उपदिश्य पिटकं
कण्डूयमानः आसीत् । परमार्थतस्तु सः सर्वात्मभावसम्पन्नः
पूर्णज्ञानी एव सः । मोक्षमहिमानम् एवं वदति ॥
द्यूतक्रीडानियमानुसारेण कृत, त्रेता, द्वापर, कलिः इति चतस्रः
सङ्ख्या भवन्ति । तासु सङ्ख्यासु कृतसङ्खायां विजितायां
सत्याम् इतराः सर्वा अपि सङ्ख्याः ४+३+२+१=१० जिता एव
यथा भवन्ति, एवमेव परमात्मज्ञानवतः आत्मज्ञानिनः सर्वासां
प्रजानां सर्वाणि पुण्यकर्मफलानि पूर्णानि भवन्ति ।
नावशिष्यते । मोक्षे सर्वकर्मोपासनफलान्तर्भावः ॥
<DOC_END>
<DOC_START>
यथा मातृमान्, पितृमान्, आचार्यवान् ब्रूयात् । बृहदारण्यकोपनिषत् ४-१-४
मातृमान् पितृमान् आचार्यवान् पुरुषः यथा ब्रूयात् तता अब्रवीत् ।
अयं मन्त्रः अत्र उपनिषदि पञ्चवारम् आम्नातः । मात्रा पित्रा तथा आचार्येण कृतसंस्कारस्य
मानवस्य योग्यताम् एषः मन्त्रः उपदिशति । जननीजनकगुरवः एकस्य मनुष्यस्य विकासाय,
संस्कारस्य योग्यतायाः कारणं भवन्ति खलु ?
शिशूनां मातैव प्रथमो गुरुः । मातुः आशीर्वादः अतीव मुख्यः । मातुः अनुशासनं सर्वेषामपि
अपेक्षितमेव । ततः पिता उपनयनादिसंस्कारं पुत्राय ददाति । जनकस्य मार्गदर्शनं तु पुत्राणाम्
अवश्यम् अपेक्षितमेव । अथ आचार्यस्य अनुग्रहः? आत्मज्ञानमार्गस्य प्रदर्शयिता प्रत्यक्षदैवतं
खलु आचार्यो नाम एवं त्रिभिरपि दर्शितमार्गस्य मानवस्य जन्म सार्थकमेव ।
मातृपितृसद्गुरुवचनानुसारिणः तादृशस्य पुरुषस्य वचसि प्रामाण्यं लभ्यते । तादृशं नरं लोकः
सगौरवं पश्यति । ज्ञातं वा भारतीयसंस्कृतेः वैभवम् ?
<DOC_END>
<DOC_START>
यथा सोम्य एकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं
मृत्तिकेत्येव सत्यम् ॥ छान्दोग्योपनिषत् ६-१-४
हे सोम्य, मृत्पिण्डेन एकेन ज्ञातेन सर्वं मृत्कार्यं यथा विदितं भवति, तथैव ब्रह्मणि एकस्मिन्
विदिते ब्रह्मकार्यम् इदं जगत् सर्वमपि विदितं भवति । यतः विकारो नाम वाचारम्भणम्,
नाममात्रम्, मृत्तिका इत्येव सत्यम् ॥
छान्दोग्योपनिषदः अयं मन्त्रः बहुमुख्यः । अस्य मन्त्रस्य उपदेशं वेदान्तेषु 'मृद्घटदृष्टान्तः' इति
कथयन्ति विद्वांसः । मृत् उपादानं कारणम्, घटघटिकादयः मृत्कार्याणि ॥
कारणभूतायां मृदि विदितायां सत्यां मृत्कार्यभूताः घटघटिकादयः सर्वेऽपि विदिता एव भवन्ति
खलु मृद् एव घटः, घटिका- इत्यादीनि नामानि । न तु घटघटिकादीनि मृदं विहाय, मृदः
भिन्नतया स्वतन्त्राणि सन्ति । कारणस्यैव रूपान्तरे सति कार्यमिति नाम भवति । कार्यं नाम
केवलं नाममात्रम्, न तु तादृशं वस्तु कारणाभिन्नतया सत्यतया वस्तुतः अस्ति ॥
<DOC_END>
<DOC_START>
यथाकामो भवति तत्क्रतुर्भवति, यत्क्रतुर्भवति तत् कर्म कुरुते, यत्कर्म
कुरुते तद् अभिसम्पद्यते । बृहदारण्यकोपनिषत् ४-४-५
यादृशकामो भवति, तादृशसङ्कल्पः, यादृशसङ्कल्पो भवति, तादृशानि कर्माणि करोति;
यादृशकर्मा भवति तादृशानि फलानि अनुभवति ।
कामसङ्कल्पकर्मफलप्राप्तयो हि संसारचक्रम् । बीजानुगुणो वृक्षः । सर्वः पुरूषः काममय एव ।
कामवत्त्वादेव तदनुगुणं क्रतुं करोति । क्रतुर्नाम सङ्कल्पः । कामसङ्कल्पाः अन्योन्यं पूरकाः ।
अविद्या एव हि कामानां मूलम् । स्वस्वरूपानवबोधो हि अविद्या नाम, आत्मानं संसारित्वेन
मिथ्यावबोधो हि अविद्या अविद्ययैव सङ्कल्पः, अविद्यया एव कर्माणि । सर्वथापि ‘यावत्कालम्
अविद्या तावत्कालं संसारः’ इति सिद्धम् । अविद्यास्थितिपर्यन्तमपि संसारस्य अनुवृत्तिरेव ।
आत्मज्ञानादेव संसारनिवृत्तिः । अविद्याकामकर्माणि आत्मज्ञानेन नश्यन्ति ॥
<DOC_END>
<DOC_START>
यदहरेव विरजेत् तदहरेव प्रव्रजेत् । जाबालोपनिषत् ४-१
यदैव वैराग्यं जायते तदैव प्रव्याज्यं कुर्यात् ।
प्रव्याज्यं नाम संन्यासः । संन्यासं कदा कुर्यात् उत्तरायणे वा दक्षिणायने वा
शुक्लपक्षे वा कृष्णपक्षे वा दिवा वा रात्रौ वा इति अनेके पृच्छन्ति । एतेषां
सर्वेषां प्रश्नानाम् अयं मन्त्रः सुलभतया सुन्दरतया च उत्तरं ददाति । संन्यासो नाम
अहङ्कारममकारत्यागः, संन्यासो नाम अध्यासत्यागः । संन्यासस्य तिथिवारनक्षत्राणि
तर्हि संन्यासस्य प्रेरको हेतुः कः वैराग्यमेव । वैराग्ये जाते सति तदैव स एव संन्यासस्य
सुमुहूर्तः । गृहे अग्निना दह्यमाने सति अग्नेः शमनं कदा कर्तव्यम् सद्य एव खलु? अद्य
शनिवासरः, अद्य अमावास्या इति वदामः किम् नैव । एवमेव अन्तः करणॆ तीव्रं वैराग्यं
जातं चेत् तदैव संन्यासस्य मुहूर्तम् । संन्यासो नाम मानसी विरागस्थितिरेव, न तु उत्सवः ।
अनात्मविषयेषु अनासक्तिरेव संन्यासः । ईदृशः संन्यासः आत्मज्ञानस्य सहायकः ॥
<DOC_END>
<DOC_START>
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ श्वेताश्वतरोपनिषत् ६-२०
मानवाः आकाशं यदा चर्मवत् वेष्टितुं समर्थाः भवेयुः, तदा ब्रह्म
आत्मज्ञानेन किमस्माकम् किं ज्ञानादेव मुक्तिः प्राप्येत ज्ञानात्
सन्ति खलु एतैरपि साधनैः साक्षादेव मुक्तिं लब्ध्वा संसारबन्धनात्
मानवाः मुच्येरन् खलु इति चेत् ॥
अस्य प्रश्नस्य साक्षात् प्रतिवचनं तु ‘नैव शक्यते’ इति । “ज्ञानादेव
मुच्यते, नान्यथा” इति इममर्थं सुन्दरदृष्टान्तेन दर्शयति अयं मन्त्रः।
आकाशं चर्मवत्, कटवत्, वर्तुलाकारेणा वेष्टितुं यदि शक्येत, तदा
आत्मज्ञानं विनापि साधनान्तरैः मानवाः मुच्येरन् । एतदुक्तं भवति,
यथा आकाशं कटवत् वेष्टितुं न शक्यते, तथैव आत्मानम् अविदित्वा,
आत्मज्ञानं विना साधनान्तरैः मुक्तिः नैव प्राप्यते इत्यभिप्रायः ।
<DOC_END>
<DOC_START>
यदा ह्येवैष एतस्मिन् उदरमन्तरं कुरुते । अथ तस्य भयं भवति ॥ तैत्तिरीयोपनिषत् २-७-५
लोके भयं नाम सर्वेषामपि ज्ञात एव विषयः । भयं नाम भीतिः । भयस्य अनुभवः कस्य नास्ति
ब्रह्माणम् आरभ्य पिपीलिकापर्यन्तानां सर्वेषां प्राणिनाम् भयम् अस्त्येव । मानवेभ्य एव मानवानां भयम् ।
धनवतां स्वपुत्रेभ्य एव भयम् । हिंस्रमृगेभ्यः मानवानां, मानवेभ्यः तेषां क्रूरप्राणिनां च परस्परं भयं दृश्यते ।
अस्मिन् प्रपञ्चे सर्वत्रापि सर्वमपि भयमयमेव । सर्वं भयमयं जगत् ॥
किमत्र कारणम् इति पृष्टे प्रतिवचनं ददाति अयं मन्त्रः । आत्मनि भेददर्शनमेव भयहेतुः । आत्मनः
परिपूर्णब्रह्मत्वम् अविज्ञाय, अविद्यया आत्मानं परिच्छिन्नं जीवं मन्यते खलु । तदेव भयकारणम् । अहम्
अन्यः, ब्रह्म च अन्यत् इति अन्यथाज्ञानमेव भयस्य कारणम् । आत्मनः ब्रह्मणश्च भेददर्शनादेव आत्मनः
भयं भवति । आत्मानं परिपूर्णब्रह्मत्वेन विजानतः भयं विद्यते वा ?
<DOC_END>
<DOC_START>
प्रतिष्ठां विन्दते । अथ सोऽभयङ्गतो भवति ॥ तैत्तिरीयोपनिषत् २-७-४
यदा एषः जिज्ञासुः एतस्मिन् अदृश्ये अनात्म्ये अनिरुक्ते अनिलयने ब्रह्मणि अभयां प्रतिष्ठां
विन्दते तदैव सद्यः सः अभयं प्राप्नोति ।
सर्वस्यापि मानवस्य ‘भयम्’ अस्त्येव खलु न कयापि लौकिक्या सम्पदा वा विद्यया वा इदं
भयं परिहर्तुं शक्यते । वेदान्तेषु पुनः भयपरिहाराय सूक्तः उपायोऽस्ति । अयं मन्त्रः भयपरिहाराय
आत्मनि सम्यक् विज्ञाते सति भयस्य प्रश्न एव नास्ति । ब्रह्मैव हि आत्मनः निजस्वरूपम् । ब्रह्मैव हि
अहम्, अहम् अदृश्यः इति अकार्यम् आत्मानं जानीयात् । आत्मा अनात्म्यः, अशरीरः इति पश्येत् ।
आत्मा अनिरुक्तः प्रमाणागोचरः इति जानीयात् । आत्मा अनिलयनः, स्वतन्त्रः इति विद्यात् । एवम्
<DOC_END>
<DOC_START>
यदि मन्यसे सुवेदेति दभ्रमेवापि नूनम् । केनोपनिषत् २-१
हे शिष्य, ‘अहं ब्रह्म सुवेद’ इति त्वं यदि मन्यसे, तर्हि तव तादृशं ज्ञानं दभ्रमेव, अल्पमेव ॥
'आत्मानमेव विजानीयात्, आत्मज्ञानादेव दुःखनिवृत्तिः मोक्षप्राप्तिश्च; आत्मनि अविज्ञाते मानवजन्मैव
व्यर्थं भवति' इत्यादि हि वेदान्तेषु तत्र तत्र उपदिश्यते । यदा मुमुक्षुजनाः ईदृशानि वाक्यानि शृण्वन्ति तदा
तेषां मनसि सहजतः एकं भ्रान्तिज्ञानं च उत्पद्येत यत् आत्मा नाम इतरदेववत्, अनात्मवस्तुवत् आत्मनो
नैषा भावना साध्वी । अहं समुद्रं जानामि, नक्षत्राणि जानामि, अहं देवान् जानामि – इतिवत् नैवम्
आत्मज्ञानम् । यतो हि अयमात्मा ज्ञातुः स्वरूपमेव । ज्ञातुः स्वरूपभूतम्, ज्ञप्तिस्वरूपमेव सन्तम्
एनम् आत्मानं विषयतया अवबोद्धुं कथमिव सम्भवेत् तस्मात् आत्मावबोधो नाम आत्मस्वरूपेण
अवस्थितिरेव इत्यर्थः । आत्मनः आत्मत्वेन ज्ञानमेव आत्मज्ञानम् । इदमेव हि आत्मज्ञानस्य मर्म ॥
<DOC_END>
<DOC_START>
यदेव विद्यया करोति, श्रद्धया, उपनिषदा, तदेव वीर्यवत्तरं भवति । छान्दोग्योपनिषत् १-१-१०
यत् कर्म विद्यया श्रद्धया उपनिषदा च क्रियते तद् वीर्यवत्तरं भवति ।
अधिकृतः पुरुषः शास्त्रीयकर्माणि यथाविधि अनुतिष्ठति चेत् अनुरूपाणि फलानि तस्य नूनं भवन्त्येव ।
कर्मणां फलानि नियतानि भवन्त्येव । अपि तु तान्येव कर्माणि श्रद्धया कृतानि चेत् उत्तमफलान्येव ददति ॥
शास्त्रीयाणि कर्माणि उपासनसहितानि क्रियन्ते चेत् तदा इतोऽपि अधिकानि फलानि प्राप्यन्ते एव ।
तास्ता देवताः एकाग्रतया ध्यायन् भक्त्या भावयन् कर्माणि कुरुते चेत् तदा तेषां कर्मणां विशेषफलानि भवन्ति ॥
उपनिषदा युक्तानि चेत् तदा अत्यन्तोत्तमान्येव फलानि भवन्ति । अत्र ‘उपनिषत्’ इति ‘एकाग्रता’ इत्यर्थः ।
सर्वथा श्रद्धाभावनाएकाग्रताभिः कर्माणि क्रियन्ते चेत् उत्तमानि अधिकानि फलानि भवन्ति इत्यर्थः ॥
<DOC_END>
<DOC_START>
यदेव साक्षात् अपरोक्षात् ब्रह्म, य आत्मा सर्वान्तरः, तं मे व्याचक्ष्व । बृहदारण्यकोपनिषत् ३-४-१
यत् साक्षात् अपरोक्षाद् ब्रह्म, यः सर्वान्तरः आत्मा, तं मे व्याचक्ष्व इति उषस्तः चाक्रायणः याज्ञवल्क्यं पप्रच्छ ।
अत्यन्तं प्रसिद्धः जनप्रियश्चायं मन्त्रः । न हि ब्रह्म नाम आत्मनो भिन्नं वस्तु । ब्रह्म हि आत्मनो भिन्नतया दूरस्थं
परोक्षं वस्तु न भवति । ब्रह्म नाम निरुपाधिकं निरतिशयं तत्त्वमित्यर्थः । इदं हि असंसारि कूटस्थं परिपूर्णं तत्त्वम् ।
एतद् ब्रह्म साक्षात् । अस्माकं प्रत्यक्स्वरूपमेव ब्रह्म । परं ब्रह्म अपरोक्षं च, अस्मात्स्वरूपात् भिन्नतया विद्यमानम्
अनात्मतत्त्वं न भवति ब्रह्म इत्यर्थः ॥
अस्यैव ‘आत्मा’ इत्यपि नाम भवति । आत्मा हि नाम स्वयमेव । अयं सर्वान्तरः । नायमात्मा देहमात्रपरिच्छिन्नः ।
किं तु अन्तर्बहिश्च परिपूर्णोऽयमात्मा । ‘इमम् आत्मानं ब्रूहि’ इति उषस्तश्चाक्रायणः याज्ञवल्क्यं पृच्छति । अयमेक
एव सर्वप्राणिनां प्रत्यागात्मभूतः असंसारी आत्मा ॥
<DOC_END>
<DOC_START>
यद् वाचाऽनभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि ॥ केनोपनिषत् १-५
वागिन्द्रियं वाग्भिः यत् न वर्णयेत्, येनैव वागिन्द्रियमपि विषयीक्रियते, तदेव ‘ब्रह्म’ इति त्वं विद्धि ॥
वागिन्द्रियं नाम जिह्वा । रसमपि रुचिमपि जानाति इतिहेतुना इयं जिह्वा रसनेन्द्रियत्वेन ज्ञानेन्द्रियं
भवति; वचांसि वदतीतिहेतुना कर्मेन्द्रियमपि भवति । अस्य वागिन्द्रियस्य रसः वचः इति द्वयं विषयः ।
चक्षुर्भ्याम् अदृश्यान् श्रोत्राभ्याम् अश्राव्यान्, मनसाऽपि अचिन्त्यान् अत्यन्तसूक्ष्मातिसूक्ष्मान् विषयान्
अपि एतद् वागिन्द्रियं वर्णयेत् तस्माद् वागिन्द्रियस्य ‘असाध्यम्’ इति नास्त्येव ॥
तथापि एकस्मिन् विषये इदम् इन्द्रियम् आत्मनः सर्वथा पराजयम् अवश्यम् अभ्युपगच्छेदेव । कस्मिन्
विषये आत्मस्वरूपवर्णनविषये । तत् कथम् पश्याम । गुणा वा धर्मा वा आत्मनः नैव विद्यन्ते ।
वागिन्द्रियस्यापि चैतन्यभूतम्, वागिन्द्रियस्यापि अवभासकं प्रत्यगात्मानम् इदं वागिन्द्रियम् अवभासेत किम् ?
<DOC_END>
<DOC_START>
==यन्ति प्रमादमतन्द्राः ॥ सामवेदः ७२१
: रूढौ 'मद' इत्येतस्य शब्दस्य भिन्नार्थः विद्यते चेदपि वैदिकसंस्कृते तु अस्य अर्थः 'हर्षः' इति । 'प्र' इत्युक्ते उत्कृष्टः इत्यर्थः । उत्तमः हर्षः एव 'प्रमादः मदोपसर्गे इत्येतस्मात् सूत्रात् दीर्घत्वम्) । इमं हर्षम् एव वयं सर्वे प्राप्तुम् अभिलषामहे । किन्तु इदं विना परिश्रमं न प्राप्यते । तन्निमित्तं प्रयासः कर्तव्यः । जगतः हितार्थं निष्कपटभावेन अस्माभिः तीव्रं कार्यं कर्तव्यम् । आलस्यभावेन, अनवधानेन, दुर्मार्गेण, पत्नीपुत्रादीनां निमित्तमात्रं वा यदि कार्यं क्रियेत तर्हि ततः श्रेष्ठः हर्षः, आनन्दश्च न प्राप्यते । हर्षः न प्राप्तः इत्यस्य अर्थः उपरि निर्दिष्टेषु कश्चन दोषः विद्यते एव इति । दोषस्य निवारणेन आनन्दः निश्चयेन प्राप्येत एव ।
<DOC_END>
<DOC_START>
यन्मनसा न मनुते येनाहुर्मनो मतम् । केनोपनिषत् १-६
यत् मनसा न मनुते, येनैव मनः मतम् आहुः तदेव ब्रह्म ।
भगवता मानवेभ्यः दत्ता श्रेष्ठा सम्पत् नाम मनः । मनो हि अद्भुतं करणम् ।
प्रत्यक्षप्रमाणानाम् अगोचराणि सूक्ष्माण्यपि वस्तूनि विजानीयात् इदं मनः ।
‘असाध्यम्’ इति मनसः नास्त्येव । ‘मनसि सति मार्गः’, ‘मनोऽनुसारी मार्गः’
इति हि प्रसिद्धम् । लोकान्तरस्य जन्मान्तरस्य च विचारान्, धर्माधर्मविचारान्
च मानवो मनसा विजानीयात् । सर्वथा, प्रपञ्चस्य सर्वेऽपि व्यवहाराः मनोविलासमात्रमेव
अपि तु, अहो, आत्मानं विज्ञातुम् अस्य मनसः सामर्थ्यं नास्ति । अत्र द्वौ हेतू
भवतः । आत्मा निर्गुणः इति प्रथमो हेतुः । गुणधर्मरहितमात्मानं मनः जानीयाद्वा
आत्मा मन एव प्रकाशते इति द्वितीयो हेतुः । चिन्मात्रस्वरूपेणा आत्मनैव हि इदं मनः
प्रकाश्यते । जडं तु मनः स्वतः न किञ्चित् कुर्यात् । आत्मैव सूत्रधारः । आत्मनः
अधीनतया एव मनः स्वव्यापारं करोति ॥
<DOC_END>
<DOC_START>
यमेवैष वृणुते तेन लभ्यः । काठकोपनिषत् १-२-२३
आत्मानमेव यः वरयति तेनैव आत्मा प्राप्यते ।
आत्मानं प्राप्तुं किं कर्तव्यम् जपो वा कर्तव्यः पूजा वा कर्तव्या वेदाध्ययनं वा कर्तव्यम्
तीर्थक्षेत्राटनं वा इति चेत्, आत्मार्थित्वे सति आत्मा प्राप्यते । आत्मैव मया ज्ञातव्यः, आत्मा
मया ज्ञातव्य एव, आत्मना एव अर्थी अहम्, आत्मानं विहाय न केनापि पदार्थेन अर्थी अहम् – इति
तीव्रा अर्थिता विद्यते चेत् तादृशः साधकः अवश्यम् आत्मानं प्राप्नोत्येव ॥
आत्मा हि नाम स्वरूपम् । स्वरूपभूतस्य हि आत्मनः बहिरन्वेषणं नाम अविवेकिता खलु न हि
नित्यप्राप्तस्य आत्मनः नूतनतया प्राप्तिरस्ति । आत्मनिमित्ता एव हि देहादीनाम् अस्तिता आत्मतः
एव शरीरम्, आत्मतः एव इन्द्रियाणि, आत्मत एव प्राणः, आत्मतः एव मनः, आत्मत एव प्रपञ्चोऽयम् ।
सर्वेषां हि स्वरूपभूतोऽयमात्मा । अस्यैव हि आत्मनः वेदान्तेषु ‘ब्रह्म’ इत्यपि नाम भवति । अस्य आत्मनः
प्राप्तिर्नाम अस्य ज्ञानमेव । इदं रहस्यं यः विजानाति तस्य आत्मा प्राप्त एव ॥
<DOC_END>
<DOC_START>
यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनुं स्वाम् । मुण्डकोपनिषत् ३-२-३
योऽयं जिज्ञासुः आत्मानमेव वरयते, तस्यैव आत्मप्राप्तिर्भवति । तादृशस्यैव जिज्ञासोः अयमात्मा
आत्मनः नैजं परिपूर्णम् अजम् अमृतं स्वरुपं दर्शयति ॥
आत्मज्ञानस्य प्राप्तिः केषाम् आत्मजिज्ञासूनाम् । ये जनाः येन फलेन अर्थिनः तेषामेव तदेव फलं
लभ्यते हि । गृहार्थिनां गृहप्राप्तिः, यशोऽर्थिनां यशः प्राप्तिः, धनार्थिनां धनप्राप्तिः स्वर्गार्थी स्वर्गं लभते ।
एवमेव आत्मकामश्चेत् आत्मानमेव लभते ॥
आत्मार्थित्वं नाम किम् आत्मनः नैजस्वरूपस्य अवबोधनेच्छा । यथा उपनिषत्सु उपदिष्टम्, तथैव आत्मा
अजम् अजरम् अमृतं ब्रह्माहमस्मि इति कथञ्चिदपि मया ज्ञातव्य एव इति तीव्रेच्छा यस्य जाता स एव जिज्ञासुः ।
स एव च मुमुक्षुः । तस्य सद्गुरुपदेशश्रवणेन आत्मावबोधः स्वयमेव उदेति । ‘अहमेव ब्रह्मास्मि’ इति निश्चयानुभवः
सहजतया सुलभेन जायत एव ॥
<DOC_END>
<DOC_START>
यस्यामतं तस्य मतं, मतं यस्य न वेद सः । केनोपनिषत् २-३
ब्रह्म यस्य ‘अमतं’ तस्यैव ‘मतम्’ । यस्य तु ‘मतम्’ सः ब्रह्म न वेद ॥
अयं मन्त्रः गूढार्थकः । तद्यथा, अजानतः ब्रह्म ज्ञातम्, जानतस्तु ब्रह्म न ज्ञातम् इति । अस्मिन् मन्त्रे
विरोधाभास इव दृश्यते । अस्य मंत्रस्य अन्तरार्थं पश्याम ॥
ब्रह्म प्रमाणागोचरम्, आत्मनो अभिन्नम्, न केनापि प्रमाणेन विषयीकृत्य ज्ञातुं शक्यम् इति यः जानाति
अनात्मवस्तुवत् ज्ञातुं प्रयतते, तस्य ब्रह्मस्वरूपम् अज्ञातमेव इति वक्तव्यम् । स्वस्वरूपभूतस्य ब्रह्मणः ज्ञानं
नाम अहमेव ब्रह्मास्मि इति अनुभवावगतिरेव । ब्रह्मात्मावगतौ सत्यां प्रमातृप्रमाणप्रमेयाख्या त्रिपुटी न विद्यते ।
प्रमातृप्रमाणप्रमेय रूपाः सर्वेऽपि पदार्थाः ज्ञानेन ब्रह्मैव सम्पद्यन्ते इत्यर्थः ॥
<DOC_END>
<DOC_START>
युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः ॥ तैत्तिरीयोपनिषत् १-११
युक्ताः आयुक्ताः अलूक्षाः धर्मकामाश्च तद्विषये यथा वर्तन्ते तथैव युष्माभिः वर्तितव्यम् ।
आचार्यः स्वशिष्याय इमम् उपदेशं करोति । कर्मानुष्ठानविषये वा आचारविचारविषये वा संशये जाते कथं वर्तितव्यम्
इति शिष्येण पृष्टः आचार्यः इमम् उपदेशं करोति । एतादृशाः संशयाः प्रश्नाश्च अस्माकमपि जीवने उद्भवन्ति हि । तदा
कथं वर्तितव्यम् इति चेत्, उच्यते ॥
तस्मिन् विषये ज्येष्ठाः वृद्धाः यथा अनुतिष्ठन्ति, तथैव अस्माभिरपि अनुष्ठातव्यम् । के ते वृद्धाः युक्ताः । तस्मिन् विषये
निपुणाः । आयुक्ता इत्युक्ते अयुक्ताः, स्वतन्त्रप्रज्ञाः इत्यर्थः । तथा अलूक्षाः अरूक्षाः, अक्रूरमतयः इत्यर्थः । धर्मकामाः इति
धार्मिकाः । निपुणाः स्वतन्त्रमतयः सात्त्विकाः धर्मरताश्च वृद्धाः अस्माभिः सदा अनुसर्तव्याः इत्यर्थः ॥
<DOC_END>
<DOC_START>
==युज्यस्ते सप्तपदः सखास्मि ॥ अथर्ववेदः ५-११-१०
मिलित्वा सप्त पदानि स्थापितवान् अहं भवत्याः सुहृद् अस्मि ।
: विशेषतया इदं वचनं विवाहसंस्कारावसरे उपयुज्यते । वधूवरौ एतेषां सप्त पदानां स्थापनानन्तरमेव पतिपत्न्यौ भवतः । गृहस्थाश्रमनामकस्य शकटस्य उभौ चक्रौ भवतः पतिपत्न्यौ । पतिपत्न्योः सम्बन्धः देव-दासीसम्बन्धः न । केषुचित् समाजेषु यथा स्यात् देवि-दाससम्बन्धोऽपि न । सः कश्चन विशिष्टः अन्त्यं यावत् अनुवर्त्यमानः सम्बन्धः । सर्वविधैः गोप्यरहस्यादिभिः मुक्तः कश्चन अपूर्वः स्नेहसम्बन्धः । जीवनसहवर्तिनः निमित्तम् आत्मनः इष्टानिष्टविषयेषु समञ्जनं, त्यागभावः च अत्र दरीदृश्यते । स्नेहे समानता सहजतया एव भवति । पृष्ट्वा प्राप्तिः अपि न, प्रश्नकरणानन्तरं दानमपि न, कीयतः निमित्तं कीयदिति गणनायुक्तमपि न !
: अन्नाय इच्छाशक्त्यै च प्रथमं पदम् ।
: स्वास्थ्याय द्वितीयं पदम् ।
: साधनसम्पत्त्यै तृतीयं पदम् ।
: उत्तमसन्तानाय पञ्चमं पदम् ।
: नीतिनियमानां पालनाय षष्ठं पदम् ।
: एतेषाम् आधारेण सख्यं स्नेहश्च ।
<DOC_END>
<DOC_START>
श्रुत्वा हनुमतो वाक्यम् यथावद्भिभाषितम् ।
कृतम् हनुमता कार्यम् सुमहद्भुवि दुर्लभम् ।
मनसापि यदन्येन न शक्यम् धरणीतले ॥६-१-२॥
न हि तम् परिपश्यामि यस्तरेत महोदधिम् ।
अन्यत्र गुरुडाद्वायोरन्यत्र च हनूमतः ॥६-१-३॥
अप्रधृष्याम् पुरीम् लङ्काम् रावणेन सुरक्षिताम् ॥६-१-४॥
प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् ।
को विशेत्सुदुराधर्षाम् राक्षसैश्च सुरक्षिताम् ॥६-१-५॥
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः ।
भृत्यकार्यम् हनुमता सुग्रीवस्य कृतम् महत् ॥६-१-६॥
एवम् विधाय स्वबलम् सदृशम् विक्रमस्य च ।
यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ॥६-१-७॥
यो नियुक्तः परम् कार्यम् न कुर्यान्नऋपतेः प्रियम् ॥६-१-८॥
भृत्यो युक्तः समर्थश्च तमाहुर्मध्यम् नरम् ।
नियुक्तो नृपतेः कार्यम् न कुर्याद्यः समाहितः ॥६-१-९॥
भृत्यो युक्तः समर्थश्च तमाहुः पुरुष्धमम् ।
तन्नियोगे नियुक्तेन कृतम् हनूमता ॥६-१-१०॥
न चात्मा लघताम् नीतः सुग्रीवश्चापि तोषितः ।
अहम् च रघवम्शश्च लक्ष्मणश्च महाबलः ॥६-१-११॥
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ।
इदम् तु मम दीनस्य मनो भूयः प्रकर्षति ॥६-१-१२॥
यदिहास्य प्रियाक्ष्यातुर्न कुर्मि सदृशम् प्रियम् ।
एष सर्वस्वभूतस्तु परिष्वङ्गो हनुमतः ॥६-१-१३॥
मया कालमिमम् प्राप्य दत्तस्तस्य महात्मनः ।
इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तम् परिष्स्वजे ॥६-१-१४॥
ध्यात्वा पुनरुवाचेदम् वचनम् रघुसत्तमः ॥६-१-१५॥
सर्वथा सुकृतम् तावत्सीतायाः परिमार्गणम् ॥६-१-१६॥
सागरम् तु समासाद्य पुनर्नष्टम् मनो मम ।
कथम् नाम समुद्रस्य दुष्पारस्य महाम्भसः ॥६-१-१७॥
हरयो दक्षिणम् पारम् गमिष्यन्ति समागताह् ।
यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ॥६-१-१८॥
इत्युक्त्वा शोकसम्भ्रान्तो रामह् शत्रुनिबर्हणः ॥६-१-१९॥
तम् तु शोकपरिद्यूनम् रामम् दशरथात्मजम् ।
उवाच वचनम् श्रीमान् सुग्रीवह् शोकनाशनम् ॥६-२-१॥
किम् त्वया तप्यते वीर यथान्यः प्राकृतस्तथा ।
मैवम् भूस्त्यज सतापम् कृतघ्न इव सौहृदम् ॥६-२-२॥
सम्तापस्य च ते स्थानम् न हि पश्यामि राघव ।
प्रवृत्तामुपलब्धायाम् ज्ञाते च निलये रिपोः ॥६-२-३॥
मतिमान् शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव ।
त्यजेमाम् प्राकृताम् उद्धिं कृतात्मेवार्थदूषणीम् ॥६-२-४॥
सम्द्रम् लङ्घयित्वा तु महानक्रसमाकुलम् ।
लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥६-२-५॥
सर्वार्था व्यवसीदन्ति व्यसनम् चाधिगच्छति ॥६-२-६॥
इमे शूराः समर्थाश्च सर्वतो हरियूथपाः ।
त्वत्प्रियार्थम् कृतोत्साहाः प्रवेष्टुमपि पावकम् ॥६-२-७॥
एषाम् हर्षेण जानामि तर्कश्चापि दृढो मम ।
विक्रमेण समानेष्ये सीताम् हत्वा यथा रिपुम् ॥६-२-८॥
रावनम् पापक्र्माणम् तथा त्वम् कर्तुमर्हसि ।
सेतुरत्र यथा बद्ध्येथा पश्येम ताम् पुरीम् ॥६-२-९॥
तस्य राक्षसराजस्य तथा त्वम् कुरु राघव ।
दृष्ट्वा ताम् हि पुरीम् लङ्काम् त्रिकूटशिखरे स्थिताम् ॥६-२-१०॥
हतम् च रावणम् उद्धे दर्शनादवधारय ।
अबद्ध्वा सागरे सेतुम् घोरे च वरुणालये ॥६-२-११॥
लङ्का न मर्दितुम् शक्या सेन्द्रैरपि सुरासुरैः ।
सेतुर्बद्धः समुद्रे च यावल्लङ्कासमीपतः ॥६-२-१२॥
सर्वम् तीर्णम् च मे सैन्यम् जितमित्युपधारय ।
इमे हि समरे वीरा हरयः कामरूपिणः ॥६-२-१३॥
तदलम् विक्लबाम् बुद्धिम् राजन् सर्वार्थनाशनीम् ।
पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥६-२-१४॥
यत्तु कार्यम् मनुष्येण शौण्डीर्यमवलम्ब्यताम् ।
अस्मिन् काले महाप्राज्ञ् सत्त्वमातिष्ठ ते जसा ।
शूराणाम् हि मनुष्याणाम् त्वद्विधानाम् महात्मनाम् ॥६-२-१६॥
विनष्टेवा रनस्स्टे वाशोकः सर्वार्थनाशनः ।
तत्त्वम् बुद्धिमताम् श्रेष्ठह् सर्वशास्त्रर्थकोविदः ॥६-२-१७॥
मद्विधैः सचिवैः सार्धमरिम् जेतुम् समर्हसि ।
न हि पश्याम्यहम् कम् चित्त्रिषु लोकेषु राघव ॥६-२-१८॥
गृहीतधनुषो यस्ते तिष्ठे दभिमुखो रणे ।
वानरेषु समासक्तम् न ते कार्यम् विपत्स्यते ॥६-२-१९॥
अचिराद्द्रक्ष्यसे सीताम् तीर्त्वा सागरमक्षयम् ।
तदलम् शोकमालम्ब्य क्रोधमालम्ब भूपते ॥६-२-२०॥
निश्चेष्टाह् क्षत्रिया मन्दाः सर्वे चण्डस्य् बिभ्यति ।
लङ्घानार्थम् च घोरस्य समुद्रस्य नदीपतेः ॥६-२-२१॥
लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ॥६-२-२२॥
सर्वम् तीर्णम् च मे सैन्यम् जितमित्यवधार्यताम् ।
इमे हि हरयः शूराः समरे कामरूपिणः ॥६-२-२३॥
कथम् चित्परिपश्यामि लङ्घितम् वरुणालयम् ॥६-२-२४॥
हतमित्येव तम् मन्ये युद्धे शत्रुनिबर्हण ।
किमुक्त्वा बहुधा चापि सर्वथा विजया भवान् ॥६-२-२५॥
निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति ।
सुग्रीवस्य वचः श्रुत्वा हेतुमत् परम अर्थवित् ।
प्रतिजग्राह काकुत्स्थो हनूमन्तम् अथ अब्रवीत् ॥६-३-१॥
तरसा सेतु बन्धेन सागर उच्चोषणेन वा ।
सर्वथा सुसमर्थो अस्मि सागरस्य अस्य लन्घने ॥६-३-२॥
कति दुर्गाणि दुर्गाया लंकायास् तद् ब्रवीहि मे ।
ज्ञातुम् इच्चामि तत् सर्वम् दर्शनाद् इव वानर ॥६-३-३॥
बलस्य परिमाणम् च द्वार दुर्ग क्रियाम् अपि ।
गुप्ति कर्म च लंकाया रक्षसाम् सदनानि च ॥६-३-४॥
यथा सुखम् यथावच् च लंकायाम् असि दृष्टवान् ।
सरम् आचक्ष्व तत्त्वेन सर्वथा कुशलो हि असि ॥६-३-५॥
श्रुत्वा रामस्य वचनम् हनूमान् मारुत आत्मजः ।
वाक्यम् वाक्यविदाम् श्रेष्ठो रामम् पुनर् अथ अब्रवीत् ॥६-३-६॥
श्रूयताम् सर्वम् आख्यास्ये दुर्ग कर्म विधानतः ।
गुप्ता पुरी यथा लंका रक्षिता च यथा बलैः ॥६-३-७॥
राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा ।
पराम् समृद्धिम् लंकायाः सागरस्य च भीमताम् ॥६-३-८॥
विभागम् च बल ओघस्य निर्देशम् वाहनस्य च ।
एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्ववित् ॥६-३-९॥
महती रथ सम्पूर्णा रक्षो गण समाकुला ॥६-३-१०॥
दृढ बद्ध कवाटानि महापरिघवन्ति च ।
चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति ॥६-३-११॥
तत्रेषूपयन्त्राणि बलवन्ति महान्ति च ।
आगतम् पर सैन्यम् तैस् तत्र प्रतिनिवार्यते ॥६-३-१२॥
द्वारेषु सम्स्कृता भीमाः काल आयस मयाः शिताः ।
शतशो रोचिता वीरैः शतघ्न्यो रक्षसाम् गणैः ॥६-३-१३॥
सौवर्णः च महाम्स् तस्याः प्राकारो दुष्प्रधर्षणः ।
मणि विद्रुम वैदूर्य मुक्ता विचरित अन्तरः ॥६-३-१४॥
सर्वतः च महाभीमाः शीत तोया महाशुभाः ।
अगाधा ग्राहवत्यः च परिखा मीन सेविताः ॥६-३-१५॥
द्वारेषु तासाम् चत्वारः सम्क्रमाः परम आयताः ।
यन्त्रैर् उपेता बहुभिर् महद्भिर् दृढ सम्धिभिः ॥६-३-१६॥
त्रायन्ते सम्क्रमास् तत्र पर सैन्य आगमे सति ।
यन्त्रैस् तैर् अवकीर्यन्ते परिखासु समन्ततः ॥६-३-१७॥
एकस् त्व् अकम्प्यो बलवान् सम्क्रमः सुमहादृढः ।
काञ्चनैर् बहुभिः स्तम्भैर् वेदिकाभिः च शोभितः ॥६-३-१८॥
स्वयम् प्रकृति सम्पन्नो युयुत्सू राम रावणः ।
उत्थितः च अप्रमत्तः च बलानाम् अनुदर्शने ॥६-३-१९॥
न अदेयम् पार्वतम् वन्यम् कृत्रिमम् च चतुर् विधम् ॥६-३-२०॥
स्थिता पारे समुद्रस्य दूर पारस्य राघव ।
नौ पथः च अपि न अस्ति अत्र निरादेशः च सर्वतः ॥६-३-२१॥
परिघाः च शतघ्न्यः च यन्त्राणि विविधानि च ।
शोभयन्ति पुरीम् लंकाम् रावणस्य दुरात्मनः ॥६-३-२३॥
अयुतम् रक्षसाम् अत्र पश्चिम द्वारम् आश्रितम् ।
शूल हस्ता दुराधर्षाः सर्वे खड्ग अग्र योधिनः ॥६-३-२४॥
नियुतम् रक्षसाम् अत्र दक्षिण द्वारम् आश्रितम् ।
चतुर् अन्गेण सैन्येन योधास् तत्र अपि अनुत्तमाः ॥६-३-२५॥
प्रयुतम् रक्षसाम् अत्र पूर्व द्वारम् समाश्रितम् ।
चर्म खड्ग धराः सर्वे तथा सर्व अस्त्र कोविदाः ॥६-३-२६॥
न्यर्बुदम् रक्षसाम् अत्र उत्तर द्वारम् आश्रितम् ।
रथिनः च अश्व वाहाः च कुल पुत्राः सुपूजिताः ॥६-३-२७॥
शतम् शत सहस्राणाम् मध्यमम् गुल्मम् आश्रितम् ।
यातु धाना दुराधर्षाः साग्र कोटिः च रक्षसाम् ॥६-३-२८॥
ते मया सम्क्रमा भग्नाः परिखाः च अवपूरिताः ।
दग्धा च नगरी लंका प्राकाराः च अवसादिताः ॥६-३-२९॥
बलैकदेशः क्षपितो राक्षसानाम् महात्मनाम् ।
येन केन तु मार्गेण तराम वरुण आलयम् ॥६-३-३०॥
हता इति नगरी लंकाम् वानरैर् अवधार्यताम् ।
अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः ॥६-३-३१॥
नीलः सेना पतिः चैव बल शेषेण किम् तव ।
प्लवमाना हि गत्वा ताम् रावणस्य महापुरीम् ॥६-३-३२॥
सप्रकाराम् सभवनाम् आनयिष्यन्ति मैथिलीम् ।
एवम् आज्ञापय क्षिप्रम् बलानाम् सर्व सम्ग्रहम् ।
मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥६-३-३४॥
श्रुत्वा हनूमतो वाक्यम् यथावद् अनुपूर्वशः ।
ततो अब्रवीन् महातेजा रामः सत्य पराक्रमः ॥६-४-१॥
याम् निवेदयसे लंकाम् पुरीम् भीमस्य रक्षसः ।
क्षिप्रम् एनाम् वधिष्यामि सत्यम् एतद् ब्रवीमि ते ॥६-४-२॥
अस्मिन् मुहूर्ते सुग्रीव प्रयाणम् अभिरोचये ।
युक्तो मुहूर्तो विजयः प्राप्तो मध्यम् दिवा करः ॥६-४-३॥
सीताम् गृत्वा तु तद्यातु क्वासौ यास्यति जीवितः ।
सीता श्रुत्वाभियानम् मे आशामेष्यति जीविते ॥६-४-४॥
जीवितान्तेऽ मृतम् स्पृष्ट्वा पीत्वा विषमिवातुरः ।
उत्तरा फल्गुनी हि अद्य श्वस् तु हस्तेन योक्ष्यते ॥६-४-५॥
अभिप्रयाम सुग्रीव सर्व अनीक समावृताः ।
निमित्तानि च धन्यानि यानि प्रादुर् भवन्ति मे ॥६-४-६॥
निहत्य रावणम् सीताम् आनयिष्यामि जानकीम् ।
उपरिष्टाद्द् हि नयनम् स्फुरमाणम् इदम् मम ॥६-४-७॥
विजयम् समनुप्राप्तम् शम्सति इव मनो रथम् ।
ततो वाबरराहेब कज्श्मणेन सुपूजितः ॥६-४-८॥
उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ।
अग्रे यातु बलस्य अस्य नीलो मार्गम् अवेक्षितुम् ॥६-४-९॥
वृतः शत सहस्रेण वानराणाम् तरस्विनाम् ।
पथा मधुमता च आशु सेनाम् सेना पते नय ॥६-४-१०॥
दूषयेयुर् दुरात्मानः पथि मूल फल उदकम् ॥६-४-११॥
राक्षसाः परिरक्षेथास् तेभ्यस् त्वम् नित्यम् उद्यतः ।
निम्नेषु वन दुर्गेषु वनेषु च वन ओकसः ॥६-४-१२॥
अभिप्लुत्य अभिपश्येयुः परेषाम् निहतम् बलम् ।
यत्तु फल्गु बलम् किम्चित्तदत्रैवोपपद्यताम् ॥६-४-१३॥
एतद्धि कृत्यम् घोरम् नो विक्रमेण प्रयुज्यताम् ।
सागर ओघ निभम् भीमम् अग्र अनीकम् महाबलाः ॥६-४-१४॥
कपि सिम्हा प्रकर्षन्तु शतशो अथ सहस्रशः ।
गजः च गिरि सम्काशो गवयः च महाबलः ॥६-४-१५॥
गव अक्षः च अग्रतो यान्तु गवाम् दृप्ता इव ऋषभाः ।
यातु वानर वाहिन्या वानरः प्लवताम् पतिः ॥६-४-१६॥
पालयन् दक्षिणम् पार्श्वम् ऋषभो वानर ऋषभः ।
गन्ध हस्ती इव दुर्धर्षस् तरस्वी गन्ध मादनः ॥६-४-१७॥
यातु वानर वाहिन्याः सव्यम् पार्श्वम् अधिष्ठितः ।
यास्यामि बल मध्ये अहम् बल ओघम् अभिहर्षयन् ॥६-४-१८॥
अधिरुह्य हनूमन्तम् ऐरावतम् इव ईश्वरः ।
अन्गदेन एष सम्यातु लक्ष्मणः च अन्तक उपमः ॥६-४-१९॥
सार्वभौमेन भूत ईशो द्रविण अधिपतिस् यथा ।
जाम्बवामः च सुषेणः च वेग दर्शी च वानरः ॥६-४-२०॥
ऋक्ष राजो महासत्त्वः कुक्षिम् रक्षन्तु ते त्रयः ।
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनी पतिः ॥६-४-२१॥
व्यादिदेश महावीर्यान् वानरान् वानर Rषभः ।
ते वानर गणाः सर्वे समुत्पत्य युयुत्सवः ॥६-४-२२॥
गुहाभ्यः शिखरेभ्यः च आशु पुप्लुविरे तदा ।
ततो वानर राजेन लक्ष्मणेन च पूजितः ॥६-४-२३॥
जगाम रामो धर्म आत्मा ससैन्यो दक्षिणाम् दिशम् ।
शतैः शत सहस्रैः च कोटीभिर् अयुतैर् अपि ॥६-४-२४॥
वारणाभिः च हरिभिर् ययौ परिव्Rतस् तदा ।
तम् यान्तम् अनुयाति स्म महती हरि वाहिनी ॥६-४-२५॥
हृष्टाः प्रमुदिताः सर्वे सुग्रीवेण अभिपालिताः ।
आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥६-४-२६॥
क्ष्वेलन्तो निनदन्तः च जग्मुर् वै दक्षिणाम् दिशम् ।
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च ॥६-४-२७॥
उद्वहन्तो महावृक्षान् मन्जरी पुन्ज धारिणः ।
अन्योन्यम् सहसा दृष्टा निर्वहन्ति क्षिपन्ति च ॥६-४-२८॥
पतन्तः च उत्पतन्ति अन्ये पातयन्ति अपरे परान् ।
रावणो नो निहन्तव्यः सर्वे च रजनी चराः ॥६-४-२९॥
इति गर्जन्ति हरयो राघवस्य समीपतः ।
पुरस्ताद् ऋषभ्हो वीरो नीलः कुमुद एव च ॥६-४-३०॥
पथानम् शोधयन्ति स्म वानरैर् बहुभिः सह ।
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च ॥६-४-३१॥
बहुभिर् बलिभिर् भीमैर् व्Rताः शत्रु निबर्हणः ।
हरिः शत बलिर् वीरः कोटीभिर् दशभिर् वृतः ॥६-४-३२॥
सर्वाम् एको हि अवष्टभ्य ररक्ष हरि वाहिनीम् ।
कोटी शत परीवारः केसरी पनसो गजः ॥६-४-३३॥
अर्कः च अतिबलः पार्श्वम् एकम् तस्य अभिरक्षति ।
सुषेणो जाम्बवामः चैव ऋक्षैर् बहुभिर् आवृतः ॥६-४-३४॥
सुग्रीवम् पुरतः कृत्वा जघनम् सम्ररक्षतुः ।
तेषाम् सेना पतिर् वीरो नीलो वानर पुम्गवः ॥६-४-३५॥
सम्पतन् पतताम् श्रेष्ठस् तद् बलम् पर्यपालयत् ।
वलीमुखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः ॥६-४-३६॥
सर्वतः च ययुर् वीरास् त्वरयन्तः प्लवम् गमान् ।
एवम् ते हरि शार्दूला गच्चन्तो बल दर्पिताः ॥६-४-३७॥
अपश्यम्स् ते गिरि श्रेष्ठम् सह्यम् द्रुम लता युतम् ।
सागर ओघ निभम् भीमम् तद् वानर बलम् महत् ॥६-४-३८॥
रामस्य शासनम् ज्ञात्वा भीमकोपस्य भीतवत् ।
सागरौघनिभम् भीमम् तद्वानरबलम् महत् ।
निह्ससर्प महाघोषम् भीम वेग इव अर्णवः ॥६-४-४०॥
तस्य दाशरथेः पार्श्वे शूरास् ते कपि कुन्जराः ।
तूर्णम् आपुप्लुवुः सर्वे सद् अश्वा इव चोदिताः ॥६-४-४१॥
कपिभ्याम् उह्यमानौ तौ शुशुभते नर ऋषभौ ।
महद्भ्याम् इव सम्स्पृष्टौ ग्राहाभ्याम् चन्द्र भास्करौ ॥६-४-४२॥
ततो वानरराजेन लक्ष्मणेन सुपूजितः ।
जगाम रामो धर्मात्मा ससैन्यो दक्षिणाम् दिशम् ॥६-४-४३॥
तम् अन्गद गतो रामम् लक्ष्मणः शुभया गिरा ।
उवाच प्रतिपूर्ण अर्थः स्म्Rतिमान् प्रतिभानवान् ॥६-४-४४॥
हृताम् अवाप्य वैदेहीम् क्षिप्रम् हत्वा च रावणम् ।
समृद्ध अर्थः समृद्ध अर्थाम् अयोध्याम् प्रतियास्यसि ॥६-४-४५॥
महान्ति च निमित्तानि दिवि भूमौ च राघव ।
शुभान्ति तव पश्यामि सर्वाणि एव अर्थ सिद्धये ॥६-४-४६॥
अनु वाति शुभो वायुः सेनाम् मृदु हितः सुखः ।
पूर्ण वल्गु स्वराः च इमे प्रवदन्ति मृग द्विजाः ॥६-४-४७॥
प्रसन्नाः च दिशः सर्वा विमलः च दिवा करः ।
उशना च प्रसन्न अर्चिर् अनु त्वाम् भार्गवो गतः ॥६-४-४८॥
ब्रह्म राशिर् विशुद्धः च शुद्धाः च परम ऋषयः ।
अर्चिष्मन्तः प्रकाशन्ते ध्रुवम् सर्वे प्रदक्षिणम् ॥६-४-४९॥
त्रिशन्कुर् विमलो भाति राज ऋषिः सपुरोहितः ॥६-४-५०॥
पितामह वरो अस्माकम् इष्क्वाकूणाम् महात्मनाम् ।
नक्षत्रम् परम् अस्माकम् इक्ष्वाकूणाम् महात्मनाम् ।
नैरृतम् नैरृतानाम् च नक्षत्रम् अभिपीड्यते ॥६-४-५२॥
मूलम् मूलवता स्प्Rष्टम् धूप्यते धूम केतुना ।
सरम् च एतद् विनाशाय राक्षसानाम् उपस्थितम् ॥६-४-५३॥
काले काल गृहीतानाम् नकत्रम् ग्रह पीडितम् ।
प्रसन्नाः सुरसाः च आपो वनानि फलवन्ति च ।
प्रवान्ति अभ्यधिकम् गन्धा यथा ऋतु कुसुमा द्रुमाः ॥६-४-५४॥
व्यूढानि कपि सैन्यानि प्रकाशन्ते अधिकम् प्रभो ।
देवानाम् इव सैन्यानि सम्ग्रामे तारकामये ॥६-४-५५॥
एवम् आर्य समीक्ष्य एतान् प्रीतो भवितुम् अर्हसि ।
इति भ्रातरम् आश्वास्य हृष्टः सौमित्रिर् अब्रवीत् ॥६-४-५६॥
अथ आव्Rत्य महीम् कृत्स्नाम् जगाम महती चमूः ।
ऋक्ष वानर शार्दूलैर् नख दम्ष्ट्र आयुधैर् वृता ॥६-४-५७॥
कर अग्रैः चरण अग्रैः च वानरैर् उद्धतम् रजः ।
भीमम् अन्तर् दधे लोकम् निवार्य सवितुः प्रभाम् ॥६-४-५८॥
सा स्म याति दिवा रात्रम् महती हरि वाहिनी ।
हृष्ट प्रमुदिता सेना सुग्रीवेण अभिरक्षिता ॥६-४-५९॥
उत्तरन्त्याश्च सेनायाः सततम् बहुयोजनम् ।
सराम्सि विमलाम्भाम्सि द्रुमाकीर्णाम्श्च पर्वतान् ।
समान् भूमिप्रदेशाम्श्च वनानि फलवन्ति च ॥६-४-६१॥
मध्येन च समन्ताच्च वनानि फलवन्ति च ।
समावृत्य महीम् कृत्स्नाम् जगाम महती चमूः ॥६-४-६२॥
ते हृष्टवदनाह् सर्वे जग्मुर्मारुतरम्हसः ।
हर्षम् वीर्यम् बलोद्रेकाद्दर्शयन्तः परस्परम् ।
तत्र केचिद्द्रुतम् जग्मुरुत्पेतुश्च तथापरे ।
प्रास्फोटयम्श्च पुच्छानि सम्निजघ्नः पदान्यपि ।
भुजान्विक्षिप्य शैलाम्श्च द्रुमानन्ये बभञ्जरे ॥६-४-६६॥
आरोहन्तश्च शृङ्गाणि गिरीणाम् गिरिगोचराः ।
महानादान् प्रमुञ्चन्ति क्ष्वेडामन्ये प्रचक्रिते ॥६-४-६७॥
जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः ॥६-४-६८॥
ततः शतसहस्रैश्च कोटिभिश्च सहस्रशः ।
वानराणाम् सुघोराणाम् श्रीमत्परिवृता मही ॥६-४-६९॥
सा स्म याति दिवारात्रम् महती हरिवाहिनी ।
वनरास् त्वरितम् यान्ति सर्वे युद्ध अभिनन्दनः ।
मुमोक्षयिषवः सीताम् मुहूर्तम् क्व अपि न आसत ॥६-४-७१॥
ततः पादप सम्बाधम् नाना मृग समाकुलम् ।
सह्य पर्वतम् आसेदुर् मलयम् च मही धरम् ॥६-४-७२॥
काननानि विचित्राणि नदी प्रस्रवणानि च ।
पश्यन्न् अपि ययौ रामः सह्यस्य मलयस्य च ॥६-४-७३॥
चम्पकाम्स् तिलकामः चूतान् अशोकान् सिन्दु वारकान् ।
तिनिशान् करवीरामः च तिमिशान् भन्जन्ति स्म प्लवम् गमाः ॥६-४-७४॥
जम्बूकामलकान्नागान् भजन्ति स्म प्लवङ्गमाः ॥६-४-७५॥
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ।
मारुतः सुखसम्स्पर्शोओ वाति चन्दनशीतलः ।
अधिकम् शैलराजस्तु धातुभिस्तु विभूसितः ।
धातुभ्यः प्रसृतो रेणुर्वायुवेगेन घुट्टितः ॥६-४-७८॥
गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः ॥६-४-७९॥
केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः ।
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिता ॥६-४-८०॥
चिरबिल्वा मधूकाश्च वञ्जुला वकुलास्तथा ।
चूताः पाटलिकाश्चैव कोविदाराश्च पुष्पिताः ।
नीलाशोकाश्च सरला अङ्कोलाः पद्मकास्तथा ।
प्रीयमाणैः प्लवम्गैस्तु सर्वे पर्याकुलीकृताः ॥६-४-८४॥
व्यास्तिस्मिन् गिरौ रम्याः पल्वलानि तथैव च ।
प्लवैः क्रौञ्चे सम्कीर्णा वराहमृगसेविताः ।
ऋक्षैस्तरक्षुभिः सिम्हैः शार्दूलैश्च भयावहैः ॥६-४-८६॥
व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः ।
पद्मेः सौगन्धिकैः पुल्लैः सेव्यमानाः समन्ततः ॥६-४-८७॥
वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ।
तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ॥६-४-८८॥
स्नात्वा पीत्वोदकान्यत्र जले क्रीदन्ति वानराः ।
अन्योन्यम् प्लावयन्ति स्म शैलमारुह्य वानराः ॥६-४-८९॥
फलानि अमृत गन्धीनि मूलानि कुसुमानि च ।
बुभुजुर् वानरास् तत्र पादपानाम् बल उत्कटाः ॥६-४-९०॥
द्रोण मात्र प्रमाणानि लम्बमानानि वानराः ।
ययुः पिबन्तो हृष्टास् ते मधूनि मधु पिन्गलाः ॥६-४-९१॥
पादपान् अवभन्जन्तो विकर्षन्तस् तथा लताः ।
विधमन्तो गिरि वरान् प्रययुः प्लवग ऋषभाः ॥६-४-९२॥
वृक्षेभ्यो अन्ये तु कपयो नर्दन्तो मधु दर्पिताः ।
अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्ति अपि च अपरे ॥६-४-९३॥
बभूव वसुधा तैस् तु सम्पूर्णा हरि पुम्गवैः ।
यथा कमल केदारैः पक्वैर् इव वसुम् धरा ॥६-४-९४॥
महाइन्द्रम् अथ सम्प्राप्य रामो राजीव लोचनः ।
अध्यारोहन् महाबाहुः शिखरम् द्रुम भूषितम् ॥६-४-९५॥
ततः शिखरम् आरुह्य रामो दशरथ आत्मजः ।
कूर्म मीन समाकीर्णम् अपश्यत् सलिल आशयम् ॥६-४-९६॥
ते सह्यम् समतिक्रम्य मलयम् च महागिरिम् ।
आसेदुर् आनुपूर्व्येण समुद्रम् भीम निह्स्वनम् ॥६-४-९७॥
अवरुह्य जगाम आशु वेला वनम् अनुत्तमम् ।
रामो रमयताम् श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥६-४-९८॥
अथ धौत उपल तलाम् तोय ओघैः सहसा उत्थितैः ।
वेलाम् आसाद्य विपुलाम् रामो वचनम् अब्रवीत् ॥६-४-९९॥
एते वयम् अनुप्राप्ताः सुग्रीव वरुण आलयम् ।
इह इदानीम् विचिन्ता सा या न पूर्वम् समुत्थिता ॥६-४-१००॥
अतः परम् अतीरो अयम् सागरः सरिताम् पति ।
न च अयम् अनुपायेन शक्यस् तरितुम् अर्णवः ॥६-४-१०१॥
तद् इह एव निवेशो अस्तु मन्त्रः प्रस्तूयताम् इह ।
यथा इदम् वानर बलम् परम् पारम् अवाप्नुयात् ॥६-४-१०२॥
इति इव स महाबाहुः सीता हरण कर्शितः ।
रामः सागरम् आसाद्य वासम् आज्ञापयत् तदा ॥६-४-१०३॥
सर्वाः सेना निवेश्यन्ताम् वेलायाम् हरिपुङ्गव ।
सम्प्राप्तो मन्त्र कालो नः सागरस्य इह लन्घने ॥६-४-१०४॥
स्वाम् स्वाम् सेनाम् समुत्स्Rज्य मा च कश्चित् कुतो व्रजेत् ।
गच्चन्तु वानराः शूरा ज्ञेयम् चन्नम् भयम् च नः ॥६-४-१०५॥
रामस्य वचनम् श्रुत्वा सुग्रीवः सह लक्ष्मणः ।
सेनाम् न्यवेशयत् तीरे सागरस्य द्रुम आयुते ॥६-४-१०६॥
विरराज समीपस्थम् सागरस्य तु तद् बलम् ।
मधु पाण्डु जलः श्रीमान् द्वितीय इव सागरः ॥६-४-१०७॥
वेला वनम् उपागम्य ततस् ते हरि पुम्गवाः ।
विनिविष्टाः परम् पारम् कान्क्षमाणा महाउदधेः ॥६-४-१०८॥
सा महाअर्णवम् आसाद्य ह्Rष्टा वानर वाहिनी ।
त्रिधा निविष्टा महती रामस्यार्थपराभवत् ॥६-४-११०॥
सा महार्णवमासाद्य हृष्टा वानरवाहिनी ।
वायु वेग समाधूतम् पश्यमाना महाअर्णवम् ॥६-४-१११॥
दूर पारम् असम्बाधम् रक्षो गण निषेवितम् ।
पश्यन्तो वरुण आवासम् निषेदुर् हरि यूथपाः ॥६-४-११२॥
चण्ड नक्र ग्रहम् घोरम् क्षपा आदौ दिवस क्षये ।
चन्द्र उदये समाधूतम् प्रतिचन्द्र समाकुलम् ।
चण्ड अनिल महाग्राहैः कीर्णम् तिमि तिमिम्गिलैः ॥६-४-११४॥
दीप्त भोगैर् इव आक्रीर्णम् भुजम्गैर् वरुण आलयम् ।
अवगाढम् महासत्तैर् नाना शैल समाकुलम् ॥६-४-११५॥
सुदुर्गम् द्रुगम् अमार्गम् तम् अगाधम् असुर आलयम् ।
मकरैर् नाग भोगैः च विगाढा वात लोहिताः ॥६-४-११६॥
उत्पेतुः च निपेतुः च प्रवृद्धा जल राशयः ।
अग्नि चूर्णम् इव आविद्धम् भास्कर अम्बु मनो रगम् ॥६-४-११७॥
सुर अरि विषयम् घोरम् पाताल विषमम् सदा ।
सागरम् च अम्बर प्रख्यम् अम्बरम् सागर उपमम् ।
सागरम् च अम्बरम् च इति निर्विशेषम् अदृश्यत ॥६-४-११८॥
सम्पृक्तम् नभसा हि अम्भः सम्प्Rक्तम् च नभो अम्भसा ॥६-४-११९॥
ताद्Rग् रूपे स्म द्Rश्येते तारा रत्न समाकुले ।
समुत्पतित मेघस्य वीच्चि माला आकुलस्य च ।
विशेषो न द्वयोर् आसीत् सागरस्य अम्बरस्य च ॥६-४-१२०॥
अन्योन्यैर् आहताः सक्ताः सस्वनुर् भीम निह्स्वनाः ॥६-४-१२१॥
ऊर्मयः सिन्धु राजस्य महाभेर्य इव आहवे ।
रत्न ओघ जल सम्नादम् विषक्तम् इव वायुना ॥६-४-१२२॥
उत्पतन्तम् इव क्रुद्धम् यादो गण समाकुलम् ।
ददृशुस् ते महात्मानो वात आहत जल आशयम् ॥६-४-१२३॥
अनिल उद्धूतम् आकाशे प्रवल्गतम् इव ऊर्मिभिः ।
ततो विस्मयामापन्ना हरयो ददृशुः स्थिताः ॥६-४-१२४॥
ब्रान्त ऊर्मि जल सम्नादम् प्रलोलम् इव सागरम् ।
सा तु नीलेन विधिवत् स्वारक्षा सुसमाहिता ।
सागरस्य उत्तरे तीरे साधु सेना विनिएशिता ॥६-५-१॥
मैन्दः च द्विविधः च उभौ तत्र वानर पुम्गवौ ।
विचेरतुः च ताम् सेनाम् रक्षा अर्थम् सर्वतो दिशम् ॥६-५-२॥
निविष्टायाम् तु सेनायाम् तीरे नद नदी पतेः ।
पार्श्वस्थम् लक्ष्मणम् दृष्ट्वा रामो वचनम् अब्रवीत् ॥६-५-३॥
शोकः च किल कालेन गच्चता हि अपगच्चति ।
मम च अपश्यतः कान्ताम् अहनि अहनि वर्धते ॥६-५-४॥
न मे दुह्खम् प्रिया दूरे न मे दुह्खम् हृता इति च ।
तद् एव अनुशोचामि वयो अस्या हि अतिवर्तते ॥६-५-५॥
वाहि वात यतः कन्या ताम् स्पृष्ट्वा माम् अपि स्पृश ।
त्वयि मे गात्र सम्स्पर्शः चन्द्रे दृष्टि समागमः ॥६-५-६॥
तन् मे दहति गात्राणि विषम् पीतम् इव आशये ।
हा नाथ इति प्रिया सा माम् ह्रियमाणा यद् अब्रवीत् ॥६-५-७॥
तद् वियोग इन्धनवता तच् चिन्ता विपुल अर्चिषा ।
रात्रिम् दिवम् शरीरम् मे दह्यते मदन अग्निना ॥६-५-८॥
अवगाह्य अर्णवम् स्वप्स्ये सौमित्रे भवता विना ।
कथम्चित् प्रज्वलन् कामः समासुप्तम् जले दहेत् ॥६-५-९॥
बह्व् एतत् कामयानस्य शक्यम् एतेन जीवितुम् ।
यद् अहम् सा च वाम ऊरुर् एकाम् धरणिम् आश्रितौ ॥६-५-१०॥
केदारस्य इव केदारः स उदकस्य निरूदकः ।
उपस्नेहेन जीवामि जीवन्तीम् यत् शृणोमि ताम् ॥६-५-११॥
कदा तु खलु सुस्शोणीम् शत पत्र आयत ईक्षणाम् ।
विजित्य शत्रून् द्रक्ष्यामि सीताम् स्फीताम् इव श्रियम् ॥६-५-१२॥
कदा नु चारु बिम्ब ओष्ठम् तस्याः पद्मम् इव आननम् ।
ईषद् उन्नम्य पास्यामि रसायनम् इव आतुरः ॥६-५-१३॥
कदा नु खलु स उत्कम्पौ हसन्त्या माम् भजिष्यतः ॥६-५-१४॥
सा नूनम् असित अपान्गी रक्षो मध्य गता सती ।
मन् नाथा नाथ हीना इव त्रातारम् न अधिगच्चति ॥६-५-१५॥
कदा विक्षोभ्य रक्षाम्सि सा विधूय उत्पतिष्यति ।
राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥६-५-१६॥
अविक्षोभ्याणि रक्षाम्सि सा विधूयोत्पतिष्यति ।
विधूय जलदान् नीलान् शशि लेखा शरत्स्व् इव ॥६-५-१७॥
स्वभाव तनुका नूनम् शोकेन अनशनेन च ।
भूयस् तनुतरा सीता देश काल विपर्ययात् ॥६-५-१८॥
कदा नु राक्षस इन्द्रस्य निधाय उरसि सायकान् ।
सीताम् प्रत्याहरिष्यामि शोकम् उत्सृज्य मानसम् ॥६-५-१९॥
स उत्कण्ठा कण्ठम् आलम्ब्य मोक्ष्यति आनन्दजम् जलम् ॥६-५-२०॥
कदा शोकम् इमम् घोरम् मैथिली विप्रयोगजम् ।
सहसा विप्रमोक्ष्यामि वासः शुक्ल इतरम् यथा ॥६-५-२१॥
एवम् विलपतस् तस्य तत्र रामस्य धीमतः ।
दिन क्षयान् मन्द वपुर् भास्करो अस्तम् उपागमत् ॥६-५-२२॥
आश्वासितो लक्ष्मणेन रामः सम्ध्याम् उपासत ।
स्मरन् कमल पत्र अक्षीम् सीताम् शोक आकुली कृतः ॥६-५-२३॥
लंकायाम् तु कृतम् कर्म घोरम् दृष्ट्वा भव आवहम् ।
राक्षस इन्द्रो हनुमता शक्रेण इव महात्मना ॥६-६-१॥
अब्रवीद् राक्षसान् सर्वान् ह्रिया किम्चिद् अवान् मुखः ।
धर्षिता च प्रविष्टा च लंका दुष्प्रसहा पुरी ॥६-६-२॥
तेन वानर मात्रेण दृष्टा सीता च जानकी ।
प्रसादो धर्षितः चैत्यः प्रवरा राक्षसा हताः ॥६-६-३॥
किम् करिष्यामि भद्रम् वः किम् वा युक्तम् अनन्तरम् ॥६-६-४॥
उच्यताम् नः समर्थम् यत् कृतम् च सुकृतम् भवेत् ।
मन्त्र मूलम् हि विजयम् प्राहुर् आर्या मनस्विनः ॥६-६-५॥
तस्माद् वै रोचये मन्त्रम् रामम् प्रति महाबलाः ।
त्रिविधाः पुरुषा लोके उत्तम अधम मध्यमाः ॥६-६-६॥
तेषाम् तु समवेतानाम् गुण दोषम् वदामि अहम् ।
मन्त्रिभिर् हित सम्युक्तैः समर्थैर् मन्त्र निर्णये ॥६-६-७॥
मित्रैर् वा अपि समान अर्थैर् बान्धवैर् अपि वा हितैः ।
सहितो मन्त्रयित्वा यः कर्म आरम्भान् प्रवर्तयेत् ॥६-६-८॥
दैवे च कुरुते यत्नम् तम् आहुः पुरुष उत्तमम् ।
एको अर्थम् विम्Rशेद् एको धर्मे प्रकुरुते मनः ॥६-६-९॥
एकः कार्याणि कुरुते तम् आहुर् मध्यमम् नरम् ।
गुण दोषाव् अनिश्चित्य त्यक्त्वा दैव व्यपाश्रयम् ॥६-६-१०॥
करिष्यामि इति यः कार्यम् उपेक्षेत् स नर अधमः ।
यथा इमे पुरुषा नित्यम् उत्तम अधम मध्यमाः ॥६-६-११॥
एवम् मन्त्रो अपि विज्ञेय उत्तम अधम मध्यमः ।
ऐकमत्यम् उपागम्य शास्त्र दृष्टेन चक्षुषा ॥६-६-१२॥
मन्त्रिणो यत्र निरस्तास् तम् आहुर् मन्त्रम् उत्तमम् ।
बह्व्यो अपि मतयो गत्वा मन्त्रिणो हि अर्थ निर्णये ॥६-६-१३॥
पुनर् यत्र एकताम् प्राप्तः स मन्त्रो मध्यमः स्मृतः ।
अन्योन्य मतिम् आस्थाय यत्र सम्प्रतिभाष्यते ॥६-६-१४॥
न च ऐकमत्ये श्रेयो अस्ति मन्त्रः सो अधम उच्यते ।
तस्मात् सुमन्त्रितम् साधु भवन्तो मन्त्रि सत्तमाः ॥६-६-१५॥
कार्यम् सम्प्रतिपद्यन्ताम् एतत् कृत्यतमम् मम ।
वानराणाम् हि वीराणाम् सहस्रैः परिवारितः ॥६-६-१६॥
रामो अभ्येति पुरीम् लंकाम् अस्माकम् उपरोधकः ।
तरिष्यति च सुव्यक्तम् राघवः सागरम् सुखम् ॥६-६-१७॥
तरसा युक्त रूपेण सानुजः सबल अनुगः ।
तस्मिन्न् एवम् गते कार्ये विरुद्धे वानरैः सह ।
हितम् पुरे च सैन्ये च सर्वम् सम्मन्त्र्यताम् मम ॥६-६-१९॥
इति उक्ता राक्षस इन्द्रेण राक्षसास्ते महाबलाः ।
ऊचुः प्रान्जलयः सर्वे रावणम् राक्षस ईश्वरम् ॥६-७-१॥
राजन् परिघ शक्ति ऋष्टि शूल पट्टस सम्कुलम् ॥६-७-२॥
सुमहन् नो बलम् कस्माद् विषादम् भजते भवान् ।
त्वया भोगवतीम् गत्वा निर्जताः पन्नगा युधि ॥६-७-३॥
कैलास शिखर आवासी यक्षैर् बहुभिर् आवृतः ।
सुमहत् कदनम् कृत्वा वश्यस् ते धनदः कृतः ॥६-७-४॥
स महाईश्वर सख्येन श्लाघमानस् त्वया विभो ।
निर्जितः समरे रोषाल् लोक पालो महाबलः ॥६-७-५॥
विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च ।
त्वया कैलास शिखराद् विमानम् इदम् आहृतम् ॥६-७-६॥
मयेन दानव इन्द्रेण त्वद् भयात् सख्यम् इच्चता ।
दुहिता तव भार्या अर्थे दत्ता राक्षस पुम्गव ॥६-७-७॥
विगृह्य वशम् आनीतः कुम्भीनस्याः सुख आवहः ॥६-७-८॥
निर्जितास् ते महाबाहो नागा गत्वा रसा तलम् ।
वासुकिस् तक्षकः शन्खो जटी च वशम् आहृताः ॥६-७-९॥
अक्षया बलवन्तः च शूरा लब्ध वराः पुनः ।
त्वया सम्वत्सरम् युद्ध्वा समरे दानवा विभो ॥६-७-१०॥
स्व बलम् समुपाश्रित्य नीता वशम् अरिम् दम ।
मायाः च अधिगतास् तत्र बहवो राक्षस अधिप ॥६-७-११॥
शूराः च बलवन्तः च वरुणस्य सुता रणे ।
निर्जितास् ते महाबाग चतुर् विध बल अनुगाः ॥६-७-१२॥
मृत्यु दण्ड महाग्राहम् शाल्मलि द्वीप मण्डितम् ।
अवगाह्य त्वया राजन् यमस्य बल सागरम् ॥६-७-१४॥
जयः च विप्लुलः प्राप्तो मृत्युः च प्रतिषेधितः ।
सुयुद्धेन च ते सर्वे लोकास् तत्र सुतोषिताः ॥६-७-१५॥
क्षत्रियैर् बहुभिर् वीरैः शक्र तुल्य पराक्रमैः ।
आसीद् वसुमती पूर्णा महद्भिर् इव पादपैः ॥६-७-१६॥
प्रसह्य ते त्वया राजन् हताः परम दुर्जयाः ॥६-७-१७॥
तिष्ठ वा किम् महाराज श्रमेण तव वानरान् ।
अयमेको महारज इन्द्रजित् क्षपयिष्यति ॥६-७-१८॥
अनेन हि महाराज महेश्वरमनुत्तमम् ।
इष्ट्वा यज्ञम् वरो लब्धो लोके परमदुर्लभः ॥६-७-१९॥
अनेन हि समासाद्य देवानाम् बलसागम् ।
गृहीतो दैवतपतिर्लङ्काम् चापि प्रवेशितः ॥६-७-२२॥
तमेव त्वम् महाराज विसृजेन्द्रजितम् सुतम् ।
यावद्वानरसेनाम् ताम् परामाम् नयति क्ष्हयम् ॥६-७-२४॥
राजन् न आपद् अयुक्ता इयम् आगता प्राकृताज् जनात् ।
हृदि न एव त्वया कार्या त्वम् वधिष्यसि राघवम् ॥६-७-२५॥
ततो नील अम्बुद निभः प्रहस्तो नाम राक्षसः ।
अब्रवीत् प्राञ्जलिर् वाक्यम् शूरः सेना पतिस्तदा ॥६-८-१॥
देव दानव गन्धर्वाः पिशाचपतगौरगाः ।
न त्वाम् धर्षयितुम् शक्ताः किम् पुनर् वानरा रणे ॥६-८-२॥
सर्वे प्रमत्ता विश्वस्ता वन्चिताः स्म हनूमता ।
न हि मे जीवतो गच्चेज् जीवन् स वन गोचरः ॥६-८-३॥
सर्वाम् सागर पर्यन्ताम् सशैल वन काननाम् ।
करोमि अवानराम् भूमिम् आज्ञापयतु माम् भवान् ॥६-८-४॥
रक्षाम् चैव विधास्यामि वानराद् रजनी चर ।
न आगमिष्यति ते दुह्खम् किम्चिद् आत्म अपराधजम् ॥६-८-५॥
अब्रवीत्तम् सुसम्क्रुद्धो दुर्मुखो नाम राक्षसः ।
इदम् न क्षमणीयम् हि सर्वेषाम् नः प्रधर्षणम् ॥६-८-६॥
अयम् परिभवो भूयः पुरस्य अन्तः पुरस्य च ।
श्रीमतो राक्षस इन्द्रस्य वानर इन्द्र प्रधर्षणम् ॥६-८-७॥
अस्मिन् मुहूर्ते हत्वा एको निवर्तिष्यामि वानरान् ।
प्रविष्टान् सागरम् भीमम् अम्बरम् वा रसा तलम् ॥६-८-८॥
ततो अब्रवीत् सुसम्क्रुद्धो वज्र दम्ष्ट्रो महाबलः ।
प्रगृह्य परिघम् घोरम् माम्स शोणित रूपितम् ॥६-८-९॥
किम् नो हनुमता कार्यम् कृपणेन तपस्विना ।
रामे तिष्ठति दुर्धर्षे सुग्रीवे सह लक्ष्मणे ॥६-८-१०॥
अद्य रामम् ससुग्रीवम् परिघेण सलक्ष्मणम् ।
आगमिष्यामि हत्वा एको विक्षोभ्य हरि वाहिनीम् ॥६-८-११॥
इदम् ममापरम् वाक्यम् शृणु राजन्यदीच्चसि ।
कामरूपधराः शूराः सुभीमा भीमदर्शनाः ।
राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः ॥६-८-१३॥
काकुत्थ्समुपसम्गम्य बिभ्रतो मानुषम् वपुः ।
सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥६-८-१४॥
प्रेषिता भरतेनैव भ्रात्रा तव यवीयसा ।
स हि सेनाम् समुत्थाप्य क्षिप्रमेवोपयास्यति ॥६-८-१५॥
आकाशे गणशः स्थित्वा हत्वा ताम् हरिवाहिनीम् ।
कौम्भकर्णिस् ततो वीरो निकुम्भो नाम वीर्यवान् ।
अब्रवीत् परम कुर्द्धो रावणम् लोक रावणम् ॥६-८-१९॥
सर्वे भवन्तस् तिष्ठन्तु महाराजेन सम्गताः ।
अहम् एको हनिष्यामि राघवम् सह लक्ष्मणम् ॥६-८-२०॥
सुग्रीवम् सहनूमन्तम् सर्वाम्श्चैवात्र वानरान् ।
ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ॥६-८-२१॥
क्रुद्धः परिलिहन् वक्त्रम् जिह्वया वाक्यम् अब्रवीत् ।
स्वैरम् कुर्वन्तु कार्याणि भवन्तो विगत ज्वराः ॥६-८-२२॥
एको अहम् भक्षयिष्यामि तान् सर्वान् हरि यूथपान् ।
स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु वारुणीम् ॥६-८-२३॥
अहम् एको हनिष्यामि सुग्रीवम् सह लक्ष्मणम् ।
स अन्गदम् च हनूमन्तम् रामम् च रण कुन्जरम् ॥६-८-२४॥
ततो निकुम्भो रभसः सूर्य शत्रुर् महाबलः ।
सुप्तघ्नो यज्ञ कोपः च महापार्श्वो महाउअरः ॥६-९-१॥
अग्नि केतुः च दुर्धर्षो रश्मि केतुः च राक्षसः ।
इन्द्रजिच् च महातेजा बलवान् रावण आत्मजः ॥६-९-२॥
प्रहस्तो अथ विरूप अक्षो वज्र दम्ष्ट्रो महाबलः ।
धूम्र अक्षः च अतिकायः च दुर्मुखः चैव राक्षसः ॥६-९-३॥
परिघान् पट्टसान् प्रासान् शक्ति शूल परश्वधान् ।
चापानि च सबाणानि खड्गामः च विपुलान् शितान् ॥६-९-४॥
प्रगृह्य परम क्रुद्धाः समुत्पत्य च राक्षसाः ।
अब्रुवन् रावणम् सर्वे प्रदीप्ता इव तेजसा ॥६-९-५॥
अद्य रामम् वधिष्यामः सुग्रीवम् च सलक्ष्मणम् ।
कृपणम् च हनूमन्तम् लंका येन प्रधर्षिता ॥६-९-६॥
तान् गृहीत आयुधान् सर्वान् वारयित्वा विभीषणः ।
अब्रवीत् प्रान्जलिर् वाक्यम् पुनः प्रत्युपवेश्य तान् ॥६-९-७॥
अपि उपायैस् त्रिभिस् तात यो अर्थः प्राप्तुम् न शक्यते ।
तस्य विक्रम कालाम्स् तान् युक्तान् आहुर् मनीषिणः ॥६-९-८॥
प्रमत्तेष्व् अभियुक्तेषु दैवेन प्रहतेषु च ।
विक्रमास् तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥६-९-९॥
अप्रमत्तम् कथम् तम् तु विजिगीषुम् बले स्थितम् ।
जित रोषम् दुराधर्षम् प्रधर्षयितुम् इच्चथ ॥६-९-१०॥
समुद्रम् लन्घयित्वा तु घोरम् नद नदी पतिम् ।
कृतम् हनुमता कर्म दुष्करम् तर्कयेत कः ॥६-९-११॥
बलानि अपरिमेयानि वीर्याणि च निशा चराः ।
परेषाम् सहसा अवज्ञा न कर्तव्या कथम्चन ॥६-९-१२॥
किम् च राक्षस राजस्य रामेण अपकृतम् पुरा ।
आजहार जन स्थानाद् यस्य भार्याम् यशस्विनः ॥६-९-१३॥
खरो यदि अतिवृत्तस् तु रामेण निहतो रणे ।
अवश्यम् प्राणिनाम् प्राणा रक्षितव्या यथा बलम् ॥६-९-१४॥
एतन् निमित्तम् वैदेही भयम् नः सुमहद् भवेत् ।
आहृता सा परित्याज्या कलह अर्थे क्Rते न किम् ॥६-९-१५॥
न नः क्षमम् वीर्यवता तेन धर्म अनुवर्तिना ।
वैरम् निरर्थकम् कर्तुम् दीयताम् अस्य मैथिली ॥६-९-१६॥
यावन् सगजाम् साश्वाम् बहु रत्न समाकुलाम् ।
पुरीम् दारयते बाणैर् दीयताम् अस्य मैथिली ॥६-९-१७॥
यावत् सुघोरा महती दुर्धर्षा हरि वाहिनी ।
न अवस्कन्दति नो लंकाम् तावत् सीता प्रदीयताम् ॥६-९-१८॥
विनश्येद्द् हि पुरी लंका शूराः सर्वे च आक्षसाः ।
रामस्य दयिता पत्नी न स्वयम् यदि दीयते ॥६-९-१९॥
प्रसादये त्वाम् बन्धुत्वात् कुरुष्व वचनम् मम ।
हितम् पथ्यम् त्व् अहम् ब्रूमि दीयताम् अस्य मैथिली ॥६-९-२०॥
पुरा शरत् सूर्य मरीच्चि सम्निभान् ।
नव अग्र पुन्खान् सुदृढान् नृप आत्मजः ।
सृजति अमोघान् विशिखान् वधाय ते ।
त्यजस्व कोपम् सुख धर्म नाशनम् ।
भजस्व धर्मम् रति कीर्ति वर्धनम् ।
प्रसीद जीवेम सपुत्र बान्धवाः ।
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।
विसर्जयित्वा तान् सर्वान् प्रैवेश स्वकम् गृहम् ॥६-९-२३॥
ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः ।
अग्रजस्यालयम् वीरः प्रविवेश महाद्युतिः ॥६-१०-७॥
पूजितान् दधिपात्रैश्च सर्पिर्भिः सुमनोक्षतैः ।
मन्त्रवेदविदो विप्रान् ददर्श स महाबलः ॥६-१०-९॥
स पूज्यमानो रक्षोभिद्दीप्यमानम् स्वतेजसा ।
स रावणम् महात्मानम् विजने मन्त्रिसम्निधौ ।
उवाच हितमत्यर्थम् वचनम् हेतुनिश्चितम् ॥६-१०-१२॥
प्रसाद्य भ्रातरम् ज्येष्ठम् सान्त्वेनोपस्थितक्रमः ।
यदा प्रभृति वैदेही सम्प्राप्तेह परतप ।
तदा प्रभृति दृश्यन्ते निमित्तान्यशुभानि नः ॥६-१०-१४॥
अग्निष्ठेष्वग्निशालासु तथा ब्रह्मस्थलीषु च ।
परीपृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥६-१०-१६॥
गवाम् पयाम्सि स्कन्नानि विमदा वरकुञ्जराः ।
दीनमश्वाः प्रहेषन्ते न च ग्रासाभिनन्दिनः ॥६-१०-१७॥
खरोष्ट्राश्वतरा राजन्भिन्न्रोमाः स्रवन्ति च ।
न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तताः ॥६-१०-१८॥
वायसाः सघशः क्रूरा व्याहरन्ति समन्ततः ।
समवेताश्च दृश्यन्ते विमानाग्रेषु सम्घशः ॥६-१०-१९॥
गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः ।
उपपन्नाश्च सम्ध्ये द्वे व्याहरन्त्यशिवम् शिवाः ॥६-१०-२०॥
क्रव्यादानाम् मृगाणाम् च पुरीद्वारेषु सज्~घशः ।
श्रूयन्ते विपुला घोषाः सविस्फूर्जितनिःस्वनाः ॥६-१०-२१॥
तदेवम् प्रस्तुते कार्ते प्रायश्चित्तमिदम् क्षमम् ।
रोचये वीर वैदेही राघवाय प्रदीयताम् ॥६-१०-२२॥
इदम् च यदि वामोहाल्लोभाद्वा व्याहृतम् मया ।
तत्राप् च महाराज न दोषम् कर्तुमर्हसि ॥६-१०-२३॥
अयम् हि दोषः सर्वस्य जनस्याप्योपलक्ष्यते ।
रक्षसाम् राक्षसीनाम् च पुरस्यान्तः पुरस्य च ॥६-१०-२४॥
प्रापणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः ।
अवश्यम् च मया वाच्यम् यद्दृष्टमथवा श्रुतम् ॥६-१०-२५॥
सम्विधाय यथान्यायम् तद्भवान् कर्तुमर्हति ।
इति स्वमन्त्रिणाम् मध्ये भ्राता भ्रातरमूचिवान् ॥६-१०-२६॥
रावणम् रक्षसाम् श्रेष्ठम् पथ्यमेतद्विभीषणः ।
हितम् महार्थम् मऋदु हेतुसम्हितम् ।
भयम् न पश्यामि कुतश्चिदप्यहम् ।
न राघवः प्राप्स्यति जातु मैथिलीम् ।
सुरैः सहेन्द्रैरपि सम्गरे कथम् ।
स बभुव कृशो राजा मैथिलीकाममोहितः ।
असन्मानाच्च सुहृदाम् पापः पापेन कर्मणाः ॥६-११-१॥
अतीतसमये काले तस्मिन्वे युधि रावणः ।
प्रययौ रक्षसाम् श्रेष्ठो दशग्रीवः सभाम् प्रति ॥६-११-४॥
पार्श्वतः पृष्ठतश्चैनम् परिवार्य ययुस्तदा ॥६-११-६॥
रथैश्चातिरथा शीघ्रम् मतैश्च वरवारणैः ।
ततस्तूर्यसहस्राणाम् सम्जज्ञे निःस्वनो महान् ।
तुमुलः शङ्खशब्दश्च सभाम् गच्चति रवणे ॥६-११-९॥
राजमार्गम् श्रिया जुष्टम् प्रतिपेदे महारथः ॥६-११-१०॥
विमलम् चातपत्रम् च पगृहीतमशोभत ।
पाण्डुरम् राक्षसेन्द्रस्य पूर्णस्तारधिपो यथा ॥६-११-११॥
चामरव्यजने तस्य रेजतुः सव्यदक्षिणे ॥६-११-१२॥
ते कृताञ्जलयः सर्वे रथस्थम् पृथिवीस्थिताः ।
राक्ष्सा राक्षसश्रेष्ठम् शिरोभिस्तम् ववन्दिरे ॥६-११-१३॥
राक्षनैः स्तूयमानः सन् जयाशीर्भिररिम्दमः ।
अससाद महातेजाः सभाम् विरचिताम् तदा ॥६-११-१४॥
ताम् पिशाचशतैः षड्भिरभिगुप्ताम् सदाप्रभाम् ।
प्रविवेश महातेजाः सुकृताम् विश्वकर्मणा ॥६-११-१६॥
तस्याम् स वैदूर्यमयम् प्रियाकाजिनसम्वृतम् ।
महत्सोपाश्रयम् भेजे रावणः परमासनम् ॥६-११-१७॥
समानयत मे क्षिप्रमिहैतान् राक्षसानिति ॥६-११-१८॥
कृत्यमस्ति महाज्जाने कर्तव्यमिति शत्रुभिः ।
राक्षसास्तद्वचः श्रुत्वा लङ्कायाम् परिचक्रमुः ॥६-११-१९॥
उद्यानेषु च रक्क्षम्सि चोदयन्तो ह्यभीतवत् ॥६-११-२०॥
ते रथान् रुचिरानेके दृप्तानेके दृढान् हयान् ।
सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः ।
ते वाहनान्यवस्थाप्य यानानि विविधानि च ।
सभाम् पद्भिः प्रविविशुः सिम्हा गिरिगुहामिव ॥६-११-२३॥
राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः ।
पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥६-११-२४॥
ते समेत्य सभायाम् वै राक्षसा राजशासनात् ।
मन्त्रिणश्च यथामुख्या निश्चितार्थेषु पण्डिताः ।
अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥६-११-२६॥
समीयुस्तत्र शतशः शूराश्च बहवस्तथा ।
सभायाम् हेमवर्णायाम् सर्वार्थस्य सुखाय वै ॥६-११-२७॥
ततो महात्मा विपुलम् सुयुग्यम् ।
शुभम् समास्थाय ययौ यशस्वी ।
ना माथ पश्चाच्चरणौ ववन्दे ।
शुकः प्रहस्तश्च तथैव तेभ्यो ।
स्रजाम् च गन्धाः प्रववुः समन्तात् ॥६-११-३०॥
भर्तुः सर्वे ददृशुश्चाननम् ते ॥६-११-३१॥
स रावणः शस्त्रभृताम् मनस्विनाम् ।
तप्याम् सभायाम् प्रभया चकाशे ।
स ताम् परिषदम् कृत्स्नाम् समीक्ष्य समितिम्जयः ।
प्रबोधयामास तदा प्रहस्तम् वाहिनीपतिम् ॥६-१२-१॥
सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः ।
योधा नगररक्षायाम् तथा व्यादेष्टुमर्हसि ॥६-१२-२॥
स प्रहस्तः प्रतीतात्मा चिकीर्षन् राजशासनम् ।
विनिक्षिपद् बलम् सर्वम् बहिरन्तश्च मन्दिरे ॥६-१२-३॥
ततो विनिक्षिप्य बलम् सर्वम् नगरगुप्तये ।
प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥६-१२-४॥
विहितम् बहिरन्तश्च बलम् बलवतस्तव ।
कुरुष्वाविमनाः क्षिप्रम् यदभिप्रेतमस्ति ते ॥६-१२-५॥
प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः ।
सुखेप्सुः सुहृदाम् मध्ये व्याजहार स रावणः ॥६-१२-६॥
प्रियाप्रिये सुख दुःखम् लाभालाभे सिताहिते ।
सर्वकृत्यानि युष्माभिः समारब्धनि सर्वदा ।
मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥६-१२-८॥
अहम् तु खलु सर्वन्वः समर्थयुतुमुद्यतः ।
अयम् हि सुप्तः ष्ण्मासान् कुम्भकर्णो महाबलः ।
सर्वशस्त्रभृतम् मुख्यः स इदानीम् समुत्थितः ॥६-१२-११॥
इयम् च दण्डकारण्Yआद्रामस्य महिषी प्रिया ।
सा मे न शय्यामारोढुमिच्चत्यलसगामिनी ।
त्रिषुलोकेषु चान्या मे न सीतासदृशी मता ॥६-१२-१३॥
सुलोहिततलौ श्लक्क्षणौ चरणौ सुप्रतिष्ठतौ ।
दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥६-१२-१५॥
उन्नसम् विमलम् वल्गु वदनम् चारुलोचनम् ॥६-१२-१६॥
सा तु सम्वत्सरम् कालम् मामयाचत भामिनी ॥६-१२-१८॥
तन्मया चारुनेत्रायाः प्रतिज्ञातम् वचः शुभम् ॥६-१२-१९॥
श्रान्तोऽहम् सततम् कामाद्यातो हय इवाध्वनि ।
कथम् सागरमक्षोभ्यम् तरिष्यन्ति वनौकसः ॥६-१२-२०॥
बहुसत्त्वसमाकीर्णम् तौ वा दशरथात्मजौ ।
अथवा कपिनैकेन कृतम् नः कदनम् महत् ॥६-१२-२१॥
दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति ।
मानुषान्नो भयम् नास्ति तथापि तु विमृश्यताम् ॥६-१२-२२॥
तदा देवासुरे युद्दे युष्माभिः सहितोऽजयम् ।
ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥६-१२-२३॥
परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ ।
सीतायाः पदवीम् प्राप्य सम्प्राप्तौ वरुणालयम् ॥६-१२-२४॥
अदेया च यथा सीता वध्यौ दशरथात्मजौ ।
भवद्भिर्मन्त्य्रताम् मन्त्रः सुनीतम् चाभिधीयताम् ॥६-१२-२५॥
न हि शक्तिम् प्रपश्यामि जगत्यन्यस्य कस्यचित् ।
सागरम् वानरैस्तीर्त्वा विश्चयेन जयो मम ॥६-१२-२६॥
तस्य कामपरीतस्य निशम्य परिदेवितम् ।
कुम्भकर्णः प्रचुक्रोध वचनम् चेदमब्रवीत् ॥६-१२-२७॥
यदा तु रामस्य सलक्ष्मणस्य ।
भजेत चित्तम् यमुनेव यामुनम् ॥६-१२-२८॥
न्यायेन राजकार्याणि यः करोति दशानन ।
न स सम्तप्यते पश्चान्निश्चतार्थमतिर्नृपः ॥६-१२-३०॥
अनुपायेन कर्माणि विपरीतानि यानि च ।
पूर्वम् चापरकर्याणि न स वेद नयानयौ ॥६-१२-३२॥
चपलस्य तु कृत्येषु प्रसमीक्स्याधिकम् बलम् ।
चिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥६-१२-३३॥
त्वयेदम् महादारभम् कार्य मप्रतिचिन्तितम् ।
दिष्ट्या त्वाम् नावधीद्रामो विषमिश्रमिवामृतम् ॥६-१२-३४॥
तस्मात्त्वया समारब्धम् कर्म ह्यप्रतिमम् परैः ।
अहम् समीकरिष्यामि हत्वा शत्रूम् स्तनानघ ॥६-१२-३५॥
यदि शक्रविवस्वन्तौ यदि पावकमारुतौ ॥६-१२-३६॥
पुनर्माम् सद्वितीयेन शरेण निहनिष्यति ॥६-१२-३८॥
ततोऽहम् तस्य पास्यामि रुधिरम् काममाश्वस ।
वधेव वै दाशरथेह् सुखावहम् ।
हत्वा च रामम् सह लक्ष्मणेन ।
रमस्व कामम् पिब चाग्र्यवारुणीम् ।
कुरुष्व कार्वाणि हितानि विज्वरः ।
मया तु रामे गमिते यमक्षयम् ।
चिराय सीता वशगा भविष्यति ॥६-१२-४०॥
रावणम् क्रुद्धमाज्ञाय महापार्श्वो महाबलः ।
मुहूर्त मनुसम्चिन्त्य प्राञ्जलिर्वाक्य मब्रवीत् ॥६-१३-१॥
यः खल्वपि वनम् प्राप्य मृगव्यालनिषेवितम् ।
न पिबेन्मधु सम्प्राप्य स नरो बालिशो ध्रुवम् ॥६-१३-२॥
ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण ।
रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ॥६-१३-३॥
अक्रम्याक्रम्य सीताम् वै ताम् भुङिक्स्व च रमस्व च ॥६-१३-४॥
लब्धकामस्य ते पश्चादागमिष्यति किम् भयम् ।
प्राप्तमप्राप्तकालम् वा सर्वम् प्रतिविधास्यते ॥६-१३-५॥
प्रतिषेधयितुम् शक्तौ सवज्रमपि वज्रिणम् ॥६-१३-६॥
उपप्रदानम् सान्त्वम् वा भेदम् वा कुशलैः कृतम् ।
समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये ॥६-१३-७॥
इह प्राप्तान्वयम् सर्वान् शत्रूम्स्तव महाबल ।
वशे शस्त्रप्रतापेन करिष्यामो न सम्शयः ॥६-१३-८॥
एवमुक्तस्तदा राजा महापार्श्वएन रावणः ।
महापार्श्व निबोध त्वम् रहस्यम् किम्चिदात्मनः ।
चिरवृत्तम् तदाख्यास्ये यदवाप्तम् पुरा मया ॥६-१३-१०॥
पितामहस्य भवनम् गच्चन्तीम् पुञ्जिकस्थलाम् ।
सा प्रसह्य मया भुक्ता कृता विवसना ततः ।
स्वयम्भूभवनम् प्राप्ता लोलिता नलिनी यथा ॥६-१३-१२॥
तच्च तस्य तदा मन्ये ज्ञातमासीन्महात्मनः ।
अथ सम्कुपितो वेधा मामिदम् वाक्यमब्रवी ॥६-१३-१३॥
अद्यप्रभृति यामन्याम् बलान्नारीम् गमिष्यसि ।
तदा ते शतधा मुर्धा फलिष्यति न सम्शयः ॥६-१३-१४॥
इत्यहम् तस्य शापस्य भीतः प्रसभमेव ताम् ।
नारोहये बलात्सीताम् वैदेहीम् शय्ने शुभे ॥६-१३-१५॥
सागरस्येव मे वेगो मारुतस्येव मे गतिः ।
नैतद्दाशरथिर्वेद ह्यापादयति तेन माम् ॥६-१३-१६॥
को हि सिम्हमिवासीनम् सुप्तम् गिरिगुहाशये ।
न मत्तो निर्गतान् बाणान् द्विजिह्वान् पन्न्गानिव ।
रामः पश्यति सम्ग्रामे तेन मामभिगच्चति ॥६-१३-१८॥
क्षिप्रम् वज्रसमैर्बाणैः शतधा कार्मुकचुतैः ।
तच्चास्य बलमादास्ये बलेन महता वृतः ।
उदितः सविता काले नक्षत्राणाम् प्रभामिव ॥६-१३-२०॥
युधास्मि शक्यो वरुणेन वा पुनः ।
मया त्वियम् बाहुबलेन निर्जिता ।
स कुम्भकर्णस्य च गर्जितानि ।
यावन्न गृह्णन्ति शिराम्सि बाणा ।
न कुम्भकर्णेन्द्रजितौ च राजम् ।
स्थातुम् समर्था युधि राघवस्य ॥६-१४-५॥
जीवम्स्तु रामस्य न मोक्स्यसे त्वम् ।
न वासवस्याङ्कगतो न मृत्यो ।
निशम्य वाक्यम् तु विभीषणस्य ।
ततः प्रहस्तो वचनम् बभाषे ।
न नो भयम् विद्म न दैवतेभ्यो ।
भयम् न सम्ख्ये पतगोरगेभ्यः ।
कथम् नु रामाद्भविता भयम् नो ।
ततो महार्थम् वचनम् बभाषे ।
प्रहस्त राजा च महोदरश्च ।
ब्रवीत रामम् प्रति तन्न शक्यम् ।
वधस्तु रामस्य मया त्वया च ।
तीक्षणा न तावत्तव कङ्कपत्रा ।
प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१३॥
भित्त्वा न तावत्प्रविशन्ति कायम् ।
प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१४॥
न कुम्भकर्णस्य सुतो निकुभः ।
त्वम् वा रणे शक्रसमम् समर्थः ॥६-१४-१५॥
स्थातुम् न शक्ता युधि राघवस्य ॥६-१४-१६॥
अयम् च राजा न्यसनाभिभूतो ।
सम्यग्घि वाक्यम् स्वमतम् ब्रवीमि ।
परस्य वीर्यम् स्वबलम् च बुद्ध्वा ।
स्थानम् क्षयम् चैव तथैव वृद्धिम् ।
तथा स्वपक्षे प्यनुमृश्य बुद्ध्या ।
वद्त् क्षमम् स्वामिहितम् स मन्त्री ॥६-१४-२२॥
ततो महात्मा वचनम् बभाषे ।
अस्मिन् कुले योऽपि भवेन्न जातः ।
सोऽपीदृशम् नैव वदेन्न कुर्यात् ॥६-१५-२॥
सत्त्वेन वीर्येण पराक्रमेणधैर्येण शौर्येण च तेजसा च ।
एकः कुलेऽस्मिन् पुरुषो विमुक्तो ।
किम् नाम तौ मानुषराजपुत्रा ।
शक्यौ कुतो भीषयसे स्म भीरो ॥६-१५-४॥
शक्तो मया भूमितले विविष्टः ।
सर्वे तदा देवगणाः समग्राः ॥६-१५-५॥
निपातितो भूमितले मया तु ।
विकृष्य दन्तौ तु मया प्रपह्य ।
ततो महार्थम् वचनम् बभाषे ।
न तात मन्त्रे तव निश्चयोऽस्ति ।
स चापि वध्यो य ऐहानयत्त्वाम् ।
बालम् दृढम् साहासिकम् च योऽद्य ।
वापाम्पि दिव्यानि मणीम्श्च चित्रान् ।
सीताम् च रामाय निवेद्य देवीम् ।
सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् ।
अब्रवीत् परुषम् वाक्यम् रावणः काल चोदितः ॥६-१६-१॥
वसेत् सह सपत्नेन क्रुद्धेन आशी विषेण च ।
न तु मित्र प्रवादेन सम्वस्च्चत्रुणा सह ॥६-१६-२॥
जानामि शीलम् ज्ञातीनाम् सर्व लोकेषु राक्षस ।
हृष्यन्ति व्यसनेष्वेते ज्ञातीनाम् ज्ञातयः सदा ॥६-१६-३॥
प्रधानम् साधकम् वैद्यम् धर्म शीलम् च राक्षस ।
ज्ञातयो ह्यनमन्यन्ते शूरम् परिभवन्ति च ॥६-१६-४॥
नित्यम् अन्योन्य सम्हृष्टा व्यसनेष्वाततायिनः ।
प्रच्चन्न हृदया घोरा ज्ञातयस् तु भय आवहाः ॥६-१६-५॥
श्रूयन्ते हस्तिभिर् गीताः श्लोकाः पद्म वने पुरा ।
पाश हस्तान् नरान् दृष्ट्वा शृणु तान् गदतो मम ॥६-१६-६॥
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ।
घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥६-१६-७॥
उपायमेते वक्ष्यन्ति ग्रहणे नात्रसम्शयः ।
कृत्स्नाद् भयाज्ज्ञातिभयम् सुकष्टम् विदितम् च नः ॥६-१६-८॥
विद्यते गोषु सम्पन्नम् विद्यते ज्ञातितो भयम् ।
विद्यते स्त्रीषु चापल्यम् विद्यते ज्ञातितो भयम् ॥६-१६-९॥
ततो नेष्टम् इदम् सौम्य यदहम् लोक सत्कृतः ।
ऐश्वर्यम् अभिजातः च रिपूणाम् मूर्ध्नि च स्थितः ॥६-१६-१०॥
न श्लेषमभिगच्चन्ति तथानार्येषु सौहृदम् ॥६-१६-११॥
यथा शरदि मेघानाम् सिञ्चातामपि गर्जताम् ।
यथा मधुकरस्तर्षाद्रासम् विन्दन्न तिष्ठति ।
तथा त्वमपि तत्रैव तथानार्येषु सौहृदम् ॥६-१६-१३॥
रसमत्र न विन्देत तथानार्येषु सौहृदम् ॥६-१६-१४॥
यथा पूर्वम् गजः स्नात्वा गृह्य हस्तेन वै रजः ।
दूषयत्यात्मनो देहम् तथानार्येषु सौहृदम् ॥६-१६-१५॥
अस्मिन् मुहूर्ते न भवेत् त्वाम् तु धिक् कुलपाम्सनम् ॥६-१६-१६॥
इतिउक्तः परुषम् वाक्यम् न्यायवादी विभीषणः ।
उत्पपात गदापाणिःचतुर्भिः सह राक्षसैः ॥६-१६-१७॥
अब्रवीच्च तदा वाक्यम् जातक्रोधो विभीषणः ।
अन्तरिक्षगतः श्रीमान् भ्रातरम् राक्षस अधिपम् ॥६-१६-१८॥
स त्वम् भ्राता असि मे राजन् ब्रूहि माम् यद् यद् इच्चसि ।
ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः ॥६-१६-१९॥
इदम् तु परुषम् वाक्यम् न क्षमामि अनृतम् तव ।
सुनीतम् हित कामेन वाक्यम् उक्तम् दश आनन ॥६-१६-२०॥
न गृह्णन्ति अकृत आत्मानः कालस्य वशमागताः ।
सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः ॥६-१६-२१॥
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।
बद्धम् कालस्य पाशेन सर्व भूत अपहारिणा ॥६-१६-२२॥
न नश्यन्तम् उपेक्षेयम् प्रदीप्तम् शरणम् यथा ।
दीप्त पावक सम्काशैः शितैः कान्चन भूषणैः ॥६-१६-२३॥
न त्वाम् इच्चामि अहम् द्रष्टुम् रामेण निहतम् शरैः ।
शूराः च बलवन्तः च कृत अस्त्राः च नर आजिरे ॥६-१६-२४॥
काल अभिपन्ना सीदन्ति यथा वालुक सेतवः ।
आत्मानम् सर्वथा रक्ष पुरीम् च इमाम् सराक्षसाम् ।
स्वस्ति ते अस्तु गमिष्यामि सुखी भव मया विना ॥६-१६-२६॥
निवार्यमाणस्य मया हित एषिणा ।
न रोचते ते वचनम् निशा चर ।
हितम् न गृह्णन्ति सुहृद्भिर् ईरितम् ॥६-१६-२७॥
इति उक्त्वा परुषम् वाक्यम् रावणम् रावण अनुजः ।
आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥६-१७-१॥
तम् मेरु शिखर आकारम् दीप्ताम् इव शत ह्रदाम् ।
गगनस्थम् महीस्थास् ते ददृशुर् वानर अधिपाः ॥६-१७-२॥
ते चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः ।
स च मेघाचलप्रख्यो वज्रायुधसमप्रभः ।
तम् आत्म पन्चमम् दृष्ट्वा सुग्रीवो वानर अधिपः ।
वानरैः सह दुर्धर्षः चिन्तयाम् आस बुद्धिमान् ॥६-१७-५॥
चिन्तयित्वा मुहूर्तम् तु वानराम्स् तान् उवाच ह ।
हनूमत् प्रमुखान् सर्वान् इदम् वचनम् उत्तमम् ॥६-१७-६॥
एष सर्व आयुध उपेतः चतुर्भिः सह राक्षसैः ।
राक्षसो अभ्येति पश्यध्वम् अस्मान् हन्तुम् न सम्शयः ॥६-१७-७॥
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानर उत्तमाः ।
सालान् उद्यम्य शैलामः च इदम् वचनम् अब्रुवन् ॥६-१७-८॥
शीघ्रम् व्यादिश नो राजन् वधाय एषाम् दुरात्मनाम् ।
निपतन्तु हताः च एते धरण्याम् अल्प जीविताः ॥६-१७-९॥
तेषाम् सम्भाषमाणानाम् अन्योन्यम् स विभीषणः ।
उत्तरम् तीरम् आसाद्य खस्थ एव व्यतिष्ठत ॥६-१७-१०॥
स उवाच च महाप्राज्ञः स्वरेण महता महान् ।
सुग्रीवम् तामः च सम्प्रेक्ष्य खस्थ एव विभीषणः ॥६-१७-११॥
रावणो नाम दुर्वृत्तो राक्षसो राक्षस ईश्वरः ।
तस्य अहम् अनुजो भ्राता विभीषण इति श्रुतः ॥६-१७-१२॥
तेन सीता जन स्थानाद्द् हृता हत्वा जटायुषम् ।
रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता ॥६-१७-१३॥
तम् अहम् हेतुभिर् वाक्यैर् विविधैः च न्यदर्शयम् ।
साधु निर्यात्यताम् सीता रामाय इति पुनः पुनः ॥६-१७-१४॥
स च न प्रतिजग्राह रावणः काल चोदितः ।
उच्यमानो हितम् वाक्यम् विपरीत इव औषधम् ॥६-१७-१५॥
सो अहम् परुषितस् तेन दासवच् च अवमानितः ।
त्यक्त्वा पुत्रामः च दारामः च राघवम् शरणम् गतः ॥६-१७-१६॥
निवेदेअयत माम् क्षिप्रम् राघवाय महात्मने ।
सर्व लोक शरण्याय विभीषणम् उपस्थितम् ॥६-१७-१७॥
एतत्तु वचनम् श्रुत्वा सुग्रीवो लघु विक्रमः ।
लक्ष्मणस्य अग्रतो रामम् सम्रब्धम् इदम् अब्रवीत् ॥६-१७-१८॥
प्रविष्टः शत्रु सैन्यम् हि प्राप्तः शत्रुरतर्कितः ।
निहन्यादन्न्तरम् लब्ध्वा उलूको वायसानिव ॥६-१७-१९॥
मन्त्रे व्यूहे नये चारे युक्तो भवितुमर्हसि ।
वानराणाम् च भद्रम् ते परेषाम् च परम्तप ॥६-१७-२०॥
शूराश्च निकृतिज्ञाश्च तेषाम् जातु न विश्वसेत् ॥६-१७-२१॥
प्रणीधी राक्षसेन्द्रस्य रावणस्य भवेदयम् ।
अनुप्रविश्य सोऽ स्मासु भेदम् कुर्यान्न सम्शयः ॥६-१७-२२॥
अथवा स्वयमेवैष चिद्रमासाद्य बुद्धिमान् ।
मित्राटवीबलम् चैव मौलभृत्यबलम् तथा ।
सर्वमेतद्बलम् ग्राह्यम् वर्जयित्वा द्विषद्बलम् ॥६-१७-२४॥
प्रकृत्या राक्षसो ह्येष भ्रातामित्रस्य वै प्रभो ।
आगतश्च रिपोः साक्षात्कथमस्मिम्श्च विश्वसेत् ॥६-१७-२५॥
रावणस्य अनुजो भ्राता विभीषण इति श्रुतः ।
चतुर्भिः सह रक्षोभिर् भवन्तम् शरणम् गतः ॥६-१७-२६॥
रावणेन प्रणिहितम् तम् अवेहि विभीषणम् ।
तस्य अहम् निग्रहम् मन्ये क्षमम् क्षमवताम् वर ॥६-१७-२७॥
राक्षसो जिह्मया बुद्ध्या सम्दिष्टो अयम् उपस्थितः ।
प्रहर्तुम् मायया चन्नो विश्वस्ते त्वयि राघव ॥६-१७-२८॥
बध्यताम् एष तीव्रेण दण्डेन सचिवैः सह ।
रावणस्य नृशम्सस्य भ्राता हि एष विभीषणः ॥६-१७-२९॥
एवम् उक्त्वा तु तम् रामम् सम्रब्धो वाहिनी पतिः ।
वाक्यज्ञो वाक्य कुशलम् ततो मौनम् उपागमत् ॥६-१७-३०॥
सुग्रीवस्य तु तद् वाक्यम् श्रुत्वा रामो महाबलः ।
समीपस्थान् उवाच इदम् हनूमत् प्रमुखान् हरीन् ॥६-१७-३१॥
यद् उक्तम् कपि राजेन रावण अवरजम् प्रति ।
वाक्यम् हेतुमद् अत्यर्थम् भवद्भिर् अपि तत् श्रुतम् ॥६-१७-३२॥
सुहृदा हि अर्थ कृच्चेषु युक्तम् बुद्धिमता सता ।
समर्थेन अपि सम्देष्टुम् शाश्वतीम् भूतिम् इच्चता ॥६-१७-३३॥
इति एवम् परिपृष्टास् ते स्वम् स्वम् मतम् अतन्द्रिताः ।
स उपचारम् तदा रामम् ऊचुर् हित चिकीर्षवः ॥६-१७-३४॥
अज्ञातम् न अस्ति ते किम्चित् त्रिषु लोकेषु राघव ।
आत्मानम् पूजयन् राम पृच्चसि अस्मान् सुहृत्तया ॥६-१७-३५॥
त्वम् हि सत्य व्रतः शूरो धार्मिको दृढ विक्रमः ।
परीक्ष्य कारा स्मृतिमान् निसृष्ट आत्मा सुहृत्सु च ॥६-१७-३६॥
तस्माद् एक एकशस् तावद् ब्रुवन्तु सचिवास् तव ।
हेतुतो मति सम्पन्नाः समर्थाः च पुनः पुनः ॥६-१७-३७॥
इति उक्ते राघवाय अथ मतिमान् अन्गदो अग्रतः ।
विभीषण परीक्षा अर्थम् उवाच वचनम् हरिः ॥६-१७-३८॥
शत्रोः सकाशात् सम्प्राप्तः सर्वथा शन्क्य एव हि ।
विश्वास योग्यः सहसा न कर्तव्यो विभीषणः ॥६-१७-३९॥
चादयित्वा आत्म भावम् हि चरन्ति शठ बुद्धयः ।
प्रहरन्ति च रन्ध्रेषु सो अनर्थः सुमहान् भवेत् ॥६-१७-४०॥
अर्थ अनर्थौ विनिश्चित्य व्यवसायम् भजेत ह ।
गुणतः सम्ग्रहम् कुर्याद् दोषतस् तु विसर्जयेत् ॥६-१७-४१॥
यदि दोषो महाम्स् तस्मिम्स् त्यज्यताम् अविशन्कितम् ।
गुणान् वा अपि बहून् ज्ञात्वा सम्ग्रहः क्रियताम् नृप ॥६-१७-४२॥
शरभस् त्व् अथ निश्चित्य सार्थम् वचनम् अब्रवीत् ।
क्षिप्रम् अस्मिन् नर व्याघ्र चारः प्रतिविधीयताम् ॥६-१७-४३॥
प्रणिधाय हि चारेण यथावत् सूक्ष्म बुद्धिना ।
परीक्ष्य च ततः कार्यो यथा न्यायम् परिग्रहः ॥६-१७-४४॥
जाम्बवाम्स् त्व् अथ सम्प्रेक्ष्य शास्त्र बुद्ध्या विचक्षणः ।
वाक्यम् विज्ञापयाम् आस गुणवद् दोष वर्जितम् ॥६-१७-४५॥
बद्ध वैराच् च पापाच् च राक्षस इन्द्राद् विभीषणः ।
अदेश काले सम्प्राप्तः सर्वथा शन्क्यताम् अयम् ॥६-१७-४६॥
ततो मैन्दस् तु सम्प्रेक्ष्य नय अपनय कोविदः ।
वाक्यम् वचन सम्पन्नो बभाषे हेतुमत्तरम् ॥६-१७-४७॥
अनुहो नाम तस्य एष रावणस्य विभीषणः ।
पृच्च्यताम् मधुरेण अयम् शनैर् नर वर ईश्वर ॥६-१७-४८॥
भावम् अस्य तु विज्ञाय ततस् तत्त्वम् करिष्यसि ।
यदि दृष्टो न दुष्टो वा बुद्धि पूर्वम् नरषभ ॥६-१७-४९॥
अथ सम्स्कार सम्पन्नो हनूमान् सचिव उत्तमः ।
उवाच वचनम् श्लक्ष्णम् अर्थवन् मधुरम् लघु ॥६-१७-५०॥
न भवन्तम् मति श्रेष्ठम् समर्थम् वदताम् वरम् ।
अतिशाययितुम् शक्तो बृहस्पतिर् अपि ब्रुवन् ॥६-१७-५१॥
न वादान् न अपि सम्घर्षान् न आधिक्यान् न च कामतः ।
वक्ष्यामि वचनम् राजन् यथा अर्थम् राम गौरवात् ॥६-१७-५२॥
अर्थ अनर्थ निमित्तम् हि यद् उक्तम् सचिवैस् तव ।
तत्र दोषम् प्रपश्यामि क्रिया न हि उपपद्यते ॥६-१७-५३॥
ऋते नियोगात् सामर्थ्यम् अवबोद्धुम् न शक्यते ।
सहसा विनियोगो हि दोषवान् प्रतिभाति मे ॥६-१७-५४॥
चार प्रणिहितम् युक्तम् यद् उक्तम् सचिवैस् तव ।
अर्थस्य असम्भवात् तत्र कारणम् न उपपद्यते ॥६-१७-५५॥
अदेश काले सम्प्राप्त इति अयम् यद् विभीषणः ।
विवक्षा च अत्र मे अस्ति इयम् ताम् निबोध यथा मति ॥६-१७-५६॥
स एष देशः कालः च भवति इह यथा तथा ।
पुरुषात् पुरुषम् प्राप्य तथा दोष गुणाव् अपि ॥६-१७-५७॥
दौरात्म्यम् रावणे दृष्ट्वा विक्रमम् च तथा त्वयि ।
युक्तम् आगमनम् तस्य सदृशम् तस्य बुद्धितः ॥६-१७-५८॥
अज्ञात रूपैः पुरुषैः स राजन् पृच्च्यताम् इति ।
यद् उक्तम् अत्र मे प्रेक्षा काचिद् अस्ति समीक्षिता ॥६-१७-५९॥
पृच्च्यमानो विशन्केत सहसा बुद्धिमान् वचः ।
तत्र मित्रम् प्रदुष्येत मिथ्य पृष्टम् सुख आगतम् ॥६-१७-६०॥
अशक्यः सहसा राजन् भावो वेत्तुम् परस्य वै ।
अन्तः स्वभावैर् गीतैस् तैर् नैपुण्यम् पश्यता भृशम् ॥६-१७-६१॥
प्रसन्नम् वदनम् च अपि तस्मान् मे न अस्ति सम्शयः ॥६-१७-६२॥
अशन्कित मतिः स्वस्थो न शठः परिसर्पति ।
न च अस्य दुष्टा वागस्ति तस्मान् न अस्ति इह सम्शयः ॥६-१७-६३॥
आकारः चाद्यमानो अपि न शक्यो विनिगूहितुम् ।
बलाद्द् हि विवृणोति एव भावम् अन्तर् गतम् नृणाम् ॥६-१७-६४॥
देश काल उपपन्नम् च कार्यम् कार्यविदाम् वर ।
सफलम् कुरुते क्षिप्रम् प्रयोगेण अभिसम्हितम् ॥६-१७-६५॥
उद्योगम् तव सम्प्रेक्ष्य मिथ्या वृत्तम् च रावणम् ।
वालिनः च वधम् श्रुत्वा सुग्रीवम् च अभिषेचितम् ॥६-१७-६६॥
राज्यम् प्रार्थयमानः च बुद्धि पूर्वम् इह आगतः ।
एतावत् तु पुरस् कृत्य युज्यते त्व् अस्य सम्ग्रहः ॥६-१७-६७॥
यथा शक्ति मया उक्तम् तु राक्षसस्य आर्जवम् प्रति ।
प्रमाणम् तु शेषस्य श्रुत्वा बुद्धिमताम् वर ॥६-१७-६८॥
अथ रामः प्रसन्न आत्मा श्रुत्वा वायु सुतस्य ह ।
प्रत्यभाषत दुर्धर्षः श्रुतवान् आत्मनि स्थितम् ॥६-१८-१॥
मम अपि तु विवक्षा अस्ति काचित् प्रति विभीषणम् ।
श्रुतम् इच्चामि तत् सर्वम् भवद्भिः श्रेयसि स्थितैः ॥६-१८-२॥
मित्र भावेन सम्प्राप्तम् न त्यजेयम् कथम्चन ।
दोषो यदि अपि तस्य स्यात् सताम् एतद् अगर्हितम् ॥६-१८-३॥
सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च ।
ततः शुभतरम् वाक्यमुवाच हरिपुङ्गवः ॥६-१८-४॥
सुदुष्टो वाप्यदुष्टो वा किम्मेष रजनीचरः ।
ईदृशम् व्यसनम् प्राप्तम् भ्रातरम् यः परित्यजेत् ॥६-१८-५॥
को वाम स भवेत्तस्य यमेष न परित्यजेत् ।
वानराधिपते र्वाक्यम् श्रुत्वा सर्वानुदीक्स्य तु ॥६-१८-६॥
इति होवाच काकुत्थ्सो वाक्यम् सत्यपराक्रमः ॥६-१८-७॥
अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च ।
न शक्यमीदृशम् वक्तुम् यदुवाच हरीश्वरः ॥६-१८-८॥
अस्ति सूक्ष्मतरम् किम्चिद्यदत्र प्रतिभाति मा ।
प्रत्यक्षम् लौकिकम् चापि वर्तते सर्वराजसु ॥६-१८-९॥
अपापास्तत्कुलीवाश्च मानयन्ति स्वकान् हितान् ।
एष प्रायो नरेन्द्राणाम् शङ्कनीयस्तु शोभनः ॥६-१८-११॥
यस्तु दोषस्त्वया प्रोक्तो ह्यादानेरिबलस्य च ।
तत्र ते कीर्तयुष्यामि यथाशास्त्रमिदम् शृणु ॥६-१८-१२॥
न वयम् तत्कुलीनाश्च राज्यकाम्क्षी च राक्षसः ।
पण्डिता हि भविष्यन्ति तस्माद्ग्राह्यो विभीषणः ॥६-१८-१३॥
अव्यग्राश्च प्रहृष्टाश्च न भविष्यन्ति सम्गताः ।
प्रणादश्च महानेष ततोऽस्य भयमागतम् ॥६-१८-१४॥
इति भेदम् गमिष्यन्ति तस्मात्प्रोप्तो विभीषणः ।
न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः ॥६-१८-१५॥
मद्विधा ना पितुः पुत्राः सुहृदो वा भवद्विधाः ।
एवमुक्तस्तु रामेण सुग्रीवः सहलक्स्मणः ॥६-१८-१६॥
उत्थाअयोदम् महाप्राज्ञः प्रणतो वाक्यमब्रवीत् ।
रावणेन प्रणिहितम् तमवेहि निशाचरम् ॥६-१८-१७॥
तस्याहम् निग्रहम् मन्ये क्षमम् क्षमवताम् वर ।
राक्षसो जिह्मया बुद्ध्या सम्दिष्टोऽय मिहागतः ॥६-१८-१८॥
प्रहर्तुम् त्वयि विश्वस्ते विश्वस्ते मयि वानघ ।
लक्ष्मणे वा महाबाहो स बध्यः सचिवैः सह ॥६-१८-१९॥
रावणस्य नृशम्सस्य भ्राता ह्येष विभीषणः ।
स सुग्रीवस्य तद् वाक्यय्म् रामः श्रुत्वा विमृश्य च ॥६-१८-२०॥
ततः शुभतरम् वाक्यम् उवाच हरि पुम्गवम् ।
सुदुष्टो वा अपि अदुष्टो वा किम् एष रजनी चरः ॥६-१८-२१॥
सूक्ष्मम् अपि अहितम् कर्तुम् मम अशक्तः कथम्चन ।
पिशाचान् दानवान् यक्षान् पृथिव्याम् चैव राक्षसान् ॥६-१८-२२॥
अन्गुलि अग्रेण तान् हन्याम् इच्चन् हरि गण ईश्वर ।
श्रूयते हि कपोतेन शत्रुः शरणम् आगतः ॥६-१८-२३॥
अर्चितः च यथा न्यायम् स्वैः च माम्सैर् निमन्त्रितः ।
स हि तम् प्रतिजग्राह भार्या हर्तारम् आगतम् ॥६-१८-२४॥
कपोतो वानर श्रेष्ठ किम् पुनर् मद् विधो जनः ।
ऋषेः कण्वस्य पुत्रेण कण्डुना परम ऋषिणा ॥६-१८-२५॥
शृणु गाथाम् पुरा गीताम् धर्मिष्ठाम् सत्य वादिना ।
बद्ध अन्जलि पुटम् दीनम् याचन्तम् शरण आगतम् ॥६-१८-२६॥
न हन्याद् आनृशम्स्य अर्थम् अपि शत्रुम् परम् पत ।
अर्तो वा यदि वा दृप्तः परेषाम् शरणम् गतः ॥६-१८-२७॥
अरिः प्राणान् परित्यज्य रक्षितव्यः कृत आत्मना ।
स चेद् भयाद् वा मोहाद् वा कामाद् वा अपि न रक्षति ॥६-१८-२८॥
स्वया शक्त्या यथा तत्त्वम् तत् पापम् लोक गर्हितम् ।
विनष्टः पश्यतस् तस्य रक्षिणः शरण आगतः ॥६-१८-२९॥
आदाय सुकृतम् तस्य सर्वम् गच्चेद् अरक्षितः ।
एवम् दोषो महान् अत्र प्रपन्नानाम् अरक्षणे ॥६-१८-३०॥
करिष्यामि यथा अर्थम् तु कण्डोर् वचनम् उत्तमम् ॥६-१८-३१॥
धर्मिष्ठम् च यशस्यम् च स्वर्ग्यम् स्यात् तु फल उदये ।
सकृद् एव प्रपन्नाय तव अस्मि इति च याचते ॥६-१८-३२॥
अभयम् सर्व भूतेभ्यो ददामि एतद् व्रतम् मम ।
आनय एनम् हरि श्रेष्ठ दत्तम् अस्य अभयम् मया ॥६-१८-३३॥
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् ।
रामस्य वचनम् श्रुत्वा सुग्रीवः प्लवग ईश्वरः ॥६-१८-३४॥
प्रत्यभाषत काकुत्स्थम् सौहार्देन अभिचोदितः ।
किम् अत्र चित्रम् धर्मज्ञ लोक नाथ शिखा मणे ॥६-१८-३५॥
यत् त्वम् आर्यम् प्रभाषेथाः सत्त्ववान् सपथे स्थितः ।
मम च अपि अन्तर् आत्मा अयम् शुद्धिम् वेत्ति विभीषणम् ॥६-१८-३६॥
अनुमनाच् च भावाच् च सर्वतः सुपरीक्षितः ।
तस्मात् क्षिप्रम् सह अस्माभिस् तुल्यो भवतु राघव ॥६-१८-३७॥
विभीषणो महाप्राज्ञः सखित्वम् च अभ्युपैतु नः ।
ततस् तु सुग्रीव वचो निशम्यत।
हरि ईश्वरेण अभिहितम् नर ईश्वरः ।
विभीषणेन आशु जगाम सम्गमम् ।
पतत्रि राजेन यथा पुरम् दरः ॥६-१८-३८॥
राघवेन अभये दत्ते सम्नतो रावण अनुजः ।
विभीषणो महाप्राज्ञो भूमिम् समवलोकयत् ॥६-१९-१॥
खात् पपात अवनिम् हृष्टो भक्तैर् अनुचरैः सह ।
स तु रामस्य धर्म आत्मा निपपात विभीषणः ॥६-१९-२॥
पादयोः शरण अन्वेषी चतुर्भिः सह राक्षसैः ।
अब्रवीच् च तदा रामम् वाक्यम् तत्र विभीषणः ॥६-१९-३॥
धर्म युक्तम् च युक्तम् च साम्प्रतम् सम्प्रहर्षणम् ।
अनुजो रावणस्य अहम् तेन च अस्मि अवमानितः ॥६-१९-४॥
भवन्तम् सर्व भूतानाम् शरण्यम् शरणम् गतः ।
परित्यक्ता मया लंका मित्राणि च धनानि च ॥६-१९-५॥
भवद् गतम् हि मे राज्यम् च जीवितम् च सुखानि च ।
तस्य तद्वचनम् श्रुत्वा रामो वचनमब्रवीत् ॥६-१९-६॥
वचसा सान्त्वयित्वैनम् लोचनाभ्याम् पिबन्निव ।
आख्याहि मम तत्वेन राक्षसानाम् बलाबलम् ॥६-१९-७॥
एवमुक्तम् तदा रक्षो रामेणाक्लिष्टकर्मणा ।
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।
कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥६-१९-१०॥
राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः ।
कैलासे येन सम मणिभद्रः पराजितः ॥६-१९-११॥
सम्ग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम् ।
अवीकपास्तु तप्यैते लोकपालसमा युधि ॥६-१९-१४॥
स तैस्तु सहितो राजा लोकपालानयोधयत् ।
सह देवैस्तु ते भग्ना रावणेन दुरात्मना ॥६-१९-१६॥
विभीषणस्य तु वचस्तछ्रुत्वा रघुसत्तमः ।
अन्वीक्ष्य मनसा सर्वमिदम् वचनमब्रवीत् ॥६-१९-१७॥
यानि कर्मापदानानि रावणस्य विभीषण ।
अख्यातानि च तत्त्वेन ह्यवगच्चामि तान्यहम् ॥६-१९-१८॥
अहम् हत्वा दशग्रीवम् सप्रहस्तम् सहात्मजम् ।
राजानम् त्वाम् करिष्यामि सत्यमेतच्छृणोतु मे ॥६-१९-१९॥
रसातलम् वा प्रविशेत्पातालम् वापि रावणः ।
पितामहसकाशम् वा न मे जीवन्विमोक्ष्यते ॥६-१९-२०॥
अहत्वा रावणम् सम्ख्ये सपुत्रजनबान्धवम् ।
अयोध्याम् न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रतृभिः शपेः ॥६-१९-२१॥
श्रुत्वा तु वचनम् तस्य रामस्याक्लिष्टकर्मणः ।
शिरसा वन्द्य धर्मात्मा वक्तुमेव प्रचक्रमे ॥६-१९-२२॥
राक्षसानाम् वधे साह्यम् लंकायाः च प्रधर्षणे ।
करिष्यामि यथा प्राणम् प्रवेक्ष्यामि च वाहिनीम् ॥६-१९-२३॥
इति ब्रुवाणम् रामस् तु परिष्वज्य विभीषणम् ।
अब्रवील् लक्ष्मणम् प्रीतः समुद्राज् जलम् आनय ॥६-१९-२४॥
तेन च इमम् महाप्राज्ञम् अभिषिन्च विभीषणम् ।
राजानम् रक्षसाम् क्षिप्रम् प्रसन्ने मयि मानद ॥६-१९-२५॥
एवम् उक्तस् तु सौमित्रिर् अभ्यषिन्चद् विभीषणम् ।
मध्ये वानर मुख्यानाम् राजानम् राम शासनात् ॥६-१९-२६॥
तम् प्रसादम् तु रामस्य दृष्ट्वा सद्यः प्लवम् गमाः ।
प्रचुक्रुशुर् महानादान् साधु साध्व् इति च अब्रुवन् ॥६-१९-२७॥
अब्रवीच् च हनूमामः च सुग्रीवः च विभीषणम् ।
कथम् सागरम् अक्षोभ्यम् तराम वरुण आलयम् ॥६-१९-२८॥
सैन्यैः परिवृताः सर्वे वानराणाम् महौजसाम् ।
उपायैर् अभिगच्चामो यथा नद नदी पतिम् ॥६-१९-२९॥
तराम तरसा सर्वे ससैन्या वरुण आलयम् ।
एवम् उक्तस् तु धर्मज्ञः प्रत्युवाच विभीषणः ॥६-१९-३०॥
समुद्रम् राघवो राजा शरणम् गन्तुम् अर्हति ।
खानितः सगरेण अयम् अप्रमेयो महाउदधिः ॥६-१९-३१॥
कर्तुम् अर्हति रामस्य ज्ञातेः कार्यम् महाउदधिः ।
एवम् विभीषणेन उक्ते राक्षसेन विपश्चिता ॥६-१९-३२॥
आजगामथ सुग्रीवो यत्र रामः सलक्ष्मणः ।
प्रकृत्या धर्म शीलस्य राघवस्य अपि अरोचत ॥६-१९-३४॥
स लक्ष्मणम् महातेजाः सुग्रीवम् च हरि ईश्वरम् ।
सत् क्रिया अर्थम् क्रिया दक्षः स्मित पूर्वम् उवाच ह ॥६-१९-३५॥
विभीषणस्य मन्त्रो अयम् मम लक्ष्मण रोचते ।
सुग्रीवः पण्डितो नित्यम् भवान् मन्त्र विचक्षणः ॥६-१९-३६॥
उभाभ्याम् सम्प्रधार्य आर्यम् रोचते यत् तद् उच्यताम् ।
एवम् उक्तौ तु तौ वीराव् उभौ सुग्रीव लक्ष्मणौ ॥६-१९-३७॥
समुदाचार सम्युक्तम् इदम् वचनम् ऊचतुः ।
किम् अर्थम् नो नर व्याघ्र न रोचिष्यति राघव ॥६-१९-३८॥
विभीषणेन यत् तु उक्तम् अस्मिन् काले सुख आवहम् ।
अबद्ध्वा सागरे सेतुम् घोरे अस्मिन् वरुण आलये ॥६-१९-३९॥
लंका न आसादितुम् शक्या स इन्द्रैर् अपि सुर असुरैः ।
विभीषणस्य शूरस्य यथा अर्थम् क्रियताम् वचः ॥६-१९-४०॥
अलम् काल अत्ययम् कृत्वा समुद्रो अयम् नियुज्यताम् ।
यथा कालात्ययम् कृत्वा सागराय नियुज्यताम् ॥६-१९-४१॥
एवम् उक्तः कुश आस्तीर्णे तीरे नद नदी पतेः ।
सम्विवेश तदा रामो वेद्याम् इव हुत अशनः ॥६-१९-४२॥
ततो निविष्टाम् ध्वजिनीम् सुग्रीवेणाभिपालिताम् ।
ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥६-२०-१॥
चारो राक्षसराजस्य रावणस्य दुरात्मनः ।
ताम् दृष्ट्वा सर्वतोऽव्यग्रम् प्रतिगम्य स राक्षसः ॥६-२०-२॥
आविश्य लङ्काम् वेगेन राजानमिदमब्रवीत् ।
एष वै वानरर्क्षघो लङ्काम् समभिवर्तते ॥६-२०-३॥
अगाधश्चाप्रमेयश्च द्वितीय इव सागरः ।
पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥६-२०-४॥
उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ ।
एतौ सागरमासाद्य सम्निविष्टौ महाद्युती ॥६-२०-५॥
बलम् चाकाशमावृत्य सर्वतो दशयोजनम् ।
तत्त्वभूतम् महारज क्षिप्रम् वेदितुमर्हसि ॥६-२०-६॥
तव दूता महाराज क्षिप्रमर्हन्ति वेदितुम् ।
उपप्रदानम् सान्त्वम् वा भेदो वात्र प्रयुज्यताम् ॥६-२०-७॥
शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः ।
उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः ॥६-२०-८॥
शुकम् नाम तदा रक्षो वाक्यमर्थविदाम् वरम् ।
सुग्रीवम् ब्रूहि गत्वाशु राजानम् वचनान्मनु ॥६-२०-९॥
यथासम्देशमक्लीबम् शल्क्स्णया परया गिरा ।
त्वम् वै महारज कुलप्रसूतो ।
स्तथापि मे भ्रातृसमो हरीश ॥६-२०-१०॥
अहम् यद्यहरम् भार्याम् राजपुत्रस्य धीमतः ।
किम् तत्र तव सुग्रीव किश्किन्धाम् प्रति गम्यताम् ॥६-२०-११॥
न हीयम् हरिभिर्लङ्का प्राप्तुम् शक्या कथम् चन ।
देवैरपि सगन्धर्वैः किम् पुनर्नरवानरैः ॥६-२०-१२॥
स तदा राक्षसेन्द्रेण सम्दिष्टो रजनीचरः ।
शुको विहम्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥६-२०-१३॥
स गत्वा दूरमध्वानमुपर्युपरि सागरम् ।
सम्स्थितो ह्यम्बरे वाक्यम् सुग्रीव मदिमब्रवीत् ॥६-२०-१४॥
सर्वमुक्तम् यथादिष्टम् रावणेन दुरात्मना ।
तत्प्रपयन्तम् वचनम् तूर्णमाप्लुत्य वानराः ॥६-२०-१५॥
प्रापद्यन्त तदा क्षिप्रम् लोप्तुम् हन्तुम् च मुष्टिभिः ।
सर्वैः प्लवण्गैः प्रसभम् निगृहीतो निशाचरह् ॥६-२०-१६॥
वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥६-२०-१७॥
न दूतान् घ्नन्ति काकुत्थ्स वार्यन्ताम् साधु वानराः ।
यस्तु हित्वा मतम् भर्तुः स्वमतम् सम्प्रभाषते ॥६-२०-१८॥
अनुक्तवादी दूतः सन्न् स दूतो वधमर्हति ।
शुकस्य वचनम् रामः श्रुत्वा तु परिदेवितम् ॥६-२०-१९॥
उवाच मा वधिस्टेति घ्नतः शाखामृगर्षभान् ।
स च पत्रलघुद्भूत्वा हरिभिर्दर्शितेऽभये ॥६-२०-२०॥
अन्तरिक्षे स्थितो भूत्वा पुनर्वचन मब्रवीत् ।
किम् मया खलु नक्तव्यो रावणो लोकरावणः ।
चारम् शुकम् शुद्ध मदीनसत्त्वः ॥६-२०-२२॥
स मेऽसि मित्रम् व तथानुकम्प्यो ।
न चोपकर्तासि न मे प्रियोऽपि ।
स्ततोऽसि वालीव वधार्ह वध्यः ॥६-२०-२३॥
निहन्म्यहम् त्वाम् ससुतम् सबन्धुम् ।
लङ्काम् च सर्वाम् महता बलेन ।
सर्वैः करिष्यामि समेत्य भस्म ॥६-२०-२४॥
न मोक्ष्यसे रावण राघवस्य ।
तस्य ते त्रिषु लोकेषु न पिशाचम् न राक्षसम् ।
त्रातारमनुपश्यामि न गन्धर्वम् न चासुरम् ॥६-२०-२७॥
अवधीस्त्वम् जरावृद्धम् गृध्राराजम् जटायुषम् ।
किम् मते रामसाम्निध्ये सकाशे लक्ष्मणस्य च ॥६-२०-२८॥
हृता सीता विशालाक्षि याम् त्वम् गृह्य न बुध्यसे ।
महाबलम् महात्मानम् दुराधर्षम् सुरैरपि ॥६-२०-२९॥
न बुध्यसे रघुश्रेष्ठम् यस्ते प्राणान् हरिष्यति ।
वायम् दूतो महाप्राज्ञ चारकः प्रतिभाति मे ।
तुलितम् हि बलम् सर्वमनेन तव तिष्ठता ॥६-२०-३१॥
गृह्यताम् मागमल्लङ्का मेतद्धि मम रोचते ।
ततो राज्ञा समादिष्टाः समुत्पत्य वलीमुखाः ॥६-२०-३२॥
शुकस्तु वानरैश्च ण्डैस्तत्र तैः सम्प्रपीडितः ॥६-२०-३३॥
व्याचुक्रोश महात्मानम् रामम् दशरथात्मजम् ।
लुप्येते मे बलात्पक्षौ भिद्येते मे तथाक्षिणी ॥६-२०-३४॥
याम् च रात्रिम् मरिष्यामि जाये रात्रिम् च यामहम् ।
एतस्मिन्नन्त्रे काले मन्मया चाशुभम् कृतम् ॥६-२०-३५॥
सर्वम् तदुपपद्येथा जह्यम् चेद्यदि जीवितम् ।
नाघातयत्तदा रामः श्रुत्वा तत्परिदेवितम् ॥६-२०-३६॥
वानरानब्रवीद्रामो मुच्यताम् दूत आगतः ।
ततः सागरवेलायाम् दर्भानास्तीर्य राघवः ।
अञ्जलिम् प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥६-२१-१॥
शयने चोत्तमाङ्गेन सीतायाः शोभितम् पुरा ॥६-२१-५॥
सम्गे युगसम्काशम् शत्रूणाम् शोकवर्धनम् ॥६-२१-६॥
सुह्R^दाम् नन्दनम् दीर्घम् सागरान्तव्यपाश्रयम् ।
अस्यता च पुनः सव्यम् ज्याघातविगतत्वचम् ।
दक्षिणो कक्षिणम् बहुम् महापरिघसम्निभम् ॥६-२१-७॥
गोसहस्रप्रदातारम् ह्युपधाय भुजम् महत् ।
अद्य मे मरणम् वाथ तरणम् सागरस्य वा ॥६-२१-८॥
इति रामो धृतिम् कृत्वा महाबाहुर्महोदधिम् ।
अधिशिश्ये च विधिवत्प्रयतोऽत्र स्थितो मुनिः ॥६-२१-९॥
तस्य रामस्य सुप्तस्य कुश आस्तीर्णे मही तले ।
नियमाद् अप्रमत्तस्य निशास् तिस्रो अतिचक्रमुः ॥६-२१-१०॥
स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ।
उपासत तदा रामः सागरम् सरिताम् पतिम् ॥६-२१-११॥
न च दर्शयते मन्दस् तदा रामस्य सागरः ।
प्रयतेन अपि रामेण यथा अर्हम् अभिपूजितः ॥६-२१-१२॥
समुद्रस्य ततः क्रुद्धो रामो रक्त अन्त लोचनः ।
समीपस्थम् उवाच इदम् लक्ष्मणम् शुभ लक्ष्मणम् ॥६-२१-१३॥
अवलेपम् समुद्रस्य न दर्शयति यत् स्वयम् ।
प्रशमः च क्षमा चैव आर्जवम् प्रिय वादिता ॥६-२१-१४॥
असामर्थ्यम् फलन्ति एते निर्गुणेषु सताम् गुणाः ।
आत्म प्रशम्सिनम् दुष्टम् धृष्टम् विपरिधावकम् ॥६-२१-१५॥
सर्वत्र उत्सृष्ट दण्डम् च लोकः सत् कुरुते नरम् ।
न साम्ना शक्यते कीर्तिर् न साम्ना शक्यते यशः ॥६-२१-१६॥
प्राप्तुम् लक्ष्मण लोके अस्मिन् जयो वा रण मूधनि ।
अद्य मद् बाण निर्भिन्नैर् मकरैर् मकर आलयम् ।
निरुद्ध तोयम् सौमित्रे प्लवद्भिः पश्य सर्वतः ॥६-२१-१७॥
भोगामः च पश्य नागानाम् मया भिन्नानि लक्ष्मण ॥६-२१-१८॥
महाभोगानि मत्स्यानाम् करिणाम् च करान् इह ।
सशन्ख शुक्तिका जालम् समीन मकरम् शरैः ॥६-२१-१९॥
अद्य युद्धेन महता समुद्रम् परिशोषये ।
क्षमया हि समायुक्तम् माम् अयम् मकर आलयः ॥६-२१-२०॥
असमर्थम् विजानाति धिक् क्षमाम् ईदृशे जने ।
स दर्शयति साम्ना मे सागरो रूपमात्मनः ॥६-२१-२१॥
चापम् आनय सौमित्रे शरामः च आशी विष उपमान् ।
समुद्रम् शोषयिष्यामि पद्भ्याम् यान्तु प्लवङ्गमाः ॥६-२१-२२॥
अद्य अक्षोभ्यम् अपि क्रुद्धः क्षोभयिष्यामि सागरम् ।
वेलासु कृत मर्यादम् सहसा ऊर्मि समाकुलम् ॥६-२१-२३॥
निर्मर्यादम् करिष्यामि सायकैर् वरुण आलयम् ।
एवम् उक्त्वा धनुष् पाणिः क्रोध विस्फारित ईक्षणः ।
बभूव रामो दुर्धर्षो युग अन्त अग्निर् इव ज्वलन् ॥६-२१-२५॥
सम्पीड्य च धनुर् घोरम् कम्पयित्वा शरैर् जगत् ।
मुमोच विशिखान् उग्रान् वज्राणि इव शत क्रतुः ॥६-२१-२६॥
ते ज्वलन्तो महावेगास् तेजसा सायक उत्तमाः ।
प्रविशन्ति समुद्रस्य सलिलम् त्रस्त पन्नगम् ॥६-२१-२७॥
ततो वेगः समुद्रस्य सनक्र मकरो महान् ।
स बभूव महाघोरः समारुत रवस् तदा ॥६-२१-२८॥
महाऊर्मि माला विततः शन्ख शुक्ति समाकुलः ।
सधूम परिवृत्त ऊर्मिः सहसा अभून् महाउदधिः ॥६-२१-२९॥
व्यथिताः पन्नगाः च आसन् दीप्त आस्या दीप्त लोचनाः ।
दानवाः च महावीर्याः पाताल तल वासिनः ॥६-२१-३०॥
ऊर्मयः सिन्धु राजस्य सनक्र मकरास् तदा ।
विन्ध्य मन्दर सम्काशाः समुत्पेतुः सहस्रशः ॥६-२१-३१॥
आघूर्णित तरन्ग ओघः सम्ब्भ्रान्त उरग राक्षसः ।
उद्वर्तित महाग्राहः सम्वृत्तः सलिल आशयः ॥६-२१-३२॥
ततस्तु तम् राघव मुग्रवेगम् ।
भवद्विधाः क्रोधवशम् न यान्ति ।
शब्दः कृतः कष्टमिति ब्रुवद्भि ।
र्मा मेति चोक्त्वा महता स्वरेण ॥६-२१-३५॥
अथोवाच रघुश्रेष्ठः सागरम् दारुणम् वचः ।
अद्य त्वाम् शोषयिष्यामि सपातालम् महार्णव ॥६-२२-१॥
मया निहतसत्त्वस्य पाम्सुरुत्पद्यते महान् ॥६-२२-२॥
परम् तीरम् गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ॥६-२२-३॥
विचिन्वन्नाभिजानासि पौरुषम् वापि विक्रमम् ।
दाव्नवालय सम्तापम् मत्तो नाम गमिष्यसि ॥६-२२-४॥
ब्राह्मेणास्त्रेण सम्योज्य ब्रह्मदण्डनिभम् शरम् ।
सम्योज्य धनुषि श्रे ष्ठे विचकर्ष महाबलः ॥६-२२-५॥
तस्मिन्विकृष्टे सहसा राघवेण शरासने ।
रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥६-२२-६॥
तमश्च लोकमावव्रे दिशश्च न चकाशिरे ।
प्रतिचुक्षुभिरे चाशु सराम्सि सरितस्तदा ॥६-२२-७॥
तिर्यक् च सह नक्षत्रैः सम्गतौ चन्द्रभास्करौ ।
भास्कराम्शुभिरादीप्तम् तमसा च समावृतम् ॥६-२२-८॥
बभञ्ज च तदा वृक्षान् जलदानुद्वहन् मुहुः ॥६-२२-१०॥
आरुजम्श्चैव शैलाग्रान् शिखराणि बभञ्ज च ।
दिवि च स्म महावेगाः सम्हताः समहास्वनाः ॥६-२२-११॥
यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम् ॥६-२२-१२॥
अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् ।
शिश्यरे चाभिभूतानि सम्त्रस्ताम्यद्विजन्ति च ॥६-२२-१३॥
सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् ।
सहभूतैः सतोयोर्मिः सनागः सहराक्षसः ॥६-२२-१४॥
योजनम् व्यतिचक्राम वेलामन्यत्र सम्प्लवात् ॥६-२२-१५॥
तम् तथा समतिक्रान्तम् नातिचक्राम राघवः ।
ततो मध्यात् समुद्रस्य सागरः स्वयम् उत्थितः ।
उदयन् हि महाशैलान् मेरोर् इव दिवा करः ॥६-२२-१७॥
पन्नगैः सह दीप्त आस्यैः समुद्रः प्रत्यदृश्यत ।
स्निग्ध वैदूर्य सम्काशो जाम्बू नद विभूषितः ॥६-२२-१८॥
रत्न माल्य अम्बर धरः पद्म पत्र निभ ईक्षणः ।
सर्वपुष्पमयीम् दिव्याम् शिरसा धारयन् स्रजम् ॥६-२२-१९॥
आत्मजानाम् च रत्नानाम् भूषितो भूषणोत्तमैः ॥६-२२-२०॥
सागरः समतिक्रम्य पूर्वम् आमन्त्र्य वीर्यवान् ।
अब्रवीत् प्रान्जलिर् वाक्यम् राघवम् शर पाणिनम् ॥६-२२-२४॥
पृथिवी वायुर् आकाशम् आपो ज्योतिः च राघवः ।
स्वभावे सौम्य तिष्ठन्ति शाश्वतम् मार्गम् आश्रिताः ॥६-२२-२५॥
तत् स्वभावो मम अपि एष यद् अगाधो अहम् अप्लवः ।
विकारस् तु भवेद् राध एतत् ते प्रवदामि अहम् ॥६-२२-२६॥
न कामान् न च लोभाद् वा न भयात् पार्थिव आत्मज ।
विधास्ये येन गन्तासि विषहिष्ये ह्यहम् तथा ।
न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति ॥६-२२-२८॥
हरीणाम् तरणे राम करिष्यामि यथास्थलम् ।
तमब्रवीत्तदा रामः शृणु मे वरुणालय ॥६-२२-२९॥
अमोघोऽयम् महाबाणः कस्मिन् देशे निपात्यताम् ।
रामस्य वचनम् श्रुत्वा तम् च दृष्ट्वा महाशरम् ॥६-२२-३०॥
द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् ।
आभीरप्रमुखाः पापाः पिबन्ति सलिलम् मम ।
तैर्न तत्स्पर्शनम् पापम् सहेयम् पापकर्मभिः ॥६-२२-३३॥
अमोघः क्रियताम् राम तत्र तेषु शरोत्तमः ।
तस्य तद्वचनम् श्रुत्वा सागरस्य महात्मनः ॥६-२२-३४॥
मुमोच तम् शरम् दीप्तम् परम् सागरदर्शनात् ।
तेन तन्मरुकान्तारम् प्^इथिव्याम् किल विश्रुतम् ॥६-२२-३५॥
विपातितः शरो यत्र वज्राशनिसमप्रभः ।
ननाद च तदा तत्र वसुधा शल्यपीडिता ॥६-२२-३६॥
स बभूव तदा कूपो व्रण इत्येव विश्रुतः ॥६-२२-३७॥
सततम् चोत्थितम् तोयम् समुद्रस्येव दृश्यते ।
विख्यातम् त्रिषु लोकेषु मधुकान्तारमेव च ॥६-२२-३९॥
शोषयित्वा तु तम् कुक्षिम् रामो दशरथात्मजः ।
वरम् तस्मै ददौ विद्वान्मरवेऽमरविक्रमः ॥६-२२-४०॥
एवमेतैर्गुणैर्युक्तो बहिभिः सम्युतो मरुः ।
रामस्य वरदानाच्च शिवः पन्था बभूव ह ॥६-२२-४२॥
तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरिताम् पतिः ।
अयम् सौम्य नलो नाम तनुजो विश्व कर्मणः ।
पित्रा दत्त वरः श्रीमान् प्रतिमो विश्व कर्मणः ॥६-२२-४४॥
एष सेतुम् महाउत्साहः करोतु मयि वानरः ।
तम् अहम् धारयिष्यामि तथा हि एष यथा पिता ॥६-२२-४५॥
एवम् उक्त्वा उदधिर् नष्टः समुत्थाय नलस् ततः ।
अब्रवीद् वानर श्रेष्ठो वाक्यम् रामम् महाबलः ॥६-२२-४६॥
अहम् सेतुम् करिष्यामि विस्तीर्णे वरुण आलये ।
पितुः सामर्थ्यम् आस्थाय तत्त्वम् आह महाउदधिः ॥६-२२-४७॥
असौ तु सागरो भीमः सेतुकर्मदिदृक्षया ।
ददौ दण्डभयाद्गाधम् राघवाय महोदधिः ॥६-२२-४८॥
मम मातुर् वरो दत्तो मन्दरे विश्व कर्मणा ।
औरसस् तस्य पुत्रो अहम् सदृशो विश्व कर्मणा ॥६-२२-४९॥
न च अपि अहम् अनुक्तो वै प्रब्रूयाम् आत्मनो गुणान् ।
समर्थ्श्चाप्यहम् सेतुम् कर्तुम् वै वरुणालये ॥६-२२-५१॥
तस्मादद्यैव बध्नन्तु सेतुम् वानरपुङ्गवाः ।
ततो निसृष्ट रामेण सर्वतो हरि यूथपाः ॥६-२२-५२॥
अभिपेतुर् महाअरण्यम् हृष्टाः शत सहस्रशः ।
ते नगान् नग सम्काशाः शाखा मृग गण ऋषभाः ॥६-२२-५३॥
बभन्जुर् वानरास् तत्र प्रचकर्षुः च सागरम् ।
ते सालैः च अश्व कर्णैः च धवैर् वम्शैः च वानराः ॥६-२२-५४॥
कुटजैर् अर्जुनैस् तालैस् तिकलैस् तिमिशैर् अपि ।
बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः ॥६-२२-५५॥
चूतैः च अशोक वृक्षैः च सागरम् समपूरयन् ।
समूलामः च विमूलामः च पादपान् हरि सत्तमाः ॥६-२२-५६॥
इन्द्र केतून् इव उद्यम्य प्रजह्रुर् हरयस् तरून् ।
हस्तिमात्रान् महाकायाः पाषाणाम्श्च महाबलाः ॥६-२२-५८॥
पर्वताम्श्च समुत्पाट्य यन्त्रैः परिवहन्ति च ।
प्रक्षिप्यमाणैर् अचलैः सहसा जलम् उद्धतम् ॥६-२२-५९॥
समुत्पतितम् आकाशम् अपासर्पत् ततस् ततः ।
सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतम् शतयोजनम् ।
नलः चक्रे महासेतुम् मध्ये नद नदी पतेः ॥६-२२-६१॥
स तदा क्रियते सेतुर्वानरै र्घोरकर्मभिः ।
दण्डनन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे ॥६-२२-६२॥
मेघाभैः पर्वताभश्च तृणैः काष्ठैर्बबन्धरे ॥६-२२-६३॥
पुष्पिताग्रैश्च तरुभिः सेतुम् बध्नन्ति वानराः ।
पाषाणाम्श्च गिरिप्रख्यान् गिरीणाम् शिखराणि च ॥६-२२-६४॥
दृश्यन्ते परिधावन्तो गृह्य दानवसम्निभाः ।
शिलानाम् क्षिप्यमाणानाम् शैलानाम् तत्र पात्यताम् ॥६-२२-६५॥
बभूव तुमुलः शब्दस् तदा तस्मिन् महाउदधौ ।
कृतानि प्रथमेनाह्ना योजनानि चतुर्दश ॥६-२२-६६॥
द्वितीयेन तथैवाह्ना योजनानि तु विशतिः ॥६-२२-६७॥
अह्ना तृतीयेन तथा योजनानि तु सागरे ॥६-२२-६८॥
चतुर्थेन तथा चाह्ना द्वाविम्शतिरथापि वा ॥६-२२-६९॥
योजनानि महावेगैः कृतानि त्वरितैस्ततः ।
पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः ॥६-२२-७०॥
स वानरवरः श्रीमान् विश्वकर्मात्मजो बली ॥६-२२-७१॥
बबन्ध सागरे सेतुम् यथा चास्य तथा पिता ।
स नलेन कृतः सेतुः सागरे मकर आलये ॥६-२२-७२॥
शुशुभे सुभगः श्रीमान् स्वाती पथ इव अम्बरे ।
ततो देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः ॥६-२२-७३॥
आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥६-२२-७५॥
तम् अचिन्त्यम् असह्यम् च अद्भुतम् लोम हर्षणम् ।
ददृशुः सर्व भूतानि सागरे सेतु बन्धनम् ॥६-२२-७६॥
तानि कोटि सहस्राणि वानराणाम् महाओजसाम् ।
बध्नन्तः सागरे सेतुम् जग्मुः पारम् महाउदधेः ॥६-२२-७७॥
विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः ।
अशोभत महासेतुः सीमन्त इव सागरे ॥६-२२-७८॥
ततः परे समुद्रस्य गदा पाणिर् विभीषणः ।
परेषाम् अभिघत अर्थम् अतिष्ठत् सचिवैः सह ॥६-२२-७९॥
सुग्रीवस्तु ततः प्राह रामम् सत्यपराक्रमम् ।
हनुमन्तम् त्वमारोह अङ्गदम् त्वथ लक्ष्मणः ॥६-२२-८०॥
अयम् हि विपुलो वीर सागरो मकरालयः ।
वैहायसौ युवामेतौ वानरौ धारयिष्यतः ॥६-२२-८१॥
अग्रतस् तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः ।
जगाम धन्वी धर्म आत्मा सुग्रीवेण समन्वितः ॥६-२२-८२॥
अन्ये मध्येन गच्चन्ति पार्श्वतो अन्ये प्लवम् गमाः ।
सलिले प्रपतन्ति अन्ये मार्गम् अन्ये न लेभिरे ॥६-२२-८३॥
केचिद् वैहायस गताः सुपर्णा इव पुप्लुवुः ।
घोषेण महता घोषम् सागरस्य समुच्च्रितम् ॥६-२२-८४॥
भीमम् अन्तर् दधे भीमा तरन्ती हरि वाहिनी ।
वानराणाम् हि सा तीर्णा वाहिनी नल सेतुना ॥६-२२-८५॥
तद् अद्भुतम् राघव कर्म दुष्करम् ।
समीक्ष्य देवाः सह सिद्ध चारणैः ।
उपेत्य रामम् सहिता महर्षिभिः ।
समभ्यषिन्चन् सुशुभिअर् जलैः पृथक् ॥६-२२-८६॥
जयस्व शत्रून् नर देव मेदिनीम् ।
ससागराम् पालय शाश्वतीः समाः ।
इति इव रामम् नर देव सत्कृतम् ।
शुभैर् वचोभिर् विविधैर् अपूजयन् ॥६-२२-८७॥
निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः ।
सौमित्रिम् सम्परिष्वज्य इदम् वचनम्ब्रवीत् ॥६-२३-१॥
परिगृह्योदकम् शीतम् वनानि फलवन्ति च ।
बलौ घम् सम्विभज्येमम् व्यूह्य तिष्ठेम लक्ष्मण ॥६-२३-२॥
लोकक्षयकरम् भीमम् भयम् पश्याम्युपस्थितम् ।
वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा ।
पर्वताग्राणि वेपन्ते पतन्ति च महीरुःआः ॥६-२३-४॥
मेघाः क्रव्यादसम्काशाः परुषाः परुषस्वनाः ।
क्रूराः क्रूरम् प्रवर्षन्ति मिश्रम् शोणितबिन्दुभिः ॥६-२३-५॥
दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः ।
प्रत्यादित्यम् विनर्दन्ति जनयन्तो महद्भयम् ॥६-२३-७॥
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः ।
आदित्ये विमले वीलम् लक्ष्म लक्ष्मण दृश्यते ॥६-२३-९॥
रजसा महता चापि नक्षत्राणि हतानि च ।
युगान्तमिव लोकानाम् पश्य शसन्ति लक्ष्मण ॥६-२३-१०॥
काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च ।
शैलैः शूलैश्च खड्गैश्च विमुकैः कपिराक्षसैः ।
क्षिप्रमद्यैव दुर्धर्षाम् पुरीम् रावणपालिताम् ।
इत्येवमुक्त्वा धन्वी स रामः सम्ग्रामधर्षणः ।
प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥६-२३-१४॥
सविभीषणसुग्रीवाः सर्वे ते वानरर्षभाः ।
प्रतस्थिरे विनर्दन्तो धृतानाम् द्विषताम् वधे ॥६-२३-१५॥
राघवस्य प्रियार्थम् तु सुतराम् वीर्यशालिनाम् ।
सा वीरसमिती राज्ञा विरराज व्यवस्थिता ।
प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा ।
पीड्यमाना बलौ घेन तेन सागरवर्चसा ॥६-२४-२॥
ततः शुश्रुपुराक्रुष्टम् लङ्कायाः काननौकसः ।
बभूवुस्तेन घोषेण सम्हृष्टा हरियूथपाः ।
राक्षसास्तम् प्लवङ्गानाम् शुश्रुवुस्तेऽपि गर्जितम् ।
वर्दतामिव दृप्तानाम् मेघानामम्बरे स्वनम् ॥६-२४-५॥
जगाम मनसा सीताम् दूयमानेन चेतसा ॥६-२४-६॥
अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते ।
अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥६-२४-७॥
दीर्घमुष्णम् च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम् ।
मन्सेव कृताम् लङ्काम् नगाग्रे विश्वकर्मणा ॥६-२४-९॥
विमानैर्बहुभिर्लङ्क सम्कीर्णा रचिता पुरा ।
विष्णोः पदमिवाकाशम् चादितम् पाण्डुभिर्घनैः ॥६-२४-१०॥
पुष्पितैः शोभिता लङ्का वनैश्चत्ररथोपमैः ।
पश्य मत्तविहङ्गनि प्रलीनभ्रमराणि च ।
इति दाशरथीरमो लक्ष्मणम् समभाषत ।
बलम् च तत्र विभजच्चास्त्रदृष्टेन कर्मणा ॥६-२४-१३॥
शशास कपिसेमाम् ताम् बलादादाय वीर्यवान् ।
अङ्गदः सह नीलेन तिष्ठे दुरपि दुर्जयः ॥६-२४-१४॥
आशिर्तो दक्षिणम् पार्श्वमृषभो नाम वानरः ॥६-२४-१५॥
मूर्ध्नि स्थास्याम्यहम् यत्तो लक्ष्मणेन समन्वितः ।
जाम्बवाम्श्च सुषेणश्च वेगदर्शी च वानरः ॥६-२४-१७॥
ऋक्षमुख्या महात्मानः कुक्षिम् रक्षन्तु ते त्रयः ।
पश्चार्धमिव लोकस्य प्रचेतास्तेजपा वृतः ।
अनीकिनी सा विबभौ यथाद्यौः साभ्रसम्प्लवा ।
प्रऋह्य गिरिशृङ्गाणि महतश्च महीरुहान् ॥६-२४-२०॥
आसेदुर्वानरा लङ्काम् मिमर्दयुषवो रणे ।
शिखरैर्विकिरामैनाम् लङ्काम् मुष्टिभिरेव वा ॥६-२४-२१॥
इति स्म दधिरे सर्वे मानाम्सि हरिपुङ्गवाः ।
ततो रामो महातेजाः सुग्रीव मिदमब्रवीत् ॥६-२४-२२॥
सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ।
रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः ॥६-२४-२३॥
मोचयामास तम् दूतम् शुकम् रामस्य शासनात् ।
मोचितो रामवाक्येन वानरैश्च निपीडितः ॥६-२४-२४॥
रावणः प्रहसन्नेव शुकम् वाक्यमुवाच ह ॥६-२४-२५॥
किमिमौ ते सितौ पक्षौ लूनपक्ष्श्च दृश्यसे ।
कच्चिन्नानेकचित्तानाम् तेषाम् त्वम् वशमागतः ॥६-२४-२६॥
ततस्प भयसम्विग्न स्तदा राज्ञाभिचोदितः ।
सागरस्योत्तरे तीरेऽब्रवम् ते वचनम् तथा ।
यथासम्देशमक्लिष्टम् सान्त्वयन् श्लक्ष्णया गिरा ॥६-२४-२८॥
गृहितोऽस्म्यपि चारब्धो हन्तुम् लोप्तुम् च मुष्टिभिः ॥६-२४-२९॥
न ते सम्भाषितुम् शक्याः सम्प्रश्नोऽत्र न विद्यते ।
प्रकृत्या कोपनास्तीक्षिणा वानरा राक्षसाधिप ॥६-२४-३०॥
स च हन्ता विराधस्य कबन्धस्य खरस्य च ।
सुग्रीवसहितो रामः सीतायाः पदमागतः ॥६-२४-३१॥
स कृत्वा सागरे सेतुम् तीर्त्वा च लवणोदधिम् ।
एष रक्षासि निर्धूय धन्वी तिष्ठति राघवः ॥६-२४-३२॥
राक्षसानाम् बलौघस्य वानरेन्द्रबलस्य च ।
पुरा प्राकारमायान्ति क्षिप्रमेकतरम् कुरु ।
सीताम् वास्मै प्रयच्चाशु युद्धम् वापि प्रदीयताम् ॥६-२४-३५॥
शुकस्य वचनम् श्रुत्वा रावणो वाक्य मब्रवीत् ।
यदि माम् प्रतियुध्येरन् देवगन्धर्वदानवाः ।
नैव सीताम् प्रदास्यामि सर्वलोकभयादपि ॥६-२४-३७॥
कदा समभिधानन्ति मामका राघवम् शराः ।
वसन्ते पुष्पितम् मत्ता भ्रमरा इव पादपम् ॥६-२४-३८॥
कदा शोणितदिग्धाङ्गम् दीपैः कार्मुकविच्युतैः ।
तच्चास्य बलमादास्ये बलेन महता वृतः ।
सागरस्येव मे वेगो मारुतस्येव मे बलम् ।
न च दाशरथिर्वेद तेन माम् योद्धुमिच्चति ॥६-२४-४१॥
न मे तूणीशयान् बाणान् सनिषानिव पन्नगान् ।
रामः पश्यति सम्ग्रामे तेन माम् योद्धुमिच्चति ॥६-२४-४२॥
न जानाति पुरा वीर्यम् मम युद्धे स राघवः ।
मम चापमयीम् वीणाम् शरकोणैः प्रवादिताम् ॥६-२४-४३॥
अवगाह्य महरङ्गम् वादयिष्यान्तगन् रणे ।
न वासवेनापि स हस्रचक्षुषा ।
युद्धेऽस्मि शक्यो वरुणेन वास्वयम् ।
यमेव वा धर्षयितुम् शराग्निना ।
महाहवे वैश्रवणेन वा स्वयम् ॥६-२४-४५॥
सबले सागरम् तीर्णे रामे दशरथ आत्मजे ।
अमात्यौ रावणः श्रीमान् अब्रवीत् शुक सारणौ ॥६-२५-१॥
समग्रम् सागरम् तीर्णम् दुस्तरम् वानरम् बलम् ।
अभूत पूर्वम् रामेण सागरे सेतु बन्धनम् ॥६-२५-२॥
सागरे सेतु बन्धम् तु न श्रद्दध्याम् कथम्चन ।
अवश्यम् च अपि सम्ख्येयम् तन् मया वानरम् बलम् ॥६-२५-३॥
भवन्तौ वानरम् सैन्यम् प्रविश्य अनुपलक्षितौ ।
परिमाणम् च वीर्यम् च ये च मुख्याः प्लवम् गमाः ॥६-२५-४॥
मन्त्रिणो ये च रामस्य सुग्रीवस्य च सम्मताः ।
ये पूर्वम् अभिवर्तन्ते ये च शूराः प्लवम् गमाः ॥६-२५-५॥
स च सेतुर् यथा बद्धः सागरे सलिल अर्णवे ।
निवेशः च यथा तेषाम् वानराणाम् महात्मनाम् ॥६-२५-६॥
रामस्य व्यवसायम् च वीर्यम् प्रहरणानि च ।
लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुम् अर्हथ ॥६-२५-७॥
कः च सेना पतिस् तेषाम् वानराणाम् महाओजसाम् ।
एतज् ज्ञात्वा यथा तत्त्वम् शीघ्रम् अगन्तुम् अर्हथः ॥६-२५-८॥
इति प्रतिसमादिष्टौ राक्षसौ शुक सारणौ ।
हरि रूप धरौ वीरौ प्रविष्टौ वानरम् बलम् ॥६-२५-९॥
ततस् तद् वानरम् सैन्यम् अचिन्त्यम् लोम हर्षणम् ।
सम्ख्यातुम् न अध्यगच्चेताम् तदा तौ शुक सारणौ ॥६-२५-१०॥
तत् स्थितम् पर्वत अग्रेषु निर्दरेषु गुहासु च ।
समुद्रस्य च तीरेषु वनेषु उपवनेषु च ॥६-२५-११॥
तरमाणम् च तीर्णम् च तर्तु कामम् च सर्वशः ।
निविष्टम् निविशच् चैव भीम नादम् महाबलम् ॥६-२५-१२॥
तौ ददर्श महातेजाः प्रच्चन्नौ च विभीषणः ॥६-२५-१३॥
आचचक्षे अथ रामाय गृहीत्वा शुक सारणौ ।
तस्यैतौ राक्षसेन्द्रस्य मन्त्रिणौ शुक्सारणौ ॥६-२५-१४॥
लंकायाः समनुप्राप्तौ चारौ पर पुरम् जयौ ।
तौ दृष्ट्वा व्यथितौ रामम् निराशौ जीविते तदा ॥६-२५-१५॥
कृत अन्जलि पुटौ भीतौ वचनम् च इदम् ऊचतुः ।
आवाम् इह आगतौ सौम्य रावण प्रहिताव् उभौ ॥६-२५-१६॥
परिज्ञातुम् बलम् कृत्स्नम् तव इदम् रघु नन्दन ।
तयोस् तद् वचनम् श्रुत्वा रामो दशरथ आत्मजः ॥६-२५-१७॥
अब्रवीत् प्रहसन् वाक्यम् सर्व भूत हिते रतः ।
यदि दृष्टम् बलम् कृत्स्नम् वयम् वा सुसमीक्षिताः ॥६-२५-१८॥
यथा उक्तम् वा कृतम् कार्यम् चन्दतः प्रतिगम्यताम् ।
अथ किम्चिददृष्टम् वा भूयस्तद्द्रष्टुमर्हथः ॥६-२५-१९॥
विभीषनो वा कार्त्स्न्येन पुनः सम्दर्शयिष्यति ।
न चेदम् ग्रहम् णम् प्रप्य भेतव्यम् जीवितम् प्रति ॥६-२५-२०॥
व्यस्तशस्त्रौ गृहीतौ च न दूतौ वधमर्हतः ।
प्रच्चन्नौ च विमुञ्चएमौ चारौ रात्रिम्च रावुभौ ॥६-२५-२१॥
शत्रुपक्षस्य सततम् विभीषण विकर्षिणौ ।
प्रविश्य नगरीम् लंकाम् भवद्भ्याम् धनद अनुजः ॥६-२५-२२॥
वक्तव्यो रक्षसाम् राजा यथा उक्तम् वचनम् मम ।
यद् बलम् च समाश्रित्य सीताम् मे हृतवान् असि ॥६-२५-२३॥
तद् दर्शय यथा कामम् ससैन्यः सह बान्धवः ।
श्वः काले नगरीम् लंकाम् सप्राकाराम् सतोरणाम् ॥६-२५-२४॥
राक्षसम् च बलम् पश्य शरैर् विध्वम्सितम् मया ।
खोधम् भीममहम् मोक्ष्ये बलम् धारय रावण ॥६-२५-२५॥
श्वः काले वज्रवान् वज्रम् दानवेष्व् इव वासवः ।
इति प्रतिसमादिष्टौ राक्षसौ शुक सारणौ ॥६-२५-२६॥
जयेति प्रतिनन्द्यैनम् राघवम् धर्मवत्सलम् ।
आगम्य नगरीम् लंकाम् अब्रूताम् राक्षस अधिपम् ॥६-२५-२७॥
विभीषण गृहीतौ तु वध अर्हौ राक्षस ईश्वर ।
दृष्ट्वा धर्म आत्मना मुक्तौ रामेण अमित तेजसा ॥६-२५-२८॥
एक स्थान गता यत्र चत्वारः पुरुष ऋषभाः ।
लोक पाल उपमाः शूराः कृत अस्त्रा दृढ विक्रमाः ॥६-२५-२९॥
रामो दाशरथिः श्रीमाम्ल् लक्ष्मणः च विभीषणः ।
सुग्रीवः च महातेजा महाइन्द्र सम विक्रमः ॥६-२५-३०॥
एते शक्ताः पुरीम् लंकाम् सप्राकाराम् सतोरणाम् ।
उत्पाट्य सम्क्रामयितुम् सर्वे तिष्ठन्तु वानराः ॥६-२५-३१॥
यादृशम् तस्य रामस्य रूपम् प्रहरणानि च ।
वधिष्यति पुरीम् लंकाम् एकस् तिष्ठन्तु ते त्रयः ॥६-२५-३२॥
राम लक्ष्मण गुप्ता सा सुग्रीवेण च वाहिनी ।
बभूव दुर्धर्षतरा सर्वैर् अपि सुर असुरैः ॥६-२५-३३॥
प्रहृष्ट रूपा ध्वजिनी वन ओकसाम् ।
वनौकसाम् सम्प्रति योद्धुम् इच्चताम् ।
अलम् विरोधेन शमो विधीयताम् ।
तद् वचः पथ्यम् अक्लीबम् सारणेन अभिभाषितम् ।
निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥६-२६-१॥
यदि माम् अभियुन्जीरन् देव गन्धर्व दानवाः ।
न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-२६-२॥
त्वम् तु सौम्य परित्रस्तो हरिभिर् निर्जितो भृशम् ।
प्रतिप्रदानम् अद्य एव सीतायाः साधु मन्यसे ॥६-२६-३॥
को हि नाम सपत्नो माम् समरे जेतुम् अर्हति ।
इति उक्त्वा परुषम् वाक्यम् रावणो राक्षस अधिपः ॥६-२६-४॥
आरुरोह ततः श्रीमान् प्रासादम् हिम पाण्डुरम् ।
बहु ताल समुत्सेधम् रावणो अथ दिदृक्षया ॥६-२६-५॥
ताभ्याम् चराभ्याम् सहितो रावणः क्रोध मूर्चितः ।
पश्यमानः समुद्रम् च पर्वतामः च वनानि च ॥६-२६-६॥
ददर्श पृथिवी देशम् सुसम्पूर्णम् प्लवम् गमैः ।
तद् अपारम् असम्ख्येयम् वानराणाम् महद् बलम् ॥६-२६-७॥
आलोक्य रावणो राजा परिपप्रच्च सारणम् ।
एषाम् वानर मुख्यानाम् के शूराः के महाबलाः ॥६-२६-८॥
के पूर्वम् अभिवर्तन्ते महाउत्साहाः समन्ततः ।
केषाम् शृणोति सुग्रीवः के वा यूथप यूथपाः ॥६-२६-९॥
सारण आचक्ष्व मे सर्वम् के प्रधानाः प्लवम् गमाः ।
सारणो राक्षस इन्द्रस्य वचनम् परिपृच्चतः ॥६-२६-१०॥
आचचक्षे अथ मुख्यज्ञो मुख्याम्स् ताम्स् तु वन ओकसः ।
एष यो अभिमुखो लंकाम् नर्दम्स् तिष्ठति वानरः ॥६-२६-११॥
यूथपानाम् सहस्राणाम् शतेन परिवारितः ।
यस्य घोषेण महता सप्राकारा सतोरणा ॥६-२६-१२॥
सर्व शाखा मृग इन्द्रस्य सुग्रीवस्य महात्मनः ॥६-२६-१३॥
बल अग्रे तिष्ठते वीरो नीलो नाम एष यूथपः ।
बाहू प्रगृह्य यः पद्भ्याम् महीम् गच्चति वीर्यवान् ॥६-२६-१४॥
लंकाम् अभिमुखः कोपाद् अभीक्ष्णम् च विजृम्भते ।
गिरि शृन्ग प्रतीकाशः पद्म किन्जल्क सम्निभः ॥६-२६-१५॥
स्फोटयति अभिसम्रब्धो लान्गूलम् च पुनः पुनः ।
यस्य लान्गूल शब्देन स्वनन्ति इव दिशो दश ॥६-२६-१६॥
एष वानर राजेन सुर्ग्रीवेण अभिषेचितः ।
यौवराज्ये अन्गदो नाम त्वाम् आह्वयति सम्युगे ॥६-२६-१७॥
वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः ।
राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ॥६-२६-१८॥
एतस्य सा मतिः सर्वा यद्दृष्टा जनकात्मजा ।
हनूमता वेगवता राघवस्य हितैषिणा ॥६-२६-१९॥
बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् ।
परिगृह्याभियाति त्वाम् स्वेनानीकेन मर्दितुम् ॥६-२६-२०॥
अनुवालिसुतस्यापि बलेन महता वृतः ।
वीरस्तिष्ठति सम्ग्रामे सेतुहेतुरयम् नलः ॥६-२६-२१॥
ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च ।
उत्थाय च विजृम्भन्ते क्रोधेन हरि पुम्गवाः ॥६-२६-२२॥
एते दुष्प्रसहा घोराः चण्डाः चण्ड पराक्रमाः ।
अष्टौ शत सहस्राणि दश कोटि शतानि च ॥६-२६-२३॥
य एनम् अनुगच्चन्ति वीराः चन्दन वासिनः ।
एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-२४॥
श्वेतो रजत सम्काशः सबलो भीम विक्रमः ।
बुद्धिमान् वानरः शूरस् त्रिषु लोकेषु विश्रुतः ॥६-२६-२५॥
तूर्णम् सुग्रीवम् आगम्य पुनर् गच्चति वानरः ।
विभजन् वानरीम् सेनाम् अनीकानि प्रहर्षयन् ॥६-२६-२६॥
यः पुरा गोमती तीरे रम्यम् पर्येति पर्वतम् ।
नाम्ना सम्कोचनो नाम नाना नग युतो गिरिः ॥६-२६-२७॥
तत्र राज्यम् प्रशास्ति एष कुमुदो नाम यूथपः ।
यो असौ शत सहस्राणाम् सहस्रम् परिकर्षति ॥६-२६-२८॥
यस्य वाला बहु व्यामा दीर्घ लान्गूलम् आश्रिताः ।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२६-२९॥
अदीनो रोषणः चण्डः सम्ग्रामम् अभिकान्क्षति ।
एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-३०॥
यस् त्व् एष सिम्ह सम्काशः कपिलो दीर्घ केसरः ।
निभृतः प्रेक्षते लंकाम् दिधक्षन्न् इव चक्षुषा ॥६-२६-३१॥
विन्ध्यम् कृष्ण गिरिम् सह्यम् पर्वतम् च सुदर्शनम् ।
राजन् सततम् अध्यास्ते रम्भो नाम एष यूथपः ॥६-२६-३२॥
शतम् शत सहस्राणाम् त्रिम्शच् च हरि यूथपाः ।
यम् यान्तम् वानरा घोराश्चण्डाश्चण्ड्पराक्रमाः ॥६-२६-३३॥
परिवार्य अनुगच्चन्ति लंकाम् मर्दितुम् ओजसा ।
यस् तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ॥६-२६-३४॥
न च सम्विजते मृत्योर् न च यूथाद् विधावति ।
प्रकम्पते च रोषेन तिर्यक्च पुनरीक्षते ॥६-२६-३५॥
पश्यन् लाङ्गूलमपि च क्स्वेडत्येष महाबलः ।
महाबलो वीत भयो रम्यम् साल्वेय पर्वतम् ॥६-२६-३६॥
राजन् सततम् अध्यास्ते शरभो नाम यूथपः ।
एतस्य बलिनः सर्वे विहारा नाम यूथपाः ॥६-२६-३७॥
राजन् शत सहस्राणि चत्वारिम्शत् तथैव च ।
यस् तु मेघ इव आकाशम् महान् आवृत्य तिष्ठति ॥६-२६-३८॥
मध्ये वानर वीराणाम् सुराणाम् इव वासवः ।
भेरीणाम् इव सम्नादो यस्य एष श्रूयते महान् ॥६-२६-३९॥
घोरः शाखा मृग इन्द्राणाम् सम्ग्रामम् अभिकान्क्षताम् ।
एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम् ॥६-२६-४०॥
युद्धे दुष्प्रसहो नित्यम् पनसो नाम यूथपः ।
एनम् शत सहस्राणाम् शत अर्धम् पर्युपासते ॥६-२६-४१॥
यूथपा यूथप श्रेष्ठम् येषाम् यूथानि भागशः ।
यस् तु भीमाम् प्रवल्गन्तीम् चमूम् तिष्ठति शोभयन् ॥६-२६-४२॥
स्थिताम् तीरे समुद्रस्य द्वितीय इव सागरः ।
एष दर्दर सम्काशो विनतो नाम यूथपः ॥६-२६-४३॥
पिबमः चरति पर्णाशाम् नदीनाम् उत्तमाम् नदीम् ।
षष्टिः शत सहस्राणि बलम् अस्य प्लवम् गमाः ॥६-२६-४४॥
त्वाम् आह्वयति युद्धाय क्रथनो नाम यूथपः ।
विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ॥६-२६-४५॥
यस् तु गैरिक वर्ण आभम् वपुः पुष्यति वानरः ।
अवमत्य सदा सर्वान्वानरान् बलदर्पितः ॥६-२६-४६॥
गवयो नाम तेजस्वी त्वाम् क्रोधाद् अभिवर्तते ।
एनम् शत सहस्राणि सप्ततिः पर्युपासते ।
एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-४७॥
एते दुष्प्रसहा घोरा बलिनः काम रूपिणः ।
यूथपा यूथप श्रेष्ठा येषाम् सम्ख्या न विद्यते ॥६-२६-४८॥
ताम्स्तु ते सम्प्रक्ष्यामि प्रेक्षमाणस्य यूथपान् ।
राघव अर्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥६-२७-१॥
स्निग्धा यस्य बहु श्यामा बाला लान्गूलम् आश्रिताः ।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२७-२॥
प्रगृहीताः प्रकाशन्ते सूर्यस्य इव मरीचयः ।
पृथिव्याम् च अनुकृष्यन्ते हरो नाम एष यूथपः ॥६-२७-३॥
यम् पृष्ठतो अनुगच्चन्ति शतशो अथ सहस्रशः ।
वृक्षानुद्यम्य सहसा लङ्का रोहणतत्पराः ॥६-२७-४॥
यूथपा हरिराजस्य किम्कराः समुपस्थिताः ।
नीलान् इव महामेघाम्स् तिष्ठतो याम्स् तु पश्यसि ॥६-२७-५॥
असितान् जन सम्काशान् युद्धे सत्य पराक्रमान् ।
असम्ख्येयान् अनिर्देश्यान् परम् पारम् इव उदधेः ॥६-२७-६॥
पर्वतेषु च ये केचिद् विषमेषु नदीषु च ।
एते त्वाम् अभिवर्तन्ते राजन्न् ऋष्काः सुदारुणाः ॥६-२७-७॥
एषाम् मध्ये स्थितो राजन् भीम अक्षो भीम दर्शनः ।
पर्जन्य इव जीमूतैः समन्तात् परिवारितः ॥६-२७-८॥
ऋक्षवन्तम् गिरि श्रेष्ठम् अध्यास्ते नर्मदाम् पिबन् ।
सर्व ऋक्षाणाम् अधिपतिर् धूम्रो नाम एष यूथपः ॥६-२७-९॥
यवीयान् अस्य तु भ्राता पश्य एनम् पर्वत उपमम्भ्रात्रा समानो रूपेण विशिष्टस् तु पराक्रमे ॥६-२७-१०॥
स एष जाम्बवान् नाम महायूथप यूथपः ।
प्रशान्तो गुरु वर्ती च सम्प्रहारेष्व् अमर्षणः ॥६-२७-११॥
एतेन साह्यम् सुमहत् कृतम् शक्रस्य धीमता ।
देव असुरे जाम्बवता लब्धाः च बहवो वराः ॥६-२७-१२॥
आरुह्य पर्वत अग्रेभ्यो महाअभ्र विपुलाः शिलाः ।
मुन्चन्ति विपुल आकारा न मृत्योर् उद्विजन्ति च ॥६-२७-१३॥
राक्षसानाम् च सदृशाः पिशाचानाम् च रोमशाः ।
एतस्य सैन्ये बहवो विचरन्ति अग्नि तेजसः ॥६-२७-१४॥
यम् त्व् एनम् अभिसम्रब्धम् प्लवमानम् इव स्थितम् ।
प्रेक्षन्ते वानराः सर्वे स्थितम् यूथप यूथपम् ॥६-२७-१५॥
एष राजन् सहस्र अक्षम् पर्युपास्ते हरि ईश्वरः ।
बलेन बल सम्पन्नो रम्भो नाम एष यूथपः ॥६-२७-१६॥
यः स्थितम् योजने शैलम् गच्चन् पार्श्वेन सेवते ।
ऊर्ध्वम् तथैव कायेन गतः प्राप्नोति योजनम् ॥६-२७-१७॥
यस्मान् न परमम् रूपम् चतुष्पादेषु विद्यते ।
श्रुतः सम्नादनो नाम वानराणाम् पितामहः ॥६-२७-१८॥
येन युद्धम् तदा दत्तम् रणे शक्रस्य धीमता ।
पराजयः च न प्राप्तः सो अयम् यूथप यूथपः ॥६-२७-१९॥
यस्य विक्रममाणस्य शक्रस्य इव पराक्रमः ।
एष गन्धर्व कन्यायाम् उत्पन्नः कृष्ण वर्त्मना ॥६-२७-२०॥
तत्र देवासुरे युद्धे साह्यार्थम् त्रिदिवौकसाम् ।
यत्र वैश्रवणो राजा जम्बूमुपनिषेवते ॥६-२७-२१॥
यो राजा पर्वत इन्द्राणाम् बहु किम्नर सेविनाम् ।
विहार सुखदो नित्यम् भ्रातुस् ते राक्षस अधिप ॥६-२७-२२॥
तत्र एष वसति श्रीमान् बलवान् वानर ऋषभः ।
युद्धेष्व् अकत्थनो नित्यम् क्रथनो नाम यूथपः ॥६-२७-२३॥
वृतः कोटि सहस्रेण हरीणाम् समवस्थितः ।
एषैवाशम्सते लङ्काम् स्वेनानीकेन मर्दितुम् ॥६-२७-२४॥
यो गङ्गामनुपर्येति त्रासयन् गजयूथपान् ।
हस्तिनाम् वानराणाम् च पूर्ववैरमनुस्मरन् ॥६-२७-२५॥
एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः ।
गजान् रोधयते वन्यानारुजम्श्च महीरुहान् ॥६-२७-२६॥
हरीणाम् वाहिनी मुख्यो नदीम् हैमवतीम् अनु ।
उशीर बीजम् आश्रित्य पर्वतम् मन्दर उपमम् ॥६-२७-२७॥
रमते वानर श्रेष्ठो दिवि शक्र इव स्वयम् ।
एनम् शत सहस्राणाम् सहस्रम् अभिवर्तते ॥६-२७-२८॥
स एष नेता न्हैतेषाम् वानराणाम् महात्मनम् ॥६-२७-२९॥
स एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः ।
वातेन इव उद्धतम् मेघम् यम् एनम् अनुपश्यसि ॥६-२७-३०॥
अनीकमपि सम्रब्धम् वानराणाम् तरस्विनाम् ।
विवर्तमानम् बहुशो यत्र एतद् बहुलम् रजः ।
एते असित मुखा घोरा गो लान्गूला महाबलाः ॥६-२७-३२॥
शतम् शत सहस्राणि दृष्ट्वा वै सेतु बन्धनम् ।
गो लान्गूलम् महावेगम् गव अक्षम् नाम यूथपम् ॥६-२७-३३॥
परिवार्य अभिवर्तन्ते लंकाम् मर्दितुम् ओजसा ।
भ्रमर आचरिता यत्र सर्व काम फल द्रुमाः ॥६-२७-३४॥
यम् सूर्य तुल्य वर्ण आभम् अनुपर्येति पर्वतम् ।
यस्य भासा सदा भान्ति तद् वर्णा मृग पक्षिणः ॥६-२७-३५॥
यस्य प्रस्थम् महात्मानो न त्यजन्ति महर्षयः ।
सर्वकामफला वृक्षाः सर्वे फलसमन्विताः ॥६-२७-३६॥
मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे ।
तत्र एष रमते राजन् रम्ये कान्चन पर्वते ॥६-२७-३७॥
मुख्यो वानर मुख्यानाम् केसरी नाम यूथपः ।
षष्टिर् गिरि सहस्राणाम् रम्याः कान्चन पर्वताः ॥६-२७-३८॥
तेषाम् मध्ये गिरि वरस् त्वम् इव अनघ रक्षसाम् ।
तत्र एते कपिलाः श्वेतास् ताम्र आस्या मधु पिन्गलाः ॥६-२७-३९॥
निवसन्ति उत्तम गिरौ तीक्ष्ण दम्ष्ट्रा नख आयुधाः ।
सिम्ह इव चतुर् दम्ष्ट्रा व्याघ्रा इव दुरासदाः ॥६-२७-४०॥
सर्वे वैश्वनर समा ज्वलित आशी विष उपमाः ।
सुदीर्घ अन्चित लान्गूला मत्त मातम्ग सम्निभाः ॥६-२७-४१॥
महापर्वत सम्काशा महाजीमूत निस्वनाः ।
एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥६-२७-४३॥
नाम्ना पृथिव्याम् विख्यातो राजन् शत बली इति यः ॥६-२७-४४॥
एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ।
विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः ॥६-२७-४५॥
रामप्रियार्थम् प्राणानाम् दयाम् न कुरुते हरिः ।
गजो गव अक्षो गवयो नलो नीलः च वानरः ।
एक एक एव यूथानाम् कोटिभिर् दशभिर् वृतः ॥६-२७-४६॥
तथा अन्ये वानर श्रेष्ठा विन्ध्य पर्वत वासिनः ।
न शक्यन्ते बहुत्वात् तु सम्ख्यातुम् लघु विक्रमाः ॥६-२७-४७॥
सर्वे महाशैल निकाश कायाः ।
सर्वे समर्थाः पृथिवीम् क्षणेन ।
कर्तुम् प्रविध्वस्त विकीर्ण शैलाम् ॥६-२७-४८॥
सारणस्य वचः श्रुत्वा रावणम् राक्षस अधिपम् ।
बलम् आलोकयन् सर्वम् शुको वाक्यम् अथ अब्रवीत् ॥६-२८-१॥
स्थितान् पश्यसि यान् एतान् मत्तान् इव महाद्विपान् ।
न्यग्रोधान् इव गान्गेयान् सालान् हैमवतीन् इव ॥६-२८-२॥
एते दुष्प्रसहा राजन् बलिनः काम रूपिणः ।
दैत्य दानव सम्काशा युद्धे देव पराक्रमाः ॥६-२८-३॥
एषाम् कोटि सहस्राणि नव पन्च च सप्त च ।
तथा शन्ख सहस्राणि तथा वृन्द शतानि च ॥६-२८-४॥
एते सुग्रीव सचिवाः किष्किन्धा निलयाः सदा ।
हरयो देव गन्धर्वैर् उत्पन्नाः काम रूपिणः ॥६-२८-५॥
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देव रूपिणौ ।
मैन्दः च द्विविदः च उभौ ताभ्याम् न अस्ति समो युधि ॥६-२८-६॥
ब्रह्मणा समनुज्ञाताव् अमृत प्राशिनाव् उभौ ।
आशम्सेते युधा लंकाम् एतौ मर्दितुम् ओजसा ॥६-२८-७॥
यम् तु पश्यसि तिष्ठन्तम् प्रभिन्नम् इव कुन्जरम् ।
यो बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः ॥६-२८-८॥
एषो अभिगन्ता लंकाया वैदेह्यास् तव च प्रभो ।
एनम् पश्य पुरा दृष्टम् वानरम् पुनर् आगतम् ॥६-२८-९॥
ज्येष्ठः केसरिणः पुत्रो वात आत्मज इति श्रुतः ।
हनूमान् इति विख्यातो लन्घितो येन सागरः ॥६-२८-१०॥
काम रूपी हरि श्रेष्ठो बल रूप समन्वितः ।
अनिवार्य गतिः चैव यथा सततगः प्रभुः ॥६-२८-११॥
उद्यन्तम् भास्करम् दृष्ट्वा बालः किल पिपासितः ।
त्रियोजन सहस्रम् तु अध्वानम् अवतीर्य हि ॥६-२८-१२॥
आदित्यम् आहरिष्यामि न मे क्षुत् प्रतियास्यति ।
इति सम्चिन्त्य मनसा पुरा एष बल दर्पितः ॥६-२८-१३॥
अनाधृष्यतमम् देवम् अपि देव ऋषि दानवैः ।
अनासाद्य एव पतितो भास्कर उदयने गिरौ ॥६-२८-१४॥
पतितस्य कपेर् अस्य हनुर् एका शिला तले ।
किम्चिद् भिन्ना दृढ हनोर् हनूमान् एष तेन वै ॥६-२८-१५॥
सत्यम् आगम योगेन मम एष विदितो हरिः ।
न अस्य शक्यम् बलम् रूपम् प्रभावो वा अनुभाषितुम् ॥६-२८-१६॥
एष आशम्सते लंकाम् एको मर्दितुम् ओजसा ।
येव जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै ॥६-२८-१७॥
लंकायाम् निहितश्चापि कथम् विस्मरसे कसिम् ।
यः च एषो अनन्तरः शूरः श्यामः पद्म निभ ईक्षणः ॥६-२८-१८॥
इक्ष्वाकूणाम् अतिरथो लोके विख्यात पौरुषः ।
यस्मिन् न चलते धर्मो यो धर्मम् न अतिवर्तते ॥६-२८-१९॥
यो ब्राह्मम् अस्त्रम् वेदामः च वेद वेदविदाम् वरः ।
यो भिन्द्याद् गगनम् बाणैः पर्वतामः च अपि दारयेत् ॥६-२८-२०॥
यस्य मृत्योर् इव क्रोधः शक्रस्य इव पराक्रमः ।
यस्य भार्या जन्स्थानात्सीता चापि हृता त्वया ॥६-२८-२१॥
स एष रामस् त्वाम् योद्धुम् राजन् समभिवर्तते ।
यः च एष दक्षिणे पार्श्वे शुद्ध जाम्बू नद प्रभः ॥६-२८-२२॥
विशाल वक्षास् ताम्र अक्षो नील कुन्चित मूर्धजः ।
एषो अस्य लक्ष्मणो नाम भ्राता प्राण समः प्रियः ॥६-२८-२३॥
नये युद्धे च कुशलः सर्व शास्त्रभृताम् वरः ।
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ॥६-२८-२४॥
रामस्य दक्षिणो बाहुर् नित्यम् प्राणो बहिः चरः ।
न हि एष राघवस्य अर्थे जीवितम् परिरक्षति ॥६-२८-२५॥
एष एव आशम्सते युद्धे निहन्तुम् सर्व राक्षसान् ।
यस् तु सव्यम् असौ पक्षम् रामस्य आश्रित्य तिष्ठति ॥६-२८-२६॥
रक्षो गण परिक्षिप्तो राजा हि एष विभीषणः ।
श्रीमता राज राजेन लंकायाम् अभिषेचितः ॥६-२८-२७॥
त्वाम् एव प्रतिसम्रब्धो युद्धाय एषो अभिवर्तते ।
यम् तु पश्यसि तिष्ठन्तम् मध्ये गिरिम् इव अचलम् ॥६-२८-२८॥
सर्व शाखा मृग इन्द्राणाम् भर्तारम् अपराजितम् ।
तेजसा यशसा बुद्ध्या ज्ञानेन अभिजनेन च ॥६-२८-२९॥
यः कपीन् अति बभ्राज हिमवान् इव पर्वतान् ।
किष्किन्धाम् यः समध्यास्ते गुहाम् सगहन द्रुमाम् ॥६-२८-३०॥
दुर्गाम् पर्वत दुर्गस्थाम् प्रधानैः सह यूथपैः ।
यस्य एषा कान्चनी माला शोभते शत पुष्करा ॥६-२८-३१॥
कान्ता देव मनुष्याणाम् यस्याम् लक्ष्मीः प्रतिष्ठिता ।
एताम् च मालाम् ताराम् च कपि राज्यम् च शाश्वतम् ॥६-२८-३२॥
सुग्रीवो वालिनम् हत्वा रामेण प्रतिपादितः ।
शतम् शङ्कुसहस्राणाम् महाशङ्कुरिति स्मृतः ॥६-२८-३४॥
शतम् नृन्दसहस्राणाम् महावृन्दमिति स्मृतम् ॥६-२८-३५॥
शतम् पद्मसहस्राणाम् महापद्ममिति स्मृतम् ॥६-२८-३६॥
शतम् खर्वसहस्राणाम् महाखर्वमिति स्मृतम् ॥६-२८-३७॥
शतमोघसहस्राणाम् महौघ इति विश्रुतः ।
एवम् कोटि सहस्रेण शन्कूनाम् च शतेन च ॥६-२८-३९॥
महाशङ्कुसहस्रेण तथा वृन्दशतेन च ।
महावृन्दसहस्रेण तथा पद्मशतेन च ॥६-२८-४०॥
महापद्मसहस्रेण तथा खर्वशतेन च ।
समुद्रेण च तेनैव महुघेन तथैव च ॥६-२८-४१॥
एष कोटिमहौघेन समुद्रसदृशेन च ।
विभीषणेन वीरेण सचिवैः परिवारितः ॥६-२८-४२॥
सुग्रीवो वानर इन्द्रस् त्वाम् युद्ध अर्थम् अभिवर्तते ।
इमाम् महाराज समीक्ष्य वाहिनीम् ।
उपस्थिताम् प्रज्वलित ग्रह उपमाम् ।
ततः प्रयत्नः परमो विधीयताम् ।
यथा जयः स्यान् न परैः पराजयः ॥६-२८-४४॥
शुकेन तु समाख्याताम्स् तान् दृष्ट्वा हरि यूथपान् ।
लक्ष्मणम् च महावीर्यम् भुजम् रामस्य दक्षिणम् ॥६-२९-१॥
समीपस्थम् च रामस्य भ्रातरम् स्वम् विभीषणम् ।
सर्व वानर राजम् च सुग्रीवम् भीम विक्रमम् ॥६-२९-२॥
अङ्गदम् चापि बलिनम् वज्रहस्तात्मजात्मजम् ।
हनूमन्तम् च विक्रान्तम् जाम्बवन्तम् च दुर्जयम् ॥६-२९-३॥
सुषेणम् कुमुदम् नीलम् नलम् च प्लवगर्षभम् ।
गजम् गवाक्षम् शरभम् वैन्दम् च द्विविदम् तथा ॥६-२९-४॥
किम्चिद् आविग्न हृदयो जात क्रोधः च रावणः ।
भर्त्सयाम् आस तौ वीरौ कथा अन्ते शुक सारणौ ॥६-२९-५॥
अधो मुखौ तौ प्रणताव् अब्रवीत् शुक सारणौ ।
रोष गद्गदया वाचा सम्रब्धः परुषम् वचः ॥६-२९-६॥
न तावत् सदृशम् नाम सचिवैर् उपजीविभिः ।
विप्रियम् नृपतेर् वक्तुम् निग्रह प्रग्रहे विभोः ॥६-२९-७॥
रिपूणाम् प्रतिकूलानाम् युद्ध अर्थम् अभिवर्तताम् ।
उभाभ्याम् सदृशम् नाम वक्तुम् अप्रस्तवे स्तवम् ॥६-२९-८॥
आचार्या गुरवो वृद्धा वृथा वाम् पर्युपासिताः ।
सारम् यद् राज शास्त्राणाम् अनुजीव्यम् न गृह्यते ॥६-२९-९॥
गृहीतो वा न विज्ञातो भारो ज्ञानस्य वा उच्यते ।
ईदृशैः सचिवैर् युक्तो मूर्खैर् दिष्ट्या धरामि अहम् ॥६-२९-१०॥
किम् नु मृत्योर् भयम् न अस्ति माम् वक्तुम् परुषम् वचः ।
यस्य मे शासतो जिह्वा प्रयच्चति शुभ अशुभम् ॥६-२९-११॥
अपि एव दहनम् स्पृष्ट्वा वने तिष्ठन्ति पादपाः ।
राज दोष परामृष्टास् तिष्ठन्ते न अपराधिनः ॥६-२९-१२॥
हन्याम् अहम् इमौ पापौ शत्रु पक्ष प्रशम्सकौ ।
यदि पूर्व उपकारैर् मे न क्रोधो मृदुताम् व्रजेत् ॥६-२९-१३॥
अपध्वम्सत गच्चध्वम् सम्निकर्षाद् इतो मम ।
न हि वाम् हन्तुम् इच्चामि स्मरन्न् उपकृतानि वाम् ॥६-२९-१४॥
हताव् एव कृतघ्नौ तौ मयि स्नेह परान् मुखौ ।
एवम् उक्तौ तु सव्रीडौ ताव् उभौ शुक सारणौ ॥६-२९-१५॥
रावणम् जय शब्देन प्रतिनन्द्य अभिनिह्सृतौ ।
अब्रवीत् स दशग्रीवः समीपस्थम् महाउदरम् ॥६-२९-१६॥
उपस्थापय शीघ्रम् मे चारान् नीति विशारदान् ।
ततश्चाराः सम्त्वरिताः प्राप्ताः पार्थिवशासनात् ।
उपस्थिथाः प्राञ्जलयो वर्धयित्वा जयाशिषः ॥६-२९-१८॥
तान् अब्रवीत् ततो वाक्यम् रावणो राक्षस अधिपः ॥६-२९-१९॥
चारान् प्रत्ययिकान् शूरान् भक्तान् विगत साध्वसान् ।
इतो गच्चत रामस्य व्यवसायम् परीक्षथ ॥६-२९-२०॥
मन्त्रेष्व् अभ्यन्तरा ये अस्य प्रीत्या तेन समागताः ।
कथम् स्वपिति जागर्ति किम् अन्यच् च करिष्यति ॥६-२९-२१॥
विज्ञाय निपुणम् सर्वम् आगन्तव्यम् अशेषतः ।
चारेण विदितः शत्रुः पण्डितैर् वसुधा अधिपैः ॥६-२९-२२॥
युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ।
चारास् तु ते तथा इति उक्त्वा प्रहृष्टा राक्षस ईश्वरम् ॥६-२९-२३॥
शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ।
ततस्तम् तु महात्मानम् चारा राक्षससत्तमम् ॥६-२९-२४॥
कृत्वा प्रदक्षिणम् जग्मुर् यत्र रामः सलक्ष्मणः ।
ते सुवेलस्य शैलस्य समीपे राम लक्ष्मणौ ॥६-२९-२५॥
प्रच्चन्ना ददृशुर् गत्वा ससुग्रीव विभीषणौ ।
प्रेक्षमाणाश्चमूम् ताम् च बभूवुर्भयविह्वलाः ॥६-२९-२६॥
ते तु धर्म आत्मना दृष्टा राक्षस इन्द्रेण राक्षसाः ।
विभीषणेन तत्रस्था निगृहीता यदृच्चया ॥६-२९-२७॥
शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः ।
मोक्षितः सोऽपि रामेण वध्यमानः प्लवङ्गमैः ॥६-२९-२८॥
अनृशम्सेन रामेण मोक्षिता राक्षसाः सरे ।
वानरैर् अर्दितास् ते तु विक्रान्तैर् लघु विक्रमैः ॥६-२९-२९॥
पुनर् लंकाम् अनुप्राप्ताः श्वसन्तो नष्ट चेतसः ।
ततो दशग्रीवम् उपस्थितास् ते ।
चारा बहिर् नित्य चरा निशा चराः ।
गिरेः सुवेलस्य समीप वासिनम् ।
न्यवेदयन् भीम बलम् महाबलाः ॥६-२९-३०॥
ततस्तमक्षोभ्य बलम् लंका अधिपतये चराः ।
सुवेले राघवम् शैले निविष्टम् प्रत्यवेदयन् ॥६-३०-१॥
चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् ।
जात उद्वेगो अभवत् किम्चित् शार्दूलम् वाक्यम् अब्रवीत् ॥६-३०-२॥
न असि कच्चिद् अमित्राणाम् क्रुद्धानाम् वशम् आगतः ॥६-३०-३॥
इति तेन अनुशिष्टस् तु वाचम् मन्दम् उदीरयत् ।
तदा राक्षस शार्दूलम् शार्दूलो भय विह्वलः ॥६-३०-४॥
न ते चारयितुम् शक्या राजन् वानर पुम्गवाः ।
विक्रान्ता बलवन्तः च राघवेण च रक्षिताः ॥६-३०-५॥
न अपि सम्भाषितुम् शक्याः सम्प्रश्नो अत्र न लभ्यते ।
सर्वतो रक्ष्यते पन्था वानरैः पर्वत उपमैः ॥६-३०-६॥
प्रविष्ट मात्रे ज्ञातो अहम् बले तस्मिन्न् अचारिते ।
बलाद् गृहीतो बहुभिर् बहुधा अस्मि विदारितः ॥६-३०-७॥
जानुभिर् मुष्टिभिर् दन्तैस् तलैः च अभिहतो भृशम् ।
परिणीतो अस्मि हरिभिर् बलवद्भिर् अमर्षणैः ॥६-३०-८॥
परिणीय च सर्वत्र नीतो अहम् राम सम्सदम् ।
रुधिर आदिग्ध सर्व अन्गो विह्वलः चलित इन्द्रियः ॥६-३०-९॥
हरिभिर् वध्यमानः च याचमानः कृत अन्जलिः ।
राघवेण परित्रातो जीवामि ह यदृच्चया ॥६-३०-१०॥
एष शैलैः शिलाभिः च पूरयित्वा महाअर्णवम् ।
द्वारम् आश्रित्य लंकाया रामस् तिष्ठति सायुधः ॥६-३०-११॥
गरुड व्यूहम् आस्थाय सर्वतो हरिभिर् वृतः ।
माम् विसृज्य महातेजा लंकाम् एव अभिवर्तते ॥६-३०-१२॥
पुरा प्राकारम् आयाति क्षिप्रम् एकतरम् कुरु ।
सीताम् च अस्मै प्रयच्च आशु सुयुद्धम् वा प्रदीयताम् ॥६-३०-१३॥
मनसा सम्तताप अथ तत् श्रुत्वा राक्षस अधिपः ।
शार्दूलस्य महद् वाक्यम् अथ उवाच स रावणः ॥६-३०-१४॥
यदि माम् प्रतियुध्येरन् देव गन्धर्व दानवाः ।
न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-३०-१५॥
एवम् उक्त्वा महातेजा रावणः पुनर् अब्रवीत् ।
चारिता भवता सेना के अत्र शूराः प्लवम् गमाः ॥६-३०-१६॥
कीदृशाः किम् प्रभावाः च वानरा ये दुरासदाः ।
कस्य पुत्राः च पौत्राः च तत्त्वम् आख्याहि राक्षस ॥६-३०-१७॥
तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषाम् बल अबलम् ।
अवश्यम् बल सम्ख्यानम् कर्तव्यम् युद्धम् इच्चता ॥६-३०-१८॥
अथ एवम् उक्तः शार्दूलो रावणेन उत्तमः चरः ।
इदम् वचनम् आरेभे वक्तुम् रावण सम्निधौ ॥६-३०-१९॥
अथ ऋक्ष रजसः पुत्रो युधि राजन् सुदुर्जयः ।
गद्गदस्य अथ पुत्रो अत्र जाम्बवान् इति विश्रुतः ॥६-३०-२०॥
गद्गदस्य एव पुत्रो अन्यो गुरु पुत्रः शत क्रतोः ।
कदनम् यस्य पुत्रेण कृतम् एकेन रक्षसाम् ॥६-३०-२१॥
सुषेणः च अपि धर्म आत्मा पुत्रो धर्मस्य वीर्यवान् ।
सौम्यः सोम आत्मजः च अत्र राजन् दधि मुखः कपिः ॥६-३०-२२॥
सुमुखो दुर्मुखः च अत्र वेग दर्शी च वानरः ।
मृत्युर् वानर रूपेण नूनम् सृष्टः स्वयम्भुवा ॥६-३०-२३॥
पुत्रो हुत वहस्य अथ नीलः सेना पतिः स्वयम् ।
अनिलस्य च पुत्रो अत्र हनूमान् इति विश्रुतः ॥६-३०-२४॥
नप्ता शक्रस्य दुर्धर्षो बलवान् अन्गदो युवा ।
मैन्दः च द्विविदः च उभौ बलिनाव् अश्वि सम्भवौ ॥६-३०-२५॥
पुत्रा वैवस्वतस्य अत्र पन्च काल अन्तक उपमाः ।
गजो गव अक्षो गवयः शरभो गन्ध मादनः ॥६-३०-२६॥
दश वानरकोट्यश्च शूराणाम् युद्धकाङ्ग्क्षिणाम् ।
श्रीमताम् देवपुत्राणाम् शेषम् नाख्यातुमुत्सहे ॥६-३०-२७॥
पुत्रो दशरथस्येष सिम्हसम्हननो युवा ।
दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥६-३०-२८॥
नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन ।
विराधो निहतो येन कबन्धश्चान्तकोपमः ॥६-३०-२९॥
वक्तुम् न शक्तो रामस्य गुणान् कश्चिन्नरः क्षितौ ।
जनस्थानगता येन तावन्तो राक्षसा हताः ॥६-३०-३०॥
यस्य बाणपथम् प्राप्य व जीवेदपि वासवः ॥६-३०-३१॥
श्वेतो ज्योतिर् मुखः च अत्र भास्करस्य आत्म सम्भवौ ।
वरुणस्य च पुत्रो अथ हेम कूटः प्लवम् गमः ॥६-३०-३२॥
विश्व कर्म सुतो वीरो नलः प्लवग सत्तमः ।
विक्रान्तो वेगवान् अत्र वसु पुत्रः सुदुर्धरः ॥६-३०-३३॥
राक्षसानाम् वरिष्ठः च तव भ्राता विभीषणः ।
परिगृह्य पुरीम् लंकाम् राघवस्य हिते रतः॥६-३०-३४॥
इति सर्वम् समाख्यातम् तव इदम् वानरम् बलम् ।
सुवेले अधिष्ठितम् शैले शेष कार्ये भवान् गतिः ॥६-३०-३५॥
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥६-३१-१॥
चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् ।
मन्त्रिणः शीघ्रमायान्तु सर्वे वै सु समाहिताः ।
अयम् नो मन्त्रकालो हि सम्प्रास्त इति राक्षसाः ॥६-३१-३॥
तस्य तच्चासनम् श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम् ।
ततः स मन्त्रयामास राक्षसैः सचिवैः सह ॥६-३१-४॥
मन्त्रयित्वा तु दुर्धर्षः क्षमं यत्तदन्न्तरम् ।
विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम् ॥६-३१-५॥
ततो राक्षसमादाय विद्युज्जिह्वम् महाबलम् ।
मायाविदम् महामायः प्रविशद्यत्र मैथिली ॥६-३१-६॥
मोहयिष्यावहे सीताम् मायया जनकात्मजाम् ॥६-३१-७॥
शिरो मायामयम् गृह्य राघवस्य विशाचर ।
मां त्वं समुपतिष्ठस्व महच्च सशरम् धनुः ॥६-३१-८॥
एवमुक्त स्तथेत्याह विद्युज्जिह्वो निशाचतः ।
दर्शयामास ताम् मायाम् सुप्रयुक्ताम् स रावणे ॥६-३१-९॥
तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् ।
ततो दीनामदैन्यार्हाम् ददर्श धनदामजः ॥६-३१-११॥
उपसृत्य ततः सीताम् प्रहर्षं नाम कीर्तयन् ॥६-३१-१३॥
इदम् च वचनम् धृष्टमुवाच जनकात्मजाम् ।
सान्त्व्यमाना मया भद्रे यमाश्रित्य विमन्यसे ॥६-३१-१४॥
खरहन्ता स ते भर्ता राघवः समरे हतः ।
चिन्नम् ते सर्वथा मूलम् दर्पश्च विहतो मया ॥६-३१-१५॥
व्यसनेनात्मनः सीते मम भार्या भविष्यसि ।
विसृजैतां मतिं मूढे किं मृतेन करिष्यसि ॥६-३१-१६॥
भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम ।
अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि ॥६-३१-१७॥
सृणु भर्तृनधम् सीते घोरं वृत्रवधं यथा ।
समायातः समुद्रान्तं हन्तुं मां किल राघवः ॥६-३१-१८॥
वानरेन्द्रप्रणीतेन बलेव महता वृतः ।
सम्निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् ॥६-३१-१९॥
बलेन महता रामो व्रजत्यस्तम् दिवाकरे ।
अथाध्वनि परिश्रान्तमर्धरात्रे स्थितम् बलम् ॥६-३१-२०॥
सुखसुप्तं समासाद्य चरितम् प्रथमं चरैः ।
तत्प्रहस्तप्रणीतेन बलेन महता मम ॥६-३१-२१॥
बलमस्य हतम् रात्रौ यत्र रामः सलक्ष्मणः ।
बाणजालानि शूलानि भास्वरान् कूटमुद्गरान् ।
यष्टीश्च तोमरान् प्रासाम्श्चक्राणि मुसलानि च ॥६-३१-२३॥
अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ॥६-३१-२४॥
असक्तम् कृतहस्तेन शिरश्छिन्नं महासिना ।
विभीषणः समुत्पत्य निगृहीतो यदृच्छया ॥६-३१-२५॥
दिशम् प्रव्राजितः सैन्यैर्लक्ष्मणः प्लवगैः सह ।
सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः ॥६-३१-२६॥
निरस्तहनुकः श्रेते हनुमान् राक्षसैःर्हतः ।
पट्टिशैर्बहुभिश्छन्नो विकृत्तः सादपो यथा ।
मैन्दश्च द्विविदश्चोभौ तौ वानरवरर्षभौ ॥६-३१-२८॥
निःश्वसन्तौ रुदन्तौ च रुधिरेण परीवृतौ ।
असिना व्यायतौ चिन्नौ मध्ये ह्यरिनिषूदनौ ॥६-३१-२९॥
अनुष्वनति मेदिन्याम् पनसः यथा ॥६-३१-३०॥
वाराचैर्बहुभिश्छन्नः श्रेते दर्याम् दरीमुखः ।
कुमुदस्तु महातेजा निष्कूजन् सायकैर्हतः ॥६-३१-३१॥
अङ्गदो बहुभिश्छ्न्नः शरैरासाद्य राक्षसैः ।
परितो रुधिरोद्गारी क्षितौ निपतिताङ्गदः ॥६-३१-३२॥
हरयो मथिता वागैरथ जालैस्तथापरे ।
प्रसृताश्च परे त्रस्ताः हन्यमाना जघन्यतः ।
अनुद्रुतास्तु रक्षोBहिः सिम्हैरिव महाद्विपाः ॥६-३१-३४॥
सागरस्य च तीरेषु शैलेषु च वनेषु च ।
पिङ्गलास्ते विरूपाक्षे राक्षसैर्बहवो हताः ॥६-३१-३६॥
एवम् तव हतो भर्ता ससैन्यो मम सेवया ।
क्षतजार्द्रं रजोध्वस्तमिदं चाप्याहृतम् शिरः ॥६-३१-३७॥
ततः परमदुर्धर्षो रावणो राक्षसेश्वरः ।
राक्षसम् क्रूरकर्माणम् विद्युज्जिह्वम् समानय ।
विद्युज्जिह्व स्तदा गृह्य शिरस्तत्सशरासनम् ।
प्रणामम् शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥६-३१-४०॥
तमब्रवीत्ततो राजा रावणो राक्षसम् स्थितम् ।
अग्रतः कुरु सीतायाः श्रीघ्रं दाशरथेः शिरः ।
अवस्थां पशिचमां भर्तुः कृपणा साधु पश्यतु ॥६-३१-४२॥
एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् ।
रावणश्चापि चिक्षेप भास्वरम् कार्मुकम् महत् ।
त्रिषु लोकेषु विख्यातम् रामस्यैतदिति ब्रुवन् ॥६-३१-४४॥
इदम् तत्तव रामस्य कार्मुकं ज्यासमाव्R६इतम् ।
इह प्रहस्तेवानीतम् तम् हत्वा निशि मानुषम् ॥६-३१-४५॥
स विद्युजिह्वेन सहैव तच्छिरो ।
धमश्च भूमौ विनिकीर्य रावणः ।
ततोऽब्रवीत्ताम् भव मे वशामुगा ॥६-३१-४६॥
सा सीता तच्चिरो दृष्ट्वा तच् च कार्मुकम् उत्तमम्
सुग्रीव प्रतिसंसर्गम् आख्यातम् च हनूमता ६-३२-१
नयने मुख वर्णम् च भर्तुस् तत् सदृशम् मुखम् |
केशान् केश अन्त देशम् च तम् च चूडा मणिम् शुभम् ६-३२-२
एतैह् सर्वैर् अभिज्नानैर् अभिज्नाय सुदुह्खिता |
विजगर्हे अथ कैकेयीम् क्रोशन्ती कुररी यथा ६-३२-३
सकामा भव कैकेयि हतो अयम् कुल नन्दनः |
कुलम् उत्सादितम् सर्वम् त्वया कलह शीलया ६-३२-४
आर्येण किम् नु कैकेय्याः कृतम् रामेण विप्रियम् |
यन्मया चीर वसनस् तया प्रस्थापितो वनम् ६-३२-५
एवम् उक्त्वा तु वैदेही वेपमाना तपस्विनी |
जगाम जगतीम् बाला चिन्ना तु कदली यथा ६-३२-६
सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम् |
तत् शिरह् समुपाघ्राय विललाप आयत ईक्षणा ६-३२-७
हा हता अस्मि महा बाहो वीर व्रतम् अनुव्रता |
प्रथमम् मरणम् नार्या भर्तुर् वैगुण्यम् उच्यते |
सुवृत्तः साधु वृत्तायाः सम्वृत्तस् त्वम् मम अग्रतः ६-३२-९
दुह्खाद् दुह्कःअम् प्रपन्नाया मग्नायाः शोक सागरे |
यो हि माम् उद्यतस् त्रातुम् सो अपि त्वम् विनिपातितः ६-३२-१०
सा श्वश्रूर् मम कौसल्या त्वया पुत्रेण राघव |
वत्सेन इव यथा धेनुर् विवत्सा वत्सला कृता ६-३२-११
उदिष्टम् दीर्घम् आयुस् ते यैर् अचिन्त्य पराक्रम |
अनृतम् वचनम् तेषाम् अल्प आयुर् असि राघव ६-३२-१२
अथ वा नश्यति प्रज्ना प्राज्नस्य अपि सतस् तव |
पचत्य् एनम् तथा कालो भूतानाम् प्रभवो ह्ययम् ६-३२-१३
अदृष्टम् मृत्युम् आपन्नः कस्मात् त्वम् नय शास्त्रवित् |
व्यसनानाम् उपायज्नः कुशलो ह्यसि वर्जने ६-३२-१४
तथा त्वम् सम्परिष्वज्य रौद्रया अतिनृशंसया |
काल रात्र्या मया आच्चिद्य हृतः कमल लोचन ६-३२-१५
उपशेषे महा बाहो माम् विहाय तपस्विनीम् |
प्रियाम् इव शुभाम् नारीम् पृथिवीम् पुरुष ऋषभ ६-३२-१६
अर्चितम् सततम् यत्नाद् गन्ध माल्यैर् मया तव |
इदम् ते मत् प्रियम् वीर धनुः कान्चन भूषितम् ६-३२-१७
पित्रा दशरथेन त्वम् श्वशुरेण मम अनघ |
पूर्वैसः च पितृभिः सार्धम् नूनम् स्वर्गे समागतः ६-३२-१८
दिवि नक्षत्र भूतस् त्वम् महत् कर्म कृतम् प्रियम् |
पुण्यम् राज ऋषि वंशम् त्वम् आत्मनः समुपेक्षसे ६-३२-१९
किम् मान् न प्रेक्षसे राजन् किम् माम् न प्रतिभाषसे |
बालाम् बालेन सम्प्राप्ताम् भार्याम् माम् सह चारिणीम् ६-३२-२०
संश्रुतम् गृह्णता पाणिम् चरिष्यामि इति यत् त्वया |
स्मर तन् मम काकुत्स्थ नय माम् अपि दुह्खिताम् ६-३२-२१
कस्मान् माम् अपहाय त्वम् गतो गतिमताम् वर |
अस्माल् लोकाद् अमुम् लोकम् त्यक्त्वा माम् इह दुह्खिताम् ६-३२-२२
कल्याणैर् उचितम् यत् तत् परिष्वक्तम् मया एव तु |
क्रव्य अदैस् तत् शरीरम् ते नूनम् विपरिकृष्यते ६-३२-२३
अग्निष्तोम आदिभिर् यज्नैर् इष्टवान् आप्त दक्षिणैः |
अग्नि होत्रेण संस्कारम् केन त्वम् तु न लप्स्यसे ६-३२-२४
प्रव्रज्याम् उपपन्नानाम् त्रयाणाम् एकम् आगतम् |
परिप्रक्ष्यति कौसल्या लक्ष्मणम् शोक लालसा ६-३२-२५
स तस्याः परिपृच्चन्त्या वधम् मित्र बलस्य ते |
तव च आख्यास्यते नूनम् निशायाम् राक्षसैर् वधम् ६-३२-२६
सा त्वाम् सुप्तम् हतम् श्रुत्वा माम् च रक्षो गृहम् गताम् |
हृदयेन विदीर्णेन न भविष्यति राघव ६-३२-२७
मम हेतोरनार्याया अवघः पार्थिवात्मजः |
रामः सागमुत्तीर्य वीर्यवान् गोष्पदे हतः ६-३२-२८
आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ६-३२-२९
मानमाव्याम् मया जातिम् वारितम् दानमुत्तमम् |
याहमद्येह शोचामि भार्या सर्वातिथेरपि ६-३२-३०
साधु पातय माम् क्षिप्रम् रामस्य उपरि रावणः |
समानय पतिम् पत्न्या कुरु कल्याणम् उत्तमम् ६-३२-३१
शिरसा मे शिरसः च अस्य कायम् कायेन योजय |
रावण अनुगमिष्यामि गतिम् भर्तुर् महात्मनः ६-३२-३२
इति सा दुह्ख सम्तप्ता विललाप आयत ईक्षणा |
भर्तुः शिरो धनुस् तत्र समीक्ष्य जनक आत्मजा ६-३२-३३
एवम् लालप्यमानायाम् सीतायाम् तत्र राक्षसः |
अभिचक्राम भर्तारम् अनीकस्थः क्ऱ्त अन्जलिः ६-३२-३४
विजयस्व आर्य पुत्र इति सो अभिवाद्य प्रसाद्य च |
न्यवेदयद् अनुप्राप्तम् प्रहस्तम् वाहिनी पतिम् ६-३२-३५
अमात्यैः स हितः सर्वैः प्रहस्तस्त्वामुपस्थितः |
तेन दर्शनकामेन अहम् प्रस्थापितः प्रभो ६-३२-३६
मानमस्ति महारा ज राजभावात् क्षमान्वित |
किंचिद् आत्ययिकम् कार्यम् तेषाम् त्वम् दर्शनम् कुरु ६-३२-३७
एतत् श्रुत्वा दशग्रीवो राक्षस प्रतिवेदितम् |
अशोक वनिकाम् त्यक्त्वा मन्त्रिणाम् दर्शनम् ययौ ६-३२-३८
स तु सर्वम् समर्थ्य एव मन्त्रिभिः क्ऱ्त्यम् आत्मनः |
सभाम् प्रविश्य विदधे विदित्वा राम विक्रमम् ६-३२-३९
अन्तर्धानम् तु तत् शीर्षम् तच् च कार्मुकम् उत्तमम् |
जगाम रावणस्य एव निर्याण समनन्तरम् ६-३२-४०
राक्षस इन्द्रस् तु तैः सार्धम् मन्त्रिभिर् भीम विक्रमैः |
समर्थयाम् आस तदा राम कार्य विनिश्चयम् ६-३२-४१
अविदूर स्थितान् सर्वान् बल अध्यक्षान् हित एषिणः |
अब्रवीत् काल सद्ऱ्शो रावणो राक्षस अधिपः ६-३२-४२
शीघ्रम् भेरी निनादेन स्फुट कोण आहतेन मे |
समानयध्वम् सैन्यानि वक्तव्यम् च न कारणम् ६-३२-४३
ततस् तथा इति प्रतिगृह्य तद् वचो |
स्तदैव दूताः सहसा महाद्बलम् |
समानयंसः चैव समागतम् च ते |
न्यवेदयन् भर्तरि युद्ध कान्क्षिणि ६-३२-४४
आससाद आशु वैदेहीम् प्रियाम् प्रणयिनी सखी ।। ६-३३-१
मोहिताम् राक्षसेन्द्रेण सीताम् परमदुःखिताम् ।
सा हि तत्र कृता मित्रम् सीतया रक्ष्यमाणया ।
रक्षन्ती रावणाद् इष्टा सानुक्रोशा दृढ व्रता ।। ६-३३-३
उपावृत्य उत्थिताम् ध्वस्ताम् वडवाम् इव पांसुषु ।। ६-३३-४
उक्ता यद् रावणेन त्वम् प्रत्युक्तम् च स्वयम् त्वया ।। ६-३३-५
उक्ता यद्रावणेन त्वम् प्रत्युक्तश्च स्वयम् त्वया ।
सखी स्नेहेन तद् भीरु मया सर्वम् प्रतिश्रुतम् ।। ६-३३-६
लीनया गनहे शूह्ये भयम् उत्सृज्य रावणात् ।
तव हेतोर् विशाल अक्षि न हि मे जीवितम् प्रियम् ।। ६-३३-७
स सम्भ्रान्तश च निष्क्रान्तो यत् कृते राक्षस अधिपः ।
तच् च मे विदितम् सर्वम् अभिनिष्क्रम्य मैथिलि ।। ६-३३-८
न शक्यम् सौप्तिकम् कर्तुम् रामस्य विदित आत्मनः ।
वधश्च पुरुष व्याघ्रे तस्मिन्न् एव उपपद्यते ।। ६-३३-९
न च एव वानरा हन्तुम् शक्याः पादप योधिनः ।
सुरा देव ऋषभेण इव रामेण हि सुरक्षिताः ।। ६-३३-१०
दीर्घ वृत्त भुजह् श्रीमान् महा उरस्कह् प्रतापवान् ।
धन्वी सम्हनन उपेतो धर्म आत्मा भुवि विश्रुतः ।। ६-३३-११
विक्रान्तो रक्षिता नित्यम् आत्मनश्च परस्य च ।
लक्ष्मणेन सह भ्रात्रा कुशली नय शास्त्रवित् ।। ६-३३-१२
हन्ता पर बल ओघानाम् अचिन्त्य बल पौरुषः ।
न हतो राघवः श्रीमान् सीते शत्रु निबर्हणः ।। १३
अयुक्त बुद्धि कृत्येन सर्व भूत विरोधिना ।
इयम् प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ।। ६-३३-१४
शोकस् ते विगतः सर्वः कल्याणम् त्वाम् उपस्थितम् ।
ध्रुवम् त्वाम् भजते लक्ष्मीः प्रियम् प्रीति करम् शृणु ।। ६-३३-१५
उत्तीर्य सागरम् रामः सह वानर सेनया ।
सम्निविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम् ।। ६-३३-१६
दृष्टो मे परिपूर्ण अर्थः काकुत्स्थः सह लक्ष्मणः ।
सहितैः सागर अन्तस्थैर् बलैस् तिष्ठति रक्षितः ।। ६-३३-१७
अनेन प्रेषिता ये च राक्षसा लघु विक्रमः ।
राघवस् तीर्णैत्य् एवम् प्रवृत्तिस् तैर् इह आहृता ।। ६-३३-१८
स ताम् श्रुत्वा विशाल अक्षि प्रवृत्तिम् राक्षस अधिपः ।
एष मन्त्रयते सर्वैः सचिवैः सह रावणः ।। ६-३३-१९
सर्व उद्योगेन सैन्यानाम् शब्दम् शुश्राव भैरवम् ।। ६-३३-२०
दण्ड निर्घात वादिन्याः श्रुत्वा भेर्या महा स्वनम् ।
उवाच सरमा सीताम् इदम् मधुर भाषिणी ।। ६-३३-२१
सम्नाह जननी ह्य् एषा भैरवा भीरु भेरिका ।
भेरी नादम् च गम्भीरम् शृणु तोयद निस्वनम् ।। ६-३३-२२
कल्प्यन्ते मत्त मातम्गा युज्यन्ते रथ वाजिनः ।
तत्र तत्र च सम्नद्धाः सम्पतन्ति पदातयः ।। ६-३३-२३
तत्र तत्र च सन्नद्धाः सम्पतन्ति सहस्रशः ।
आपूर्यन्ते राज मार्गाः सैन्यैर् अद्भुत दर्शनैः ।। ६-३३-२४
वेगवद्भिर् नदद्भिश्च तोय ओघैर् इव सागरः ।
शास्त्राणाम् च प्रसन्नानाम् चर्मणाम् वर्मणाम् तथा ।। ६-३३-२५
रथ वाजि गजानाम् च भूषितानाम् च रक्षसाम् ।
सम्भ्रमो रक्षसामेष हृषितानाम् तरस्विनाम् ।। ६-३३-२६
प्रभाम् विसृजताम् पश्य नाना वर्णाम् समुत्थिताम् ।
वनम् निर्दहतो धर्मे यथा रूपम् विभावसोः ।। ६-३३-२७
घण्टानाम् शृणु निर्घोषम् रथानाम् शृणु निस्वनम् ।
हयानाम् हेषमाणानाम् शृणु तूर्य ध्वनिम् यथा ।। ६-३३-२८
उद्यत आयुध हस्तानाम् राक्षस इन्द्र अनुयायिनाम् ।
सम्भ्रमो रक्षसाम् एष तुमुलो लोम हर्षणः ।। ६-३३-२९
श्रीस् त्वाम् भजति शोकघ्नी रक्षसाम् भयम् आगतम् ।
रामात् कमल पत्र अक्षि दैत्यानाम् इव वासवात् ।। ६-३३-३०
अवजित्य जित क्रोधस् तम् अचिन्त्य पराक्रमः ।
रावणम् समरे हत्वा भर्ता त्वा अधिगमिष्यति ।। ६-३३-३१
विक्रमिष्यति रक्षह्सु भर्ता ते सह लक्ष्मणः ।
यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ।। ६-३३-३२
आगतस्य हि रामस्य क्षिप्रम् अन्क गताम् सतीम् ।
अहम् द्रक्ष्यामि सिद्ध अर्थाम् त्वाम् शत्रौ विनिपातिते ।। ६-३३-३३
अश्रूण्य् आनन्दजानि त्वम् वर्तयिष्यसि शोभने ।
समागम्य परिष्वक्ता तस्य उरसि महा उरसः ।। ६-३३-३४
अचिरान् मोक्ष्यते सीते देवि ते जघनम् गताम् ।
धृताम् एताम् बहून् मासान् वेणीम् रामो महा बलः ।। ६-३३-३५
तस्य दृष्ट्वा मुखम् देवि पूर्ण चन्द्रम् इव उदितम् ।
मोक्ष्यसे शोकजम् वारि निर्मोकम् इव पन्नगी ।। ६-३३-३६
रावणम् समरे हत्वा नचिराद् एव मैथिलि ।
त्वया समग्रम् प्रियया सुख अर्हो लप्स्यते सुखम् ।। ६-३३-३७
समागता त्वम् रामेण मोदिष्यसि महात्मना ।
सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ।। ६-३३-३८
गिरि वरम् अभितो अनुवर्तमानो ।
हय इव मण्डलम् आशु यः करोति ।
तम् इह शरणम् अभ्युपेहि देवि
दिवस करम् प्रभवो ह्ययम् प्रजानाम् ६-३३-३९
अथ ताम् जात सम्तापाम् तेन वाक्येन मोदिताम् ।
ततस् तस्या हितम् सख्याश् चिकीर्षन्ती सखी वचः ।
उवाच काले कालज्ना स्मित पूर्व अभिभाषिणी ॥६-३४-२॥
उत्सहेयम् अहम् गत्वा त्वद् वाक्यम् असित ईक्षणे ।
निवेद्य कुशलम् रामे प्रतिच्चन्ना निवर्तितुम् ॥६-३४-३॥
न हि मे क्रममाणाया निरालम्बे विहायसि ।
समर्थो गतिम् अन्वेतुम् पवनो गरुडो अपि वा ॥६-३४-४॥
एवम् ब्रुवाणाम् ताम् सीता सरमाम् पुनर् अब्रवीत् ।
मधुरम् श्लक्ष्णया वाचा पूर्व शोक अभिपन्नया ॥६-३४-५॥
समर्था गगनम् गन्तुम् अपि वा त्वम् रसा तलम् ।
अवगच्चाम्य् अकर्तव्यम् कर्तव्यम् ते मद् अन्तरे ॥६-३४-६॥
मत् प्रियम् यदि कर्तव्यम् यदि बुद्धिः स्थिरा तव ।
ज्नातुम् इच्चामि तम् गत्वा किम् करोति इति रावणः ॥६-३४-७॥
स हि माया बलः क्रूरो रावणः शत्रु रावणः ।
तर्जापयति माम् नित्यम् भर्त्सापयति च असक्र्त् ।
राक्षसीभिः सुघोराभिर् या माम् रक्षन्ति नित्यशः ॥६-३४-९॥
उद्विग्ना शन्किता च अस्मि न च स्वस्थम् मनो मम ।
तद् भयाच् च अहम् उद्विग्ना;अशोक वनिकाम् गताः ॥६-३४-१०॥
यदि नाम कथा तस्य निश्चितम् वा अपि यद् भवेत् ।
निवेदयेथाः सर्वम् तत् परो मे स्याद् अनुग्रहः ॥६-३४-११॥
उवाच वचनम् तस्याः स्पृशन्ती बाष्प विक्लवम् ॥६-३४-१२॥
एष ते यद्य् अभिप्रायस् तस्माद् गच्चामि जानकि ।
गृह्य शत्रोर् अभिप्रायम् उपाव्र्त्ताम् च पश्य माम् ॥६-३४-१३॥
एवम् उक्त्वा ततो गत्वा समीपम् तस्य रक्षसः ।
शुश्राव कथितम् तस्य रावणस्य समन्त्रिणः ॥६-३४-१४॥
सा श्रुत्वा निश्चयम् तस्य निश्चयज्ना दुरात्मनः ।
पुनर् एव अगमत् क्षिप्रम् अशोक वनिकाम् तदा ॥६-३४-१५॥
सा प्रविष्टा पुनस् तत्र ददर्श जनक आत्मजाम् ।
प्रतीक्षमाणाम् स्वाम् एव भ्रष्ट पद्माम् इव श्रियम् ॥६-३४-१६॥
ताम् तु सीता पुनः प्राप्ताम् सरमाम् वल्गु भाषिणीम् ।
परिष्वज्य च सुस्निग्धम् ददौ च स्वयम् आसनम् ॥६-३४-१७॥
इह आसीना सुखम् सर्वम् आख्याहि मम तत्त्वतः ।
क्रूरस्य निश्चयम् तस्य रावणस्य दुरात्मनः ॥६-३४-१८॥
कथितम् सर्वम् आचष्त रावणस्य समन्त्रिणः ॥६-३४-१९॥
जनन्या राक्षस इन्द्रो वै त्वन् मोक्ष अर्थम् बृहद् वचः ।
अविद्धेन च वैदेहि मन्त्रि वृद्धेन बोधितः ॥६-३४-२०॥
दीयताम् अभिसत्क्र्त्य मनुज इन्द्राय मैथिली ।
निदर्शनम् ते पर्याप्तम् जन स्थाने यद् अद्भुतम् ॥६-३४-२१॥
लन्घनम् च समुद्रस्य दर्शनम् च हनूमतः ।
वधम् च रक्षसाम् युद्धे कः कुर्यान् मानुषो भुवि ॥६-३४-२२॥
एवम् स मन्त्रि वृद्धैश्च मात्रा च बहु भाषितः ।
न त्वाम् उत्सहते मोक्तुम् अर्तह्म् अर्थ परो यथा ॥६-३४-२३॥
न उत्सहत्य् अम्र्तो मोक्तुम् युद्धे त्वाम् इति मैथिलि ।
सामात्यस्य नृशम्सस्य निश्चयो ह्य् एष वर्तते ॥६-३४-२४॥
तद् एषा सुस्थिरा बुद्धिर्मृत्यु लोभाद् उपस्थिता ।
भयान् न शक्तस् त्वाम् मोक्तुम् अनिरस्तस् तु सम्युगे ॥६-३४-२५॥
राक्षसानाम् च सर्वेषाम् आत्मनश् च वधेन हि ।
निहत्य रावणम् सम्ख्ये सर्वथा निशितैः शरैः ॥६-३४-२६॥
प्रतिनेष्यति रामस् त्वाम् अयोध्याम् असित ईक्षणे ।
एतस्मिन्न् अन्तरे शब्दो भेरी शन्ख समाकुलः ॥६-३४-२७॥
श्रुतो वै सर्व सैन्यानाम् कम्पयन् धरणी तलम् ।
श्रुत्वा तु तम् वानर सैन्य शब्दम् ।
लन्का गता राक्षस राज भ्र्त्याः ।
नष्ट ओजसो दैन्य परीत चेष्टाः ।
श्रेयो न पश्यन्ति न्र्पस्य दोषैः ॥६-३४-२८॥
तेन शन्ख विमिश्रेण भेरी शब्देन राघवः ।
उपयतो महा बाहू रामह् पर पुरम् जयः ॥६-३५-१॥
तम् निनादम् निशम्य अथ रावणो राक्षस ईश्वरः ।
मुहूर्तम् ध्यानम् आस्थाय सचिवान् अभ्युदैक्षत ॥६-३५-२॥
अथ तान् सचिवाम्स् तत्र सर्वान् आभाष्य रावणः ।
सभाम् सम्नादयन् सर्वाम् इत्य् उवाच महा बलः ॥६-३५-३॥
तरणम् सागरस्य अपि विक्रमम् बल सम्चयम् ॥६-३५-४॥
यद् उक्तवन्तो रामस्य भवन्तस् तन् मया श्रुतम् ।
भवतश्चाप्यहम् वेद्मि युद्धे सत्यपराक्रमान् ॥६-३५-५॥
ततस् तु सुमहा प्राज्नो माल्यवान् नाम राक्षसः ॥६-३५-६॥
रावणस्य वचः श्रुत्वा मातुः पैतामहो अब्रवीत् ।
विद्यास्वभिविनीतो यो राजा राजन् नय अनुगः ॥६-३५-७॥
स शास्ति चिरम् ऐश्वर्यम् अरीम्श्च कुरुते वशे ।
सम्दधानो हि कालेन विगृह्णम्सः चारिभिः सह ॥६-३५-८॥
स्व पक्ष वर्धनम् कुर्वन् महद् ऐश्वर्यम् अश्नुते ॥
हीयमानेन कर्तव्यो राज्ना सम्धिः समेन च ॥६-३५-९॥
न शत्रुम् अवमन्येत ज्यायान् कुर्वीत विग्रहम् ।
तन्मह्यम् रोचते सम्धिः सह रामेण रावण ॥६-३५-१०॥
यद् अर्थम् अभियुक्ताः स्म सीता तस्मै प्रदीयताम् ।
तस्य देव ऋषयः सर्वे गन्धर्वासः च जय एषिणः ॥६-३५-११॥
असृजद् भगवान् पक्षौ द्वाव् एव हि पितामहः ॥६-३५-१२॥
सुराणाम् असुराणाम् च धर्म अधर्मौ तद् आश्रयौ ।
धर्मो हि श्रूयते पक्षः सुराणाम् च महात्मनाम् ॥६-३५-१३॥
अधर्मो रक्षसाम् पक्षोह्य असुराणाम् च रावण ।
धर्मो वै ग्रसते अधर्मम् ततः कृतम् अभूद् युगम् ॥६-३५-१४॥
अधर्मो ग्रसते धर्मम् ततस् तिष्यः प्रवर्तते ।
तत् त्वया चरता लोकान् धर्मो विनिहतो महान् ॥६-३५-१५॥
अधर्मः प्रगृहीतसः च तेन अस्मद् बलिनः परे ।
स प्रमादाद् विवृद्धस् ते अधर्मो अहिर् ग्रसते हि नः ॥६-३५-१६॥
विवर्धयति पक्षम् च सुराणाम् सुर भावनः ।
विषयेषु प्रसक्तेन यत् किम्चित् कारिणा त्वया ॥६-३५-१७॥
Rषीणाम् अग्नि कल्पानाम् उद्वेगो जनितो महान् ।
तेषाम् प्रभावो दुर्धर्षः प्रदीप्त;इव पावकः ॥६-३५-१८॥
तपसा भावित आत्मानो धर्मस्य अनुग्रहे रताः ।
मुख्यैर् यज्नैर् यजन्त्य् एते नित्यम् तैस् तैर् द्विजातयः ॥६-३५-१९॥
जुह्वत्य् अग्नीम्सः च विधिवद् वेदाम्सः च उच्चैर् अधीयते ।
अभिभूय च रक्षाम्सि ब्रह्म घोषान् उदैरयन् ॥६-३५-२०॥
दिशो विप्रद्रुताः सर्वे स्तनयित्नुर् इव उष्णगे ।
ऋषीणाम् अग्नि कल्पानाम् अग्नि होत्र समुत्थितः ॥६-३५-२१॥
आदत्ते रक्षसाम् तेजो धूमो व्याप्य दिशो दश ।
तेषु तेषु च देशेषु पुण्येषु च दृढ व्रतैः ॥६-३५-२२॥
चर्यमाणम् तपस् तीव्रम् सम्तापयति राक्षसान् ।
मनुष्या वानरा ऋक्षा गोलाङ्गूला महाबलाः ।
बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥६-३५-२४॥
उत्पातान् विविधान् दृष्ट्वा घोरान् बहु विधाम्स् तथा ।
विनाशम् अनुपश्यामि सर्वेषाम् रक्षसाम् अहम् ॥६-३५-२५॥
खराभिस् तनिता घोरा मेघाह् प्रतिभयम् करः ।
शोणितेन अभिवर्षन्ति लन्काम् उष्णेन सर्वतः ॥६-३५-२६॥
रुदताम् वाहनानाम् च प्रपतन्त्य् अस्र बिन्दवः ।
ध्वजा ध्वस्ता विवर्णासः च न प्रभान्ति यथा पुरम् ॥६-३५-२७॥
व्याला गोमायवो ग्R^ इध्रा वाशन्ति च सुभैरवम् ।
प्रविश्य लन्काम् अनिशम् समवायाम्सः च कुर्वते ॥६-३५-२८॥
कालिकाः पाण्डुरैर् दन्तैः प्रहसन्त्य् अग्रतः स्थिताः ।
स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥६-३५-२९॥
गृहाणाम् बलि कर्माणि श्वानः पर्युपभुन्जते ।
खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ॥६-३५-३०॥
मार्जारा द्वीपिभिः सार्धम् सूकराः शुनकैः सह ।
किम्नरा राक्षसैसः च अपि समेयुर् मानुषैः सह ॥६-३५-३१॥
पाण्डुरा रक्त पादासः च विहगाः काल चोदिताः ।
राक्षसानाम् विनाशाय कपोता विचरन्ति च ॥६-३५-३२॥
वीचीकूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः ।
पतन्ति ग्रथितासः च अपि निर्जिताः कलह एषिणः ॥६-३५-३३॥
पक्षिणश्च मृगाः सर्वे प्रत्यादित्यम् रुदन्ति ते ।
करालो विकटो मुण्डः पुरुषः कृष्ण पिन्गलः ॥६-३५-३४॥
कालो गृहाणि सर्वेषाम् काले काले अन्ववेक्षते ।
एतान्य् अन्यानि दुष्टानि निमित्तान्य् उत्पतन्ति च ॥६-३५-३५॥
विष्णुम् मन्यामहे रामम् मानुषम् देहम् आस्थितम् ।
न हि मानुष मात्रो असौ राघवो दृढ विक्रमः ॥६-३५-३६॥
येन बद्धः समुद्रस्य स सेतुः परम अद्भुतः ।
कुरुष्व नर राजेन सम्धिम् रामेण रावण ॥६-३५-३७॥
इदम् वचस् तत्र निगद्य माल्यवन् ।
परीक्ष्य रक्षो अधिपतेर् मनः पुनः ।
अनुत्तमेषु उत्तम पौरुषो बली ।
बभूव तूष्णीम् समवेक्ष्य रावणम् ॥६-३५-३८॥
तत्तु माल्यवतो वाक्यम् हितम् उक्तम् दzअ आननः ।
स बद्ध्वा भ्रु कुटिम् वक्त्रे क्रोधस्य वzअम् आगतः ।
अमर्षात् परिवृत्त अक्षो माल्यवन्तम् अथ अब्रवीत् ॥६-३६-२॥
हित बुद्ध्या यद् अहितम् वचह् परुषम् उच्यते ।
पर पक्षम् प्रविzय एव न एतत् zरोत्र गतम् मम ॥६-३६-३॥
मानुषम् कृपणम् रामम् एकम् zआखा मृग आzरयम् ।
समर्थम् मन्यसे केन त्यक्तम् पित्रा वन आलयम् ॥६-३६-४॥
रक्षसाम् ईzवरम् माम् च देवतानाम् भयम् करम् ।
हीनम् माम् मन्यसे केन;अहीनम् सर्व विक्रमैः ॥६-३६-५॥
वीर द्वेषेण वा zअन्के पक्ष पातेन वा रिपोः ।
त्वया अहम् परुषाण्य् उक्तः पर प्रोत्साहनेन वा ॥६-३६-६॥
प्रभवन्तम् पदस्थम् हि परुषम् को अह्बिधास्यति ।
पण्डितह् zआस्त्र तत्त्वज्नो विना प्रोत्साहनाद् रिपोः ॥६-३६-७॥
आनीय च वनात् सीताम् पद्म हीनाम् इव zरियम् ।
किम् अर्थम् प्रतिदास्यामि राघवस्य भयाद् अहम् ॥६-३६-८॥
वृतम् वानर कोटीभिः ससुग्रीवम् सलक्ष्मणम् ।
पzय कैzचिद् अहोभिस् त्वम् राघवम् निहतम् मया ॥६-३६-९॥
द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्य् अपि सम्युगे ।
स कस्माद् रावणो युद्धे भयम् आहारयिष्यति ॥६-३६-१०॥
द्विधा भज्येयम् अप्य् एवम् न नमेयम् तु कस्यचित् ।
एष मे सहजो दोषह् स्वभावो दुरतिक्रमः ॥६-३६-११॥
यदि तावत् समुद्रे तु सेतुर् बद्धो यदृच्चया ।
रामेण विस्मयः को अत्र येन ते भयम् आगतम् ॥६-३६-१२॥
स तु तीर्त्वा अर्णवम् रामः सह वानर सेनया ।
प्रतिजानामि ते सत्यम् न जीवन् प्रतियास्यति ॥६-३६-१३॥
एवम् ब्रुवाणम् सम्रब्धम् रुष्टम् विज्नाय रावणम् ।
व्रीडितो माल्यवान् वाक्यम् न उत्तरम् प्रत्यपद्यत ॥६-३६-१४॥
जय आzइषा च राजानम् वर्धयित्वा यथा उचितम् ।
माल्यवान् अभ्यनुज्नातो जगाम स्वम् निवेzअनम् ॥६-३६-१५॥
रावणस् तु सह अमात्यो मन्त्रयित्वा विमृzय च ।
लन्कायाम् अतुलाम् गुप्तिम् कारयाम् आस राक्षसः ॥६-३६-१६॥
व्यादिदेzअ च पूर्वस्याम् प्रहस्तम् द्वारि राक्षसम् ।
दक्षिणस्याम् महा वीर्यौ महा पार्zव महा उदरौ ॥६-३६-१७॥
पzचिमायाम् अथो द्वारि पुत्रम् इन्द्रजितम् तथा ।
व्यादिदेzअ महा मायम् राक्षसैर् बहुभिर् वृतम् ॥६-३६-१८॥
उत्तरस्याम् पुर द्वारि व्यादिzय zउक सारणौ ।
स्वयम् च अत्र भविष्यामि मन्त्रिणस् तान् उवाच ह ॥६-३६-१९॥
मध्यमे अस्थापयद् गुल्मे बहुभिह् सह राक्षसैः ॥६-३६-२०॥
एवम् विधानम् लन्कायाम् कृत्वा राक्षस पुम्गवः ।
मेने कृत अर्थम् आत्मानम् कृत अन्त वzअम् आगतः ॥६-३६-२१॥
विधानम् आज्नाप्य पुरस्य पुष्कलम् ।
जय आzइषा मन्त्र गणेन पूजितो ।
विवेzअ सो अन्तह् पुरम् ऋद्धिमन् महत् ॥६-३६-२२॥
नर वानर राजौ तौ स च वायु सुतः कपिः ।
जाम्बवान् ऋक्ष राजसः च राक्षससः च विभीषणः ॥६-३७-१॥
अन्गदो वालि पुत्रसः च सौमित्रिः शरभः कपिः ।
सुषेणः सह दायादो मैन्दो द्विविद;एव च ॥६-३७-२॥
अमित्र विषयम् प्राप्ताः समवेताः समर्थयन् ॥६-३७-३॥
इयम् सा लक्ष्यते लन्का पुरी रावण पालिता ।
सासुर उरग गन्धर्वैर् अमरैर् अपि दुर्जया ॥६-३७-४॥
कार्य सिद्धिम् पुरस् क्Rत्य मन्त्रयध्वम् विनिर्णये ।
नित्यम् सम्निहितो ह्य् अत्र रावणो राक्षस अधिपः ॥६-३७-५॥
तथा तेषु ब्रुवाणेषु रावण अवरजो अब्रवीत् ।
वाक्यम् अग्राम्य पदवत् पुष्कल अर्थम् विभीषणः ॥६-३७-६॥
अनलः शरभसः चैव सम्पातिः प्रघसस् तथा ।
गत्वा लन्काम् मम अमात्याः पुरीम् पुनर् इह आगताः ॥६-३७-७॥
भूत्वा शकुनयः सर्वे प्रविष्टासः च रिपोर् बलम् ।
विधानम् विहितम् यच् च तद् द्Rष्ट्वा समुपस्थिताः ॥६-३७-८॥
सम्विधानम् यथा आहुस् ते रावणस्य दुरात्मनः ।
राम तद् ब्रुवतः सर्वम् यथातथ्येन मे शृणु ॥६-३७-९॥
पूर्वम् प्रहस्तः सबलो द्वारम् आसाद्य तिष्ठति ।
दक्षिणम् च महा वीर्यौ महा पार्श्व महा उदरौ ॥६-३७-१०॥
इन्द्रजित् पश्चिम द्वारम् राक्षसैर् बहुभिर् वृतः ।
पट्टस असि धनुष्मद्भिः शूल मुद्गर पाणिभिः ॥६-३७-११॥
नाना प्रहरणैः शूरैर् आवृतो रावण आत्मजः ।
राक्षसानाम् सहस्रैस् तु बहुभिः शस्त्र पाणिभिः ॥६-३७-१२॥
युक्तः परम सम्विग्नो राक्षसैर् बहुभिर् व्Rतः ।
उत्तरम् नगर द्वारम् रावणः स्वयम् आस्थितः ॥६-३७-१३॥
विरूप अक्षस् तु महता शूल खड्ग धनुष्मता ।
बलेन राक्षसैः सार्धम् मध्यमम् गुल्मम् आस्थितः ॥६-३७-१४॥
एतान् एवम् विधान् गुल्माम्ल् लन्कायाम् समुदीक्ष्य ते ।
मामकाः सचिवाः सर्वे शीघ्रम् पुनर् इह आगताः ॥६-३७-१५॥
गजानाम् च सहस्रम् च रथानाम् अयुतम् पुरे ।
हयानाम् अयुते द्वे च साग्र कोटी च रक्षसाम् ॥६-३७-१६॥
विक्रान्ता बलवन्तसः च सम्युगेष्व् आततायिनः ।
इष्टा राक्षस राजस्य नित्यम् एते निशा चराः ॥६-३७-१७॥
एक एकस्य अत्र युद्ध अर्थे राक्षसस्य विशाम् पते ।
परिवारः सहस्राणाम् सहस्रम् उपतिष्ठते ॥६-३७-१८॥
एताम् प्रवृत्तिम् लन्कायाम् मन्त्रि प्रोक्तम् विभीषणः ।
रामम् कमल पत्र अक्षम् इदम् उत्तरम् अब्रवीत् ॥६-३७-१९॥
लङ्कायाम् सचिवैः रामाय प्रत्यवेदयत् ।
कुबेरम् तु यदा राम रावणः प्रत्ययुध्यत ॥६-३७-२१॥
षष्टिः शत सहस्राणि तदा निर्यान्ति राक्षसाः ।
पराक्रमेण वीर्येण तेजसा सत्त्व गौरवात् ॥६-३७-२२॥
सदृशा यो अत्र दर्पेण रावणस्य दुरात्मनः ।
अत्र मन्युर् न कर्तव्यो रोषये त्वाम् न भीषये ॥६-३७-२३॥
समर्थो ह्य् असि वीर्येण सुराणाम् अपि निग्रहे ।
तद् भवाम्सः चतुर् अन्गेण बलेन महता वृतः ॥६-३७-२४॥
व्यूह्य इदम् वानर अनीकम् निर्मथिष्यसि रावणम् ।
रावण अवरजे वाक्यम् एवम् ब्रुवति राघवः ॥६-३७-२५॥
शत्रूणाम् प्रतिघात अर्थम् इदम् वचनम् अब्रवीत् ।
पूर्व द्वारे तु लन्काया नीलो वानर पुम्गवः ॥६-३७-२६॥
प्रहस्तम् प्रतियोद्धा स्याद् वानरैर् बहुभिर् वृतः ।
अन्गदो वालि पुत्रस् तु बलेन महता वृतः ॥६-३७-२७॥
दक्षिणे बाधताम् द्वारे महा पार्श्व महा उदरौ ।
हनूमान् पश्चिम द्वारम् निपीड्य पवन आत्मजः ॥६-३७-२८॥
प्रविशत्व् अप्रमेय आत्मा बहुभिः कपिभिर् वृतः ।
दैत्य दानव सम्घानाम् ऋषीणाम् च महात्मनाम् ॥६-३७-२९॥
विप्रकार प्रियः क्षुद्रो वर दान बल अन्वितः ।
परिक्रामति यः सर्वाम्ल् लोकान् सम्तापयन् प्रजाः ॥६-३७-३०॥
तस्य अहम् राक्षस इन्द्रस्य स्वयम् एव वधे धृतः ।
उत्तरम् नगर द्वारम् अहम् सौमित्रिणा सह ॥६-३७-३१॥
निपीड्य अभिप्रवेक्ष्यामि सबलो यत्र रावणः ।
वानर इन्द्रसः च बलवान् ऋक्ष राजसः च जाम्बवान् ॥६-३७-३२॥
राक्षस इन्द्र अनुजसः चैव गुल्मे भवतु मध्यमे ।
न च एव मानुषम् रूपम् कार्यम् हरिभिर् आहवे ॥६-३७-३३॥
एषा भवतु नः सम्ज्ना युद्धे अस्मिन् वानरे बले ।
वानरा;एव निश्चिह्नम् स्व जने अस्मिन् भविष्यति ॥६-३७-३४॥
वयम् तु मानुषेण एव सप्त योत्स्यामहे परान् ।
अहम् एव सह भ्रात्रा लक्ष्मणेन महा ओजसा ॥६-३७-३५॥
आत्मना पन्चमसः च अयम् सखा मम विभीषणः ।
स रामः कार्य सिद्ध्य् अर्थम् एवम् उक्त्वा विभीषणम् ॥६-३७-३६॥
सुवेल आरोहणे बुद्धिम् चकार मतिमान् मतिम् ।
रमणीयतरम् दृष्ट्वा सुवेलस्य गिरेस्तट्म् ॥६-३७-३७॥
ततस् तु रामो महता बलेन ।
प्रच्चाद्य सर्वाम् पृथिवीम् महात्मा ।
प्रहृष्ट रूपो अभिजगाम लन्काम् ।
कृत्वा मतिम् सो अरि वधे महात्मा ॥६-३७-३८॥
स तु कृत्वा सुवेलस्य मतिम् आरोहणम् प्रति ।
लक्ष्मण अनुगतो रामह् सुग्रीवम् इदम् अब्रवीत् ।। ६-३८-१
विभीषणम् च धर्मज्नम् अनुरक्तम् निज़ा चरम् ।
मन्त्रज्नम् च विधिज्नम् च ज़्लक्ष्णया परया गिरा ।। ६-३८-२
सुवेलम् साधु ज़ैल इन्द्रम् इमम् धातु ज़तैज़् चितम् ।
अध्यारोहामहे सर्वे वत्स्यामो अत्र निज़ाम् इमाम् ।। ६-३८-३
लन्काम् च आलोकयिष्यामो निलयम् तस्य रक्षसह् ।
येन मे मरण अन्ताय हृता भार्या दुरात्मना ।। ६-३८-४
येन धर्मो न विज्नातो न वृत्तम् न कुलम् तथा ।
राक्षस्या नीचया बुद्ध्या येन तद् गर्हितम् कृतम् ।। ६-३८-५
यस्मिन् मे वर्धते रोषह् कीर्तिते राक्षस अधमे ।
यस्य अपराधान् नीचस्य वधम् द्रक्ष्यामि रक्षसाम् ।। ६-३८-६
एको हि कुरुते पापम् काल पाज़ वज़म् गतः ।
नीचेन आत्म अपचारेण कुलम् तेन विनज़्यति ।। ६-३८-७
एवम् सम्मन्त्रयन्न् एव सक्रोधो रावणम् प्रति ।
रामह् सुवेलम् वासाय चित्र सानुम् उपारुहत् ।। ६-३८-८
पृष्ठतो लक्ष्मण च एनम् अन्वगच्चत् समाहितः ।
सज़रम् चापम् उद्यम्य सुमहद् विक्रमे रतः ।। ६-३८-९
तम् अन्वरोहत् सुग्रीवह् सामात्यह् सविभीषणह् ।
हनूमान् अन्गदो नीलो मैन्दो द्विविद;एव च ।। ६-३८-१०
गजो गव अक्षो गवयह् ज़रभो गन्ध मादनह् ।
पनसह् कुमुदज़् चैव हरो रम्भज़् च यूथपह् ।। ६-३८-११
जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः ।
दुर्मुखश्च महातेजास्तथा शतबलिः कपिः ।। ६-३८-१२
एते च अन्ये च बहवो वानराह् ज़ीघ्र गामिनह् ।
ते वायु वेग प्रवणास् तम् गिरिम् गिरि चारिणह् ।। ६-३८-१३
अध्यारोहन्त ज़तज़ह् सुवेलम् यत्र राघवह् ।
ते त्व् अदीर्घेण कालेन गिरिम् आरुह्य सर्वतह् ।। ६-३८-१४
ददृज़ुह् ज़िखरे तस्य विषक्ताम् इव खे पुरीम् ।
ताम् ज़ुभाम् प्रवत द्वाराम् प्राकार वर ज़ोभिताम् ।। ६-३८-१५
लन्काम् राक्षस सम्पूर्णाम् ददृज़ुर् हरि यूथपाह् ।
प्राकार चय संस्थैज़् च तथा नीलैर् निज़ा चरैह् ।। ६-३८-१६
ददृज़ुस् ते हरि ज़्रेष्ठाह् प्राकारम् अपरम् कृतम् ।
ते दृष्ट्वा वानराह् सर्वे राक्षसान् युद्ध कान्क्षिणह् ।। ६-३८-१७
मुमुचुर् विपुलान् नादांस् तत्र रामस्य पज़्यतह् ।
ततो अस्तम् अगमत् सूर्यह् संध्यया प्रतिरन्जितह् ।। ६-३८-१८
पूर्ण चन्द्र प्रदीपा च क्षपा समभिवर्तते ।
ततः स रामो हरि वाहिनी पतिर् ।
सलक्ष्मणो यूथप यूथ सम्वृतः ।
सुवेल पृष्ठे न्यवसद् यथा सुखम् ।। ६-३८-१९
ताम् रात्रिम् उषितास् तत्र सुवेले हरि पुम्गवाः ।
लन्कायाम् ददृशुर् वीरा वनान्य् उपवनानि च ।। ६-३९-१
सम सौम्यानि रम्याणि विशालान्य् आयतानि च ।
दृष्टि रम्याणि ते दृष्ट्वा बभूवुर् जात विस्मयाः ।। ६-३९-२
हिन्तालैर् अर्जुनैर् नीपैः सप्त पर्णैश् च पुष्पितैः ।
तिलकैः कर्णिकारैश् च पटालैश् च समन्ततः ।। ६-३९-४
शुशुभे पुष्पित अग्रैश् च लता परिगतैर् द्रुमैः ।
लन्का बहु विधैर् दिव्यैर् यथा इन्द्रस्य अमरावती ।। ६-३९-५
शाद्वलैश् च तथा नीलैश् चित्राभिर् वन राजिभिः ।। ६-३९-६
गन्ध आढ्यान्य् अभिरम्याणि पुष्पाणि च फलानि च ।
धारयन्त्य् अगमास् तत्र भूषणानि इव मानवाः ।। ६-३९-७
तच् चैत्र रथ सम्काशम् मनोज्नम् नन्दन उपमम् ।
वनम् सर्व ऋतुकम् रम्यम् शुशुभे षट्पद आयुतम् ।। ६-३९-८
नत्यूह कोयष्टि भकैर् नृत्यमानैश् च बर्हिभिः ।
रुतम् पर भृतानाम् च शुश्रुवे वन निर्झरे ।। ६-३९-९
नित्य मत्त विहम्गानि भ्रमर आचरितानि च ।
कोकिल आकुल षण्डानि विहग अभिरुतानि च ।। ६-३९-१०
भृन्ग राज अभिगीतानि भ्रमरैः सेवितानि च ।
कोणालक विघुष्टानि सारस अभिरुतानि च ।। ६-३९-११
विविशुस् ते ततस् तानि वनान्य् उपवनानि च ।
हृष्टाह् प्रमुदिता वीरा हरयः काम रूपिणः ।। ६-३९-१२
तेषाम् प्रविशताम् तत्र वानराणाम् महा ओजसाम् ।
पुष्प संसर्ग सुरभिर् ववौ घ्राण सुखो अनिलः ।। ६-३९-१३
अन्ये तु हरि वीराणाम् यूथान् निष्क्रम्य यूथपाः ।
सुग्रीवेण अभ्यनुज्नाता लन्काम् जग्मुः पताकिनीम् ।। ६-३९-१४
वित्रासयन्तो विहगांस् त्रासयन्तो मृग द्विपान् ।
कम्पयन्तश् च ताम् लन्काम् नादैः स्वैर् नदताम् वराः ।। ६-३९-१५
कुर्वन्तस् ते महा वेगा महीम् चारण पीडिताम् ।
अजश् च सहसा एव ऊर्ध्वम् जगाम चरण उद्धतम् ।। ६-३९-१६
ऋक्षाः सिम्हा वराहाश् च महिषा वारणा मृगाः ।
तेन शब्देन वित्रस्ता जग्मुर् भीता दिशो दश ।। ६-३९-१७
शिखरम् तु त्रिकूटस्य प्रांशु च एकम् दिवि स्पृशम् ।
समन्तात् पुष्प संचन्नम् महा रजत सम्निभम् ।। ६-३९-१८
शत योजन विस्तीर्णम् विमलम् चारु दर्शनम् ।
श्लक्ष्णम् श्रीमन् महच् चैव दुष्प्रापम् शकुनैर् अपि ।। ६-३९-१९
मनसा अपि दुरारोहम् किम् पुनः कर्मणा जनैः ।
निविष्टा तत्र शिखरे लन्का रावण पालिता ।। ६-३९-२०
सा पुरी गोपुरैर् उच्चैः पाण्डुर अम्बुद सम्निभैः ।
कान्चनेन च सालेन राजतेन च शोभिता ।। ६-३९-२१
प्रासादैश् च विमानैश् च लन्का परम भूषिता ।
घनैर् इव आतप अपाये मध्यमम् वैष्णवम् पदम् ।। ६-३९-२२
तस्याम् स्तम्भ सहस्रेण प्रासादः समलम्कृतः ।
कैलास शिखर आकारो दृश्यते खम् इव उल्लिखन् ।। ६-३९-२३
चैत्यः स राक्षस इन्द्रस्य बभूव पुर भूषणम् ।
शतेन रक्षसाम् नित्यम् यः समग्रेण रक्ष्यते ।। ६-३९-२४
ताम् समृद्धाम् समृद्ध अर्थो लक्ष्मीवाम्ल् लक्ष्मण अग्रजः ।
रावणस्य पुरीम् रामो ददर्श सह वानरैः ।। ६-३९-२७
ताम् महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः ।
नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ६-३९-२८
ताम् रत्न पूर्णाम् बहु सम्विधानाम् ।
प्रासाद मालाभिर् अलम्कृताम् च ।
पुरीम् महा यन्त्र कवाट मुख्याम् ।
ददर्श रामो महता बलेन ।। ६-३९-२९
ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् |
स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन् |
त्रिख़ूटशिखरे रम्ये निर्मितां विश्वकर्मणा ६-४०-२
ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् |
तस्यां गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् ६-४०-३
पश्यतां वानरेन्द्राणाम् राघवस्यापि पश्यतः |
क्रोधवेगेन सं युक्तः सत्त्वेन च बलेन च |
स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना |
तृणीकृत्य च तद्रक्षः सोऽब्रवीत्परुषं वचः ६-४०-९
लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस |
न मया मोक्यसे.द्य त्वं पार्थिवेन्द्रस्य तेजसा ६-४०-१०
इत्युक्त्वा सहसोत्पत्य प्लुप्लुवे तस्य चोपरि |
आकृष्य मुकुटं चित्रं पातयामास तद्भुवि ६-४०-११
समीक्स्य तूर्णमायान्तं बभाषे तं निशाचरः |
सुग्रीवस्त्वं परोक्षे मे हीनग्रीवो भविष्यसि ६-४०-१२
इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले |
उत्क्षिप्य चोत्क्षिप्य विनम्य देहौ |
आलिङ्ग्य चालिङ्ग़्य च बाहुयोक्त्रैः |
संहत्य संवेद्य च तौ कराभ्यां |
क्लमं न तौ जग्मतुराशु वीरौ ६-४०-२०
चिरेण कालेन भृशं प्रयुद्धौ |
तौ परस्पर मासाद्य यत्तावन्योन्यसूदने |
मण्डलानि विचित्राणि स्थानानि विविधानि च |
गोमूत्रकाणि चित्राणि गतप्रत्यागतानि च ६-४०-२३
तीर्शीनगतान्येव तथा वक्रगतानि च |
परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ६-४०-२४
तौ विचेरतुर्न्योन्यं वानरेन्द्रश्च रावणः ६-४०-२६
आरब्दुमुपसम् पेदे ज्ञात्वा तम् वानराधिपः ६-४०-२७
उत्पपात तदाकाशं जितकाशी जितक्लमः |
रावणः स्थित एवात्र हरिराजेन वञ्चितः ६-४०-२८
स इति सवितृसूनुस्तत्र तत्कर्म कृत्वा |
<DOC_END>
<DOC_START>
येन अहं न अमृता स्याम्, किमहं तेन कुर्याम् ।
यदेव भगवान् वेद तदेव मे ब्रूहि इति ॥ बृहदारण्यकोपनिषत् २-४-३
अहं येन धनेन अमृता न स्याम्, तेन किं कुर्याम्
अमृतत्वसाधनम् इति यदेव भगवान् जानाति, तदेव
मैत्रेयी इदं वचः वदति । एषा याज्ञवल्क्यमहर्षेः प्रिया
पत्नी । “सकलसौभाग्यसम्पद्भिरपि सम्पूर्णाभिः अमृतत्वं
न लभ्यते” इति याज्ञवल्क्येन उक्तं वाक्यं श्रुत्वा बुद्धिमती
मुमुक्षुः मैत्रेयी स्वभर्तारं याज्ञवल्क्यं महर्षिं प्रति इदं
मुक्तिरेव मानवजन्मनः परं लक्ष्यं इति सिद्धे सति
मुक्ति साधनभूता आत्मविद्या एव मया प्रार्थ्यते, न
तु इतराः भोगसम्पदः मुक्तेः असाधनभूताः इति उक्त्वा
विषयभोगान् सा तिरस्करोति । इयमेव खलु भारतीया
संस्कृतिः अयमेव भारतीयसंस्कृतेः महिमा नाम ।
दम्पत्योः कीदृशः समानः संस्कारः कीदृशः आदर्शः
स्त्रियो नाम । अहो भारतीयस्रीरत्नानि इमाः ।
<DOC_END>
<DOC_START>
येन रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनानि ।
एतेनैव विजानाति किमत्र परिशिष्यते ॥ काठकोपनिषत् २-१-३
येन चैतन्येन नरः रूपं रसं गन्धं शब्दान् स्पर्शान् मैथुनानि च जानाति, स आत्मैव ‘अहम्’ इति विजानीयात् ॥
आत्मावबोधनकला हि अस्मिन् मन्त्रे उपदिश्यते । तद्यथा, प्रत्यहं सर्वः पुरुषः शब्दस्पर्शरूपरसगन्धादीन् विषयान्
अनुभवतीति हि सुप्रसिद्धम् । अयमनुभवः किंनिमित्तकः कथम् उत्पद्यते यतो हि, देहः अचेतनः, इन्द्रियाणि जडानि,
बुद्धिश्च अचिदात्मिका एव । तर्हि बाह्यान् रूपादीन् विषयान्, आन्तराणि सुखदुःखादीनि च को जानाति इति चेत्,
स एव आत्मा, प्रत्यगात्मा चायम् ॥
न हि देहादिसङ्घातः शब्दस्पर्शरूपरसगन्धादीन् जानीयात्, अचेतनत्वात् । सङ्घातविलक्षणेनैव आत्मना हि शब्दादयः
ज्ञायन्ते । आत्मचैतन्यागोचरः पदार्थो नाम न कश्चिदस्ति । चिन्मात्रस्वरूपोऽयमात्मा स्वयमेव इति जानीयात् । एषा
एव आत्मावबोधनकला नाम एतत्कलाभिज्ञ एव हि आत्मज्ञानी इति कथ्यते ॥
<DOC_END>
<DOC_START>
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् । मुण्डकोपनिषत् १-२-१३
प्रशान्तचित्ताय शमान्विताय शिष्याय ब्रह्मनिष्ठः सद्गुरुः तां श्रेष्ठां ब्रह्मविद्यां प्रीत्या उपदिशति ।
ब्रह्मविद्यया शिष्यः अक्षरं सत्यं पुरुषं विज्ञाय कृतार्थो भवति ॥
योग्याय शिष्याय करुणासागरः सद्गुरुः ब्रह्मतत्त्वम् उपदिशेत् । न, अवश्यमेव उपदिशति ।
'स्वयमेव स्वतन्त्रः सन् ब्रह्मजिज्ञासां नैव कुर्यात्' इति शिष्यस्य यथा नियमः, एवमेव 'आत्मानम्
उपसन्नाय योग्याय शिष्याय जिज्ञासवे ब्रह्मतत्त्वम् उपदिशेत्' इति ब्रह्मविद्याचार्यस्यापि शास्त्रनियमः
एव इति भगवान् श्रीशंकरः 'आचार्यस्यापि अयमेव नियमः यत् न्यायप्राप्तसच्छिष्यनिस्तारणम्
योग्याय जिज्ञासुशिष्याय सद्गुरुः अक्षरस्वरूपम् उपदिशति । अक्षरं नाम नाशरहितं तत्त्वम् ।
इदमेव पुरुषशब्देनापि कथ्यते । अस्य विज्ञानमेव ब्रह्मज्ञानमिति उच्यते । इयमेव हि शिष्याणां
<DOC_END>
<DOC_START>
येनेदं सर्वं विजानाति तं केन विजानीयात् विज्ञातारमरे केन विजानीयात् बृहदारण्यकोपनिषत् २-४-१४
येन इदं सर्वं विजानाति लोकः, तम् आत्मानं केन विजानीयात् ?
अरे मैत्रेयि, विज्ञातारं केन कथं वा जीवः विजानीयात् ?
वेदान्तेषु आत्मनः ‘वेदिता’ इति नाम विद्यते । वेत्ति इति वेदिता । ज्ञाप्तिस्वरूपस्य आत्मनः संनिधानेनैव प्रमाणानि
उपयुज्य वयं प्रमेयान् जानीमः । आत्मनः सांनिध्याभावे अस्य जडस्य देहस्य नास्ति किञ्चिदपि ज्ञानसामर्थ्यम् ॥
प्रमाणानि इति इन्द्रियमनोबुद्धिरूपाणि करणानि, प्रमेयाः इति शब्दादयो विषयाः, प्रमाता नाम द्र्ष्टा श्रोता इत्यादिरूपः ।
एतेषां त्रयाणामपि प्रकाशकः आत्मा । अस्यैव आत्मनः नाम विज्ञाता इति । अयमेव सर्वमपि प्रकाशयति । अस्य विज्ञातुः
न कोऽपि विज्ञाता अन्यो अस्ति । ज्ञप्तिस्वरूपमेव सन्तम् आत्मानं न कोऽपि विषयीकृत्य जानीयात् । प्रमातृप्रमाणप्रमेयानां
मूलमेव हि आत्मा साक्षिस्वरूपः । तं चैतन्यस्वरूपमेव आत्मानं जानीयात् ॥
<DOC_END>
<DOC_START>
==यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥ अथर्ववेदः १९-९-५
यैः विपत्तयः उत्पद्येरन् तैः एव शान्तिः भवतु ।
: अस्माकं जीवने याः विपत्तयः दुर्घटनानि भवन्ति तेषां प्रमुखं कारणं भवति अस्माकम् इन्द्रियाणि, कामक्रोधादयश्च । आत्मनः साधनाभूतानि इन्द्रियाणि विहाय अस्माकं जीवनं न भवति । कामक्रोधादयस्तु प्रत्यणौ व्याप्तः रक्तगतः गुणः जातः अस्ति एतेषां निग्रहेण, शिक्षणदानेन एव शान्तिः, आत्मोन्नतिः च साधयितुं शक्या आत्मवशानि इन्द्रियाणि, हितकारिषु कामः, दुष्टताविषये कोपः, ज्ञानविषये लोभः, समस्तस्य विश्वस्य जीवराशेः विषये मोहः, सन्मार्गे चलनावसरे विचलितः न भवामि इति मदः, अन्येषाम् अपेक्षया अग्रेसरणरूपायाम् आरोग्यकरस्पर्धायां मात्सर्यश्च अस्माभिः अनुसर्तव्यः साधनामार्गः ।
<DOC_END>
<DOC_START>
यो अशनायापिपासे शोकं मोहं जरां मृत्युम् अत्येति । बृहदारण्यकोपनिषत् ३-५-१
यः अशनायापिपासे शोकं मोहं जरां मृत्युम् अत्येति, स एव सर्वान्तरः आत्मा ।
आत्मा षडूर्मिरहितः असंसारी इति उपनिषदः प्रतिपादयन्ति । षडूर्मयो नाम समुद्रस्य ऊर्मय इव षड् विकाराः ।
ते षड् विकारास्तु – अशनाया (अत्तुम् इच्छा पिपासा (पातुम् इच्छा शोकः (दुःखम् मोहः (अज्ञानम्
जरा (वार्धक्यम् मृत्युः (मरणम्) च । समुद्रस्य वीचय इव एते विकाराः जीवानां पुनः पुनः भवन्तीति षडूर्मयः ॥
षडूर्मयः नात्मनो भवन्ति । आत्मा हि निरुपाधिकं सर्वान्तरं ब्रह्मैव । तर्हि षडूर्मयः कस्य उपाधीनामेव ।
अशनायापिपासे प्राणस्य, शोकमोहौ मनसः, जरामरणे तु देहस्य । उपाधिधर्माः आत्मनो न भवन्ति । यतः
परिपूर्णः आत्मा नित्यशुद्धनित्यबुद्धनित्यमुक्तस्वरूपः निरवयवः निरुपाधिकश्च ॥
<DOC_END>
<DOC_START>
==यो जागार तमृचः कामयन्ते ॥ अथर्ववेदः ६-१९-१
यः जागरितः तं ज्ञानम् इच्छति
: निद्राणेन परितः आत्मनि प्रचाल्यमानं किमपि न ज्ञायते एव । निद्रा न करणीया इति न तस्य अर्थः । शरीरयन्त्रं समीचीनतया कार्यकरणाय यावती विश्रान्तिः अपेक्षिता तावती अवश्यं दातव्या एव । सर्वदा उत्साहः स्यात् । इयं जागरा एकस्तरीया । जाग्रदावस्थायां, निद्रावस्थायां वा भवतु बुद्धिः निद्राणा एव स्यात् किं कुत्र किमर्थं कथं कति इत्यादिषु विषयेषु चिन्तनं योजनां वा अकृत्वा पूर्वजैः कृतमिव कस्यचित् तोषणाय, केनचित् सह स्पर्धायै वा कार्याणि यदा क्रियन्ते तदा कर्तुः बुद्धिः गाढनिद्रावस्थायां विद्यते इत्येव अर्थः !
: सत्यस्य अवगमनम्, अवगमनानुगुणम् आचरणम्, आचरणमिव वाचः इत्येते ज्ञानमार्गस्य निर्धारकांशाः । बुद्ध्या यः जागरितः सः ज्ञानमार्गमेव कामयते । अथवा ज्ञानमेव तादृशं जागरितं जनम् इच्छति
<DOC_END>
<DOC_START>
यो वै वेदांश्च प्रहिणोति तस्मै ।
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ श्वेताश्वतरोपनिषत् ६-१८
यः परमात्मा पूर्वं ब्रह्माणं विदधाति, यश्च ततः तस्मै सर्वान्
वेदान् प्रहिणोति, यश्च मुमुक्षुबुद्धिं प्रकाशयति, तं परमेश्वरम्
प्रत्यहं वेदान्तभाष्यपाठस्य प्रारम्भे अस्य मन्त्रस्य पठनसम्प्रदायो
विद्यते । हिरण्यगर्भो ब्रह्मा एव भगवतः प्रप्रथमा सृष्टिः । अत
एव तस्य ब्रह्मणः प्रथमजः इति नाम । विराटपुरुषोऽपि अयमेव ।
अस्मिन् भगवान् वेदान् प्रकाशयति । अयमेव परमात्मा
अस्मास्वपि वसन् अस्माकं बुद्धिवृत्तीः प्रचोदयति । वेदवेदान्तानां
भगवानेव प्रथमाचार्यः । आत्मविद्यास्वरूपम् आत्मविद्याचार्यम्
आत्मविद्याप्रकाशम् ईश्वरं भक्त्या आराध्य, ईश्वरमेव प्रपद्यमानस्य
आश्रयमाणस्य जिज्ञासोः मुमुक्षोः आत्मज्ञानं मोक्षश्च नूनं लभ्यते
एव । तस्मात् मुमुक्षुसाधकः ईश्वरं भक्त्या शरणं व्रजेत् ॥
<DOC_END>
<DOC_START>
सूर्यस्य दर्शनमात्रेण कमलं विकसितं भवति (सूर्यस्य सान्निध्यम् अनुभवति ।
<DOC_END>
<DOC_START>
यो वा एतदक्षरं गार्गि विदित्वा अस्मात् लोकात् प्रैति स ब्राह्मणः । बृहदारण्यकोपनिषत् ३-८-१०
हे गार्गि, यः एतदक्षरं विदित्वा अस्मात् लोकात् प्रैति स एव अन्वर्थब्राह्मणः ।
वेदान्तेषु ब्राह्मणो नाम ब्रह्मज्ञानी एव । ब्रह्म जानाति इति ब्राह्मणः । पूर्वजन्मसु कृताभ्यां पुण्यपापाभ्यां हि इदानीं
मानवत्वेन जातोऽस्ति । मनोः वंशे जातो हि मानवः । मानवस्यैव मनुष्यः, नरः इति नामान्तरम् । मानवाय हि
भगवान् बुद्धिसामर्थ्यंविचारयोग्यतां च अनुगृहीतवान् अस्ति । जातस्य मानवस्य मरणं निश्चितमेव । अतः जातोऽयं
मानवः नाशरहितं निरुपाधिकम् अजम् अक्षरं विदित्वा अन्वर्थो ब्राह्मणो भवति ॥
नाशरहितं परिणामरहितम् अपरिच्छिन्नम् अक्षरम् आत्मत्वेन जानन्नेव ब्राह्मणो भवति । मरणात् पूर्वमेव, जीवन्नेव
यो वै एतत् आत्मतत्त्वं जानाति स एव ब्राह्मणः, सत्यं ब्राह्मण एवासौ । सर्वेणापि सुसम्पाद्यं ह्येतत् ब्राह्मण्यम् । सर्वेषां
मानवानाम् आजन्मसिद्धः अधिकारोऽयम् । एतदक्षरम् आत्मत्वेन विज्ञाय सर्वेऽपि वयम् अन्वर्थाः ब्राह्मणा भवेम किम् ?
<DOC_END>
<DOC_START>
यो वा एतामेवं वेद, अपहत्य पाप्मानम् । केनोपनिषत् ४-९
आत्मतत्त्वं सम्यक् जानाति चेत्, सः पुण्यपापे अत्येति ।
यथाशास्त्रं पुण्यकर्माणि कृत्वा शुभानि फलानि प्राप्नोति । शास्त्रनिषिद्धानि पापानि कर्माणि
कृतानि चेत् अशुभमेव फलं प्राप्यते । तस्मात् मानवेन सदा पुण्यकर्माण्येव कर्तव्यानि, पापकर्माणि
च हातव्यानि इति पूर्वमीमांसादर्शनं तथा सकलशास्त्राणि पुराणानि च उपदिशन्ति । सत्यमेवैतत् ॥
वेदान्तेषु तु पुण्यपापे उभेऽपि कर्मणी ‘पाप’ शब्देनैव व्यपदिश्य एतत्पापपरिहाराय ‘राजमार्गः’ उपदिश्यते ।
पुण्यपापे उभेऽपि कर्मणी देहान्तरोत्पत्तौ हेतुत्वात् ‘बन्धके’ एव भवतः ॥
अज्ञानमेव हि पुण्यपापयोः हेतुः । अज्ञानादेव कामः, कामादेव च कर्माणि । तस्मात् आत्मज्ञानादेव
अज्ञानस्य नाशः । अज्ञाननिवृत्त्यै आत्मज्ञानमेकमेव रामबाणः । आत्मानम् अकर्तारम् अभोक्तारं यः
जानाति स एव आत्मवित् । विचारेण पुण्यपापसम्बन्धरहितम् आत्मानं विजानतः पुण्यपापे भस्मीभवतः ॥
<DOC_END>
<DOC_START>
यो वै प्राणः सा प्रज्ञा, या प्रज्ञा स प्राणः । कौषीतकिब्राह्मणोपनिषत् ३-३
यो वै प्राणः सा एव प्रज्ञा, या प्रज्ञा स एव च प्राणः ।
अस्मिन् मन्त्रे प्राणप्रज्ञयोः अभेदः प्रतिपाद्यते । प्राणो नाम देहेन्द्रियाणि संव्याप्य तेषु चैतन्यपूरयिता
तद्द्वारा नानाव्यापारान् कुर्वती सूक्ष्मा शक्तिः । अयमेव प्राणः, अपानः, व्यानः, उदानः, समानः इति
पञ्चभिः व्यापारैः पञ्चनामा भवति । अयमेव च प्राणः ज्येष्ठः श्रेष्ठः सूक्ष्मः सर्वव्यापकश्च इति वेदान्तेषु
गीयते । प्राणो नाम परमार्थतः परमात्मा अपि भवति ॥
प्रज्ञा तु चैतन्यम् । इयं प्रज्ञा अपि देहेन्द्रियादीनि संव्याप्य विद्यमाना अद्भुता शक्तिः । प्रज्ञाहीनश्चेत्
जन्तुः शव एव खलु प्रज्ञाप्राणयोः अनुग्रहेणैव हि इदं शरीरं जीवति उभयमप्येतत् एकस्यैव नाणकस्य
मुखद्वयमिव । तस्मादेव हेतोः प्रज्ञा एव प्राणः, प्राण एव च प्रज्ञा इति अत्र उपदिश्यते । परमात्मैव प्राणरूपेण
प्रज्ञास्वरूपेण च अवभासते । प्राणेन विना, प्रज्ञया च विना सर्वं वस्तु व्यवहारायोग्यं भवति ॥
<DOC_END>
<DOC_START>
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति । प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ छान्दोग्योपनिषत् ५-१-१
यो हि ज्येष्ठं श्रेष्ठं च प्राणम् उपास्ते, सः ज्येष्ठः श्रेष्ठश्च भवति । प्राणो हि ज्येष्ठश्च श्रेष्ठश्च !
शरीरम्, इन्द्रियाणि, अन्तःकरणं प्राणश्च – इत्येतस्य समूहस्य सङ्घातः इति नामधेयम् । अस्मिन् सङ्घाते
प्राणः एव मुख्यः, प्राण एव च सारम् । परस्मादात्मनः प्राथम्येन आविर्भूतोऽयं खलु प्राणः । प्रथमतः जातत्वादयं
प्राणः ज्येष्ठः, एतन्निमित्तत्वात् सङ्घातस्य प्राणोऽयं श्रेष्ठश्च । प्राणादेव हि सङ्घातोऽयं जीवति, प्राणे सत्येव सङ्घातस्य
एवं ज्ञात्वा यः प्राणं ज्येष्ठं श्रेष्ठम् उपास्ते, तादृशः उपासकोऽपि जनानां मध्ये स्वयमपि ज्येष्ठः श्रेष्ठो भवति । तादृशम्
उपासकं जना आदरेण भक्त्या च उपासते । प्राणोपासकः सर्वथा लोके प्रतिष्ठितः प्रसिद्धो भूत्वा विराजते । प्राणवदेव
प्राणोपासकोऽपि जगति पूज्यो वन्द्यो भवति इत्यर्थः ॥
<DOC_END>
<DOC_START>
एकैकः अपि अनर्थाय भवति । एते चत्वारि अपि एकस्मिन्
जने यदि भवेयुः तर्हि तस्य का गतिः ते जनं पूर्णतया विनाशयन्ति ।)
<DOC_END>
<DOC_START>
आचार्यः रजनीशः ११ डिसेम्बर् १९३१ १९ जनवरी १९९०) कश्चन भारतीयाध्यात्मगुरुः । सः ओशो इत्यपि ख्यातनामा आसीत् । स्वीयेन विवादात्मकेन अध्यात्मान्दोलनेन भारत-अमेरिका-नेदर्लेण्ड्-जर्मनिप्रभृतिषु देशेषु सः बहून् जनान् प्रेरितवान् । सः ध्यान-जागरण-प्रेम-उत्सव-उत्साह-सर्जन-हास्यादयः ये गुणाः धार्मिकपरम्परासु सामाजिकसम्मिलनेषु च उपसंहृताः सन्ति तेषां गुरुत्वं प्रतिपादितवान् ।
* परमजाग्रदवस्था सर्वेण प्राप्तव्या । तदेव झेन् । प्रतिदिनं केचन निमेषाः अर्धदिनं वा कृत्वा विस्मर्तुं योग्यं किञ्चन न तत् । भवतः हृदयस्पन्दः इव भवेत् तत् । तस्मिन् भवता उपवेष्टव्यं, तस्मिन् भवता चलनीयम् । आम्, तस्मिन्नेव भवता शयनीयम् ।
* मया क्रियमाणं विनष्टं न स्यात् इति मम इच्छा । अतः भूतकाले यानि बन्धनानि क्रान्तेः वर्धनस्य च मारकाः आसन् तेषाम् अपसारणाय सर्वविधप्रयत्नं कुर्वन् अस्मि । व्यक्ति-अस्तित्वयोः मध्ये कोपि न तिष्ठेत् । न कापि प्रार्थना, न वा अर्चकः सूर्योदयस्य सम्मुखीकरणे भवता एकेन अलं, सूर्योदयस्य सौन्दर्यम् अन्येन वर्णनीयं नास्ति । एषा मम दृष्टिः भवान् अत्र अस्ति, सर्वा व्यक्तिः अत्र विद्यते, समग्रा अस्मिता उपलभ्यते । भवता करणीयम् एतावदेव मौनेन अस्मिता श्रोतव्या । कस्यापि मतस्य आवश्यकता न विद्यते, कस्यापि देवस्य, पौरोहित्यस्य, सङ्घटनस्य वा आवश्यकता न विद्यते । अहं व्यक्तौ विश्वसिमि । अद्यावधि व्यक्तौ एवं विश्वासः केनापि न कृतः ।
* प्रीतिः का इति कोपि भवन्तं न पाठयति । प्रीतिः भवता स्वयमेव अन्वेष्टव्या, प्रज्ञास्तरस्य उन्नयनेन अन्तः एव अन्वेष्टव्या । यत्र प्रीतिः तत्र उत्तरदायित्वस्य अस्तित्वं न विद्यते । यस्मिन् जने भवतः प्रीतिः स्यात् तन्निमित्तं भवान् सर्वं करोति यतः तस्मात् भवान् सन्तोषं प्राप्नोति । भवान् तस्य साहाय्यम् आचरन् नास्ति, प्रतिफलमपि न निरीक्षते, न वा कार्तज्ञ्यम् । प्रत्युत किञ्चित् कर्तुं तेन अनुमतमित्येव भवान् कृतज्ञताम् अनुभवति । सः भवतः सन्तोषः । प्रीतौ उत्तरदायित्वं न विद्यते । तया बहु क्रियते, सा नितरां सर्जनशीला, सर्वं संविभजते, किन्तु तत् उत्तरदायित्वरूपेण नैव, स्मर्यताम् । प्रीतौ उत्तरदायित्वम् इत्येतत् न विद्यते । प्रीतिः स्वाभाविकी । उत्तरदायित्वम् इत्येतत् देवस्य, देशस्य, कुटुम्बस्य, धर्मस्य नाम्ना शासनाय धूर्तैः पुरोहितैः राजनैतिकजनैः सृष्टमस्ति । किन्तु ते प्रीतेः विषये न कथयन्ति । प्रत्युत ते सर्वे प्रीतेः विरोधिनः यतः ते प्रीतिं निग्रहीतुं नार्हन्ति । प्रीतियुक्तः जनः स्वस्य हृदयानुसारं व्यवहरति, न तु नीतिनियमानुसारम् । प्रीतिपूर्णः जनः सेनां न प्रविशति यतः देशाय युद्धकरणं न तस्य दायित्वम् । सः वदति मम कोपि देशः नास्ति, अतः युद्धस्य प्रश्नः एव नास्ति इति ।
* या कापि प्रापञ्चिकक्रिया ध्यानपरा भवितुम् अर्हति । आरामे गर्तखननं स्यात्, पाटलसस्यस्य आरोपणं स्यात् बुद्धस्य कराभ्यां कृतं चेत् यथा स्यात् तावत्या असीमप्रीत्या अनुकम्पया च भवान् कर्तुम् अर्हति । अत्र वैरुद्ध्यं न विद्यते मया उच्यते यत् भवदीया सर्वा क्रिया उत्सवसदृशी स्यात् । भवतः प्रज्ञा, जागरणं, मेधा च क्रियया योज्येत, भवान् उत्स्फूर्तः यदि स्यात् तर्हि कस्यापि धर्मस्य आवश्यकता न भविष्यति: जीवनमेव धर्मरूपं प्राप्नोति ।
* मम समग्रं बोधनं शब्दद्वये निहितम्, ध्यानं प्रीतिश्च । मौनम् अनुभोक्तुं ध्यानं क्रियताम्, भवदीयं जीवनं गीतं, नृत्यम् उत्सवो बा भवेत् इति चेत् प्रेमी भवतु । एतयोः मध्ये भवता सञ्चरणीयम्, सञ्चारः सुलभः, प्रयत्नरहितः यदि भवेत् तर्हि जीवनस्य महत्त्वपूर्णः अंशः भवता अधिगतः इत्येव ।
* वास्तविको भव चमत्कारः प्रतीक्ष्यताम् ।
* कौतुकानि भवत्पुरतः प्रकाश्येरन् चेत् विस्मितः सन् तिष्ठतु । यः निरन्तरं प्रश्नान् पृच्छेत् तत्पुरतः कौतुकानि अनावृतानि न भवन्ति । प्रच्छकाः ग्रन्थालये बद्धाः भवन्ति । शास्त्रग्रन्थस्य प्राप्त्या ते तुष्टाः भवन्ति यतः शास्त्रग्रन्थः उत्तरैः सम्पूरितः अस्ति । उत्तराणि भवन्ति अपायकराणि यतः ततः कौतुकं हतं भवति ।
* सर्वकालीनाः सर्वे अपि बुद्धाः इदमेव सरलं विषयं कथयन्ति भव भवितुं प्रयत्नं मा कुरु' इति ।
* सर्वकालीनाः सर्वे बुद्धाः अपि एकमेव सरलं सत्यं वदन्तः सन्ति स्वस्वरूपे तिष्ठतु । केनचित् भवितुं प्रयत्नं मा करोतु इति । स्वस्वरूपं प्रयत्नः इत्येतस्मिन् शब्दद्वये एव समग्रं जीवनं विद्यते । स्वरूपे स्थितिः मुक्तिः, भवनप्रयत्नः अज्ञानम् ।
<DOC_END>
<DOC_START>
==रदा पूषेव न सनिम् ॥ ऋग्वेदः ६-६१
: समग्रस्य जीवराशेः सर्वेषाम् आवश्यकतानां पूरणाय यद्यद् अपेक्षितं तत्सर्वं निश्शुल्कं यथेष्टं च दत्तवान् अस्ति सः भगवान् । तेन भगवता दत्तायाः सम्पदस्य रक्षणे, वर्धने, संविभागे एव वस्तुतः समस्या विद्यते स्वार्थेन, दुराशया च प्राकृतिकसम्पत्तेः निरन्तरं ह्रासः क्रियमाणः अस्ति अस्माभिः सर्वैः । अरण्यनाशः, पर्वतानां विनाशः, खनिजानां हरणं क्रियमाणमस्ति । वर्धनस्य प्रयत्नः कुत्रचित् प्रचलेत् चेदपि विनाशस्य वेगः सुमहान् वर्तते । संविभागस्य विषये यदि चिन्तयेम 'बलवान् एव महान्' इति ज्ञायते । एतादृशस्य संविभागस्य कारणतः जीविनां मध्ये अनावश्यकी स्पर्धा, सङ्ग्रामः, रक्तपातः, द्वेषः, असूया च परिदृश्यते । एते अस्माकं विनाशहेतवः भवन्ति न तु शान्तेः सहजीवनस्य पोषकाः । इयं प्रकृतिसम्पत्तिः सकलजीवराशेः स्वत्त्वम् । स्वस्य आवश्यकतानुगुणं संविभागः यदा भवेत् तदा सा सम्पत्तिः जीविनां रक्षणाय पोषणाय भवति । संविभागावसरे अनिश्चितस्य भविष्यतः निमित्तं रक्षणस्य दुर्बुद्धिः न भवेत् । अद्यैव समापनीयम् इति भोगलालसा अपि न स्यात् । सरलता, निष्कपटता, असङ्ग्रहजीवनं, स्वावलम्बिमनोवृत्तिश्च भवेत् ।
<DOC_END>
<DOC_START>
रवीन्द्रनाथठाकूरः (मे ७, १८६१ आगस्ट् ७, १९४१) वङ्गीयः तत्त्वज्ञानी, कविः, १९१३ तमस्य वर्षस्य नोबेल्-प्रशस्ति(साहित्यम्)विजेता च ।
*भारतदेशे मम प्रीतिः सेवाभावः च तस्य विशालस्य भौगोलिकस्य आकारस्य, वैभवोपेतस्य इतिहासस्य वा कारणतः न, प्रत्युत सः सत्ये स्वातन्त्र्ये उच्चतरजीवनादर्शे च आस्थावान् अस्ति इति कारणतः । वयं जानीमः यत् किञ्चन लक्ष्यं भारतवर्षं सर्वदा प्रेरयति इति । तच्च विविधतायाम् एकत्वपरिकल्पनं, गन्तव्यं प्रति विभिन्नानाम् उपासनपद्धतीनां नयनम्, ‘अनेकेषु एकत्वम्’ इत्येतस्य तत्त्वस्य याथार्थ्येन अनुभवनं, विभेदेषु वहतः आन्तरिकैकतारूपस्य सर्वोच्चसिद्धान्तस्य दृढनिश्चयपुरस्सरम् अनुसरणं चेति । बाह्यजगति दृश्यमानानि वैशिष्ट्यानि अनाशयता एव तेन एतानि अधिगन्तुं प्रयासः क्रियमाणः अस्ति । विविधतायाम् एकत्वस्य अनुभूतिः, एकतायाः विस्ताराय अखण्डः प्रयासः इत्येतदुभयं भारतस्य सहजं स्वाभाविकं वैशिष्ट्यम् अस्ति ।
<DOC_END>
<DOC_START>
रसो वै सः। रसं ह्येवायं लब्ध्वा आनन्दी भवति । तैत्तिरीयोपनिषत् २-७-२
सः एषः आत्मा रसः, अयं जीवः आत्मानन्दरसं लब्ध्वा एव
प्रत्यक्षादिप्रमाणगोचरोऽपि आत्मा ‘नास्ति’ इति न मन्तव्यम् ।
इन्द्रियाणामपि प्रत्यगात्मभूतम् एतं परमात्मानम् इन्द्रियैः द्र्ष्टुं
नैव शक्यते । तर्हि सः परमात्मा ‘अस्ति’ इत्यत्र प्रमाणं किम्
अस्माकम् अनुभव एव प्रमाणम् । तत् कथम् इति चेत् ॥
आत्मा रसस्वरूपः । रसो नाम आनन्दः । आनन्दस्वरूप एव
आत्मा । अयम् आनन्दस्वरूपः आत्मैव सर्वस्यापि जीवस्य
आनंदित्वे कारणम् । सर्वः प्राणी सर्वथा जीवितुम् इच्छति खलु
किं कारणम् रसस्वरूपस्य ब्रह्मणः एतेषां प्रत्यगात्मत्वात् ॥
'तपस्विनः बाह्यसुखसाधनरहिता अपि अनीहाः निरेषणाः ब्राह्मणाः
बाह्यरसलाभादिव सानन्दा दृश्यन्ते विद्वांसः' इति शाङ्करं भाष्यम् ।
कथं ते तपस्विनः सानन्दाः सदा आनन्दरसस्वरूपस्य ब्रह्मणः
<DOC_END>
<DOC_START>
* नारायणस्वरूपस्य मानवस्य पूजा क्रियताम् । दयादर्शनस्य अधिकारः अस्मासु न विद्यते, परमेश्वरमात्रे विद्यते । पूजाकरणस्य अधिकारमात्रं विद्यते अस्माकम् ।
:भगवान् बाह्यः दूरस्थः इत्येतत् अज्ञानम् । देवः अन्तर्निहितः इत्येतदेव यथार्थं ज्ञानम् ।
* ज्ञानस्य विषये शाश्वतस्य परमानन्दस्य विषये ध्यायताम् । शाश्वतः सः आनन्दः अज्ञानेन आवृत्तः अस्ति । इन्द्रियव्यामोहः यावता प्रमाणेन न्यूनः भगवतः विषये तावती प्रीतिः अधिका भविष्यति ।
* भगवतः कस्मिंश्चित् अंशे श्रद्धा पर्याप्ता । निराकारब्रह्मणि यदि श्रद्धा, उत्तममेव । किन्तु भवदीया श्रद्धा एव समीचीना, अन्याः असमीचीनाः इति कदापि न भाव्यताम् । सम्यक् अवगच्छतु यत् निराकारब्रह्म अपि सत्यः, साकारः अपि सत्यः एव इति । यत्र भवतः श्रद्धा सः भावः भवतु दृढः ।
* यस्मिन् अवमानं, द्वेषः, भयञ्च विद्यते तेन भगवद्दर्शनं प्राप्तुम् अशक्यम् ।
*महापुरुषाः बालस्वभावयुक्ताः । देवस्य पुरतः ते सदा बालाः, अतः एव ते अभिमानात् मुक्ताः । तेषां शक्तिः स्वीया न अपि तु देवस्य एव । सा दैवाधीनं, देवात् प्राप्तम् ।
* देवस्य नामस्मरणं कुरु, तस्य भजनं कुरु, सत्सङ्गे भव । तदा तदा दैवभक्तैः मुनिजनैश्च मिल । सर्वदा प्रापञ्चिककार्येषु उत्तरदायित्वेषु निमग्नं मनः देवस्मरणे मग्नं भवितुं नार्हति । अतः असकृत् एकान्तस्थले दैवस्मरणं कुर्यात् ।
* रात्रौ आकाशे बहूनि नक्षत्राणि दृश्यन्ते, किन्तु सूर्योदयात् परं न । अतः दिवा नक्षत्राणि न विद्यन्ते इति किं वक्तुं शक्यम् हे मानव, अज्ञानयुक्तेषु दिनेषु देवः न दृश्यते इत्यतः देवः न विद्यते इति कदापि न कथ्यताम् ।
* भगवन्निमित्तं ज्येष्ठानां निराकरणं न दोषाय । भरतः रामाय कैकेय्याः निराकरणम् अकरोत् । कृष्णदर्शनाय गोपाः पत्युः निराकरणम् अकुर्वन् । प्रह्लादः हरेः निमित्तं पितरं निराकृतवान् ।
* केचन क्षीरस्य विषये श्रुतवन्तः । अन्ये केचन क्षीरं दृष्टवन्तः । अपरे केचन क्षीरस्य आस्वादनं कृतवन्तः । क्षीरस्य दर्शनेन भवान् सन्तोषम् अनुभवति । क्षीरस्य पानेन भवान् शक्तिशाली दृढश्च भविष्यति । देवस्य दर्शनेनैव भवान् शान्तिं प्राप्स्यति । तेन सह सम्भाषणेनैव भवान् आनन्दं शक्तिञ्च प्राप्स्यति ।
* अहं सर्वेषां शिष्यः । सर्वे देवस्य पुत्राः । सर्वे तस्य सेवकाः ।
* ज्ञानं पुरुषः इव, भक्तिः स्त्री इव । ज्ञानस्य प्रवेशः देवस्य स्वागतप्रकोष्ठपर्यन्तमात्रं भवति । किन्तु प्रीतिः तस्य अन्तर्गृहमपि प्रवेष्टुम् अर्हति ।
* पवित्रं ज्ञानं पवित्रं प्रेम च समानमेव । उभौ अपि साधकं समानलक्ष्यं प्रति नयतः । प्रेममार्गः नितरां सुलभतरः ।
<DOC_END>
<DOC_START>
रामायणम् आदिकव्यम् इति प्रसिद्धम्। इतिहासग्रन्थः इत्यपि भाव्यते एतत्। एतस्य ग्रन्थस्य रचयिता वाल्मीकिः। किरातकुले उत्पन्नः सः नारदस्य उपदेशात् तपः अकरोत्। तस्य शरीरम् आवृत्य वल्मीकः उत्पन्नः। ततः सः बहिः आगतः इत्यतः तस्य नाम् 'वाल्मीकिः' इति काचित् कथा श्रूयते।
* आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः
* दुर्लभं हि सदा सुखं
: उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्॥
* विक्लवो वीर्यहीनो यः स दैवमनुवर्तते।
: वीराः सम्भावितात्मानो न दैवं पर्युपासते॥
* यो हि दत्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः ।
: रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्॥
* नातन्त्री विद्यते वीणा नाचक्रो विद्यते रथः।
: नापतिः सुखमेधेत या स्यादपि शतात्मजा॥
* शोको नाशयते धैर्यं शोको नाशयते श्रुतं।
: शोको नाशयते सर्वं नास्ति शोकोसमो रिपुः॥
* यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः
* कुलीनमकुलीनं वा वीरं पुरुषमानिनं ।
: चारित्रमेव व्याख्याति शुचिम् वा यदि वाऽशुचिम् ॥
* उद्विजन्ते यथा सर्पात् नरादनृत वादिनः
* सत्यमेवेश्वरो लोके सत्ये धर्मः समाश्रितः
* न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतं
लक्ष्मी चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत्
: अतीयाद्सागरो वेलां न प्रतिज्ञामहं पितुः
* धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखं।
: धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥
* आत्मानं नियमैः तैस्तैः कर्शयित्वा प्रयत्नतः ।
: प्राप्यते निपुणैर्धर्मो न सुखात् लभते सुखम् ॥
* अनागतविधानं तु कर्तव्यं शुभमिच्छता।
: आपदाशंकमानेन पुरुषेन विपश्चिता ॥
* कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर।
: तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ॥
* न चिरं पापकर्माणः क्रूराः लोकजुगुप्सिताः ।
: ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूलाः इव द्रुमाः॥
* न चिरात् प्राप्यते लोके पापानां कर्मणां फलं।
* परदाराभिमर्शात्तु नान्यत् पापतरं महत्
* स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् ।
: तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ॥
* यत्कृत्वा न भवेत् धर्मो न कीर्तिर्न यशो ध्रुवं।
: शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत् ॥
* मुमुर्षूणाम् तु सर्वेषाम् यत्पथ्यं तन्न रोचते
* उत्साहो बलवानार्य नस्त्युत्साहात् परं बलं।
: सोत्साहस्यहि लोकेषु न किञ्चिदपि दुर्लभं ॥
* दु:खितः सुखितो वापि सख्युर्नित्यं सखा गतिः ।
* ज्येष्ठ भ्राता पिता वापि यश्च विद्यां प्रयच्छति ।
: त्रयो वै पितरो ज्ञेयाः धर्मे च पथि वर्तिनः ॥
* अर्थीनाम् उपपनानां पूर्वं चाप्युपकारिणां।
: आशाम् सम्श्रुत्य यो हन्ति स लोके पुरुषाधमः॥
* गोघ्ने चैव सुरापे च चौरे भग्नव्रते तथा ।
: निष्कृतिर्निहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥
* अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयं
* न विषादे मनः कार्यं विशादो दोषवत्तरः।
: विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः॥
* अनिर्वेदः श्रियो मूलं अनिर्वेदः परं सुखं
* विनाशे बहवो दोषाः जीवन्नाप्नोति भद्रकं
* दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यदृश्यतः
: एति जीवन्तमानन्दो नरं वर्षशतादपि॥
* न साम रक्षस्सु गुणाय कल्पते
* कोपं न गच्छन्ति हि सत्त्ववन्तः
* वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित्।
: नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ॥
: सर्वार्थाः व्यवसीदन्ति व्यसनं चाधिगच्छति
* मन्त्रमूलं च विजयं प्रवदन्ति मनस्विनः
* जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस!
: हृष्यन्ति व्यसनेष्वेते ज्ञातीनाम् ज्ञातयस्सदा॥
* यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः ।
: न श्लेषमभिगच्छन्ति तथानार्येषु सौहृदम्॥
* आकारः छाद्यमनोऽपि न शक्यो विनिगूहितुं।
: बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥
* गर्जन्ति न वृथा शूराः निर्जला इव तोयदा:।
* यः स्वपक्षं परित्यज्य परपक्षं निषेवते।
: स्वपक्षे च क्षयं याते पश्चात्तैरेय हन्यते॥
* परस्वानां च हरणं परदाराभिमर्शनं
: सुहृदामतिशंका च त्रयो दोषाः क्षयावहाः
* देशे देशे कलत्राणि देशे देशे च बांधवाः ।
: तं तु देशं न पश्यामि यत्र भ्राता सहोदरः॥
* न हि प्रतिज्ञां कुर्वन्ति वितथां सत्यवादिनः
: लक्षणं हि महत्त्वस्य प्रतिज्ञा परिपालनम्
* पतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले
* धारणाद्धर्ममित्याहुः धर्मेण विधृताः प्रजाः
* क्रोधः प्राणहरो शत्रुः क्रोधो मित्रमुखो रिपुः।
* न सा सभा यत्र न सन्ति वृद्धाः
: वृद्धा न ते ये न वदन्ति धर्मं ।
: नासौ धर्मो यत्र न सत्यमस्ति
: न तत्सत्यं यच्छलेनानुविद्धम् ॥
* तपो हि परमं श्रेयः सम्मोहमितरत्सुखम्
*कौसल्यासुप्रजा राम पूर्वा संध्या प्रवर्तते ।
: उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥
<DOC_END>
<DOC_START>
१. अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता । (सुन्दरकाण्डः १/११९)
<DOC_END>
<DOC_START>
:न श्लेषमभिगच्छन्ति तथानार्येषु सौहृदम् ॥ (युद्धकाण्डः १६/११)
:रसमत्र न विन्देत तथानार्येषु सौहृदम् ॥ (युद्धकाण्डः १६/१४)
:दूषयत्यात्मनो देहं तथानार्येषु सौहृदम् ॥ (युद्धकाण्डः १६/१५)
<DOC_END>
<DOC_START>
१. अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते । (उत्तरकाण्डः ४५/१३)
:पतत्येवाधमाँल्लोकान् यावच्छब्दः प्रकीर्त्यते ॥ (उत्तरकाण्डः ४५/१२)
:अपवादभयाद् भीतः किं पुनर्जनकात्मजाम् ॥ (उत्तरकाण्डः ४५/१४)
:तेजस्वी पुनरादद्यात् सुहृल्लोभेन चेतसा ।। (युद्धकाण्डः ११५/१९)
<DOC_END>
<DOC_START>
१. अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् ।
:तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याः सुलक्ष्मण ॥ (अरण्यकाण्डः ४३/३४)
२. दशाविभागपर्याये राज्ञां वै चञ्चलाः श्रियः । (युद्धकाण्डः १११/८९)
३. यद् द्रव्यं बान्धवानां वा
:मित्राणां वा क्षये भवेत् ।
:भक्ष्यान् विषकृतानिव ॥ (अयोध्याकाण्डः ९७/४)
४. अर्थेभ्योऽथ प्रवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः ।
:क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ (युद्धकाण्डः ८३/३२)
<DOC_END>
<DOC_START>
:नह्यन्योऽर्हति काव्यानां यशोभाग् राघवादृते ॥ (उत्तरकाण्डः ९८/१८)
:लोका हि यावत्स्थास्यन्ति तावत् स्थास्यन्ति मे कथाः । (उत्तरकाण्डः ४०/२२)
<DOC_END>
<DOC_START>
:कुर्वीत धृत्या सारथ्यं संहृत्येन्द्रियगओचरम् ॥ (उत्तरकाण्डः प्रक्षिप्तः २/३३)
<DOC_END>
<DOC_START>
१. अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् । (सुन्दरकाण्डः १२/१०)
२. अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ।
:करोति सफलं जन्तोः कर्म यच्च करोति सः ॥ (सुन्दरकाण्डः १२/११)
३. उत्साहवन्तो हि नरा न लोके,
:सीदन्ति कर्मस्वतिदुष्करेषु । (अरण्यकाण्डः ६३/१९)
<DOC_END>
<DOC_START>
१. अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् ।
:तस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः ॥ (किष्किन्धाकाण्डः ४३/७)
२. नरः प्रत्युपकाराणामापत्स्वायाति पात्रताम् । (उत्तरकाण्डः ४०/२४)
<DOC_END>
<DOC_START>
१. कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।
:न ज्ञायते च कः कन्यां वरयेदिति कन्यके ॥ (उत्तरकाण्डः ९/९)
२. दातृप्रतिग्रहीतृभ्यां सर्वार्थाः सम्भवन्ति हि ।
:स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ॥ (वालकाण्डः ७३/१२)
३. प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा । (वालकाण्डः ६९/१४)
४. प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः ।
:वक्तव्यं कुलजातेन तन्निबोधमहामते ॥ (वालकाण्डः ७१/२)
५. यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः । (उत्तरकाण्डः २५/२८)
<DOC_END>
<DOC_START>
१. अविज्ञाय फलं यो हि कर्मत्वेवानुधावति ।
:स शोचेत् फलवेलायां यथा किंशुकसेचकः ॥ (अयोध्याकाण्डः ६३/९)
२. ऐहलओकिकपारक्यं कर्म पुंभिर्निषेव्यते ।
:कर्माण्यपि तु कल्यानि लभते काम्मास्थितः ॥ (युद्धकाण्डः ६४/९)
३. ऋद्धिं रूपं बलं पुत्रान् वित्तं शूरत्वमेव च ।
:प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ॥ (उत्तरकाण्डः २५/२६)
४. कर्तव्यमकृतं कार्यं सतां मनुमुदीरयेत् । (सुन्दरकाण्डः १/९७)
५. कर्म चैव हि सर्वेषां कारणानां प्रयोजनम् ।
:श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ॥ (युद्धकाण्डः ६४/७)
६. कशिचदाम्रवणं छित्त्वा पलाशाशंच निषिञ्चति ।
:पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥ (अयोध्याकाण्डः ६३/८)
७. धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति । (सुन्दरकाण्डः १/२०१)
८. न तु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् ।
:कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये ॥ (अरण्यकाण्डः ४९/२७)
९. पापस्य हि फलं दुःखं तद् भोक्तव्यमिहात्मना । (उत्तरकाण्डः १५/२४)
१०. प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति ।
:लब्धव्यान्येव लभते दुःखानि च सुखानि च ॥ (उत्तरकाण्डः ५४/१६)
११. यदाचरति कल्याणि शुभं वा यदि वाशुभम् ।
:तदेव लभते भद्रे कर्ता कर्मजात्मनः ॥ (अयोध्याकाण्डः ६३/६)
१२. यादृशं कुरुते कर्म तादृशं फलमश्नुते ।
१३. लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः । (उत्तरकाण्डः ८३/२०)
२४. शुभकृच्छुभमाप्नोति पापकृत् पापमश्नुते । (युद्धकाण्डः १११/२६)
<DOC_END>
<DOC_START>
१. अकामां कामयानस्य शरीरमुपतप्यते ।
:इच्छतीं कामयानस्य प्रीतिर्भवति शोभना ॥ (सुन्दरकाण्डः २२/४२)
२. अर्थधर्मौ परित्यज्य यः काममनुवर्तते ।
:एवमापद्यते क्षिप्रं राजा दशरथो यथा ॥ (अयोध्याकाण्डः ४२/१३)
३. कामस्वभावो यः सोऽसौ न शक्यस्तं प्रमार्जितुम् । (अरण्यकाण्डः ५०/१२)
४. वामः कामो मनुष्याणां यस्मिन् किल निवध्यते ।
:जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ॥ (सुन्दरकाण्डः २२/४)
<DOC_END>
<DOC_START>
:आयुस्तु हीयते यस्य स्थितस्यास्य गतस्य च ॥ (अयोध्याकाण्डः १०५/२१)
२. आत्मा सुखे नियोक्तव्यः सुख्भाजः प्रजाः स्मृताः । (अयोध्याकाण्डः १०५/३१)
३. अत्येति रजनी या तु सा न प्रतिनिवर्तते । (अयोध्याकाण्डः १०५/१९)
४. अहोरात्राणिम् गच्छन्ति सर्वेषां प्राणिनामिह ।
:आयूषिं क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥ (अयोध्याकाण्डः १०५/२०)
५. एको हि कुरुते पापं कालपाशवशं गतः ।
:नीचेनात्मापचारेण कुलं तेन विनश्यति ॥ (युद्धकाण्डः ३८/७)
:रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥ (सुन्दरकाण्डः ३६/३)
७. कालो हि दुरतिक्रमः । अरण्यकाण्डः ६८/२१)
८. गतोदके सेतुवन्धो न कल्याणि विधीयते । (अयोध्याकाण्डः ९/५४)
९. गतं तु नानुशोचन्ति गतं तु गतमेव हि । (युद्धकाण्डः ६३/२५)
१०. गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः ।
:जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥ (अयोध्याकाण्डः १०५/२३)
११. धर्मो वै ग्रसतेऽधर्मं यदा कृतमभूद् युगम् ।
:अधर्मो ग्रसते धर्मं यदा हिष्यः प्रवर्तते ॥ (युद्धकाण्डः ३५/१४)
१२. नात्मनः कामकारो हि पुरुषोऽयमनीश्वरः ।
:इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥ (अयोध्याकाण्डः १०५/१५)
१३. न कालस्यातिभारोऽस्ति कृतान्तशच सुदुर्जयः । (युद्धकाण्डः ४८/१९)
१४. न नूनं दैवतं किंचित् कालेन् बलवत्तरम् । (अयोध्याकाण्डः ८८/११)
१५. नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमितेऽहनि ।
:आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ (अयोध्याकाण्डः १०५/२४)
१६. पचत्येनं तथा कालो भूतानां प्रभवोह्ययम् । (युद्धकाण्डः ३२/१३)
१७. यथाऽऽगारं दृढस्त्यूणं जीर्णं भूत्वोपसीदति ।
:तथावसीदन्ति नरा जरामृत्युवशंगताः ॥ (अयोध्याकाण्डः १०५/१८)
१८. यथा फलानां पक्वानां नान्यत्र पतनाद् भयम् ।
:यवं नरस्य जातस्य नान्यत्र मरणाद् भयम् ॥ अयोध्याकाण्डः १०५/१७)
१९. शूराश्च बलवन्तश् कृतास्त्राश्च रणाजिरे ।
:कालाभिपन्ना सीदन्ति यथा बालुकसेतवः ॥ (अरण्यकाण्डः १९/५०)
२०. सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छूयाः ।
:संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ (अयोध्याकाण्डः १०५/१६)
<DOC_END>
<DOC_START>
:घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥ (युद्धकाण्डः १६/७)
२. प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः । (युद्धकाण्डः १६/५)
३. प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस ।
:ज्ञातयोऽप्यवमन्यन्ते शूरं परिभवन्ति च ॥ (युद्धकाण्डः १६/४)
४. यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।
:समेत्य तु व्यपेयातां कालमासाद्य कंचन ॥
:एवं भार्याश्च पुत्राश्च ज्ञातयश्च वसूनि च ।
:समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥ (अयोध्याकाण्डः १०५/२६-२७)
५. हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा । (युद्धकाण्डः १६/३)
<DOC_END>
<DOC_START>
१. अकुर्वन्तो पापानि शुचयः पापसंश्रयात् ।
:परपापैर्विनश्यन्ति मत्स्या नागहुदे यथा ॥ (अरण्यकाण्डः ३८/२६)
<DOC_END>
<DOC_START>
१. क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्यात् गुरूनपि ।
:क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत् ॥ (सुन्दरकाण्डः ५५/४)
२. क्रोधः प्राणहरः शत्रुः क्रोधो मित्र मुखो रिपुः ।
:क्रोधो ह्योसिर्महातीक्ष्णः सर्वं क्रोधोऽपकर्षति ॥ (प्रक्षिप्तः उत्तरकाण्डः २/२१)
३. तपते यजते चैव यच्च दानं प्रयच्छति ।
:क्रोधेन सर्वं हरति तस्मात् क्रोधं विसर्जयेत् ॥ (प्रक्षिप्तः उत्तरकाण्डः २/२२)
५. नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् । (सुन्दरकाण्डः ५५/५)
६. यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ।
:यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ (सुन्दरकाण्डः ५५/६)
<DOC_END>
<DOC_START>
१. अग्निसंयोगवद्धेतुः शस्त्रसंयोगौच्यते । (अरण्यकाण्डः ९/२३)
२. अपराधं विना हन्तुं लोको वीर न मंस्यते । (अरण्यकाण्डः ९/२५)
३. कदर्यकलुषा बुद्धिर्जायते शस्त्रसेवनात् । (अरण्यकाण्डः ९/२८)
४. क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम् ।
:धनुषा कार्यमेतावदार्तानामभिरक्षणम् ॥ (अरण्यकाण्डः ९/२६)
५. क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति । (अरण्यकाण्डः १०/३)
<DOC_END>
<DOC_START>
१. अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा । (बालकाण्डः ३३/७)
२. क्षमा दानं क्षमा सत्यं क्षमा यज्ञाश्च पुत्रिकाः ।
:क्षमा यशः क्षमा धर्मः क्षमायां तिष्ठितं जगत् ॥ (बालकाण्डः ३३/८)
३. न सर्वत्र क्षमा वीरपुरुषेषु प्रदृश्यते । (उत्तरकाण्डः ५८/५)
४. लोकहिंसाविहाराणां क्रूराणां पापकर्मणाम् ।
:कुर्वतामपि पापानि नैव कार्यमशोभनम् ॥ (युद्धकाण्डः ११३/४६)
<DOC_END>
<DOC_START>
१. गोब्राह्मणहितार्थाय देशस्य च हिताय च ।
:तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः ॥ (बालकाण्डः २६/५)
२. पिता ह्येनं जनयति पुरुषं पुरुषर्षभ ।
:प्रज्ञां ददाति चाचार्यस्तस्मात् स गुरुरुच्यते ॥ (अयोध्याकाण्डः १११/३)
३. पुरुषस्येह जातस्य भवन्ति गुरवः सदा ।
:आचार्यश्चैव काकुत्स्थ पितामाता च राघवः ॥ (अयोध्याकाण्डः १११/२)
४. स्वर्गो धनं वा धान्यं वा विद्या पुत्राः सुखानि च ।
:गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्लभम् ॥ (अयोध्याकाण्डः ३०/३६)
<DOC_END>
<DOC_START>
१. कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।
:चारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम् ॥ (अयोध्याकाण्डः १०९/४)
२. निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः ।
:मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥ (अयोध्याकाण्डः १०९/३)
<DOC_END>
<DOC_START>
१. चित्रकूटस्य कूटोऽयं दृश्यते सर्वतः शुभः । (अयोध्याकाण्डः ९४/२३)
२. यावता चित्रकूटस्य नरः श्रृङ्गण्यवेक्षते ।
:कल्याणानि समाधत्ते न पापे कुरुते मनः ॥ (अयोध्याकाण्डः ५४/३०)
<DOC_END>
<DOC_START>
१. कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ।
:एको हि जायते जन्तुरेक एव विनश्यति ॥ (अयोध्याकाण्डः १०८/३)
२. गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।
:प्रवृत्तिरेषा भूतानां त्वं तु मिथ्या विहन्यसे ॥ (अयोध्याकाण्डः १०८/१२)
३. बीजमात्रं पिता जन्तोः शुक्रं शोणितमेव च ।
:संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ (अयोध्याकाण्डः १०८/११)
<DOC_END>
<DOC_START>
१. गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च ।
:त्रीन् पथोभावयन्तीति तस्मात् त्रिपथगा स्मृता ॥ (बालकाण्डः ४४/६)
२. ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् प्रभुः ।
:तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ॥ (बालकाण्डः ४३/३८)
<DOC_END>
<DOC_START>
१. एति जीवन्तमानन्दो नरं वर्षशतादपि । सुन्दरकाण्डः ३४/६)
२. विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम् । (सुन्दरकाण्डः १३/४७)
३. सजीवं नित्यशस्तस्य यः परैरुपजीव्यते ।
:राम तेन तु दुर्जीवं यः परानुपजीवति ॥ (अयोध्याकाण्डः १०५/७)
<DOC_END>
<DOC_START>
१. तपो हि परमं श्रेयः सम्मोहमितरत् सुखम् । (उत्तरकाण्डः ८४/९)
२. पुरा कृतयुगे राजन् ब्राह्मणा वै तपस्विनः । (उत्तरकाण्डः ७३/९)
<DOC_END>
<DOC_START>
१. अपराधिषु यो दण्डः पात्यते मानवेषु वै ।
:स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥ (उत्तरकाण्डः ७९/९)
२. अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् ।
:पलायमानं मतं वा न हन्तुं त्वमिहार्हसि ॥ (युद्धकाण्डः ८०/३९)
३. अवध्यो ब्राह्मणो दण्डैरिति शास्त्रविदो विदुः । (उत्तरकाण्डः प्रक्षिप्तः २/३४)
:उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ॥ (अयोध्याकाण्डः २१/२३)
५. दण्ड एव वरो लोके पुरुषस्येति मे मतिः ।
:धिक् क्षमामकृतज्ञेषु सान्त्वं दानमथापि वा ॥ (युद्धकाण्डः २२/४९)
६. सम्यक् प्रणिहिते दण्डे प्रजा भवति रक्षिता । (उत्तरकाण्डः (प्रक्षिप्तः २/३२)
<DOC_END>
<DOC_START>
१. अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ।
:अवज्ञया कृतं हन्याद् दातारं नात्र संशयः ॥ (बालकाण्डः १३/३३)
२. दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया। (बालकाण्डः १३/१४)
३. दानं कार्यं सुखोदयम् । (बालकाण्डः ६१/२४)
४. न दानमार्थोपचितेषु युज्यते । (सुन्दरकाण्डः ४१/३)
<DOC_END>
<DOC_START>
१. न विषादे मनः कार्यं विषादो दोषवत्तरः ।
:विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः ॥ (किष्किन्धाकाण्डः ६४/९)
२. पुरुषस्य हि लोकेऽस्मिञ्शोकः शौर्यापकर्षणः । (युद्धकाण्डः २/१३)
३. यो विषादं प्रसहते विक्रमे समुपस्थिते ।
:तेजसा तस्य हीनस्य पुरुषार्थो न सिद्धयति ॥ (किष्किन्धाकाण्डः ६४/१०)
४. विनष्टे वा प्रणष्टे वा शोकः सर्वार्थनाशनः । (युद्धकाण्डः २/१५)
<DOC_END>
<DOC_START>
१. अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।
:अवश्यं मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषकाः ॥ (युद्धकाण्डः ६३/१६)
२. अहिरेव ह्यहेः पादान् विजानाति न संशयः । (सुन्दरकाण्डः ४२/९)
३. छादयित्वाऽत्मभावं हि चरन्ति शठबुद्धयः ।
:प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान् भवेत् ॥ (युद्धकाण्डः ९७/४०)
४. धर्मात् प्रच्युतशीलं हि पुरुषं पापनिश्चयम् ।
:त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा ॥ (युद्धकाण्डः ८७/२१)
५. परस्वानां च हरणं परदाराभिमर्शनम् ।
:सुहृदामतिशङ्का च त्रयो दोषाः क्षयावहाः ॥ (युद्धकाण्डः ८७/२३)
६. परस्वहरेण युक्तं परदाराभिमर्शकम् ।
:त्याज्यमाहुर्दुरात्मानं वेश्म प्रज्वलितं यथा ॥ (युद्धकाण्डः ८७/२२)
७. प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ।
:असामर्थ्यफला ह्यन्ते निर्गुणेषु सतां गुणाः ॥ (युद्धकाण्डः २१/१४)
८. सन्ति दुःसंस्थिता कुब्जाः वक्राः परमपापिकाः । (अयोध्याकाण्डः ९/४०)
९. सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् । (युद्धकाण्डः २१/१५)
<DOC_END>
<DOC_START>
१. घातयन्तीह कार्याणि दूताः पण्डितमानिनः ।(सुन्दरकाण्डः २/४०)
२. दूता न वध्याः समयेषु राजन् ।
:सर्वेषु सर्वत्र वदन्ति सन्तः ॥ (सुन्दरकाण्डः ५२/१३)
३. न दूतो वधमर्हति । (सुन्दरकाण्डः ५२/२१)
४. भूताश्चार्या विनश्यन्ति देशकालविरोधिताः ।
:विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ (सुन्दरकाण्डः २/३९)
:एतान् हि दूते प्रवदन्ति दण्डान् ॥ (सुन्दरकाण्डः ५२/१५)
<DOC_END>
<DOC_START>
१. असङ्कल्पितमेवेह यदकस्मात् प्रवर्तते ।
:निवर्त्यारब्धमारम्भैर्ननु दैवस्य कर्म तत् ।। (अयोध्याकाण्डः २२/२४)
:उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥ (अयोध्याकाण्डः २२/२३)
३. कश्च दैवेन सौमित्रे योद्धमुत्सहते पुमान् ।
:यस्य नु ग्रहणं किंचित् कर्मणोऽन्यन्न द्रुश्यते ॥ (अयोध्याकाण्डः २२/२१)
४. दैवमेव परं मन्ये पौरुषं तु निरर्थकम् । (बालकाण्डः ५८/२२)
५. दैवेनाक्रम्यते सर्वंहि परमा गतिः । (बालकाण्डः ५८/२३)
६. दैवं चेष्टयते सर्वं हतं दैवेन हन्यते । (युद्धकाण्डः ११०/२३)
७. दैवं हि दुरतिक्रमम् । (उत्तरकाण्डः ५०/४)
८. न मन्ये ब्रह्मचर्ये वा स्वधीते वा फलोदयः ।
:मार्दवार्जवयोर्वापि त्वां चेद् व्यसनमागतम् ॥ (अयोध्याकाण्डः ५२/१७)
९. नूनं तु बलवाँल्लोके कृतान्तः सर्वमादिशन् ।
:लोके रामाभिरामस्तवं वनं यत्र गमिष्यसि ॥ (अयोध्याकाण्डः २४/५)
१०. यदचिन्त्यं तु तद् दैवम् । (अयोध्याकाण्डः २२/२०)
११. यो हि देवान् सगन्धर्वानसुरान् सह राक्षसैः ।
:निहन्याद् राघवः क्रुद्धः स दैवं पर्युपासते ॥
१२. यौ धर्मौ जगतो नेत्रौ यत्र सर्वं प्रतिष्ठितम् ।
:आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ ॥ (अरण्यकाण्डः ६६/११)
१३. सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ ।
:यस्य किंचित् तथाभूतं ननु देवस्य कर्म तत् ॥ (अयोध्याकाण्डः २२/२२)
१४. सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ ।
:न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः ॥ (अरण्यकाण्डः ६६/१२)
<DOC_END>
<DOC_START>
१. अक्षयश्चाव्ययश्चैव धर्मसेतुर्मतो मम ।
:धर्मप्रवचनं चैव सर्वपापप्रणाशनम् ॥ (उत्तरकाण्डः ८३/४)
२. आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः ।
:प्राप्तये निपुणैर्धर्मो न सुखाल्लभते सुखम् ॥ (अरण्यकाण्डः ९/३१)
३. एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् । (अयोध्याकाण्डः ४०/६)
४. कर्तव्यः शास्त्रदृष्टो हि विधिधर्ममनुस्मर । (अयोध्याकाण्डः ५६/२३)
५. कृते च प्रतिकर्तव्यमेष धर्मः सनातनः । (सुन्दरकाण्डः १/११३)
६. गुरुश्च राजा च पिता च वृद्धः
:कस्तं न कुर्यादनृशंसवृत्तिः ॥ (अयोध्याकाण्डः २१/५९)
७. दानं दया सतां पूजा व्यवहारेषु चार्जवम् ।
:एष राम परो धर्मो रक्षणात् प्रेत्य चेह च ॥ (उत्तरकाण्डः (प्रक्षिप्तः) २/१०)
८. धर्ममर्थं हि कामं वा सर्वान् वा रक्षसां पते ।
:भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ॥ (युद्धकाण्डः ६३/९)
९. धर्मार्थकामाः खलु जीवलोके समीक्षिता धर्मफलोदयेषु । (अयोध्याकाण्डः २१/५७)
१०. धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम् ।
:धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥ (अरण्यकाण्डः ९/३०)
११. धर्माद् राज्यं धनं सौख्यमधर्माद् दुःखमेव च ।
:तस्माद् धर्मं सुखार्थाय कुर्यात् पापं विसर्जयेत् ॥ (उत्तरकाण्डः (प्रक्षिप्तः) २/११)
१२. धर्मो हि परमो लोके सत्यं प्रतिष्ठितम् । (अयोध्याकाण्डः २१/४१)
१३. धारणाद् धर्ममित्याहुर्धर्मेण विधृताः प्रजाः ।
:यस्माद् धारयते सर्वे त्रैलोक्यं सचराचरम् ॥ (उत्तरकाण्डः (प्रक्षिप्तः) २/७)
१४. नहि धर्मोभिरक्तानां लोके किंचन दुर्लभम् । (उत्तरकाण्डः (प्रक्षिप्तः) २/८)
१५. पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः । (अरण्यकाण्डः २१/४९)
:धर्मो यतः स्यात् तदुपक्रमेव ।
:द्वेष्यो भवत्यर्थ परो हि लोके
:कामात्मता खल्वपि न प्रशस्ता ॥ (अयोध्याकाण्डः २१/५८)
१७. वृद्धानां मृगशावाक्षि भ्राजते पुण्यसंचयः । (उत्तरकाण्डः १७/२१)
१८. संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा ।
:न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ॥ (अयोध्याकाण्डः २१/४२)
<DOC_END>
<DOC_START>
१. तस्मात् पुत्रेषु दारेषु मित्रेषु च धनेषु च ।
:नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ (उत्तरकाण्डः ५२/१२)
२. त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्याविशेषतः । (अयोध्याकाण्डः ६६/२३)
<DOC_END>
<DOC_START>
१. अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति । (अयोध्याकाण्डः ७८/२१)
२. आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तेनाम् । (अयोध्याकाण्डः ३७/२४)
३. एषा हि प्रकृतिः स्त्रीणामसृष्टे रघुनन्दन ।
:समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च ॥ (अरण्यकाण्डः १३/५)
४. देवलोकस्थितिरियं सुराणां शाश्वती मता ।
:पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ॥ (उत्तरकाण्डः २६/३९)
५. नहि तुल्यं बलं सौम्यस्त्रियाश्च पुरुषस्य हि । (उत्तरकाण्डः २६/५१)
६. नहि शक्यः स्त्रिया हन्तुं पुरुषः पापनिशचयः । (उत्तरकाण्डः १७/३२)
७. नारीणां सुदुःखा सपत्नता । (अरण्यकाण्डः १८/२)
८. परदाराभिमर्शात् तु नान्यत् पापतरं महत् । (अरण्यकाण्डः ३८/३०)
९. भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः । (अयोध्याकाण्डः २४/१२)
१०. भयानामपि सर्वेषां वैधव्य व्यसनं महत् । (उत्तरकाण्डः २५/४२)
<DOC_END>
<DOC_START>
१. असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः ।
:भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥ (अयोध्याकाण्डः ३९/२०)
२. आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा ।
:स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते ॥ (अयोध्याकाण्डः २०/४)
३. एष स्वभावो नारीणामनुभूय पुरा सुखम् ।
:अल्पामप्यपदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥ (अयोध्याकाण्डः ३९/२१)
:तृतीया ज्ञातयो राजंश्चतुर्थी नैव विद्यते ॥ (अयोध्याकाण्डः ६१/२४)
५. न कुलं न कृतं विद्या न दत्तं नापि संग्रहः ।
:स्त्रीणां गृह्णति हृदयमनित्यहृदया हि ताः ॥ (अयोध्याकाण्डः ३९/२३)
६. न गृहाणि न वस्त्राणि न प्राकारस्तिरस्क्रिया ।
:नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः ॥ (युद्धकाण्डः ११४/२७)
७. न पिता नात्मजूवात्मा न माता न सखीजनः ।
:इह प्रेत्य च नारीणां पतिरेको गतिः सदा ॥ (अयोध्याकाण्डः २०/६)
८. नातन्त्री वाद्यते वीणा नाचक्रो विद्यते रथः ।
:नापतिः सुखमेधेत या स्यादपि शतात्मजा ॥ (अयोध्याकाण्डः ३९/२९)
९. पतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले । (युद्धकाण्डः १११/६६)
१०. प्रासादाग्रे विमानैर्वा वैहायसगतेन वा ।
:सर्वावस्थागता भर्तुः पादच्छाया विशेष्यते ॥ (अयोध्याकाण्डः २७/९)
११. भर्ता तु खलु नारीणां गुणवान् निर्गुणोऽपि वा ।
:धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् ॥
१२. भर्तुर्भाग्यं तु नार्येका प्राप्नोति पुरुषर्षभ । (अयोध्याकाण्डः २७/५)
१३. भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम् । (अयोध्याकाण्डः ३९/२९)
१४. मितं ददाति हि पिता मितं भ्राता मितं सुतः ।
:अमितस्य तु दातारं भर्तारं का न पूजयेत् ॥ (अयोध्याकाण्डः ३९/३०)
१५. व्रतोपवासनिरता या नारी परमोत्तमा ।
:भर्तारं नानुवर्तेत सा च पापगतिर्भवेत् ॥ (अयोध्याकाण्डः २४/२५)
१६. व्यसनेषु न कृच्छेषु न युद्धेषु स्वयंवरे ।
:न कृतौ नो विवाहे वा दर्शनं दूष्यते स्त्रियाः ॥ (युद्धकाण्डः ११४/२८)
१७. शूश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता ।
:एष धर्मः स्त्रिया नित्यो वेदे लोके श्रुतः स्मृतः ॥ (अयोध्याकाण्डः २४/२७)
१८. साध्वीनां तु स्थितानां तु शीले सत्ये श्रुते स्थिते ।
:स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥ (अयोध्याकाण्डः ३९/२४)
<DOC_END>
<DOC_START>
१. अध्रुवे हि शरीरे यो न करोति तपोऽर्जनम् ।
:स पश्चात् तप्यते मूढो मृतो गत्वात्मनो गतिम् ॥ (उत्तरकाण्डः १५/२२)
२. एकस्य मरणं मेऽस्तु मा भूत् सर्वविनाशनम् । (उत्तरकाण्डः १०५/९)
३. देशकालविहीनानि कार्याणि विपरीतवत् ।
:क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ (युद्धकाण्डः ६३/६)
४. न भेदसाध्याः बलदर्पिता जनाः । सुन्दरकाण्डः ४१/१३)
५. न ह्यनिष्टोऽनुशास्यते । अरण्यकाण्डः ९०/२०)
६. नहि सामोपन्नानां प्रहर्ता विद्यते भुवि । (किष्किन्धाकाण्डः ५९/१६)
७. नावज्ञा हि परे कार्या य इच्छेच्छ्रेय आत्मनः । उत्तरकाण्डः ३३/२२)
८. परेषां सहसावज्ञा न कर्तव्या कथञ्चन । युद्धकाण्डः ९/१२)
९. प्रवृद्धः काञ्चनो वृक्षो न फलकाले निकृत्यते । (युद्धकाण्डः ६१/२६)
१०. भयं भीताद्धि जायते । (अयोध्याकाण्डः ८/५)
११. मृदुर्हि परिभूयते । (अयोध्याकाण्डः २१/११)
१२. वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः । (उत्तरकाण्डः ५८/२०)
१३. शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् ।
:सत्येन परिगृह्णाति सवीरः पुरुषोत्तमः ॥ (किष्किन्धाकाण्डः ३०/६२)
१४. समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः । सुन्दरकाण्डः ३/४४)
१५. स्वयमेवागतः शत्रुर्न मोक्तव्यः कृतात्मना । उत्तरकाण्डः ६८/१९)
<DOC_END>
<DOC_START>
१. दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः ।
:स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥ (अयोध्याकाण्डः ११७/२४)
२. नगरस्थो वनस्थो वा शुभो वा यदि वाशुभः।
:यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ (अयोध्याकाण्डः ११७/२३)
३. पतिशुश्रूषणानार्यास्तपो नान्यद् विधीयते । (अयोध्याकाण्डः ११८/९)
४. पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ।
:प्राणैरपि प्रियं तस्माद् भर्तुः कार्यं विशेषतः ॥ (उत्तरकाण्डः ४८/१७)
५. भर्ता नाम परं नार्याः शोभनं भूषणादपि । (सुन्दरकाण्डः १६/२६)
६. भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते । (अयोध्याकाण्डः ३५/८)
<DOC_END>
<DOC_START>
१. अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते ।
:तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः ॥ (युद्धकाण्डः ९/८)
२. प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च ।
:विक्रमास्तात सिद्ध्यन्ति परीक्ष्य विधिना कृताः ॥ (युद्धकाण्डः ९/९)
३. विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः ।
:कथयन्ति न ते किञ्चित् तेजसा चातिगर्विताः ॥ (अरण्यकाण्डः २९/१७)
४. सर्वो हि तपसा देव वृणोत्यमरतां पुमान् । (उत्तरकाण्डः ३०/१५)
<DOC_END>
<DOC_START>
१. अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च ।
:निर्दहेदपि शक्रस्य द्युतिं धर्मविरोधवान् ॥ (अयोध्याकाण्डः ३६/२९)
२. आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते । (किष्किन्धाकाण्डः ३४/९)
३. कायेन कुरुते पापं मनसा सम्प्रधार्य तत् ।
:अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ (अयोध्याकाण्डः १०१/२१)
४. कृतघ्ने नास्ति निष्कृतिः । (किष्किन्धाकाण्डः ३४/१२)
५. न कश्चिन्नापराध्यति । (किष्किन्धाकाण्डः ३६/११)
६. न मिथ्या ऋषिभाषितम् । (युद्धकाण्डः ६०/१२)
७. निष्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः ।
:क्रतुमध्योपनीतानां पशूनामिव राघव ॥ (अरण्यकाण्डः ७०/६)
<DOC_END>
<DOC_START>
१. अवश्यं लभते कर्ता पुलं पापस्य कर्मणः ।
:घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम् ॥ (अरण्यकाण्डः २९/८)
२. उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।
:त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ॥ (अरण्यकाण्डः २९/३)
३. कर्मलोकविरुद्धं तु कुर्वाणं क्षणदाचर ।
:तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ॥ (अरण्यकाण्डः २९/१४)
४. न चिरात् प्राप्यते लोके पापानां कर्मणां फलम् ।
:सविषणामिवानानां भुक्तानां क्षणदाचर ॥ (अरण्यकाण्डः २९/९)
५. न चिरं पापकर्मणः क्रूरा लोकजुगुत्सिताः ।
:ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ॥ (अरण्यकाण्डः २९/७)
<DOC_END>
<DOC_START>
१. न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम् ।
:यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥ (अयोध्याकाण्डः १९/२२)
२. पिता हि दैवतं तात देवतानामपि स्मृतम् ।
:तस्माद् दैवतमित्येव करिष्यामि पितुर्वचः ॥ (अयोध्याकाण्डः ३४/५२)
३. पितुर्हि वचनं कुर्वन् न कश्चिन्नाम हीयते । (अयोध्याकाण्डः २१/३७)
<DOC_END>
<DOC_START>
१. अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चाभिजायते ।
:तस्मात् प्रियतरो मातुः प्रिया एव तु बान्धवाः ॥ (अयोध्याकाण्डः ७४/१४)
२. एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः ।
:तेषां वै समवेतानामपि कश्चिद् गयां ब्रजेत् ॥ (अयोध्याकाण्डः १०७/१३)
३. न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति । (अरण्यकाण्डः २९/७)
४. न सुतान् मन्यते परम् । (अयोध्याकाण्डः ७४/२५)
५. नास्ति पुत्रसमः प्रियः । (अयोध्याकाण्डः ७४/२४)
६. पितुर्हि समतिक्रान्तं पुत्रो यः साधुः मन्यते ।
:तदपत्यं मतं लोके विपरीतमतोऽन्यथा ॥ (अयोध्याकाण्डः १०६/१५)
७. पुन्नाम्नो नरकाद् यस्माद् पितरं त्रायते सुतः ।
:तस्मात् पुत्र इति प्रोक्तः पितृन् यः पाति सर्वतः ॥ (अयोध्याकाण्डः १०७/१२)
८. प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः ।
:मातृणां च कनीयांसस्तस्माद् रक्षये कनीयासम् ॥ (बालकाण्डः ६१/१९)
९. विनात्मजेनात्मवतां कुतो रतिः । (अयोध्याकाण्डः १२/१११)
<DOC_END>
<DOC_START>
१. दैवं पुरुषकारेण यः समर्थः प्रबाधितम् ।
:न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति ॥ (अयोध्याकाण्डः २३/१७)
२. न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति ।
:एवमेव नरव्याघ्रः परलीढं न मंस्यते ॥ (अयोध्याकाण्डः १०७/१२)
३. विक्लवो वीर्यहीनो यः स दैवमनुवर्तते ।
:वीराः सम्भावितात्मानो न अदैवं पर्युपासते ॥ (अयोध्याकाण्डः २३/१६)
४. सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति ।
:कस्तस्य पौरुषेणार्थो महताप्यल्पचेतसः ॥ (युद्धकाण्डः ११५/१६)
<DOC_END>
<DOC_START>
१. दैवं पुरुषकारेण यः समर्थः प्रबाधितम् ।
:न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति ॥ (अयोध्याकाण्डः २३/१७)
२. न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति ।
:एवमेव नरव्याघ्रः परलीढं न मंस्यते ॥ (अयोध्याकाण्डः १०७/१२)
३. विक्लवो वीर्यहीनो यः स दैवमनुवर्तते ।
:वीराः सम्भावितात्मानो न अदैवं पर्युपासते ॥ (अयोध्याकाण्डः २३/१६)
४. सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति ।
:कस्तस्य पौरुषेणार्थो महताप्यल्पचेतसः ॥ (युद्धकाण्डः ११५/१६)
<DOC_END>
<DOC_START>
१. अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा । (बालकाण्डः ७७/२८)
२. गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते । (बालकाण्डः ७७/२७)
३. दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यदृश्यतः । (सुन्दरकाण्डः २६/४१)
४. प्रियान्न सम्भवेद् दुःखमप्रियादधिकं भवेत् ।
:ताभ्यं हि ते वियुज्यन्ते नमस्तेषां महात्मनाम् ॥ सुन्दरकाण्डः १६/४८)
<DOC_END>
<DOC_START>
१. गुरुलाघवमर्थानामारम्भे कर्मणां फलम् ।
:दोषं वा यो न जानाति स बाल इति होच्यते ॥ (अयोध्याकाण्डः ६३/७)
<DOC_END>
<DOC_START>
१. किं नु चित्तं मनुष्याणामनित्यमिति मे मतिः । (अयोध्याकाण्डः ४/२७)
२. चला हि प्राणिनां मतिः । (अयोध्याकाण्डः ४/२०)
<DOC_END>
<DOC_START>
१. ब्रह्मन् ब्रह्मबलं दिव्यं क्षात्राच्च बलवत्तरम् । (बालकाण्डः ५४/१४)
२. धिग् बलं क्षात्रियबलं ब्रह्मतेजोबलमं बलम् ।
:एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥ (बालकाण्डः ५६/२३)
<DOC_END>
<DOC_START>
१. नियुक्तो नृपतेः कार्यं न कुर्याद् यः समाहितः ।
:भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ॥ (युद्धकाण्डः १/९)
२. ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च ।
:यथा सर्वं सुविहितं न किञ्चित् परिहीयते ॥ (बालकाण्डः १३/१६)
३. यो नियुक्तः परं कार्यं न कुर्यान्नृपतेः प्रियम् ।
:भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम् ॥ (युद्धकाण्डः १/८)
४. यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ।
:कुर्यात् तदनुरागेण तमाहुः पुरुषोत्तमम् ॥ (युद्धकाण्डः १/७)
<DOC_END>
<DOC_START>
१. अयं स समरश्लाघी भ्राता मे शुभलक्षणा ।
:यदि पञ्चात्वमापन्नः प्राणैर्मे किं सुखेन वा ॥ (युद्धकाण्डः १०१/५)
२. उत्तरं न हि वक्तव्यं ज्येष्ठेनाभिहिते पुनः ।
:अधर्मसहितं चैव परलोकविवर्जितम् ॥ (उत्तरकाण्डः ६३/६)
३. देशे-देशे कलत्राणि देशे-देशे च बान्धवाः ।
:तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥ (युद्धकाण्डः १०१/१५)
४. पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः । (अयोध्याकाण्डः ६२/३३)
<DOC_END>
<DOC_START>
१. अन्योन्यमनिमास्थाय यत्र सम्प्रति भाष्यते ।
:न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते। (युद्धकाण्डः ६/१४)
२. ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा ।
:मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमम् ॥ (युद्धकाण्डः ६/१२)
३. एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते नमः ।
:एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ॥ (युद्धकाण्डः ६/९)
४. गुणदोषौ न निश्चित्य त्यक्त्वा दैवव्यपाश्रयम् ।
:करिष्यामीति यः कार्यमुपेक्षेत् स नराधमः ॥ (युद्धकाण्डः ६/१०)
५. बह्नीरपि मतीर्गत्वा मन्त्रिणामर्थनिर्णयः ।
:पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः ॥ (युद्धकाण्डः ६/१३)
६. मन्त्रमूलं च विजयं प्रवदन्ति मनस्विनः । (युद्धकाण्डः ६/५)
७. यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः ।
:एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः ॥ (युद्धकाण्डः ६/११)
<DOC_END>
<DOC_START>
१. काले धर्मार्थकामान् यः सम्मन्त्र्य सचिवैः सह ।
:निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात् ॥ (युद्धकाण्डः ६३/१२)
२. यथागमं च यो राजा समयं च चिकीर्षति ।
:बुध्यते सचिवैर्बुद्ध्या सुहृदश्चानुपश्यति ॥ (युद्धकाण्डः ६३/८)
<DOC_END>
<DOC_START>
१. धर्ममर्थं च कामं च यशश्च जयतां वर ।
:स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ॥ (अरण्यकाण्डः ४१/८)
२. न तावत् सदृशं नाम सचिवैरुपजीविभिः ।
:विप्रियं नृपतेर्वक्तुं निग्रहे प्रग्रहे प्रभोः ॥ (युद्धकाण्डः २९/७)
३. राजमूलो हि धर्मश्च यशश्च जयतां वर ।
:तस्मात् सर्वास्ववस्थासु रक्षितव्या नराधिपः ॥ (अरण्यकाण्डः ४१/१०)
४. वाक्यमप्रतिकूलं तु मृदुपूर्णं शुभं हितम् ।
:उपचारेण वक्तव्यो युक्तं च वसुधाधिपः ॥ (अरण्यकाण्डः ४०/१०)
५. सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता ।
:उद्यताञ्जलिना राज्ञो य इच्छेद् भूतिमात्मनः ॥ (अरण्यकाण्डः ४०/९)
६. सावमर्दं तु यद्वाक्यमथवा हितमुच्यते ।
:नाभिनन्देत तद् राजा मानार्थी मानवर्जितम् ॥ (अरण्यकाण्डः ४०/११)
<DOC_END>
<DOC_START>
१. अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते ।
:स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम् ॥ (अयोध्याकाण्डः ३०/३३)
२. पिता हि प्रभुरस्माकं दैवतं परमं च सः ।
:यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ (बालकाण्डः ३२/२२)
३. मातरं पितरं विप्रमाचार्यं चावमन्यते ।
:स पश्यति फलं तस्य प्रेतराजवशं गतः ॥ (उत्तरकाण्डः १५/२१)
४. यतो मूलं नरः पश्येत् प्रादुर्भावमिहात्मनः ।
:कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ॥ (अयोध्याकाण्डः १८/१६)
५. यन्मातापितरौ वृत्तं तनये कुरुतः सदा ।
:न सुप्रतिकरं तत् तु मात्रा पित्रा च यत्कृतम् ॥
:नित्यं च प्रियवादेन तथा संवर्धनेन च ॥ (अयोध्याकाण्डः १११/९-१०)
६. यावत् पितरि धर्मज्ञ गौरवं लोकसत्कृते ।
:तावद् धर्मकृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ (अयोध्याकाण्डः १०१/२१)
७. सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।
:प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ (अयोध्याकाण्डः ११८/३५)
<DOC_END>
<DOC_START>
१. क्षीयमाणं दैवहतं क्षुत्पिपासाजरादिभिः ।
:विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ॥ (उत्तरकाण्डः २०/११)
२. नहि कश्चिन्मया दृष्टो बलवानपि जीवति । (उत्तरकाण्डः २२/३०)
३. नित्यं श्रेयसि सम्मूढं महद्द्भिर्व्यसनैर्वृतम् ।
:हन्यात् कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥ (उत्तरकाण्डः २०/९)
:मोहितोऽयं जनो ध्वस्तः क्लेशः स्वं नावबुध्यते ॥ (उत्तरकाण्डः २०/१४)
५. हत एव ह्ययं लोको यदा मृत्युवशं गतः । (उत्तरकाण्डः २०/७)
<DOC_END>
<DOC_START>
१. कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये ।
:तान् मृदानपि क्रव्यादाः कृतघ्नात् नोपभुञ्जते ॥ (किष्किन्धाकाण्डः ३०/७३)
२. धर्मलोपो महांस्तावत् कृते ह्यप्रतिकुर्वतः ।
:अर्थलोपश्च मित्रस्य नाशे गुणवतो महान् ॥ (किष्किन्धाकाण्डः ३३/४७)
३. पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः ।
:कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर ॥ (किष्किन्धाकाण्डः ३४/१०)
४. मित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चन । (युद्धकाण्डः २८/३)
५. मैत्रेणेक्षस्व चक्षुषा । (बालकाण्डः ५२/१७)
६. रजतं वा आ सुवर्णं वा शुभान्याभरणानि च ।
:अविभक्तानि साधूनामवगच्छन्ति साधवः ॥ (किष्किन्धाकाण्डः ८/७)
७. वसेत् सह सपत्नेन क्रुद्धेनाशीविषेण च ।
:न तु मित्रप्रवादेन संवसेच्छत्रुसेविना ॥ (युद्धकाण्डः १६/२)
८. स सुहृद् यो विपन्नार्थं दीनमभ्युपपद्यते ।
:स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते ॥ (युद्धकाण्डः ६३/२७)
९. सुहृदामर्थकृच्छेषु युक्तं बुद्धिमता सदा ।
:समर्थेनोपसंदेष्टुं शाश्वती भूतिमिच्छ्ता ॥ (युद्धकाण्डः १७/३३)
१०. सौहृदाज्जायते मित्रमपकारोऽरिलक्षणम् । (युद्धकाण्डः१५७/७७)
<DOC_END>
<DOC_START>
१. उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण ।
:निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः ॥ (अरण्यकाण्डः २४/९)
२. ध्रुवं ह्यकाले मरणं न विद्यते । (अयोध्याकाण्डः २०/५१)
३. नास्ति सर्वामरत्वं हि कस्यचित् प्राणिनो भुवि । (उत्तरकाण्डः ३०/९)
४. परान्तकाले हि गतायुषो नरा ।
:हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ (युद्धकाण्डः१६/२६)
५. भगवन् प्राणिनां नित्यं नान्यत्र मरणाद् भयम् । (उत्तरकाण्डः ३०/१६)
६. लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः ।
:अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ॥ (सुन्दरकाण्डः २५/१२)
७. सत्यं बतेदं प्रवदन्ति लोके,
:नाकालमृत्युर्भवतीति सन्तः । (सुन्दरकाण्डः २८/३)
८. सर्वदा सर्वभूतानां नास्ति मृत्युरलक्षणः । युद्धकाण्डः१११/२९)
९. सहैव म्रुत्युर्व्रजति सह मृत्युर्निषीदति ।
:गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते ॥ (अयोध्याकाण्डः १०५/२२)
<DOC_END>
<DOC_START>
१. अनवस्थौ हि दृश्येते युद्धे जयपराजयौ । (सुन्दरकाण्डः ३७/५५)
२. असत्यानि च युद्धानि संशयो मे न रोचते ।
:कश्च निःसंशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् ॥ (सुन्दरकाण्डः ३०/३५)
३. आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला । (सुन्दरकाण्डः ४६/१७)
४. उपयानापयाने च स्थानं प्रत्यपसर्पणम् ।
:सर्वमेतद् रथस्थेन ज्ञेयं रथकुटुम्बिना ॥ (युद्धकाण्डः१०४/२०)
५. गगनं गगनाकारं सागरः सागरोपमः ।
६. देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च ।
:दैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम् ॥ (युद्धकाण्डः१०४/१८)
७. नानाशास्त्रेषु संग्रामे वैशारद्यमरिन्दम् ।
:अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ॥ (सुन्दरकाण्डः ४८/१४)
८. रक्ष्यो जामाता रमरेष्वपि । (उत्तरकाण्डः २४/३०)
९. संशयश्च जये नित्यम् । (उत्तरकाण्डः १८/१७)
१०. स्थलनिम्नानि भूमेश्च समानि विषमाणि च ।
:युद्धकालश्च विजेयः परस्यान्तरदर्शनम् ॥ (युद्धकाण्डः१४७/१९)
११. हीनार्थस्तु समृद्धार्थं रिपुं प्राकृतं यथा ।
:निश्चितं जीवितत्यागे वशमानेतुमिच्छति ॥ (युद्धकाण्डः६४/१७)
<DOC_END>
<DOC_START>
१. चलं हि यौवनं नित्यं मानुषेषु विशेषतः । बालकाण्डः ३२/१७)
<DOC_END>
<DOC_START>
१. पराङ्मुखवधं पापं यः करोति सुरेश्वर ।
:स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ॥ (उत्तरकाण्डः ८/४)
२. यद् वा पुरेष्वयुक्तानि जना जनपदेषु च ।
:कुर्वते न च रक्षास्ति तदा कालकृतं भयम् ॥ (उत्तरकाण्डः ७३/१६)
३. राज्दोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ।
:असद्वृत्ते हि नृपतावकाले म्रियते जनः ॥ (उत्तरकाण्डः ७३/१६)
<DOC_END>
<DOC_START>
१. अकृतात्मानमासाद्य राजानमनये रतम् ।
:समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥ (सुन्दरकाण्डः २१/११)
२. अधर्मः सुमहान् नाथ भवेत् तस्य तु भूपतेः ।
:यो हरेद् बलिषड्भागं न च रक्षति पुत्रवत् ॥ (अरण्यकाण्डः ६/११)
३. अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ।
:षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ॥ (उत्तरकाण्डः ७४/३१)
४. अमात्यप्रभृतीः सर्वाः प्रजाश्चैवानुरञ्जय ।
:कोष्ठागारायुधागारैः कृत्वा संनिचयान् बहून् ॥ (अयोध्याकाण्डः ३/४४)
५. औरस्यानपि पुत्रान् हि त्यजन्त्यहितकारिणः ।
:समर्थान् सम्प्रगृह्णन्ति जनानपि नराधिपाः ॥(अयोध्याकाण्डः २६/३६)
६. इष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ।
:तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः ॥ (अयोध्याकाण्डः ३/४५)
७. कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते । उत्तरकाण्डः ५३/२५)
८. कामक्रोधसमुत्थानि त्यजस्व व्यसनानि च ।
:परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ॥ (अयोध्याकाण्डः ३/४३)
९. चपलस्येह कृत्यानि सहसानुप्रधावतः ।
:छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ (युद्धकाण्डः६३/१९)
१०. तान् भर्ता मित्रसंकाशानमित्रान् मन्त्रनिर्णये ।
:व्यवहारेण जानीयात् सचिवानुपसंहितान् ॥ (युद्धकाण्डः६३/१८)
११. नीत्या सुनीतया राजा धर्मं रक्षति रक्षिता ।
:यदा न पालयेद् राजा क्षिप्रं नश्यन्ति वै प्रजाः ॥ (उत्तरकाण्डः (प्रक्षिप्तः २/४)
१२. प्रजा च परिपाल्या हि क्षात्रधर्मेण राघव । (उत्तरकाण्डः ६२/१४)
१३. पौरकार्याणि यो राजा न करोति दिने-दिने ।
:संवृते नरके घोरे पतितो नात्र संशयः ॥ (उत्तरकाण्डः ५३/६)
१४. पौरा ह्यात्मकृताद् दुःखाद् विप्रमोच्या नृपात्मजैः ।
:न तु खल्वात्मना योज्या दुःखेन पुरवासिनः ॥ (अयोध्याकाण्डः ४६/२३)
१५. बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् । उत्तरकाण्डः ४०/११)
१६. यत् करोति परं धर्मं मुनिर्मूलफलाशनः ।
:तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः ॥ (अरण्यकाण्डः ६/१४)
१७. यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ।
:परमो ह्येष धर्मस्ते तस्मात् कीर्तिरनुत्तमा ॥ (उत्तरकाण्डः ४८/१५)
१८. यु्ञ्जानः स्वानिव प्राणान् प्राणैरिष्टान् सुतानिव ।
:नित्ययुक्तः सदा रक्षन् सर्वान् विषयवासिनः ॥
:प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम् ।
:ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते ॥ (अरण्यकाण्डः ६/१२-१३)
१९. यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु ।
:करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः ।
:क्षिप्रं च नरकं याति स च राजा न संशयः ॥ (उत्तरकाण्डः ७४/३०)
२०. यो हि शत्रुमवज्ञाय आत्मानं नाभिरक्षति ।
:अवाप्नोति हि साऽनर्थान् स्थानाञ्च व्यवरोप्यते ॥ (युद्धकाण्डः६३/२०)
२१. राजा कर्ता च गोप्ता च सर्वस्य जगतः पिता ।
:राजा कालो युगं चैव राजा सर्वमिदं जगत् ॥ (उत्तरकाण्डः (प्रक्षिप्तः २/६)
२२. राजैव कर्त्ता भूतानां राजा चैव विनायकः ।
:राजा सुप्तेषु जागर्ति राजा पालयति प्रजाः ॥ (उत्तरकाण्डः (प्रक्षिप्तः २/४)
<DOC_END>
<DOC_START>
:क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम् ॥ (अरण्यकाण्डः ३३/१६)
२. अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः ।
:प्रागल्भ्याद् वक्तुमिच्छन्ति मन्त्रिष्वभ्यन्तरीकृताः । (युद्धकाण्डः६३/१४)
३. अनुपायेन कर्माणि विपरीतानि यानि च ।
:क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ (युद्धकाण्डः१२/३१)
४. अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः ।
:कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥ (अरण्यकाण्डः ३३/२०)
५. अरयश्च मनुष्येण विज्ञेयाश्छद्मचारिणः ।
:विश्वस्तानामविश्वस्ताशिछद्रेषु प्रहरन्त्यपि ॥ (किष्किन्धाकाण्डः २/२२)
६. अशास्त्राविदुषां तेषां कार्यं नाभिहितं वचः ।
:अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥ (युद्धकाण्डः ६३/१५)
७. उपभुक्तं यथा वासः स्रजो वा मृदिता यथा ।
:एवं राज्यात् परिभ्रष्टः समर्थोऽपि निरर्थकः ॥ (अरण्यकाण्डः ३३/१९)
८. उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् ।
शूरमैश्वर्यकामं च यो हन्ति न स हन्यते ॥ (अयोध्याकाण्डः १००/२९)
९. एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।
:राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥ (अयोध्याकाण्डः १००/२४)
१०. कश्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।
:क्षिप्रमारभसे कर्म न दीर्घयसि राघव ॥ (अयोध्याकाण्डः १००/१९)
११. कालातिक्रमेण ह्येव भक्तवेतनयोर्भृताः ।
:भर्तुरप्यतिकुप्यन्ति सोऽनर्थः सुमहान् कृतः ॥ (अयोध्याकाण्डः १००/३३)
१२. तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् ।
:व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् ॥ (अरण्यकाण्डः ३३/१५)
१३. न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः । (युद्धकाण्डः २२/१६)
१४. नयनाभ्यां प्रसुप्तो वा जागर्ति नयचक्षुषा ।
:व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः ॥ (अरण्यकाण्डः ३३/२१)
१५. नहि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि ।
:स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥ (अयोध्याकाण्डः ८/२३)
१६. न्यायेन राजकार्याणि यः करोति दशानन ।
:न स सन्तप्यते पश्चान्निश्चितार्थमतिर्नृपः ॥ (युद्धकाण्डः १२/३०)
१७. पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् । (अयोध्याकाण्डः १००/२२)
१८. पूर्वापकारिणं हत्वा न ह्यधर्मेण युज्यते । (अयोध्याकाण्डः ९६/२४)
१९. प्रणिधाय हि चारेण यथावत् सूक्ष्यबुद्धिना ।
:परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः ॥ (युद्धकाण्डः १७/४४)
२०. मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।
:सुसंवृतो मन्त्रिधुरैरमात्यैः शास्त्रकोविदैः ॥ (अयोध्याकाण्डः १००/१६)
२१. मित्राटविबलं चैव मौलभृत्यबलं तथा ।
:सर्वमेतद् बलं ग्राह्यं वर्जयित्वा द्विषद्बलम् ॥ (युद्धकाण्डः १७/४४)
१२. मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः ।
:मूले हि सति सिध्यन्ति गुणाः सर्वे फलोदयाः ॥ (किष्किन्धाकाण्डः ६५/२५)
२३. ये न रक्षन्ति विषयमस्वाधीनं नराधिपाः ।
:ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ॥ (अरण्यकाण्डः ३३/६)
२४. रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः । (अयोध्याकाण्डः १००/४८)
२५. राजा तु धर्मेण हि पालयित्वा
:अवाप्य कृत्स्नां वसुधां यथाव -
:दितश्च्युतः स्वर्गमुपैति विद्वान् ॥ (अयोध्याकाण्डः १००/७६)
२६. राम षड्युक्तयो लोके याभिः सर्वं विमृश्यते । (अरण्यकाण्डः ६२/८)
२७. शुष्ककाष्ठैर्भवेत् कार्यं लोष्ठैरपि च पांसुभिः ।
:न तु स्थानात् परिभ्रष्टैः कार्यं स्याद् वसुधाधिपैः ॥ (अरण्यकाण्डः ३३/१८)
२८ सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् ।
:लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः ॥ (अरण्यकाण्डः ३३/३)
२९. सर्वकाम समृद्धं हि हस्त्यश्वरथसंकुलम् ।
:पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ॥ (युद्धकाण्डः १२५/१६)
३०. संदधानो हि कालेन विगृह्णंश्चारिभिः सह ।
:स्पपक्षे वर्धनं कुर्वन्महदैश्वर्यमश्नुते ॥ (युद्धकाण्डः ३५/८)
३१. स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः ।
:स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति ॥ (अरण्यकाण्डः ३३/४)
३२. हितानुबन्धमालोक्य कुर्यात् कार्यमिहात्मनः ।
:राजा सहार्थतत्त्वज्ञैः सचिवैर्बुद्धिजीविभिः ॥ (युद्धकाण्डः ६३/१३)
<DOC_END>
<DOC_START>
१. अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर । (बालकाण्डः ६१/७)
२. अहो तम इवेदं स्यान्न प्रज्ञायेत किञ्चन ।
:राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी ॥ (अयोध्याकाण्डः ६७/३६)
३. पिता हि सर्वभूतानां राजा भवति धर्मतः । (उत्तरकाण्डः ९३/१५)
४. बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च । (बालकाण्डः ५४/११)
५. यथा दृष्टिः शरीरस्य नित्यमेव प्रवर्तते ।
:तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥ (अयोध्याकाण्डः ६७/३३)
६. रत्नहारी च पार्थिवः । (बालकाण्डः ५३/९)
७. राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः ।
:धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते ॥ (अरण्यकाण्डः ५०/११)
८. राजा सत्यं च धर्मश्च राजा कुलवतां कुलम् ।
:राजा माता पिता चैव राजा हितकरो नृणाम् ॥ (अयोध्याकाण्डः ६७/३४)
९. विद्यास्वभिविनीतो यो राजा राजन् नयानुगः ।
:स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे ॥ (युद्धकाण्डः ३५/७)
१०. सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः ।
:कृतज्ञः सत्यवादी च राजा लोके महीयते ॥ (किष्किन्धाकाण्डः ३४/७)
<DOC_END>
<DOC_START>
१. अराजके धनं नास्ति नास्ति भार्याप्यराजके । (अयोध्याकाण्डः ६७/११)
२. नाराजके जनपदे धनवन्तः सुरक्षिताः ।
:शेरते वितद्वाराः कृषिगोरक्षजीविनः ॥ (अयोध्याकाण्डः ६७/१८)
३. नाराजके जनपदे स्वकं भवति कस्यचित् ।
:मत्स्या इव जना नित्यं भक्षयन्ति परस्परम् ॥ (अयोध्याकाण्डः ६७/३१)
४. नाराजके पितुः पुत्रो भार्या वा वर्तते वशे । (अयोध्याकाण्डः ६७/१०)
५. यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम् ।
:अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ॥ (अयोध्याकाण्डः ६७/२९)
<DOC_END>
<DOC_START>
१. काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः ।
:हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा ॥ (उत्तरकाण्डः ९९/१३)
२. न बालो म्रियते तत्र न युवा न च मध्यमः ।
:धर्मेण शासितं सर्वं न च बाधा विधीयते ॥ (उत्तरकाण्डः (प्रक्षिप्तः १/९)
३. नाधयो व्याधयश्चैव रामे राज्यं प्रशासति ।
:पक्वसस्या वसुमती सर्वौषधिसमन्विता ॥ (उत्तरकाण्डः (प्रक्षिप्तः १/८)
४. विबुधात्मनि दृश्यन्ते त्वयि वीर प्रशासति ।
:अमानुषाणि सत्त्वानि व्यवहृतानि मुहुर्मुहुः ॥ (उत्तरकाण्डः ४१/१७)
<DOC_END>
<DOC_START>
१. कदाचिदुपकारेण कृतेनैकेन तुष्यति ।
:न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥ (अयोध्याकाण्डः १/११)
२. रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ।
:प्रजापालनसंयुक्तो न रागोपहतेन्द्रियः ॥ (अयोध्याकाण्डः २/४४)
३. रामः सत्पुरुषो लोके सत्यः सत्यपरायणः ।
:साक्षाद् रामाद् विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥ (अयोध्याकाण्डः २/२९)
४. शक्तस्त्रैसोक्यमप्येष भोक्तुं किं नु महीमिमाम् ।
:नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ॥ (अयोध्याकाण्डः २/४५९)
५. स च नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते ।
:उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥ (अयोध्याकाण्डः १/१०)
<DOC_END>
<DOC_START>
१ न तद् भविता राष्ट्रं यत्र रामो न भूपतिः ।
:तद् वनं भविता राष्ट्रं यत्र रामो निवत्स्यति ॥ (अयोध्याकाण्डः ६७/२९)
२. रामो द्विर्नाभिभाषते । (अयोध्याकाण्डः १८/३०)
<DOC_END>
<DOC_START>
१. आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ।
:यः शृणोति सदा भक्त्या स गच्छेद् वैष्णवीतनुम् ॥ (उत्तरकाण्डः १११/१६)
२. इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् ।
:रामायणं वेदसमं श्राद्धेषु श्रावयेद् बुधः ॥ (उत्तरकाण्डः १११/४)
३. पठत्येकमपि श्लोकं पापात् स परिमुच्यते । (उत्तरकाण्डः १११/६)
४. यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् ।
:सोऽसुक्षये विष्णुलोकं गच्छत्येव न संशयः ॥ (उत्तरकाण्डः १११/२१)
५. यः पठेच्छृणुयान्नित्यं चरितं राघवस्य हि ।
:भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ॥ (उत्तरकाण्डः १११/१९)
६. श्रृण्वन् रामायणं भक्त्या यः पादं पदमेव वा ।
:स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥ (उत्तरकाण्डः १११/२४)
<DOC_END>
<DOC_START>
१. न लुब्धो बुध्यते दोषान् । (अयोध्याकाण्डः ६६/६)
<DOC_END>
<DOC_START>
१. अतीव वातस्तिमिरं बुभुक्षा चाति नित्यशः ।
:भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥ (अयोध्याकाण्डः २८/१८)
२. उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि ।
:जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम् ॥ (अयोध्याकाण्डः २८/१३)
३. कायक्लेशाश्च बहवो भयानि विविधानि च ।
:अरण्यवासे वसतो दुःखमेव सदा वनम् ॥ (अयोध्याकाण्डः २८/२३)
४. द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनि ।
:वने व्याकुलशाखाग्रास्तेन दुःखमतो वनम् ॥ (अयोध्याकाण्डः २८/२२)
५. पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह ।
:बाधन्ते नित्यमबले सर्वं दुःखमतो वनम् । (अयोध्याकाण्डः २८/२१)
६. बहुदोषं हि कान्तारं वनमित्यभिधीयते । (अयोध्याकाण्डः २८/५)
७. सग्राहाः सरितश्चैव पङ्कवत्यस्तु दुस्तराः ।
:मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ॥ (अयोध्याकाण्डः २८/९)
८. सदा सुखं न जानामि दुःखमेव सदा वनम् । (अयोध्याकाण्डः २८/६)
<DOC_END>
<DOC_START>
१. अशरीरः शरीरेषु वायुश्चरति पालयन् ।
:शरीरं हि विना वायुं समतां याति दारुभिः ॥ (उत्तरकाण्डः ३५/६०)
२. वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् ।
:वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ॥ (उत्तरकाण्डः ३५/६१)
<DOC_END>
<DOC_START>
१. अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत हि ।
:गुणतः संग्रहं कुर्याद् दोषतस्तु विसर्जयेत् ॥ (युद्धकाण्डः १७/४१)
२. अनागतविधानं तु कर्तव्यं शुभमिच्छता ।
:आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥ (अरण्यकाण्डः २४/११)
३. अन्तकाले हि भूतानि मुह्यन्तीति पुरा श्रुतिः । (अयोध्याकाण्डः १०६/१३)
४. अशक्यं सहसा राजन् भावो बोद्धुं परस्य वै । (युद्धकाण्डः १७/६१)
५. कर्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः । (अयोध्याकाण्डः ५६/२२)
६. कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत् ।
:पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥ (सुन्दरकाण्डः ४१/५)
७. कीर्त्यर्थं तु समारम्भाः सर्वेषां तु महात्मनाम् । (उत्तरकाण्डः ४५/१३)
८. चित्तनाशाद् विपद्यन्ते सर्वाण्येवेन्द्रियाणि हि ।
:क्षीणस्नेहस्य दीपस्य संरक्ता रश्मयो यथा ॥ (अयोध्याकाण्डः ६४/७३)
९. त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत ।
:मिथ्यावाक्यं तु परमं तस्माद् गुरुतरावुभौ ॥
:परदाभिगमनं विना वैरं च रौद्रता । (अरण्यकाण्डः ९/३)
१०. दुर्लभं हि सदा सुखम् । (अयोध्याकाण्डः १८/१३)
११. देशकालोपपन्नं च कार्यं कार्यविदां वर ।
:सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् ॥ (युद्धकाण्डः १७/६५)
१२. निमित्तं लक्षणं स्वप्नं शकुनिस्वरदर्शनम् ।
:अवश्यं सुखदुःखेषु नराणां परिदृश्यते ॥ (अरण्यकाण्डः ५२/२)
१३. न वर्धमानोऽग्निरुपेक्षितुं क्षमः । (सुन्दरकाण्डः ४७/२९)
१४. न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ।
:यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥ (सुन्दरकाण्डः ४१/६)
१५. नहि धर्मार्थसिद्ध्यर्थं पानमेव प्रशस्यते ।
:पानादर्थश्च कामश्च धर्मश्च परिहीयते ॥ (किष्किन्धाकाण्डः ३३/४६)
१६. प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः ।
:इष्टापूर्तवधो भूयात् ॥ (बालकाण्डः २१/८)
१७. बालानां तु शुभं वाक्यं ग्राह्यं लक्ष्मणपूर्वज । उत्तरकाण्डः ८३/२०)
१८. बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते ।
:स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥ (किष्किन्धाकाण्डः ७/१०)
१९. बुद्धया युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे । (अरण्यकाण्डः ६६/१६)
२०. मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने । (सुन्दरकाण्डः ११/४२)
२१. ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् । (किष्किन्धाकाण्डः ९/८)
२२. यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः ।
:पूर्वं चोत्तरकार्याणि न स वेद नयानयौ ॥ (युद्धकाण्डः ६३/५)
२३. यत् कृत्वा न भवेद् धर्मो न कीर्तिर्न यशोध्रुवम् ।
:शारीरस्य भवेत् खेदः कस्तत् कर्म समाचरेत् ॥ (अरण्यकाण्डः ५०/१९)
२४. यदन्नः पुरुषो भवति तदन्नस्तस्य देवताः । (अयोध्याकाण्डः १०४/१५)
२५. यस्य सत्त्वस्य या योनिस्तस्यां तत् परिमार्गते ।
:न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥ (सुन्दरकाण्डः ११/४४)
२६. लोकापवादो बलवान् येन त्यक्ता हि मैथिली । (उत्तरकाण्डः ९७/४)
२७. विद्यते गोषु सम्पन्नं विद्यते ज्ञातितो भयम् ।
: विद्यते स्त्रीषु चापल्यं विद्यते ब्राह्मणे तपः ॥ (युद्धकाण्डः १३/९)
२८. विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति । (बालकाण्डः २१/१८)
२९. व्यसने वार्थकृच्छ्रे वा भये वा जीवितान्तरो ।
:विमृशंश्च स्वया बुद्ध्या धृतिमान् नावसीदति ॥ (किष्किन्धाकाण्डः ७/९)
३०. शोकेनाभिप्रपन्नस्य जीविते चापि संशयः । (किष्किन्धाकाण्डः ७/१३)
३१. स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् ।
:तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ॥ (अरण्यकाण्डः ५०/१८)
३२. सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते । (सुन्दरकाण्डः २४/२१)
३३. सुलभाः पुरुषाः राजन् सततं प्रियवादिनः ।
:अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ (अरण्यकाण्डः ३७/२)
<DOC_END>
<DOC_START>
१. नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते । (उत्तरकाण्डः २७/१८)
<DOC_END>
<DOC_START>
१. एवं दोषो महानत्र प्रपन्नानामरक्षणे ।
:अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् ॥ (युद्धकाण्डः १८/३१)
२. बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् ।
:न हन्यादानृशंस्यार्थमपि शत्रुं परन्तप ॥ (युद्धकाण्डः १८/२७)
३. विनष्टः पश्यतस्तस्य रक्षिणः शरणं गतः ।
:आनाय सुकृतं तस्य सर्वं गच्छेदरक्षितः ॥ (युद्धकाण्डः १८/३०)
<DOC_END>
<DOC_START>
१. गर्जन्ति न वृथा शूरा निर्जला इव तोयदाः । (युद्धकाण्डः ६५/३)
<DOC_END>
<DOC_START>
:अरिर्वा नित्यसंक्रुद्धो यथाऽत्मा दुरनुष्ठितः ॥ (उत्तरकाण्डः प्रक्षिप्तः २/२५)
२. श्रेयो लोकस्य चरतो न द्वेष्टि न च लिप्यते । (उत्तरकाण्डः प्रक्षिप्तः २/२४)
<DOC_END>
<DOC_START>
१. अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् । (सुन्दरकाण्डः ३०/१९)
२. यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
:रावणं मन्यमाना मां सीता भीता भविष्यति ॥ (सुन्दरकाण्डः ३०/१८)
<DOC_END>
<DOC_START>
१. आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः । (अयोध्याकाण्डः १४/३)
२. उद्विजन्ते यथा सर्पान्नरादनृतवादिनः ।
:धर्मः सत्यपरो लोके मूलं सर्वस्य चोच्यते ॥ (अयोध्याकाण्डः १०९/१२)
३. दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।
:वेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ (अयोध्याकाण्डः १०९/१४)
४. परत्रवासे हि वदन्त्यनुत्तमं तपोधनाः
:सत्यवचोहितं नृणाम् ॥ (अयोध्याकाण्डः ११/२९)
५. भूमिः कीर्तिर्यशोलक्ष्मीः पुरुषं प्रार्थयन्ति हि ।
:सत्यं समनुवर्तन्ते सत्यमेव भजेत् ततः ॥ (अयोध्याकाण्डः १०९/२२)
६. सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् । (युद्धकाण्डः ४६/३३)
७. सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः ।
:सत्यमेवाक्षया वेदाः सत्येनावाप्यते परम् ॥ (अयोध्याकाण्डः १४/७)
८. सत्यमेवानृशंसं च राजवृत्तं सनातनम् ।
:तस्मात् सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ (अयोध्याकाण्डः १०९/१०)
९. सत्यमेवेश्वरो लोके सत्ये धर्मः सदाश्रितः ।
:सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ (अयोध्याकाण्डः १०९/१३)
१०. सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः ।
:सत्यानुरोधात् समये वेलां स्वां नातिवर्तते ॥(अयोध्याकाण्डः १४/६)
<DOC_END>
<DOC_START>
१. धर्मे रताः सत्पुरुषैः समेता -
:भवन्ति पूज्या मुनयः प्रधानाः ॥ (अयोध्याकाण्डः १०९/३६)
२. न परः पापमादत्ते परेषां पापकर्मणाम् ।
:समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥ (युद्धकाण्डः ११३/४४)
३. पापानां वा शुभानां वा वधार्हाणामथापि वा ।
:कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ॥ (युद्धकाण्डः ११३/४५)
४. सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । अरण्यकाण्डः ६८/२४)
<DOC_END>
<DOC_START>
१. गुणवान् वा परजनः स्वजनो निर्गुणोऽपि वा ।
:निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः ॥ (युद्धकाण्डः ८७/१५)
२. यः स्वपक्षं परित्यज्य परपक्षं निषेवते ।
:स स्वपक्षे क्षयं याते पश्चात् तैरेव हन्यते ॥ (युद्धकाण्डः ८७/१३)
<DOC_END>
<DOC_START>
१. आम्रं छित्त्वा कुठारेण निम्बं परिचरेत् तु कः ।
:यश्चैनं पयसा सिञ्चेत्रैवास्य मधुरो भवेत् ॥ (अयोध्याकाण्डः ३५/१६)
२. न हि निम्बात् स्त्रवेत् क्षौद्रं लोके निगदितं वचः । (अयोध्याकाण्डः ३५/१७)
३. प्रकृतिं गूहमानस्य निश्चयेन कृतिध्रुवा । (उत्तरकाण्डः (प्रक्षिप्तः २/२६)
४. प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः ।
:शूराणां शुद्धभावानां भक्तानामार्जवं बलम् ॥ (युद्धकाण्डः ५०/५३)
५. सत्यश्चात्र प्रवादोऽयं लौकिकः प्रतिभाति माम् ।
:पितॄन् समनुजायन्ते नरा मातरमङ्गनाः ॥ (अयोध्याकाण्डः ३५/२८)
<DOC_END>
<DOC_START>
१. न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ।
:कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ (उत्तरकाण्डः ३५/८)
२. शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् ।
:विक्रमश्च प्रभावश्च हनूमति कृतालया ॥ (उत्तरकाण्डः ३५/३)
३. सत्यमेतद् रघुश्रेष्ठ यद् ब्रवीषि हनूमति ।
:न बले विद्यते तुल्यो न गतौ न मतौ परः ॥ (उत्तरकाण्डः ३५/१५)
<DOC_END>
<DOC_START>
==राष्ट्रं सुवीरं वर्धयामि ॥ अथर्ववेदः ३-१९-५
: वयं सर्वे अस्माकं कुटुम्बस्य, अधिकं नाम बन्धुमित्राणां हितम् आशास्महे । एतत् अतिरिच्य कश्चन समाजः, किञ्चन राष्ट्रं, संविधानञ्च विद्यते इत्येतम् अंशम् चातुर्येण विस्मरामः । अस्माकं समाज-राष्ट्र-संविधानानाञ्च मध्ये कश्चन अविनाभावसम्बन्धः वर्तते इत्येतत् अस्माभिः विस्मर्यते । अस्माकं दीर्घकालीनं हितं समाज-राष्ट्र्योः सुव्यवस्थया सह, दृढतया सह च संयुक्तमस्ति । समाज-राष्ट्रयोः शान्तिः यदि न स्यात् तर्हि अस्माकं कुटुम्बस्य बन्धुमित्राणाञ्च शान्ति-समाधानादीनि न भविष्यति । अतः अस्माकं श्रेयसः साधनेन सह समाजस्य राष्ट्रस्य च अभिवृद्धै अपि प्रयासः अस्माभिः अवश्यं कर्तव्यः । जगति विद्यमानानाम् अरण्य-वायु-भूमि-जल-खनिजादीनां प्राकृतिकसम्पत्तीनां सदुपयोगः, रक्षणञ्च अस्माभिः करणीयम् । परिसरमालिन्यं दुरुपयोगश्च कदापि न कर्तव्यः । प्राकृतिकसम्पत्तेः वर्धनकार्येषु प्रतिफलापेक्षां विना आत्मा योजनीयः ।
अत्र राष्ट्रं नाम मनुष्यैः सीमारेखादिभिः अभिज्ञाताः देशाः नैव सर्वस्य देशस्य प्रत्येकं सामाजिकव्यवस्था संविधानादयः न समग्रं जगत् एव अखण्डं राष्ट्रम् । सर्वेषां मानवानां हितकारकः स्वस्थः सुव्यवस्थितश्च समाजः, तादृशस्य समाजस्य जातिमत-उच्चनीच-महिलापुरुषभेदं विना मार्गदर्शने समर्थाः वेदाः एव समग्रस्य मनुकुलस्य संविधानम् ।)
<DOC_END>
<DOC_START>
युक्ता ह्यस्य हरयः शता दशेति ॥ बृहदारण्यकोपनिषत् २-५-१९
अयं परमात्मा आत्मनः रूपं लोकस्य प्रदर्शनाय रूपं रूपं प्रतिरूपो दृश्यते । सर्वशक्तः
परमात्मा आत्मीयैः 'माया' रूपैः नानोपाधिभिः नानारूपेण अवभासते । अस्य उपाधिरूपाणि
अत्र इन्द्रो नाम सर्वज्ञः परमात्मा । अयमेव परं ब्रह्म । अयम् अनेकोपाधिभिः नानारूपेण
अवभासते । आत्मा एक एव, अविद्याकल्पिताः उपाधयस्तु अनेके । अद्वितीयः परमात्मा
एक एव सन् देवतारूपेण, मनुष्यरूपेण, लोकपञ्चभूतरूपेण, क्रिमिकीटादिरूपेणापि दृश्यते ॥
एतेषां रूपाणां ‘माया’ इति नाम । ‘माया’ इति मिथ्याभासः इत्यर्थः । आत्मनः मिथ्याभासरूपमेव हि इदं जगत् ॥
<DOC_END>
<DOC_START>
जलाल् आल्-दीन् मुहम्मद् रूमि अथवा जलाल् अद्-दीन् मुहम्मद् बल्खि (३० सेप्टेम्बर् १२०७ १७ डिसेम्बर् १२७३) कश्चन पर्शियन् तत्त्वज्ञानी, ब्रह्मज्ञानी, कविः, बोधकः, माव्लावि-सूफि-मार्गस्य संस्थापकः ।
इदं पद्यम् । मया किम् उच्यते इति अहं कदापि न जानामि । मया पूर्वयोजना न क्रियते । कथनात् बहिः यदा तिष्ठामि तदा अहं पूर्णतया मौनम् आचरामि, कदाचिदेव विरलतया वदामि ।
* राज्ञः आगमने उपस्थितः अधिकारी इव अस्ति तर्कः । तदनन्तरम् अधिकारी अधिकारात् च्युतः भवति, आत्मानं गोपयति च । तर्कः देवस्य छाया इव । सूर्यः अस्ति देवः ।
* स्वस्य हृदयस्य परिशुद्धतायाः अनुगुणं प्रत्येकः अपि अदृश्यं पश्यति । तच्च अवलम्बते तेन कियता प्रमाणेन संस्कृतम् इत्येतत् । येन संस्कृतं तेन अधिकं दृश्यते तत्पुरतः अदृश्यम् आधिक्येन दृश्यरूपं प्राप्नुवन्ति ।
* प्रत्येकः अपि विशिष्टाय कार्याय प्राप्तजन्मा अस्ति । तद्कार्यस्य सम्पादनेच्छा सर्वस्मिन् हृदये निहिता अस्ति ।
* देवमानवाः सागरमत्स्याः इव स्वेच्छानुसारं तत्र अत्र सर्वत्र ते मुखम् उत्तोलयन्ति ।
* यस्य आशां बुद्धिः पराभवति सः देवतान् अतिशेते; यस्य आशा बुद्धिम् अतिशेते सः पशोः अपि कनीयान् ।
* दोषः तस्मिन् विद्यते यः निन्दति । आत्मा निन्दनाय न किमपि पश्यति ।
* तव प्रेमपात्रस्य शोभा तव कार्ये अभिव्यक्ता भवतु ।
* देवः एकस्मात् भावात् अन्यत्र नयति वैरुद्ध्येन पाठयति, येन भवतः उड्डयनाय पक्षद्वयं वर्तते न केवलम् एकम् ।
* सहचरत्वेन मत्सरं यः न नयति सः एव भाग्यवान् ।
* दयां यदि इच्छेत्, तर्हि दुर्बलान् दयया दृश्यताम् ।
* येन आदरः प्रदर्श्यते तेन आदरः प्राप्यते ।
<DOC_END>
<DOC_START>
==वयं भगवन्तः स्याम ॥ अथर्ववेदः ९-१०-२०
वेदः वैराग्यं बोधयति, जीवनं नश्वरं, सर्वमपि परित्यज्यताम् इति वेदः कथयति' इति केन उक्तम् वयम् ऐश्वर्यवन्तः स्याम इति स्पष्टं घोषयति वेदः किन्तु वस्तुतः ऐश्वर्यं नाम किम् इत्येषः एव प्रमुखः प्रश्नः । सम्पादितं सर्वमपि न भवेत् ऐश्वर्यम् । यतः तेषां सम्पादनावसरे अनेकेषां हिंसा कृता स्यात्, सत्यस्य नाशः जातः स्यात्, चौर्यं भवितुम् अर्हेत् । जगतः उद्धाराय विद्यमानानि सत्य-अहिंसा-निष्कपटादीनि तत्त्वानि एव बलिरूपेण दत्तानि चेत् कुतः स्युः सुख-शान्ति-आरोग्यादयः प्रार्थितं चेदपि किं ते लभ्येरन् ऐश्वर्यं केन मार्गेण सम्पादनीयम् इति बोधयति वेदः । सः कदापि सम्पत्तेः विरोधी नैव परिश्रमपूर्वकं प्राप्यताम् । परिश्रमानुगुणमेव प्राप्यताम् । द्यूतादिभिः कोशपूरणस्य, बलप्रयोगेण प्रभूतस्य प्राप्तेः प्रवृत्तिः मा भवतु । उत्तमेन मार्गेण सम्पाद्यते चेदेव ऐश्वर्यं सम्पत्तिः । अन्यथा तदेव विषायेत, विपत्तिरूपं प्राप्नुयात् ।
<DOC_END>
<DOC_START>
==वयं स्याम पतयो रयीणाम् ॥ (यजुर्वेदः १९-४४
वयं सम्पदः स्वामिनः भवेम ।
:जनाः सामान्यतः चिन्तयन्ति यत् वेदाः वैराग्यमेव, पारलौकिकविषयमेव बोधयन्ति न तु दैनन्दिनजीवनविषयम् इति । इदं सत्यदूरं वचनम् इत्येतत् इयं सूक्तिः निरूपयति । अस्माकं जीवनाय सम्पत्तिः अत्यावश्यकी । सम्पद्युक्ताः स्वावलम्बिनः भवन्ति । स्वतन्त्राः भवन्ति । धर्माचरणं दासैः असाध्यम् । किन्तु वयं सम्पत्तेः दासाः न स्याम, स्वामिनः स्याम । सम्पत्तेः अर्जनाय यत्किमपि आचरितुं सिद्धाः इत्येतत् दासत्त्वद्योतकम् । सन्मार्गे एव चराम इत्येषः सङ्कल्पः सम्पत्तेः स्वामित्वप्राप्त्यै सहकारी । तदा एव सम्पत्तेः सद्विनियोगः शक्यः ।
<DOC_END>
<DOC_START>
न दृश्यते नैव च लिङ्गनाशः ।
तद्वोभयं वै प्रणवेन देहे ॥ श्वेताश्वतरोपनिषत् १-१३
काष्ठे विद्यमानोऽपि अग्निः यथा न दृश्यते, अदृश्यमानत्वेन
हेतुना ‘नास्ति’ इति च यथा वक्तुं न शक्यते, मथनकाले तु
यथा आविर्भवति; एवमेव शरीरान्तः विद्यमानस्यैव आत्मनः
काष्ठे विद्यमानोऽपि अग्निः न बहिः दृश्यते, तावन्मात्रेणा
अग्निर्नास्ति’ इति वक्तुं शक्यते वा नैव । अव्यक्तरूपेण
विद्यमानस्यैव अग्नेः आविर्भावः मथनाद् भवति खलु ?
एवमेव विद्यमानस्यैव प्रत्यगात्मनः ज्ञापनमेव वेदान्तानां
विशेषः । न हि अविद्यमानम् आत्मानं वेदान्ताः प्रदर्शयेयुः,
न च साधकाः वयं पश्येम । किं तु स्वरूपभूतस्यैव प्रत्यगात्मनः
दर्शनाय ऒङ्कारोपासनं कर्तव्यम्, प्रणावोपासनेन हि प्रत्यगात्मनः
अनुभवो जायते । ओङ्कारध्यानस्य फलमिदम् ॥
<DOC_END>
<DOC_START>
==वाचस्पतिः वाचं नः स्वदतु ॥ यजुर्वेदः ३०-१
वाचस्पतिः अस्माकं वचनानि मधुराणि करोतु ।
: परमात्मा एव अस्माकं सर्वेषां वचनानां स्वामी रक्षकश्च । अस्माकं विवेचनरहितस्य सम्भाषणस्य कारणतः अद्यत्वे बहूनि कुटुम्बानि नश्यन्ति, मनांसि छिन्नानि भवन्ति, वयमेव विपत्तिं स्वागतीकुर्मः । कथनात् पूर्वं कथ्यमानं किं सत्यम् किम् एतत् अपेक्षितम् श्रोतॄणाम् इतः कः लाभः स च लाभः किं हितकरः कथनशैली मधुरं श्रवणयोग्यं वर्तते किम् इत्यादीन् अंशान् सम्यक् विविच्य कथनीयम् । वचनविषये अयम् एकः नियमः यदि समीचीनतया पाल्येत तर्हि जीवनस्य बह्व्यः समस्याः न उद्भवेयुः एव वचनं तु उक्तमस्ति, समस्याः तु जाताः सन्ति । अधुना किं कर्तव्यम् यत् सम्पन्नं तत्तु सम्पन्नमेव । इतः परं वा प्रीतेः पश्चात्तापस्य वचनैः तत् परिष्कर्तुं शक्यं खलु अहङ्कारः अवरोधाय भवेत्, हताशभावः अनुभूयेत । किन्तु प्रीतिनिष्कपटादिभिः भावैः युक्तैः वचनैः प्राप्यमाणा मैत्री, निरातङ्कता भवति अमूल्या । तेन कालः श्रमः सम्पत्तिश्च सम्पादिता भवति इत्यस्य अवगमनेन अवरोधः निवारणीयः इति मनोभावः उत्पद्येत । सः भावः सर्वदा रक्षणीयश्च ।
<DOC_END>
<DOC_START>
वाचोयुक्तिः वाक्प्रपञ्चस्य शोभां वर्धयति । स्वीयैः पदैः चमत्कारयुक्तं विशेषम् अर्थम् अभिव्यञ्जयति । वाचः युक्तिः इति उच्यते चेत् षष्ठीतत्पुरुषसमासः भवति । वाक्दिक्पश्यद्भ्यः युक्तिदण्डहरेषु इत्येतत् किञ्चन वार्तिकं विद्यते । अस्य वार्तिकस्य नियमस्य अनुसारं वाचोयुक्ति इत्यस्मिन् 'वाक्'शब्दस्य षष्ठीविभक्तिप्रत्ययस्य लोपः न जातः । इदम् अलुक्समासः इति उच्यते । वाचोयुक्तयः गणपाठे उपलभ्यते ।
पात्रेसमितः केवलं भोजनार्थम् उपस्थितः भवति, न कदापि कार्यार्थम् ।
गेहेशूरः गृहे केवलम् अस्य शौर्यम्, अन्येषु कार्येषु न ।
कूपमण्डूकः अल्पज्ञः । अस्मिन्नेव अर्थे उदुम्बरक्रिमिः, कूपकच्छपः, अवटकच्छपः, कुम्भमण्डूकः, उदपानमण्डूकः ।
नगरकाकः अन्येषां वञ्चने चतुरः ।
आखनिकबकः गृहे विद्यमानं भुञ्जानः कालं यापयति । (आखनिकः जलधारा इत्यर्थः) बहिः सम्पादनं न करोति ।
मातरि पुरुषः पितरि पुरुषः गृहे एव मातरं भाययन् भुञ्जानः भवति । बहिः कार्यं न करोति ।
गेहनर्दी केवलं गृहे शूरः ।
पिण्डीशूरः भोजने शूरः, कार्ये अपि शूरः ।
गेहमेहि गृहे एव तिष्ठति । कार्यार्थं बहिः न गच्छति ।
गेहविचिती गृहे तिष्ठन् इदं युक्तम् इदम् अनुक्तम् इति कथयति । किन्तु कार्यावधौ न कथयति ।
नगरश्वा अविनीतः, दार्ष्ट्यबुद्धिः यः सः ।
कर्णेटिरिटिरा श्रोतॄणाम् आसक्त्यादिकम् अपरिगणयन् यः निरन्तरं रटति सः । अस्मिन्नेव अर्थे कर्णे चुरुचुराः
उदा राज्ञो दशरथस्य अश्वमेधयागे महती भोजनव्यवस्था बभूव । सर्वदा अश्नीत पिबता, खादत मोदता च समभवत् ।
एहिरेयाहिरा अये अत्र आगच्छ, तत्र गच्छ इति अगौरेण आज्ञाकरणाय अयं शब्दः उपयुज्यते ।
उदा नाहं तस्य धनिकस्य गृहे स्थास्यामि । सर्वदा एहिरेयाहिरा इति मां पीडयति ।
उदा कणेहत्यसुरां पिबति, मनोहत्य पुष्पाणि पश्यति
कुतुपसौश्रुतः कुतुप मेषस्य) ऊर्णेन सज्जीकृतं कम्बलम् । इदं सर्वदा यः धरति सः कुतुपसौश्रुतः ।
अजातौल्वलि अजानां क्रयविक्रयणं यःकरोति सः अजातौल्वलिः ।
उष्ट्रकोशी उष्ट्रः इव यः कूजति सः ।
काकरावी काकः इव कूजति ।
एहिवणिजा शाकविक्रयिकं गृहिणी एवम् आह्वयति ।
अपेहिवाणिजा कलहं कृत्वा विक्रयिकं गृहात् प्रेषणक्रिया अपेहिवणिजा इति कथ्यते ।
खट्वारूढः अविनीतः इत्यर्थः । ब्रह्मचारिभिः अध्ययनावसरे खट्वायाः (मञ्चस्य) आरोहणं न करणीयमित्यस्ति नियमः ।
लालाटिकः सेवकः । स्वामिनः कथनम् अनवगच्छन् तदीयं ललाटमेव पश्यन् यः तिष्ठेत् सः ।
कौक्कुटिकः संन्यासी । कुक्कुरस्य चलनादीनाम् आधारेण भविष्यं यः कथयति सः ।
<DOC_END>
<DOC_START>
वायुर्वाव संवर्गः………. अग्निः वायुमेवाप्येति, …………. सूर्यो वायुमेवाप्येति
चन्द्रो वायुमेवाप्येति । छान्दोग्योपनिषत् ४-३-१
वायुरेव संवर्गः, अग्निः वायुमेव अप्येति, सूर्यः वायुमेव अप्येति, चन्द्रः वायुमेव अप्येति ।
उपासनमेतत्, अस्य ‘संवर्गविद्या’ इति नाम । संवर्गो नाम संवर्जनम् । वायुर्नाम हिरण्यगर्भः
अथवा विराटपुरुषः । अस्मिन्नेव वायौ सर्वोऽपि प्रपञ्चः प्रविलीयते ॥
अग्निः, सूर्यः, चन्द्रः, नक्षत्राणि, इत्याद्याः सर्वा अपि देवताः प्रलयकाले इमं वायुमेव अपियन्ति ।
हिरण्यगर्भादेव जनित्वा, तस्मिन्नेव स्थित्वा, अन्ते तस्मिन्नेव इदं विश्वं लीयते च । अस्यैव वायुः
इति नाम । ‘संवर्गः’ इत्यपि अस्यैव नाम । वायुः, प्राणः विराटपुरुषः, वैश्वानरः इति नामान्तराणि
च । सर्वदेवतानामपि आत्मन्येव संवर्जनात् वायुः संवर्गः । एवम् उपासनं कुर्यात् । अस्य उपासनस्य
<DOC_END>
<DOC_START>
*सम्मान पूर्वक सहभागी भव अन्य यॊजकेभ्य अपवित्र र अपमानजनक भाषायां आदेशं नैव ददसि।
*अन्य जनानां स्थिति(पद) निष्कर्षाय समर्थनं करॊसि।
*अन्यॆषु जनॆषु मध्यॆ अशिष्ट व्यवहारं मा कुरु, यथा सम्भव अन्यॆभ्यॊ यॊजकॆभ्यॊ सह सौहार्दपूर्ण सम्बन्धः स्थापय।
<DOC_END>
<DOC_START>
विकिसूक्तयः इत्येतस्मिन् जालपुटे विविधाः सूक्तयः, सुभाषितानि, वेदसूक्तानि, उपनिषद्वाक्यानि, लौकिकन्यायादयश्च सङ्गृहीताः सन्ति । संस्कृतभाषायाः वैशिष्ट्यदर्शनाय चित्रकाव्यादीनि अपि सङ्कलितानि सन्ति अत्र । विषयाः व्यवस्थिततया उपलभ्यन्ते इत्यतः विकिसूक्तिः बहुप्रयोजनयुता वर्तते । अस्मिन् कार्ये भवतां हार्दं स्वागतम् ।
<DOC_END>
<DOC_START>
अत्र ते हार्दं स्वागतम् । नमांसि च ।
विकिसूक्तिः आधुनिकतन्त्रज्ञानचालितः कश्चित् स्वतन्त्रः सुभाषितालयः । संस्कृतम् तु एका प्राचीना समृद्धा च भाषा या सार्वकालिका अपि । अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यम् एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीनशब्दान् संस्कृतात् एव ग्रह्णन्ति । भारतस्य कस्यचिदपि लेखकस्य चिन्तकस्य वा दृष्टिकोणं संस्कृतस्य प्राचीन चिन्तनपरम्परया प्रभावितं भवति।
अतः समृद्धायाः संवृद्धायाः च संस्कृतभषायाः विस्तारः भारतीय वाङ्मयस्य उन्नतिः भवेत्। अत एव संस्कृतस्य ज्ञानसमुद्रे विहर्तुम् अन्येषां सर्वेषामपि अवकाशः भावतु इति धिया अत्र संस्कृतविकिकोशे अपि संस्कृतसाहित्यं प्रवेशितम् ।
आशास्महे यत् विकिसूक्तेः सान्निध्ये अस्माकं साहचर्ये च भवान्/भवती सानन्दं सेवताम् इति ।
<DOC_END>
<DOC_START>
विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे ।
ब्रह्म ज्येष्ठमुपासते ॥ तैत्तिरीयोपनिषत् २-५-१
विज्ञानमेव यज्ञं कुरुते, विज्ञानमेव कर्माणि तनुते । सर्वे देवाः विज्ञानमेव
पञ्चकोशानां मध्ये अयं विज्ञानमयः चतुर्थः । मनोमयात् आत्मनोऽपि अयं
विज्ञानमयः आत्मा सूक्ष्मः व्यापकः । विज्ञानमिति बुद्धिः । विज्ञानोपाधिकः
आत्मा विज्ञानमयः । विज्ञानं विना जीवस्य व्यवहार एव नास्ति । बुद्धिरेव
हि मानवस्य सम्पत् बुद्धिनाशे सति मानवः मृतप्राय एव ॥
अस्य विज्ञानमयस्य महिमा अद्भुतः । विज्ञानमय एव स्वबुद्धया लौकिकानि
वैदिकानि च कर्माणि कुरुते । बुद्धया हि बुद्धिमतो मनुष्यस्य मौल्यम् बुद्धया
सर्वं कर्म कुर्यात् मानवः । इदं विज्ञानमेव इन्द्रादिदेवाः सर्वे उपासते । इन्द्रियाणि
सर्वाणि इमां बुद्धिमेव आश्रित्य जीवन्ति । इदं विज्ञानमेव ब्रह्मभावेन उपासते
चेत् सः बुद्धिमान् भवति ॥
<DOC_END>
<DOC_START>
द्वाःस्थं प्राह महाप्राङ्य़ो धृतराष्ट्रो महीपतिः ।
विदुरं द्रष्टुमिच्च्हामि तमिहानय माचिरम् ॥ १॥
प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् ।
ईश्वरस्त्वां महाराजो महाप्राङ्य़ दिदृक्षति ॥ २॥
एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् ।
अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय ॥ ३॥
विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् ।
द्रष्टुमिच्च्हति ते पादौ किं करोतु प्रशाधि माम् ॥ ४॥
प्रवेशय महाप्राङ्य़ं विदुरं दीर्घदर्शिनम् ।
अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने ॥ ५॥
प्रविशान्तः पुरं क्षत्तर्महाराजस्य धीमतः ।
न हि ते दर्शनेऽकाल्यो जातु राजा ब्रवीति माम् ॥ ६॥
ततः प्रविश्य विदुरो धृतराष्ट्र निवेशनम् ।
अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् ॥ ७॥
विदुरोऽहं महाप्राङ्य़ सम्प्राप्तस्तव शासनात् ।
यदि किं चन कर्तव्यमयमस्मि प्रशाधि माम् ॥ ८॥
सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः ।
अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ॥ ९॥
तस्याद्य कुरुवीरस्य न विङ्य़ातं वचो मया ।
तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ॥ १०॥
जाग्रतो दह्यमानस्य श्रेयो यदिह पश्यसि ।
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ॥ ११॥
न मे यथावन्मनसः प्रशान्तिः ।
किं वक्ष्यतीत्येव हि मेऽद्य चिन्ता ॥ १२॥
तन्मे ब्रूहि विदुर त्वं यथावन्
यथा च नस्तात हितं भवेच्च
प्रजाश्च सर्वाः सुखिता भवेयुः ॥ ॥
अभियुक्तं बलवता दुर्बलं हीनसाधनम् ।
हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥ १३॥
कच्चिन्न परवित्तेषु गृध्यन्विपरितप्यसे ॥ १४॥
श्रोतुमिच्च्हामि ते धर्म्यं परं नैःश्रेयसं वचः ।
अस्मिन्राजर्षिवंशे हि त्वमेकः प्राङ्य़संमतः ॥ १५॥
प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः ॥ ॥
विपरीततरश्च त्वं भागधेये न संमतः ।
अर्चिषां प्रक्षयाच्चैव धर्मात्मा धर्मकोविदः ॥ ॥
गुरुत्वात्त्वयि संप्रेक्ष्य बहून्क्लेषांस्तितिक्षते ॥ ॥
एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्च्हसि ॥ ॥
स्रुक्च द्रौणी पेठनीपीडने च ।
एकस्माद्वै जायतेऽसच्च सच्च ॥ ॥
यमर्थान्नापकर्षन्ति स वै पण्दित उच्यते ॥ ॥
निषेवते प्रशस्तानि निन्दितानि न सेवते ।
अनास्तिकः श्रद्दधान एतत्पण्डित लक्षणम् ॥ १६॥
क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भो मान्यमानिता ।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ १७॥
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥ १८॥
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः ।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥ १९॥
यस्य संसारिणी प्रङ्य़ा धर्मार्थावनुवर्तते ।
कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥ २०॥
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते ।
न किं चिदवमन्यन्ते पण्डिता भरतर्षभ ॥ २१॥
विङ्य़ाय चार्थं भजते न कामात् ।
तत्प्रङ्य़ानं प्रथमं पण्डितस्य ॥ २२॥
नाप्राप्यमभिवाञ्च्हन्ति नष्टं नेच्च्हन्ति शोचितुम् ।
आपत्सु च न मुह्यन्ति नराः पण्डित बुद्धयः ॥ २३॥
निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः ।
अवन्ध्य कालो वश्यात्मा स वै पण्डित उच्यते ॥ २४॥
आर्य कर्मणि राज्यन्ते भूतिकर्माणि कुर्वते ।
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥ २५॥
न हृष्यत्यात्मसंमाने नावमानेन तप्यते ।
गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ॥ २६॥
तत्त्वङ्य़ः सर्वभूतानां योगङ्य़ः सर्वकर्मणाम् ।
उपायङ्य़ो मनुष्याणां नरः पण्डित उच्यते ॥ २७॥
आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते ॥ २८॥
श्रुतं प्रङ्य़ानुगं यस्य प्रङ्य़ा चैव श्रुतानुगा ।
असम्भिन्नार्य मर्यादः पण्डिताख्यां लभेत सः ॥ २९॥
अर्थं महान्तमासद्य विद्यामैश्वर्यमेव च ।
विचरत्यसमुन्नद्धो यस्य पण्डित उच्यते ॥ ॥
अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः ।
अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ ३०॥
स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति ।
अकामां कामयति यः कामयानां परित्यजेत् ।
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ ॥
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ ३२॥
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ ३३॥
संसारयति कृत्यानि सर्वत्र विचिकित्सते ।
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ ३४॥
श्राद्धं पितृभ्यो न ददाति दैवतानि नार्चति ।
सुहृन्मित्रं न लभते तमाहुर्मूढचेतसम् ॥ ॥
अनाहूतः प्रविशति अपृष्टो बहु भाषते ।
परं क्षिपति दोषेण वर्तमानः स्वयं तथा ।
यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः ॥ ३६॥
अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते ।
कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥ ३८॥
अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा ।
विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ॥ ३९॥
एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् ।
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥ ४०॥
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः ।
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ ४१॥
एकं हन्यान्न वाहन्यादिषुर्मुक्तो धनुष्मता ।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ ४२॥
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु ।
पञ्च जित्वा विदित्वा षट्सप्त हित्वा सुखी भव ॥ ४३॥
एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते ।
सराष्ट्रं स प्रजं हन्ति राजानं मन्त्रविस्रवः ॥ ४४॥
एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् ।
एको न गच्च्हेदध्वानं नैकः सुप्तेषु जागृयात् ॥ ४५॥
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ ४६॥
एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते ।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ ४७॥
सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम् ।
क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं तथा ॥ ॥
क्षमा वशीकृतिर्लोके क्षमया किं न साध्यते ।
शान्तिशण्खः करे यस्य किं करिष्यति दुर्जनः ॥ ॥
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ।
अक्षमावान्परं दोषैरात्मानं चैव योजयेत् ॥ ॥
एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा ।
द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव ।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ ४९॥
द्वे कर्मणी नरः कुर्वन्नस्मिंल्लोके विरोचते ।
अब्रुवन्परुषं किं चिदसतो नार्थयंस्तथा ॥ ५०॥
द्वाविमौ पुरुषव्याघ्र परप्रत्यय कारिणौ ।
स्त्रियः कामित कामिन्यो लोकः पूजित पूजकः ॥ ५१॥
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ ।
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ ५२॥
द्वावेव न विराजेते विपरीतेन कर्मणा ।
गृहस्थश्च निरारंभः कार्यवांश्चैव भिक्षुकः ॥ ॥
द्वाविमौ पुरुषौ राजन्स्वर्गस्य परि तिष्ठतः ।
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ ५३॥
न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ ।
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥ ५४॥
द्वावंभसि निवेष्टव्यौ गले बद्ध्वा दृढं शिलाम् ।
धनवन्तमदातारं दरिद्रं चातपस्विनम् ॥ ॥
परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥ ॥
त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ ।
कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ॥ ५५॥
त्रय एवाधना राजन्भार्या दासस्तथा सुतः ।
यत्ते समधिगच्च्हन्ति यस्य ते तस्य तद्धनम् ॥ ५७॥
हरणं च परस्वानां परदाराभिमर्शनम् ।
सुहृदश्च परित्यागस्त्रयो दोषा क्षयावहः ॥ ॥
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ ॥
वरप्रदानं राज्यां च पुत्रजन्म च भारत ।
शत्रोश्च मोक्षणं कृच्च्ह्रात्त्रीणि चैकं च तत्समम् ॥ ॥
भक्तं च बजमानं च तवास्मीति वादिनम् ।
त्रीनेतान् शरणं प्राप्तान्विषमेऽपि न सन्त्यजेत् ॥ ॥
अल्पप्रङ्य़ैः सह मन्त्रं न कुर्यान्
चत्वारि ते तात गृहे वसन्तु
चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः ।
पृच्च्हते त्रिदशेन्द्राय तानीमानि निबोध मे ॥ ६०॥
देवतानां च सङ्कल्पमनुभावं च धीमताम् ।
विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥ ६१॥
पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः ।
पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ॥ ६२॥
पञ्चैव पूजयंल्लोके यशः प्राप्नोति केवलम् ।
पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि ।
मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥ ६४॥
पञ्चेन्द्रियस्य मर्त्यस्य च्हिद्रं चेदेकमिन्द्रियम् ।
ततोऽस्य स्रवति प्रङ्य़ा दृतेः पादादिवोदकम् ॥ ६५॥
षड़्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥ ६६॥
अरक्षितारं राजानं भार्यां चाप्रिय वादिनीम् ।
ग्रामकारं च गोपालं वनकामं च नापितम् ॥ ६८॥
षडेव तु गुणाः पुंसा न हातव्याः कदाचन ।
सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥ ६९॥
प्रिया च भार्या प्रियवादिनी च ।
षट् जीवलोकस्य सुखानि राजन् ॥ ॥
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥ ७०॥
षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते ।
चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ॥ ७१॥
प्रमदाः कामयानेषु यजमानेषु याजकाः ।
राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ॥ ७२॥
गावः सेवा कृषिर्भार्या विद्या वृषलसंगतिः ॥ ॥
षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् ।
आचार्यं शिक्षिता शिष्याः कृतदारश्च मातरम् ॥ ॥
नारिं विगतकामस्तु कृतार्थाश्च प्रयोजकम् ।
नावं निस्तीर्णकान्तारा नातुराश्च चिकित्सकम् ॥ ॥
षट् जीवलोकस्य सुखानि राजन् ॥ ॥
ईर्षुर्घृणी नसन्तुष्टः क्रोधनो नित्यशण्कितः ।
परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥ ॥
सप्त दोषाः सदा राङ्य़ा हातव्या व्यसनोदयाः ।
प्रायशो यैर्विनश्यन्ति कृतमूलाश्च पार्थिवाः ॥ ७३॥
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् ।
महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ ७४॥
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः ।
ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥ ७५॥
ब्राह्मण स्वानि चादत्ते ब्राह्मणांश्च जिघांसति ।
रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ ७६॥
एतान्दोषान्नरः प्राङ्य़ो बुद्ध्या बुद्ध्वा विवर्जयेत् ॥ ७७॥
अष्टाविमानि हर्षस्य नव नीतानि भारत ।
वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ॥ ७८॥
पुत्रेण च परिष्वङ्गः संनिपातश्च मैथुने ॥ ७९॥
समये च प्रियालापः स्वयूथेषु च संनतिः ।
अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥ ८०॥
प्रङ्य़ा च कौल्यं च दमः श्रुतं च ।
दानं यथाशक्ति कृतङ्य़ता च ॥ ॥
नवद्वारमिदं वेश्म त्रिस्थूणं पञ्च साक्षिकम् ।
क्षेत्रङ्य़ाधिष्ठितं विद्वान्यो वेद स परः कविः ॥ ८१॥
दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् ।
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥ ८२॥
त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश ।
तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः ॥ ८३॥
पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना ॥ ८४॥
पात्रे प्रतिष्ठापयते धनं च ।
तं सर्वलोकः कुरुते प्रमाणम् ॥ ८५॥
विङ्य़ात दोषेषु दधाति दण्डम् ।
जानाति मात्रां च तथा क्षमां च
तं तादृशं श्रीर्जुषते समग्रा ॥ ८६॥
युक्तो रिपुं सेवते बुद्धिपूर्वम् ।
काले च यो विक्रमते स धीरः ॥ ८७॥
प्राप्यापदं न व्यथते कदा चिद्
दुःखं च काले सहते जितात्मा
धुरन्धरस्तस्य जिताः सपत्नाः ॥ ८८॥
दम्भं स्तैन्यं पैशुनं मद्य पानं
न सेवते यः स सुखी सदैव ॥ ८९॥
नापूजितः कुप्यति चाप्यमूढः ॥ ९०॥
न दुर्बलः प्रातिभाव्यं करोति ।
सर्वत्र तादृग्लभते प्रशंसाम् ॥ ९१॥
यो नोद्धतं कुरुते जातु वेषं
न मूर्च्च्हितः कटुकान्याह किं चित्
प्रियं सदा तं कुरुते जनोऽपि ॥ ९२॥
तमार्य शीलं परमाहुरग्र्यम् ॥ ९३॥
न स्वे सुखे वै कुरुते प्रहर्षं
नान्यस्य दुःखे भवति प्रतीतः ।
न कत्थते सत्पुरुषार्य शीलः ॥ ९४॥
यः प्रङ्य़ावान्वर्जयेत्स प्रधानः ॥ ९६॥
तस्योत्थानं देवता राधयन्ति ॥ ९७॥
समैः सख्यं व्यवहारं कथाश्च ।
विपश्चितस्तस्य नयाः सुनीताः ॥ ९८॥
नान्ये जनाः कर्म जानन्ति किं चित् ।
स्वल्पो नास्य व्यथते कश्चिदर्थः ॥ १००॥
महामणिर्जात्य इव प्रसन्नः ॥ १०१॥
स्वतेजसा सूर्य इवावभासते ॥ १०२॥
पाण्डोः पुत्राः पञ्च पञ्चेन्द्र कल्पाः ।
सुखी पुत्रैः सहितो मोदमानः ।
न देवानां नापि च मानुषाणां
भविष्यसि त्वं तर्कणीयो नरेन्द्र ॥ १०४॥
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये त्रयस्त्रंशोऽध्यायः ॥ ३३॥
<DOC_END>
<DOC_START>
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ॥ १॥
श्रेयः करं ब्रूहि तद्वै कुरूणाम् ॥ २॥
कवे तन्मे ब्रूहि सर्वं यथावन्
शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् ।
अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्च्हेत्पराभवम् ॥ ४॥
वचः श्रेयः करं धर्म्यं ब्रुवतस्तन्निबोध मे ॥ ५॥
मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत ।
अनुपाय प्रयुक्तानि मा स्म तेषु मनः कृथाः ॥ ६॥
तथैव योगविहितं न सिध्येत्कर्म यन्नृप ।
उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥ ७॥
सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥ ८॥
अनुबन्धं च सम्प्रेक्ष्य विपाकांश्चैव कर्मणाम् ।
उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥ ९॥
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये ।
कोशे जनपदे दण्डे न स राज्यावतिष्ठते ॥ १०॥
युक्तो धर्मार्थयोर्ङ्य़ाने स राज्यमधिगच्च्हति ॥ ११॥
न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम् ।
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥ १२॥
भक्ष्योत्तम प्रतिच्च्हन्नं मत्स्यो बडिशमायसम् ।
रूपाभिपाती ग्रसते नानुबन्धमवेक्षते ॥ १३॥
यच्च्हक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् ।
हितं च परिणामे यत्तदद्यं भूतिमिच्च्हता ॥ १४॥
वनस्पतेरपक्वानि फलानि प्रचिनोति यः ।
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥ १५॥
यस्तु पक्वमुपादत्ते काले परिणतं फलम् ।
फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥ १६॥
यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः ।
पुष्पं पुष्पं विचिन्वीत मूलच्च्हेदं न कारयेत् ।
मालाकार इवारामे न यथाङ्गारकारकः ॥ १८॥
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।
इति कर्माणि सञ्cइन्त्य कुर्याद्वा पुरुषो न वा ॥ १९॥
अनारभ्या भवन्त्यर्थाः के चिन्नित्यं तथागताः ।
कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ॥ २०॥
कांश्चिदर्थान्नरः प्राङ्य़ो लभु मूलान्महाफलान् ।
क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥ २१॥
ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव ।
आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥ २२॥
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।
प्रसादयति लोकं यस्तं लोकोऽनुप्रसीदति ॥ २३॥
यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव ।
सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥ २४॥
पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा ।
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥ २५॥
वसुधा वसुसम्पूर्णा वर्धते भूतिवर्धनी ॥ २६॥
अथ सन्त्यजतो धर्ममधर्मं चानुतिष्ठतः ।
प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ॥ २७॥
य एव यत्नः क्रियते प्रर राष्ट्रावमर्दने ।
स एव यत्नः कर्तव्यः स्वराष्ट्र परिपालने ॥ २८॥
धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् ।
धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥ २९॥
सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ ३०॥
सुव्याहृतानि सुधियां सुकृतानि ततस्ततः ।
सञ्cइन्वन्धीर आसीत शिला हारी शिलं यथा ॥ ३१॥
गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः ।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ ३२॥
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा ।
अथ या सुदुहा राजन्नैव तां विनयन्त्यपि ॥ ३३॥
यदतप्तं प्रणमति न तत्सन्तापयन्त्यपि ।
यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि ॥ ३४॥
एतयोपमया धीरः संनमेत बलीयसे ।
इन्द्राय स प्रणमते नमते यो बलीयसे ॥ ३५॥
पर्जन्यनाथाः पशवो राजानो मित्र बान्धवाः ।
पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेद बान्धवाः ॥ ३६॥
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥ ३७॥
अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः ॥ ३८॥
न कुलं वृत्ति हीनस्य प्रमाणमिति मे मतिः ।
अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ ३९॥
य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये ।
सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥ ४०॥
अकार्य करणाद्भीतः कार्याणां च विवर्जनात् ।
अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ ४१॥
एते मदावलिप्तानामेत एव सतां दमाः ॥ ४२॥
असन्तोऽभ्यर्थिताः सद्भिः किं चित्कार्यं कदा चन ।
मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ॥ ४३॥
गतिरात्मवतां सन्तः सन्त एव सतां गतिः ।
असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥ ४४॥
अध्वा जितो यानवता सर्वं शीलवता जितम् ॥ ४५॥
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति ।
न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥ ४६॥
आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् ।
लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥ ४७॥
सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा ।
क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ ४८॥
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते ।
दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते ॥ ४९॥
उत्तमानां तु मर्त्यानामवमानात्परं भयम् ॥ ५०॥
ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ॥ ५१॥
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ ५२॥
यो जितः पञ्चवर्गेण सहजेनात्म कर्शिना ।
आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराड् ॥ ५३॥
अमित्रान्वाजितामात्यः सोऽवशः परिहीयते ॥ ५४॥
आत्मानमेव प्रथमं देशरूपेण यो जयेत् ।
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ ५५॥
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु ।
परीक्ष्य कारिणं धीरमत्यन्तं श्रीर्निषेवते ॥ ५६॥
दान्तैः सुखं याति रथीव धीरः ॥ ५७॥
अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥ ५८॥
इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥ ५९॥
धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः ।
श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते ॥ ६०॥
इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः ॥ ६१॥
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ६२॥
कामश्च राजन्क्रोधश्च तौ प्राङ्य़ानं विलुम्पतः ॥ ६३॥
स वै सम्भृत सम्भारः सततं सुखमेधते ॥ ६४॥
जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् ॥ ६५॥
दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्म भिः ।
तुल्यो दण्डः स्पृशते मिश्रभावात् ।
तस्मात्पापैः सह सन्धिं न कुर्यात् ॥ ६७॥
निजानुत्पततः शत्रून्पञ्च पञ्च प्रयोजनान् ।
यो मोहान्न निघृह्णाति तमापद्ग्रसते नरम् ॥ ६८॥
अनसूयार्जवं शौचं सन्तोषः प्रियवादिता ।
दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥ ६९॥
वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ॥ ७०॥
आक्रोश परिवादाभ्यां विहिंसन्त्यबुधा बुधान् ।
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ ७१॥
हिंसा बलमसाधूनां राङ्य़ां दण्डविधिर्बलम् ।
शुश्रूषा तु बलं स्त्रीणां क्षमागुणवतां बलम् ॥ ७२॥
वाक्संयमो हि नृपते सुदुष्करतमो मतः ।
अर्थवच्च विचित्रं च न शक्यं बहुभाषितुम् ॥ ७३॥
अभ्यावहति कल्याणं विविधा वाक्सुभाषिता ।
सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥ ७४॥
संरोहति शरैर्विद्धं वनं परशुना हतम् ।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ ७५॥
वाक्षल्यस्तु न निर्हर्तुं शक्यो हृदि शयो हि सः ॥ ७६॥
यस्मै देवाः प्रयच्च्हन्ति पुरुषाय पराभवम् ।
बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति ॥ ७८॥
बुद्धौ कलुष भूतायां विनाशे प्रत्युपस्थिते ।
अनयो नयसङ्काशो हृदयान्नापसर्पति ॥ ७९॥
सेयं बुद्धिः परीता ते पुत्राणां तव भारत ।
पाण्डवानां विरोधेन न चैनाम् अवबुध्यसे ॥ ८०॥
राजा लक्षणसम्पन्नस्त्रैलोक्यस्यापि यो भवेत् ।
शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ॥ ८१॥
अतीव सर्वान्पुत्रांस्ते भागधेय पुरस्कृतः ।
तेजसा प्रङ्य़या चैव युक्तो धर्मार्थतत्त्ववित् ॥ ८२॥
गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति ॥ ८३॥
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
<DOC_END>
<DOC_START>
ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः ।
शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥ १॥
सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् ।
उभे एते समे स्यातामार्जवं वा विशिष्यते ॥ २॥
आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो ।
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ ३॥
यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते ।
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ॥ ४॥
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥ ५॥
किं ब्राह्मणाः स्विच्च्ह्रेयांसो दितिजाः स्विद्विरोचन ।
अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ॥ ६॥
प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः ।
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥ ७॥
इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन ।
सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ॥ ८॥
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।
सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ ॥ ९॥
अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम् ।
एकत्वमुपसम्पन्नो न त्वासेयं त्वया सह ॥ १०॥
अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम् ।
सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥ ११॥
पितापि ते समासीनमुपासीतैव मामधः ।
बालः सुखैधितो गेहे न त्वं किं चन बुध्यसे ॥ १२॥
हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः ।
सुधन्वन्विपणे तेन प्रश्नं पृच्च्हाव ये विदुः ॥ १३॥
हिरण्यं च गवाश्वं च तवैवास्तु विरोचन ।
प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्च्हाव ये विदुः ॥ १४॥
आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते ।
न हि देवेष्वहं स्थाता न मनुष्येषु कर्हि चित् ॥ १५॥
पितरं ते गमिष्यावः प्राणयोर्विपणे कृते ।
पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् ॥ १६॥
इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह ।
किं वै सहैव चरतो न पुरा चरतः सह ।
विरोचनैतत्पृच्च्हामि किं ते सख्यं सुधन्वना ॥ १८॥
न मे सुधन्वना सख्यं प्राणयोर्विपणावहे ।
प्रह्राद तत्त्वामृप्च्च्हामि मा प्रश्नमनृतं वदीः ॥ १९॥
उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने ।
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता ॥ २०॥
उदकं मधुपर्कं च पथ एवार्पितं मम ।
प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्च्हतोः ॥ २१॥
पुर्तो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः ।
तयोर्विवदतोः प्रश्नं कथमस्मद्विभो वदेत् ॥ २२॥
अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् ।
एतत्सुधन्वन्पृच्च्हामि दुर्विवक्ता स्म किं वसेत् ॥ २३॥
यां रात्रिमधिविन्ना स्त्री यां चैवाक्ष पराजितः ।
यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् ॥ २४॥
नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः ।
अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत् ॥ २५॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ २६॥
हन्ति जातानजातांश्च हिरण्यार्थोऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥ २७॥
मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन ।
मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥ २८॥
सुधन्वन्पुनरिच्च्हामि त्वया दत्तं विरोचनम् ॥ २९॥
यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः ।
पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् ॥ ३०॥
एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः ।
पादप्रक्षालनं कुर्यात्कुमार्याः संनिधौ मम ॥ ३१॥
तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि ।
मा गमः स सुतामात्योऽत्ययं पुत्राननुभ्रमन् ॥ ३२॥
न देवा यष्टिमादाय रक्षन्ति पशुपालवत् ।
यं तु रक्षितुमिच्च्हन्ति बुद्ध्या संविभजन्ति तम् ॥ ३३॥
यथा यथा हि पुरुषः कल्याणे कुरुते मनः ।
तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः ॥ ३४॥
वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्ठः ॥ ३६॥
शलाक धूर्तं च चिकित्सकं च ।
अरिं च मित्रं च कुशीलवं च
भयं प्रयच्च्हन्त्ययथा कृतानि ॥ ३८॥
पर्व कारश्च सूची च मित्र ध्रुक्पारदारिकः ॥ ३९॥
भ्रूणहा गुरु तल्पी च यश्च स्यात्पानपो द्विजः ।
अतितीक्ष्णश्च काकश्च नास्तिको वेद निन्दकः ॥ ४०॥
स्रुव प्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि ।
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्मण्हणैः समाः ॥ ४१॥
युगे भद्रो व्यवहारेण साधुः ।
कृच्च्ह्रास्वापत्सु सुहृदश्चारयश् च ॥ ४२॥
जरा रूपं हरति हि धैर्यमाशा
ह्रियं कामः सर्वमेवाभिमानः ॥ ४३॥
दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ॥ ४४॥
प्रङ्य़ा च कौल्यं च दमः श्रुतं च ।
दानं यथाशक्ति कृतङ्य़ता च ॥ ४५॥
एको गुणः संश्रयते प्रसह्य ।
न सा सभा यत्र न सन्ति वृद्धा
न ते वृद्धा ये न वदन्ति धर्मम् ।
न तत्सत्यं यच्च्हलेनानुविद्धम् ॥ ४९॥
सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् ।
शौर्यं च चिरभाष्यं च दशः संसर्गयोनयः ॥ ५०॥
पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् ।
पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ॥ ५१॥
पापं प्रङ्य़ां नाशयति क्रियमाणं पुनः पुनः ।
नष्टप्रङ्य़ः पापमेव नित्यमारभते नरः ॥ ५२॥
पुण्यं प्रङ्य़ां वर्धयति क्रियमाणं पुनः पुनः ।
वृद्धप्रङ्य़ः पुण्यमेव नित्यमारभते नरः ॥ ५३॥
स कृच्च्ह्रं महदाप्नोतो नचिरात्पापमाचरन् ॥ ५४॥
अकृच्च्ह्रात्सुखमाप्नोति सर्वत्र च विराजते ॥ ५५॥
प्रङ्य़ामेवागमयति यः प्राङ्य़ेभ्यः स पण्डितः ।
प्राङ्य़ो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥ ५६॥
दिवसेनैव तत्कुर्याद्येन रातौ सुखं वसेत् ।
अष्ट मासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥ ५७॥
पूर्वे वयसि तत्कुर्याद्येन वृद्धसुखं वसेत् ।
यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥ ५८॥
जीर्णमन्नं प्रशंसन्ति भार्यं च गतयौवनाम् ।
शूरं विगतसङ्ग्रामं गतपारं तपस्विनम् ॥ ५९॥
असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ ६०॥
गुरुरात्मवतां शास्ता शासा राजा दुरात्मनाम् ।
अथ प्रच्च्हन्नपापानां शास्ता वैवस्वतो यमः ॥ ६१॥
ऋषीणां च नदीनां च कुलानां च महामनाम् ।
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ ६२॥
द्विजातिपूजाभिरतो दाता ङ्य़ातिषु चार्जवी ।
क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् ॥ ६३॥
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ ६४॥
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।
दुर्योधने च शकुनौ मूढे दुःशासने तथा ।
कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्च्हसि ॥ ६६॥
पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ॥ ६७॥
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
<DOC_END>
<DOC_START>
आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥ १॥
चरन्तं हंसरूपेण महर्षिं संशितव्रतम् ।
साध्या देवा महाप्राङ्य़ं पर्यपृच्च्हन्त वै पुरा ॥ २॥
दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् ।
श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः
काव्यां वाचं वक्तुमर्हस्युदाराम् ॥ ३॥
प्रियाप्रिये चात्मवशं नयीत ॥ ४॥
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ ५॥
न चातिमानी न च हीनवृत्तो
रूक्षां वाचं रुशतीं वर्जयीत ॥ ६॥
घोरा वाचो निर्दहन्तीह पुंसाम् ।
धर्मारामो नित्यशो वर्जयीत ॥ ७॥
मुखे निबद्धां निरृतिं वहन्तम् ॥ ८॥
विद्यात्कविः सुकृतं मे दधाति ॥ ९॥
तपस्विनं यदि वा स्तेनमेव ।
वासो यथा रङ्ग वशं प्रयाति
तथा स तेषां वशमभ्युपैति ॥ १०॥
वादं तु यो न प्रवदेन्न वादयेद्
यो नाहतः प्रतिहन्यान्न घातयेत् ।
तस्मै देवाः स्पृहयन्त्यागताय ॥ ११॥
धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ॥ १२॥
यादृशैः संविवदते यादृशांश् चोपसेवते ।
यादृगिच्च्हेच्च भवितुं तादृग्भवति पूरुषः ॥ १३॥
यतो यतो निवर्तते ततस्ततो विमुच्यते ।
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥ १४॥
न शोचते हृष्यति नैव चायम् ॥ १५॥
भावमिच्च्हति सर्वस्य नाभावे कुरुते मतिम् ।
सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ॥ १६॥
नानर्थकं सान्त्वयति प्रतिङ्य़ाय ददाति च ।
राद्धापराद्धे जानाति यः स मध्यमपूरुषः ॥ १७॥
कलाश्चैता अधमस्येह पुंसः ॥ १८॥
न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः ।
निराकरोति मित्राणि यो वै सोऽधम पूरुषः ॥ १९॥
उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् ।
अधमांस्तु न सेवेत य इच्च्हेच्च्ह्रेय आत्मनः ॥ २०॥
न वृत्तमाप्नोति महाकुलानाम् ॥ २१॥
भवन्ति वै कानि महाकुलानि ॥ २२॥
पुण्या विवाहाः सततान्न दानम् ।
येषां न वृत्तं व्यथते न योनिर्
कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च ॥ २५॥
देव द्रव्यविनाशेन ब्रह्म स्वहरणेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ २६॥
कुलान्यकुलतां यान्ति न्यासापहरणेन च ॥ २७॥
कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः ।
कुलसङ्ख्यां न गच्च्हन्ति यानि हीनानि वृत्ततः ॥ २८॥
कुलसङ्ख्यां तु गच्च्हन्ति कर्षन्ति च मयद्यशः ॥ २९॥
मा नः कुले वैरकृत्कश् चिदस्तु
पूर्वाशी वा पितृदेवातिथिभ्यः ॥ ३०॥
यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणान्द्विषेत् ।
न नः स समितिं गच्च्हेद्यश्च नो निर्वपेत्कृषिम् ॥ ३१॥
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
सतामेतानि गेहेषु नोच्च्हिद्यन्ते कदा चन ॥ ३२॥
श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् ।
प्रवृत्तानि महाप्राङ्य़ धर्मिणां पुण्यकर्मणाम् ॥ ३३॥
सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै
शक्तो वोढुं न तथान्ये महीजाः ।
महाकुलीना न तथान्ये मनुष्याः ॥ ३४॥
तद्वै मित्रं सङ्गतानीतराणि ॥ ३५॥
यदि चेदप्यसम्बन्धो मित्रभावेन वर्तते ।
स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ॥ ३६॥
चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः ।
पारिप्लवमतेर्नित्यमध्रुवो मित्र सङ्ग्रहः ॥ ३७॥
अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा ॥ ३८॥
शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ॥ ३९॥
सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये ।
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥ ४०॥
अर्थयेदेव मित्राणि सति वासति वा धने ।
नानर्थयन्विजानाति मित्राणां सारफल्गुताम् ॥ ४१॥
सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम् ।
सन्तापाद्भ्रश्यते ङ्य़ानं सन्तापाद्व्याधिमृच्च्हति ॥ ४२॥
अनवाप्यं च शोकेन शरीरं चोपतप्यते ।
अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥ ४३॥
पुनर्नरो हीयते वर्धते पुनः ।
पुनर्नरः शोचति शोच्यते पुनः ॥ ४४॥
सुखं च दुःखं च भवाभवौ च
लाभालाभौ मरणं जीवितं च ।
तस्माद्धीरो नैव हृष्येन्न शोचेत् ॥ ४५॥
तेषां यद्यद्वर्तते यत्र यत्र ।
च्हिद्रोद कुम्भादिव नित्यमम्भः ॥ ४६॥
तनुरुच्च्हः शिखी राजा मिथ्योपचरितो मया ।
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ ४७॥
नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः ।
यत्तत्पदमनुद्विग्नं तन्मे वद महामते ॥ ४८॥
नान्यत्र विद्या तपसोर्नान्यत्रेन्द्रिय निग्रहात् ।
नान्यत्र लोभसन्त्यागाच्च्हान्तिं पश्याम तेऽनघ ॥ ४९॥
बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् ।
गुरुशुश्रूषया ङ्य़ानं शान्तिं त्यागेन विन्दति ॥ ५०॥
अनाश्रिता दानपुण्यं वेद पुण्यमनाश्रिताः ।
रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥ ५१॥
स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः ।
तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ॥ ५२॥
न वै भिन्ना जातु निद्रां लभन्ते ।
न मागधैः स्तूयमाना न सूतैः ॥ ५३॥
न वै भिन्ना जातु चरन्ति धर्मं
न वै सुखं प्राप्नुवन्तीह भिन्नाः ।
न वै भिन्ना गौरवं मानयन्ति
न वै भिन्नाः प्रशमं रोचयन्ति ॥ ५४॥
न वै तेषां स्वदते पथ्यमुक्तं
योगक्षेमं कल्पते नोत तेषाम् ।
न विद्यते किं चिदन्यद्विनाशात् ॥ ५५॥
सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः ।
सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं ङ्य़ातितो भयम् ॥ ५६॥
तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः ।
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च ।
धृतराष्ट्रोल्मुकानीव ङ्य़ातयो भरतर्षभ ॥ ५८॥
ब्राह्मणेषु च ये शूराः स्त्रीषु ङ्य़ातिषु गोषु च ।
वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥ ५९॥
प्रसह्य एव वातेन शाखा स्कन्धं विमर्दितुम् ॥ ६०॥
अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः ।
ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् ॥ ६१॥
एवं मनुष्यमप्येकं गुणैरपि समन्वितम् ।
शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवौकजम् ॥ ६२॥
ङ्य़ातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत ॥ ६३॥
अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ङ्य़ातयः ।
येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥ ६४॥
न मनुष्ये गुणः कश्चिदन्यो धनवताम् अपि ।
अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ॥ ६५॥
मन्युं महाराज पिब प्रशाम्य ॥ ६६॥
न वै लभन्ते विषयेषु तत्त्वम् ।
न बुध्यन्ते धनभोगान्न सौख्यम् ॥ ६७॥
पुरा ह्युक्तो नाकरोस्त्वं वचो मे
द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् ।
कितवत्वं पण्डिता वर्जयन्ति ॥ ६८॥
मृदुप्रौढा गच्च्हति पुत्रपौत्रान् ॥ ६९॥
पाण्डोः सुतास्तव पुत्रांश्च पान्तु ।
जीवन्तु राजन्सुखिनः समृद्धाः ॥ ७०॥
गोपायस्व स्वं यशस्तात रक्षन् ॥ ७१॥
मा तेऽन्तरं रिपवः प्रार्थयन्तु ।
दुर्योधनं स्थापय त्वं नरेन्द्र ॥ ७२॥
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
<DOC_END>
<DOC_START>
वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥ १॥
तानेविन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत् ।
अथो मरीचिनः पादाननाम्यान्नमतस्तथा ॥ २॥
यश्चाशिष्यं शासति यश् च कुप्यते
यश्चायाच्यं याचति यश् च कत्थते ॥ ३॥
यश्चाकाम्यं कामयते नरेन्द्र ॥ ४॥
वध्वा हासं श्वशुरो यश् च मन्यते
स्त्रियं च यः परिवदतेऽतिवेलम् ॥ ५॥
दत्त्वा च यः कत्थति याच्यमानः ।
तस्मिंस्तथा वर्तितव्यं स धर्मः ।
साध्वाचारः साधुना प्रत्युदेयः ॥ ७॥
शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा ।
नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना ॥ ८॥
क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट् ॥ ९॥
एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् ।
एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते ॥ १०॥
विश्वस्तस्यैति यो दारान्यश्चापि गुरु तक्पगः ।
वृषली पतिर्द्विजो यश्च पानपश्चैव भारत ॥ ११॥
शरणागतहा चैव सर्वे ब्रह्महणैः समाः ।
एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः ॥ १२॥
सत्यो मृदुः स्वर्गमुपैति विद्वान् ॥ १३॥
सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १४॥
यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ १५॥
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १६॥
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १७॥
नैवं युक्तं वचनं प्रातिपीय ।
प्राप्ते काले शोचिता त्वं नरेन्द्र ॥ १९॥
भृत्यस्य भक्तस्य हिते रतस्य ।
न चैनमापत्सु परित्यजन्ति ॥ २०॥
स्निग्धा ह्यमात्याः परिहीनभोगाः ॥ २१॥
सहायसाध्यानि हि दुष्कराणि ॥ २२॥
अभिप्रायं यो विदित्वा तु भर्तुः
शक्तिङ्य़ आत्मेव हि सोऽनुकम्प्यः ॥ २३॥
त्याज्यः स तादृक्त्वरयैव भृत्यः ॥ २४॥
दूतं वदन्त्यष्ट गुणोपपन्नम् ॥ २५॥
न राजन्यां योषितं प्रार्थयीत ॥ २६॥
न निह्नवं सत्र गतस्य गच्च्हेत्
स कारणं व्यपदेशं तु कुर्यात् ॥ २७॥
पुत्रो भ्राता विधवा बाल पुत्रा ।
व्यवहारे वै वर्जनीयाः स्युरेते ॥ २८॥
श्रीः सौकुमार्यं प्रवराश्च नार्यः ॥ २९॥
आरोग्यमायुश्च सुखं बलं च ।
न चैनमाद्यून इति क्षिपन्ति ॥ ३०॥
अकर्म शीलं च महाशनं च
लोकद्विष्टं बहु मायं नृशंसम् ।
एतान्गृहे न प्रतिवासयीत ॥ ३१॥
एतान्भृतार्तोऽपि न जातु याचेत् ॥ ३२॥
नित्यानृतं चादृढ भक्तिकं च ।
एतान्न सेवेत नराधमान्षट् ॥ ३३॥
अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ॥ ३४॥
वृत्तिं च तेभ्योऽनुविधाय कां चित् ।
तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धये ॥ ३६॥
बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च ।
व्यवसायश्च यस्य स्यात्तस्यावृत्ति भयं कुतः ॥ ३७॥
यत्र व्यथेरन्नपि देवाः स शक्राः ।
यशः प्रणाशो द्विषतां च हर्षः ॥ ३८॥
तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः ।
धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः ।
मा वनं च्हिन्धि स व्याघ्रं मा व्याघ्रान्नीनशो वनात् ॥ ४१॥
न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम् ।
वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ॥ ४२॥
न तथेच्च्हन्त्यकल्याणाः परेषां वेदितुं गुणान् ।
यथैषां ङ्य़ातुमिच्च्हन्ति नैर्गुण्यं पापचेतसः ॥ ४३॥
न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ॥ ४४॥
यस्यात्मा विरतः पापात्कल्याणे च निवेशितः ।
तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिर्श्च या ॥ ४५॥
यो धर्ममर्थं कामं च यथाकालं निषेवते ।
धर्मार्थकामसंयोगं योऽमुत्रेह च विन्दति ॥ ४६॥
संनियच्च्हति यो वेगमुत्थितं क्रोधहर्षयोः ।
स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ॥ ४७॥
बलं पञ्च विधं नित्यं पुरुषाणां निबोध मे ।
यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते ॥ ४८॥
अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते ।
धनलाभस्तृतीयं तु बलमाहुर्जिगीषवः ॥ ४९॥
यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् ।
अभिजात बलं नाम तच्चतुर्थं बलं स्मृतम् ॥ ५०॥
येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत ।
यद्बलानां बलं श्रेष्ठं तत्प्रङ्य़ा बलमुच्यते ॥ ५१॥
महते योऽपकाराय नरस्य प्रभवेन्नरः ।
तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ॥ ५२॥
स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु ।
भोगे चायुषि विश्वासं कः प्राङ्य़ः कर्तुमर्हति ॥ ५३॥
चिकित्सकाः सन्ति न चौषधानि ।
न होममन्त्रा न च मङ्गलानि
नाथर्वणा नाप्यगदाः सुसिद्धाः ॥ ५४॥
सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत ।
नावङ्य़ेया मनुष्येण सर्वे ते ह्यतितेजसः ॥ ५५॥
अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु ।
न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ॥ ५६॥
स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते ।
तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा ॥ ५७॥
एवमेव कुले जाताः पावकोपम तेजसः ।
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ ५८॥
लता धर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः ।
न लता वर्धते जातु महाद्रुममनाश्रिता ॥ ५९॥
सिंहा विनश्येयुरृते वनेन ॥ ६०॥
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
<DOC_END>
<DOC_START>
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।
ततो दद्यादन्नमवेक्ष्य धीरः ॥ २॥
यस्योदकं मधुपर्कं च गां च
स्तेनः क्रूरो मद्यपो भ्रूणहा च ।
क्षीरं मधु तैलं घृतं च ।
रक्तं वासः सर्वगन्धा गुडश् च ॥ ५॥
प्रहीण शोको गतसन्धि विग्रहः ।
धुरन्धरः पुण्यकृदेष तापसः ॥ ७॥
अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ ८॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ ९॥
श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥ १०॥
पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः ।
स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ॥ ११॥
गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् ।
भृत्यैर्वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान् ॥ १२॥
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ १३॥
नित्यं सन्तः कुले जाताः पावकोपम तेजसः ।
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ १४॥
यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश् च ये ।
स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ॥ १५॥
करिष्यन्न प्रभाषेत कृतान्येव च दर्शयेत् ।
धर्मकामार्थ कार्याणि तथा मन्त्रो न भिद्यते ॥ १६॥
गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः ।
अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते ॥ १७॥
नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम् ।
अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् ।
अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च ॥ १८॥
कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः ।
गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ॥ १९॥
अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति ।
स तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि ॥ २०॥
कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् ।
तेषामेवाननुष्ठानं पश्चात्तापकरं महत् ॥ २१॥
स्थानवृद्ध क्षयङ्य़स्य षाड्गुण्य विदितात्मनः ।
अनवङ्य़ात शीलस्य स्वाधीना पृथिवी नृप ॥ २२॥
आत्मप्रत्यय कोशस्य वसुधेयं वसुन्धरा ॥ २३॥
नाममात्रेण तुष्येत च्हत्रेण च महीपतिः ।
भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ॥ २४॥
ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा ।
अमात्यं नृपतिर्वेद राजा राजानमेव च ॥ २५॥
न शत्रुरङ्कमापन्नो मोक्तव्यो वध्यतां गतः ।
अहताद्धि भयं तस्माज्जायते नचिरादिव ॥ २६॥
दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च ।
नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च ॥ २७॥
निरर्थं कलहं प्राङ्य़ो वर्जयेन्मूढ सेवितम् ।
कीर्तिं च लभते लोके न चानर्थेन युज्यते ॥ २८॥
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः ।
न तं भर्तारमिच्च्हन्ति षण्ढं पतिमिव स्त्रियः ॥ २९॥
न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये ।
लोकपर्याय वृत्तान्तं प्राङ्य़ो जानाति नेतरः ॥ ३०॥
धनाभिजन वृद्धांश्च नित्यं मूढोऽवमन्यते ॥ ३१॥
अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ ३२॥
आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् ॥ ३३॥
अविसंवादको दक्षः कृतङ्य़ो मतिमानृजुः ।
अपि सङ्क्षीण कोशोऽपि लभते परिवारणम् ॥ ३४॥
धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा ।
मित्राणां चानभिद्रोहः सतैताः समिधः श्रियः ॥ ३५॥
असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः ।
तादृङ्नराधमो लोके वर्जनीयो नराधिप ॥ ३६॥
न स रात्रौ सुखं शेते स सर्प इव वेश्मनि ।
यः कोपयति निर्दोषं स दोषोऽभ्यन्तरं जनम् ॥ ३७॥
येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत ।
सदा प्रसादनं तेषां देवतानामिवाचरेत् ॥ ३८॥
येऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु च ।
ये चानार्य समासक्ताः सर्वे ते संशयं गताः ॥ ३९॥
यत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति च ।
मज्जन्ति तेऽवशा देशा नद्यामश्मप्लवा इव ॥ ४०॥
प्रयोजनेषु ये सक्ता न विशेषेषु भारत ।
तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ॥ ४१॥
यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः ।
यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ॥ ४२॥
आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ॥ ४३॥
तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं नचिरादिव ।
ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव ॥ ४४॥
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
<DOC_END>
<DOC_START>
धात्रा हि दिष्टस्य वशे किलायं
तस्माद्वद त्वं श्रवणे घृतोऽहम् ॥ १॥
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
लभते बुद्ध्यवङ्य़ानमवमानं च भारत ॥ २॥
प्रियो भवति दानेन प्रियवादेन चापरः ।
मन्त्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः ॥ ३॥
द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः ।
प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत ॥ ४॥
न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् ।
क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् ॥ ५॥
समृद्धा गुणतः के चिद्भवन्ति धनतोऽपरे ।
सर्वं त्वमायती युक्तं भाषसे प्राङ्य़संमतम् ।
न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः ॥ ७॥
स्वभावगुणसम्पन्नो न जातु विनयान्वितः ।
सुसूक्ष्ममपि भूतानामुपमर्दं प्रयोक्ष्यते ॥ ८॥
परापवाद निरताः परदुःखोदयेषु च ।
परस्परविरोधे च यतन्ते सततोथिताः ॥ ९॥
स दोषं दर्शनं येषां संवासे सुमहद्भयम् ।
अर्थादाने महान्दोषः प्रदाने च महद्भयम् ॥ १०॥
ये पापा इति विख्याताः संवासे परिगर्हिताः ।
निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति ।
या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम् ॥ १२॥
यतते चापवादाय यत्नमारभते क्षये ।
अल्पेऽप्यपकृते मोहान्न शान्तिमुपगच्च्हति ॥ १३॥
निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् ॥ १४॥
यो ङ्य़ातिमनुगृह्णाति दरिद्रं दीनमातुरम् ।
ङ्य़ातयो वर्धनीयास्तैर्य इच्च्हन्त्यात्मनः शुभम् ।
कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर ॥ १६॥
श्रेयसा योक्ष्यसे राजन्कुर्वाणो ङ्य़ातिसत्क्रियाम् ।
विगुणा ह्यपि संरक्ष्या ङ्य़ातयो भरतर्षभ ॥ १७॥
प्रसादं कुरु दीनानां पाण्डवानां विशां पते ॥ १८॥
दीयन्तां ग्रामकाः के चित्तेषां वृत्त्यर्थमीश्वर ।
एवं लोके यशःप्राप्तो भविष्यत्सि नराधिप ॥ १९॥
वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम् ।
मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम् ॥ २०॥
ङ्य़ातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना ।
सुखानि सह भोज्यानि ङ्य़ातिभिर्भरतर्षभ ॥ २१॥
सम्भोजनं सङ्कथनं सम्प्रीतिश् च परस्परम् ।
ङ्य़ातिभिः सह कार्याणि न विरोधः कथं चन ॥ २२॥
ङ्य़ातयस्तारयन्तीह ङ्य़ातयो मज्जयन्ति च ।
सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च ॥ २३॥
सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद ।
अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि ॥ २४॥
श्रीमन्तं ङ्य़ातिमासाद्य यो ङ्य़ातिरवसीदति ।
दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ॥ २५॥
पश्चादपि नरश्रेष्ठ तव तापो भविष्यति ।
तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय ॥ २६॥
येन खट्वां समारूढः परितप्येत कर्मणा ।
आदावेव न तत्कुर्यादध्रुवे जीविते सति ॥ २७॥
न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् ।
शेषसम्प्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति ॥ २८॥
दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् ।
त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ॥ २९॥
तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः ।
भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ॥ ३०॥
सुव्याहृतानि धीराणां फलतः प्रविचिन्त्य यः ।
अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ ३१॥
अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः ।
हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥ ३२॥
परिच्च्हदेन क्षत्रेण वेश्मना परिचर्यया ।
परीक्षेत कुलं राजन्भोजनाच्च्हादनेन च ॥ ३३॥
ययोश्चित्तेन वा चित्तं नैभृतं नैभृतेन वा ।
समेति प्रङ्य़या प्रङ्य़ा तयोर्मैत्री न जीर्यते ॥ ३४॥
दुर्बुद्धिमकृतप्रङ्य़ं च्हन्नं कूपं तृणैरिव ।
विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ॥ ३५॥
अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च ।
तथैवापेत धर्मेषु न मैत्रीमाचरेद्बुधः ॥ ३६॥
कृतङ्य़ं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् ।
जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते ॥ ३७॥
इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते ।
अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतान्यपि ॥ ३८॥
मार्दवं सर्वभूतानामनसूया क्षमा धृतिः ।
आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ॥ ३९॥
अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते ।
मतिमास्थाय सुदृढां तदकापुरुष व्रतम् ॥ ४०॥
अतीते कार्यशेषङ्य़ो नरोऽर्थैर्न प्रहीयते ॥ ४१॥
कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते ।
भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्ण दर्शनम् ॥ ४३॥
अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च ।
महान्भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते ॥ ४४॥
नातः श्रीमत्तरं किं चिदन्यत्पथ्यतमं तथा ।
प्रभ विष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ॥ ४५॥
अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता ॥ ४६॥
यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते ।
दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च ।
न श्रीर्वसत्यदान्तेषु ये चोत्साह विवर्जिताः ॥ ४८॥
अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः ॥ ४९॥
प्रङ्य़ाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥ ५०॥
अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् ।
रतिपुत्र फला दारा दत्तभुक्त फलं धनम् ॥ ५१॥
न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ॥ ५२॥
कानार वनदुर्गेषु कृच्च्ह्रास्वापत्सु सम्भ्रमे ।
उद्यतेषु च शस्त्रेषु नास्ति शेषवतां भयम् ॥ ५३॥
उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः ।
समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत् ॥ ५४॥
तपोबलं तापसानां ब्रह्म ब्रह्मविदां बलम् ।
हिंसा बलमसाधूनां क्षमागुणवतां बलम् ॥ ५५॥
अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
हविर्ब्राह्मण काम्या च गुरोर्वचनमौषधम् ॥ ५६॥
न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः ।
सङ्ग्रहेणैष धर्मः स्यात्कामादन्यः प्रवर्तते ॥ ५७॥
अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् ।
जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् ॥ ५८॥
स्त्री धूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि ।
चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके ॥ ५९॥
चत्वारि सम्प्रवर्धन्ते कीर्तिरायुर्यशोबलम् ॥ ६०॥
अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च ।
अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥ ६१॥
अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् ।
निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् ॥ ६२॥
अध्वा जरा देहवतां पर्वतानां जलं जरा ।
असम्भोगो जरा स्त्रीणां वाक्षल्यं मनसो जरा ॥ ६३॥
अनाम्नाय मला वेदा ब्राह्मणस्याव्रतं मलम् ।
कौतूहलमला साध्वी विप्रवास मलाः स्त्रियः ॥ ६४॥
सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु ।
ङ्य़ेयं त्रपु मलं सीसं सीसस्यापि मलं मलम् ॥ ६५॥
न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् ।
नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ॥ ६६॥
यस्य दानजितं मित्रममित्रा युधि निर्जिताः ।
अन्नपानजिता दाराः सफलं तस्य जीवितम् ॥ ६७॥
सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा ।
धृतराष्ट्रं विमुञ्चेच्च्हां न कथं चिन्न जीव्यते ॥ ६८॥
यत्पृथिव्यां व्रीहि यवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥ ६९॥
राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर ।
समता यदि ते राजन्स्वेषु पाण्डुसुतेषु च ॥ ७०॥
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
<DOC_END>
<DOC_START>
प्रसन्ना हि सुखाय सन्तः ॥ १॥
जीर्णां त्वचं सर्प इवावमुच्य ॥ २॥
अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।
गुरोश्चालीक निर्बन्धः समानि ब्रह्महत्यया ॥ ३॥
असूयैक पदं मृत्युरतिवादः श्रियो वधः ।
अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ॥ ४॥
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् ।
सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत् ॥ ५॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ ६॥
क्रोधः श्रियं हन्ति यशः कदर्यता ।
एकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ॥ ७॥
अजश्च कांस्यं च रथश्च नित्यं
मध्वाकर्षः शकुनिः श्रोत्रियश् च ।
एतानि ते सन्तु गृहे सदैव ॥ ८॥
अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी ।
विषमौदुम्बरं शङ्खः स्वर्णं नाभिश्च रोचना ॥ ९॥
गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् ।
देव ब्राह्मण पूजार्थमतिथीनां च भारत ॥ १०॥
इदं च त्वां सर्वपरं ब्रवीमि
पुण्यं पदं तात महाविशिष्टम् ।
न जातु कामान्न भयान्न लोभाद्
धर्मं त्यजेज्जीवितस्यापि हेतोः ॥ ११॥
नित्यो जीवो धातुरस्य त्वनित्यः ।
सन्तुष्य त्वं तोष परो हि लाभः ॥ १२॥
प्रशास्य भूमिं धनधान्य पूर्णाम् ।
चितामध्ये काष्ठमिव क्षिपन्ति ॥ १४॥
पुण्येन पापेन च वेष्ट्यमानः ॥ १५॥
उत्सृज्य विनिवर्तन्ते ङ्य़ातयः सुहृदः सुताः ।
अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम् ॥ १६॥
बुध्यस्व मा त्वां प्रलभेत राजन् ॥ १७॥
भयं न चामुत्र न चेह तेऽस्ति ॥ १८॥
पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव ॥ १९॥
कामक्रोधग्राहवतीं पञ्चेन्द्रिय जलां नदीम् ।
कृत्वा धृतिमयीं नावं जन्म दुर्गाणि सन्तर ॥ २०॥
विद्या वृद्धं वयसा चापि वृद्धम् ।
यः सम्पृच्च्हेन्न स मुह्येत्कदा चित् ॥ २१॥
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ।
चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ॥ २२॥
न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥ २३॥
इष्ट्वा यङ्य़ैः पालयित्वा प्रजाश् च ।
हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति ॥ २४॥
धनैः काले संविभज्याश्रितांश् च ।
प्रेत्य स्वर्गे देव सुखानि भुङ्क्ते ॥ २५॥
ब्रह्मक्षत्रं वैश्य वर्णं च शूद्रः
त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ॥ २६॥
तं त्वं राजन्राजधर्मे नियुङ्क्ष्व ॥ २७॥
एवमेतद्यथा मां त्वमनुशासति नित्यदा ।
ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् ॥ २८॥
सा तु बुद्दिः कृताप्येवं पाण्डवान्रप्ति मे सदा ।
दुर्योधनं समासाद्य पुनर्विपरिवर्तते ॥ २९॥
न दिष्टमभ्यतिक्रान्तुं शक्यं मर्त्येन केन चित् ।
दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम् ॥ ३०॥
॥ इति श्रीमाहाभारते उद्योगपर्वणि प्रजागरपर्वणि
इति विदुर नीति समाप्ता ॥
<DOC_END>
<DOC_START>
विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥
विद्या राज्याधिकारश्च कदापि न तोलनीयम् । राजा स्वस्य प्रदेशे केवलं गौरवं प्राप्नोति । किन्तु विद्यावान् सर्वत्र गौरवं प्राप्नोति ।
<DOC_END>
<DOC_START>
विनायकदामोदरसावर्करः मे २८, १८८३ फेब्रवरी २७, १९६६) भारतीयक्रान्तिकारी हिन्दुनायकश्च आसीत् । हिन्दुत्वसिद्धान्तस्य राजनैतिकपरिकल्पना तेनैव दत्ता ।
वैदिक-पौराणिककालयोः सकृत् दृष्टिपातं कुर्मः चेत्, एवं तु स्फुटं दृश्यते यत् अस्माकं ये पूर्वजाः देवाः, सम्राजः, युद्धस्तोत्राणाम् उद्गातारः, वैदिकाः ऋषयः, पौराणिकाः, महाकाव्यप्रणेतारः च दैत्य-दानव-राक्षसादिभिः अघोरि-मायावि-क्रूरैः नरभक्षिशत्रुभिः सह सङ्घर्षं कृतवन्तः ते सर्वे प्रतिस्पर्धिनाम् अपेक्षया अधिकतया अघोरि-मायावि-क्रूरवृत्तिम् आश्रित्य प्रतिराक्षसाः अभवन् । शत्रूणां युद्धनीत्यनुसारं स्वयुद्धनीतिं परिवर्तितवन्तः । शठं प्रति शाठ्यम् इव तेषाम् आचरणम् आसीत् । अतः एव तस्मिन् युगे अस्माकं पूर्वजाः सफलाः जाताः । तस्य फलस्वरूपेणैव प्रबलं राष्ट्रम् अस्माकं प्रबलतरं विस्तृतं च जातम् । राक्षसान् जेतुम् इतोऽपि विस्तृतम् अभवत् । राक्षसान् जेतुम् अस्माभिरपि प्रतिराक्षसैः भवितव्यम् इति अस्माकं देवाः देवतुल्यसम्राजः च चिन्तयन्ति स्म । एतत् अस्माकं धर्मस्य पवित्रं कर्तव्यम् इति तैः भावितम् आसीत् ।
<DOC_END>
<DOC_START>
==विशं विशं मघवा पर्यशायत ॥ ऋग्वेदः ४-१६-२
प्रत्येकस्य जनस्य अन्तः सः भगवान् विद्यते ।
: भगवतः अस्तित्वम् अङ्गीकुर्वतः नाङ्गीकुर्वतः जनस्य अन्तरङ्गे सः भगवान् व्याप्तः अस्ति । बहिरङ्गे अपि सर्वत्र व्याप्तः अस्ति । तन्निमित्तम् अस्माकम् अनुमतेः आवश्यकता न विद्यते सा सार्वभौमविश्वचेतनशक्तिः इन्द्रियैः चिन्तनशक्त्या च युक्तम् इदं मानवशरीरम् आत्मने प्रदत्तम् अमूल्यम् उपायनम् । मातापितरौ निमित्तकारणमात्रम् । अण्डाणु-डिम्भाणोः संयोगे जीवाङ्कुरव्यवस्थायाः कारणीभूतौ न सामान्यतः नास्तिकाः जडविग्रहान् देवाः इति कथयन्तः, सर्वत्र विद्यन्ते इति च कथयन्तः भवन्ति । किन्तु अन्यत्र तस्य अन्वेषणाय देवालय-क्रैस्तालय-यवनालय-तीर्थक्षेत्राणां गमनं खण्डयन्ति । पुराण-पुण्यकथादीनि अपि खण्डयन्ति । तत् बुद्धिसङ्गतं, तर्कबद्धं, वैज्ञानिकञ्च विद्यते एव किन्तु अणुतः ब्रह्माण्डं यावत् व्याप्तायाः व्यवस्थायाः पृष्ठतः विद्यमानं निराकारं सर्वज्ञं सर्वशक्तं ज्ञानशक्ति-क्रियाशक्तिरूपं किं निराकर्तुं शक्यम्
<DOC_END>
<DOC_START>
न्यूनतारहितस्य पूर्णायुषः धारणं क्रियताम् ।
: शतं वर्षाणि जीवनीयम् इति इच्छा तु भवेदेव । सर्वेषु इयम् इच्छा सहजतया एव भवति । कोपि मरणं न इच्छति । किन्तु तच्च जीवनं न्यूनताभिः युक्तं चेत्, ध्येयसाधनाभिः रहितं चेत् व्यर्थाय भवेत् । विशेषतया इदं मानवजीवनम् आत्मोन्नत्यै प्राप्तमस्ति । मनुष्येतरेषु जन्मसु इदं लक्ष्यं साधयितुम् अशक्यमेव । अयम् अवसरः यावान् दीर्घः तावान् उत्तमः । किन्तु सः अवसरः न्यूनतापूर्णः चेत् प्रयोजनाय न भवेत् । न्यूनता भौतिकसम्पत्तेः स्यात्, ज्ञानस्य वा स्यात् । भौतिकसम्पत्तेः न्यूनता अस्माकं न भवेत्, अन्यैः अनुभूयमानायाः न्यूनतायाः हेतुरूपाः अपि वयं न भवेम । अतः सामाजिकजीवने सरलता, असङ्ग्रहश्च नियमाः भवेयुः । आवश्यकतायाः अपेक्षया अधिकस्य सङ्ग्रहदुर्बुद्धिः निर्गच्छेत् । आवश्यकतायाः अपेक्षया विद्यमाना सम्पत्तिः विषायते प्रकृतेः सम्पत्तिः अवशिष्येत, सर्वेभ्यः संविभक्ता स्यात् । ज्ञानस्य न्यूनतायाः निवारणाय निरन्तरम् अध्ययनं, ज्ञानिनां सहवासः, अनुष्ठानम्, अनुभवादयः मार्गाः । एवं जीवनं यदि स्यात् तर्हि तत् उत्सवायेत ।
<DOC_END>
<DOC_START>
'पञ्चतन्त्रम्' इत्यस्य कथाग्रन्थस्य नाम यः न श्रुतवान् तादृशाः प्रायः कोऽपि नास्ति । तादृशस्य् अतिप्रसिध्द्स्य पञ्चतन्त्रस्य रचयिता विष्णुशर्मा महिलारोप्यस्य राज्ञः अमरशक्तेः त्रीन् पुत्रान् षड् भिः मासैः राजनीतिनिपुणान् कर्तुं विष्णुशर्मा पञ्चतन्त्रग्रन्थं रचितवान् इति श्रूयते विष्णुशर्मा तृतीये शतके ततः पूर्वं वा आसीत् इति पण्डिताः अभिप्रयन्ति विष्णुशर्मा काश्मीरदेशीयः |
*यत्र देशे थवा स्थाने भोगा भुक्ता: स्ववीर्यत:।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधम:।।
*भो: श्रेष्ठिन! दीयतां मे सा निक्षेपतुला।
*भो नास्ति सा, त्वदीया तुला मूषकैफर्भक्षित।
*भो: श्रेष्ठिन! नास्ति दोषस्ते, यदि मूषकैफर्भक्षितेति। ईदृगेवांय संसार:।
न किञ्चिदत्र शाश्वतमसित। परमहं घां स्नानार्थं गमिष्यामि। तत त्वमात्मीयं शिशुमेनं
धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय।
*वत्स! पितृव्योयं तव, स्नानार्थं यास्यति, तद् गम्यतामनेन
*भो अभ्यागत! कथ्यतां कुत्र मे शिशुर्यस्त्वया सह नदीं गत:?
*मिथ्यावादिन्! कीं क्वचित श्येनो बालं हर्तुं शक्नोति। तत समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।
*भो: सत्यवादिन्! यथा श्येनो बालं न नयति, तथा मूषका अपि लौहघटितां तुलां न भक्षयनित। तदर्पय मे तुलाम्, यदि दारकेण प्रयोजनम्।
*भो अब्रह्राण्यम्! अब्रह्राण्यम्! मम शिशुरनेन चौरेणापहृत:।
*किं करोमि? पश्यतो मे नदीतटाच्छ्येनेन अपहृत: शिशु:।
*भो न सत्यमभिहितं भवता-किं श्येन: शिशुं हर्तुं समर्थो भवति?
तुलां लौहसहस्त्रस्य यत्र खादन्ति मूषका:।
राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशय:।।
<DOC_END>
<DOC_START>
गृह्णन्ति । दुर्जनाः चालनी यथा तथा गुणान् परित्यज्य
<DOC_END>
<DOC_START>
आलङ्कारिकसिंहस्य उपरि काकाः यथा उपविशन्ति तथा क्षुद्राः अधिकारं चालयेयुः ।
<DOC_END>
<DOC_START>
==अकर्मा दस्युः ॥ ऋग्वेदः १०-२२-८
यः कर्म न करोति सः नाशं प्राप्नोति ।
: आत्मा अस्ति चेतनस्वरूपा । इच्छा-द्वेष-सुख-दुःख-ज्ञान-प्रयत्नादिभिः युक्तः अस्ति । अतः एव सः भवति सदा क्रियाशीलः । आत्मना क्रियाशीलेन भवितुम् इदं शरीरं किञ्चन माध्यमं यन्त्रम् अस्ति । इदं शरीरं पञ्चभूतैः निर्मितं किञ्चन जडवस्तु । शरीरात् आत्मनः त्यागस्य अनन्तरम् इदं शरीरं क्रियारहितः सत् विनश्यति । क्रियाशून्यता नाम विनाशः एव । आत्मनः प्रयत्नानां लक्ष्यं भवति स्वस्य सामर्थ्यस्य बलस्य च वर्धनम् । शक्तः आत्मा एव आनन्दानुभवने समर्थः । अयम् आनन्दः एव अस्माभिः सर्वैः अन्विष्यमाणः विद्यते । अतः प्रयत्नानां माध्यमम् इदं मानवशरीरं यद्यपि मूलतः जडं तथापि तस्मिन् आत्मनः अस्तित्वकारणतः निष्क्रियं भवितुम् आर्हति । तथा स्थितिः नाम आलस्यम् । आलस्यं नाशाय परिणमति । अस्य अमूल्यस्य मानवजीवनस्य नाशहेतुः यः भवेत् सः एव 'दस्युः' इति कथ्यते । अकर्म-विकर्मभ्यां सत्कर्म प्रति गच्छेम ।
<DOC_END>
<DOC_START>
संन्यासयोगात् यतयः शुद्धसत्त्वाः । मुण्डकोपनिषत् ३-२-६
वेदान्तविज्ञानेन सुनिश्चितार्थाः शुद्धसत्त्वाः यतयः संन्यासयोगात् परं ब्रह्म विज्ञाय ब्रह्मस्वरूपा एव भवन्ति ।
संन्यासिनो नाम वेदान्तचिन्तनतत्पराः । त्यक्तबाह्यानात्मवस्तु चिन्तना हि संन्यासिनः अध्ययनम्, अध्यापनम्,
यजनं, याजनं, दानं, प्रतिग्रहः इति हि शास्त्रीयाणि षट् कर्माणि भवन्ति । ये एतानि षडपि कर्माणि वेदान्तविचारार्थमेव
त्यक्तवन्तः ते एव हि संयासिनो नाम । अनात्मभूतेभ्यः अनित्येभ्यः लौकिकव्यवहारेभ्यः ये विदूरगामिनः ते एव हि
वेदान्तानाम् अध्ययनेन जातं विज्ञानमेव वेदान्तविज्ञानम् । वेदान्तविज्ञानेन हि यतीनाम् आत्मस्वरूपम् निश्चितम् अवगम्यते ।
ईदृशाः ब्रह्मज्ञानिनः जीवन्त एव अमृताः ब्रह्मस्वरूपाश्च जाताः । तथा हि शाङ्करभाष्यवाक्यम् 'जीवन्त एव ब्रह्मभूताः यतयः
<DOC_END>
<DOC_START>
नाप्रशान्ताय दातव्यं नापुत्राय अशिष्याय वा पुनः ॥ श्वेताश्वतरोपनिषत् ६-२२
पुराकल्पे परमं रहस्यम् आत्मज्ञानं वेदान्ते महर्षिभिः उपदिष्टमस्ति । अप्रशान्ताय अयोग्याय पुत्राय,
अभक्ताय शिष्याय वा नैतद् देयम् ॥
वेदान्तेषु ब्रह्मविद्या समुपदिष्टास्ति । नैषा सामान्या विद्या । किं तु रहस्यविद्या ह्येषा, परा विद्या हीयम् ।
मोक्षविद्या खल्वेषा ब्रह्मात्मविद्या श्रेष्ठविद्या ह्येषा इयं मङ्गलविद्या हि वेदान्तविद्या नाम पावनविद्या
सद्गुरुप्रसादादेव सम्पादनीया ब्रह्मात्मविद्या अनधिकारिभ्यो न प्रदातव्या ह्येषा विद्या गुरुभक्तिरहितेभ्यः
दुरभिमानिभ्यः नैव प्रतिपादनीया ब्रह्मविद्या । धनाभिमानेन अधिकारमदेन च प्रमत्तेभ्यः नैषा रहस्यभूता ब्रह्मविद्या
विक्रेतव्या । केवलं सच्छिष्येभ्यः एषा दातव्या । यतो हि बुद्धिकौशलबलेन नानुभवितव्या ब्रह्मविद्या ।
साधनसम्पन्नस्य उत्तमसंस्कारवतः मुमुक्षोः परिपक्वे अन्तः करणे सद्गुरुकृपया विकसमाना प्रकाशमाना हि एषा ब्रह्मविद्या ॥
<DOC_END>
<DOC_START>
नान्यः पन्था विद्यतेऽयनाय ॥ श्वेताश्वतरोपनिषत् ३-८
तमसः परस्तात्, आदित्यवर्णं, तं महान्तं पुरुषम् अहम् विदित्वा धन्योऽस्मि । हे मानवाः, तम्
आत्मानं ज्ञात्वा यूयमपि मृत्युं तरथ, अमृतत्वं प्राप्तुम् आत्मज्ञानात् मार्गान्तरं नास्त्येव ॥
परब्रह्म स्वस्वरूपत्वेन विज्ञाय कृतार्थस्य महर्षेः सानन्दः धीरः उद्गारोऽयम् । स्वयं परमात्मैव इति
अनुभूय ऋषिः एवम् उद्घोषयति । 'अहम् अदित्यवत् भास्वरूपम् आत्मानं दृष्टवानस्मि, अनेन ज्ञानेन
अहं कृतार्थोऽस्मि । अहो आत्मज्ञानस्य महिमा कियान् अहहा, आत्मज्ञानस्य फलम् अमृतत्वम् अद्भुतमिव' ॥
अनन्तरं च तस्य ज्ञानिनः सन्देशोऽयम् 'हे मानवाः इमम् आत्मानम् एवं ज्ञात्वा यूयमपि अमृतात्मानः भवथ,
आत्मज्ञानादेव युष्माकं मुक्तिः, कैवल्यम् । मोक्षाय अन्यः मार्ग एव नास्ति' ॥
<DOC_END>
<DOC_START>
न पुण्यपापे मम नास्ति नाशो
न जन्मदेहेन्द्रियबुद्धिरस्ति ॥ कैवल्योपनिषत् १-२२
अनेकैः वेदैः वेद्यः परमः आत्मा अहमेव, वेदान्तसम्प्रदायप्रवर्तकः अहमेव, वेदार्थरहस्यवित्
अहमेव; मम पुण्यपापे न भवतः, न जन्ममरणे मम स्तः, मम देहेन्द्रियबुद्धयः न सन्ति इत्येवं
ब्रह्मज्ञानिनाम् अज्ञानिनां च सामान्यजनदृष्ट्या न कोऽपि भेदो दृश्यते । बाह्यदृष्ट्या, व्यावहारिकदृष्ट्या
उभावपि समानौ । उभयोरपि आहारविहारवागादिव्यवहाराः समाना एव । तर्हि ब्रह्मज्ञानिनः विशेषः कः
इति चेत् । अयं मन्त्रः उत्तरं वदति ।
परब्रह्मैव अहम्, नाहं देहेन्द्रियाणि, पुण्यपापसम्बन्धो नास्ति मम जन्ममरणरहितोऽहम्; निर्गुणः
निरुपाधिकः निरवयवः परमात्मैव अहमस्मि- इति निश्चयानुभवसम्पन्नो ज्ञानी, ब्रह्मस्वरूपोऽयम्
<DOC_END>
<DOC_START>
फ्रांस्वा-मरी अरूएत लेखनीनामन् वोल्टेयर समीचीनतरज्ञात, एकः फ्रेंच प्रबोधनलेखक इतिहासविद् तार्किक च आसीत।
* अन्तः समर्थन स्वयम्, गुण स्वयम् अपकर्षति।
* प्रति क्षण सः मुछ् इच्छति, नर मुक्त अस्ति।
* सत्य कामयतु, परन्तु मिथ्यात्व क्षाम्यतु।
* अभिधेय एकः छिद्रस्य रहस्य सर्वं वद् अस्ति।
* एकः प्रत्युत्पन्नमति भषिन् न किमपि प्रमाणयति।
* समीचीनतर शोभनस्य रिपु अस्ति।
<DOC_END>
<DOC_START>
येन स्यात् कर्मणारुढः खट्वामनुशयी नरः ।
यः स्वस्य हितम् अपेक्षते तेन तादृशं कार्यं नैव कर्तव्यं यस्मात् अग्रे मञ्चे उपविश्य पश्चात्तापः करणीयः भवेत् ।
<DOC_END>
<DOC_START>
अक्षरसमाम्नायात् एव वाक्यसमाम्नायः ततः एव सम्पूर्णं वाङ्मयं रचितं भवति । इदमेव पुष्पितं, फलितं, चन्द्रतारकवत् प्रतिमण्डितं सत् ब्रह्मराशिरूपं (वेदराशिः) प्राप्नोति इति अवगन्तव्यम् । एवम् अस्य ज्ञानेन समग्रस्य वेदस्य पुण्यफलं प्राप्यते । इदं यः ज्ञास्यति तदीयौ मातापितरौ स्वर्गलोके पूजितौ भवतः ।
<DOC_END>
<DOC_START>
अक्षरं न क्षरं विद्यात् । न क्षीयते न क्षरतीति वाक्षरम् अश्नतु इत्यक्षरम् ।
यत् न नश्यति, यत् न क्षीयते तत् अक्षरम् । अथवा येन भाषा व्याप्ता भवति तत् अक्षरम् ।
<DOC_END>
<DOC_START>
अथ योऽवाग्योगवित् । अज्ञानं तस्य शरणम् ।
नात्यन्तायाज्ञानं शरणं भवितुमर्हति । यो ह्यजानन्वै
ब्राह्मणं हन्यात्सुरां वा पिबेत्सोऽपि मन्ये पतितः स्यात् । महाभाष्यम्, पस्पशा-पृ २
व्याकरणम् अजानन् कश्चन अपशब्दप्रयोगं यदि कुर्यात् तर्हि सः अपशब्दप्रयोगजन्यात् पापात् ग्रस्तः न भविष्यति । यतः तेन सः प्रयोगः अज्ञानेन कृतः न तु उद्देशपूर्वकम् । तस्मात् अज्ञानं तस्य रक्षकं भविष्यति ।
अज्ञानं रक्षकः भवति इत्येतत् कथनं न युक्तम् । अज्ञानं तं पूर्णतया न रक्षति । कश्चन अज्ञानेन ब्राह्मणहत्यां सुरापानं वा यदि कुर्यात् तर्हि अपि सः पतितः इत्येव यथा परिगण्यते तथैव अज्ञानेन अपशब्दप्रयोगः अपि दोषाय एव । दोषमुक्तः भवेत् इति चेत् तेन व्याकरणम् अवश्यम् अध्येतव्यम् ।
<DOC_END>
<DOC_START>
अतति सततं गच्छति इति अतिथिः आगन्तुः
यः सततं चलन् भवतः गृहम् आगच्छति सः अतिथिः ।
<DOC_END>
<DOC_START>
आलस्यं मैथुनं निद्रा इत्येतानि सेवनेन अधिकतया वर्धन्ते ।
<DOC_END>
<DOC_START>
देशः खल्वप्याम्नाये नियतः । श्मशाने नाध्येयं चतुष्पथे
नाध्येयमिति । कालः खल्वप्याम्नाये नियतः ।
शास्त्रेषु अध्ययनस्य स्थानं नियतं वर्तते । श्मशानेषु चतुष्पथेषु च अध्ययनं न कर्तव्यम् ।
अध्ययनस्य कालः अपि नियतः अस्ति । अमावास्यायां चतुर्दश्यां च अध्ययनं न कर्तव्यम् ।
<DOC_END>
<DOC_START>
य एष मनुष्यः प्रेक्षापूर्वकारी भवति सोऽध्रुवेण निमित्तेन
प्रेक्षापूर्वकारी प्रेक्षापूर्वं (प्रज्ञापूर्वकं) कार्यं कर्तुं शीलम् अस्य इति प्रेक्षापूर्वकारी ।
यः प्रज्ञापूर्वकं (विचारपूर्वकं) कार्याणि सम्पादयति सः स्वीयं शाश्वतं लक्ष्यम् अशाश्वतेन अपि निमित्तेन साधयितुम् अर्हति ।
<DOC_END>
<DOC_START>
अध्ययनात् विरामः छात्रेभ्यः अतीव रोचते । अतः एव छात्रः अनध्यायप्रियः इति कथ्यते ।
<DOC_END>
<DOC_START>
शिष्टाचारस्य शिष्टप्रयोगस्य च अनुकरणं साधु भवति ।
यस्तु खल्वेवमसौ ब्राह्मणं हन्त्येवमसौ सुरां पिबतीति
तस्यानुकुर्वन् ब्राह्मणं हन्यात्सुरां वा पिबेत् सोऽपि मन्ये
पतितः स्यात् । महाभाष्यम्, पस्पशा-पृ० २०;
यदि कश्चन ब्राह्मणं हन्यात्, सुरां वा पिबेत्, तर्हि तम् अनुसरण् एषः अपि ब्राह्मणं यदि हन्यात्,
सुरां वा पिबेत् तर्हि अयमपि पतितः भविष्यति । अतः अशिष्टस्य अनुकरणं दोषाय भवति ।
<DOC_END>
<DOC_START>
भवति वै प्रत्यक्षादप्यनु मानबलीयस्त्वम् । तद्यथा
प्रत्यक्षप्रमाणस्य अपेक्षया अनुमानं बलीयान् भवति । यथा अलातचक्रं तन्नाम अग्नियुतं काष्ठदण्डं
वर्तुलाकारेण भ्रामयाम चेत् अग्निवृत्तमिव दृश्यते किन्तु वस्तुतः तन्न विद्यते ।
<DOC_END>
<DOC_START>
असिद्धं बहिरङ्गमन्तरङ्गे) ‘कथम् प्रत्यङ्गवर्ती लोको
लक्ष्यते । तद्यथा-पुरुषोऽयं प्रातरुत्थाय यान्यस्य प्रति
अन्तरङ्गकार्यस्य आरम्भः यदा भवति तदा बहिरङ्गकार्यं निरस्तं भवति । लोके अपि एतद् दृश्यते ।
मनुष्यः प्रातः उत्थाय आदौ शौचदन्तधावनादीनि कार्याणि करोति । ततः घनिष्ठमित्राणां, तदनन्तरं
अन्येषां सम्बन्धीनां च कार्यं करोति ।
अन्तरङ्गमित्राणि अल्पापेक्षिणः भवन्ति । बहु अपेक्षां यः कुर्यात् तस्य आत्मीयता न्यूना भवति ।
<DOC_END>
<DOC_START>
अन्धानां मध्ये कश्चन काणः (एकनेत्रयुतः) यदि अस्ति, तर्हि सः एव
तेषां राजा भविष्यति । तन्नाम मूढानां मध्ये विद्यमानः अल्पज्ञानी एव तेषां प्रमुखः भविष्यति ।
<DOC_END>
<DOC_START>
पुत्रः अपत्यम् इति कथ्यते । अपतनात् अपत्यम् इति । पुत्रस्य उपस्थितेः कारणात् पितॄणां
पतनं न भविष्यति, ते दुःखं न अनुभविष्यन्ति इति कारणतः पुत्रः अपत्यम् इति निर्दिश्यते ।
इदं नाम अपतनगुणमेव प्रधानतया निर्दिशति ।
<DOC_END>
<DOC_START>
प्रायः लोके सर्वेषाम् अपि स्नेहिताः भवन्ति एव । बान्धवाः बहवः स्युः नाम, तथापि मित्राणि सन्ति चेत् एव तस्य नरस्य जीवनं सुखि जीवनम् । यतः यस्य मित्राणि भवन्ति तस्य जीवने सर्वविधसौख्यम् अपि भवति । मनुष्यस्य कष्टसमये मित्रं सान्त्वनवचनैः, अन्येन प्रकारेण वा साहाय्यम् आचरति । तत्रापि रुग्णावस्थायां, दारिद्र्यदशायां, देशान्तरनिवासप्रसङ्गे, दुःखावस्थायां च यदि मित्राणां दर्शनं भवति तर्हि तत् औषधमिव सर्वमपि कष्टं दुःखं च परिहरति ।
<DOC_END>
<DOC_START>
==व्रतं कृणुत ॥ (यजु ४-११
: वृतु वर्तने इति अस्य धातुः । नैरन्तर्येण यद् पाल्यते तत् व्रतम् । अहिंसा, सत्यम्, अस्तेयः, ब्रह्मचर्या, अपरिग्रहः, शौचम्, सन्तोषः, तपः (सद्गतिं दुर्गतिञ्च समानतया स्वीकरणम् स्वाध्यायः (आत्मपरिशीलनम्, वेदानुकूलग्रन्थानाम् अध्ययनम् ईश्वरप्रणिधानम् (भगवदर्पणम् एतानि एव महाव्रतानि । आजीवनम् अवश्यं पालनीयानि व्रतानि एतानि ।
<DOC_END>
<DOC_START>
शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् ॥ तैत्तिरीयोपनिषत् १-४
मम शरीरं नीरोगं सत् आत्मज्ञानप्राप्तियोग्यं भवतु । मम जिह्वा मधुमती भवतु । अहं कर्णाभ्यां
मुमुक्षुसाधकः प्रणवस्वरूपं परमात्मानम् अस्मिन् मन्त्रे एवं प्रार्थयते । 'भोः परमात्मन्, मम शरीरं
रोगवर्जितं सत् आत्मज्ञानप्राप्तियोग्यं भवतु ।' आत्मज्ञानमेव मानवशरीरस्य, मानवजन्मनः परमं प्रयोजनम् ।
आरोग्यं हि न विषयभोगाय, किं तु आत्मज्ञानाय । आरोग्ये सत्येव खलु श्रवणादिद्वारा ज्ञानप्राप्तिर्भवति ?
दैवदत्तया जिह्वया नाहं कञ्चिदपि निन्देयम् । मनुष्याय भगवता दत्ता महति सम्पत् नाम जिह्वा । अनया
रसनया मधुरमेव वचः अहं वदेयम् । श्रोत्राभ्यां सदा अहं वेदान्तसन्देशमेव शृणुयाम् । ब्रह्मैवेदं विश्वम्, आमैवेदं
सर्वम्, अहं ब्रह्मास्मि, ईशावास्यमिदं सर्वम्- इत्यादिरूपान् पवित्रान् वेदान्तसन्देशानेव वयं सर्वदा शृणुयाम
इति हि मुमुक्षोः प्रार्थना ॥
<DOC_END>
<DOC_START>
शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥
शरीरस्य सद्गुणानाञ्च महदन्तरं विद्यते । शरीरं नाशं प्राप्नोति । किन्तु गुणानां कल्पान्ते अपि विनाशः न भविष्यति ।
<DOC_END>
<DOC_START>
==शिक्षा णो अस्मिन् पुरुहूत यामनि ॥ ऋग्वेदः ७-३२-२६
हे अत्यन्तस्तुत्य जीवनपथे अस्मभ्यं शिक्षणं देहि ।
: भवतः गुरुः कः कश्चन जनः । तस्य गुरोः गुरुः कः अपरः जनः । अस्याः प्रश्नावल्याः अन्त्यं कुत्र आदिगुरुः सः परमात्मशक्तिः । शुद्धान्तःकरणस्य परमात्मज्ञानं स्फुरति । अन्येभ्यः मूलेभ्यः प्राप्तस्य ज्ञानस्य अपेक्षया इदं ज्ञानम् उत्कृष्टं भवति । अस्माभिः अन्विष्यमाणः आनन्दः यदि प्राप्तव्यः तर्हि तस्य परमगुरोः मार्गदर्शनानुसारम् अस्माकं जीवनं भवेत् । किंकर्तव्यमूढस्थितौ सर्वैः सः भगवान् एव आहूयते नामानि विभिन्नानि स्युः, किन्तु भावः एकः एव मानवाः स्वीयं जीवनपथं मानवधर्मस्य आधारेण एव अभिजानीयुः । मानवीयतायाः सारः सकलजीविनां विषये अनुकम्पः, अहिंसा, प्रेम, त्यागः, मैत्री च । आत्मा भिन्नः, शरीरं भिन्नम् । आत्मनः साधनम् इदं शरीरम् । इदं साधनं पुरातनं यदि भवेत् तदा इदं परित्यज्य (मरणम्) नूतनं साधनं (जन्म) स्वस्य योग्यतानुसारं प्राप्नोति अयम् आत्मा । अतः मरणात् भीतिः अनुभोक्तव्यः नास्ति किंकर्तव्यतामूढस्थितौ एते विषयाः यदि स्मर्यन्ते तर्हि कश्चन प्रकाशः दृश्येत एव । इदमेव शिक्षणम् इति कथ्यते ।
<DOC_END>
<DOC_START>
==शिवा स्योना पतिलोके वि राज ॥ अथर्ववेदः १४-१-६४
कल्याणकारिणी प्रशंसनीया च सती पत्युः गृहे विराजताम् ।
: स्त्री द्वितीयस्तरीयप्रजा इव दर्शनं जगतः महान् रोगः । महिलां कामवस्तुमात्रम् इव, पुत्रप्रसूतियन्त्रमात्रम् इव, गृहदासीमात्रम् इव भावयन् व्यवहरति अयं पुरुषप्रधानः समाजः । स्त्रीभ्रूणहत्यायाः विषये अयं समाजः निस्स्पन्दः विद्यते । बहुभ्यः शतकेभ्यः समाजः एवमेव विद्यते । इदं विरुद्ध्य कार्यं कुर्वत् स्त्रीविमोचनान्दोलनमपि तावदेव पुरातनम् वैदिकचिन्तनमात्रेण एव अस्याः समस्यायाः परिहारः साध्यः । 'पत्युः गृहे पतिता भव' इत्येषा यस्मिन् समाजे अलिखिता नीतिः वर्तते तस्मिन् 'सम्राज्ञी सती विराजताम्' इत्येतत् वचनं क्रान्तिकारि एव भवेत् । किन्तु तच्च स्थानं प्राप्तुं सा कुटुम्बस्य श्रेयसे परिश्रमं कुर्यात् । आग्रहेण न । प्रीति-विश्वास-त्यागादिभिः । कुटुम्बनिर्वहणे पतिपत्न्योः समानं पात्रं भवति । तयोः स्नेहसम्बन्धः दृढः यदि भवेत् तर्हि सा अस्याः प्रशंसायाः निमित्तम् अर्हतां प्राप्नुयात् । अन्ये अपि हृत्पूर्वकं तां प्रशंसेयुः ।
<DOC_END>
<DOC_START>
==शुनं कृषतु लाङ्गलम् ॥ अथर्ववेदः ३-१७-६
: अन्नेन विना न कोऽपि जीवी जीवति । मानवेतरजीविनः प्रकृतौ सहजतया उपलभ्यमानान् आहारान् अन्विष्य तान् खादन्तः जीवन्ति । एकत्र जीवन् मानवः स्वेन अपेक्षितम् आहारं वर्धयितुम् अर्हति । कृषिः जीवनस्य अविभाज्यम् अङ्गं वर्तते । तन्निमित्तं विविधानि उपकरणानि अपेक्षन्ते । सर्वेषां कृष्योपकरणानां प्रतिनिधिः अस्ति हलः । कृषिः समीचीना चेत् आहारसमृद्धिः, सकलजीविनां समाधानं भविष्यति । रिक्तोदरं मात्सर्यापराधानां हेतुः भवति । उपदेशः, अध्यात्मबोधनञ्च उदरं न पूरयन्ति जीविका कापि स्यात् नाम, कस्यापि उत्पादनं क्रियमाणं स्यात्, किन्तु बुभुक्षायां सत्यां कृष्योत्पन्नः आहारः एव अपेक्षते
: किन्तु अद्यत्वे कृषेः नाम्ना वाणिज्यमेव दृश्यते । तन्निमित्तं तीव्रयान्त्रीकरणं, सम्पन्मूलानां दुरुपयोगश्च सर्वेषाम् अनर्थानां कारणं जातमस्ति । भूमिः, वायुः, जलम्, आहारादयः सर्वे विषमयाः जाताः सन्ति । आधुनिकतन्त्रज्ञानयुगे कृषकस्य, कृषेः च अवगणनं दृश्यते । अचिरात् जागरा प्राप्तव्या ।
<DOC_END>
<DOC_START>
श्रद्धया देयम् । अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् ॥ तैत्तिरीयोपनिषत् १-११
श्रद्धया देयम्, अश्रद्धया न देयम्; सम्पदानुगुण्येन देयम्, ह्रिया देयम्, भयेन देयम् । ज्ञात्वा एव देयम् ॥
वेदेषु यज्ञदानतपांसि विहितानि सन्ति । गृहस्थैः अवश्यम् एतानि अनुष्ठेयान्येव । प्रकृतमन्त्रे दानस्य विचारः क्रियते ।
श्रद्धया दानं कर्तव्यम् । गुरुशास्त्रवाक्येषु विश्वासः श्रद्धा शास्त्रीयेषु कर्मसु श्रद्धा एव प्रधानम् । अतः श्रद्धयैव हि शास्त्रीयाणि कर्माणि कर्तव्यानि ॥
दानम् अश्रद्धया कृतं चेत् भस्मनि हुतं हविरिव व्यर्थं भवति । अतः अश्रद्धया दानं न कर्तव्यम् । सम्पदम् अनुसृत्य देयम् ।
श्रीमता अधिकमेव देयम् । दरिद्रेण तु स्वसामर्थ्यानुगुण्येन दातव्यम् । सङ्कोचस्वभावेन भयभक्त्या देयम् । दानेन सर्वपापक्षयः,
दानेन सर्वकामावाप्तिः । अश्रद्धया हुतं दत्तं तपस्तप्तं चेत् सर्वं तत् निष्फलमेव भवति । अतः श्रद्धयैव दानं कर्तव्यम् ॥
<DOC_END>
<DOC_START>
==श्रद्धया विन्दते वसु ॥ ऋग्वेदः १०-१५१-४
: रूढौ श्रद्धा नाम स्वीकृतं कार्यं पूर्णमनसा निरन्तरं करणम् इति । धनसम्पादनस्य उद्देशेन एवं यदि कार्यं क्रियेत तर्हि श्रद्धया सम्पत्तिः सम्पादिता इति वक्तुं शक्येत । किन्तु, श्रत् धा श्रद्धा । श्रत् नाम सत्यम् इति । तस्य धारणमेव श्रद्धा इति । सत्यमार्गेण एव सम्पत्तिः सम्पादनीया इत्येतत् अस्याः उक्तेः तात्पर्यम् । सम्पत्तेः सम्पादनं यावत् प्रमुखं तावदेव प्रमुखं भवति तस्याः सम्पादनमार्गः अपि । दुर्मार्गेण अर्जिता सम्पत्तिः दुःखरोगादीनां हेतुः भवति । तच्च धनं वैद्याय, न्यायवादिने, आरक्षकेभ्यः दातव्यं भवति । अस्माकम् अभिवृद्धै न भवति । तादृश्या सम्पत्त्या किं प्रयोजनम् ?
: ’वसु’ इत्यस्य अर्थः ऐश्वर्यमात्रं न । अस्य धातुः ’वस निवासे’ इति । यया दृढता, सुरक्षा प्राप्येत तादृशी सम्पत्तिः इत्यर्थः । सम्पत्तेः सम्पादनेन मनसः समाधानं भवेत्, शान्तिः भवेत् । सम्पादितस्य रक्षणं सुलभं स्यात् । यावदपेक्षितं तावदेव यदि भवेत् तदा एव इदं साध्यम् । न्याय्येन सत्येन च मार्गेण तावदेव प्राप्यते
<DOC_END>
<DOC_START>
श्रद्धा-भक्ति-ध्यानयोगाद् अवेहि । कैवल्योपनिषत् १-२
तत्त्वविजिज्ञासुः साधकः श्रद्धया, भक्त्या, ध्यानयोगेन च परं ब्रह्म जानीयात् ।
आत्मानं सम्यक् अवगन्तुम् अत्र मन्त्रे साधकानां श्रद्धा, भक्तिः, ध्यानयोगः इति त्रीणि साधनानि
उपदिष्टानि । एतेषां साधनानाम् अर्थं पश्याम ॥
श्रद्धा नाम गुरुशास्त्रवाक्येषु विश्वासः । सद्गुरूणामुपदेशे जिज्ञासोः पूर्णविश्वासो भवेत्, वेदान्तशास्त्रसन्देशेषु
अस्माकम् आदरः, प्रीतिः, विश्वासश्च भवेयुः ॥
भक्तिर्नाम परमात्मनि सद्गुरौ च गौरवाधिक्यम् । सद्गुरौ भक्तिरहितस्य आत्मज्ञानं नैव उदेति । गुरुसेवा
गुरुभक्तिश्च खलु ज्ञानप्राप्तेः प्रधानं साधनम् ॥
ध्यानयोगो नाम आत्मनः अनुसन्धानमेव । चित्तशुद्ध्या हि आत्मनः ज्ञानं जायते, न तु केवलेन
एवं त्रिभिस्साधनैः साधकः परं ब्रह्म विज्ञाय कृतार्थो भवति ॥
<DOC_END>
<DOC_START>
[[श्री अरविन्दः १५ आगस्ट् १८७२ ५ डिसेम्बर् १९५०) भारतीयराष्ट्रवादी, विद्वान्, कविः, तत्त्वशास्त्रज्ञः, योगी, अध्यात्मगुरुश्च आसीत् ।
* भारतस्य उत्थानम् अवश्यम्भावि अस्ति । अत्र प्रवर्तमाना: सर्वा: घटना सर्वा: प्रतिकूलता सर्वाणि कष्टानि चापि साधनानि एव । लक्ष्यप्राप्तये उपकारकाणि भवन्ति तानि । सूर्योदय: जायमान: अस्ति । प्रकाश: यदा उदित: भवति तदा अन्धकार: सम्पूर्णतया विलयं गच्छति । भारतभाग्यसूर्योदय: अवश्यं भविष्यति, यश्च स्वस्य आध्यात्मिकप्रकाशं भारते प्रसारयिष्यति, तेनैव सह, समग्रं विश्वं तेन प्रकाशेन आप्लावयिष्यति च ।
* अष्टादश-नवदश-शताब्दीकाले भारतीयसंस्कृत्या अवनते: पराकाष्ठा एव सम्प्राप्ता आसीत् । एष: इदानीं तादृश: सन्ध्याकाल: अस्ति, यत्र भारतीय-धारणानुगुणं नवयुगस्य शुभारम्भ: भवेत् । एष: तादृश: क्षण यत्र च बलात् आरोपित: युरोपीयसंस्कृतिभार: पुनर्जागरणम् अनिवार्यम् अकरोत् । यदा भारतस्य पुनर्जागरणं पूर्णत: सम्पद्येत तदा तादृशं चैतन्यं प्राप्येत, यच्च जर्मनीयचैतन्यवत् क्रूरं न भवेत्, प्रत्युत तत् भारतीयात्मतत्त्वस्य वास्तविकस्वभाव- सामर्थ्यानुगुणं भवेत् । (प्रस्तावना, मा. दत्तोपन्तठेङ्गडी, पृ. 347)
*केचन उदात्ता: महान्त: गहना: विचारा: अस्माकं मनसि सन्ति । वयं भारतस्य आत्मन: आवश्यकताया: च अनुरूपां शिक्षाप्रणालीम् अन्विष्यन्त: स्म: । सा अतीतं प्रति, भारतस्य विकसन्तम् आत्मानं प्रति, तस्य भविष्यस्य आवश्यकतां प्रति, तस्य भाविनीं स्वयंसृष्टि प्रति, तस्य सनातनचैतन्यं प्रति च प्रगाढाम् आस्थां निर्मेयात् ।
* उत्तिष्ठ भो जागृहि सर्जयाग्नीन्
:साक्षाद्धि तेजोऽसि परस्य शौरेः ।
:शत्रून् हुताशेन दहन्नटस्व ॥ (भवानी भारती १८)
<DOC_END>
<DOC_START>
श्रीमाता श्री अरविन्दस्य शिष्या । सा भारतस्य पुदुचर्याम् अरविन्दस्य आश्रमे तिष्ठन्ती बहूनां जनानाम् आध्यात्मिकमार्गदर्शनं कृतवती ।
*विश्वस्य हिताय भारतस्य रक्षणं करणीयम् अस्ति । यतः भारतम् एकमेव विश्वे शान्तिं नवव्यवस्थां च उपस्थापयितुम् अर्हति । भारतस्य भविष्यं सुस्पष्टम् अस्ति । भारतं जगतः गुरुः अस्ति । विश्वस्य भाविसङ्घटनं भारतम् अवलम्बते । भारतं जीवन् आत्मा इव । विश्वे आध्यात्मिकज्ञानस्य मूर्तिमत्त्वं कल्पयत् अस्ति भारतम् ।
*सङ्कटे उपस्थिते सत्येव मनुष्यः स्वस्वभावगतां वास्तविकीं साहसप्रवृत्तिं प्रकटयति । कष्टपरम्परायां प्राप्तायां सः हार्दां निष्ठां प्रकाशयितुम् अर्हति ।
*एतस्य देशस्य नदी-नद-पर्वत-वन-नगरमात्राणि भारतं न । अत्रत्यानां कोटिशः जनानां नाम अपि भारतम् इति न । यदि भारतवासिनः एतं देशं परित्यज्य अन्यत्र कुत्रापि वसेयुः तर्हि सः प्रदेशः भारतं न भविष्यति । भारतमाता शिवविष्ण्वादिवदेव काचित् देवता । एषः देशः तस्याः शरीरम् इति वक्तुं शक्यम् ।
<DOC_END>
<DOC_START>
श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको
ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य ॥ तैत्तिरीयोपनिषत् २-८-३
श्रोत्रियस्य अकामहतस्य साधकस्य प्रजापतिशतगुणः आनन्दः लभ्यते । परब्रह्मणः एकोंऽशः
आनन्दोऽयम् । अयम् आनन्दः श्रोत्रियस्य अकामहतस्य साधकस्य प्राप्यते ॥
अयं भागः ‘आनन्दमीमांसा’ इति कथ्यते । मानवानन्दात् आरभ्य शतगुणम् अधिकम् उत्तरोत्तरम्
आनन्दाः उपदिश्यन्ते । देवानाम् आनन्दः, इन्द्रस्य आनन्दः, बृहस्पतेरानन्दः; प्रजापतेरानन्द पर्यन्तं
शतगुणम् आनन्दः अधिको भवति । इमान् आनन्दान् अत्रैव जन्मनि अनुभवितुम् इच्छति चेत् सः इमाम्
::१. श्रोत्रियो भवेत् । शास्त्रोक्तकर्मानुष्ठानतत्परो भवेत् ।
::२. अकामहतो भवेत् । नीचविषयभोगेभ्यः विरक्तः सन् तुच्छविषयभोगेभ्यः दूरस्थो भवेत् ।
::३. अवृजिनो भवेत् । शास्त्रनिषिद्धपापकर्मविदूरो भवेत्
<DOC_END>
<DOC_START>
श्वोभावा मर्त्यस्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः । काठकोपनिषत् १-१-२६
भो मृत्यो, एते भोगराशयः सर्वेऽपि अनित्या एव । तथा एते भोगाः इन्द्रियशक्तीः नाशयन्त्येव ॥
नचिकेतसः मुखात् निर्गतोऽयम् उद्गारः सकलमुमुक्षूणामपि बीजमन्त्रवत् विद्यते । ये मुमुक्षवः इमं
बीजमन्त्रं जपन्तः अस्य अन्तरार्थं सदा अनुसन्दधते, तेषां विवेकवैराग्योदयद्वारा अवश्यमेव चित्तशुद्धिर्जायते,
तदनन्तरं वेदान्तवाक्यार्थविचारेण नूनम् आत्मज्ञानं जायते ॥
श्रोत्र त्वक् नेत्र जिह्वा घ्राणानि पञ्च ज्ञानेन्द्रियाणि । तेषां शब्दस्पर्शरूपरसगन्धाः पञ्च विषयाः । विषयानुरक्तिरूपाः
इमे भोगाः सर्वेन्द्रियाणां पटुत्वशक्तिं नाशयन्ति इति विवेकिनो नचिकेतसः आशयः । मुमुक्षोः बीजमंत्रोऽयं भवति ।
इन्द्रियभोगानुरागमग्नस्य जन्म व्यर्थमेव । अन्ते च अयं सर्वनाशमेव एति । तस्मात् मुमुक्षुः विषयभोगेभ्यः विरक्तः
सन् सदा वेदान्तार्थमेव मननं कुर्यात् । इयमेव हि विवेकिनो मुमुक्षोः विचारधारा ॥
<DOC_END>
<DOC_START>
कर्तुं न अर्हति । परिश्रमेण विना फलप्राप्तिः नैव शक्यम् ।
<DOC_END>
<DOC_START>
स एतमेव सीमानं विदार्य एतया द्वारा प्रापद्यत । ऎतरेयोपनिषत् १-३-१२
आत्मा एतमेव सीमानं विदार्य एतया द्वारा इमं देहं प्राविशत् ।
कार्यकरणसंघातमिमं सृष्ट्वा ततः परमात्मा 'कथमहम् इमं संघातं प्रविशानि इति
चिन्तितवान् । परमात्मा नाम स्वतन्त्रः महाराज इव । भूपतिः आत्मने महाप्रासादं निर्मापय्य
राजद्वारेण प्रासादं सानन्दं प्रविशति खलु ?
तथैव परमात्मा अपि इमं देहं सीम्ना प्राविशत् किल । परमात्मनि असति अस्य जडस्य देहस्य
किं वा मौल्यम् आत्माभावे अयं सङ्घातः देवविहीनदेवमन्दिरवत्, गुरुरहितमठवत्,
राजविहीनराज्यवच्च जीर्णः नष्टो भवति । अतः ‘कथमहं प्रविशानि’ इति सः आलोचयत् ।
देहमिमं प्रवेष्टुं पादः सीमा च इति द्वारद्वयमस्ति । आत्मा हि प्रधानः मुख्यश्च तस्मात्
सीमानं भित्वा तद्द्वारा इमं देहं परमात्मा प्रविष्टवान् । अयमेव आत्मा अस्मिन् देहे
उपाधिसम्बन्धेन जीवत्वेन संसारित्वेन च अवभासते । उपाधिसम्बन्धपरित्यागे अयं जीवः परमात्मैव भवति ॥
<DOC_END>
<DOC_START>
स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् ।
ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ कैवल्योपनिषत् १-९
भूतं, भवत्, भविष्यत्- इत्येतत् सर्वमपि आत्मैव । तादृशं परमात्मानं ज्ञात्वा मृत्युमत्येति ।
मोक्षस्य अन्यः पन्था नास्ति ॥
मोक्षो नाम मरणात् मुक्तिः । आत्मज्ञानस्य फलमेव मुक्तिः । ज्ञानं नाम ब्रह्मज्ञानमेव । ब्रह्मैवाहमस्मि
इति ज्ञानमेव ब्रह्मज्ञानम् । ‘ब्रह्मज्ञानिनः मरणं नास्ति, ब्रह्मज्ञानी न म्रियते, ब्रह्मज्ञानिनः मरणभयं
नास्ति’ इति श्रुतयः पुनः पुनः उद्घोषयन्ति । अस्य रहस्यस्य आशयम् अयं मन्त्रः उपदिशति ॥
ब्रह्म नाम न हि कश्चित् देवः । देवाः देशकालपरिच्छिन्नाः । देवताः नामरूपैः संसारबन्धनैः परिच्छिन्नाः ।
ब्रह्म तु न देशकालनामरूपैः परिच्छिद्यते । तदा अद्य श्वः इति कालत्रयम्, तत्र अत्र इति देशं च अतीत्य
परिशुद्धतया परं ब्रह्म अस्माकं स्वरूपतयैव अवतिष्ठते । एवंविजानतो धीरस्य कस्मात् कुत्र कथं वा
भयप्राप्तिर्भवेत् । मोक्षस्य राजमार्गोऽयम् ॥
<DOC_END>
<DOC_START>
स एवं विद्वान् अस्मात् शरीरभेदात् ऊर्ध्वः उत्क्रम्य अमुष्मिन् स्वर्गे लोके सर्वान्
कामान् आप्त्वा अमृतः समभवत् समभवत् ॥ ऎतरेयोपनिषत् २-१-६
स वामदेवमहर्षिः एवं ज्ञात्वा शरीराभिमानात् ऊर्ध्वम् उत्क्रम्य तत्र स्वर्गलोके सर्वान् कामान् लब्ध्वा अमृतः समभवत् ।
वेदेषु उपनिषत्सु हि वामदेवमहर्षेः परामर्शः तत्र तत्र दृश्यते । सः मातृगर्भस्थः सन् एव सर्वात्मभावरूपम् आत्मज्ञानं लब्ध्वा कृतार्थः समभवत् ॥
आत्मज्ञानस्य फलं नाम अमृतत्वप्राप्तिः । आत्मज्ञानेन सर्वकामावाप्तिरूपं फलं भवति, आत्मकामः आप्तकामः अकामो भवति ।
आत्मज्ञानेन अमृतो भवति, मुक्तो भवति, आप्तसर्वकामश्च भवति । आत्मज्ञानेन सर्वात्मभावः प्राप्यते । ‘आत्मैव सर्वम्’ इति
निश्चिते ज्ञाने उदिते सति पुनः प्राप्यतया कामाः अवशिष्यन्ते किम् नैव । तस्मात् वामदेववत् इदानीमपि आत्मज्ञानात् अमृतत्वं
प्राप्य वयमपि कृतार्था भवेम । आत्मज्ञानेन ब्रह्मानन्दं लब्ध्वा सर्वेऽपि वयम् मुक्ता भवेम ॥
<DOC_END>
<DOC_START>
==स एष एक एकवृदेक एव ॥ अथर्ववेदः १३-४-२०
परमात्मशक्तिः एका एव । निश्चयेन एका एव ।
: इतोऽपि स्पष्टोक्तिः कथं शक्येत इदमेव वचनं महात्मानः काले काले उद्घोषितवन्तः सन्ति ।
: तथापि कोट्यधिकाः देवदेवताः परिकल्प्य तेषां रूपाकाराधिकम् आरोप्य ताः अस्माभिः एव निर्मितेषु भवनेषु बन्धीकृत्य विविधान् व्यवहारान् निर्वहन्तः स्मः । तेभ्यः अपि पति-पत्नी-सुतादीन् परिकल्प्य कल्याणोत्सव-पूजादीः निर्वर्तयन्तः उदरम्भरणं कुर्वन्तः स्मः । तस्मै उत्कोचदानपूर्वकं पापनिवारणे, पुण्यसम्पादने च नितराम् उद्युक्ताः स्मः । देवस्य नाम्ना क्रियमाणैः एतैः सर्वैः अव्यवहारैः अलम् । उत्तमरीत्या मानवसेवां जनसेवां च कुर्वन्तः पुण्यं सम्पादयेम । कृतस्य पापस्य फलम् अनुभूय ऋणात् मुक्ताः भवेम । देवतानां मतसम्प्रदायादीनां नाम्ना क्रियमाणम् अशान्तेः प्रसारं स्थगयेम ।
<DOC_END>
<DOC_START>
स प्राणम् असृजत, प्राणात् श्रद्धां खं वायुः ज्योतिः आपः पृथिवी इन्द्रियं मनः ।
अन्नम् अन्नात् वीर्यं तपो मन्त्राः कर्म लोकाः लोकेषु नाम च ॥ प्रश्नोपनिषत् ६-४
सः पुरुषः प्राणम् असृजत, प्राणात् श्रद्धाम् आकाशं, वायुम्, ज्योतिः, आपः पृथिवीम्, इन्द्रियं,
मनश्च असृजत । अन्नम् सृष्ट्वा, अन्नात् वीर्यम्, तपः, मन्त्रान्, कर्म, लोकान् सृष्ट्वा, लोकेषु नाम सृष्टवान् ।
परमात्मा स्वतः निष्कलः इति उपनिषदः प्रतिपादयन्ति । निष्कलो नाम षोडशाकलासम्बन्धरहितः ।
कास्ताः षोडश कलाः इति पृष्टे प्रश्नोपनिषत् दर्शयति । ताः षोडश कलास्तु एताः –
१)हिरण्यगर्भः प्राणः, सर्वप्राणिकरणात्मा अयम् २) श्रद्धा, शास्रीयधर्मानुष्ठानसमये अपेक्ष्यः धर्मः
३) आकाशः ४) वायुः ५) तेजः ६) आपः ७) भूमिः ८) ज्ञानेन्द्रिय कर्मेन्द्रियाणि ९) मनः
१०) अन्नम् ११) वीर्यम् १२) तपः १३) मन्त्राः १४) अग्निहोत्राणि कर्माणि १५) स्वर्गादिलोकाः
१६) नामानि । इत्येताः षोडश कलाः परस्मादेव ब्रह्मणो जायन्ते ॥
<DOC_END>
<DOC_START>
स य एवंवित् । अस्मात् लोकात् प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रामति । एतं
प्राणमयम् आत्मानमुपसङ्क्रामति । एतं मनोमयम् आत्मानमुपसङ्क्रामति । एतं
विज्ञानमयमात्मानम् उपसङ्क्रामति । एतम् आनन्दमयमात्मानम् उपसङ्क्रामति ॥ तैत्तिरीयोपनिषत् २-८-५
आत्मवित् ज्ञानी अस्मात् लोकात् प्रेत्य अन्नमयम् आत्मानम् उपसङ्क्रामति, अनन्तरं प्राणमयं
मनोमयं, विज्ञानमयम् आनन्दमयं च आत्मानम् उपसङ्क्रामति ।
‘ब्रह्मवित मोक्षम् आप्नोति’ इति हि तैत्तिरीयोपनिषत् प्रारम्भे उपदिशति । यः ब्रह्म आत्मत्वेन जानीयात्
सः ब्रह्मैव विन्दते इति प्रारभ्य अत्र उपनिषदि अन्नमयः, प्राणमयः, मनोमयः, विज्ञानमयः, आनन्दमयश्च
इति अनात्मभूताः पञ्चकोशाः उपदिष्टाः । पञ्चाप्येतान् कोशान् आत्मज्ञानी अतीत्य पञ्चकोशास्पदे पञ्चकोशविलक्षणे
आत्मस्वरूपे तिष्ठति । यतः एते कोशा अनात्मभूताः । आत्मज्ञान बलेन पञ्चकोशातीतः आत्मवित् ब्रह्मण्येव
अवतिष्ठते । अयं हि जीवन्मुक्तः, कृतकृत्योऽयम् ॥
<DOC_END>
<DOC_START>
स य एषोऽणिमा ऐतदात्म्यमिदं सर्वं तत् सत्यं स आत्मा
तत्त्वमसि श्वेतकेतो । छान्दोग्योपनिषत् ६-८-७
सः अयमात्मा अणिमा । अस्य समस्तस्यापि जगतः अयम् आत्मैव
सारभूतः । अयमात्मैव सत्यम् । स एव आत्मा सर्वेषाम् आत्मभूतः ।
हे श्वेतकेतो, तदेव ब्रह्म त्वमसि ॥
अस्मिन् मन्त्रे “तत्त्वमसि” इति महावाक्यं दृश्यते । सामवेदस्य सारभूतमिदं
“तत्त्वमसि” महावाक्यम् । ऋग्वेदीय ऎतरेयोपनिषदः सारत्वेन प्रज्ञानं ब्रह्म;
यजुर्वेदीय बृहदारण्यकोपनिषदः सारत्वेन अहं ब्रह्मास्मि; सामवेदीय
छान्दोग्योपनिषदः सारत्वेन “तत्त्वमसि”; तथा अथर्ववेदीय माण्डूक्योपनिषदः
सारत्वेन “अयमात्मा ब्रह्म” एवं चतसृषु उपनिषत्सु चत्वारो मन्त्राः
“सत् चित् आनन्द स्वरूपं ब्रह्मैवासि त्वम्” इति एतानि महावाक्यानि
प्रतिपादयन्ति । जीवस्य संसारित्वं जीवत्वम् अविद्याकल्पितम्, आविद्यकम् ।
ब्रह्मात्मत्वं स्वाभाविकम् इति इमानि महावाक्यानि प्रतिपादयन्ति ॥
<DOC_END>
<DOC_START>
स य एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः ।
अमृतो हिरण्मयः ॥ तैत्तिरीयोपनिषत् १-६
हृदयस्य अन्तः यः प्रसिद्धः आकाशः अस्ति, तस्यान्तः मनोमयः पुरुषो विद्यते । अयं पुरुषो
प्रतिप्राणि हृदयमिति विद्यते एव । एतद् हृदयं तस्य प्राणिनः मुष्टिप्रमाणं विद्यते । तस्य अन्तः यः
आकाशः सः हृदयाकाशः, चित्ताकाशः इति कथ्यते । अयं हि अत्यन्तसूक्ष्मः चित्ताकाशः ।
अस्मिन् अन्तः आत्मा वर्तते । अस्य आत्मनः मनोमयः आत्मा इति नाम । एषः अत्यन्तं सूक्ष्मः ।
अत एव अयं प्रमाणागोचरश्च ॥
ईदृशम् आत्मानम् उपासीत । अयमात्मा अमृतः इति हिरण्मयः इति च साधकः उपासीत ।
अयमात्मा अमृतो नाम मरणरहितः हिरण्मयः इति हिरण्यवत् नित्यशुद्धचैतन्यस्वरूपः इत्यर्थः ।
स्वस्मिन्नेव विद्यमानम् आत्मानम् एकाग्रतया उपासीत । इमं मनोमयमात्मानमेव परब्रह्मत्वेन उपासते
चेत् तादृशः उपासकः मरणानन्तरं ब्रह्मलोकं गच्छति ॥
<DOC_END>
<DOC_START>
स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ॥ तैत्तिरीयोपनिषत् ३-१०-६
अस्मिन् पुरुषे यः आत्मा अस्ति, आदित्ये च यः
आत्मा अस्ति सः एक एव ।
उपाधिषु उच्चनीचभावः भवेत्, उपहितं तत्त्वं तु एकमेव
भवति । शर्करया निर्मिताः मधुराः पदार्थाः भिन्नभिन्नैः
नामरुपाकारैः अवभासन्ते । मैसूर्पाक्, जामून्, लाडु, जिलेबि
इत्याद्याः खाद्याः नामरूपैः परस्परं भिन्नाः । अपि तु
सर्वेष्वपि एतेषु खाद्येषु समाना सारभूता शर्करा एव,
माधुर्यमेव । माधुर्ये भेदो नास्ति ॥
एवमेव आत्मा एक एव, उपाधिषु उच्चनीचभावो दृश्येत ।
अस्मिन् पुरुषे मनुष्ये; पुरुषो नाम क्रिमिकीटादिः जीवः इत्यपि
भवेत्; तस्मिन् । तथा आदित्ये सूर्ये हिरण्यगर्भे ।
अस्मिन् सामान्ये मुनुष्ये तथा अतिश्रेष्ठे आदित्ये ।
द्वयोरपि उपाध्योः विद्यमानः आत्मा तु समः, एकः निर्विशेषः,
परिपूर्णश्च । निरुपाधिकः निरवयवश्च आत्मा अहमेवेति
यो विजानाति स एव ब्रह्मज्ञानीति कथ्यते ॥
<DOC_END>
<DOC_START>
स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति । मुण्डकोपनिषत् ३-२-९
यो वा को वा भवतु, तद् ब्रह्म आत्मत्वेन जानाति चेत्, सः ब्रह्मैव भवति ॥
इमं सन्देशं धैर्येण अत्यन्तसुन्दरतया, साक्षात् सरलतया च मुण्डाकोपनिषत् उपदिशति । कथमिति
ब्रह्मविदः ब्रह्मप्राप्तिरेव फलम् इति, अस्यैव मोक्षः इत्यपि नाम । सकलवेदान्तानां सकलशास्त्राणां च इदमेव तात्पर्यम् ॥
अनात्मवस्तुविदः तत्तद्वस्तुत्वरूपं फलं न हि भवति । यस्मात् तस्य नामैव अनात्मवस्तु इति । न हि तानि
अनात्मवस्तूनि अस्माकं स्वरूपं भवेत् । परं ब्रह्म तु ब्रह्मविदः स्वरूपमेव । अतः ब्रह्मवित् ब्रह्मैव भवति ॥
परं ब्रह्म अहमेवेति ज्ञानमेव हि आत्मज्ञानं नाम । सर्वेणापि सुसम्पाद्यमिदम् आत्मज्ञानम् । आत्मज्ञानं तथा मोक्षः ।
उभयमपि सर्वप्राणिनाम् आजन्मसिद्धा सम्पत् । येन केनापि मधुरे भक्ष्ये भक्षिते सति यथा माधुर्यम् अग्निं स्पृष्टवतां
सर्वेषां यथा दाहः तथैव ब्रह्मणि विज्ञाते सति ते सर्वेऽपि मुक्ता भवन्ति ॥
<DOC_END>
<DOC_START>
स होवाच एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति । बृहदारण्यकोपनिषत् ३-८-८
हे गार्गि, ब्राह्मणाः इदमेव ‘अक्षरम्’ प्राहुः इति होवाच भगवान् याज्ञवल्क्यः ।
जनकमहाराजेन आयोजितायां विद्वत्सभायां वाचक्नवी गार्गी याज्ञवल्क्यम् एवं पृष्टवती 'भो याज्ञवल्क्य,
कस्मिन्नु खलु इदम् अव्याकृताकाशम् ओतं च प्रोतं च । तया एवं पृष्टः याज्ञवल्क्यः ‘अक्षरे’ इत्युक्त्वा
'हे गार्गि, ब्राह्मणाः इदम् ‘अक्षरं’ वदन्ति' इति उक्तवान् ॥
याज्ञवल्क्यो हि कर्मकाण्डज्ञानकाण्डरहस्यवित्, आत्मज्ञानी आत्मनिष्ठः महात्मा च आसीत् । सः एवं वदति ॥
अक्षरे इदम् अव्याकृताकाशम् ओतं प्रोतं च वर्तते । न क्षरतीति अक्षरम्, नाशरहितं तत्त्वम् । परं ब्रह्म उपनिषत्सु
‘अक्षर’ नाम्ना प्रतिपादितमस्ति । ‘एवं हि ब्राह्मणाः अभिवदन्ति’ इत्युक्तत्वात् याज्ञवल्क्यस्य विनयः, प्राचीनाचार्यपरम्परायां
गौरवम् सौजन्यं च ज्ञायते । आचार्यपरम्परायां परस्य ब्रह्मणः अक्षरम् इति नाम प्रसिद्धमित्यर्थः ॥
<DOC_END>
<DOC_START>
स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्मः इति । बृहदारण्यकोपनिषत् ३-१-२
वयं ब्रह्मिष्ठाय नमः कुर्मः । गोकामा एव वयं स्मः – इति याज्ञवल्क्यः उवाच ॥
जनकमहाराजः विदुषां सभाम् आयोज्य तत्र बहुदक्षिणाकं यज्ञम् आयोजितवान् । विदुषां विद्वत्तायै पणत्वेन
एकसहस्रं गावः तेन तत्र स्थापिताः । तस्यां सभायां याज्ञवल्क्योऽपि अन्यतमः विद्वान् । सः आत्मनः शिष्यं
सामश्रवम् आहूय 'सौम्य, इमाः गाः अस्मत्कुलं गमय' इति अवदत् ॥
अनन्तरम् उत्थाय सगौरवं याज्ञवल्क्यः इदं वाक्यम् अवदत् 'वयं गोकामाः, युष्मासु यः कोऽपि ब्रह्मिष्ठः अस्ति
चेत् तस्मै अस्माकं नमस्काराः' । स्वयं ब्रह्मिष्ठः याज्ञवल्क्यः सम्यगधीत काण्डद्वयः पण्डितोत्तमश्च, तथापि
तेषां विदुषां संसदि ‘अहं ब्रह्मिष्ठः’ इति आत्मानं नैव स्तुतवान् । अध्यासरहितस्य ब्रह्मिष्ठस्य अहङ्काराभिमानयोः
कुत्र वा अवकाशः सौजन्यमूर्तिर्हि ब्रह्मिष्ठः सर्वात्मकस्य ब्रह्मिष्ठस्य सौजन्यं नाम सहजं खलु ?
<DOC_END>
<DOC_START>
संज्ञानम् आज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिः धृतिः मतिः मनीषा जूतिः स्मृतिः
सङ्कल्पः क्रतुः असुः कामो वश इति । सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ ऐतरेयोपनिषत् ३-१-२
संज्ञानम् आज्ञानम् विज्ञानम्, प्रज्ञानम् मेधा, दृष्टिः, धृतिः, मतिः, मनीषा, जूतिः स्मृतिः, संकल्पः,
रतुः, असुः, कामः, वशः – इत्येतानि सर्वाणि प्रज्ञानस्यैव नामधेयानि भवन्ति ॥
आत्मचैतन्यम् एकम् एव । तस्मिन् कश्चिदपि भेदो नास्ति । एका एव चित् अन्तःकरणोपाधिभेदेन
भिन्नविभिन्नचैतन्यरूपेण अवभासते । तद्यथा, शुद्धचैतन्यरूपेण संज्ञानम्, आज्ञाचैतन्यरूपेण आज्ञानम्,
विवेकविशेषचैतन्यरूपेण विज्ञानम्, प्रकृष्टप्रशान्तचैतन्यरूपेण प्रज्ञानम्, स्मरणसामर्थ्यचैतन्यरूपेण मेधा,
इन्द्रियद्वारा विषयग्रहणचैतन्यरूपेण दृष्टिः, अवसन्नानाम् इन्द्रियाणां धैर्येण उत्तम्भनचैतन्यरूपेण धृतिः,
स्वतन्त्रबुद्धिचैतन्यरूपेण मनीषा, रोगादिपीडाचैतन्यरूपेण जूतिः । एवमेव एकमेव चैतन्यं स्मृति सङ्कल्प-
क्रतु- प्राणन- काम वशादिरूपेण विराजते इति ज्ञेयम् ॥
<DOC_END>
<DOC_START>
संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः । श्वेताश्वतरोपनिषत् १-८
परस्परसंयुक्तं, क्षराक्षरात्मकं व्यक्ताव्यक्तात्मकम् इदं विश्वम् ईशः भरते, बिभर्ति ।
इदं जगत् परस्परं संयुक्तं खलु मानवाः अन्योन्यं प्रीत्या संयुक्ताश्चेत् तदेव खलु
जगत् नाम देवतानां मानवानां च परस्परसम्बन्धः, जीवानाम् ईश्वराणां च
अन्योन्यसम्बन्धो विद्यते । क्षरम् अक्षरम् इति इदं जगत् द्वेधा विभक्तम् । क्षरं
नाम नश्वरम्, अनित्यम् व्याकृतं जगत्; अक्षरं नाम नाशरहितम्, नित्यम्,
अव्याकृतं जगत् । व्यक्तं नाम प्रमाणगोचरं नामरूपयुक्तं स्थूलं जगत्; अव्यक्तं
नाम प्रमाणागोचरं जगतो मूलभूतं बीजम् ॥
एतादृशप्रपञ्चस्य धर्ता एव परमात्मा । अयमेव ईश्वरः इत्यपि कथ्यते ।
समस्तस्यापि विश्वस्य सारः परमात्मा । इदं जगत् ईशादेव जनित्वा, तस्मिन्नेव
स्थित्वा तत्रैव लीयते । आत्मा तु क्षरात् अक्षराच्च विलक्षणः । ईश्वराभावे
विश्वाभावः । सर्वशक्तः अयं परमात्मा एव सर्वेषामप्यस्माकं स्वरूपभूतोऽस्ति ॥
<DOC_END>
<DOC_START>
संस्कृत नैगमा भारते नेपाले इंडोनेशियाय च शिक्षणसंस्थाय सामाजिकसंस्थाय बहू प्रयोग भवामि।
* भारतीय गणराज्य सत्यमेव जयते
* सङ्घीय लोकतान्त्रिक गणतन्त्र नेपाल जननी जन्मभूमिश्च स्वर्गादपि गरीयसी
* गोवा राज्य (भारत सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्‌भवेत्
* भारतीय जीवन रक्षा संस्था (एलआईसी योगक्षेमं वहाम्यहम्
* भारतीय नौसेना शं नो वरुणः
* भारतीय वायुसेना नभःस्पृशं दीप्तम्
* मुंबई आरक्षक सद्रक्षणाय खलनिग्रहणाय
* भारतीय वेलारक्षक वयं रक्षामः
* इंडोनेशियन नौसेना जलेष्वेव जयामहे
* आईएनएस विक्रांत जाएमा सं युधी स्पर्धाः
* आईएनएस दिल्ली सर्वतो जयम इच्छातः
* आईएनएस वलसुरा तस्य भस सर्वमिधाम विभति
* भारतस्य पर्यटन साचिव्य अतिथि देवो भवः
* भारतस्य रिज़र्व वित्तकोष बुदधौ सरनाम अनविचा
* सर्वे भारत वैद्यशास्त्रे आचार (एम्स शरीरमध्यम खलुधर्मसधानम
* रामाकृष्णन प्रेषण तन्नो हंसा प्रचोदायत
<DOC_END>
<DOC_START>
सः एतमेव पुरुषं ब्रह्म ततमम् अपश्यत् इदमदर्शमिति । ऎतरेयोपनिषत् १-३-१३
सः एतमेव पुरुषं 'ब्रह्म ततमम्, अहो, अहम् अपश्यम्' इति ज्ञातवान् ।
सः परमात्मा इदं शरीरं प्रविश्य जीवरूपेण अवभासते । अयं इमं पुरुषमेव ब्रह्म ज्ञातवान् ।
स एव परिपूर्णः परमेश्वरः अनेन परिच्छिन्नेन जीवरूपेण अवभासते इत्यर्थः ॥
अस्मिन् मन्त्रे परस्य ब्रह्मणः ‘ततमम्’ इति विशेषणं दत्तमस्ति । ‘तततमम्’ (व्यापकम्)
इति वक्तव्ये सति ‘ततमम्’ इति अत्र उपदिष्टमस्ति । ततमम् इति तततमम् इत्यर्थः ।
एकः तकारः लुप्तो वेदितव्यः । परमात्मा हि सम्पूर्णमेव विश्वं व्याप्य स्वयं परिपूर्णो विराजते ।
परमात्मना अव्याप्तः पदार्थो नाम नास्ति इत्यर्थः । नीचोपाधेः उच्चतमोपाधिपर्यन्तं समानतया
परिपूर्णो हि आत्मा । परमात्मा आकाशवत् व्यापकः । सर्वम् आप्नोति इत्यात्मा ।
अतः आत्मा तततमः । ब्रह्मैव हि आत्मा ॥
<DOC_END>
<DOC_START>
==सखा नो असि परमं च बन्धुः ॥ ऋग्वेदः ४-१६-२
त्वमस्माकं श्रेष्ठं मित्रं बन्धुश्च असि ।
: समाजे सर्वैः सह सम्मिल्य समञ्जनपूर्वकं जीवनम् अस्माकं सर्वेषां सहजम् एव । एकाकिता घोरदण्डनाय एव । अस्माकं मित्राणि, बान्धवान्, जडविग्रहान् च रक्षकशक्तिः इति अभिजानीमः । सर्वाणि मित्राणि, बान्धवाः, जडविग्रहाश्च उत्तमाः इत्येव चिन्तयामः । तथापि यदा अस्य जन्मनः अन्त्यं भवति तदा समग्रं बन्धुत्वं, मित्रत्वं, जडवस्तूनि च अस्तित्वरहितानि भवन्ति अग्रिमे जन्मनि पुनः नूतनाः सम्बन्धाः कति जन्मानि जातानि, तेषु कति स्नेहसम्बन्धाः उत्पन्नाः इति कः जानीयात् कः स्मरेत् किन्तु सा भगवच्छक्तिः सर्वेषु जन्मसु अस्माकं मित्रं बन्धुश्च आसीत् । तस्याः श्रेष्ठतायाः, परमशक्तेः अभिज्ञाने वयम् असफलाः । तस्य मार्गदर्शनस्य उपायनानां सदुपयोगे वयं पराजिताः स्मः । अधुना वा जागरिताः भवेम ।
<DOC_END>
<DOC_START>
सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं च अनिलयनं च । विज्ञानं चाविज्ञानं च ।
सत्यं चानृतं च सत्यम् अभवत् ॥ तैत्तिरीयोपनिषत् २-६-७
परमात्मा स्वयमेव सत् असच्च अभवत् । निरुक्तम् अनिरुक्तम्, निलयनम् अनिलयनम्, विज्ञानम् अविज्ञानम्,
सत्यम् अनृतं च स एव । तथा स एव सत्यं च अभवत् ॥
एकमेवाद्वितीयः चिन्मात्रस्वरूपः स एव परमात्मा इमं प्रपञ्चं सृष्ट्वा अनन्तरं स्वयमेव इदं जगत् प्रविष्टवान् ।
कोऽयं प्रपञ्चो नाम इति चेत्, अस्य प्रपञ्चस्य प्रपञ्चं स्वयमेव करोति मन्त्रः । सत् इति मूर्तम्, व्याकृतम् इत्येतत् ।
त्यत् इति अमूर्तम्, अव्याकृतम् । निरुक्तम् शब्दैः अभिव्यङ्ग्यम् । अनिरुक्तम् शब्दैः वर्णयितुम् अशक्यम् ।
निलयनम् आश्रयभूतम् । अनिलयनम् अनाश्रयभूतम् । विज्ञानं चेतनम् । अविज्ञानम् अचेतनम् । सत्यं व्यवहारगोचरम् ।
अनृतम् मिथ्याभूतम् । इदं सर्वमपि सत्यं ब्रह्मैव । एवं ज्ञाते सति अब्रह्मभूतं न किञ्चित् विद्यते, सर्वमपि ब्रह्मैव ।
<DOC_END>
<DOC_START>
एतानि यो धारयते स विद्वान्
<DOC_END>
<DOC_START>
सत्यं वद । धर्मं चर । स्वाध्यायात् मा प्रमदः ॥ तैत्तिरीयोपनिषत् १-११
सत्यमेव वद, धर्ममेव आचर, स्वाध्यायात् प्रमत्तो मा भव ॥
आचार्येण हि शिष्याय क्रियमाणः उपदेशोऽयम् । सद्गुरुसेवापरायणः शिष्यः गुरोः सकाशात्
वेदविद्यां कृत्स्नतया अधीत्य गुरुगृहात् स्वगृहं प्रति यदा जिगमिषति, तदा गुरुणा प्रीत्या स्वशिष्यं
प्रति क्रियमाणोऽयम् उपदेशः, आदेशश्च ॥
अत्रमन्त्रे प्राधान्येन उपदेशत्रयं गुरुणा क्रियते । ते च त्रयः उपदेशाः इमे, सत्यवचनम्, धर्माचरणम्,
स्वाध्यायानुष्ठानं च । एतानि साधनानि अनुतिष्ठतः अभ्युदयफलानि लभ्यन्ते ॥
सत्यवचनम् नाम अतिमुख्यं तपः । सत्यात् नास्ति परं तपः । सत्यमेव परं तपः । अतः सत्यमेव वक्तव्यम् ॥
धर्माचरणम् नाम अहिंसा जपशमदमादयः । ते च धर्मस्य रूपान्तराणि । धर्म एव सदा अनुष्ठेयः, न कदापि अधर्मः ॥
स्वाध्यायो नाम वेदाध्ययनम् । एतानि कर्तव्यान्येव ॥
<DOC_END>
<DOC_START>
सत्यकामो ह जाबालो जबालां मातरम् आमन्त्रयाञ्चक्रे, ब्रह्मचर्यं, भवति,
विवत्स्यामि किङ्गोत्रो नु अहमस्मि इति । छान्दोग्योपनिषत् ४-४-१
सत्यकामजाबालः स्वमातरमागत्य मातः अहं गुरुकुलवासी सन् ब्रह्मचर्यव्रतम् अनुष्ठातुम्
इच्छामि । मम गोत्रं किमिति कृपया ब्रूहि' इति मातरं पृष्टवान् ।
सत्यकामजाबालस्य गुरुभक्तेः सत्यव्रतस्य कथा इयम् । सत्यकामो नाम कश्चित् बालकः,
तस्य माता जबाला इति यस्मादयं जबालायाः पुत्रः तस्मात् जाबाल इत्येव प्रसिद्धः । सत्यकामजाबालनाम्ना
प्रसिद्धोऽयं बालकः । पुराकालीनस्य आर्षसंप्रदायस्य गुरुकुलवासस्य कथेयम् । सत्यकामजाबालः
'मातः, गुररुकुले अहं ब्रह्मचर्यव्रतम् अनुष्ठातुम् इच्छामि । तत्र गुरुकुले वसन् गुरुसेवां कुर्वाणः वेदाध्ययनं
कर्तुमिच्छामि । तस्मात् मम गोत्रं सूत्रं च मे ब्रूहि । मम पितृहीनत्वात् त्वमेव मह्यं मम पितुः नामधेयं गोत्रादि
कृपया ब्रूहि' इति । अनेन सत्यकाम जाबालस्य मातृभक्तिः ज्ञायते । अयं भारतीयसंप्रदायस्य महिमा ॥
<DOC_END>
<DOC_START>
सत्येन पन्था विततो देवयानः ।
यत्र तत् सत्यस्य परमं निधानम् ॥ मुण्डकोपनिषत् ३-१-६
सत्यमेव जयति, न तु अनृतम् । सत्येनैव देवयानमार्गः विततः । आप्तकामाः ऋषयः अनेनैव
सत्यमार्गेण अमृतत्वं गच्छन्ति । अस्मिन्नेव सत्यमार्गे परमार्थतत्त्वं निहितमस्ति ॥
उपनिषत्सु सत्यस्य महत्त्वं बहुधा स्तूयते । सत्यमेव तपः, सत्यमेव ऋषिमुनीनां सम्पत्, संन्यासिनां
धनं नाम सत्यमेव । अध्यात्मसाधकानां तु सत्यात् परं साधनं नास्त्येव ॥
अस्यां मुण्डकोपनिषदि परं ब्रह्मापि सत्यशब्देनैव व्यपदिश्यते । सत्यतत्त्वस्य अवबोधे सत्यवचनमेव
साधनमपि भवति । सत्यस्यैव जयः, सत्येनैव प्रेयः सत्येनैव श्रेयः, सत्येनैव च मुक्तिः । आप्तकामानां
ज्ञानिपुङ्गवानां महर्षीणां सम्पन्नाम सत्यमेव । सत्यवतामेव हि आत्मज्ञानं मुक्तिश्च लभ्यते ॥
<DOC_END>
<DOC_START>
[[समर्थरामदासः १६०८-१६८१) महाराष्ट्रस्य कश्चन धार्मिककविः, संन्यासी च । अयं भगवतः रामस्य हनुमतश्च परमभक्तः आसीत् ।
*शक्त्या राज्यस्य उपलब्धिः भवितुम् अर्हति, युक्त्या च कार्यसिद्धिः भवितुम् अर्हति । यत्र शक्तिः युक्तिः च भवतः तत्र श्रियाः आवासः भवितुम् अर्हति ।
<DOC_END>
<DOC_START>
==समानी प्रपा सह वो अन्नभागः ॥ अथर्ववेदः ३-३०-६
भवतां जलाशयाः अन्नभागाः च समानाः भवन्तु ।
: जलम् आहारश्च जीवमात्राय तया विश्वचेतनशक्त्या दत्तानि अमूल्यानि उपायनानि । जलं सर्वेषाम् । सर्वेषां तद्विषये समानः अधिकारः विद्यते । तेनैव सह जलमूलानां संरक्षणस्य उत्तरदायित्वमपि अस्माकं विद्यते । आदौ वृष्टिजलस्य सम्पूर्णः सदुपयोगः कर्तव्यः । ततः गर्तकासारादिषु नदिकासु च तत् वृष्टिजलं सङ्गृह्य उपयोक्तव्यम् । आवश्यकतायां सत्यां कूपखननेन जलं प्राप्तव्यम् । कदापि अस्य जलस्य दुरुपयोगः न कर्तव्यः, जलमालिन्यं न करणीयम् ।
: मानवानाम् आहारः भवन्ति सस्यानि । भूमिः, गोभरः, जलं, सूर्यशक्तिः, वर्धनसामर्थ्यम् इत्यादीनि सर्वाणि भगवतः एव । एतान् एकत्र संयोज्य परिसरस्नेहयुता स्वाभाविकी कृषिः मात्रम् अस्माभिः क्रियते । वयं निमित्तमात्रम् । मिलित्वा परिश्रमपूर्वकं कार्यं कृत्वा प्राप्तं फलं सर्वैः सह संविभज्य जीवनमेव मानवजीवनम् ।
<DOC_END>
<DOC_START>
गुहानिवाताश्रयणे प्रयोजयेत् ॥ श्वेताश्वतरोपनिषत् २-१०
गुहादिस्थले साधकः ध्यायन् आत्मनः मनः प्रत्यगात्मनि
ध्यानचिकीर्षोः साधकस्य अनुकूलं शान्तं स्थानम् अत्र
उपदिष्टमस्ति । ध्यानोचितो देशः ध्यायतः साधकस्य मनसि
उत्तमं फलं ददाति । जनसंसदि कृतं ध्यानं कथम् आश्रमे
कृतं ध्यानं कथम् भवतु । तत् ध्यानस्थानं कथं भवेत्
ध्यानस्थानं समं भवेत् । नात्युच्चं नातिनीचं भवेत् । तत्र
ध्यानदेशे शर्कराः (चूर्णपाषाणाः कण्टकानि, सर्पवृश्चिकादयः,
व्याघ्रसिंहादयः न भवेयुः । असंस्कृतानां जनानां संसत् न तत्र
भवेत् । ध्यानदेशः शान्तः शुद्धः एकान्तश्चेत् तत्र देशे मनः
सुलभतया स्वयमपि शान्तं भवति ॥
<DOC_END>
<DOC_START>
==सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव ॥ ऋग्वेदः १०-८५-४६
: महिलां द्वितीयस्तरस्य प्रजा इति, सन्तानप्रसूतियन्त्ररूपा इति, गृहस्य कर्मकरीमात्रम् इति, पुरुषस्य कामतृषापरिहर्त्रिमात्रम् इति च यः समाजः चिन्तयेत् तस्य हीनसमाजस्य कृते इदं स्पष्टं मार्गदर्शनम् । श्वशुरश्वश्र्वौ स्नुषां पुत्रीवत् पश्येताम् इत्येतत् समीचीनम् । तथैव स्नुषा अपि श्वशुरश्वश्र्वौ स्वीयौ मातापितरौ इव पश्येदेव । संसाररूपस्य रथस्य पतिः किञ्चन चक्रं चेत् पत्नी भवति अपरं चक्रम् । भावीसन्ततिं स्वस्य गर्भे धरन्त्यै महिलायै पतिः, तस्य परिवारस्य सर्वे अपि प्रीतिं सहकारं च दद्युः । स्नुषया स्वस्य गृहस्य कार्याणि सन्तोषेण करणीयानि इत्येतत् सत्यमेव । किन्तु अन्ये तया सह कर्मकर्या सह इव यदि व्यवहरेयुः तत् न समीचीनम् । कामतृप्तिः महिलापुरुषयोः समानतया लभ्येत । ततः प्रेमत्यागादयः गुणाः विकसेयुः । तदा महिलया प्राप्येत किञ्चन आदरणीयं स्थानम् ।
<DOC_END>
<DOC_START>
सर्वं ह्येतद् ब्रह्म, ‘अयमात्मा ब्रह्म’ । माण्डूक्योपनिषत् २
इदं सर्वं ब्रह्मैव, अयमात्मा ब्रह्म ।
प्रसिद्धेषु चतुर्षु महावाक्येषु ‘अयमात्मा ब्रह्म’ इतीदं महावाक्यम् अन्यतमम् । अथर्ववेदस्य ‘महावाक्य’मेतत् ।
जीवब्रह्मणोः अभेदोपदेशकानां वाक्यानां महावाक्यमिति प्रसिद्धिः । प्रतिवेदम् एकैकं महावाक्यं प्रसिद्धम् । एवं
च चतुर्णां वेदानां चत्वारि महावाक्यानि प्रथितानि सन्ति । ऋग्वेदीय ऎतरेयोपनिषदः- ‘प्रज्ञानं ब्रह्म’; यजुर्वेदीय
बृहदारण्यकोपनिषदः – ‘अहं ब्रह्मास्मि’; सामवेदीय छान्दोग्योपनिषदः – 'तत्त्वमसि’ अथर्ववेदीयमाण्डूक्योपनिषदः –
‘अयमात्मा ब्रह्म’ इति चत्वारि महावाक्यानि ॥
प्रकृतं तु ‘अयमात्मा ब्रह्म’ इति महावाक्यम् । अस्मिन् देहे कर्तृत्वेन भोक्तृत्वेन च दृश्यमानः अयं प्रसिद्धः जीवः
निरुपाधिकदृष्ट्या ब्रह्मैव । अविद्यया एव हि जीवत्वं नाम । जीवत्वे विद्यया बाधिते सति ब्रह्मस्वरूपमेव अवशिष्यते ।
अविद्याकल्पितं जीवत्वम् अनूद्य, अनन्तरं ब्रह्मत्वं प्रतिपाद्य, जीवत्वबाधनमेव महावाक्यानां फलम् ॥
<DOC_END>
<DOC_START>
संपश्यन् ब्रह्म परमं याति नान्येन हेतुना ॥ कैवल्योपनिषत् १-१०
आत्मानं सर्वभूतस्थम्, आत्मनि च सर्वभूतानि सम्पश्यन् परमं ब्रह्म याति; अन्येन हेतुना
मार्गेण परमं ब्रह्म न याति ।
‘सम्यग्दर्शनं’ नाम किम् इति चेत्, अयं मन्त्रः सरलतया सुन्दरतया उपदिशति । आत्मनि
सर्वभूतानाम्, सर्वभूतेषु च आत्मनः दर्शनमेव सम्यग्दर्शनं नाम । इदमेव समात्मदर्शनम् समात्मज्ञानम्,
अस्तु, ज्ञातम् । ईदृशं सम्यग्दर्शनं प्राप्तुं शक्यते वा किं वयमपि प्राप्नुयाम सत्यं शक्यत एव ।
अस्यैव ‘सर्वात्मभावः’ इत्यपि नाम भवति । नैतत् सम्यग्दर्शनं प्रत्यक्षप्रमाणैः अवगन्तुं शक्यते ।
नात्मा चक्षुर्भ्यां दृश्येत । उपाधिसहिताः पदार्थाः समाः न भवन्ति हि । किं तु विवेकेन विवेक्तव्यमेतत् ।
उच्चनीचोपाधीन् विहाय विवेकेन विचारे कृते 'एक एव आत्मा सर्वेष्वपि अस्ति' इतिसन्देशः अनुभवम्
आरोहति । इदमेव सम्यग्दर्शनरहस्यम् ॥
<DOC_END>
<DOC_START>
आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत् परम् ॥ श्वेताश्वतरोपनिषत् १-१६
क्षीरे घृतमिव अस्मिन् विश्वे आत्मा सर्वव्यापकः । आत्मानम् विज्ञातुं तप एव साधनम्
आत्मा च ब्रह्म । मानवजन्मनः रहस्यं सारभूतं लक्ष्यमिदम् ॥
आत्मा कुत्रास्ति सर्वत्राप्यस्ति । तर्हि किमर्थं न दृश्यते तं द्र्ष्टुम् अस्माकं योग्यताभावात् ।
आत्मदर्शनयोग्यता तर्हि कथं सम्पादनीया तपसा । तपसि सर्वाण्यपि साधनानि अन्तर्गतान्येव ।
अन्तः करणस्य एकाग्रतायै, मनसः शुद्ध्यै, आत्मज्ञानयोग्यतायै क्रियमाणानि सर्वाण्यपि साधनानि
विद्यमानस्यैव वस्तुनः तपसा प्राप्तिर्भवति । अस्य प्रकाशनाय एकः दृष्टान्तः । क्षीरे घृतम् अस्ति वा
न वा अस्ति । कस्मिन् भागे सर्वत्रापि अस्ति । तथापि किमिति अस्माकं न दृश्यते साधनाभावात् ।
तत्र क्षीरे दध्यातञ्चनं निक्षिप्य, दधि कृत्वा अनन्तरं तस्य मथनमेव तपः । एवमेव अत्रापि इन्द्रियमनसोः
एकाग्रता एव तपः । तेन तपसा साधनेन आत्मदर्शनं भवति ॥
<DOC_END>
<DOC_START>
सर्वाजीवे सर्वसंस्थे बृहन्ते अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे । पृथगात्मानं
प्रेरितारं च मत्वा । श्वेताश्वतरोपनिषत् १-६
सर्वप्राणिनाम् आश्रयभूते, लयभूते च, बृहति, अस्मिन् ब्रह्मचक्रे अहम् अन्यः, परमात्मा
च अन्यः' इति मत्वा अयं जीवः सर्वदा संसारचक्रे भ्राम्यति ॥
परमात्मन एव सकलजीवराशयः उत्पन्नाः सन्तः तस्मिन्नेव लीयन्ते । सः परमात्मा महान् ।
परमार्थतस्तु अयं परमात्मा जीवस्य परमार्थस्वरूपमेव अस्ति । अज्ञानात् तु जीवः 'अहम्
अन्यः, परमात्मा अन्यः' इति मत्वा अस्मिन् ब्रह्मचक्रे संसरति ॥
जन्ममरण सुखदुःख रागद्वेष लाभहानि मानापमान अशनायापिपासादिरूपे संसारसागरे मग्नः
अयं जीवः संसरति । सर्वस्याप्यस्य दुःखस्य प्रधानं कारणं नाम अज्ञानम् । भेदज्ञानेन दुःखम्,
भेदज्ञानेनैव अनर्थप्राप्तिः; अज्ञानेनैव संसारभ्रमः ॥
अस्मात् संसारभ्रमणात् परिहारोपायो नाम आत्मज्ञानमेकमेव । स्वात्मानं विज्ञाय दुःखनिवृत्तिः,
<DOC_END>
<DOC_START>
सर्वे वेदा यत्पदम् आमनन्ति तपांसि सर्वाणि च यद्वदन्ति । काठकोपनिषत् १-२-१५
सर्वे वेदाः यत् तत्त्वम् उपदिशन्ति, सर्वाणि तपांसि च यत्प्राप्त्यर्थानि अनुष्ठीयन्ते तदेव ब्रह्म । तदेव जानीयात् ।
अस्माकं भारतीयसंस्कृतौ अध्ययनयोग्याः ग्रन्थाः लक्षशः विद्यन्ते । न कश्चिदपि तान् सर्वान् ग्रन्थान् एकस्मिन्
जन्मनि पूर्णतया पठितुं समर्थो भवति । तेषां सारतया वेदाः, उपनिषदः, वेदाङ्गानि, महाभारतम्, पुराणानि, इतिहासः
– इति संगृह्यन्ते । एतेऽपि ग्रन्थाः न अल्पसंख्यया विद्यन्ते । सर्वैरप्येतैः वेदशास्त्रैः तात्पर्यतया प्रतिपाद्यमानम् एकमेव
तत्त्वं नाम परं ब्रह्म ॥
तथैव शताधिकानि नानाविधानि तपांसि च विद्यन्ते । तानि शारीरिकाणि, वाचिकानि, ऎन्द्रियकाणि, मानसानि च
भवन्ति । ब्रह्मज्ञानप्राप्तिरेव हि एतेषां सर्वेषां तपसां परमं लक्ष्यम् । मानवजन्मनः परमं लक्ष्यं नाम आत्मज्ञानमेव ।
तदेव हि ब्रह्मज्ञानम् । ब्रह्मावगतिर्हि मोक्षसाधनं भवति ॥
<DOC_END>
<DOC_START>
सस्यमिव मर्त्यः पच्यते, सस्यमिव आजायते पुनः । काठकोपनिषत् १-१-६
मर्त्यः मानवः सस्यवत् वृक्षवत् जायते, म्रियते, पुनर्जायते च ।
मानवः आत्मानं चिरञ्जीविनं मत्वा पापानि कुर्वन् स्वार्थसाधनपरायणो वर्तते । अयं मानवः क्षुद्रस्वार्थसाधनार्थं
यत्किञ्चिदपि कुर्यात् । मातरं पितरं गुरुं देवं च निन्दन् अयं मनुष्यः परमस्वार्थी इति उक्तेऽपि न असाधु वचः ॥
स्वार्थित्वे किं कारणम् अहं शाश्वतः, चिरञ्जीवी भूत्वा शताधिकान् संवत्सरान् जीवामि; मां जरा वा मरणं वा न
स्पृशेत् इतिरूपा अविद्या एव अत्र हेतुः । प्रत्यहम् आत्मनः पुरतः म्रियमाणान् शताधिकान् पुरुषान् स्वयमेव पश्यन्नपि
अयं मानवः ‘अहं तु चिरञ्चीवी’ इति मन्यते इति किं नैतत् भ्रान्तिज्ञानम् ?
मानवस्यापि देहः अनित्य एव खलु दिह्यते, दह्यते इति देहः । जातो हि मनुष्यः कञ्चित् कालं स्थित्वा, वर्धित्वा,
परिणामान् अनुभूय, क्षीणः सन् अवश्यमेव एकदा म्रियेत् एव । तस्मात् विवेकिना मानवेन, लोभिना स्वार्थिना वञ्चकेन
<DOC_END>
<DOC_START>
वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥
<DOC_END>
<DOC_START>
संगणके संस्कृतेन (देवनागरीलिपिना) टंकणं कर्तुं बहवः विधयः सन्ति।
* एतदर्थं भवान् स्व-संगणके इन्स्क्रिप्ट् (यूनीकोड) सपोर्ट (Inscript Unicode support) इत्येतत् स्थापयतु।
<DOC_END>
<DOC_START>
==सा प्रथमा संस तिर्विश्ववारा ॥ यजुर्वेदः ७-१४
आदिसंस्कृतिरूपाः वेदाः सर्वैः ग्राह्याः ।
: प्रत्येकं मानवः अपि काञ्चित् नीतिसंहितां संविधानं (लिखितम् उत अलिखितं) वा अनुसरन्नेव जीवति । अरण्यवासिनां नगरवासिनां वा भवतु समाजस्य सुव्यवस्थायाः निमित्तं काचित् न्यायव्यवस्था विद्यते एव । प्रत्येकस्मिन् समाजे अपि स्वीयाः सिद्धान्ताः, विश्वासाः, सम्प्रदायाश्च भवन्ति एव । एतेषां सर्वेषां मूलं वर्तते वेदाः एव
: एतेषु प्राचीनज्ञानागारेषु मनुकुलस्य योग्या नीतिसंहिता, संविधानं, न्यायव्यवस्था च विद्यते । अत्र विद्यमानाः सिद्धान्ताः सत्योपेताः (परीक्ष्य ज्ञातुमर्हति)। आचरणानां विषये दत्तानि मार्गदर्शनानि परमवैज्ञानिकानि आरोग्यकराणि च विद्यन्ते (आचरणेन अनुभवग्राह्यम्)। जगतः बह्व्यः संस्कृतयः अस्मादेव मूलात् ज्ञानं प्राप्य, बहु परिवर्तनानां द्वारा विकृतिं प्राप्तवत्यः सन्ति । किन्तु मूलमिदं शुद्धं, सकलैः स्वीकरणयोग्यञ्च विद्यते ।
<DOC_END>
<DOC_START>
==सा मित्रं वनुते जने चित् ॥ ऋग्वेदः १०-२७-१२
जनेषु स्वस्य मित्रं सा स्वयं चिनोति ।
:मातापित्रोः निर्णयानुगुणं विवाहस्य निर्वर्तनम् इत्येतत् बाल्यविवाहपद्धतेः अवशेषमात्रम् । प्रौढवयसि विद्यमानयोः, जीवनविषये गभीरं चिन्तयतोः, गृहस्थजीवनस्य उत्तरदायित्वानि अवगतवतोः, तस्य निर्वहणाय सामर्थ्यं सम्पादितवतोः युवकयुवत्योः जीवनसहवर्तिनः चयनं स्वयं क्रियेत चेदेव वरम् । अयमेव स्वयंवरः उच्यते । वेदाः एतान् स्वयंवरान् एव प्रतिपादयन्ति । अर्थहीनेषु सम्प्रदायेषु मग्ने अस्मिन् समाजे इदं वचनं क्रान्तिकारिकमपि अस्ति, सनातनमपि विद्यते । जीवनसहवर्ती नाम सुहृद्, सखी इत्यर्थः । मैत्री एव तयोः संयोजकतन्तुः । अन्येषां सर्वविधानां स्नेहसम्बन्धानाम् अपेक्षया अयं सम्बन्धः भवति निकटतमः । अन्येषाम् अनुरोधं पुरस्कुर्वद्भिः, विविधैः लोभामिषैः प्रभावितैः, बाह्याकर्षणचपलैः वा सद्भिः केनापि परिणयः न अङ्गीकरणीयः । अवगमनपूर्वकं चयनमेव समीचीनतमम ।
<DOC_END>
<DOC_START>
साधुकारी साधुर्भवति पापकारी पापो भवति ।
पुण्यः पुण्येन कर्मणा भवति, पापः पापेन ॥ बृहदारण्यकोपनिषत् ४-४-५
साधुकारी साधुर्भवति, पापकारी तु पापो भवति । पुण्येन कर्मणा पुण्यो भवति, पापेन
कर्मणां फलानि नियतानि भवन्त्येव । सत्कर्मभिः कृतैः सत्फलानि भवन्ति, पापकर्मभिः
कृतैः अनिष्टानि फलानि भवन्ति । कर्मानुगुणानि फलानि भवन्ति । 'बीजानुगुणं फलम्' इति
प्रसिद्धमेव । निम्बे बीजे उप्ते रसालफलं लभ्यते वा रसालबीजेन उप्तेन निम्बफलनिरीक्षणमपि
'पुण्येन पुण्यः, पापेन पापः' इति हि कर्मनियमः । अस्मिन् जन्मनि कश्चित् सुखी चेत् तत्
तस्य पूर्वार्जितपुण्यकर्मणः फलम् । अन्यः दुःखी चेत् तस्य पापकर्माण्येव कारणम् । तस्मात्
यदि वयं सदा पुण्यकर्मानुष्ठानरताः स्मः तेन अवश्यं शुभं फलमेव लभामहे । मानवैः सदा
पुण्यशीलैरेव भाव्यम् । न केनापि कारणेन विवेकिभिः पापाचरणं कर्तव्यम् ॥
<DOC_END>
<DOC_START>
बहु जनाः सुखेन जीवितुम् इच्छन्ति । परिश्रमं कर्तुं न इच्छन्ति । एतादृशाः विद्यां सम्पादयितुं न अर्हन्ति । सुखार्थी विद्यां प्राप्तुं न अर्हति । यतः विद्यायाः सम्पादनं परिश्रमं, निरन्तरं प्रयत्नञ्च अपेक्षते । विद्यां प्राप्तुं यः इच्छति सः सुखं त्यजेदेव ।
<DOC_END>
<DOC_START>
यथा चन्दनवृक्षः छेदनसमये अपि सहजगुणं सुगन्धं न जहाति, अपि च छेदनार्थम् उपयुक्तं कुठारमपि सुगन्धयुक्तं करोति, तथैव सज्जनाः नाशसमये अपि परोपकारबुद्धिं न परित्यजन्ति ।
<DOC_END>
<DOC_START>
==सुप्रजाः प्रजाभिः स्याम ॥ यजुर्वेदः ८-५२
उत्तमैः सन्तानैः उपेताः स्याम ।
:पुत्राणां प्रसूतौ विशेषः नास्ति, पशुभिः अपि तत् क्रियते । ते पुत्राः उत्तमाः यदि भवेयुः, अस्माकम् अपेक्षया श्रेष्ठाः यदा भवेयुः तदा सार्थक्यम् अनुभूयते । पुत्राः अस्माकम् अपेक्षया अधिकं यदि अर्जयेयुः, सम्पत्तिं सम्पादयेयुः, पदवीः प्राप्नुयुः तर्हि ते श्रेष्ठाः इत्येषः अभिप्रायः सङ्कुचितार्थयुतः । अस्मदपेक्षया स्वस्थाः, ज्ञानिनः, अनुभविनः, परोपकारिणः, समाजे आदर्शभूताः, तुष्टाः, तोषयितारश्च भवेयुः चेत् ते एव 'सुप्रजाः' इति निर्दिश्यन्ते । एतादृशैः पुत्रपौत्रैः युक्तः सन्तः एतादृशान् पुत्रपौत्रान् प्राप्नुयाम । अयम् आशयः उत्तमः । किन्तु आशयमात्रेण तत् न भवति वास्तवम् । तत् वास्तवरूपं प्राप्नुयात् इति चेत् अस्माभिः केचन नियमाः अनुसर्तव्याः । अनुशासनबद्धं जीवनं भवेत् । स्वीयवचनव्यवहारादीन् निरन्तरं परिशीलयन्तः, दोषान् परिष्कुर्वन्तः, ज्ञानाभिवृद्धिं साधयन्तः वयमेव पुत्रपौत्रादीनां कृते आदर्शभूताः यदि भवेम तर्हि उपरि निर्दिष्टः आशयः सफलः भवेत् ।
<DOC_END>
<DOC_START>
सुभाषचन्द्रबोसः (२३ जनवरी १८९७ १८ आगस्ट् १९४५) भारतस्य स्वातन्त्र्ययोधेषु अन्यतमः । ब्रिटिषशासनात् मुक्तिनिमित्तं क्रान्तिः एव मार्गः इति तस्य दृढः विश्वासः आसीत् । तन्निमित्तं तेन भारतराष्ट्रियसेना संस्थापिता ।
* परमार्थतायाः वैशाल्यस्य अधिगमनम् असारयुक्तेन अवगमनेन असाध्यं वर्तते । अधिकसत्ययुक्तस्य तत्त्वस्य आधारेण अस्माभिः जीवनं निर्मातव्यम् । वयं तूष्णीं स्थातुं न शक्नुमः यतः तत् असाध्यम् परमं सत्यम् अस्माभिः न ज्ञातम् इत्यतः वा ।
* प्रखरराष्ट्रियतायाः, परिपूर्णन्यायस्य, निष्पक्षपातस्य च आधारेणैव भारतीयस्वातन्त्र्यसेनायाः निर्माणं कर्तुं शक्यम् ।
भारतीयराष्ट्रियसेनायाः सेनाधिपतिपदग्रहणावसरे १९४३ तमे वर्षे आगस्ट् २६ तमे दिनाङ्के स्वभाषणे उक्तम् ।
*वयं यदि तिष्ठेम, आझाद् हिन्द् फौझ् शिलाभित्तिः इव स्यात्, वयं यदा अग्रे चलेम, तदा आझाद् हिन्द् फौझ् स्यात् मर्षणयन्त्रम् इव ।
भारतीयराष्ट्रियसेनायाः सेनाधिपतिपदग्रहणावसरे १९४३ तमे वर्षे आगस्ट् २६ तमे दिनाङ्के स्वभाषणे उक्तम् ।
* मह्यं रक्तं दीयताम्, अहं स्वातन्त्र्यं दास्यामि !
* भारतेन रक्तम् इष्यते । उत्थीयताम्, अस्माकं समयः न विद्यते । स्कन्दौ उन्नीयेताम् वयं शत्रूणां व्यूहे मार्गं सृजेम, यदि भगवतः इच्छा, वीरमरणं प्राप्नुयाम । अपि च अस्माकम् अन्तिमनिद्रायाम् अस्माकं सेनां देहलीं प्रति यः मार्गः आनयेत् तं मार्गं चुम्बेम । देहलीं प्रति मार्गः एव स्वातन्त्र्यं प्रति मार्गः । 'चलो देल्ली देहलीं प्रति चलेम) ।
<DOC_END>
<DOC_START>
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥१॥
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः ।
तथा चतुर्भिः पुरुषः परीक्ष्यते त्यागेन शीलेन गुणेन कर्मणा ॥२॥
आगतं तु भयं वीक्ष्य प्रहर्तव्यमशङ्कया ॥३॥
न भवन्ति समाः शीले यथा बदरकण्टकाः ॥४॥
निःस्पृहो नाधिकारी स्यान्नाकामो मण्डनप्रियः ।
नाविदग्धः प्रियं ब्रूयात्स्पष्टवक्ता न वञ्चकः ॥५॥
मूर्खाणां पण्डिता द्वेष्या अधनानां महाधनाः ।
पराङ्गना कुलस्त्रीणां सुभगानां च दुर्भगाः ॥६॥
आलस्योपगता विद्या परहस्तगतं धनम् ।
अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥७॥
अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते ।
गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥८॥
वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम् ॥९॥
अन्यथा तत्पदं शान्तं लोकाः क्लिश्यन्ति चान्यथा ॥१०॥
दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम् ।
नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः ।
नास्ति कोपसमो वह्निर्नास्ति ज्ञानात्परं सुखम् ॥१२॥
जन्ममृत्यू हि यात्येको भुनक्त्येकः शुभाशुभम् ।
नरकेषु पतत्येक एको याति परां गतिम् ॥१३॥
तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् ।
जिताशस्य तृणं नारी निःस्पृहस्य तृणं जगत॥१४॥
विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।
व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥१५॥
वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् ।
वृथा दानं समर्थस्य वृथा दीपो दिवापि च ॥१६॥
नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम् ।
नास्ति चक्षुःसमं तेजो नास्ति धान्यसमं प्रियम् ॥१७॥
अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः ।
मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः ॥१८॥
सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥१९॥
चला लक्ष्मीश्चलाः प्राणाश्चले जीवितमन्दिरे ।
चलाचले च संसारे धर्म एको हि निश्चलः ॥२०॥
नराणां नापितो धूर्तः पक्षिणां चैव वायसः ।
चतुष्पदां शृगालस्तु स्त्रीणां धूर्ता च मालिनी ॥२१॥
जनिता चोपनेता च यस्तु विद्यां प्रयच्छति ।
अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥२२॥
राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च ।
पत्नीमाता स्वमाता च पञ्चैता मातरः स्मृताः ॥२३॥
<DOC_END>
<DOC_START>
तत्स्यादुज्ज्वालिकायाः फलं अतिमधुरं भिक्षुसंघार्पितायाः । । ९१ । ।
उज्ज्वालिकां मुनिवरप्रवराय दत्त्वा दीप्तप्रभो भवति देवमनुष्यलोके । । ९२ । ।
स्वर्गे यद्विचरन्ति दीप्तवपुषो लीलायमानाः सुरास्
तद्दत्त्वार्यगणाय शीतसमये चोज्ज्वालिकां श्रद्धया । । ९३ । ।
जित्वा रिपून्ये गजवाजियुक्तान्पृथ्वीं समन्तादनुशासयन्ति ।
दीप्तानना हेमविभूषिताङ्गा उज्ज्वालिकायाः फलं एव तेषां । । ९४ । ।
। । इत्युज्ज्वालिकादानकथा । ।
<DOC_END>
<DOC_START>
तद्गन्धोदकपाद्यधूपकुसुमस्रग्गन्धदानात्फलं । । ५६ । ।
यद्राजा चक्रवर्ती वियति गतघनैः कुङ्कुमाम्भःप्रवाहैः
गङ्गायां अङ्गसौख्यं परमं अनुभवन्मोदते सुन्दरीभिस्
तत्त्यागात्कुङ्कुमादेर्गुणमणिनिधये बुद्धभट्टारकाय । । ५७ । ।
मृदङ्गवीणापटहप्रदानैः कृत्वा तु पूजां सुगतोत्तमानां ।
शृणोति शब्दान्सुरमानुषाणां श्रोत्रं च दिव्यं लभते विशिष्टं । । ५८ । ।
। । इति कुङ्कुमादिकथा । ।
<DOC_END>
<DOC_START>
सर्वं एतत्सुचरितं दानं सुगतपूजनं ।
कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत् । । १६७ । ।
न च द्वेषसमं पापं न च क्षान्तिसमं तपः ।
तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः । । १६८ । ।
मनः शमं न गृह्णाति न प्रीतिसुखं अश्नुते ।
न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते । । १६९ । ।
न द्विषन्तः क्षयं यान्ति यावज्जीवं अपि घ्नतः ।
क्रोधं एकं तु यो हन्यात्तेन सर्वद्विषो हताः । । १७० । ।
दहत्यात्मानं एवादौ परं धक्ष्यति वा न वा । । १७१ । ।
जरा रूपवतां क्रोधः तमश्चक्षुष्मतां अपि ।
वधो धर्मार्थकामानां तस्मात्क्रोधं निवारयेत् । । १७२ । ।
मत्कर्मचोदिता ह्येते जाता मय्यपकारिणः ।
येन यास्यन्ति नरकान्मयैवैते हता ननु । । १७३ । ।
एतानाश्रित्य मे पापं क्षीयते क्षमतो बहु ।
मां आश्रित्य तु यान्त्येते नरकान्दीर्घवेदनान् । । १७४ । ।
अहं एवापकार्येषां ममैते चोपकारिणः ।
कस्माद्विपर्ययं कृत्वा खलचेतः प्रकुप्यसि । । १७५ । ।
मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यसि ।
द्वेषेण प्रेरितः सोऽपि द्वेषे द्वेषोऽस्तु मे वरं । । १७६ । ।
। । इति क्षान्तिकथा । ।
<DOC_END>
<DOC_START>
यद्द्वीपांश्चतुरो विजित्य रभसाद्यातो मघोनः पुरं
मान्धाता त्रिदशाधिपाच्च मुदितो लेभे यदर्धासनं ।
तत्पात्रप्रतिपादितस्य महतो दानस्य चित्रं फलं । । १०७ । ।
तच्च पात्रं चतुर्धा तु गतिदुःखादिभेदतः ।
पृथक्पृथक्फलं तस्माद्विशिष्टं जायते नृणां । । १०८ । ।
वृत्ताननाः कुवलयेन्दुसमानवर्णा मर्त्याः सदा विमलदृष्टिविशालवक्षाः ।
दानान्मनुष्यगतिकेषु समाप्नुवन्ति रम्याणि यानशयनासनभोजनानि । । १०९ । ।
ग्लानेषु यन्नरवराः प्रदिशन्ति दानं दीनेषु दुर्बलधनेषु कृपान्विता ये ।
लक्ष्मीं हि ते समधिगम्य नरेन्द्रतुल्याः क्रीडन्ति नित्यमुदिताः सह पुत्रभृत्यैः । । ११० । ।
चन्द्राननाः प्रवरदेहविशालनेत्रा बालार्कतुल्यवपुषः शुभकीर्तियुक्ताः ।
राज्यं नरा विगतशत्रुभयं लभन्ते सर्वं हि तत्स्वगुरुमातृजनेषु दानात् । । १११ । ।
छत्त्रैः सौवर्णदण्डैः शशिकरसदृशै रुद्धतीक्ष्णार्कपादः ।
राजा यच्छक्रवर्ती वरनृपतिशतैर्याति सार्धं पृथिव्यां
क्षेत्रे सम्यक्तदेतत्प्रवरगुणफलं शोधिते दानबीजात् । । ११२ । ।
चित्राख्यः क्षीरदानान्मधु पनसयुतं क्षीणदोषाय दत्त्वा
प्राप्तं वै क्ष्मापतित्वं सुरपतिभवने सिंहनाम्नाधिपत्यं । । ११३ । ।
दत्तं बह्वपि नैव तद्बहुफलं सत्पात्रहीनं धनं
क्षिप्तं बल्बजकण्टकाकुलतले क्षेत्रे क्षिते बीजवत् ।
दानं स्वल्पं अपि प्रयाति बहुतां न्यग्रोधबीजं यथा । । ११४ । ।
। । इति क्षेत्रकथा । ।
<DOC_END>
<DOC_START>
तदपि फलं उदारं छत्त्रदानात्प्रसूतं । । ५९ । ।
छत्त्रं चारुविचित्रपत्तसहितं चैत्याय यो यच्छति
प्राप्नोति क्षितिपार्चितं स हि चतुर्द्वीपेश्वरत्वं ध्रुवं । । ६० । ।
तत्ताथागतधातुचैत्यकुसुमच्छत्त्रप्रदानात्फलं । । ६१ । ।
। । इति छत्त्रकथा । ।
<DOC_END>
<DOC_START>
कीर्तिरुत्तमगुणाश्च युवत्यो दानतः कथितं एतदशेषम् । । २१ । ।
आज्ञादीप्तिर्भोगसंपत्प्रकृष्टा रूपौदार्यं वर्णमाधुर्यं ओजः ।
वाक्सौभाग्यं कान्तिरारोग्यं आयुस्तत्तद्दानादिष्टं इष्टं फलं च । । २२ । ।
अश्वाः क्षौमाणि नागा बहुकुसुमसितं चामरं चातपत्रं
सौधं संगीतिगर्भं मधुपटहरवाः पुष्पमाला युवत्यः ।
भोज्यं रत्नानि हाराः पुरनगरमहीं कुङ्कुमं देवलोकः
संबुद्धत्वं च बुद्धैः कथितं इह फलं दानकल्पद्रुमस्य । । २३ । ।
तन्मात्सर्यकपाटपाटनपटोर्दानस्य विस्फूर्जितं । । २४ । ।
नागैर्भिन्नमदैश्च यन्नरवरा गच्छन्ति छत्त्रोच्छ्रयैः ।
तद्दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशं । । २५ । ।
केयूरैर्मुकुटैश्च रत्नखचितैः सिंहासनस्थाः सदा ।
तद्दानस्य फलं वदन्ति मुनयः शार्दूलविक्रीडितं । । २६ । ।
तद्दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशं । । २७ । ।
दाता प्रियत्वं उपयाति जनस्य शश्वत्संसेव्यते च बःउभिः समुपेत्य सद्भिः ।
कीर्तिश्च दिक्षु विसरत्यमलं यशोऽस्य तत्तत्पदं समुपयाति विशारदोऽसौ । । २८ । ।
उद्यानेषु प्रकामं सुचिरं अतिसुखं नन्दनादिष्वखिन्नः
प्राप्नोत्युत्कृष्टरूपामरयुवतिजनैः सेव्यमानः प्रदानात् । । २९ । ।
दानं नाम महानिधानं अनुगं चौराद्यसाधारणं
दानं मत्सरलोभदोषरजसः प्रक्षालणं चेतसः ।
दानं नैकसुखोपधानसुमुखं सन्मित्रं आत्यन्तिकं । । ३० । ।
यद्दास्यं स्वयं अङ्गनाः सुकृतिनां आयान्ति पीनोरवस्
तन्माहात्म्यं उवाच संभृतफलं दानस्य शौद्धोदनिः । । ३१ । ।
श्रीमत्काञ्चनभाजने विनिहुतं बन्धूकताम्रं मधु ।
हेतुं तत्र वदन्ति शुद्धमतयो दानं परं श्रेयसः । । ३२ । ।
इति दानगुणान्निशम्य सौम्य प्रयतात्मा कुरु दान एव यत्नं ।
त्रिभवोग्रमहाभये नराणां न हि दानात्परं अस्ति बन्धुरन्यः । । ३३ । ।
। । इति दानकथा । ।
<DOC_END>
<DOC_START>
यत्प्राप्य जन्मजलधेरपि यान्ति पारं आरोपयन्ति शिवं उत्तमबोधिबीजं ।
चिन्तामणेरपि समभ्यधिकं गुणौघैर्मानुष्यकं क इह तद्विफली करोति । । १५ । ।
यो मनुष्यं कुशलविभवैः प्राप्य कल्पैरनल्पैर्
मोहात्पुण्यद्रविणं इह न स्वल्पं अप्याचिनोति ।
रत्नद्वीपाद्वणिगिव गतः स्वं गृहं शून्यहस्तः । । १६ । ।
नाकुशलैः कर्मपथैर्मानुष्यं लभ्यते पुनः ।
अलभ्यमाने मानुष्ये दुःखं एव कुतः सुखं । । १७ । ।
नातः परं वञ्चनास्ति न च मोहोऽस्त्यतः परं ।
यदीदृशं क्षणं प्राप्य न कुर्यात्कुशलं बहु । । १८ । ।
नैकजन्मकृतात्पापात्का पुनः सुगतौ कथा । । १९ । ।
अत एवाह भगवान्मानुष्यं अतिदुर्लभं ।
महार्णवयुगच्छिद्रकूर्मग्रीवार्पनोपमं । । २० । ।
। । इति दुर्लभमानुष्यकथा । ।
<DOC_END>
<DOC_START>
क्षणं अनवाप्यं अद्भुतं इमं समवेत्य चलं ।
शृणुत सुदुर्लभं क्षणं अपीह मुनेर्वचनं । । ८ । ।
तत्सांप्रतं प्राप्तं अतो भवद्भिः कार्यो हि धर्मश्रवणाय यत्नः । । ९ । ।
यो न चिन्तयति कर्मसत्पथं तस्य जन्म भवतीह निष्फलं । । १० । ।
सनरविबुधैः शक्यं पातुं मुनीन्द्रवचोमृतं । । ११ । ।
तस्मात्कुकार्यं व्यपहाय सर्वं मत्वा स्वकार्यं परमार्यधर्मं ।
श्रोतव्य एव प्रयतेन धर्मो यस्मादतः सर्वगुणा भवन्ति । । १२ । ।
मौनीन्द्रं वाक्यरत्नं जनयति सुधियां एतदादौ प्रमोदं
श्रोत्रापाते ततश्च प्रबलगुरुघनध्वान्तवृन्दं निहन्ति ।
निःशेषातङ्कपङ्क्तिं विघटयति सदा सर्वसंपन्निधानं । । १३ । ।
हरति तीव्रभवप्रभवापदं दिशति निर्वृतिसौख्यं अनुत्तरं ।
तदिदं एवं अवेत्य मुनेर्वचः शृणुत संप्रति निर्मलमानसाः । । १४ । ।
। । इति धर्मश्रवनप्रोत्साहनकथा । ।
<DOC_END>
<DOC_START>
पदे सुगतसंपदां सपदि सत्प्रतिष्ठो भुवि
जिनप्रतिकृतौ जनेन यदि धातुरारोप्यते । । ६२ । ।
शाक्रीं समन्तादधिगम्य लक्ष्मीं द्वीपांश्च भुक्त्वा चतुरो नरेन्द्राः ।
अन्ते विशुद्धं पदं आप्नुवन्ति धातोः समारोपणतो जिनस्य । । ६३ । ।
दृश्यन्ते कान्तिमन्तः शशधरवदनाः सुभ्रुवो दीर्घनेत्रा
मर्त्या यन्मर्त्यलोके वरकनकनिभाः क्षान्तिसौरत्ययुक्ताः ।
पृथ्वीं यच्चापि राजा जलनिधिवसनां पालयंश्चक्रवर्ती
तत्सर्वं बुद्धबिम्बे भवति तनुभृतां धातुं आरोप्य भक्त्या । । ६४ । ।
। । इति धात्वारोपणकथा । ।
<DOC_END>
<DOC_START>
क्लेशारिवर्गं त्वभिभूय धीराः संबोधिलक्ष्मीपदं आप्नुवन्ति ।
बोध्यङ्गदानं प्रदिशन्ति सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुं । । १८२ । ।
आकाशतुल्यमनसः समलोष्टहेमा ध्यानाद्भवन्ति मनुजा गुणहेतुभूताः । । १८३ । ।
प्राप्ताः संबोधिलक्ष्मीं प्रवरगुणमयीं दुर्लभां अन्यभूतैः ।
सत्त्वे ज्ञानाधिपत्यं विगतरिपुभयाः कुर्वते यन्नरेन्द्रा
ध्यानं तत्रैकहेतुं सकलगुणनिधिं प्राहुरार्या गुणौघाः । । १८४ । ।
मोहान्धकारं प्रविदार्य शश्वज्ज्ञानावभासं कुरुते समन्तात् ।
संबुद्धसूर्यः सुरमानुषाणां हेतुः स तत्र प्रवरः समाधिः । । १८५ । ।
। । इति ध्यानकथा । ।
<DOC_END>
<DOC_START>
काम्यं काञ्चनभाजने विनिहितं प्रालेयमिश्रं मधु ।
संगीतध्वनिसंगतं नरवरैस्तत्पानदानात्फलं । । ७३ । ।
पानं प्रीतिप्रसक्ताः सह मधु मधुरं माधवं वा पिबन्ति
प्रोक्तं प्राज्ञैः फलं तद्गुणनिचितगणे पानदानस्य रम्यं । । ७४ । ।
ग्रीष्मे प्रालेयभिन्नं शशिकरसदृशे भाजने संस्कृतं तद्
दत्त्वा संघाय भक्त्यामरभवनगतो दिव्यं आप्नोति पानं । । ७५ । ।
मधुमधुरं उदारं आदरेण प्रवरगणाय ददाति पानकं यः ।
दिवि भुवि सकले स पानं अग्र्यं पिबति चिरं प्रवराङ्गनोपनीतं । । ७६ । ।
श्रद्धाप्रसन्नमनसो भुवि ये मनुष्याः संघाय पानकवरं प्रदिशन्ति काले ।
संसारपर्वतदरीतटवाससंस्थास्ते प्राप्नुवन्ति सततं मधुरं सुपानं । । ७७ । ।
। । इति पानकथा । ।
<DOC_END>
<DOC_START>
यद्दृश्यते जगति चारुतरं प्रियं वा रूपं कुलं प्रियजनो विभवाः सुखं वा ।
तत्पुण्यशिल्पिकृतं एव वदन्ति सन्तः कल्याणकारिपुरुषस्य न पुण्यतुल्यं । । ३४ । ।
उद्धूतचामरविराजितगात्रशोभाः पुण्याधिकाः क्षितिभुजो भुवि संचरन्ति । । ३५ । ।
यत्के चिदेव पुरुषाः श्रियं उद्वहन्ति पुण्यस्य पूर्वचरितस्य कृतज्ञता सा । । ३६ । ।
आयुः सुदीर्घं सुकुले च जन्म कान्तं वपुर्व्याधिभयं न चास्ति ।
धनं प्रभूतं परिवारसंपद्भवन्ति पुण्यस्य महाविपाकाः । । ३७ । ।
यच्चक्रवर्ती प्रवरैस्तु रत्नैः सहस्रपुत्रैश्च समन्वितोऽपि
समुद्रसीमां बुभुजे धरित्रीं तत्पुण्यरत्नस्य फलं विशालं । । ३८ । ।
यद्ब्रह्मलोकं त्वभिभूय तेजसा ब्रह्मा सदा भाति तदेव पुण्यतः । । ३९ । ।
संपूज्यते देवगुरुः सदैव तत्पुण्यरत्नस्य फलं विशालं । । ४० । ।
रूपं वीर्यं च शिल्पं च विहाय विवशा नराः ।
परलोकं इतो यान्ति कर्मवायुभिरीरिताः । । ४१ । ।
पुण्यं त्वेकं इहात्यन्तं अनुगामि सुखोदयं ।
पुण्यं अन्यैरहार्यत्वाद्धनानां प्रवरं धनं । । ४२ । ।
ये मेरुं अपि वेगेन विकिरन्ति दिशो दश ।
तेऽपि पुण्यस्य भङ्गाय नालं प्रलयवायवः । । ४३ । ।
पुण्यं न क्लेदं आयाति चतुःसागरवारिणा । । ४४ । ।
क्षितौ वा दह्यमानायां पुण्यं एकं न दह्यते । । ४५ । ।
। । इति पुण्यकथा । ।
<DOC_END>
<DOC_START>
मानुष्यं समवाप्य दुष्करशतैर्लब्ध्वा दुरापं क्षणं
मृत्यौ निष्प्रतिकारदारुणतरे नित्यं पुरःस्थायिनि ।
पाथेयं दमदानसंयममयं यैर्न प्रभूतं कृतं
संसारोग्रमरुप्रपातपतिताः प्राप्स्यन्ति दुःखानि ते । । १ । ।
मानुष्यं दुर्लभं प्राप्य विद्युत्संपातचञ्चलं ।
भवक्षये मतिः कार्या भवोपकरणेषु वा । । २ । ।
पुण्यं एवात्र कुर्वीत यतश्चिन्तामणिर्नृणां । । ३ । ।
यस्यानुभावान्मानुष्यं प्राप्तं भूयोऽपि सांप्रतं ।
पुण्यं तद्वर्ध्यस्वेह यस्माद्धेतुः सुखस्य ते । । ४ । ।
मानुष्यं यदुपाश्रयेण भवता लब्धं पुनः सांप्रतं
तत्पुण्यं सुहृदेक एव जगतां बन्धुश्च जन्मान्तरे
तस्मात्तूर्णं इदं कुरु त्वं असकृत्सर्वार्थसंपत्करं । । ५ । ।
लक्ष्मीनिकेतं यदुपाश्रयेण प्राप्तोऽसि लोकाभिमतं प्रभुत्वं ।
तान्येव पुण्यानि विवर्धयेथा न कर्षणीयो ह्युपकारिपक्षः । । ६ । ।
विरमत पापतः कुरुत पुण्यं उदारतरं
दशति न यावदेव मरणाहिरसह्यविषः । । ७ । ।
। । इति पुण्यप्रोत्साहनकथा । ।
<DOC_END>
<DOC_START>
शक्राधिकाः प्रवरभोगसमन्वितास्ते पद्मेन्दुकान्तिवपुषो वरकीर्तियुक्ताः ।
शत्रून्विजित्य रभसा सततं भवन्ति संघस्य ये सुकुसुमैः प्रकिरन्ति पूजां । । ८१ । ।
रत्नोपमा भुवि चरन्ति मनुष्यभूता दत्त्वा जिने प्रवरधूपं उदारगन्धं । । ८२ । ।
नरोत्तमाः सर्वजनैरुपेता भवन्ति बुद्धे सुरभिप्रदानात् । । ८३ । ।
रोगादिभिः प्रबलदुःखकरैर्विमुक्ताः स्निग्धाननाः कनकतुल्यमनोज्ञवर्णाः ।
राज्यं हि ये विगतकण्टकं आप्नुवन्ति भैषज्यदानविधिना तदुशन्ति संघे । । ८४ । ।
। । इति पुष्पादिकथा । ।
<DOC_END>
<DOC_START>
प्रज्ञाधनेन विकलं तु नरस्य रूपं आलेख्यरूपं इव सारविहीनं अन्तः ।
बुद्ध्यान्वितस्य फलं इष्टं उदेति वीर्याद्वीर्यं तु बुद्धिरहितं स्ववधाय शत्रुः । । १८६ । ।
योऽनेकजन्मान्तरितं स्वजन्म भूतं भविष्यत्कुलनामगोत्रैः ।
मध्यान्तविद्योऽपि जनः प्रवेत्ति प्रज्ञाबलं तत्कथयन्ति तज्ज्ञाः । । १८७ । ।
यद्बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तं
ज्ञानालोकं करोति प्रहरति च सदा दोषवृन्दं नराणां ।
आदेष्टा चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः
प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुं उत्कीर्तयन्ति । । १८८ । ।
कार्यार्णवे चापि द्र्धं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः ।
प्रज्ञावशात्ते विजयं लभन्ते प्रज्ञा यतः सा शुभहेतुभूता । । १८९ । ।
न प्रज्ञाविकला विभान्ति पुरुषाः प्रातः प्रदीपा इव ।
जित्वा क्लेशगणाञ् छुभार्थनिरताः क्रीडन्तु धर्मार्थिनः । । १९० । ।
। । इति प्रज्ञाकथा । ।
<DOC_END>
<DOC_START>
यच्चक्रवर्ती क्षितिपप्रधानैः कृत्वाञ्जलिं कुण्डलचारुगण्डैः ।
भक्त्या स्वमूर्ध्ना बहु वन्द्यते तद्बुद्धप्रणामात्कथयन्ति तज्ज्ञाः । । ८५ । ।
ये जातमात्राः प्रभुतां प्रयान्ति श्रेष्ठे कुले जन्म सदैव येषां ।
हस्त्यश्वयानैश्च परिभ्रमन्ति कृत्वा तु ते श्रेष्ठतरे प्रणामं । । ८६ । ।
प्रथयति यशो धत्ते श्रेयो विवर्धयति द्युतिं
हरति दुरितं सर्वं सर्वं ह्यरातिं अपाहते ।
सुगतिनियतां लोके नॄणां करोति च संततिं
फलति च शिवायान्तेऽवश्यं मुनीन्द्रनमस्क्रिया । । ८७ । ।
चक्री नृपो यद्बलकीर्तियुक्तो द्वात्रिंशता लक्षणभूषिताङ्गः ।
संजायते वै क्षितिपप्रधानो बुद्धप्रणामाद्धि फलं तदुक्तं । । ८८ । ।
एवं बहुगुणं मत्वा मत्वा कायं च भङ्गुरं ।
बुद्धप्रणामात्को विद्वान्कायकर्मान्यदाचरेत् । । ८९ । ।
कस्तं न नमः कुर्याद्दृष्ट्वा दूरात्पुनर्भवाद्भीतः ।
कृत्वैकनमस्कारं भवपारं अवाप यद्धेतोः । । ९० । ।
। । इति प्रणामकथा । ।
<DOC_END>
<DOC_START>
सुसूक्ष्मं अपि वस्तु चातितिमिरोत्करैरावृतं ।
ददर्श सुगतस्य दीपपरिबोधनात्तत्फलं । । ९५ । ।
बुद्धत्वं किल सुगतः प्रदीपकेन व्याकार्षीन्ननु नगरावलम्बिकायाः ।
को दद्याद्भगवति न प्रदीपमालां प्राप्त्यर्थं विमलमुनीन्द्रलोचनस्य । । ९६ । ।
दूरं सूक्ष्मं व्यवहितं दृश्यं पश्यन्ति ये जनाः ।
जिनप्रदीपमालायास्तत्फलं मुनयो जगुः । । ९७ । ।
देवा यद्देवलोकं वरकनकनिभा भासयन्ति स्वकान्त्या ।
तत्सर्वं दीपदानाद्भवति तनुभृतां शाक्यसिंहाय भक्त्या । । ९८ । ।
लोके यद्भान्ति मर्त्याः कुवलयनयनाः सुभ्रुवो हेमवर्णाः
शक्रो यद्देवराजो दशशतनयनो भाति दिव्यासनस्थः ।
यद्ब्रह्मा वीतकामः प्रवरसुरनतो भाति दिव्ये विमाने
दत्त्वा तद्दीपमालां प्रभवति सुफलं शास्तृचैत्ये नराणां । । ९९ । ।
। । इति प्रदीपकथा । ।
<DOC_END>
<DOC_START>
व्यक्तो धीमान्प्रदाता भवति भगवतो बुद्धबिम्बं विधाय । । ४६ । ।
यावन्तः परमाणवो भगवतः स्तूपेषु बिम्बेषु वा
तत्कर्तुर्दिवि भूतले च नियतं तावन्ति राज्यान्यपि ।
रूपारूप्यसमाधिसंपदखिलं भुक्त्वा च सर्वं सुखम्
अन्ते जन्मजराविपत्तिरहितं प्राप्नोति बौद्धं पदं । । ४७ । ।
भवेज्जिनोऽन्ते जितदोषशत्रुः ताथागतीं यः प्रतिमां विधत्ते । । ४८ । ।
जन्म मानुष्यकं वंश उच्चैरादेयवाक्यता । । ४९ । ।
जातिः श्रुतिः स्मृतिर्धैर्यं अभिवाञ्छितसंपदः ।
स्थानेष्वभिनिवेशश्च रागादिभिरबाधना । । ५० । ।
संबोधिरिति जायन्ते विशेषाः साधुसंमताः ।
विधाय बुद्धप्रतिमां स्तूपं वा प्राणिनां सदा । । ५१ । ।
न याति दास्यं न दरिद्रभावं न प्रेष्यतां नापि च हीनजन्म ।
न चापि वैकल्यं इहेन्द्रियाणां यो लोकनाथप्रतिमां करोति । । ५२ । ।
। । इति बिम्बकथा । ।
<DOC_END>
<DOC_START>
स्वाडुस्पर्शसुखां सुराः सुरपुरे यद्देववृन्दारकैः ।
भास्वत्काञ्चनभाजनेषु निहितां अश्नन्ति दिव्यां सुधां
तद्बुद्धप्रमुखार्यसंघविषये न्यस्तान्नदानात्फलं । । ६९ । ।
मैत्र्या यः सह किंकरैः स्मररिपुं निर्जित्य वज्रासने
स्कन्धारातिं अपि प्रसह्य सुगतो मृत्युं च नीत्वा वशं
प्राप्तः सर्वरसाग्रभोगवशितां सोऽप्यन्नदानोदयात् । । ७० । ।
आयुर्बलं वर्णं उदाररूपं प्राप्नोति विद्वानशनप्रदानात् । । ७१ । ।
निर्जित्य शत्रून्बलवीर्ययुक्तान्लक्ष्मीं समासाद्य च ये नरेन्द्राः ।
स्वादूनि भोज्यानि समाप्नुवन्ति भोज्यप्रदानाद्धि सदा तदेतत् । । ७२ । ।
। । इति भोजनकथा । ।
<DOC_END>
<DOC_START>
भवति कनकवर्णः सर्वरोगैर्विमुक्तः सुरमनुजविशिष्टश्चन्द्रवद्दीप्तकान्तिः ।
धनकनकसमृद्धो जायते राजवंशे सुगतवरगृहेऽस्मिन्मण्डलं यः करोति । । ६५ । ।
ते प्राप्नुवन्ति सहसैव जनाधिपत्यं दीर्घायुषो विविधरोगभयैर्विमुक्ताः ।
बुद्धस्य ये हि भुवनत्रयपूजितस्य कृत्वा भवन्ति कुसुमैः सह मण्डलानि । । ६६ । ।
दानं गोमयं अम्बुना च सहितं शीलं च संमार्जनं
क्षान्तिः क्षुद्रपिपीलिकापनयनं वीर्यं क्रियोत्थापनं ।
ध्यानं तत्क्षणं एकचित्तकरणं प्रज्ञा सुरेखोज्ज्वला
एताः पारमिताः षडेव लभते कृत्वा मुनेर्मण्डलं । । ६७ । ।
दिव्यैः सुखैः सकलभोगवरैश्च युक्ता मर्त्या भवन्ति कनकाधिकचारुवर्णाः ।
पद्माननाः स्वविकलाङ्गविशालनेत्राः पुष्पैर्गणस्य विविधैर्वसुधां विचित्र्य । । ६८ । ।
। । इति मण्डलकथा । ।
<DOC_END>
<DOC_START>
यच्छन्ति लोकगुरवे सगणोत्तमाय ते प्राप्नुवन्त्यभिमतप्रवराम्बराणि । । ७८ । ।
यः संघायाशेषगणानां प्रवराय श्राद्धो भक्त्या चीवरमालां प्रददाति ।
स प्राप्नोति ह्रीवसनं वस्त्रवरिष्ठं काषायं च क्लेशकषायप्रतिपक्षं । । ७९ । ।
ह्रीवस्त्रालंकृतात्मा भवति पटुमतिः सर्वधर्मेश्वरः सः । । ८० । ।
। । इति वस्त्रकथा । ।
<DOC_END>
<DOC_START>
यो धर्मरत्नं लिखतीह नित्यं शृणोति तच्चिन्तयते सदैव ।
संभावनां वा यदि चात्र कुर्याज्जातिस्मरत्वं लभते स नित्यं । । ११५ । ।
यद्देवलोके वरकल्पवृक्षाः सर्वार्थसंसिद्धिकरा भवन्ति ।
देवोत्तमानां सुखहेतुभूतास्तत्गोप्रदानस्य फलं विशालं । । ११६ । ।
यद्गर्भे परिपुष्टिं एति शुचिभिः प्रोन्नीयमानो रसैर्
बाल्ये यन्मधुसर्पिषी च पिबति क्षीरं च काले पुनः ।
वृद्धत्वे च यथेप्सितं वररसं तद्गोप्रदानोद्भवं । । ११७ । ।
सिंहासनं प्रमुदितो रुचिरं गणाय भक्त्या ददाति विधिवत्खलु यः स दाता ।
सिंहासनानि लभते प्रवराण्यभेद्यं वज्रासनं च सुरपन्नगसिद्धवन्द्यं । । ११८ । ।
सौवर्णपात्रे सततं नरेन्द्रा यत्क्षीरं अश्नन्ति रसादियुक्तं ।
लक्ष्मीसमृद्धाश्च नरीर्लभन्ते पद्माननास्तन्महिषीप्रदानात् । । ११९ । ।
यानप्रदानेन सदातुराणां सुदुर्बलानां वहनेन चैव ।
संमाननां वै कुरुते गुरूणां ऋद्धिं समाप्नोति नरस्तु तेन । । १२० । ।
अश्वैर्विचित्रैः सततं वहन्ति सुवर्णपत्त्रच्छुरितैर्नरेन्द्राः ।
ऋद्ध्या च गच्छन्ति सुदूरदेशं यानप्रदानात्तु तदेव मर्त्याः । । १२१ । ।
हारार्धहारैः कटकैरुपेताः क्रीडन्ति देवेषु मनोज्ञवर्णाः ।
सार्धं हि यत्तत्त्रिदशाधिपेन निःसङ्गदानात्प्रवदन्ति सन्तः । । १२२ । ।
भीतान्समाश्वासयते सदैव धीमान्नरो वाक्प्रतिपादनेन ।
सर्वैर्न मारैः परिभूयतेऽसौ वाक्यं च नित्यं मधुरं शृणोति । । १२३ । ।
यदर्हयन्तीह जिनस्य वाक्यैः क्लेशारिभङ्गैर्भुवि धर्मधातुं ।
संसारसौख्यं त्वनुभूय सर्वं धर्मेश्वरत्वं प्रवरं लभन्ते । । १२४ । ।
प्रतिश्रयं ते प्रदिशन्ति सन्तः सर्वत्र काले श्रमपीडितानां ।
ते यान्ति नाकं सततं प्रहृष्टाः शक्रेण सार्धं च सदा रमन्ते । । १२५ । ।
ये रोपयन्तीह सुकाननानि वृक्षांश्च पुष्पाणि च गन्धवन्ति ।
च्युत्वापि ते यान्ति दिवं मनुष्या उद्यानमालाद्युपभोगयुक्ताः । । १२६ । ।
कुर्वन्ति सेतुं विषमे प्रदेशे पानीयमध्येऽपि च ये मनुष्याः ।
स्वर्गं सदा भोगसमन्वितं हि यान्त्युत्तमं ते वरहेमगात्राः । । १२७ । ।
वापीतडागानि सुशोभनानि कृत्वा नराः स्वर्गं अवाप्नुवन्ति ।
इहैव लोके च मनुष्यभूता राज्यानि रम्याणि सुखावहानि । । १२८ । ।
ये कारयन्ति प्रवरान्मनुष्यास्ते देवभूताः सुखिनो भवन्ति । । १२९ । ।
छत्त्राणि ये वा प्रतिपादयन्ति सूर्यांशुतापेन सुदुःखितेषु ।
छत्त्रोपगास्ते जितशत्रुसंघा भवन्ति नित्यं वरसौख्ययुक्ताः । । १३० । ।
पादाश्रयं चित्रं उपानहौ च सर्वेषु सत्त्वेषु दिशन्ति भक्त्या ।
यानोत्तमैस्ते सुचिरं प्रयान्ति देवेषु मर्त्येसु सदोपपन्नाः । । १३१ । ।
शंसन्ति ये जिनवरं गुणकीर्तनेन कायप्रणामक्रियया च गुरूंश्च सर्वान् ।
संमाननां गुरुकुलात्समवाप्नुवन्ति जातिं तथैव वचनप्रतिसंविदं च । । १३२ । ।
मृदङ्गवीणापटहादिभिर्ये कुर्वन्ति पूजां सुगतोत्तमानां ।
मनुष्यभूताः सुमनोज्ञवाक्याः शृण्वन्ति शब्दान्सुमनोज्ञरूपान् । । १३३ । ।
यष्टिं समारोपयति प्रहृष्टश्छत्त्रं च घण्टां सुगतस्य चैत्ये ।
छत्त्रावलीं वा कुरुते स तेन लक्ष्मीं समाप्नोति नरो विशालां । । १३४ । ।
मनुष्यभूतो भुवि यः समन्तादीशत्वं आप्नोति बलेन युक्तः ।
केयूरमुक्ताभरणैरुपेतो भूमिप्रदानात्तदुशन्ति सन्तः । । १३५ । ।
बिम्बं करोति प्रवरं जिनस्य स्तूपं च वा छत्त्रवरैरुपेतं ।
धातुं समारोपयतीह यश्च स्वर्गं समाप्नोति नरस्तु तेन । । १३६ । ।
ये बुद्धं उद्दिश्य महान्ति नित्यं कुर्वन्ति मृद्गोमयलेपनानि ।
पुष्पं फलं भोजनपानकं वा यच्छन्ति ते राजबलं लभन्ते । । १३७ । ।
दीपानुदारान्विविधांश्च गन्धान्पुष्पाणि धूपं गुडपानकं वा ।
दिशन्ति संघस्य तथा च हेम भवन्ति ते देवसुखेन युक्ताः । । १३८ । ।
स्तूपाङ्गनं धातुवरं विहारं ये शोधयन्तीह नराः प्रयत्नैः ।
निर्माल्यं एभ्यश्च समुद्वहन्ति ते हेमवर्णाः सुदृशो भवन्ति । । १३९ । ।
उज्ज्वालिकां ये प्रदिशन्ति सद्भ्यः शीतागमे वस्त्रं अथापि गेहं ।
पानं विचित्रं वरकन्यकां वा ते जन्मभूमौ सुखिनो भवन्ति । । १४० । ।
दीर्घायुरेव भुवि सर्वरुजा विमुक्तः प्राप्नोति सौकःयं अतुलं सततं प्रहृष्टः ।
देवोद्भवानि विविधानि सुखानि भुङ्क्ते प्राणातिपातविरतः खलु यस्तु विद्वान् । । १४१ । ।
दृष्ट्वा परस्य विभवं न करोति चौर्यं गुप्तिं च यः प्रकुरुते परिरक्षणार्थं ।
प्राप्नोत्यसौ द्रविणसंपदं अप्रमेयां सर्वैस्तु तस्करनृपादिशतैरहार्यां । । १४२ । ।
दारान्परस्य परिवर्जयतीह योऽसौ दारानसौ लभत एव मनोज्ञरूपान् ।
शत्रूद्भवो न हि जनस्य कदा चिदेव लोकस्य वै भवति विश्वसनीय एव । । १४३ । ।
नीलोत्पलस्यैव यथा हि गन्धो मनोज्ञरूपः सततं प्रवाति ।
तद्वन्मनुष्यस्य हि वाति गन्धो मुखादसत्यं तु न वक्ति यश्च । । १४४ । ।
सन्मित्रसम्धिं नृपतेश्च पूजां भक्त्यान्वितं पुत्रकलत्रभृत्यं ।
भोगानुदारान्सुखं अप्रमेयं प्राप्नोति नित्यं पिशुनाद्विमुक्तः । । १४५ । ।
आनन्दशब्दं मधुरं शृणोति वाक्यानि नित्यं सुमनोज्ञकानि ।
देवेषु मर्त्येषु च जायतेऽसौ पारुष्यवाक्याद्विरतो नरो यः । । १४६ । ।
धर्मार्थसत्यनिरता खलु यस्य वाणी लोके सदा प्रियतमा भवतीह नित्यं ।
संपूजनां स लभते बहुरत्नजातैर्यायाच्च्युतो विबुधलोकं अनन्तसौख्यं । । १४७ । ।
स तीव्ररागो भवतीह नैव भोगैरुदारैः सततं च युक्तः ।
आदेयवाक्यः पृथुकीर्तियुक्तः परस्वतृष्णाविरतो हि यो वै । । १४८ । ।
प्रासादिकत्वं लभते स नित्यं स्फीतं सुखं राज्यधनादि लोके ।
ब्रह्मत्वं आसादयतीह सम्यङ्मैत्रस्य चित्तस्य वशान्मनुष्यः । । १४९ । ।
स्वर्गापवर्गं समवाप्तुकामैर्नरैस्तु नित्यं समुपार्जनीया ।
अस्तित्वदृष्टिः परमा हि यस्मात्सर्वस्य सा वै कुशलस्य मूलं । । १५० । ।
श्रद्धानिराकृतमतेर्न विरोहतीह पुण्यं ह्युदारभुवनत्रयसौख्यकारि ।
तस्मान्नरेण विदुषा सततं निषेव्या श्रद्धा समस्तगुणरत्ननिधानभूता । । १५१ । ।
श्रद्धा शुभस्य जननी जननी यथैव सैवादितो मनसि साधुजनैर्निवेश्या ।
श्रद्धाकरेन रहितो न हि बोधिपक्षसद्धर्मरत्ननिकरग्रहणे समर्थः । । १५२ । ।
भ्रष्टो यथाधिपत्यादैश्वर्यफलानि न ह्यवाप्नोति ।
श्रद्धेन्द्रियविभ्रष्टो न तथार्यफलान्यवाप्नोति । । १५३ । ।
तस्मान्नरेण विदुषा सुगतादिकेषु कार्यं मनःप्रसदनं सततं हितेषु ।
निःशेषदोषशमनाय न चान्यदस्ति श्रद्धा यथा दहति दोषगणं समस्तं । । १५४ । ।
दर्शयन्त्येव लोकस्य ह्यदातुः फलं ईदृशं । । १५५ । ।
शश्वत्क्षुद्विहता भ्रमन्ति यदमी देहीति बाहूच्छ्रिताः ।
प्रायोऽल्पं सकृदप्यमीभिरशनं दत्तं न कस्मै चन । । १५६ । ।
सूचीमुखाः कुहरनेत्रविशुष्कगात्राः केशाम्बरा रविकरैः परिपीतभासः ।
प्रेताः सदा सलिललालसया यदार्तास्तत्पानदानविकलस्य फलं वदन्ति । । १५७ । ।
दानं सर्वसुखं महाभयहरं भाग्यं महच्चार्थदं
क्षुत्तृष्णादिसुशोषणं शुभकरं कुर्युर्नरा यत्नतः । । १५८ । ।
। । इति विचित्रकथा । ।
<DOC_END>
<DOC_START>
सर्वर्तुरम्यवरहर्म्यतले नरेन्द्राः संगीतिगर्भजयजीवगिरा रमन्ते ।
शुद्धान्तवारवनिताभिरशीततायाश्चातुर्दिशार्ययतिसंघविहारदानात् । । १०० । ।
बुद्धप्रचोदनवचोऽपि मुनेरशेषं आरोच्य सार्ययतिसंघविहारहेतोः ।
यज्जाग्रतोऽपि चरतः स्वपतः स्थितस्य पुण्याभिवृद्धिरुपरिप्रभवाप्रमाणा । । १०१ । ।
संघस्योद्दिश्य सर्वोपकरणसुभगं यो विहारं करोति ।
प्रासादे वैजयन्ते प्रवरमणिमये स्तम्भभित्तौ प्रियाभिः
सार्धं सर्वर्तुरम्ये चिरं अभिरमते देवलोके स एव । । १०२ । ।
दत्त्वा गणाय गुणिने प्रवराय शाक्रं प्रासादरत्नं अधिगच्छति वैजयन्तं । । १०३ । ।
। । इति विहारकथा । ।
<DOC_END>
<DOC_START>
वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस्तरति वीर्यमहाप्लवेन ।
नैवास्ति तज्जगति वस्तु विचिन्त्यमानं नावाप्नुयाद्यदिह वीर्यरथाधिरूढः । । १७७ । ।
हत्वा रिपूञ् जयं अनुत्तमं आप्नुवन्ति विस्फूर्जितं तदिह वीर्यमहाभटस्य । । १७८ । ।
वीर्येण गोष्पदं इव प्रविलङ्घ्य शूराः कुर्वन्त्यनर्घगुणरत्नधनार्जनानि । । १७९ । ।
मोदन्ते सुरसुन्दरीभुजलतापाशोपगूढाश्चिरं । । १८० । ।
यद्देवा वियति विमानवासिनो ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यं ।
अत्यन्तं विपुलफलप्रसूतिहेतोर्वीर्यस्य स्थिरविहितस्य सा विभूतिः । । १८१ । ।
। । इति वीर्यकथा । ।
<DOC_END>
<DOC_START>
संशेरते क्षितिभुजो निशि यैः प्रदत्तं शय्यासनं शमितदोषगणोत्तमाय । । १०४ । ।
शय्यायां रत्नमय्यां सुरभिपरिमलामोदवत्यां महत्यां ।
यत्तच्छय्यासनानां फलं इदं उदितं भिक्षुसंघाय दानात् । । १०५ । ।
नित्यं स्वपन्ति वरवस्त्रसुतूलिकायां स्तूपाय चात्र शयनासनदानतस्तत् । । १०६ । ।
। । इति शयनासनदानकथा । ।
<DOC_END>
<DOC_START>
यथाम्बुपूर्णः सभुजङ्गमो ह्रदः प्रफुल्लशाखश्च सकण्टको द्रुमः ।
श्रुतेन वित्तेन कुलेन चान्वितस्तथाविधः शीलपराङ्मुखो जनः । । १५९ । ।
वरं दरिद्रोऽपि सुशीलवान्भवेन्न चार्थवानप्यनलंकृतो गुणैः ।
दरिद्रभावेऽपि हि सज्जनः स्तुतो रसो गुणानां अमृताद्विशिष्यते । । १६० । ।
संमानयन्ति गुरवो गुणवन्तं आर्यं तेजस्विनोऽपि धनिनोऽपि मनस्विनोऽपि ।
तस्मान्नरो नरपतेरपि यः सकाशात्संमानं इच्छति स रक्षतु शीलं एव । । १६१ । ।
लोके सुखं विषयजं सभयं सवैरं धर्मात्मनः कृतमतेः सुखं उत्तमं तु ।
तस्मान्नरः सुखं उदारं अहार्यं आर्यं यः प्राप्तुं इच्छति स रक्षतु शीलं एव । । १६२ । ।
यो भ्रष्टशीलविनयस्य विनाशकाले त्रासः समाविशति शीलवतो न सोऽस्ति ।
तस्मात्प्रहृष्टविनयः परलोकं अन्ते यो गन्तुं इच्छति स रक्षतु शीलं एव । । १६३ । ।
शीलेन निश्चयदृढेन दिवं प्रयाति नात्मक्लमेन न कुदृष्टिकृतैर्विमार्गैः ।
तस्मादृतेऽपि वनवासं ऋतेऽपि लिङ्गं यः स्वर्गं इच्छति स रक्षतु शीलं एव । । १६४ । ।
शीलं विनाशहरणावरणादिरक्षा शीलं धनं परमं आर्यं अहार्यं अन्यैः ।
शीलं स्थिरं व्युपशमेऽप्यनुगामि मित्रं शीलं विभूषणं ऋतेऽपि विभूषणेभ्यः । । १६५ । ।
न ह्यस्ति शीलसदृशं हितकारि मित्रं स्निग्धाशयो न खलु शीलसमोऽस्ति बन्धुः ।
माता पिता च तनयाय विधातुं इच्छेद्यः शीलं ऊर्जितफलं हितं आदधातु । । १६६ । ।
। । इति शीलकथा । ।
<DOC_END>
<DOC_START>
नानागन्धैः सुगन्धैः स्नपयति सुगतं पुष्पधूपाङ्गरागैर्
यो वा पूजां करोति प्रमुदितमनसा श्रव्यवादित्रशब्दैः ।
व्याप्तायां स्नाति सोऽन्ते सकलकलिमलक्षालितो याति मोक्षं । । ५३ । ।
मन्दाकिन्यां सुरौघाः प्रतिदिनं उदकक्रीडया यद्रमन्ते
नानागन्धोदकेन स्नपनफलं इदं बुद्धभट्टारकस्य । । ५४ । ।
स्नपनं इदं य एव विदधाति मुनेर्मनुजः
स भवति वीतमानसमलो जगुरस्तमलाः । । ५५ । ।
। । इति स्नानकथा । ।
<DOC_END>
<DOC_START>
अथ स्वस्थाय देवाय नित्याय हतपाप्मने।
भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः॥४॥
यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः।
योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु मे॥६॥
ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै॥९॥
दिग्देशकालकलनादिसमस्तहस्तमर्दासहं दिशतु शर्म महन्महो वः॥१०॥
देवः स विश्वजनवाङ्मनसातिवृत्तशक्तिः शिवं दिशतु शश्वदनश्वरं वः॥११॥
विश्वप्रपञ्चरचनाचतुरत्वमेति स त्रायतां त्रिभुवनैकमहेश्वरो वः॥१२॥
मध्याह्नार्कमरीचिकास्विव पयःपूरो यदज्ञानतः खं वायुर्ज्वलनो जलं क्षितिरिति त्रैलोक्यमुन्मीलति।
यत्तत्त्वं विदुषां निमीलति पुनः स्रग्भोगिभोगोपमं सान्द्रानन्दमुपास्महे तदमलं स्वात्मावबोधं महः॥१३॥
यस्माद्विश्वमुदेति यत्र रमते यस्मिन्पुनर्लीयते भासा यस्य जगद्विभाति सहजानन्दोज्वलं यन्महः।
शान्तं शाश्वतमक्रियं यमपुनर्भावाय भूतेश्वरं द्वैतध्वान्तमपास्य यान्ति कृतिनः प्रस्तौमि तं पूरुषम्॥१४॥
यः सृष्टिस्थितिसंहृतीर्विनुते ब्रह्मादिमूर्तित्रिकैर्यस्याधीनतयास्थितानि सदसत्कर्माण्यपि प्राणिनाम्।
नित्येच्छाकृतिबुद्धिमानथ परो जीवात्परात्मा खयं सोऽयं वो विदधातु पूर्णमचिराच्चेतोगतं यद्भवेत्॥१५॥
सूक्ष्माय शुचये तस्मै नमो वाक्तत्त्वतन्तवे।
विचित्रो यस्य विन्यासो विदधाति जगत्पटम्॥२॥
शूली हालाहलं पीत्वा यया मृत्युंजयोऽभवत्॥२॥
शेषवक्रकमलानि मलं बो दुग्धपानविधुराणि हरन्तु॥१॥
विकसदमरनारीनेत्रनीलाब्जखण्डान्यधिवसति सदा यः संयमाधः कृतानि।
न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः॥२॥
अर्चिष्मन्ति विदार्यवक्रकुहराण्यासृक्कितो वासुकेरङ्गुल्या विषकर्बुरान्गणयतः संस्पृश्य दन्ताङ्कुरान्।
एकं त्रीणि च सप्त पञ्च षडितिप्रध्वस्यसंख्याक्रमा वाचः क्रौञ्चरिपोः शिशुत्वविकलाः श्रेयांसि पुष्णन्तु वः॥३॥
जाह्नवी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ।
कामारिं कामतातं वा कंचिद्देवं भजामहे॥१॥
पातु नाभिगतं पद्मं यस्य तन्मध्यगं यथा॥२॥
नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते।
अथ विश्वस्य संहर्ते तुभ्यं त्रेधास्थितात्मने॥२॥
वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः॥१॥
पालयन्तमथ कोककुलानि ज्योतिषां पतिमहं महयामि॥१॥
आग्नायप्रवणैरलंकृतिजुषेऽमुष्यै मनुष्यैः शुभैर्दिव्यक्षेत्रसरित्पवित्रवपुषे देव्यै पृथिव्यै नमः॥१॥
<DOC_END>
<DOC_START>
भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।
सुभाषितेन गीतेन युवतीनां च लीलया।
मनो न भिद्यते यस्य सयोगी ह्यथवा पशुः॥२॥
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः॥२॥
कान्पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि।
किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा॥१॥
देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा।
त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम्॥२॥
किं तेन किल काव्येन मृद्यमानस्य यस्य ताः।
किं तेन काव्यमधुना प्लाविता रसनिर्झरैः।
यदा प्रकृत्यैव जनस्य रागिणो भृशं प्रदीप्तो हृदि मन्मथानलः।
तदात्र भूयः किमनर्थपण्डितैः कुकाव्यहव्याहुतयो निवेशिताः॥३॥
तत्किं काव्यमनल्पपीतमधुवत्कुर्यान्न यद्दृद्गतं मात्सर्यावृतचेतसां रसवशादप्युद्गतिं लोमसु।
काम्पं मूर्ध्नि कपोलयुग्ममरुणं बाष्पाविले लोचने अध्यारोपितवस्तुकीर्तनपरं वाचः करालम्बनम्॥४॥
या साधूनिव साधुवादमुखरान्मात्सर्यमूकानपि प्रोच्चैर्नो कुरुते सतां मतिमतां दृष्टिर्न सा वास्तवी।
या याताः श्रुतिगोचरं च सहसा हर्षोल्लसत्कंधरास्तिर्यच्चोऽपि न मुक्तशष्पकवलास्ताः किं कवीनां गिरः॥५॥
जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः।
नास्ति येषां यशः काये जरामरणजं भयम्॥१॥
स कविस्तानि काव्यानि काव्ये तस्य परिश्रमः॥२॥
सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे।
उत्पादका न बहवः कवयः शरभा इव॥४॥
प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने प्रसत्तौ गाम्भीर्ये रसवति च काव्यार्थरचने।
सत्येके बहुलालापाः कवयो बालका इव॥१॥
वाणी वेश्येव लोभेन परोपकरणीकृता ॥२॥
पण्डिते हि गुणाः सर्वे दोषाश्च केवलाः।
किं कुलेन विशालेन विद्या हीनस्य देहिनः।
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति॥१॥
मूर्खचिह्नानि षशिति गर्वो दुर्वचनं मुखे।
विरोधी विषवादी च कृत्याकृत्यं न मन्यते॥२॥
मूर्खो हि जल्पतां पुंसां श्रृत्वा वाचः शुभाशुभाः।
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये।
पयः पानं भुजंगानां केवलं विषवर्धनम्॥४॥
वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह।
निर्वेदवादं किल निर्वितानमुर्वीतलं हन्त तदाभविष्यत्॥१॥
आः कष्टमप्रहृष्टाः शिष्टा अपि वित्तचापलाविष्टाः।
अध्यापयन्ति वेदानादाय चिराय मासि मासि भृतिम्॥१॥
यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्।
स्वजनः श्वजनो मा भूत्सकलं शकलं सकृच्छकृत्॥२॥
सूत्रं पाणिनिबद्धं कलयन्पुरुषः समुद्वहति सुदृशम्।
आचक्षते शुद्धिदमा प्रसूतेरा च क्षते रागमधोक्षजे च॥५॥
कस्मिंश्चिदुक्ते तु पदे कथंचित्स्वैरं वपुः स्विद्यति वेपते च॥७॥
शब्दशास्त्रमनधीत्य यः पुनान्वक्तुमिच्छति वचः सभान्तरे।
बन्धुमिच्छति वने मदोत्कटं हस्तिनं कमलनालतन्तुना॥८॥
सूत्रैः पाणिनिनिर्मितैर्बहुतरैर्निष्पाद्य शब्दावलिं वैकुण्ठस्तवमक्षमा रचयितुं मिथ्याश्रमाः शाब्दिकाः।
पक्वान्नं विविधं श्रमेण विविधापूपाग्र्यसूपान्वितं मन्दाग्नीननुरुन्धते मितबलानाघ्रातुमप्यक्षमान्॥२॥
मोहं रुणद्धि विमलीकुरुते च बुद्धिं सूते च संस्कृतपदव्यवहारशक्तिम्।
शास्त्रान्तराभ्यासनयोग्यतया युनक्ति तर्कश्रमो न तनुते किमिहोपकारम्॥३॥
ज्ञानाब्धिरक्षिचरणः कणभक्षकश्च श्रीपक्षिलोऽप्युदयनः स च वर्धमानः।
गङ्गेश्वरः शशधरो बहवश्च नव्या ग्रन्थैर्व्यरुन्धत इमे हृदयान्धकारम्॥४॥
प्रायः काव्यैर्गमितवयसः पाणिनीयाम्बुराशेः सारज्ञस्याप्यपरिकलितन्यायशास्त्रस्य पुंसः।
वादारम्भे वदितुमनसो वाक्यमेकं सभायां प्रह्वा जिह्वा भवति कियतीं पश्य कष्टामवस्थाम्॥५॥
तार्किका यदि विद्वांसो विष्टैः किमपराध्यते॥१॥
अन्येच विश्वमान्या जयन्ति संत्रयीशिरःसु श्रमशालिनो वा॥३॥
ते मीमांसाशास्त्रलोकप्रसिद्धाः सर्वर्षीणां सेहिरे नैव सत्ताम्।
चैतन्यस्यापह्नवं देवतानां चक्रौर्विश्वं नश्चरं भन्यमानाः॥१॥
मीमांसकाः कतिचिदत्र मिलन्ति वेदप्रामाण्यसाधनकृतोऽपि न तेऽभिवन्द्याः।
उद्घोषितोऽप्युपनिषद्भिरशेषशेषी ब्रह्मैव नाभ्युपगतः पुरुषोत्तमो यैः॥२॥
गतस्पृहो धैर्यधरः कृपालुः शुद्धोऽधिकारी मिषगीदृशः स्यात्॥१॥
अन्यानि शास्त्राणि विनोदमात्रं प्राप्तेषु वा तेषु न तैश्च किंचित्।
यमस्तु हरति प्राणान्वैद्यः प्राणान्धनानि च॥१॥
चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः।
नाहं गतो न मे भ्राता कस्येदं हस्तलाघवम्॥३॥
निजौषधकृतां वैद्यो निवेद्य हरते धनम्॥४॥
न दैवं न पित्र्यं च कर्मावसिद्ध्येन्न यत्रास्ति देशे ननु ज्योतिषज्ञः।
न तारा न चारा नवानां ग्रहाणां न तिथ्यादयो वा यतस्तत्र बुद्धाः॥३॥
दूतो न संचरति खे न चलेच्च वार्ता पूर्वं न जल्पितमिदं न च संगमोऽस्ति।
व्योम्नि स्थितं रविशशिग्रहणं प्रशस्तं जानाति यो द्विजवरः स कथं न विद्वान्॥४॥
वृद्धिह्रासौ कुमुदसुहृदः पुष्पवन्तोपरागः शुक्रादीनामुदयविलयावित्यपी सर्वदृष्टाः।
भानोः शीतकरस्य वापि भुजगग्रासे पुरो निश्चिते तीर्थानामटनं जनस्य घटते तापत्रयोच्चाटनम्।
इष्टे प्रागवधारिते सति धृतेस्तुष्टश्चे लाभो भवेद्दृष्टे तु व्यसनेऽत्र तत्परिहृतिः कर्तुं जपाद्यैः क्षमा॥६॥
गणयति गगने गणकश्चन्द्रेण समागमं विशाखायाः ।
विविधभुजङ्गक्रीडासक्तां गृहिणीं न जानाति ॥१॥
जनमानसमोहकारिणौ तौ विधिना वित्तहरौ विनिर्मितौ ॥२॥
असुखमथ सुखं वा कर्मणां पक्तिवेलास्वहह नियतमेते भुञ्जते देहभाजः ।
तदिह पुरत एव प्राह मौहूर्तिकश्चेत्कथय फलममीषामन्ततः किं ततः स्यात् ॥३॥
विलिखति सदसद्वा जन्मपत्रं जनानां फलति यदि तदानीं दर्शयत्यात्मदाक्ष्यम् ।
न फलति यदि लग्नद्रष्टुरेवाह मोहं हरति धनमिहैवं हन्त दैवज्ञपाशः ॥४॥
प्रमोदे खेदे वाप्युपनमति पुंसां विधिवशान्मयैवं प्रागेवाभिहितमिति मिथ्या कथयति ।
जनानिष्टानिष्टाकलनपरिहारैकनिरतानसौ मेषादीनां परिगणनयैव भ्रमयति ॥५॥
ज्योतिःशास्त्रमहोदधौ बहुतरोत्सर्गापवादात्मभिः कल्लोलैर्निबिडे कणान्कतिपयाँल्लब्ध्वा कृतार्था इव ।
दीर्घायुःसुतसम्पदादिकथनैर्दैवज्ञपाशा इमे गेहं गेहमनुप्रविश्य धनिनां मोहं मुहुः कुर्वते ॥६॥
पौराणिकानां व्यभिचारदोषो नाशङ्कनीयाः कितिभिः कदाचित् ।
पुराणकर्ता व्यभिचारजातस्तस्यापि पुत्रो व्यभिचारजातः ॥१॥
पुरीचस्य च रोषस्य हिंसायास्तस्करस्य च ।
आद्याक्षराणि सङ्गृह्य वेधाश्चको पुरोहितम् ॥१॥
आद्याक्षराणि सङ्गृह्य कायस्थः केन निर्मितः ॥१॥
अन्त्राणि यन्न भुक्तानि तत्र हेतुरदन्तता ॥२॥
विना मद्यं विना मांसं परस्वहरणं विना ।
विना परापवादेन दिविरो दिवि रोदिति ॥३॥
कायस्थलुठ्यमाना रोदिति खिन्नेव राजश्रीः ॥४॥
अहो किमपि चित्राणि चरित्राणि महात्मनाम् ।
लक्ष्मीं तृणाय मन्यन्ते तद्भरेण नमन्त्यपि ॥१॥
येषां भुवनलाभेऽपि निःसीमानो मनोरथाः ॥२॥
अञ्जलिस्थानि पुष्पाणि वास्यन्ति करद्वयम् ।
अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥३॥
वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥४॥
गवादीनां पयोऽन्येद्युः सद्यो वा जायते दधि ।
क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः ॥५॥
गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा ।
पापं तापं च दैन्यं च हन्ति सन्तो महाशयाः ॥६॥
छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः ।
मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥७॥
सम्पदो महतामेव महतामेव चापदः ।
वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित् ॥८॥
अपकुर्वन्नपि प्रायः प्राप्नोति महतः फलम् ।
महतां प्रार्थनेनैव विपत्तिरपि शोभते ।
दन्तभङ्गो हि नागानां श्लाघ्यो गिरिविदारणे ॥१०॥
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति॥१॥
न विना परवादेन रमते दुर्जनो जनः।
काकः सर्वरसान्भुक्त्वा विनामेध्यं न तृप्यति॥२॥
विषमा मलिनात्मानो द्विजिह्वा जिह्वगा इव।
जगत्प्राणहरा नित्यं कस्य नोद्वेजकाः खलाः॥४॥
मणिना भूषितः सर्पः किमसौ न भयंकरः॥५॥
खलानां कण्टकानां च द्विविधैव प्रतिक्रिया।
उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम्॥६॥
या स्वसद्मनि पद्मेऽपि संघ्यावधि विजृम्भते।
इन्दिरा मन्दिरेऽन्येषां कथं तिष्ठति सा चिरम्॥१॥
राजंल्लक्ष्मीः कुरङ्गीव दूरं दूरं पलायते॥२॥
शूरं त्यजामि वैधव्यादुदारं लज्जया पुनः।
क्रीडत्यद्यापि सा लक्ष्मीरहो देवी पतिव्रता॥४॥
अहो कनकमाहात्म्यं वक्तुं केनापि शक्यते।
अन्तरं नैव पश्यामि निर्धनस्य मृतस्य च॥३॥
ब्रह्मन्घोऽपि नरः पूज्यो यस्यास्ति विपुलं धनम्।
न लक्षते गतिश्चित्रा धनस्य च धनस्य च ॥५॥
जनितारमपि त्यक्त्वा निःस्वं गच्छति दूरतः॥१॥
लक्षीवन्तो न जानन्ति प्रायेण परवेदनाम्।
शेषे धराभरक्लान्ते शेते नारायणः सुखम्॥२॥
वरं हालाहलं पीतं सद्यः प्राणहरं विषम्।
न तु दृष्टं धनान्धस्य भ्रूभङ्गकुटिलं मुखम्॥३॥
मुखे च कटुता नित्यं धनिनां ज्वरिणामिव॥४॥
आलिङ्गिताः परैर्यान्ति प्रस्खलन्ति समे पथि।
अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव॥५॥
ते सर्वे धनवृद्धस्य द्वारे तिष्ठन्ति किङ्कराः॥२॥
न सा विद्या न तच्छीलं न तद्दानं न सा कला।
अर्थार्थिभिर्न तच्छौर्यं धनिनां यन्न कीर्त्यते॥३॥
किं न कुर्वन्ति सुभगे कष्टमर्थार्थिनो जनाः॥४॥
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर।
उत्थाय हृदि लीयन्ते दरिद्राणां मनोरथाः।
हे दारिद्य्र नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः।
पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन॥२॥
इह लोकेऽपि धनिनां परोऽपि स्वजनायते।
परीक्ष्य सत्कुलं विद्यां शीलं शौर्यं सुरूपताम्।
अनुकूले विधौ देयं यतः पूरयिता हरिः।
प्रतिकूले विधौ देयं यतः सर्वे हरिष्यति॥१॥
यद्ददाति यदश्नाति तदेव धनिनो धनम्।
अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि॥२॥
यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने।
तत्ते वित्तमहं मन्ये शेषमन्यस्य रक्षसि॥३॥
त्याग एको गुणः श्लाघ्यः किमन्यैर्गुणराशिभिः।
लोभः प्रतिष्ठा पापस्य प्रसूतिर्लोम एव च।
लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम्॥२॥
द्रोहेण नरकं याति शास्त्रज्ञोऽपि विचक्षणः॥३॥
मातरं पितरं पुत्रं भ्रातरं वा सुहृत्तमम्।
लोभाविष्टो नरो हन्ति स्वामिनं वा सहोदरम्॥४॥
लोभेन बुद्धिश्चलति लोभो जनयते तृषाम्।
तृषार्तो दुःखमाप्नोति परत्रेह च मानवः॥५॥
शतेषु जायते शूरः सहस्रेषु च पण्डितः।
वक्ता दशसहस्रेषु दाता भवति वा न वा॥१॥
अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छति।
दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुच्चति॥२॥
रक्षन्ति कृपणाः पाणौ द्रव्यं क्रव्यमिवात्मनः।
तदेव सन्तः सततमुत्सृजन्ति यथा मलम्॥३॥
याचितो यः प्रहृष्येत दत्त्वा च प्रीतिमान्भवेत्।
तं दृष्ट्वाप्यथवा श्रृत्वा नरः स्वर्गमवाप्नुयात्॥४॥
ते धन्या ये न शृण्वन्ति दीनाः प्रणयिनां गिरः॥५॥
कृपणेन समो दाता न भूतो न भविष्यति।
अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति॥१॥
यत्करोत्यरतिं क्लेशं तृष्णां मोहं प्रजागरम्।
न तद्धनं कदर्याणां हृदये व्याधिरेव सः॥३॥
दुश्चारिणी च हसति स्वपतिं पुत्रवत्सलम्॥४॥
भवामः किं न तेनैव धनेन धनिनो वयम्॥५॥
वेपथुर्मलिनं वक्रं दीना वाग्गदग्दः स्वरः।
मरणे यानि चिन्हानि तानि चिन्हानि याचके॥१॥
शुष्कोऽपि हि नदीमार्गः खन्यते सलिलार्थिभिः॥४॥
वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति॥५॥
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्।
तन्निमित्तो वरं त्यागो विनाशे नियते सति॥२॥
रविश्चन्द्रो धना वृक्षा नदी गावश्च सज्जनाः।
एते परोपकाराय युगे दैवेन निर्मिताः॥३॥
तृणं चाहं वरं मन्ये नरादनुपकारिणः।
घासो भूत्वा पशून्पाति भीरून्पाति रणाङ्गणे॥४॥
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा।
निष्कृतिर्विहिता लोके कृतघ्ने नास्ति निष्कृतिः॥१॥
उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम्।
तं जनमसत्यसंधं भगवति वसुधे कथं वहसि॥२॥
व्योमनि शम्बाकुरुते चित्रं निर्माति यत्नतः सलिले।
स्नपयति पवनं सलिलैर्यस्तु खले चरति सत्कारम्॥३॥
शोकं मा कुरु कुक्कुर सत्वेष्वहमधम इति मुधा साधो।
कष्टादपि कष्टतरं दृष्ट्वा श्वानं कृतघ्ननामानम्॥४॥
अनुत्सृज्य सतां वर्त्म यत्स्वल्पमपि तद्बहु॥२॥
आगमिष्यन्ति ते भावा ये भावा मयि भाविताः।
अहं तैरनुगन्तव्यो न तेषामन्यतो गतिः॥३॥
यो मे गर्भगतस्यापि वृत्तिं कल्पितवान्स्वयम्।
शेषवृत्तिविधाने च स किं सुप्तोऽथावा मृतः॥४॥
तृष्णे कॄष्णेऽपि ते शक्तिर्दृष्टा मर्त्येषु का कथा।
तृष्णां चेह परित्यज्य को दरिद्रः क ईश्वरः।
तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरसि स्थितम्॥३॥
नास्त्यन्या तृष्णया तुल्या कापि स्त्री सुभगा क्वचित्।
या प्राणानपि मुष्णन्ति भवत्येवाधिकं प्रिया।।५॥
स एव धन्यो विपदि स्वरुपं यो न मुञ्चति।
त्यजत्यर्ककरैस्तप्तं हिमं देहं न शीतताम्॥१॥
कृच्छ्रेऽपि न चलत्येव धीराणां निश्चलं मनः॥२॥
नाम यस्याभिनन्दन्ति द्विषोऽपि स मतः पुमान्॥४॥
सह परिजनेन विलसति धीरो गहनानि तरति पुनरेकः।
विषमेकेन निपीतं त्रिपुरजिता सह सुरैरमृतम्॥५॥
एकेनापि हि शूरेण पदाक्रान्तं महीतलम्।
शस्त्रे शास्त्रे त्रिचतुराश्चतुरा यदि मादृशाः॥३॥
बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम्।
तेजसा सह जातानां वयः कुत्रोपयुज्यते॥१॥
एकः स एव तेजस्वी सैंहिकेयः सुरद्विषाम्।
मौनी पादप्रहारेऽपि न क्षमीर्नीच एव सः।
आकृष्टशस्त्रो मित्रेऽपि न तेजस्वी खलो हि सः॥३॥
इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्कियाम्॥१॥
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा॥४॥
गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम्।
कलावतः सैव कला ययाधः क्रियते भवः।
बह्वीभिश्च कलाभिः किं याभिरङ्कः प्रदर्श्यते॥३॥
न पुत्रत्वेन पूज्यन्ते गुणैरासाद्यते पदम्।
रवेर्व्यापारमादत्ते प्रदीपो न पुनः शनिः॥४॥
गुणाः सर्वत्र पूज्यन्ते पितृवंशो निरर्थकः।
वासुदेवं नमस्यन्ति वसुदेवं न मानवाः॥५॥
उद्योगः खलु कर्तव्यः फलं मार्जारवद्भवेत्।
उद्यमं साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः।
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत्॥२॥
उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः।
नहि सुप्तस्य सिहंस्य प्रविशन्ति मुखे मृगाः॥३॥
विहाय पौरुषं यो हि दैवमेवावलम्बते।
तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः॥१॥
क्षमाशस्त्रं करे यस्य दुर्जनः किं करिष्यति।
क्षमा बलमशक्तानां शक्तानां भूषणं क्षमा।
क्षमा वशीकृतिर्लोके क्षमया किं न सिद्ध्यति॥३॥
योगिनां परिणमन्विमुक्तये केन नास्तु विनयः सतां प्रियः॥१॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
नासत्यवादिनः सख्यं न पुण्यं न यशो भुवि।
यशो यस्माद्भस्मीभवति वनवह्नेरिव वनं निदानं दुःखानां यदवनिरूहाणामिव जलम्।
न यत्र स्याच्छायातप इव तपः संयमकथा कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान्॥३॥
जिह्वैकैव सतामुभे फणवतां स्रष्टुश्चतस्रश्च तास्ताः सप्तैव विभावसोर्नियमिताः शट्कार्तिकेयस्य च।
पौलस्त्यस्य दशाभवन्फणिपतेर्जिह्वासहस्रद्वयं जिह्वालक्षशतैककोटिनियमो नो दुर्जनानां मुखे॥४॥
परैः प्रोक्ता गुणा यस्य निर्गुणोऽपि गुणी भवेत्।
इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः॥१॥
न सुखं न च सौभाग्यं स्वयं स्वगुणवर्णने।
स्वयं तथा न कर्तव्यं स्वगुणाख्यापनं पुनः।
न सौख्यसौभाग्यकरा गुणा नृणां स्वयं गृहीताः सदृशां कुचा इव।
परैर्गृहीता द्वितयं वितन्वते न तेन गृह्णन्ति निजं गणुं बुधाः॥४॥
निजगुणगरिमा सुखाकरः स्यात्स्वयमनुवर्णयतां सतां न तावत्।
नुजकरकमलेन कामिनीनां कुचकलशाकलनेन को विनोदः॥५॥
सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः।
अतीत्य हि गुणान्सर्वान्स्वभावो मूर्ध्नि वर्तते॥१॥
भवन्ति सुतरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः॥२॥
यः स्वभावो हि यस्यास्ते स नित्यं दुरतिक्रमः।
श्वा यदि क्रियते राजा तत्किं नाश्नात्युपानहम्॥३॥
किं कुलेन विशालेन शीलमेवात्र कारणम्।
कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु॥५॥
गानाब्धेस्तु परं पारं नोपेयाय सरस्वती।
भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः॥३॥
तीक्ष्णा नारुंतुदा बुद्धिः कर्म शान्तं प्रतापवत्।
नोपतापि मनः सोष्म वागेका वाग्मिनः सतः॥२॥
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम्॥१॥
रूपवांश्चापि मूर्खोऽपि गत्वा च विपुलां सभाम्।
संरक्षेच्च स्विकां जिह्वां भार्यां दुश्चारिणीं यथा।।२॥
विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्॥३॥
कोलाहले काककुलस्य जाते विराजते कोकिलकूजितं किम्।
परस्परं संवदतां खलानां मौनं विधेयं सततं सुधीभिः॥४॥
स एव प्रच्युतेः स्थानाच्छुनापि परिभूयते॥१॥
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नरा नखाः॥५॥
हरिहस्तगतः शङ्खः पवित्रः प्रथितो भुवि॥३॥
अणुरप्यसतां सङ्गः सद्गुणं हन्ति विस्तृतम्।
किं नाम खलसंसर्गः कुरुते नाश्रयाशवत्॥५॥
सखि साहजिकं प्रेम दूरादपि विराजते।
क्वेन्दोर्मण्डलमम्बुधिः क्व च रविः पद्माकरः क्व स्थितः काभ्राः सन्ति मयूरपङ्क्तिरमला क्वालिः क्व वा मालती।
हंसानां च कुलं क्व दूरविषये क्वास्ते सरो मानसं यो यस्याभिमतः स तस्य निकटे दूरेऽपि सन्वल्लभः॥२॥
यस्य मित्रेण संभाषा यस्य मित्रेण संस्थितिः।
मित्रेण सह यो भुङ्क्ते ततो नास्तीह पुण्यवान्॥२॥
शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः।
दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः॥३॥
उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥५॥
रहस्यभेदो याच्ञा च नैष्ठुर्यं चलचित्तता।
संसार तव निःसार पदवी न दवीयसी।
अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः॥१॥
इह विषयामृतलालस्य मानसमार्जार मा निपत॥३॥
अत्र पुनः परमार्थदृशा न किमपि सारमणीयः॥४॥
क्वचिद्विद्वद्गोष्ठी क्वचिदपि सुरामत्तकलहः क्वचिद्वीणावादः क्वचिदपिच हाहेति रुदितम्।
क्वचिद्रम्या रामा क्वचिदपि जराजर्जरतनुर्नजाने संसारः किममृतमयः किं विषमयः॥५॥
यदि रामा यदि च रमा तनयो विनयधीगुणोपेतः।
सानन्दं सदनं सुताश्च सुधियः कान्ता न दुर्भाषिणी सन्मित्रं सुधनं स्वयोषिति रतिश्चाज्ञापराः सेवकाः।
आतिथ्यं शिवपूजनं प्रतिदिनं मृष्टान्नपानं गृहे साधोः सङ्गमुपासते हि सततं धन्यो गृहस्थाश्रमः॥४॥
मानुष्यं वरवंशजन्म विभवो दीर्घायुरारोग्यता सन्मित्रं सुसुतः सती प्रियतमा भक्तिश्च नारायणे।
विद्वत्त्वं सुजनत्वमिन्द्रियजयः सत्पात्रदाने रतिस्ते पुण्येन विना त्रयोदशगुणाः संसारिणां दुर्लभाः॥५॥
यत्र नास्ति दधिमन्थनघोषो यत्र नो लघुलघूनि शिशूनि।
यत्र नास्ति गुरुगौरवपूजा तानि किं वत गृहाणि वनानि॥१॥
क्रोशन्तः शिशवः सवारि सदनं पङ्कावृतं चाङ्गणं शय्या दंशवती च रूक्षमशनं धूमेन पूर्णं गृहम्।
भार्या निष्ठुरभाषिणी प्रभुरपि क्रोधेन पूर्णः सदास्नानं शीतलवारिणा हि सततं धिग्धिग्गृहस्थाश्रमम्॥३॥
तावद्विद्यानवद्या गुणगणमहिमा रूपसंपत्तिशौर्यं स्वस्थाने सर्वशोभा परगुणकथने वाक्पटुस्तावदेव।
यावत्पाकाकुलाभिः स्वगृहयुवतिभिः प्रेषितापत्यवक्राद्धे बाबा नास्ति तैलं न च लवणमपीत्यादिवाचां प्रचारः॥४॥
वर्धते न चिरं लोके वंशलक्ष्मीरसंततिः।
जातेति कन्या महती हि चिन्ता कस्मै प्रदेयेति महान्वितर्कः।
दत्ता सुखं यास्यति वा न वेति कन्यापितृत्वं खलु नाम कष्टम्॥१॥
एकोऽपि गुणवान्पुत्रो निर्गुणैः किं शतैरपि।
एकेन हि सुवृक्षेण पुष्पितेन सुगन्धिना।
वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा।।२॥
प्रज्ञया वा विसारिण्या यो बलेन धनेन वा।
धुरं वहति गोत्रस्य जननी तेन पुत्रिणी॥३॥
कुलं पुरुषसिंहेन चन्द्रेणेव हि शर्वरी॥४॥
को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः।
वरमेकः कुलालम्बी यत्र विश्रूयते पिता॥५॥
किं तेन जातु जातेन मातृयौवनहारिणा।
आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा॥१॥
किं तया क्रियते धेन्वा या न दोग्ध्री न गर्भिणी।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः॥२॥
दह्यते तद्वनं सर्वं दुष्पुत्रेण कुलं तथा॥३॥
कुपुत्रस्तु कुले जातः स्वकुलं नाशयत्यहो॥४॥
देवमुल्लङ्घ्य यत्कार्यं क्रियते फलवन्न तत्।
भाग्यवन्तं प्रसूयेथा मा शूरं मा च पण्डितम्।
शूराश्च कृतविद्याश्च वने सीदन्ति पाण्डवाः॥२॥
न केवलं मनुष्येषु दैवं देवेष्वपि प्रभु।
सति मित्रे धनाध्यक्षे चर्मप्रावरणो हरः॥३॥
सच्छिद्रो मध्यकुटिलः कर्णः स्वर्णस्य भाजनम्।
धिग्दैवं निर्मलं चक्षुः पात्रं कज्जलभस्मनः॥४॥
पश्य गच्छत एवास्तं नियतिः केन लङ्घ्यते॥५॥
निर्वास्यतः प्रदीपस्य शिखेव जरतो मतिः॥२॥
मनो न रमते स्त्रीणां जराजीर्णेन्द्रिये पतौ॥३॥
नास्ति क्षुधासमं दुःखं नास्ति रोगः क्षुधासमः।
नास्त्याहारसमं सौख्यं नास्ति क्रोधसमो रिपुः॥१॥
शय्या वस्त्रं चन्दनं चारु हास्यं वीणा वाणी सुन्दरी या च नारी।
शाकावलीकाननवह्निरूपास्त एव भट्टा इतरे भटाश्च॥२॥
अग्य्रो भुक्तिमतां प्रयोगसमये मन्त्रेषु पृष्ठं गतः पाकागारगतस्तु पाचकमनस्तोषाय वाचस्पतिः।
उच्चायां निरतो रतोऽर्भकगणे पिण्डेषु दत्तादरो नानाश्राद्धगणैकचालितमना भट्टोत्तमो राजते॥३॥
उच्चैरध्ययनं पुरातनकथा स्त्रीभिः सहालापनं तासामर्भकलालनं पतिनुतिस्तत्पाकमिथ्यास्तुतिः।
आदेशस्य करावलम्बनविधिः पाण्डित्यलेखक्रिया होरागारुडमन्त्रतन्त्रकविधिर्भिक्षोर्गुणा द्वादश॥४॥
को जातश्च मृतोऽथवा मृततिथिः कस्यालये वर्तते चेत्थं हर्षशतैर्युताः प्रतिदिनं धावन्त्याहो भिक्षुकाः॥५॥
शिरसा धार्यमाणोऽपि सोमः सौम्येन शम्भुना।
तथापि कृशतां धत्ते कष्टः खलु पराश्रयः॥१॥
विना कार्येण ये मूढा गच्छन्ति परमन्दिरम्।
अवश्यं लघुतां यान्ति कृष्णपक्षे यथा शशी॥२॥
कष्टं खलु मूर्खत्वं कष्टं खलु यौवनेषु दारिद्य्रम्।
कष्टादपि कष्टतरं परगृहवासः परान्नं च॥३॥
भवति विगतरश्मिर्मण्डलं प्राप्यभानोः परसदननिविष्टः को लघुत्वं न याति॥४॥
अस्य दग्धोदरस्यार्थे किं न कुर्वन्ति पण्डिताः।
वानरीमिव वाग्देवीं नर्तयन्ति गृहे गृहे॥१॥
किमकारि न कार्पण्यं कस्यालङ्घि न देहली।
अस्य पापोदरस्यार्थे किमनाटि न नाटकम्॥२॥
एकः स एव जीवति हृदयविहीनोऽपि सहृदयो राहुः।
यः सकललघिमकारणमुदरं न बिभर्ति दु पूरम्॥३॥
कंधरां समपहाय कं धरां प्राप्यसंयति जहास कस्यचित्।
उदरभरणमात्रकेवलेच्छोः पुरुषपशोश्च पशोश्च को विशेषः॥५॥
स्वयं विक्रीतदेहस्य सेवकस्य कुतः सुखम्॥१॥
चलेषु स्वामिचित्तेषु सुलभे पिशुने जने।
सेवा श्ववृत्तिर्यैरुक्ता न तैः सम्यगुदाहृतम्।
स्वच्छन्दचारी कुत्र श्वा विक्रीतासुः क्व सेवकः॥३॥
सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम्।
वरं वनं वरं भैक्ष्यं वरं भारोपजीवनम्।
पुंसां विवेकहीनानां सेवया न धनार्जनम्॥५॥
यस्य जीवन्ति धर्मेण पुत्रा मित्राणि बान्धवाः।
सफलं जीवितं तस्य नात्मार्थे को हि जीवति॥१॥
यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा।
अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति॥२॥
वाणी रसवती यस्य भार्या पुत्रवती सती।
लक्ष्मीर्दानवती यस्य सफलं तस्य जीवितम्॥३॥
स जीवति यशो यस्य कीर्तिर्यस्य स जीवति।
चलं वित्तं चलं चित्तं चले जीवितयौवने।
चलाचलमिदं सर्वं कीर्तिर्यस्य स जीवति॥५॥
पापं कर्तृमृणं कर्तुं मन्यन्ते मानवाः सुखम्।
एकः स एव हि पुमान्परमस्ति लोके क्रुद्धस्य येन धनिकस्य मुखं न दृष्टम्॥३॥
यो न संचरते देशान्यो न सेवेत पण्डितान्।
यस्तु सञ्चरते देशान्यस्तु सेवेत पण्डितान्।
यो गृहेष्वेव निद्राति दरिद्राति स दुर्मतिः॥३॥
देशे देशे किमपि कुतुकादद्भुतं लोकमानाः संपाद्यैव द्रविणमतुलं सद्य भूयोऽप्यवाप्य।
संयुज्यन्ते सुचिरविरहोत्कण्ठिताभिः सतीभिः सौख्यं धन्याः किमपि दधते सर्वसंपत्समृद्धाः॥४॥
गेहे तिष्ठन्कुमतिरलसः कूपकूर्मैः सधर्मा किं जानीते भुवनचरुतं किं सुखं चोपभुङ्क्ते॥५॥
<DOC_END>
<DOC_START>
विद्वांसः कवयो भट्टा गायकाः परिहासकाः।
क्षुत्क्षामार्भकसंभ्रमोक्तिनिगडैः किर्मीरिता नर्मतो भार्याक्रन्दितकुन्तकीलितहृदो गर्वाद्गुरुत्वं गतः।
प्रभ्रष्टाः पदतः कदापि नहि ये तेऽद्य त्वदीयैर्गुणैराकृष्टा विदुषां वरा वयमहो त्वां द्रष्टुमभ्यागताः॥१॥
रिपोः शस्त्रं कवेर्दैन्यं नीवीबन्धो मृगीदृशाम्॥१॥
<DOC_END>
<DOC_START>
कामं कामदुघं धुङ्क्ष्व मित्राय वरुणाय च।
अपदो दूरगामी च साक्षंरो न च पण्डितः।
अमुखस्फुटवक्ता च यो जानाति स पण्डितः॥१॥
वने जाता वने त्यक्ता वने तिष्ठति नित्यशः।
<DOC_END>
<DOC_START>
न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति॥१॥
उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः॥२॥
तथापि किं कपालानि तुलां यान्ति कलानिधेः॥२॥
<DOC_END>
<DOC_START>
स चित्रचरितः कामः सर्वकामप्रदोऽस्तु वः॥१॥
एकं वस्तु द्विधा कर्तुं बहवः सन्ति धन्विनः।
धन्वी स मार एवैको द्वयोरैक्यं करोति यः॥२॥
दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः।
न हयैर्न च मातङ्गैर्न रथैर्न च पत्तिभिः।
अधारि पद्मेषु तदङ्घ्रिणा क्व तच्छयच्छायलवोऽपि पल्लवे।
तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पार्विकशर्वरीश्वरः॥१॥
<DOC_END>
<DOC_START>
अत्रत्योपसङ्ग्रहाः भिन्नपृष्ठेषु स्थापिताः। निरस्यतामिदं पृष्ठम्।
<DOC_END>
<DOC_START>
शीर्षिकायां टङ्कनदोषस्य निवारणार्थं सुभाषितसङ्ग्रहः/समयोचितसदुक्तयः इत्यत्र निःक्षिपानि अत्रथानि पद्यानि।
<DOC_END>
<DOC_START>
यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि ।
तथा सज्जनगोष्ठिषु पतिष्यसि पतिष्यसि ॥१
शमार्थं सर्वशास्त्राणि विहितानि मनीषिभिः ।
स एव सर्वशास्त्रज्ञः यस्य शान्तं मनः सदा ॥२
वृक्षाञ्छित्वा पशून्हत्वा कृत्वा रुदिरकर्दमम् ।
यद्येवं गम्यते स्वर्गे नरकः केन गम्यते ॥३
वनस्पतेरपक्वानि फलानि प्रचिनोति यः ।
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥४
कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥५
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥६
गृहं गृहमटन् भिक्षुः शिक्षते न तु याचते ।
अदत्वा मादृशो मा भूः दत्वा त्वं त्वादृशो भव ॥७
इदमेव हि पाण्डित्यं चातुर्यमिदमेव हि ।
घटं भिद्यात् पटं छिन्द्यात् कुर्यात् रासभरोहणम् ।
येन केनाप्युपायेन प्रसिद्धः पुरुषो भवेत् ॥९
उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् ।
प्रायः कूपस्तृषां हन्ति न कदापि तु वारिधिः ॥१०
लभेत सिकतासु तैलमपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।
कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ १४
हयाश्च नागाश्च वहन्ति देशिताः ।
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ १६
मूर्खा बहु मन्यन्ते विदुषामपि संशयो भवति ॥१७
उद्यन्तु शतमादित्या उद्यन्तु शतमिन्दवः ।
न विना विदुषां वाक्यैर्नश्यत्याभ्यन्तरं तमः ॥१८
मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः ।
ते नरा नरकं यान्ति यावच्चन्द्रदिवाकरौ ॥१९
दुर्जनः परिहर्तव्यो विद्ययाऽलङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥२१
अनिच्छन्तोऽपि विनयं विद्याभ्यासेन बालकाः ।
भेषजेनेव नैरुज्यं प्रापणीयाः प्रयत्नतः ॥२२
यदमी दशन्ति दशना रसना तत्स्वादमनुभवति ।
प्रकृतिरियं विमलानां क्लिश्यन्ति यदन्यकार्येषु ॥२३
वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह ।
न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥ २४
समदृष्टिः प्रभुश्चैव दुर्लभाः पुरुषास्त्रयः ॥ २५
सुदुर्बलं नावजानाति किञ्चित् युक्तो रिपुं सेवते बुद्धिपूर्वम् ।
न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः ॥२६
एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ।
यावच्च कुर्यादन्योऽस्य कुर्याद्बहुगुणं ततः ॥२७
कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः ।
को न याति वशं लोके मुखे पिण्डेन पूरितः l
मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ll२९
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः l
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ll३०
असहायः समर्थोऽपि तेजस्वी किं करिष्यति l
निर्वाते ज्वलिते वह्निः स्वयमेवोपशाम्यति ll ३१
अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।।३२
येषां न विद्या न तपो न दानं l
ज्ञानं न शीलं न गुणो न धर्मः ll३३
ते मृत्युलोके भुवि भारभूतः l
इतरतापशतानि (इतरपापफलानि) यदृच्छया विलिख तानि सहे चतुरानन l
गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् l
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ll३६
उष्ट्राणां च गृहे लग्नं गर्दभाः शान्तिपाठकाः l
परस्परं प्रशंसन्ति अहो रूपं अहो ध्वनिः ll३७
अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च l
अजापुत्रं बलिं दद्याद्देवो दुर्बलघातकः ll३८
योजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका l
अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ll३९
अकर्तव्येषु व्यापारं यो नरः कर्तुमिच्छति।
अवश्यं विपदं याति कीलोत्पाटीव वानरः॥४१
स एव पाण्डुरः शेते देवशर्मपितायथा॥४२
न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम्॥४३
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥४४
उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥४५
पुस्तकस्था तु या विद्या परहस्तगतं धनम्।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्॥४६
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव॥४७
भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात्।
दुग्धं यच्छन्ति लोकेभ्यो गावो लोकस्य मातर:।।४८
को न याति वशं लोके मुखे पिण्डेन पूरितः ।
मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥४९
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥५०
असहायः समर्थोऽपि तेजस्वी किं करिष्यति ।
निर्वाते ज्वलिते वह्निः स्वयमेवोपशाम्यति ॥५१
अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।।५२
येषां न विद्या न तपो न दानं ।
ज्ञानं न शीलं न गुणो न धर्मः ॥५३
ते मृत्युलोके भुवि भारभूतः ।
इतरतापशतानि यदृच्छया विलिख तानि सहे चतुरानन ।
अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥५५
गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् ।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥५६
उष्ट्राणां च गृहे लग्नं गर्दभाः शान्तिपाठकाः ।
परस्परं प्रशंसन्ति अहो रूपं अहो ध्वनिः ॥५७
अश्र्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।
अजापुत्रं बलिं दद्याद्देवो दुर्बलघातकः ॥५८
योजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका ।
अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ॥५९
अकर्तव्येषु व्यापारं यो नरः कर्तुमिच्छति।
अवश्यं विपदं याति कीलोत्पाटीव वानरः॥६१
स एव पाण्डुरः शेते देवशर्मपितायथा॥६२
न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम्॥६३
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥६३
उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥६४
पुस्तकस्था तु या विद्या परहस्तगतं धनम्।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्॥६५
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव॥६६
भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात्।
दुग्धं यच्छन्ति लोकेभ्यो गावो लोकस्य मातर:।।६७
को न याति वशं लोके मुखे पिण्डेन पूरितः ।
मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥६८
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥६९
असाह्ययः समर्थोऽपि तेजस्वी किं करिष्यति ।
निर्वाते ज्वलिते वह्निः स्वयमेवोपशाम्यति ॥७०
अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।।७१
येषां न विद्या न तपो न दानं ।
ज्ञानं न शीलं न गुणो न धर्मः ।
ते मृत्युलोके भुवि भारभूतः ।
वितर तापशतानि यदृच्छया विलिख तानि सहे चतुरानन ।
अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥ ७३
गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् ।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥७४
उष्ट्राणां च गृहे लग्नं गर्दभाः शान्तिपाठकाः ।
परस्परं प्रशंसन्ति अहो रूपं अहो ध्वनिः ॥७५
अश्र्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।
अजापुत्रं बलिं दद्याद्देवो दुर्बलघातकः ॥७६
योजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका ।
अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ॥७७
अकर्तव्येषु व्यापारं यो नरः कर्तुमिच्छति।
अवश्यं विपदं याति कीलोत्पाटीव वानरः॥७९
स एव पाण्डुरः शेते देवशर्मपितायथा॥८०
न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम्॥८१
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥८२
उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥८३
पुस्तकस्था तु या विद्या परहस्तगतं धनम्।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्॥८४
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव॥८५
भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात्।
दुग्धं यच्छन्ति लोकेभ्यो गावो लोकस्य मातर:।।८६
यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि ।
तथा सज्जनगोष्ठिषु पतिष्यसि पतिष्यसि ॥८७
शमार्थं सर्वशास्त्राणि विहितानि मनीषिभिः ।
स एव सर्वशास्त्रज्ञः यस्य शान्तं मनः सदा ॥८८
वृक्षान् छित्वा पशून्हत्वा कृत्वा रुदिरकर्दमम् ।
यद्येवं गम्यते स्वर्गे नरकः केन गम्यते ॥८९
वनस्पतेरपक्वानि फलानि प्रचिनोति यः ।
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥९०
कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥९१
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥९२
गृहं गृहमटन् भिक्षुः शिक्षते न तु याचते ।
अदत्वा मादृशो मा भूः दत्वा त्वं त्वादृशो भव ॥९३
इदमेव हि पाण्डित्यं चातुर्यमिदमेव हि ।
घटं भिद्यात् पटं छिन्द्यात् कुर्यात् रासभरोहणम् ।
येन केनाप्युपायेन प्रसिद्धः पुरुषो भवेत् ॥९५
उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् ।
प्रायः कूपस्तृषां हन्ति न कदापि तु वारिधिः ॥९६
लभेत सिकतासु तैलमपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।
कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ १००
हयाश्च नागाश्च वहन्ति देशिताः ।
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥१०२
मूर्खा बहु मन्यन्ते विदुषामपि संशयो भवति ॥१०३
उद्यन्तु शतमादित्या उद्यन्तु शतमिन्दवः ।
न विना विदुषां वाक्यैर्नश्यत्याभ्यन्तरं तमः ॥१०४
या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१०५
मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः ।
ते नरा नरकं यान्ति यावच्चन्द्रदिवाकरौ ॥१०६
दुर्जनः परिहर्तव्यो विद्ययाऽलङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥१०८
अनिच्छन्तोऽपि विनयं विद्याभ्यासेन बालकाः ।
भेषजेनेव नैरुज्यं प्रापणीयाः प्रयत्नतः ॥१०९
यदमी दशन्ति दशना रसना तत्स्वादमनुभवति ।
प्रकृतिरियं विमलानां क्लिश्यन्ति यदन्यकार्येषु ॥११०
वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह ।
न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥ १११
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥११३
आयुषः खण्डमादाय रविरस्तमयं गतः ।
अहन्यहनि बाधव्यं किमेतत् सुकृतं कृतम् ॥११४
सुखार्थी चेत् त्यजेत् विद्यां विद्यार्थी चेत् त्यजेत् सुखम्।
सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ॥११५
सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥११६
सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्।
प्रियञ्च नानृतं ब्रूयात् एष धर्मः सनातनः॥११७
श्वः कार्यम् अद्य कुर्वीत पूर्वाह्णे वापराह्निकम्।
न हि प्रतीक्षते मृत्युः कृतमस्य नवा कृतम्॥११८
अजवत् चर्वणं कुर्यात् गजवत् स्नानमाचरेत्॥११९
वृत्तं यत्नेन संरक्षेत् वित्तमायाति याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥१२०
अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत्॥१२२
अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते।
अलसस्य कुतो विद्या अविद्यस्य कुतो धनम्।
अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम्॥१२४
शरदि न वर्षति गर्जति वर्षति वर्षासु मेघः।
नीचो वदति न कुरुते वदति न सुजनः करोत्येव॥१२५
श्रियः प्रदुग्धे विपदो रुणद्धि यशांसि सूते मलिनं प्रमार्ष्टि।
संस्कारशौचेन परं पुनीते शुद्धा हि विद्या किल कामधेनुः॥१२६
कलङ्की चन्द्रमा ह्याशु क्षितेर्हन्ति घनं तमः॥१२७
ग्रासाद्गलितसिक्थस्य किं गतं करिणो भवेत्।
पिपीलिका तु तेनैव सकुटुम्बाऽपि जीवति॥१२८
न गर्भच्युतमात्रेण पुत्रो भवति पण्डितः॥१२९
स हि गगनविहारी कल्मषध्वंसकारी दशशतकरधारी ज्योतिषां मध्यचारी।
विधुरपि विधियोगाद्ग्रस्यते राहुणाऽसौ लिखितमिह ललाटे प्रोज्झितुं कः समर्थः॥१३०
ते धन्यास्ते विवेकज्ञास्ते सभ्या इह भूतले।
आगच्छन्ति गृहे येषां कार्यार्थं सुहृदो जनाः॥१३१
चत्वारि राज्ञा तु महाबलेन वर्जान्याहुः पण्डितास्तानि विद्यात्।
अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्न दीर्घसूत्रैः अलसैः चारणैश्च॥१३३
त्यजेद्धर्मं दयाहीनं धर्महीनां दयां तथा।
मद्गुः सरसि मत्स्यार्थी हंसस्येष्टा प्रसन्नता॥१३५
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥१३६
यत्रात्मीयो जनो नास्ति भेदस्तत्र न विद्यते।
उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम्।
न कश्चिदपि जानाति किं कस्य श्वो भविष्यति।
अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान्॥१३९
यदि दक्षः समारम्भात् कर्मणां नाश्नुते फलं।
नास्य वाच्यं भवेत्किञ्चित् तत्त्वं चाप्यधिगच्छति॥१४१
न लोभादधिको दोषो न दानादधिको गुणः॥१४२
यं येभ्यो जाताश्चिरपरिचिता एव खलु ते समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः।
इदानीमेते स्मः प्रतिदिवसमासन्नपतनाद्गताः तुल्यावस्थां सिकतिलनदीतीरतरुभिः॥१४३
अज्ञाने को मतिं कुर्याद्दृष्ट्वा ज्ञानार्जनश्रमं।
प्रसवार्तिभिया नारी का वन्ध्यात्वं समीहते॥१४४
पुनः पुनः प्रवर्धन्ते तस्माच्छेषन्न रक्षयेत्॥१४५
स तु तेनानुसारेण रमते किं न मेरुणा॥१४६
गवादीनां पयोऽन्येद्युः सद्यो वा दधि जायते।
क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः॥१४७
तद्गोपितं स्याद्धर्मार्थं धर्मो ज्ञानार्थमेव च।
विधौ सत्यनुकूलेऽपि ध्रुवा हि भवितव्यता।
म्लायन्ति किं न पुष्पाणि मधुमासेऽपि शाखिनाम्॥१४९
तदेवास्य परं मित्रं यत्र सङ्क्रामति द्वयं।
दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे॥१५०
वेदविदे खलु दत्तं दत्तं मातृहस्तेन च भुक्तं भुक्तं।
सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा।
अहं करोमीति वृथाभिमानः स्वकर्मसूत्रग्रथितो हि लोकः॥१५२
आलस्यं कुरु पापकर्मणि भव क्रूरः क्रुधस्ताडने नैष्ठुर्यं भज लोभमोहविषये निद्रां समाधौ हरेः।
जाड्यं गच्छ परापवादकथने द्रोहं विधेहि स्मरे दोषा एव गुणत्वमेवमखिला यास्यन्ति चेतस्तव॥१५३
अविश्रान्तं वहेद्भारं शीतोष्णं च न विन्दति।
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात्॥१५४
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके।
हत्वाsर्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्॥१५६
या निशा सर्वभूतानां तस्यां जागर्ति संयमी।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥१५७
शुभा वाञ्छन्ति सत्थानं नीचा इच्छन्ति चाधमं।
हंसा वसन्ति पद्मेषु प्रेतखण्डेषु गृध्रकाः॥१५२
सुवर्णघटिताप्यङ्ग निन्दा नैव च नैव च॥१५३
प्राप्यापि महतां स्थानं फलं भाग्यानुसारि यत्॥१५४
नैवार्थेण न कामेन विक्रमेण न चाज्ञया।
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु।
सर्वः कामानवाप्नोतु सर्वः सर्वत्र नन्दतु॥१५६
विश्लेषाय परेषां हि येषां संश्लेषणं सदा।
दुर्जनं प्रथमं वन्दे सज्जनं तदनन्तरं।
गुणिता शततो विद्या सहस्रावर्तिता पुनः।
जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं हन्ताङ्गेषु गुणाश्च वन्ध्यफलतां याता गुणज्ञैर्विना।
किं युक्तं सहसाभ्युपैति बलवान् कालः कृतान्तोsक्षमी हा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्या गतिः॥१६१
आहूतः प्रपलायी च हीनः पञ्चविधः स्मृतः॥१६२
तत्तद्बाल इव विधिर्निभृतं हसित्वा प्रोञ्छति॥१६३
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये।
भग्नाशस्य करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्ते मुखे भोगिनः।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा स्वस्थास्तिष्ठत दैवमेव हि परं वृद्धौ क्षये कारणम्॥१६५
<DOC_END>
<DOC_START>
* अग्ने: खरतरादेव लोहं दृढतरं भवेत्।
*अजो नित्यं शाश्वतोऽयं पुराणः ।
* अति सर्वत्र वर्जयेत् ।
* अतिदर्पे हता लङ्का ।
* अत्येति रजनी या तु ।
* अद्यतेऽत्ति च भूतानि, तस्मादन्नं तदुच्यते ।
* अद्यैव कुरु यच्छ्रेयः ।
* अधिकस्य अधिकं फलम् ।
* अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ।
* अनार्यजुष्टेन पथा प्रवृत्तानां शिवं कुतः ?
* अनिर्वेदः सदा कार्यः ।
* अनुरक्तस्य चिह्नं तद्दोषेऽपि गुणसङ्ग्रहः ।
* अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।
* अन्नं न निन्द्यात् तद्व्रतम् ।
* अन्नं न परिचक्षीत तद्वृतम् ।
* अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ।
* अप्रकटीकृतशक्तिः शक्तोऽपि जनः तिरस्क्रियां लभते ।
* अप्रमत्तः सदा भवेत् ।
* अप्रियस्यापि पथ्यस्य परिणामः सुखावहः ।
* अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः।
* अभिमानविहीनानां किं धनेन, किमायुषा ?
* अभ्यासः कर्मसु कौशलमुत्पादयत्येव ।
* अमेध्यो वै पुरुषो यदनृतं वदति ।
* अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
* अर्थत्यागोऽपि कार्यस्स्याद् अर्थं श्रेयांसमिच्छता ।
* अर्थमूलौ हि धर्मकामौ ।
* अर्थस्य पुरुषो दासो दासः त्वर्थो न कस्यचित् ।
* अर्थो हि लोके पुरुषस्य बन्धुः ।
* अर्धो घटो घोषमुपैति नूनम् ।
* अर्धो वै एष आत्मनो यत्पत्नी ।
* अलक्ष्मीराविशत्येव शयानमलसं नरम् ।
* अल्पक्लेशं मरणं दारिद्र्यमनल्पकं दुःखम् ।
* अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
* अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ।
* अशान्तस्य मनो भारम् ।
* अश्नुते स हि कल्याणं व्यसने यो न मुह्यति ।
* अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ।
<DOC_END>
<DOC_START>
* आकण्ठजलमग्नोऽपि श्वा लिहत्येव जिह्वया ।
* आचरिष्यसि चेत्कर्म महतोऽर्थान् अवाप्स्यसि ।
* आचारः परमो धर्मः ।
* आचारहीनं न पुनन्ति वेदाः ।
* आचार्यः कस्मादाचारं ग्राहयतीति ।
* आचार्यवान् पुरुषो वेद ।
* आचार्यशिष्टा याजातिस्सानित्या साजरामरा ।
* आचार्याद्देव खलु विदिता विद्या साधिष्यं प्रापत् ।
* आचार्यो ब्रह्मणो मूर्तिः ।
* आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।
* आत्मोद्धारं विना लोके परोद्धारः सुदुष्करः ।
* आत्मैव ह्यात्मनः साक्षी कृतस्याप्यकृतस्य च ।
* आदानं हि विसर्गाय सतां वारिमुचामिव ।
* आ नो भद्राः क्रतवो यन्तु विश्वतः ।
* आपत्काले च कष्टे च नोत्साहस्त्यज्यते बुधैः ।
* आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ।
* आपदां कथितः पन्थाः इन्द्रियाणाम् असंयमः ।
* आरभन्तेऽल्पमेवाज्ञाः कार्यव्यग्रा भवन्ति च।
* आरोहणम् आक्रमणं जीवतो जीयतोऽयनम् ।
* आशा येषां दासी तेषां दासायते लोकः ।
* आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।
<DOC_END>
<DOC_START>
* इदमेव सुबुद्धित्वम् आयादल्पतरो व्ययः ।
* इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।
<DOC_END>
<DOC_START>
* ईर्ष्या कलहमूलं स्यात् ।
<DOC_END>
<DOC_START>
*उत्तमस्य विशेषेणे कलङ्कोत्पादको जनः ।
*उत्तिष्ठत, जागृत, प्राप्य वरान् निबोधत ।
*उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः ।
*उदिते हि सहस्रांशौ न खद्योतो न चन्द्रमाः।
*उद्धरेत् दीनमात्मानं, समर्थो धर्ममाचरेत् ।
*उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
*उपदेशो हि न मूर्खाणां प्रकोपाय न शान्तये।
*उपायं चिन्तयेत् प्राज्ञः अपायं च विचिन्तयेत्।
*उष्णो दहति चाङ्गारः, शीतः कृष्णायते करम्।
<DOC_END>
<DOC_START>
द्भिन्नः पृथग् पृथगिवाश्रयते विवर्तान् ।
नम्भो यथा सलिलमेव तु तत्समग्रम् ॥</poem
वस्तुतः करुणः एकः एव रसः भवति। सः करुणरसः एव निमित्तभेदाद् शृङ्गारहास्यरौद्रवीरभयानकबीभत्साद्भुतशान्तरूपैः विभिन्नः सन् परिणमति। विवर्तान् आश्रयते इत्यस्य परिणामान् आश्रयते इत्यर्थः। यथा जले आवर्तः ‍‌‍‌(जले वृत्तरूपेण चक्रमिव यज्जायते स‌ः) बुद्बुदः ‍‌(जलस्य उपरि शिलाखण्डक्षेपणादिना उत्पद्यमानः तरङ्गः (वीचिः ‍‌च भवति। परन्तु आवर्तः अपि जलमेव बुद्बुदमपि जलमेव, तरङ्गमपि जलमेव। तथापि तस्य नाम भिद्यते। तद्वत् करुणः एकः एव रसः तस्य परिणमनम् एव अन्ये रसाः इति कवेः‌ भवभूतेः अभिप्रयः। परन्तु अन्ये आलङ्कारिकाः नव अपि रसान् करुणस्य परिणामरूपेण न अभ्युपगच्छन्ति।
<DOC_END>
<DOC_START>
*कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ।
*कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
*कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।
*कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः ।
* कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।
* कृते च प्रतिकर्तव्यम् एष धर्मः सनातनः ।
*क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे।
*क्षणमुज्ज्वलितं श्रेयः न तु धूमायितं चिरम् ।
*क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ।
<DOC_END>
<DOC_START>
*गतानुगतिको लोकः न लोकः पारमार्थिकः ।
*गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ।
*गुरुतां नयन्ति हि गुणा न संहतिः ।
*गृहीत इव केशेषु मृत्युना धर्ममाचरेत्।
<DOC_END>
<DOC_START>
*जितक्रोधेन सर्वं हि जगदेतद्विजीयते ।
*जीवने यावदादानं स्यात् प्रदानं ततोऽधिकम् ।
*ज्ञानं भारः क्रियां विना ।
*ज्ञानमार्गे ह्यहङ्कारः परिघो दुरतिक्रमः ।
*ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ।
<DOC_END>
<DOC_START>
*त्याज्यं न धैर्यं विधुरेऽपि काले।
<DOC_END>
<DOC_START>
*दुःखं त्यक्तुं रूढमूलो हि अनुरागः ।
*दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् ।
*दैवे दुर्जनतां गते तृणमपि प्रायेण वज्रायते।
<DOC_END>
<DOC_START>
*धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः ।
*धर्मलोपो महांस्तस्य कृते ह्यप्रतिकुर्वत ।
<DOC_END>
<DOC_START>
* न कञ्च न वसतौ प्रत्याचक्षीत ।
* न कालमतिवर्तन्ते महान्तः स्वेषु कर्मसु ।
* न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते।
* न जातु कामः कामानामुपभोगे न शाम्यति।
* न जातु कामः कामानाम् उपभोगे न शाम्यति।
* न तद् दानं प्रशंसन्ति ये न वृत्तिर्विपद्यते ।
* न नश्यति तमो नाम कृतया दीपवार्तया ।
* न रत्नम् अन्विष्यति मृग्यते हि तत्।
*न वक्तुमिच्छन्ति मृषा हितैषिणः ।
* न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
* न वारिणा शुद्ध्यति चान्तरात्मा ।
* न विश्वसेत् अविश्वस्ते विश्वस्ते नाति विश्वसेत्।
* न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ।
* न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति ।
* न हि कृतमुपकारं साधवो विस्मरन्ति ।
* न हि दुष्करमस्तीह किञ्चदध्यवसायिनाम् ।
* न हि निर्विण्णमागम्य कश्चित् प्राप्नोति शोभनम् ।
* न हि सर्वः सर्वं जानाति ।
* न ह्येको भागः कुक्कुट्याः पाकाय, अपरो भागः प्रसवाय कल्पते ।
* नाकार्यमस्ति क्षुद्रस्य नावाच्यं विद्यते क्वचित् ।
* नाद्रव्यविहिता काचित् क्रियाभवति शोभना ।
* नाधनो धर्मकृत्या नि यथावदनुतिष्ठति ।
* नायं लोकोऽस्त्ययज्ञस्य कुतोन्यः कुरुसत्तम ।
* नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।
* नाराजके जनपदे योगक्षेमः प्रवर्तते ।
* नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत्।
* निरस्तपादपे देशे एरण्डोऽपि द्रुमायते।
* निरीहो नाश्नुते महत् ।
*निसर्गः हि धीराणां यदापद्यधिकं धृढम् ।
* निस्सारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।
*नीचो वदति न कुरुते, वदति न साधुः करोत्येव ।
* नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण॥
* नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च।
<DOC_END>
<DOC_START>
*पदं हि सर्वत्र गुणैर्निधीयते ।
*पयः पानं भुजङ्गानां केवलं विषवर्धनम्।
*परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ।
*पराधीने परं दुःखं, स्वाधीने तु महत्सुखम् ।
*परान् समुपसेवेत, न सेव्येत परं परैः ।
*परान्नं दुर्लभं लोके शरीराणि पुनः पुनः॥
*परोपकारः पुण्याय पापाय परपीडनम् ।
*पाणौ पयसा दग्धे तक्रं फूत्कृत्य पिबति पामरः।
*पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः ।
*पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
*प्रियञ्च नानृतं ब्रूयात् एष धर्मः सनातनः।
*पङ्को हि नभसि क्षिप्तः क्षेप्तुः पतति मूर्धनि ।
*पञ्चभिः मिलितैः किं यत् जगतीह न साध्यते ।
<DOC_END>
<DOC_START>
*बुभुक्षितः किं न करोति पापम्।
*बृहत्सहायः कार्यान्तं क्षोदीयान् अपि गच्छति ।
*ब्राह्मणस्य तु देहोयं नोपभोगाय विद्यते ।
<DOC_END>
<DOC_START>
*भिक्षुकाः सन्तीति शालयो नोप्यन्ते, स्थालयो नाधिश्रीयन्ते ।
*भोजनं कुरु दुर्बुद्धे मा शरीरे दयां कुरु।
<DOC_END>
<DOC_START>
*मन एव मनुष्याणां कारणं बन्धमोक्षयोः।
*मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः।
*मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ।
*महाजनो येन गतः स पन्थाः ।
*मितं सारञ्च वचो हि वाग्मिता।
<DOC_END>
<DOC_START>
*यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
*यत्र विद्वज्जनो नास्ति प्राज्ञस्तत्राल्पधीरपि ।
*यद्धात्रा निजभावपट्टलिखितं तन्मार्जितुं कः क्षमः।
*यद्यपि शुद्धं लोकविरुद्धं नाकरणीयं नाचरणीयम्।
*यया कया च विधया बह्वन्नं प्राप्नुयात् ।
*यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति ।
*यादृशी भावना यस्य सिद्धिर्भवति तादृशी ।
*योग्यत्वाद् यः समुत्कर्षो निरपायः सः सर्वथा ।
*यो यद्वपति बीजं हि लभते सोऽपि तत्फलम् ।
*योऽर्थे शुचिस्सः हि शुचिर्न मृद्वारिशुचिः शुचिः ।
<DOC_END>
<DOC_START>
*रक्तं पुरुषं स्त्रियः परिभवन्ति ।
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ।
<DOC_END>
<DOC_START>
*वक्तारो दर्दुरा यत्र, तत्र मौनं हि शोभनम्।
*वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम्।
*वरं विरोधोऽपि समं महात्मभिः ।
*विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।
* विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।
*विवेकभ्रष्टानां भवति विनिपातः शतमुखः ।
* विश्वसयत्याशु सतां हि योगः ।
*वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ।
* व्यवहारेण हि जायन्ते मित्राणि रिपवस्तथा।
* व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ।
<DOC_END>
<DOC_START>
*शत्रवो यान्ति मित्रत्वं विशुद्धे सति चेतसा ।
*शत्रोरपि गुणा वाच्याः दोषा वाच्या गुरोरपि ।
*शरीरं पातयामि कार्यं वा साधयामि।
*शास्त्रं हि निश्चितधियां क्व न सिद्धमेति।
*शिरो वा तद्यज्ञस्य यदातिथ्यम् ।
*शीलं हि सर्वस्य नरस्य भूषणम् ।
*शुद्धा हि बुद्धिः किल कामधेनुः ।
<DOC_END>
<DOC_START>
* सङ्कटे यद् विसृज्येत, न तत् तत्त्वं, रुचि: तु सा॥
* स तु भवति दरिद्रो यस्य तृष्णा विशाला।
*सतां हि वाणी गुणमेव भाषते ।
* सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्।
* समूलो वा परिशुष्यति यदनृतं वदति ।
*सर्वथा सुकरा मैत्री, दुष्करं परिपालनम् ।
* सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्।
* सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
*सर्वेषामपि शौचानाम् अर्थशौचं परं स्मृतम् ।
*सर्वेषु भूतेषु दया हि धर्मः ।
*सहते विपत्सहस्रं मानी नैवापमानलेशमपि ।
*सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् ।
*सिद्ध्यन्ति कुत्र सुकृतानि विना श्रमेण ?
* सुतप्तमपि पानीयं शमत्येव पावकम्।
* सुदुर्लभाः सर्वमनोरमा गिरः ।
*सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ।
*सुलभो हि द्विषां भङ्गः दुर्लभा सत्स्ववाच्यता ।
* स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् ।
* स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ।
*स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
*सङ्घे शक्तिः कलौ युगे ।
*सन्तोषं जनयेत् प्राज्ञः तदेवेश्वरपूजनम् ।
*सन्दीप्ते भवने न कूपखननं प्रत्युद्यमः कीदृशः ?
*सम्भावितस्य चाकीर्तिः मरणात् अतिरिच्यते ।
<DOC_END>
<DOC_START>
*हितं मनोहारि च् दुर्लभं वचः ।
<DOC_END>
<DOC_START>
सेयं देवता ऎक्षत हन्ताहम् इमाः तिस्रो देवताः अनेन जीवेनात्मना
अनुप्रविश्य नामरूपे व्याकरवाणि इति । छान्दोग्योपनिषत् ६-३-२
सा एषा परा देवता एवं चिन्तितवती हन्त अहम् इमाः तिस्रो देवताः भूत्वा, अनेन जीवेन आत्मना
इदं शरीरं प्रविश्य, नामरूपे व्याकरवाणि'।
परस्यैव ब्रह्मणः ‘परा देवता’ इति नामान्तरम् । इदं विश्वं सृष्ट्वा, जीवरूपेण अनुप्रविश्य, नामरूपाकारेण
अवभासमानं परब्रह्मैव, न तु अचेतनं प्रधानम् । कापिले साङ्ख्यदर्शने प्रतिपादितम् अचेतनं प्रधानं वेदान्तेषु
जगत्कारणत्वेन नाभ्युपगतमस्ति । प्रत्युत, सर्वभूतानाम् आत्मभूतं चिन्मात्रस्वरूपं परमेव ब्रह्म जगत्कारणमिति
तेजः आपः अन्नम् इत्येतानि त्रीणि भूतानि सृष्ट्वा, तदद्वारा इमं प्रपञ्चं सृष्ट्वा अनन्तरं तदेव परं ब्रह्म अस्मिन् जगति
जीवरूपेणापि अवभासते । संसारिजीवरूपेण अवभासमानं परब्रह्मैव । जीवाः परब्रह्मस्वरूपा एव, नैव तु ब्रह्मभिन्नाः ॥
<DOC_END>
<DOC_START>
सैषा चतुष्पदा षड्विधा गायत्री । छान्दोग्योपनिषत् ३-१२-५
सा एषा गायत्री चतुष्पदा षड्विधा भवति ।
गायत्री इति छन्दोनाम । प्रतिपादम् एकाक्षरम्, अक्षरद्वयम्, त्र्यक्षरम्, चतुरक्षरम्,
पञ्चाक्षरम्, षडक्षरम् च – उक्ता, अत्युक्ता, मध्या, प्रतिष्ठा, सुप्रतिष्ठिता, गायत्री
च – इति छन्दः कथ्यते । प्रकृते, प्रतिपादं षडक्षरा,चतुष्पदा च गायत्री इति उच्यते ।
‘चतुष्पदा गायत्री’ इति प्रसिद्धा ॥
इयं गायत्री ‘षड्विधा’ भवति । वाक्, भूतानि, पृथिवी, शरीरम्, हृदयं, प्राणः इति एतैः
रूपैः विद्यमाना गायत्री षड्विधा भवति । षड्भिः अक्षरैः युक्ता च षड्विधा भवति गायत्री ।
सर्वथा अस्मिन् गायत्रीच्छन्दसि प्रतिपादं षट् अक्षराणि, चत्वारः पादाश्च भवन्ति । एवं
चतुर्विंशत्यक्षरैः युक्ता गायत्री वेदेषु प्रसिद्धा अस्ति । गायत्री ‘छन्दसां माता’ इति प्रथितास्ति ।
एवं हि गायत्रीच्छन्दसः महिमानं विज्ञाय तदुपासनं कर्तव्यम् ॥
<DOC_END>
<DOC_START>
सैषा भार्गवी वारुणी विद्या । परमे व्योमन् प्रतिष्ठिता । य एवं वेद प्रतितिष्ठति ॥ तैत्तिरीयोपनिषत् ३-६-२
सा एषा भार्गवी वारुणी विद्या परमे आकाशे प्रतिष्ठिता । यः एतां विद्यां एवं वेद सः ब्रह्मणि प्रतितिष्ठति ॥
भृगुर्नाम शिष्यः वरुणात् सद्गुरोः ब्रह्मविद्यां प्राप्तवान् । अन्नमय- प्राणमय – मनोमय- विज्ञानमय- आनन्दमयाख्यान्
पञ्चापि कोशान् अतीतं तत्त्वमेव हि परब्रह्मतत्त्वम् । अस्यैव तत्त्वस्य 'आनन्दः' इत्यपि नाम । पञ्चानामपि कोशानाम्
आत्मत्वेन स्थितम्, पञ्चभ्योऽपि कोशेभ्यः विलक्षणं ब्रह्मतत्त्वं भृगुमहर्षिः ज्ञातवान् खलु, अतः अस्याः विद्यायाः
'भार्गवी विद्या' इति नाम आगतम् ॥
इमां विद्यां वरुणः उपदिष्टवान् इति एषा 'वारुणी विद्या' इति प्रसिद्धा अभवत् । एषा विद्या परमात्मविद्या, इयमेव
ब्रह्मविद्या च । हृदयान्तर्वर्तिनः आत्मनो विद्या 'हार्दविद्या' इति च कथ्यते । भृगुमहर्षिः इमां विद्यां प्राप्य कृतकृत्योऽभवत्,
यः कश्चित् इदं ब्रह्म आत्मत्वेन जानीयात् सः ब्रह्मणि प्रतिष्ठितो भवति ॥
<DOC_END>
<DOC_START>
सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत ।
स तपस्तप्त्वा । इदं सर्वमसृजत ॥ तैत्तिरीयोपनिषत् २-६-४
स आत्मा अकामयत् ‘अहं बहु स्याम्, अहमेव प्रजायेय’ इति
सः तपः अकरोत् । सः तपः तप्त्वा इदं सर्वम् असृजत् ॥
सृष्टिप्रक्रियायाम् अयं मन्त्रः बहुमुख्यः । वेदान्तेषु ब्रह्मैव अस्य
जगतः उपादानकारणं निमित्तकारणं च । इदं विश्वं ब्रह्मणः जातं,
ब्रह्मणि विद्यमानं, ब्रह्मण्येव विलीयते । अतः इदं जगत् परमार्थतः
“अहमेव विश्वं स्याम्” इति हि सः परमात्मा कामितवान्, न तु
“अहं विश्वं सृजानि” इति । एतस्य वादस्य वेदान्तेषु
अभिन्ननिमित्तोपादानमायासत्कार्यवादः इति नामधेयं भवति ।
साङ्ख्यादिदर्शनेषु अयं वादो नाङ्गीकृतः । अत एव तानि
मिथ्यादर्शनानि भवन्ति । घटस्य कुलालो निमित्तं कारणम्,
मृत् उपादानं कारणम् । अस्य जगतस्तु सर्वज्ञं सर्वशक्तं ब्रह्मैव
निमित्तकारणम् उपादानकारणं च । अयमेव वेदान्तेषु विशेषः ॥
<DOC_END>
<DOC_START>
सोऽहं सत्यकामो जाबालोऽस्मि भोः इति । छान्दोग्योपनिषत् ४-४-४
भोः गुरवः, अहं सत्यकामजाबालोऽस्मि इति शिष्यः अवदत् ।
सत्यकामो नाम बालकः गुरोः समीपं गत्वा 'भगवन्, अहं भवत्कुले ब्रह्मचर्यवासं कर्तुमिच्छामि,
कृपया अनुमन्यताम्' इति प्रार्थितवान् । तदा गुरुः 'तव गोत्रं किम् इति अपृच्छत् । तदा
सः बालकः सविनयम् एवम् अवदत् ॥
तद्यथा 'भोः आचार्य, यदा अहम् इमं विषयमधिकृत्य मम मातरम् अपृच्छं, तदा सा ’बालिकावस्थायामेव
मम विवाहो जातः, अहम् अनेकेषु गृहेषु परिचारिका सती कर्माणि कुर्वती आसम्, तदा एव त्वं मयि जातः,
अतः अहम् न तव गोत्रं वा पितरं वा जानामि; अपि तु अहं जबाला, त्वं च सत्यकामः । जबालायाः अपत्यं
पुमान्, त्वं सत्यकामजाबालः इत्येव आत्मानं कथय इति उक्तवती' इति सत्यमेव अवदत् । अतः ‘अहं
सत्यकामजाबालोऽस्मि भोः’ इति अब्रवीत् । इदं हि शिष्यस्य सत्यव्रतित्वं सत्यनिष्ठता च इदमेव हि सच्छिष्यस्य लक्षणम् ॥
<DOC_END>
<DOC_START>
==स्तुहि देवं सवितारम् ॥ ऋग्वेदः ६-१-१
सर्वोत्पादकः सः सर्वदाता स्तूयताम् ।
: स्तुतिः नाम श्लाघनम् इति सामान्यतः चिन्त्यते । युक्तं वा अयुक्तं वा श्लाघनेन अस्माकं कार्यणि कारयितुं प्रयतामहे । श्लाघनप्रियाणां मानवानां विषये इदं साध्यं भवेत् चेदपि भगवतः विचारे इदं तन्त्रं न भवति फलदायकम् अस्माकं स्तुत्या भगवता प्राप्तव्यं न किमपि विद्यते । सः अस्ति आनन्दस्वरूपः, नित्यतृप्तश्च । तेन स्तुतिः कदापि न इष्यते एव । तर्हि भगवतः स्तुतिः कुतः स्तुतिः नाम गुणवर्णनम् । भगवतः गुणस्मरणम् अस्माकं लाभाय क्रियते । तान् दैवीगुणान् आत्मनि वर्धयितुं श्रद्धापूर्वकं परिश्रमः कर्तव्यः । सः सर्वोत्पादकः इत्येतत् अस्माकम् आलस्यं निवार्य अस्मान् सर्जनात्मकेषु (प्रकृतिसम्पत्तेः रक्षणे, वर्धने) कार्येषु संयोजयेत् । सः भगवान् सर्वदाता इत्येतत् सर्वैः सह संविभज्य जीवनं कर्तव्यम् इति स्मारयेत् प्रेरयेच्च । दैवीगुणानां संविभागः एव वस्तुतः 'भक्तिः' । अवशिष्टं सर्वम् आडम्बरं नाटकम् आत्मवञ्चनं वा भवेत् ।
<DOC_END>
<DOC_START>
==स्यामेदिन्द्रस्य शर्मणि ॥ ऋग्वेदः १-४-६
: इन्द्रः नाम पुराणेषु यथा वर्णितं तथा सुरां पिबन् रम्भा-ऊर्वशी-मेनकादीनां नृत्यदर्शने मग्नः काचित् काल्पनिकी व्यक्तिः नैव । एकस्य एव भगवतः विद्यमानेषु बहुषु नामसु परमैश्वर्यशाली इत्यर्थकम् इन्द्रः इत्यपि किञ्चन नाम ।
: सुरक्षातः प्राप्यमाणः निरातङ्कभावः सर्वैः अपि इष्यते । एतदपेक्षया अधिका सुरक्षा प्राप्तव्या चेत् मानवैः अस्माभिः स्वीयं कर्तव्यं समीचीनतया परिपालनीयम् । जगतः रचनायां केचन नियमाः विद्यन्ते, कस्य कार्यस्य किं फलम् इति काचित् व्यवस्था विद्यते । तानि अवगत्य तदनुगुणं स्वीयं जीवनं यदि रूपयेम तर्हि नियतानि फलानि अस्मदीयानि भविष्यन्ति । इन्द्रियदासैः भूत्वा भोगे एव व्यस्ताः यदि भवेम इन्द्रियशक्तिः, आरोग्यं, शान्तिः, समाधानञ्च नष्टं भविष्यति । आत्मनः बलवर्धनम् उद्धारञ्च लक्ष्यीकृत्य इन्द्रियाणि च उपयुञ्ज्महे चेत् उत्तमा सुरक्षा अस्मदीया भविष्यति । एषा एव 'इन्द्रस्य छाया' ।
<DOC_END>
<DOC_START>
स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासात् देवं पश्येन्निगूढवत् ॥ श्वेताश्वतरोपनिषत् १-१४
साधकः स्वदेहमेव अरणिं कृत्वा प्रणवं च उत्तरारणिं
कृत्वा ध्यानानुष्ठानाभ्यासात् निगूढं देवं पश्येत् ।
अग्नेः उत्पादनं कृत्वा तेन अग्निना यज्ञयागादीनि
अनुष्ठीयन्ते खलु एवमेव अत्रापि आत्मदर्शनार्थं
साधनम् उपदिष्टमस्ति । अधस्तात् अरणिः अधरारणिः,
ऊर्ध्वम् अरणिः उत्तरारणिः । अस्माकं देह एव अधरारणिः ।
अत्र देहो नाम अन्तर्हृदयम् अथवा मनोऽन्तर्वर्ती अहङ्कारः ।
अथ ओङ्कार एव उत्तरारणिः । अस्य मथनं कार्यम् ॥।
अहङ्कारप्रणवयोः सङ्घर्ष एव ध्यानम् । अहङ्कारे ओङ्कारं
संयोज्य ध्यानकरणात् आत्मनः ज्ञानम् उत्पद्यते । अयमात्मा
अग्निरिव देदीप्यते । ध्यानेन अस्य आत्मनः ज्ञानम् उत्पद्यते ।
एवम् ओङ्कारोपासनेन अन्तरात्मा द्र्ष्टुं शक्यते, दृष्ट्वा च
अन्तरात्मानं साधकः कृतार्थो भवेत् ॥
<DOC_END>
<DOC_START>
स्वप्नो भूत्वा इमं लोकमतिक्रामति मृत्यो रूपाणि । बृहदारण्यकोपनिषत् ४-३-७
आत्मैव स्वप्नो भूत्वा तत्र इमं लोकं मृत्युरूपाणि च अतिक्रामति ।
जागरितात् आत्मा स्वप्नं प्रविशति । जागरितस्य सर्वान् शरीरेन्द्रियादीन् उपाधीन् जागरिते
एव विहाय आत्मा स्वयमेव स्वप्नो भवति । आत्मा एक एव सन्नपि स्वयमेव स्वप्नं निर्माय
स्वयमेव स्वप्नो भवति । यतो हि जागरितात् न कञ्चिदपि अल्पं पदार्थं स्वप्नं प्रति यद्यपि
न नयति, तथापि आत्मा स्वयमेव स्वमहिम्ना स्वप्नो भूत्वा तत्र स्वेष्टानि वस्तूनि सर्वाण्यपि
सृजति खलु न हि आत्मनः जाग्रतः स्वप्नस्य अथवा सुषुप्तेः सम्बन्धो विद्यते ॥
स्वप्नात् सुषुप्तं प्रविशन्नेव आत्मा सर्वाणि द्वैतवस्तूनि तत्रैव त्यक्त्वा स्वस्वरूपे वर्तते ।
सा सुषुप्तिरेव आत्मनः वासस्थानम् । तत्र आत्मा अविद्याकामकर्माणि अत्येति ।
क्रियाकारकफलानि च आत्मा सुषुप्तौ अत्येति । अत्र मृत्युर्नाम क्रियाकारकफलानि ।
देहेन्द्रियमनोबुद्धयो हि मृत्युः । एतानि आत्मा सुषुप्तौ अत्येति ॥
<DOC_END>
<DOC_START>
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥
<DOC_END>
<DOC_START>
स्वम् अपीतो भवति, तस्मादेनं ‘स्वपिति’ इत्याचक्षते, स्वं हि अपीतो भवति । छान्दोग्योपनिषत् ६-८-१
निद्रासमये आत्मानमेव सङ्गच्छते । तस्मादेव कारणात् निद्रागतं पुरुषं ‘स्वपिति’ इति वदन्ति । यतः
'स्वं हि अपीतो भवति इति स्वपिति' इति व्युत्पत्तिः अस्ति ॥
संस्कृतभाषायां ‘स्वपिति’ इति क्रियापदम् अस्ति । ‘स्वपिति’ इति निद्रां करोति इत्यर्थः । गाढनिद्रासमये
अयं जीवः सर्वान् द्वैतव्यवहारान् विहाय स्वयं स्वरूपस्थः सन् नैजस्वरूपं प्रतिपन्नः खलु तस्मादेव कारणात्
सुप्तं ‘स्वपिति’ इत्येव कथयन्ति जनाः ॥
जीवः जाग्रदवस्थायाम् अविद्याकल्पितैः नामरूपक्रियावर्ण आश्रमसम्प्रदायमतविद्याअधिकारादिभिः उपाधिभिः
संसारधर्मैः विराजते । अहं हिन्दुः, अहं महम्मदीयः, अहं ब्राह्मणः, अहं वैश्यः, गृहस्थः, राजा, सेवकः, पुत्रः,
मित्रम् इत्यादिभिः शताधिकैः बन्धनैः बद्धः सन् संसरति । सुषुप्तौ तु एतेषां बन्धनानाम् अन्यतममपि नास्ति ।
तदा अयं स्वस्वरूपे भवति । इदमेव ‘स्वम् अपीतो भवति इति स्वपिति’ इत्युच्यते । ‘स्वपिति’ शब्दस्य
<DOC_END>
<DOC_START>
==स्वस्ति पन्थामनुचरेम ॥ ऋग्वेदः ५-५१-१५
: सु-उत्तमम्, अस्ति-विद्यते । अस्माकं सर्वेषामपि जीवनं कस्मिंश्चित् मार्गे उपक्रमते एव । अवधानपूर्वकं मङ्गलकरः, विस्तृतः, राजमार्गः यदि अनुस्रीयेत तर्हि ततः अस्माकमपि हितं भविष्यति, इतरेषामपि हितं भविष्यति । अस्माकं हिते सर्वेषां हितं विद्यते, सर्वेषां हिते अस्माकं हितं विद्यते । अस्याः मानवीयमार्गस्य अनुसरणस्य, अननुसरणस्य च स्वातन्त्र्यं विभिन्नमतसम्प्रदायान् प्रविश्य वक्रमार्गान् अनुसरन्तः मार्गभ्रष्टाः भवितुं च स्वातन्त्र्यम् अस्माकं विद्यते इत्येतत् तु सत्यम् किन्तु किञ्चित् जागरूकतया सन्मार्गे गम्येत चेत् सर्वेषां क्षेमः साधितः यदि भवेत् तर्हि किमर्थं न सर्वेषु कालेषु सर्वत्र सर्वेषां च ये नियमाः समानाः सन्ति तेषाम् आधारेण स्वीयं जीवनमार्गं रूपयेम चेत् सः भवति राजमार्गः । ते नियमाः स्वार्थेन, अज्ञानेन, दार्ष्ट्येन, महता प्रयत्नेन वा परिवर्तयितुम् अशक्यः सार्वभौमः चेत् सः भवति सन्मार्गः । वयं केपि हिंसां न इच्छामः । अतः अन्येषां जीविनाम् उपरि तस्य आरोपणस्य अधिकारः अपि न विद्यते । प्रीतिस्नेहान् वयं यथा अपेक्षामहे तथैव अन्येभ्यः जीविभ्यः अपि वयं तदेव दद्याम । आत्मवत् सर्वत्र द्रष्टव्यम् ।
<DOC_END>
<DOC_START>
स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ॥ तैत्तिरीयोपनिषत् १-९
स्वाध्यायः प्रवचनं च अवश्यं कर्तव्यमेव इति नाकमौद्गल्यः अभिप्रैति । यतः तदेव तपः, तदेव हि तपः ॥
सर्वाण्यपि साधनानि कर्तव्यत्वेनैव शास्त्रेषु विहितानि । न हि शास्त्रविहितानि साधनानि कनिष्ठानि भवन्ति ।
सर्वाण्यपि अनुष्ठेयान्येव । अपि तु सर्वाणि साधनानि सर्वेण पुरुषेण न अनुष्ठेयानि, न च अनुष्ठातुं शक्यन्ते ।
तस्मात् भिन्नभिन्नेभ्यः वर्णेभ्यः भिन्नभिन्नेभ्यः आश्रमेभ्यश्च विशिष्य भिन्नानि साधनानि विहितानि सन्ति । तान्येव
प्रकृते तु, द्विजैः तत्रापि ब्राह्मणैः अवश्यं कर्तव्यमेव साधनं नाम स्वाध्यायः प्रवचनं च । स्वाध्यायो नाम स्वेन
प्रत्यहं क्रियमाणं वेदाध्ययनम् । प्रवचनं नाम स्वेन अधीतस्य वेदस्य अन्येभ्यः प्रतिपादनम्, स्वाध्यायप्रवचने
इति अध्ययनाध्यापने । स्वेन अध्ययनं यथा तपः तथैव अधीतस्य वेदस्य इतरेभ्यः अध्यापनं च मुख्यमेव तपः ।
अयं हि नाकमौद्गल्यस्य महर्षेः अभिप्रायः ॥
<DOC_END>
<DOC_START>
स्वामी रामतीर्थः अक्टोबर् २२, १८७३ अक्टोबर् २७, १९०६) हिन्दुतत्वशास्त्रस्य वेदान्तस्य च बोधकः आसीत् । अमेरिकादिषु देशेषु हिन्दुधर्मस्य प्रचारं कृतवत्सु प्रथमः अस्ति अयम् ।
<DOC_END>
<DOC_START>
[[स्वामी विवेकानन्दः १२ जनवरी १८६३ ४ जुलै १९०२) वेदान्तस्य बोधकः आसीत् । हिन्दुधर्मस्य प्रसिद्धेषु धर्मगुरुषु अन्यतमः ।
* भवतः श्रद्धा क्व गता भवतः देशभक्तिः क्व अपगता भवतः नेत्रयोः पुरतः एव क्रैस्तमतप्रचारकाः हिन्दुधर्मं निन्दन्ति । तदा भवत्सु कति जनाः तस्य रक्षणाय उद्युक्ताः जाताः, येषां च रक्तं सात्त्विकक्षोभेण उत्तपति ?
* मानवस्य अध्ययनं क्रियताम् । मानवः एव सजीवकाव्यम् ।
* समग्रं जगत् मानवशक्त्या, तीव्रोत्साहेन च निर्मितं वर्तते ।
* वयं कमपि न तिरस्करवाम । आस्तिकः स्यात्, नास्तिको वा, प्रकृतिदेवतावादी भवतु, बहुदेवतापूजको वा स्यात्, अज्ञेयवादी वा भवतु नाम । वयं सर्वानपि स्वागतीकुर्मः ।
* प्रत्येकः अपि अन्येषां भावम् अवगच्छेत् । किन्तु स्वत्वं रक्षेच्च । अपि च स्वस्य प्रगतेः नियमानुसारमेव वर्धेत ।
* अस्माकं राष्ट्रियादर्शौ स्तः त्यागः सेवा च । सर्वे अपि एतयोः अन्वयं जीवने यदि कुर्युः तर्हि अवशिष्टं सर्वमपि स्वयमेव सम्यक् भविष्यति ।
* पृष्ठतः न दृश्यताम् । सर्वदा अग्रेसरो भव । अनन्तशक्तिः, अनन्तोत्साहः, अनन्तसाहसम्, अनन्तसहना यदि स्यात् तर्हि महत्कार्यसिद्धिः शक्या ।
* भारतेन प्राचीने अपि काले वैज्ञानिकाः चिकित्सकाः दत्ताः । भारतेन नानारसायनानां संशोधनं कृत्वा आधुनिके चिकित्साविज्ञानक्षेत्रे अपि योगदानं कृतम् । गणितं, बीजगणितं, रेखागणितं, खगोलशास्त्रम्, आधुनिक-विज्ञानं, मिश्रितगणितम् इत्यादिषु क्षेत्रेषु विशेषप्रगतिः साधिता तेन । एतेषां सर्वेषाम् आविष्कारः भारते तथैव जातः, यथा वर्तमानसभ्यतायाः सर्वेषाम् अनुसन्धानानाम् आधारशिलाभूतस्य दशमानपद्धतेः आविष्कारः जातः ।
* भवान् अशनिरवेण गर्जन् वदतु ‘एकैकोऽपि भारतीयः मम सहोदरः । भारतीयता एव मम प्राणाः । भारतस्य देवदेवताः एव मम आराध्यदेवताः । भारतस्य समाजः एव मम शैशवावस्थायाः प्रेङ्खा, मम तारुण्यस्य विहारोद्यानम्, वार्धक्यस्य वाराणसी च’ इति ।
* शतकानि यावत् आघाताः प्रवृत्ताः चेदपि, शतशः विदेशीयाक्रमणानि जातानि चेदपि भारतम् एतत् अधीरं न जातम् । स्वस्य मृत्युञ्जयमनोबलेन सत्त्वेन च महाशिला इव दृढतया अतिष्ठत् एषा भूमिः । अविनाशिनः भारतस्य मृत्युञ्जयाः पुत्राः वयम् ।
* त्वं कस्यापि साहाय्यं कर्तुं नार्हसि । प्रभोः सन्तानस्य सेवामात्रं कर्तुम् अस्ति तव अधिकारः । यदि त्वं भाग्यवान् स्याः तर्हि प्रभोः सेवां कुर्याः । भगवतः अनुग्रहतः तदीयस्य कस्यचित् सन्तानस्य सेवां कर्तुं यदि त्वं शक्तः भवेः तर्हि धन्यतां प्राप्नुयाः । आत्मानं श्रेष्ठं मा भावय । त्वमेव धन्यः, यतः त्वया सेवां कर्तुम् अवसरः प्राप्तः, स च अन्यैः न प्राप्त: । एषा सेवा तव सम्मानसदृशी ।
* अद्य समग्रे विश्वे प्रकाशस्य आवश्यकता दृश्यते । भारतं समग्रं विश्वं प्रकाशितं कुर्यात् इति अपेक्षा अस्ति । मायाजालम् ऐन्द्रजालिकं वा अत्र नास्ति । स्वस्य सर्वोत्तमाध्यात्मिकसत्यस्य धर्मस्य च वास्तविकं ज्ञानं वितरणीयम् इति उद्देशेन एव भगवान् सर्वासां विपदां सम्मुखीकरणस्य अनन्तरम् अद्यावधि अस्मान् सजीवान् रक्षितवान् अस्ति । एतस्य ईश्वरीयसंरक्षणस्य उपयोगाय अस्माभिः अग्रे सरणीयम् अस्ति । स च क्षणः इदानीम् उपस्थितः अस्ति ।
* हिन्दुः सन् जन्म प्राप्तवान् अस्मि इति मयि महान् अभिमानः अस्ति । अयम् अभिमानः मम कारणेन न प्रत्युत मम देशस्य, संस्कृतेः पूर्वजानां च कारणेन । भूतकालम् अवलोकयता मया अनुभूयते यत् अहं सुदृढे शिलाखण्डरूपे आधारे स्थितः अस्मि इति ।
<DOC_END>
<DOC_START>
==स्वेन क्रतुना सं वदेत ॥ ऋग्वेदः १०-३१-२
: संभाषणं मुखस्य कार्यं, तर्हि किमेतत् विचित्रं वचनम् वयं बहुधा सम्भाषणं करवाम । तेषां वचनानां मौल्यं कुतः ये अस्माकं वचनानि शृण्युः ते अस्माकं व्यवहारमपि अवलोकमानाः भवन्ति अस्माकं वचनानुसारं व्यवहारः अस्ति चेदेव तत् भवेत् मौल्ययुतम् । अन्यथा वचनं युक्तञ्चेदपि तस्य प्रभावः भवति अगण्यम् अस्माकं वचनानुसारं वयमेव न आचराम चेत् कः तस्य अर्थः अस्माकं वचनेषु वयमेव न विश्वसिमः इति खलु अस्मद्वचने अस्मासु एव अविद्यमानः विश्वासः अन्येषां कथं भवितुम् अर्हेत् सारः अयम् वचनात् आचरणं गरीयसि । वचनस्य मूल्यम् आचरणम् अवलम्बते । तर्हि आचरणमात्रम् अलं ननु इति चेत् आम् इति वदति इयं सूक्तिः । इदमेव रहस्यम् वचनम् आदौ एव अवधानम् आकर्षति । किन्तु कृतिः परिणामस्तरे आकर्षति । वचनस्तरे प्रश्न-संशयादीनाम् प्रसक्तिः भवेत् । किन्तु परिणामस्तरे अस्य कस्यापि अवसरः न भवति एव । अनेन इदं भवति दृढं वचनम् !
<DOC_END>
<DOC_START>
हरीदत्त शर्मा एकः संस्कृतकवि अस्ति। सः द्विसहस्रसप्ते तस्य काव्यकर्मन् लसललाटिकाय, संस्कृते साहित्यअकादेमीपुरस्कार विनिर्जित सन्ति।
* दुर्वहमत्रा जीवितं जातं प्रकृतिरेव शरणम्।
मन: शोषयत् तनु: पेषयद् भ्रमति सदा वक्रम्।।
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्। शुचि ।।1।।
* कज्जलमलिनं ध्ूमं मु×चति शतशकटीयानम्।
यानानां पघ्क्तयो ह्यनन्ता: कठिनं संसरणम शुचि ।।2।।
* वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्।
करणीयं बहिरन्तर्जगति तु बहु शु(ीकरणम्। शुचि ।।3।।
क​ि×चत् कालं नय मामस्मान्नगराद् बहुदूरम्।
एकान्ते कान्तारे क्षणमपि मे स्यात् स×चरणम्। शुचि ।।4।।
नवमालिका रसालं मिलिता रुचिरं संगमनम्। शुचि ।।5।।
चाकचिक्यजालं नो वुफर्याज्जीवितरसहरणम्। शुचि ।।6।।
प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा:।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।।
मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि ।।7।।
<DOC_END>
<DOC_START>
सम्यक् परिष्कृतं शुद्धमर्थाद् दोषरहितं व्याकरणेन संस्कारितं वा यत्तदेव संस्कृतम्। एवञ्च सम्-उपसर्गपूर्वकात् कृधातोर्निष्पन्नोSयं शब्द संस्कृतभाषेति नाम्रा सम्बोध्यते। सैव देवभाषा गीर्वाणवाणी, देववाणी, अमरवाणी, गीर्वागित्यादिभिर्नामभिः कथ्यते। इयमेव भाषा सर्वासां भारतीयभाषाणां जननी, भारतीयसंस्कृतेः प्राणस्वरूपा, भारतीयधर्मदर्शनादिकानां प्रसारिका, सर्वास्वपि विश्वभाषासु प्राचीनतमा सर्वमान्या च मन्यते। अस्माकं समस्तमपि प्राचीनं साहित्यं संस्कृतभाषायामेव रचितमस्ति, समस्तमपि वैदिक साहित्यं रामायणं महाभारतं पुराणानि दर्शनग्रन्थाः स्मृतिग्रन्थाः काव्यानि नाटकानि गद्य-नीति-आख्यानग्रन्थाश्च अस्यामेव भाषायां लिखिताः प्राप्यन्ते। गणितं, ज्योतिषं, काव्यशास्त्रमायुर्वेदः, अर्थशास्त्रं राजनीतिशास्त्रं छन्दःशास्त्रं ज्ञान-विज्ञानं तत्वजातमस्यामेव संस्कृतभाषायां समुपलभ्यते। अनेन संस्कृतभाषायाः विपुलं गौरवं स्वमेव सिध्यति।
अद्यत्वे यथा यानादीनां चालनाय विद्युत् प्रतैलम् इन्धनतैलम् इत्यादीनां शक्तिस्रोतसां प्रयोगः क्रियते तत्र यदि वायुना यथा शरीरयन्त्रं चलति तथा वायुना इतरयानानां चालनं शक्यं स्यात् । प्राणयन्त्ररूपेण च तस्य परिचयः भवेत् । पर्यावरणप्रदूषणात् रक्षणम् अपि शक्यं भवेद् इति
ज्ञानं जलमिव तरलम् इति लोकोक्तिर्वर्त्तते । यथा जलं तरलत्वात् सर्वतोवाहि भवति तथैव ज्ञानम् अपि सर्वतोग्राहि सर्वतोधावि च ।
तस्माद् अनन्तं ज्ञानम् इति कल्प्यते ।
सः गोपालः सा गोपी तत् वृन्दावनम्
एषः ग्वालः एषा राधा एतत् गोकुलम्
ते देवाः ताः देव्यः तानि मन्दिराणि
एते भक्ताः एताः भक्ताः एतानि सौख्यानि
<DOC_END>
<DOC_START>
एतत् लेखनम् अपूर्णम् अस्ति. कृपया विकिसूक्तयः पूर्तीकरणार्थमि SERVER localurl NAMESPACE PAGENAME action=edit सहायम् करोतु].
<DOC_END>
<DOC_START>
एकाकी यः खादति सः भवति शुद्धपापी ।
वयं सम्पदः स्वामिनः भवाम ।
चौर्यरूपेण भोगं न अनुभवामि ।
सहोदरः सहोदरं न द्विष्यात् ।
भगवतः उपायनानि सदा भवन्ति कल्याणकराणि ।
हे ज्ञानिनः पतितः जनः उत्थाप्यताम् ।
वार्धक्यतः पूर्वं मृतः मा भव ।
वार्धक्यतः पूर्वं मृतः मा भव ।
कल्याणकराः विचाराः सर्वतः आगम्यन्ताम् ।
दैन्येन विना शताधिकानि वर्षाणि जीवेम ।
तव माहात्म्यम् अन्यैः न सिद्ध्यते ।
अस्माकं शरीरं शिलासदृशं भवतु ।
अन्येषां सम्पत्तिः न अपहर्तव्या ।
हे जगदग्रणीः सौभाग्यप्राप्तये सन्मार्गे नीयताम् ।
मम मनः मङ्गलसङ्कल्पैः युक्तं भवतु ।
असत्यात् सत्यं प्रति चलामि ।
अस्माकं प्रज्ञाकर्माणि तस्मात् विश्वचेतनात् प्रेरितानि भवन्तु ।
अहं सूर्यः इव प्रकाशवान् भविष्यामि ।
<DOC_END>
<DOC_START>
* लोकाः समस्ताः सुखिनो भवन्तु।
* यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
* लोकहितं मम करणीयम ।
* ब्राह्मणस्य तु देहोयं नोपभोगाय विद्यते ।
<DOC_END>
<DOC_START>
ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ।
अग्निना रयिमश्नवत् पोषमेव दिवेदिवे ।
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि ।
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि ।
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् ।
स नः पितेव सूनवेऽग्ने सूपायनो भव ।
ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥१॥
तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥२॥
युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥३॥
एहि स्तोमाँ अभि स्वराभि गृणीह्या रुव ।
ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ॥४॥
उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे ।
शक्रो यथा सुतेषु णो रारणत्सख्येषु च ॥५॥
तमित्सखित्व ईमहे तं राये तं सुवीर्ये ।
स शक्र उत नः शकदिन्द्रो वसु दयमानः ॥६॥
गवामप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥७॥
नहि त्वा रोदसी उभे ऋघायमाणमिन्वतः ।
जेषः स्वर्वतीरपः सं गा अस्मभ्यं धूनुहि ॥८॥
आश्रुत्कर्ण श्रुधी हवं नू चिद्दधिष्व मे गिरः ।
इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम् ॥९॥
विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् ।
वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥१०॥
आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब ।
नव्यमायुः प्र सू तिर कृधी सहस्रसामृषिम् ॥११॥
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ।
वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥१२॥
स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश्च सम्राट् ।
सतीनसत्वा हव्यो भरेषु मरुत्वान्नो भवत्विन्द्र ऊती ॥१॥
यस्यानाप्तः सूर्यस्येव यामो भरेभरे वृत्रहा शुष्मो अस्ति ।
वृषन्तमः सखिभिः स्वेभिरेवैर्मरुत्वान्नो भवत्विन्द्र ऊती ॥२॥
दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः ।
तरद्द्वेषाः सासहिः पौंस्येभिर्मरुत्वान्नो भवत्विन्द्र ऊती ॥३॥
सो अङ्गिरोभिरङ्गिरस्तमो भूद्वृषा वृषभिः सखिभिः सखा सन् ।
ऋग्मिभिरृग्मी गातुभिर्ज्येष्ठो मरुत्वान्नो भवत्विन्द्र ऊती ॥४॥
स सूनुभिर्न रुद्रेभिरृभ्वा नृषाह्ये सासह्वाँ अमित्रान् ।
सनीळेभिः श्रवस्यानि तूर्वन्मरुत्वान्नो भवत्विन्द्र ऊती ॥५॥
स मन्युमीः समदनस्य कर्तास्माकेभिर्नृभिः सूर्यं सनत् ।
अस्मिन्नहन्सत्पतिः पुरुहूतो मरुत्वान्नो भवत्विन्द्र ऊती ॥६॥
तमूतयो रणयञ्छूरसातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् ।
स विश्वस्य करुणस्येश एको मरुत्वान्नो भवत्विन्द्र ऊती ॥७॥
तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय ।
सो अन्धे चित्तमसि ज्योतिर्विदन्मरुत्वान्नो भवत्विन्द्र ऊती ॥८॥
स सव्येन यमति व्राधतश्चित्स दक्षिणे संगृभीता कृतानि ।
स कीरिणा चित्सनिता धनानि मरुत्वान्नो भवत्विन्द्र ऊती ॥९॥
स ग्रामेभिः सनिता स रथेभिर्विदे विश्वाभिः कृष्टिभिर्न्वद्य ।
स पौंस्येभिरभिभूरशस्तीर्मरुत्वान्नो भवत्विन्द्र ऊती ॥१०॥
स जामिभिर्यत्समजाति मीळ्हेऽजामिभिर्वा पुरुहूत एवैः ।
अपां तोकस्य तनयस्य जेषे मरुत्वान्नो भवत्विन्द्र ऊती ॥११॥
स वज्रभृद्दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा ।
चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान्नो भवत्विन्द्र ऊती ॥१२॥
तस्य वज्रः क्रन्दति स्मत्स्वर्षा दिवो न त्वेषो रवथः शिमीवान् ।
तं सचन्ते सनयस्तं धनानि मरुत्वान्नो भवत्विन्द्र ऊती ॥१३॥
यस्याजस्रं शवसा मानमुक्थं परिभुजद्रोदसी विश्वतः सीम् ।
स पारिषत्क्रतुभिर्मन्दसानो मरुत्वान्नो भवत्विन्द्र ऊती ॥१४॥
न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः ।
स प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च मरुत्वान्नो भवत्विन्द्र ऊती ॥१५॥
रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा राय ऋज्राश्वस्य ।
वृषण्वन्तं बिभ्रती धूर्षु रथं मन्द्रा चिकेत नाहुषीषु विक्षु ॥१६॥
एतत्त्यत्त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः ।
ऋज्राश्वः प्रष्टिभिरम्बरीषः सहदेवो भयमानः सुराधाः ॥१७॥
दस्यूञ्छिम्यूँश्च पुरुहूत एवैर्हत्वा पृथिव्यां शर्वा नि बर्हीत् ।
सनत्क्षेत्रं सखिभिः श्वित्न्येभिः सनत्सूर्यं सनदपः सुवज्रः ॥१८॥
विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१९॥
प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना ।
अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥१॥
यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन्पिप्रुमव्रतम् ।
इन्द्रो यः शुष्णमशुषं न्यावृणङ्मरुत्वन्तं सख्याय हवामहे ॥२॥
यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः ।
यस्येन्द्रस्य सिन्धवः सश्चति व्रतं मरुत्वन्तं सख्याय हवामहे ॥३॥
यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणिकर्मणि स्थिरः ।
वीळोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥४॥
यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत् ।
इन्द्रो यो दस्यूँरधराँ अवातिरन्मरुत्वन्तं सख्याय हवामहे ॥५॥
यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः ।
इन्द्रं यं विश्वा भुवनाभि संदधुर्मरुत्वन्तं सख्याय हवामहे ॥६॥
रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः ।
इन्द्रं मनीषा अभ्यर्चति श्रुतं मरुत्वन्तं सख्याय हवामहे ॥७॥
यद्वा मरुत्वः परमे सधस्थे यद्वावमे वृजने मादयासे ।
अत आ याह्यध्वरं नो अच्छा त्वाया हविश्चकृमा सत्यराधः ॥८॥
अधा नियुत्वः सगणो मरुद्भिरस्मिन्यज्ञे बर्हिषि मादयस्व ॥९॥
मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने ।
आ त्वा सुशिप्र हरयो वहन्तूशन्हव्यानि प्रति नो जुषस्व ॥१०॥
मरुत्स्तोत्रस्य वृजनस्य गोपा वयमिन्द्रेण सनुयाम वाजम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥
इमां ते धियं प्र भरे महो महीमस्य स्तोत्रे धिषणा यत्त आनजे ।
तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु ॥१॥
अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः ।
अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कमिन्द्र चरतो वितर्तुरम् ॥२॥
तं स्मा रथं मघवन्प्राव सातये जैत्रं यं ते अनुमदाम संगमे ।
आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ्छर्म यच्छ नः ॥३॥
वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरेभरे ।
अस्मभ्यमिन्द्र वरिवः सुगं कृधि प्र शत्रूणां मघवन्वृष्ण्या रुज ॥४॥
नाना हि त्वा हवमाना जना इमे धनानां धर्तरवसा विपन्यवः ।
अस्माकं स्मा रथमा तिष्ठ सातये जैत्रं हीन्द्र निभृतं मनस्तव ॥५॥
गोजिता बाहू अमितक्रतुः सिमः कर्मन्कर्मञ्छतमूतिः खजंकरः ।
अकल्प इन्द्रः प्रतिमानमोजसाथा जना वि ह्वयन्ते सिषासवः ॥६॥
उत्ते शतान्मघवन्नुच्च भूयस उत्सहस्राद्रिरिचे कृष्टिषु श्रवः ।
अमात्रं त्वा धिषणा तित्विषे मह्यधा वृत्राणि जिघ्नसे पुरंदर ॥७॥
त्रिविष्टिधातु प्रतिमानमोजसस्तिस्रो भूमीर्नृपते त्रीणि रोचना ।
अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्र जनुषा सनादसि ॥८॥
त्वां देवेषु प्रथमं हवामहे त्वं बभूथ पृतनासु सासहिः ।
सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कृणोतु प्रसवे रथं पुरः ॥९॥
त्वं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन्महत्सु च ।
त्वामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय ॥१०॥
विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥
तत्त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम् ।
क्षमेदमन्यद्दिव्यन्यदस्य समी पृच्यते समनेव केतुः ॥१॥
स धारयत्पृथिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज ।
अहन्नहिमभिनद्रौहिणं व्यहन्व्यंसं मघवा शचीभिः ॥२॥
स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्नचरद्वि दासीः ।
विद्वान्वज्रिन्दस्यवे हेतिमस्यार्यं सहो वर्धया द्युम्नमिन्द्र ॥३॥
तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत् ।
उपप्रयन्दस्युहत्याय वज्री यद्ध सूनुः श्रवसे नाम दधे ॥४॥
तदस्येदं पश्यता भूरि पुष्टं श्रदिन्द्रस्य धत्तन वीर्याय ।
स गा अविन्दत्सो अविन्ददश्वान्स ओषधीः सो अपः स वनानि ॥५॥
भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् ।
य आदृत्या परिपन्थीव शूरोऽयज्वनो विभजन्नेति वेदः ॥६॥
तदिन्द्र प्रेव वीर्यं चकर्थ यत्ससन्तं वज्रेणाबोधयोऽहिम् ।
अनु त्वा पत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु त्वा ॥७॥
शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र यदावधीर्वि पुरः शम्बरस्य ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥८॥
विमुच्या वयोऽवसायाश्वान्दोषा वस्तोर्वहीयसः प्रपित्वे ॥१॥
ओ त्ये नर इन्द्रमूतये गुर्नू चित्तान्सद्यो अध्वनो जगम्यात् ।
देवासो मन्युं दासस्य श्चम्नन्ते न आ वक्षन्सुविताय वर्णम् ॥२॥
अव त्मना भरते केतवेदा अव त्मना भरते फेनमुदन् ।
क्षीरेण स्नातः कुयवस्य योषे हते ते स्यातां प्रवणे शिफायाः ॥३॥
युयोप नाभिरुपरस्यायोः प्र पूर्वाभिस्तिरते राष्टि शूरः ।
अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥४॥
प्रति यत्स्या नीथादर्शि दस्योरोको नाच्छा सदनं जानती गात् ।
अध स्मा नो मघवञ्चर्कृतादिन्मा नो मघेव निष्षपी परा दाः ॥५॥
स त्वं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे ।
मान्तरां भुजमा रीरिषो नः श्रद्धितं ते महत इन्द्रियाय ॥६॥
अधा मन्ये श्रत्ते अस्मा अधायि वृषा चोदस्व महते धनाय ।
मा नो अकृते पुरुहूत योनाविन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः ॥७॥
आण्डा मा नो मघवञ्छक्र निर्भेन्मा नः पात्रा भेत्सहजानुषाणि ॥८॥
अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय ।
उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥९॥
चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि ।
न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥१॥
अर्थमिद्वा उ अर्थिन आ जाया युवते पतिम् ।
तुञ्जाते वृष्ण्यं पयः परिदाय रसं दुहे वित्तं मे अस्य रोदसी ॥२॥
मो षु देवा अदः स्वरव पादि दिवस्परि ।
मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तं मे अस्य रोदसी ॥३॥
यज्ञं पृच्छाम्यवमं स तद्दूतो वि वोचति ।
क्व ऋतं पूर्व्यं गतं कस्तद्बिभर्ति नूतनो वित्तं मे अस्य रोदसी ॥४॥
अमी ये देवा स्थन त्रिष्वा रोचने दिवः ।
कद्व ऋतं कदनृतं क्व प्रत्ना व आहुतिर्वित्तं मे अस्य रोदसी ॥५॥
कद्व ऋतस्य धर्णसि कद्वरुणस्य चक्षणम् ।
कदर्यम्णो महस्पथाति क्रामेम दूढ्यो वित्तं मे अस्य रोदसी ॥६॥
अहं सो अस्मि यः पुरा सुते वदामि कानि चित् ।
तं मा व्यन्त्याध्यो वृको न तृष्णजं मृगं वित्तं मे अस्य रोदसी ॥७॥
सं मा तपन्त्यभितः सपत्नीरिव पर्शवः ।
मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी ॥८॥
अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता ।
त्रितस्तद्वेदाप्त्यः स जामित्वाय रेभति वित्तं मे अस्य रोदसी ॥९॥
अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः ।
देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर्वित्तं मे अस्य रोदसी ॥१०॥
सुपर्णा एत आसते मध्य आरोधने दिवः ।
ते सेधन्ति पथो वृकं तरन्तं यह्वतीरपो वित्तं मे अस्य रोदसी ॥११॥
नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम् ।
ऋतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तं मे अस्य रोदसी ॥१२॥
अग्ने तव त्यदुक्थ्यं देवेष्वस्त्याप्यम् ।
स नः सत्तो मनुष्वदा देवान्यक्षि विदुष्टरो वित्तं मे अस्य रोदसी ॥१३॥
सत्तो होता मनुष्वदा देवाँ अच्छा विदुष्टरः ।
अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वित्तं मे अस्य रोदसी ॥१४॥
ब्रह्मा कृणोति वरुणो गातुविदं तमीमहे ।
व्यूर्णोति हृदा मतिं नव्यो जायतामृतं वित्तं मे अस्य रोदसी ॥१५॥
असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः ।
न स देवा अतिक्रमे तं मर्तासो न पश्यथ वित्तं मे अस्य रोदसी ॥१६॥
त्रितः कूपेऽवहितो देवान्हवत ऊतये ।
तच्छुश्राव बृहस्पतिः कृण्वन्नंहूरणादुरु वित्तं मे अस्य रोदसी ॥१७॥
अरुणो मा सकृद्वृकः पथा यन्तं ददर्श हि ।
उज्जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तं मे अस्य रोदसी ॥१८॥
एनाङ्गूषेण वयमिन्द्रवन्तोऽभि ष्याम वृजने सर्ववीराः ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१९॥
इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिं हवामहे ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥१॥
त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥२॥
अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥३॥
नराशंसं वाजिनं वाजयन्निह क्षयद्वीरं पूषणं सुम्नैरीमहे ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥४॥
बृहस्पते सदमिन्नः सुगं कृधि शं योर्यत्ते मनुर्हितं तदीमहे ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥५॥
इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिरह्वदूतये ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥६॥
देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥७॥
यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृळयन्तः ।
आ वोऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या वरिवोवित्तरासत् ॥१॥
उप नो देवा अवसा गमन्त्वङ्गिरसां सामभि स्तूयमानाः ।
इन्द्र इन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदितिः शर्म यंसत् ॥२॥
तन्न इन्द्रस्तद्वरुणस्तदग्निस्तदर्यमा तत्सविता चनो धात् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥३॥
य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे ।
तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ॥१॥
यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम् ।
तावाँ अयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम् ॥२॥
चक्राथे हि सध्र्यङ्नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः ।
ताविन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् ॥३॥
समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा ।
तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम् ॥४॥
यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वृष्ण्यानि ।
या वां प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ॥५॥
यदब्रवं प्रथमं वां वृणानोऽयं सोमो असुरैर्नो विहव्यः ।
तां सत्यां श्रद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य ॥६॥
यदिन्द्राग्नी मदथः स्वे दुरोणे यद्ब्रह्मणि राजनि वा यजत्रा ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥७॥
यदिन्द्राग्नी यदुषु तुर्वशेषु यद्द्रुह्युष्वनुषु पूरुषु स्थः ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥८॥
यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥९॥
यदिन्द्राग्नी परमस्यां पृथिव्यां मध्यमस्यामवमस्यामुत स्थः ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥१०॥
यदिन्द्राग्नी दिवि ष्ठो यत्पृथिव्यां यत्पर्वतेष्वोषधीष्वप्सु ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥११॥
यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥१२॥
एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१३॥
वि ह्यख्यं मनसा वस्य इच्छन्निन्द्राग्नी ज्ञास उत वा सजातान् ।
नान्या युवत्प्रमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम् ॥१॥
अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा स्यालात् ।
अथा सोमस्य प्रयती युवभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यम् ॥२॥
मा च्छेद्म रश्मीँरिति नाधमानाः पितॄणां शक्तीरनुयच्छमानाः ।
इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्यद्री धिषणाया उपस्थे ॥३॥
युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति ।
तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पृङ्क्तमप्सु ॥४॥
युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये ।
तावासद्या बर्हिषि यज्ञे अस्मिन्प्र चर्षणी मादयेथां सुतस्य ॥५॥
प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च ।
प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या ॥६॥
आ भरतं शिक्षतं वज्रबाहू अस्माँ इन्द्राग्नी अवतं शचीभिः ।
इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन् ॥७॥
पुरंदरा शिक्षतं वज्रहस्तास्माँ इन्द्राग्नी अवतं भरेषु ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥८॥
इन्द्रं विश्वा अवीवृधन्समुद्रव्यचसं गिरः ।
रथीतमं रथीनां वाजानां सत्पतिं पतिम् ॥१॥
त्वामभि प्र णोनुमो जेतारमपराजितम् ॥२॥
पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः ।
यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम् ॥३॥
पुरां भिन्दुर्युवा कविरमितौजा अजायत ।
इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥४॥
त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् ।
त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥५॥
तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् ।
उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः ॥६॥
मायाभिरिन्द्र मायिनं त्वं शुष्णमवातिरः ।
विदुष्टे तस्य मेधिरास्तेषां श्रवांस्युत्तिर ॥७॥
सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥८॥
ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते ।
अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य समु तृप्णुत ऋभवः ॥१॥
आभोगयं प्र यदिच्छन्त ऐतनापाकाः प्राञ्चो मम के चिदापयः ।
सौधन्वनासश्चरितस्य भूमनागच्छत सवितुर्दाशुषो गृहम् ॥२॥
तत्सविता वोऽमृतत्वमासुवदगोह्यं यच्छ्रवयन्त ऐतन ।
त्यं चिच्चमसमसुरस्य भक्षणमेकं सन्तमकृणुता चतुर्वयम् ॥३॥
विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वमानशुः ।
सौधन्वना ऋभवः सूरचक्षसः संवत्सरे समपृच्यन्त धीतिभिः ॥४॥
क्षेत्रमिव वि ममुस्तेजनेनँ एकं पात्रमृभवो जेहमानम् ।
उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इच्छमानाः ॥५॥
आ मनीषामन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना ।
तरणित्वा ये पितुरस्य सश्चिर ऋभवो वाजमरुहन्दिवो रजः ॥६॥
ऋभुर्न इन्द्रः शवसा नवीयानृभुर्वाजेभिर्वसुभिर्वसुर्ददिः ।
युष्माकं देवा अवसाहनि प्रियेऽभि तिष्ठेम पृत्सुतीरसुन्वताम् ॥७॥
निश्चर्मण ऋभवो गामपिंशत सं वत्सेनासृजता मातरं पुनः ।
सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन ॥८॥
वाजेभिर्नो वाजसातावविड्ढ्यृभुमाँ इन्द्र चित्रमा दर्षि राधः ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥९॥
तक्षन्रथं सुवृतं विद्मनापसस्तक्षन्हरी इन्द्रवाहा वृषण्वसू ।
तक्षन्पितृभ्यामृभवो युवद्वयस्तक्षन्वत्साय मातरं सचाभुवम् ॥१॥
आ नो यज्ञाय तक्षत ऋभुमद्वयः क्रत्वे दक्षाय सुप्रजावतीमिषम् ।
यथा क्षयाम सर्ववीरया विशा तन्नः शर्धाय धासथा स्विन्द्रियम् ॥२॥
आ तक्षत सातिमस्मभ्यमृभवः सातिं रथाय सातिमर्वते नरः ।
सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पृतनासु सक्षणिम् ॥३॥
ऋभुक्षणमिन्द्रमा हुव ऊतय ऋभून्वाजान्मरुतः सोमपीतये ।
उभा मित्रावरुणा नूनमश्विना ते नो हिन्वन्तु सातये धिये जिषे ॥४॥
ऋभुर्भराय सं शिशातु सातिं समर्यजिद्वाजो अस्माँ अविष्टु ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥५॥
ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये ।
याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥१॥
युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे ।
याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु ऊतिभिरश्विना गतम् ॥२॥
युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना ।
याभिर्धेनुमस्वं पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतम् ॥३॥
याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति ।
याभिस्त्रिमन्तुरभवद्विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतम् ॥४॥
याभी रेभं निवृतं सितमद्भ्य उद्वन्दनमैरयतं स्वर्दृशे ।
याभिः कण्वं प्र सिषासन्तमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥५॥
याभिरन्तकं जसमानमारणे भुज्युं याभिरव्यथिभिर्जिजिन्वथुः ।
याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥६॥
याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये ।
याभिः पृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥७॥
याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथः ।
याभिर्वर्तिकां ग्रसिताममुञ्चतं ताभिरू षु ऊतिभिरश्विना गतम् ॥८॥
याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम् ।
याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥९॥
याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम् ।
याभिर्वशमश्व्यं प्रेणिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१०॥
याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् ।
कक्षीवन्तं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥११॥
याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे ।
याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतम् ॥१२॥
याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतम् ।
याभिर्विप्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१३॥
याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् ।
याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१४॥
याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः ।
याभिर्व्यश्वमुत पृथिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१५॥
याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः ।
याभिः शारीराजतं स्यूमरश्मये ताभिरू षु ऊतिभिरश्विना गतम् ॥१६॥
याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना ।
याभिः शर्यातमवथो महाधने ताभिरू षु ऊतिभिरश्विना गतम् ॥१७॥
याभिरङ्गिरो मनसा निरण्यथोऽग्रं गच्छथो विवरे गोअर्णसः ।
याभिर्मनुं शूरमिषा समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१८॥
याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षतम् ।
याभिः सुदास ऊहथुः सुदेव्यं ताभिरू षु ऊतिभिरश्विना गतम् ॥१९॥
याभिः शंताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम् ।
ओम्यावतीं सुभरामृतस्तुभं ताभिरू षु ऊतिभिरश्विना गतम् ॥२०॥
याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम् ।
मधु प्रियं भरथो यत्सरड्भ्यस्ताभिरू षु ऊतिभिरश्विना गतम् ॥२१॥
याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः ।
याभी रथाँ अवथो याभिरर्वतस्ताभिरू षु ऊतिभिरश्विना गतम् ॥२२॥
याभिः कुत्समार्जुनेयं शतक्रतू प्र तुर्वीतिं प्र च दभीतिमावतम् ।
याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥२३॥
अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम् ।
अद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥२४॥
द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥२५॥
इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।
यथा प्रसूता सवितुः सवायँ एवा रात्र्युषसे योनिमारैक् ॥१॥
रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः ।
समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥२॥
समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे ।
न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥३॥
भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरो न आवः ।
प्रार्प्या जगद्व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा ॥४॥
जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ त्वम् ।
दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा अजीगर्भुवनानि विश्वा ॥५॥
क्षत्राय त्वं श्रवसे त्वं महीया इष्टये त्वमर्थमिव त्वमित्यै ।
विसदृशा जीविताभिप्रचक्ष उषा अजीगर्भुवनानि विश्वा ॥६॥
एषा दिवो दुहिता प्रत्यदर्शि व्युच्छन्ती युवतिः शुक्रवासाः ।
विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्युच्छ ॥७॥
परायतीनामन्वेति पाथ आयतीनां प्रथमा शश्वतीनाम् ।
व्युच्छन्ती जीवमुदीरयन्त्युषा मृतं कं चन बोधयन्ती ॥८॥
उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य ।
यन्मानुषान्यक्ष्यमाणाँ अजीगस्तद्देवेषु चकृषे भद्रमप्नः ॥९॥
कियात्या यत्समया भवाति या व्यूषुर्याश्च नूनं व्युच्छान् ।
अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषमन्याभिरेति ॥१०॥
ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्तीमुषसं मर्त्यासः ।
अस्माभिरू नु प्रतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान् ॥११॥
यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती ।
सुमङ्गलीर्बिभ्रती देववीतिमिहाद्योषः श्रेष्ठतमा व्युच्छ ॥१२॥
शश्वत्पुरोषा व्युवास देव्यथो अद्येदं व्यावो मघोनी ।
अथो व्युच्छादुत्तराँ अनु द्यूनजरामृता चरति स्वधाभिः ॥१३॥
व्यञ्जिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः ।
प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन ॥१४॥
आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना ।
ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वैत् ॥१५॥
उदीर्ध्वं जीवो असुर्न आगादप प्रागात्तम आ ज्योतिरेति ।
आरैक्पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः ॥१६॥
स्यूमना वाच उदियर्ति वह्नि स्तवानो रेभ उषसो विभातीः ।
अद्या तदुच्छ गृणते मघोन्यस्मे आयुर्नि दिदीहि प्रजावत् ॥१७॥
या गोमतीरुषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय ।
वायोरिव सूनृतानामुदर्के ता अश्वदा अश्नवत्सोमसुत्वा ॥१८॥
माता देवानामदितेरनीकं यज्ञस्य केतुर्बृहती वि भाहि ।
प्रशस्तिकृद्ब्रह्मणे नो व्युच्छा नो जने जनय विश्ववारे ॥१९॥
यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥२०॥
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
यथा शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥१॥
यच्छं च योश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु ॥२॥
अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः ।
सुम्नायन्निद्विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः ॥३॥
त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे नि ह्वयामहे ।
आरे अस्मद्दैव्यं हेळो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ॥४॥
दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे ।
हस्ते बिभ्रद्भेषजा वार्याणि शर्म वर्म च्छर्दिरस्मभ्यं यंसत् ॥५॥
इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् ।
रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥६॥
मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥७॥
वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥८॥
उप ते स्तोमान्पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे ।
भद्रा हि ते सुमतिर्मृळयत्तमाथा वयमव इत्ते वृणीमहे ॥९॥
आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु ।
मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः ॥१०॥
अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥१॥
सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् ।
यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥२॥
भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥३॥
तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार ।
यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥४॥
तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।
अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति ॥५॥
अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥६॥
नासत्याभ्यां बर्हिरिव प्र वृञ्जे स्तोमाँ इयर्म्यभ्रियेव वातः ।
वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना ।
तद्रासभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय ॥२॥
तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवाँ अवाहाः ।
तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतंगैः ।
समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥४॥
यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम् ॥५॥
यमश्विना ददथुः श्वेतमश्वमघाश्वाय शश्वदित्स्वस्ति ।
तद्वां दात्रं महि कीर्तेन्यं भूत्पैद्वो वाजी सदमिद्धव्यो अर्यः ॥६॥
युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतं पुरंधिम् ।
कारोतराच्छफादश्वस्य वृष्णः शतं कुम्भाँ असिञ्चतं सुरायाः ॥७॥
हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम् ।
ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति ॥८॥
क्षरन्नापो न पायनाय राये सहस्राय तृष्यते गोतमस्य ॥९॥
जुजुरुषो नासत्योत वव्रिं प्रामुञ्चतं द्रापिमिव च्यवानात् ।
तद्वां नरा शंस्यं राध्यं चाभिष्टिमन्नासत्या वरूथम् ।
तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् ।
दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच ॥१२॥
अजोहवीन्नासत्या करा वां महे यामन्पुरुभुजा पुरंधिः ।
श्रुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम् ॥१३॥
आस्नो वृकस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम् ।
उतो कविं पुरुभुजा युवं ह कृपमाणमकृणुतं विचक्षे ॥१४॥
चरित्रं हि वेरिवाच्छेदि पर्णमाजा खेलस्य परितक्म्यायाम् ।
सद्यो जङ्घामायसीं विश्पलायै धने हिते सर्तवे प्रत्यधत्तम् ॥१५॥
शतं मेषान्वृक्ये चक्षदानमृज्राश्वं तं पितान्धं चकार ।
तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन् ॥१६॥
आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वता जयन्ती ।
विश्वे देवा अन्वमन्यन्त हृद्भिः समु श्रिया नासत्या सचेथे ॥१७॥
यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयन्ता ।
रेवदुवाह सचनो रथो वां वृषभश्च शिंशुमारश्च युक्ता ॥१८॥
रयिं सुक्षत्रं स्वपत्यमायुः सुवीर्यं नासत्या वहन्ता ।
आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम् ॥१९॥
परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः ।
विभिन्दुना नासत्या रथेन वि पर्वताँ अजरयू अयातम् ॥२०॥
एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा ।
निरहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणावरातीः ॥२१॥
शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः ।
शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम् ॥२२॥
अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः ।
पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय ॥२३॥
दश रात्रीरशिवेना नव द्यूनवनद्धं श्नथितमप्स्वन्तः ।
विप्रुतं रेभमुदनि प्रवृक्तमुन्निन्यथुः सोममिव स्रुवेण ॥२४॥
प्र वां दंसांस्यश्विनाववोचमस्य पतिः स्यां सुगवः सुवीरः ।
मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् ।
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥१॥
यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति ।
येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम् ॥२॥
ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन ।
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥३॥
अश्वं न गूळ्हमश्विना दुरेवैरृषिं नरा वृषणा रेभमप्सु ।
सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि ॥४॥
सुषुप्वांसं न निरृतेरुपस्थे सूर्यं न दस्रा तमसि क्षियन्तम् ।
शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥५॥
तद्वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन् ।
शफादश्वस्य वाजिनो जनाय शतं कुम्भाँ असिञ्चतं मधूनाम् ॥६॥
युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय ।
घोषायै चित्पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम् ॥७॥
युवं श्यावाय रुशतीमदत्तं महः क्षोणस्याश्विना कण्वाय ।
प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम् ॥८॥
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम् ।
सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं तरुत्रम् ॥९॥
एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः ।
यद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम् ॥१०॥
सूनोर्मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता ।
अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् ॥११॥
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा ।
हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन् ॥१२॥
युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः ।
युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥१३॥
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना ।
युवं भुज्युमर्णसो निः समुद्राद्विभिरूहथुरृज्रेभिरश्वैः ॥१४॥
अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान् ।
निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥१५॥
अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य ।
वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥१६॥
शतं मेषान्वृक्ये मामहानं तमः प्रणीतमशिवेन पित्रा ।
आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे ॥१७॥
शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति ।
जारः कनीन इव चक्षदान ऋज्राश्वः शतमेकं च मेषान् ॥१८॥
मही वामूतिरश्विना मयोभूरुत स्रामं धिष्ण्या सं रिणीथः ।
अथा युवामिदह्वयत्पुरंधिरागच्छतं सीं वृषणाववोभिः ॥१९॥
अधेनुं दस्रा स्तर्यं विषक्तामपिन्वतं शयवे अश्विना गाम् ।
युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम् ॥२०॥
यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा ।
अभि दस्युं बकुरेणा धमन्तोरु ज्योतिश्चक्रथुरार्याय ॥२१॥
आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्यैरयतम् ।
स वां मधु प्र वोचदृतायन्त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वाम् ॥२२॥
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना प्रावतं मे ।
अस्मे रयिं नासत्या बृहन्तमपत्यसाचं श्रुत्यं रराथाम् ॥२३॥
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम् ।
त्रिधा ह श्यावमश्विना विकस्तमुज्जीवस ऐरयतं सुदानू ॥२४॥
एतानि वामश्विना वीर्याणि प्र पूर्व्याण्यायवोऽवोचन् ।
ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथमा वदेम ॥२५॥
आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववाँ यात्वर्वाङ् ।
यो मर्त्यस्य मनसो जवीयान्त्रिवन्धुरो वृषणा वातरंहाः ॥१॥
त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक् ।
पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ॥२॥
प्रवद्यामना सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः ।
किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥३॥
आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः ।
ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥४॥
आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य ।
परि वामश्वा वपुषः पतंगा वयो वहन्त्वरुषा अभीके ॥५॥
उद्वन्दनमैरतं दंसनाभिरुद्रेभं दस्रा वृषणा शचीभिः ।
निष्टौग्र्यं पारयथः समुद्रात्पुनश्च्यवानं चक्रथुर्युवानम् ॥६॥
युवं कण्वायापिरिप्ताय चक्षुः प्रत्यधत्तं सुष्टुतिं जुजुषाणा ॥७॥
युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय ।
अमुञ्चतं वर्तिकामंहसो निः प्रति जङ्घां विश्पलाया अधत्तम् ॥८॥
युवं श्वेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम् ।
जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वृषणं वीड्वङ्गम् ॥९॥
ता वां नरा स्ववसे सुजाता हवामहे अश्विना नाधमानाः ।
आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ॥१०॥
आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः ।
हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥११॥
आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे ।
सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधामभि प्रयः ॥१॥
ऊर्ध्वा धीतिः प्रत्यस्य प्रयामन्यधायि शस्मन्समयन्त आ दिशः ।
स्वदामि घर्मं प्रति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत् ॥२॥
सं यन्मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे ।
युवोरह प्रवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम् ॥३॥
युवं भुज्युं भुरमाणं विभिर्गतं स्वयुक्तिभिर्निवहन्ता पितृभ्य आ ।
यासिष्टं वर्तिर्वृषणा विजेन्यं दिवोदासाय महि चेति वामवः ॥४॥
युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम् ।
आ वां पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवां पती ॥५॥
युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये ।
युवं शयोरवसं पिप्यथुर्गवि प्र दीर्घेण वन्दनस्तार्यायुषा ॥६॥
युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा समिन्वथः ।
क्षेत्रादा विप्रं जनथो विपन्यया प्र वामत्र विधते दंसना भुवत् ॥७॥
अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निबाधितम् ।
स्वर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ॥८॥
उत स्या वां मधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति ।
युवं दधीचो मन आ विवासथोऽथा शिरः प्रति वामश्व्यं वदत् ॥९॥
युवं पेदवे पुरुवारमश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः ।
शर्यैरभिद्युं पृतनासु दुष्टरं चर्कृत्यमिन्द्रमिव चर्षणीसहम् ॥१०॥
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे ।
असि होता न ईड्यः ॥३॥
ताँ उशतो वि बोधय यदग्ने यासि दूत्यम् ।
घृताहवन दीदिवः प्रति ष्म रिषतो दह ।
यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति ।
तस्य स्म प्राविता भव ॥८॥
यो अग्निं देववीतये हविष्माँ आविवासति ।
स नः पावक दीदिवोऽग्ने देवाँ इहा वह ।
उप यज्ञं हविश्च नः ॥१०॥
स न स्तवान आ भर गायत्रेण नवीयसा ।
अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः ।
इमं स्तोमं जुषस्व नः ॥१२॥
का राधद्धोत्राश्विना वां को वां जोष उभयोः ।
नू चिन्नु मर्ते अक्रौ ॥२॥
ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य ।
वि पृच्छामि पाक्या न देवान्वषट्कृतस्याद्भुतस्य दस्रा ।
पातं च सह्यसो युवं च रभ्यसो नः ॥४॥
प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम् ।
श्रुतं गायत्रं तकवानस्याहं चिद्धि रिरेभाश्विना वाम् ।
युवं ह्यास्तं महो रन्युवं वा यन्निरततंसतम् ।
ता नो वसू सुगोपा स्यातं पातं नो वृकादघायोः ॥७॥
मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः ।
दुहीयन्मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै ।
इषे च नो मिमीतं धेनुमत्यै ॥९॥
अध स्वप्नस्य निर्विदेऽभुञ्जतश्च रेवतः ।
उभा ता बस्रि नश्यतः ॥१२॥
कदित्था नॄँः पात्रं देवयतां श्रवद्गिरो अङ्गिरसां तुरण्यन् ।
प्र यदानड्विश आ हर्म्यस्योरु क्रंसते अध्वरे यजत्रः ॥१॥
स्तम्भीद्ध द्यां स धरुणं प्रुषायदृभुर्वाजाय द्रविणं नरो गोः ।
अनु स्वजां महिषश्चक्षत व्रां मेनामश्वस्य परि मातरं गोः ॥२॥
नक्षद्धवमरुणीः पूर्व्यं राट् तुरो विशामङ्गिरसामनु द्यून् ।
तक्षद्वज्रं नियुतं तस्तम्भद्द्यां चतुष्पदे नर्याय द्विपादे ॥३॥
अस्य मदे स्वर्यं दा ऋतायापीवृतमुस्रियाणामनीकम् ।
यद्ध प्रसर्गे त्रिककुम्निवर्तदप द्रुहो मानुषस्य दुरो वः ॥४॥
तुभ्यं पयो यत्पितरावनीतां राधः सुरेतस्तुरणे भुरण्यू ।
शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥५॥
अध प्र जज्ञे तरणिर्ममत्तु प्र रोच्यस्या उषसो न सूरः ।
इन्दुर्येभिराष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ्जरणाभि धाम ॥६॥
स्विध्मा यद्वनधितिरपस्यात्सूरो अध्वरे परि रोधना गोः ।
यद्ध प्रभासि कृत्व्याँ अनु द्यूननर्विशे पश्विषे तुराय ॥७॥
अष्टा महो दिव आदो हरी इह द्युम्नासाहमभि योधान उत्सम् ।
हरिं यत्ते मन्दिनं दुक्षन्वृधे गोरभसमद्रिभिर्वाताप्यम् ॥८॥
त्वमायसं प्रति वर्तयो गोर्दिवो अश्मानमुपनीतमृभ्वा ।
कुत्साय यत्र पुरुहूत वन्वञ्छुष्णमनन्तैः परियासि वधैः ॥९॥
पुरा यत्सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य ।
शुष्णस्य चित्परिहितं यदोजो दिवस्परि सुग्रथितं तदादः ॥१०॥
अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदतामिन्द्र कर्मन् ।
त्वं वृत्रमाशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥११॥
त्वमिन्द्र नर्यो याँ अवो नॄन्तिष्ठा वातस्य सुयुजो वहिष्ठान् ।
यं ते काव्य उशना मन्दिनं दाद्वृत्रहणं पार्यं ततक्ष वज्रम् ॥१२॥
त्वं सूरो हरितो रामयो नॄन्भरच्चक्रमेतशो नायमिन्द्र ।
प्रास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून् ॥१३॥
त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके ।
प्र नो वाजान्रथ्यो अश्वबुध्यानिषे यन्धि श्रवसे सूनृतायै ॥१४॥
आ नो भज मघवन्गोष्वर्यो मंहिष्ठास्ते सधमादः स्याम ॥१५॥
प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम् ।
दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥१॥
पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने ।
स्तरीर्नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः ॥२॥
ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् ।
शिशीतमिन्द्रापर्वता युवं नस्तन्नो विश्वे वरिवस्यन्तु देवाः ॥३॥
प्र वो नपातमपां कृणुध्वं प्र मातरा रास्पिनस्यायोः ॥४॥
आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे ।
प्र वः पूष्णे दावन आँ अच्छा वोचेय वसुतातिमग्नेः ॥५॥
श्रुतं मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम् ।
श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुरद्भिः ॥६॥
स्तुषे सा वां वरुण मित्र रातिर्गवां शता पृक्षयामेषु पज्रे ।
श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन् ॥७॥
अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः ।
जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः ॥८॥
जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक् ।
स्वयं स यक्ष्मं हृदये नि धत्त आप यदीं होत्राभिरृतावा ॥९॥
स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः ।
विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूरः ॥१०॥
अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः ।
नभोजुवो यन्निरवस्य राधः प्रशस्तये महिना रथवते ॥११॥
एतं शर्धं धाम यस्य सूरेरित्यवोचन्दशतयस्य नंशे ।
द्युम्नानि येषु वसुताती रारन्विश्वे सन्वन्तु प्रभृथेषु वाजम् ॥१२॥
मन्दामहे दशतयस्य धासेर्द्विर्यत्पञ्च बिभ्रतो यन्त्यन्ना ।
किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुष ऋञ्जते नॄन् ॥१३॥
हिरण्यकर्णं मणिग्रीवमर्णस्तन्नो विश्वे वरिवस्यन्तु देवाः ।
अर्यो गिरः सद्य आ जग्मुषीरोस्राश्चाकन्तूभयेष्वस्मे ॥१४॥
चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्य जिष्णोः ।
रथो वां मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ॥१५॥
पृथू रथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः ।
कृष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषाय क्षयाय ॥१॥
पूर्वा विश्वस्माद्भुवनादबोधि जयन्ती वाजं बृहती सनुत्री ।
उच्चा व्यख्यद्युवतिः पुनर्भूरोषा अगन्प्रथमा पूर्वहूतौ ॥२॥
यदद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते ।
देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥३॥
गृहंगृहमहना यात्यच्छा दिवेदिवे अधि नामा दधाना ।
सिषासन्ती द्योतना शश्वदागादग्रमग्रमिद्भजते वसूनाम् ॥४॥
भगस्य स्वसा वरुणस्य जामिरुषः सूनृते प्रथमा जरस्व ।
पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥५॥
उदीरतां सूनृता उत्पुरंधीरुदग्नयः शुशुचानासो अस्थुः ।
स्पार्हा वसूनि तमसापगूळ्हाविष्कृण्वन्त्युषसो विभातीः ॥६॥
अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते ।
परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन ॥७॥
सदृशीरद्य सदृशीरिदु श्वो दीर्घं सचन्ते वरुणस्य धाम ।
अनवद्यास्त्रिंशतं योजनान्येकैका क्रतुं परि यन्ति सद्यः ॥८॥
जानत्यह्नः प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची ।
ऋतस्य योषा न मिनाति धामाहरहर्निष्कृतमाचरन्ती ॥९॥
कन्येव तन्वा शाशदानाँ एषि देवि देवमियक्षमाणम् ।
संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कृणुषे विभाती ॥१०॥
सुसंकाशा मातृमृष्टेव योषाविस्तन्वं कृणुषे दृशे कम् ।
भद्रा त्वमुषो वितरं व्युच्छ न तत्ते अन्या उषसो नशन्त ॥११॥
अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य ।
परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषासः ॥१२॥
ऋतस्य रश्मिमनुयच्छमाना भद्रम्भद्रं क्रतुमस्मासु धेहि ।
उषो नो अद्य सुहवा व्युच्छास्मासु रायो मघवत्सु च स्युः ॥१३॥
उषा उच्छन्ती समिधाने अग्ना उद्यन्सूर्य उर्विया ज्योतिरश्रेत् ।
देवो नो अत्र सविता न्वर्थं प्रासावीद्द्विपत्प्र चतुष्पदित्यै ॥१॥
अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि ।
ईयुषीणामुपमा शश्वतीनामायतीनां प्रथमोषा व्यद्यौत् ॥२॥
एषा दिवो दुहिता प्रत्यदर्शि ज्योतिर्वसाना समना पुरस्तात् ।
ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥३॥
उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरकृत प्रियाणि ।
अद्मसन्न ससतो बोधयन्ती शश्वत्तमागात्पुनरेयुषीणाम् ॥४॥
पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यकृत प्र केतुम् ।
व्यु प्रथते वितरं वरीय ओभा पृणन्ती पित्रोरुपस्था ॥५॥
एवेदेषा पुरुतमा दृशे कं नाजामिं न परि वृणक्ति जामिम् ।
अरेपसा तन्वा शाशदाना नार्भादीषते न महो विभाती ॥६॥
अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानाम् ।
जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥७॥
स्वसा स्वस्रे ज्यायस्यै योनिमारैगपैत्यस्याः प्रतिचक्ष्येव ।
व्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्यङ्क्ते समनगा इव व्राः ॥८॥
आसां पूर्वासामहसु स्वसॄणामपरा पूर्वामभ्येति पश्चात् ।
ताः प्रत्नवन्नव्यसीर्नूनमस्मे रेवदुच्छन्तु सुदिना उषासः ॥९॥
प्र बोधयोषः पृणतो मघोन्यबुध्यमानाः पणयः ससन्तु ।
रेवदुच्छ मघवद्भ्यो मघोनि रेवत्स्तोत्रे सूनृते जारयन्ती ॥१०॥
वि नूनमुच्छादसति प्र केतुर्गृहंगृहमुप तिष्ठाते अग्निः ॥११॥
उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ ।
अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥१२॥
अस्तोढ्वं स्तोम्या ब्रह्मणा मेऽवीवृधध्वमुशतीरुषासः ।
युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं च वाजम् ॥१३॥
प्राता रत्नं प्रातरित्वा दधाति तं चिकित्वान्प्रतिगृह्या नि धत्ते ।
तेन प्रजां वर्धयमान आयू रायस्पोषेण सचते सुवीरः ॥१॥
सुगुरसत्सुहिरण्यः स्वश्वो बृहदस्मै वय इन्द्रो दधाति ।
यस्त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिमुत्सिनाति ॥२॥
आयमद्य सुकृतं प्रातरिच्छन्निष्टेः पुत्रं वसुमता रथेन ।
अंशोः सुतं पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः ॥३॥
उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः ।
पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥४॥
नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति ।
तस्मा आपो घृतमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा ॥५॥
दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः ।
दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्तः प्र तिरन्त आयुः ॥६॥
मा पृणन्तो दुरितमेन आरन्मा जारिषुः सूरयः सुव्रतासः ।
अन्यस्तेषां परिधिरस्तु कश्चिदपृणन्तमभि सं यन्तु शोकाः ॥७॥
अमन्दान्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य ।
यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः ॥१॥
शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्सद्य आदम् ।
शतं कक्षीवाँ असुरस्य गोनां दिवि श्रवोऽजरमा ततान ॥२॥
उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः ।
षष्टिः सहस्रमनु गव्यमागात्सनत्कक्षीवाँ अभिपित्वे अह्नाम् ॥३॥
चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति ।
मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः ॥४॥
पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्ताँ अष्टावरिधायसो गाः ।
सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥५॥
ददाति मह्यं यादुरी याशूनां भोज्या शता ॥६॥
उपोप मे परा मृश मा मे दभ्राणि मन्यथाः ।
अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।
घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥१॥
यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः ।
परिज्मानमिव द्यां होतारं चर्षणीनाम् ।
शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥२॥
स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहंतरः परशुर्न द्रुहंतरः ।
वीळु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् ।
निःषहमाणो यमते नायते धन्वासहा नायते ॥३॥
दृळ्हा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसेऽग्नये दाष्ट्यवसे ।
प्र यः पुरूणि गाहते तक्षद्वनेव शोचिषा ।
स्थिरा चिदन्ना नि रिणात्योजसा नि स्थिराणि चिदोजसा ॥४॥
तमस्य पृक्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्रायुषे दिवातरात् ।
आदस्यायुर्ग्रभणवद्वीळु शर्म न सूनवे ।
भक्तमभक्तमवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः ॥५॥
स हि शर्धो न मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः ।
अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम् ॥६॥
द्विता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः ।
अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम् ।
प्रियाँ अपिधीँर्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः ॥७॥
विश्वासां त्वा विशां पतिं हवामहे सर्वासां समानं दम्पतिं भुजे सत्यगिर्वाहसं भुजे ।
अतिथिं मानुषाणां पितुर्न यस्यासया ।
अमी च विश्वे अमृतास आ वयो हव्या देवेष्वा वयः ॥८॥
त्वमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये ।
शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
अध स्मा ते परि चरन्त्यजर श्रुष्टीवानो नाजर ॥९॥
प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्वग्नये ।
प्रति यदीं हविष्मान्विश्वासु क्षासु जोगुवे ।
अग्रे रेभो न जरत ऋषूणां जूर्णिर्होत ऋषूणाम् ॥१०॥
स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना ।
महि शविष्ठ नस्कृधि संचक्षे भुजे अस्यै ।
महि स्तोतृभ्यो मघवन्सुवीर्यं मथीरुग्रो न शवसा ॥११॥
अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनु व्रतमग्निः स्वमनु व्रतम् ।
विश्वश्रुष्टिः सखीयते रयिरिव श्रवस्यते ।
अदब्धो होता नि षददिळस्पदे परिवीत इळस्पदे ॥१॥
तं यज्ञसाधमपि वातयामस्यृतस्य पथा नमसा हविष्मता देवताता हविष्मता ।
स न ऊर्जामुपाभृत्यया कृपा न जूर्यति ।
यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥२॥
एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वृषभः कनिक्रदद्दधद्रेतः कनिक्रदत् ।
शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः ।
सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥३॥
स सुक्रतुः पुरोहितो दमेदमेऽग्निर्यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति ।
क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे ।
यतो घृतश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥४॥
क्रत्वा यदस्य तविषीषु पृञ्चतेऽग्नेरवेण मरुतां न भोज्येषिराय न भोज्या ।
स हि ष्मा दानमिन्वति वसूनां च मज्मना ।
स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ॥५॥
विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्न शिश्रथच्छ्रवस्यया न शिश्रथत् ।
विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे ।
विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्वारा व्यृण्वति ॥६॥
स मानुषे वृजने शंतमो हितोऽग्निर्यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः ।
स हव्या मानुषाणामिळा कृतानि पत्यते ।
स नस्त्रासते वरुणस्य धूर्तेर्महो देवस्य धूर्तेः ॥७॥
अग्निं होतारमीळते वसुधितिं प्रियं चेतिष्ठमरतिं न्येरिरे हव्यवाहं न्येरिरे ।
विश्वायुं विश्ववेदसं होतारं यजतं कविम् ।
देवासो रण्वमवसे वसूयवो गीर्भी रण्वं वसूयवः ॥८॥
यं त्वं रथमिन्द्र मेधसातयेऽपाका सन्तमिषिर प्रणयसि प्रानवद्य नयसि ।
सद्यश्चित्तमभिष्टये करो वशश्च वाजिनम् ।
सास्माकमनवद्य तूतुजान वेधसामिमां वाचं न वेधसाम् ॥१॥
स श्रुधि यः स्मा पृतनासु कासु चिद्दक्षाय्य इन्द्र भरहूतये नृभिरसि प्रतूर्तये नृभिः ।
यः शूरैः स्वः सनिता यो विप्रैर्वाजं तरुता ।
तमीशानास इरधन्त वाजिनं पृक्षमत्यं न वाजिनम् ॥२॥
दस्मो हि ष्मा वृषणं पिन्वसि त्वचं कं चिद्यावीरररुं शूर मर्त्यं परिवृणक्षि मर्त्यम् ।
इन्द्रोत तुभ्यं तद्दिवे तद्रुद्राय स्वयशसे ।
मित्राय वोचं वरुणाय सप्रथः सुमृळीकाय सप्रथः ॥३॥
अस्माकं व इन्द्रमुश्मसीष्टये सखायं विश्वायुं प्रासहं युजं वाजेषु प्रासहं युजम् ।
अस्माकं ब्रह्मोतयेऽवा पृत्सुषु कासु चित् ।
नहि त्वा शत्रु स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम् ॥४॥
नि षू नमातिमतिं कयस्य चित्तेजिष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभिः ।
नेषि णो यथा पुरानेनाः शूर मन्यसे ।
विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अच्छ ॥५॥
प्र तद्वोचेयं भव्यायेन्दवे हव्यो न य इषवान्मन्म रेजति रक्षोहा मन्म रेजति ।
स्वयं सो अस्मदा निदो वधैरजेत दुर्मतिम् ।
अव स्रवेदघशंसोऽवतरमव क्षुद्रमिव स्रवेत् ॥६॥
वनेम तद्धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम् ।
आ सत्याभिरिन्द्रं द्युम्नहूतिभिर्यजत्रं द्युम्नहूतिभिः ॥७॥
प्रप्रा वो अस्मे स्वयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन्दुर्मतीनाम् ।
स्वयं सा रिषयध्यै या न उपेषे अत्रैः ।
हतेमसन्न वक्षति क्षिप्ता जूर्णिर्न वक्षति ॥८॥
त्वं न इन्द्र राया परीणसा याहि पथाँ अनेहसा पुरो याह्यरक्षसा ।
पाहि नो दूरादारादभिष्टिभिः सदा पाह्यभिष्टिभिः ॥९॥
त्वं न इन्द्र राया तरूषसोग्रं चित्त्वा महिमा सक्षदवसे महे मित्रं नावसे ।
ओजिष्ठ त्रातरविता रथं कं चिदमर्त्य ।
अन्यमस्मद्रिरिषेः कं चिदद्रिवो रिरिक्षन्तं चिदद्रिवः ॥१०॥
पाहि न इन्द्र सुष्टुत स्रिधोऽवयाता सदमिद्दुर्मतीनां देवः सन्दुर्मतीनाम् ।
हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः ।
अधा हि त्वा जनिता जीजनद्वसो रक्षोहणं त्वा जीजनद्वसो ॥११॥
एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्तं राजेव सत्पतिः ।
हवामहे त्वा वयं प्रयस्वन्तः सुते सचा ।
पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ॥१॥
पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं न वंसगस्तातृषाणो न वंसगः ।
आ त्वा यच्छन्तु हरितो न सूर्यमहा विश्वेव सूर्यम् ॥२॥
अविन्दद्दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि ।
व्रजं वज्री गवामिव सिषासन्नङ्गिरस्तमः ।
अपावृणोदिष इन्द्रः परीवृता द्वार इषः परीवृताः ॥३॥
दादृहाणो वज्रमिन्द्रो गभस्त्योः क्षद्मेव तिग्ममसनाय सं श्यदहिहत्याय सं श्यत् ।
त्वं वृथा नद्य इन्द्र सर्तवेऽच्छा समुद्रमसृजो रथाँ इव वाजयतो रथाँ इव ।
इमां ते वाचं वसूयन्त आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय त्वामतक्षिषुः ।
शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम् ।
अत्यमिव शवसे सातये धना विश्वा धनानि सातये ॥६॥
भिनत्पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो ।
अतिथिग्वाय शम्बरं गिरेरुग्रो अवाभरत् ।
महो धनानि दयमान ओजसा विश्वा धनान्योजसा ॥७॥
इन्द्रः समत्सु यजमानमार्यं प्रावद्विश्वेषु शतमूतिराजिषु स्वर्मीळ्हेष्वाजिषु ।
दक्षन्न विश्वं ततृषाणमोषति न्यर्शसानमोषति ॥८॥
सूरश्चक्रं प्र वृहज्जात ओजसा प्रपित्वे वाचमरुणो मुषायतीऽशान आ मुषायति ।
सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेव तुर्वणिः ॥९॥
स नो नव्येभिर्वृषकर्मन्नुक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः ।
दिवोदासेभिरिन्द्र स्तवानो वावृधीथा अहोभिरिव द्यौः ॥१०॥
इन्द्राय हि द्यौरसुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर्द्युम्नसाता वरीमभिः ।
इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः ।
इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ॥१॥
विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक् ।
तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि ।
इन्द्रं न यज्ञैश्चितयन्त आयव स्तोमेभिरिन्द्रमायवः ॥२॥
वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।
यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि ।
आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥३॥
विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः ।
महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥४॥
आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखीयतो यदाविथ ।
चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे ।
ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥५॥
उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः ।
यदिन्द्र हन्तवे मृधो वृषा वज्रिञ्चिकेतसि ।
आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥६॥
त्वं तमिन्द्र वावृधानो अस्मयुरमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम् ।
जहि यो नो अघायति शृणुष्व सुश्रवस्तमः ।
त्वया वयं मघवन्पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः ।
नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते ।
अस्मिन्यज्ञे वि चयेमा भरे कृतं वाजयन्तो भरे कृतम् ॥१॥
स्वर्जेषे भर आप्रस्य वक्मन्युषर्बुधः स्वस्मिन्नञ्जसि क्राणस्य स्वस्मिन्नञ्जसि ।
अहन्निन्द्रो यथा विदे शीर्ष्णाशीर्ष्णोपवाच्यः ।
अस्मत्रा ते सध्र्यक्सन्तु रातयो भद्रा भद्रस्य रातयः ॥२॥
तत्तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन्यज्ञे वारमकृण्वत क्षयमृतस्य वारसि क्षयम् ।
वि तद्वोचेरध द्वितान्तः पश्यन्ति रश्मिभिः ।
स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥३॥
नू इत्था ते पूर्वथा च प्रवाच्यं यदङ्गिरोभ्योऽवृणोरप व्रजमिन्द्र शिक्षन्नप व्रजम् ।
ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च ।
सुन्वद्भ्यो रन्धया कं चिदव्रतं हृणायन्तं चिदव्रतम् ॥४॥
सं यज्जनान्क्रतुभिः शूर ईक्षयद्धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः ।
तस्मा आयुः प्रजावदिद्बाधे अर्चन्त्योजसा ।
इन्द्र ओक्यं दिधिषन्त धीतयो देवाँ अच्छा न धीतयः ॥५॥
युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तंतमिद्धतं वज्रेण तंतमिद्धतम् ।
दूरे चत्ताय च्छन्त्सद्गहनं यदिनक्षत् ।
अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥६॥
उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सं महीरनिन्द्राः ।
अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तृळ्हा अशेरन् ॥१॥
अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम् ।
अवासां मघवञ्जहि शर्धो यातुमतीनाम् ।
वैलस्थानके अर्मके महावैलस्थे अर्मके ॥३॥
पिशङ्गभृष्टिमम्भृणं पिशाचिमिन्द्र सं मृण ।
सर्वं रक्षो नि बर्हय ॥५॥
अवर्मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषाँ अद्रिवो घृणान्न भीषाँ अद्रिवः ।
अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः ॥६॥
वनोति हि सुन्वन्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः ।
सुन्वान इत्सिषासति सहस्रा वाज्यवृतः ।
सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥७॥
आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये ।
ऊर्ध्वा ते अनु सूनृता मनस्तिष्ठतु जानती ।
नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥१॥
मन्दन्तु त्वा मन्दिनो वायविन्दवोऽस्मत्क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः ।
यद्ध क्राणा इरध्यै दक्षं सचन्त ऊतयः ।
सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥२॥
वायुर्युङ्क्ते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ।
प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥३॥
तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु ।
तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते ।
अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥४॥
तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्यपामिषन्त भुर्वणि ।
त्वां त्सारी दसमानो भगमीट्टे तक्ववीये ।
त्वं विश्वस्माद्भुवनात्पासि धर्मणासुर्यात्पासि धर्मणा ॥५॥
त्वं नो वायवेषामपूर्व्यः सोमानां प्रथमः पीतिमर्हसि सुतानां पीतिमर्हसि ।
उतो विहुत्मतीनां विशां ववर्जुषीणाम् ।
विश्वा इत्ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥६॥
स्तीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते ।
तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे ।
प्र ते सुतासो मधुमन्तो अस्थिरन्मदाय क्रत्वे अस्थिरन् ॥१॥
तुभ्यायं सोमः परिपूतो अद्रिभि स्पार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति ।
तवायं भाग आयुषु सोमो देवेषु हूयते ।
वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः ॥२॥
आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये ।
तवायं भाग ऋत्वियः सरश्मिः सूर्ये सचा ।
अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ॥३॥
आ वां रथो नियुत्वान्वक्षदवसेऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये ।
पिबतं मध्वो अन्धसः पूर्वपेयं हि वां हितम् ।
वायवा चन्द्रेण राधसा गतमिन्द्रश्च राधसा गतम् ॥४॥
आ वां धियो ववृत्युरध्वराँ उपेममिन्दुं मर्मृजन्त वाजिनमाशुमत्यं न वाजिनम् ।
तेषां पिबतमस्मयू आ नो गन्तमिहोत्या ।
इन्द्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवम् ॥५॥
इमे वां सोमा अप्स्वा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ।
एते वामभ्यसृक्षत तिरः पवित्रमाशवः ।
युवायवोऽति रोमाण्यव्यया सोमासो अत्यव्यया ॥६॥
अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहमिन्द्रश्च गच्छतम् ।
वि सूनृता ददृशे रीयते घृतमा पूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम् ॥७॥
अत्राह तद्वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठन्त जायवोऽस्मे ते सन्तु जायवः ।
साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः ॥८॥
सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्नियन्तवः ॥९॥
प्र सु ज्येष्ठं निचिराभ्यां बृहन्नमो हव्यं मतिं भरता मृळयद्भ्यां स्वादिष्ठं मृळयद्भ्याम् ।
ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता ।
अथैनोः क्षत्रं न कुतश्चनाधृषे देवत्वं नू चिदाधृषे ॥१॥
अदर्शि गातुरुरवे वरीयसी पन्था ऋतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः ।
द्युक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च ।
अथा दधाते बृहदुक्थ्यं वय उपस्तुत्यं बृहद्वयः ॥२॥
ज्योतिष्मतीमदितिं धारयत्क्षितिं स्वर्वतीमा सचेते दिवेदिवे जागृवांसा दिवेदिवे ।
अयं मित्राय वरुणाय शंतमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः ।
तं देवासो जुषेरत विश्वे अद्य सजोषसः ।
यो मित्राय वरुणायाविधज्जनोऽनर्वाणं तं परि पातो अंहसो दाश्वांसं मर्तमंहसः ।
उक्थैर्य एनोः परिभूषति व्रतं स्तोमैराभूषति व्रतम् ॥५॥
नमो दिवे बृहते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे ।
इन्द्रमग्निमुप स्तुहि द्युक्षमर्यमणं भगम् ।
ज्योग्जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥६॥
ऊती देवानां वयमिन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः ।
अग्निर्मित्रो वरुणः शर्म यंसन्तदश्याम मघवानो वयं च ॥७॥
आ राजाना दिविस्पृशास्मत्रा गन्तमुप नः ।
इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥१॥
इम आ यातमिन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः ।
उत वामुषसो बुधि साकं सूर्यस्य रश्मिभिः ।
सुतो मित्राय वरुणाय पीतये चारुरृताय पीतये ॥२॥
तां वां धेनुं न वासरीमंशुं दुहन्त्यद्रिभिः सोमं दुहन्त्यद्रिभिः ।
अस्मत्रा गन्तमुप नोऽर्वाञ्चा सोमपीतये ।
अयं वां मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥३॥
प्रप्र पूष्णस्तुविजातस्य शस्यते महित्वमस्य तवसो न तन्दते स्तोत्रमस्य न तन्दते ।
विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥१॥
प्र हि त्वा पूषन्नजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः ।
हुवे यत्त्वा मयोभुवं देवं सख्याय मर्त्यः ।
यस्य ते पूषन्सख्ये विपन्यवः क्रत्वा चित्सन्तोऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे ।
तामनु त्वा नवीयसीं नियुतं राय ईमहे ।
अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवाँ अजाश्व श्रवस्यतामजाश्व ।
ओ षु त्वा ववृतीमहि स्तोमेभिर्दस्म साधुभिः ।
नहि त्वा पूषन्नतिमन्य आघृणे न ते सख्यमपह्नुवे ॥४॥
अस्तु श्रौषट् पुरो अग्नीं धिया दध आ नु तच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे ।
यद्ध क्राणा विवस्वति नाभा संदायि नव्यसी ।
अध प्र सू न उप यन्तु धीतयो देवाँ अच्छा न धीतयः ॥१॥
यद्ध त्यन्मित्रावरुणावृतादध्याददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना ।
धीभिश्चन मनसा स्वेभिरक्षभिः सोमस्य स्वेभिरक्षभिः ॥२॥
युवां स्तोमेभिर्देवयन्तो अश्विनाश्रावयन्त इव श्लोकमायवो युवां हव्याभ्यायवः ।
युवोर्विश्वा अधि श्रियः पृक्षश्च विश्ववेदसा ।
प्रुषायन्ते वां पवयो हिरण्यये रथे दस्रा हिरण्यये ॥३॥
अचेति दस्रा व्यु नाकमृण्वथो युञ्जते वां रथयुजो दिविष्टिष्वध्वस्मानो दिविष्टिषु ।
अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये ।
पथेव यन्तावनुशासता रजोऽञ्जसा शासता रजः ॥४॥
शचीभिर्नः शचीवसू दिवा नक्तं दशस्यतम् ।
मा वां रातिरुप दसत्कदा चनास्मद्रातिः कदा चन ॥५॥
वृषन्निन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस्तुभ्यं सुतास उद्भिदः ।
यद्ध त्यामङ्गिरोभ्यो धेनुं देवा अदत्तन ।
मो षु वो अस्मदभि तानि पौंस्या सना भूवन्द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः ।
यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम् ।
अस्मासु तन्मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥८॥
दध्यङ्ह मे जनुषं पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर्मनुर्विदुस्ते मे पूर्वे मनुर्विदुः ।
तेषां देवेष्वायतिरस्माकं तेषु नाभयः ।
तेषां पदेन मह्या नमे गिरेन्द्राग्नी आ नमे गिरा ॥९॥
होता यक्षद्वनिनो वन्त वार्यं बृहस्पतिर्यजति वेन उक्षभिः पुरुवारेभिरुक्षभिः ।
जगृभ्मा दूरआदिशं श्लोकमद्रेरध त्मना ।
अधारयदररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥१०॥
अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम् ॥११॥
ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये ।
आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः ।
इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् ।
प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः ।
ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः ।
घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः ।
ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया ।
आकीं सूर्यस्य रोचनाद्विश्वान्देवाँ उषर्बुधः ।
विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना ।
त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि ।
सेमं नो अध्वरं यज ॥११॥
युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः ।
वेदिषदे प्रियधामाय सुद्युते धासिमिव प्र भरा योनिमग्नये ।
वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम् ॥१॥
अभि द्विजन्मा त्रिवृदन्नमृज्यते संवत्सरे वावृधे जग्धमी पुनः ।
अन्यस्यासा जिह्वया जेन्यो वृषा न्यन्येन वनिनो मृष्ट वारणः ॥२॥
कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् ।
प्राचाजिह्वं ध्वसयन्तं तृषुच्युतमा साच्यं कुपयं वर्धनं पितुः ॥३॥
मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः ।
असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥४॥
आदस्य ते ध्वसयन्तो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः ।
यत्सीं महीमवनिं प्राभि मर्मृशदभिश्वसन्स्तनयन्नेति नानदत् ॥५॥
भूषन्न योऽधि बभ्रूषु नम्नते वृषेव पत्नीरभ्येति रोरुवत् ।
ओजायमानस्तन्वश्च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः ॥६॥
स संस्तिरो विष्टिरः सं गृभायति जानन्नेव जानतीर्नित्य आ शये ।
पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद्वर्पः पित्रोः कृण्वते सचा ॥७॥
तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः प्रायवे पुनः ।
तासां जरां प्रमुञ्चन्नेति नानददसुं परं जनयञ्जीवमस्तृतम् ॥८॥
अधीवासं परि मातू रिहन्नह तुविग्रेभिः सत्वभिर्याति वि ज्रयः ।
वयो दधत्पद्वते रेरिहत्सदानु श्येनी सचते वर्तनीरह ॥९॥
अस्माकमग्ने मघवत्सु दीदिह्यध श्वसीवान्वृषभो दमूनाः ।
अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः ॥१०॥
इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते ।
यत्ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नमा त्वम् ॥११॥
रथाय नावमुत नो गृहाय नित्यारित्रां पद्वतीं रास्यग्ने ।
अस्माकं वीराँ उत नो मघोनो जनाँश्च या पारयाच्छर्म या च ॥१२॥
अभी नो अग्न उक्थमिज्जुगुर्या द्यावाक्षामा सिन्धवश्च स्वगूर्ताः ।
गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त ॥१३॥
बळित्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि ।
यदीमुप ह्वरते साधते मतिरृतस्य धेना अनयन्त सस्रुतः ॥१॥
पृक्षो वपुः पितुमान्नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु ।
तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥२॥
निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः ।
यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥३॥
प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति ।
उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा शुचिः ॥४॥
आदिन्मातॄराविशद्यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे ।
अनु यत्पूर्वा अरुहत्सनाजुवो नि नव्यसीष्ववरासु धावते ॥५॥
आदिद्धोतारं वृणते दिविष्टिषु भगमिव पपृचानास ऋञ्जते ।
देवान्यत्क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे ॥६॥
वि यदस्थाद्यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः ।
तस्य पत्मन्दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥७॥
रथो न यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते ।
आदस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथादीषते वयः ॥८॥
त्वया ह्यग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः ।
यत्सीमनु क्रतुना विश्वथा विभुररान्न नेमिः परिभूरजायथाः ॥९॥
त्वमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि ।
तं त्वा नु नव्यं सहसो युवन्वयं भगं न कारे महिरत्न धीमहि ॥१०॥
अस्मे रयिं न स्वर्थं दमूनसं भगं दक्षं न पपृचासि धर्णसिम् ।
रश्मीँरिव यो यमति जन्मनी उभे देवानां शंसमृत आ च सुक्रतुः ॥११॥
उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्चन्द्ररथः ।
स नो नेषन्नेषतमैरमूरोऽग्निर्वामं सुवितं वस्यो अच्छ ॥१२॥
अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय प्रतरं दधानः ।
अमी च ये मघवानो वयं च मिहं न सूरो अति निष्टतन्युः ॥१३॥
तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥१॥
घृतवन्तमुप मासि मधुमन्तं तनूनपात् ।
यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥२॥
नराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः ॥३॥
ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम् ।
इयं हि त्वा मतिर्ममाच्छा सुजिह्व वच्यते ॥४॥
स्तृणानासो यतस्रुचो बर्हिर्यज्ञे स्वध्वरे ।
वृञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः ॥५॥
वि श्रयन्तामृतावृधः प्रयै देवेभ्यो महीः ।
पावकासः पुरुस्पृहो द्वारो देवीरसश्चतः ॥६॥
यह्वी ऋतस्य मातरा सीदतां बर्हिरा सुमत् ॥७॥
यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्पृशम् ॥८॥
शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती ।
इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ॥९॥
तन्नस्तुरीपमद्भुतं पुरु वारं पुरु त्मना ।
त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥१०॥
अवसृजन्नुप त्मना देवान्यक्षि वनस्पते ।
अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः ॥११॥
पूषण्वते मरुत्वते विश्वदेवाय वायवे ।
स्वाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन ॥१२॥
स्वाहाकृतान्या गह्युप हव्यानि वीतये ।
इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥१३॥
प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे ।
अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्वियः ॥१॥
स जायमानः परमे व्योमन्याविरग्निरभवन्मातरिश्वने ।
अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥२॥
अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः ।
भात्वक्षसो अत्यक्तुर्न सिन्धवोऽग्ने रेजन्ते अससन्तो अजराः ॥३॥
यमेरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना ।
अग्निं तं गीर्भिर्हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥४॥
न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः ।
अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून्स वना न्यृञ्जते ॥५॥
कुविन्नो अग्निरुचथस्य वीरसद्वसुष्कुविद्वसुभिः काममावरत् ।
चोदः कुवित्तुतुज्यात्सातये धियः शुचिप्रतीकं तमया धिया गृणे ॥६॥
घृतप्रतीकं व ऋतस्य धूर्षदमग्निं मित्रं न समिधान ऋञ्जते ।
इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम् ॥७॥
अप्रयुच्छन्नप्रयुच्छद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः ।
अदब्धेभिरदृपितेभिरिष्टेऽनिमिषद्भिः परि पाहि नो जाः ॥८॥
एति प्र होता व्रतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम् ।
अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते ॥१॥
अभीमृतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः ।
अपामुपस्थे विभृतो यदावसदध स्वधा अधयद्याभिरीयते ॥२॥
युयूषतः सवयसा तदिद्वपुः समानमर्थं वितरित्रता मिथः ।
आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन्समयंस्त सारथिः ॥३॥
यमीं द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा ।
दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा ॥४॥
तमीं हिन्वन्ति धीतयो दश व्रिशो देवं मर्तास ऊतये हवामहे ।
त्वं ह्यग्ने दिव्यस्य राजसि त्वं पार्थिवस्य पशुपा इव त्मना ।
एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ॥६॥
अग्ने जुषस्व प्रति हर्य तद्वचो मन्द्र स्वधाव ऋतजात सुक्रतो ।
यो विश्वतः प्रत्यङ्ङसि दर्शतो रण्वः संदृष्टौ पितुमाँ इव क्षयः ॥७॥
तं पृच्छता स जगामा स वेद स चिकित्वाँ ईयते सा न्वीयते ।
तस्मिन्सन्ति प्रशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस्पतिः ॥१॥
तमित्पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत् ।
न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः ॥२॥
तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे ।
पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः ॥३॥
उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः ।
अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम् ॥४॥
स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि ।
व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वाँ ऋतचिद्धि सत्यः ॥५॥
त्रिमूर्धानं सप्तरश्मिं गृणीषेऽनूनमग्निं पित्रोरुपस्थे ।
निषत्तमस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥१॥
उक्षा महाँ अभि ववक्ष एने अजरस्तस्थावितऊतिरृष्वः ।
उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य ॥२॥
समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके ।
धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् ।
सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन् ॥४॥
दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे ।
पुरुत्रा यदभवत्सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥५॥
कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः ।
उभे यत्तोके तनये दधाना ऋतस्य सामन्रणयन्त देवाः ॥१॥
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः ।
पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तन्वं वन्दे अग्ने ॥२॥
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ।
ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥३॥
यो नो अग्ने अररिवाँ अघायुररातीवा मर्चयति द्वयेन ।
मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥४॥
उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन ।
अतः पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥५॥
मथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् ।
नि यं दधुर्मनुष्यासु विक्षु स्वर्ण चित्रं वपुषे विभावम् ॥१॥
ददानमिन्न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन् ।
जुषन्त विश्वान्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः ॥२॥
नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः ।
प्र सू नयन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः ॥३॥
पुरूणि दस्मो नि रिणाति जम्भैराद्रोचते वन आ विभावा ।
आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु द्यून् ॥४॥
न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति ।
अन्धा अपश्या न दभन्नभिख्या नित्यास ईं प्रेतारो अरक्षन् ॥५॥
महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ ।
स यो वृषा नरां न रोदस्योः श्रवोभिरस्ति जीवपीतसर्गः ।
प्र यः सस्राणः शिश्रीत योनौ ॥२॥
आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्वा ।
अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात् ।
होता यजिष्ठो अपां सधस्थे ॥४॥
अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।
इन्द्र सोमं पिब ऋतुना त्वा विशन्त्विन्दवः ।
मरुतः पिबत ऋतुना पोत्राद्यज्ञं पुनीतन ।
यूयं हि ष्ठा सुदानवः ॥२॥
अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना ।
त्वं हि रत्नधा असि ॥३॥
अग्ने देवाँ इहा वह सादया योनिषु त्रिषु ।
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूँरनु ।
युवं दक्षं धृतव्रत मित्रावरुण दूळभम् ।
द्रविणोदा ददातु नो वसूनि यानि शृण्विरे ।
द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ।
अध स्मा नो ददिर्भव ॥१०॥
अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता ।
गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि ।
पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा ।
तोदस्येव शरण आ महस्य ॥१॥
व्यनिनस्य धनिनः प्रहोषे चिदररुषः ।
कदा चन प्रजिगतो अदेवयोः ॥२॥
स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि ।
प्रप्रेत्ते अग्ने वनुषः स्याम ॥३॥
मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् ।
अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषामवः ॥१॥
यद्ध त्यद्वां पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः ।
अध क्रतुं विदतं गातुमर्चत उत श्रुतं वृषणा पस्त्यावतः ॥२॥
आ वां भूषन्क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा दक्षसे महे ।
यदीमृताय भरथो यदर्वते प्र होत्रया शिम्या वीथो अध्वरम् ॥३॥
प्र सा क्षितिरसुर या महि प्रिय ऋतावानावृतमा घोषथो बृहत् ।
युवं दिवो बृहतो दक्षमाभुवं गां न धुर्युप युञ्जाथे अपः ॥४॥
मही अत्र महिना वारमृण्वथोऽरेणवस्तुज आ सद्मन्धेनवः ।
स्वरन्ति ता उपरताति सूर्यमा निम्रुच उषसस्तक्ववीरिव ॥५॥
आ वामृताय केशिनीरनूषत मित्र यत्र वरुण गातुमर्चथः ।
अव त्मना सृजतं पिन्वतं धियो युवं विप्रस्य मन्मनामिरज्यथः ॥६॥
यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः ।
उपाह तं गच्छथो वीथो अध्वरमच्छा गिरः सुमतिं गन्तमस्मयू ॥७॥
युवां यज्ञैः प्रथमा गोभिरञ्जत ऋतावाना मनसो न प्रयुक्तिषु ।
भरन्ति वां मन्मना संयता गिरोऽदृप्यता मनसा रेवदाशाथे ॥८॥
रेवद्वयो दधाथे रेवदाशाथे नरा मायाभिरितऊति माहिनम् ।
न वां द्यावोऽहभिर्नोत सिन्धवो न देवत्वं पणयो नानशुर्मघम् ॥९॥
युवं वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मन्तवो ह सर्गाः ।
अवातिरतमनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥१॥
एतच्चन त्वो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त ऋघावान् ।
त्रिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह प्रथमा अजूर्यन् ॥२॥
अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत ।
गर्भो भारं भरत्या चिदस्य ऋतं पिपर्त्यनृतं नि तारीत् ॥३॥
प्रयन्तमित्परि जारं कनीनां पश्यामसि नोपनिपद्यमानम् ।
अनवपृग्णा वितता वसानं प्रियं मित्रस्य वरुणस्य धाम ॥४॥
अनश्वो जातो अनभीशुरर्वा कनिक्रदत्पतयदूर्ध्वसानुः ।
अचित्तं ब्रह्म जुजुषुर्युवानः प्र मित्रे धाम वरुणे गृणन्तः ॥५॥
आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन्सस्मिन्नूधन् ।
पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत् ॥६॥
आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा ववृत्याम् ।
अस्माकं ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर्दिव्या सुपारा ॥७॥
यजामहे वां महः सजोषा हव्येभिर्मित्रावरुणा नमोभिः ।
घृतैर्घृतस्नू अध यद्वामस्मे अध्वर्यवो न धीतिभिर्भरन्ति ॥१॥
प्रस्तुतिर्वां धाम न प्रयुक्तिरयामि मित्रावरुणा सुवृक्तिः ।
अनक्ति यद्वां विदथेषु होता सुम्नं वां सूरिर्वृषणावियक्षन् ॥२॥
पीपाय धेनुरदितिरृताय जनाय मित्रावरुणा हविर्दे ।
हिनोति यद्वां विदथे सपर्यन्स रातहव्यो मानुषो न होता ॥३॥
उत वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः ।
उतो नो अस्य पूर्व्यः पतिर्दन्वीतं पातं पयस उस्रियायाः ॥४॥
विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि ।
यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥१॥
प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥२॥
प्र विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वृष्णे ।
य इदं दीर्घं प्रयतं सधस्थमेको विममे त्रिभिरित्पदेभिः ॥३॥
यस्य त्री पूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति ।
य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ॥४॥
तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति ।
उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः ॥५॥
ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः ।
अत्राह तदुरुगायस्य वृष्णः परमं पदमव भाति भूरि ॥६॥
प्र वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत ।
या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना ॥१॥
त्वेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति ।
ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे ।
दधाति पुत्रोऽवरं परं पितुर्नाम तृतीयमधि रोचने दिवः ॥३॥
तत्तदिदस्य पौंस्यं गृणीमसीनस्य त्रातुरवृकस्य मीळ्हुषः ।
यः पार्थिवानि त्रिभिरिद्विगामभिरुरु क्रमिष्टोरुगायाय जीवसे ॥४॥
द्वे इदस्य क्रमणे स्वर्दृशोऽभिख्याय मर्त्यो भुरण्यति ।
तृतीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः ॥५॥
चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीँरवीविपत् ।
बृहच्छरीरो विमिमान ऋक्वभिर्युवाकुमारः प्रत्येत्याहवम् ॥६॥
भवा मित्रो न शेव्यो घृतासुतिर्विभूतद्युम्न एवया उ सप्रथाः ।
अधा ते विष्णो विदुषा चिदर्ध्य स्तोमो यज्ञश्च राध्यो हविष्मता ॥१॥
यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति ।
यो जातमस्य महतो महि ब्रवत्सेदु श्रवोभिर्युज्यं चिदभ्यसत् ॥२॥
तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन ।
आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ॥३॥
तमस्य राजा वरुणस्तमश्विना क्रतुं सचन्त मारुतस्य वेधसः ।
दाधार दक्षमुत्तममहर्विदं व्रजं च विष्णुः सखिवाँ अपोर्णुते ॥४॥
आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः ।
वेधा अजिन्वत्त्रिषधस्थ आर्यमृतस्य भागे यजमानमाभजत् ॥५॥
अबोध्यग्निर्ज्म उदेति सूर्यो व्युषाश्चन्द्रा मह्यावो अर्चिषा ।
आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥१॥
यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् ।
अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥२॥
अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः ।
त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥३॥
आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम् ।
प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥४॥
युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः ।
युवमग्निं च वृषणावपश्च वनस्पतीँरश्विनावैरयेथाम् ॥५॥
युवं ह स्थो भिषजा भेषजेभिरथो ह स्थो रथ्या राथ्येभिः ।
अथो ह क्षत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश ॥६॥
वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणावभिष्टौ ।
को वां दाशत्सुमतये चिदस्यै वसू यद्धेथे नमसा पदे गोः ।
जिगृतमस्मे रेवतीः पुरंधीः कामप्रेणेव मनसा चरन्ता ॥२॥
युक्तो ह यद्वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः ।
उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः ॥३॥
उपस्तुतिरौचथ्यमुरुष्येन्मा मामिमे पतत्रिणी वि दुग्धाम् ।
मा मामेधो दशतयश्चितो धाक्प्र यद्वां बद्धस्त्मनि खादति क्षाम् ॥४॥
शिरो यदस्य त्रैतनो वितक्षत्स्वयं दास उरो अंसावपि ग्ध ॥५॥
दीर्घतमा मामतेयो जुजुर्वान्दशमे युगे ।
अपामर्थं यतीनां ब्रह्मा भवति सारथिः ॥६॥
प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा ।
देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः ॥१॥
उत मन्ये पितुरद्रुहो मनो मातुर्महि स्वतवस्तद्धवीमभिः ।
सुरेतसा पितरा भूम चक्रतुरुरु प्रजाया अमृतं वरीमभिः ॥२॥
ते सूनवः स्वपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये ।
स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ॥३॥
नव्यंनव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ॥४॥
तद्राधो अद्य सवितुर्वरेण्यं वयं देवस्य प्रसवे मनामहे ।
अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम् ॥५॥
आ त्वा वहन्तु हरयो वृषणं सोमपीतये ।
इमा धाना घृतस्नुवो हरी इहोप वक्षतः ।
इन्द्रं प्रातर्हवामह इन्द्रं प्रयत्यध्वरे ।
उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः ।
सुते हि त्वा हवामहे ॥४॥
सेमं न स्तोममा गह्युपेदं सवनं सुतम् ।
गौरो न तृषितः पिब ॥५॥
इमे सोमास इन्दवः सुतासो अधि बर्हिषि ।
अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शंतमः ।
अथा सोमं सुतं पिब ॥७॥
विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति ।
सेमं नः काममा पृण गोभिरश्वैः शतक्रतो ।
ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी ।
सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः ॥१॥
उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः ।
सुधृष्टमे वपुष्ये न रोदसी पिता यत्सीमभि रूपैरवासयत् ॥२॥
स वह्निः पुत्रः पित्रोः पवित्रवान्पुनाति धीरो भुवनानि मायया ।
धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत ॥३॥
अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा ।
वि यो ममे रजसी सुक्रतूययाजरेभि स्कम्भनेभिः समानृचे ॥४॥
ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत् ।
येनाभि कृष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम् ॥५॥
<DOC_END>
<DOC_START>
पूर्वतनस्य पाठस्य अधस्तात् नूतनः पाठः स्थाप्यताम्। fullurl TALKPAGENAMEE action=edit&section=new नूतनं शीर्षकम् आरभताम्]।
किं भवान् विकिपीडियायां नवीनोऽस्ति स्वागतमत्र !
<DOC_END>
<DOC_START>
अनर्हः कश्चित् अकाले अधिकं धनं यदि प्राप्नुयात् तर्हि स्तुतिकाराणां वचनमेव यथार्थं मन्यते सः । ‘अहम् एव देवः, देवन्द्रो वा’ इति सः चिन्तयति । ‘अन्ये एते जनाः सर्वे कीटवत् सन्ति । एते सर्वे उपेक्षार्हाः’ इति चिन्तयति सः । धनमदः एतत्सर्वं कारयति ।
‘गुणानां समूहे स्थितः एकः दोषः प्राधान्येन न भासते । चन्दे्र यद्यपि कलङ्कः अस्ति, तथापि शोभातिशयकारणतः सः हानिकारकत्वेन न परिगण्यते’ इति कालिदासः उक्तवान् । तं निन्दति कश्चन दारिद्र्यपीडितः कविः ‘‘सः यद्यपि महाकविः, तथापि प्रपञ्चं समग्रं न परिशीलितवान् । दारिद्र्यरूपः दोषः अस्ति चेत् गुणसमूहे तस्य अदर्शनं दूरे तिष्ठतु, सः एकः एव कोटिगुणान् अपि अपहरति । अतः अनन्तगुणानां खनी अपि कश्चित् यदि निर्धनः भवति तर्हि सः अल्पाम् अपि पूजां न प्राप्नोति’’ इति ।
ब्रह्मा उत्तमवर्णयुक्तम् अमूल्यं सुवर्णं सृष्टवान् । किन्तु तत्र सः गन्धं न योजितवान् । माधुर्ययुक्तम् इक्षुदण्डं सृष्टवान् सः तस्मिन् फलदानसामर्थ्यं न योजितवान् एव । सुगन्धयुक्तं चन्दनवृक्षं सृष्टवान् सः चन्दनवृक्षेषु पुष्पयोजनं विस्मृतवान् । पण्डितान् सृष्टवान् सः तेभ्यः धनानुकूल्यं न कल्पितवान् । सकलभोगसाधनानि राज्ञे दत्तवान् सः दीर्घायुष्यं न दत्तवान् एव । एवं सृष्टिकर्ता बहून् प्रमादान् कृतवान् । सृष्टिकाले योग्यः मार्गदर्शी कोऽपि ब्रह्मणः पार्श्वे न आसीत् यत् तस्यैव फलम् एतत् !
लोभयुक्तं जनं पृच्छन्तु भवन्तः ‘धार्मिककार्येषु किं भवतः प्रियम् ?’ इति । सः वदेत् ‘उपवासः एव मम प्रियः’ इति । यतः तदर्थं वराटिकाव्ययः अपि कारणीयः नास्ति । ‘चिकित्साक्रमे कः योग्यः ?’ इति पृष्टः लोभी वदेत् ‘लङ्घनं (निराहारस्थितिः) परमौषधम्’ इति । यतः अत्रापि व्ययप्रसक्तिः सर्वथा नास्ति । ‘यज्ञेषु कः यज्ञः प्रियः ?’ इति पृष्टः सः वदेत् ‘व्ययं विनैव कर्तुं शक्यः नामजपयज्ञः एव मम प्रियः’ इति । एवं यत् व्ययं विना सिद्ध्येत् तदेव रोचते लोभिने ।
कदाचित् शिवः ध्यानमग्नः आसीत् । तदा सः करस्य उपरि करं स्थापयित्वा उपविष्टः आसीत् । तत् दृष्ट्वा बालकः गुहः मातरं पृष्टवान् ‘अम्ब तातस्य अङ्गुलिपुटे किम् अस्ति ?’ इति । तदा विनोदाय पार्वती उक्तवती ‘वत्स तत्र स्वादुफलम् अस्ति ।’ गुहेन पृष्टम् ‘तत् सः मह्यं किमर्थं न ददाति ?’ पार्वत्या उक्तम् ‘भवान् एव गत्वा तत् स्वीकरोतु’ इति । गुहः झटिति गत्वा पितुः करं गृहीत्वा आकृष्टवान् । एतेन शिवस्य ध्यानस्थितिः भग्ना । पुत्रस्य कृत्यं दृष्टवतः तस्य हासः आगतः । स च हासः भवतः सर्वान् रक्षतु ।
पारम्परिकाध्ययनक्रमे अनध्ययनानि (विरामदिनानि) त्रयोदशीतः प्रतिपत्पर्यन्तं भवन्ति । (शनिभानुवासरयोः न) कश्चन छात्रः विवाहानन्तरम् अपि पारम्परिकविद्यालये अध्ययनं कुर्वन् अस्ति । सः वदति ‘हे त्रयोदशि भवती सर्वसिद्धिकरी अस्ति । भवत्याः आगमनस्य अनन्तरं विरामस्य आरम्भः इत्यतः भवती एव भवेत् समग्रे पक्षे अपि । विरामदिनेषु एव पत्न्याः सङ्गमः सम्भवति । अतः भवती मम प्रिया । किन्तु वराकी द्वितीयातिथिः कदापि न भवेत् । यतः सा शालारम्भकारिणी अस्ति ।’
कश्चन भिक्षुः (संन्यासी) मांसं खादन् आसीत् । तं दृष्ट्वा कश्चित् अपृच्छत् ‘आर्य किं भवता मांसं सेव्यते ?’
भिक्षुः अवदत् ‘आम् । किन्तु मांसेन सह मद्यम् अपि नास्ति किल इति मम खेदः’ इति ।
प्रष्टा आश्चर्येण अपृच्छत् ‘किं मद्यसेवनाभ्यासः अपि अस्ति भवतः ?’ इति ।
‘वाराङ्गनार्थं धनम् आवश्यकं खलु तत् कथं प्राप्यते ?’ प्रष्टा अपृच्छत् ।
‘तत् तु द्यूतेन चौर्येण वा प्राप्यते’ इति शान्ततया अवदत् भिक्षुः ।
तदा भिक्षुः खेदेन अवदत् ‘यदि भ्रष्टता प्राप्यते तर्हि एवमेव अधोगतिः भवति क्रमशः । सकृत् भ्रष्टस्य अधःपतनं सहजम्’ इति ।
कदाचित् कुत्रापि गतः शिवः गृहं प्रत्यागतः । द्वारं पिहितम् आसीत् । शिवः यदा द्वारशब्दं कृतवान् तदा पार्वती अपृच्छत् ‘कः भवान् ?’ शिवः अवदत् ‘अहं शूली ।’ शूली इत्यस्य शूलरोगयुक्तः इत्यर्थं कल्पयित्वा पार्वती अवदत् वैद्यसमीपं गच्छतु ।’ शिवः अवदत् ‘अहं नीलकण्ठः ।’ मयूरस्यापि कण्ठः नीलः । अतः पार्वती नीलकण्ठपदस्य मयूरः इत्यर्थं कल्पयित्वा अवदत् ‘भवान् नीलकण्ठः (मयूरः) चेत् एकां केकां करोतु’ इति । शिवः अवदत् ‘अहं पशुपतिः ।’ पार्वती अवदत् ‘पशूनां पतिः चेत् भवतः शृङ्गौ कुत्र ?’ इति । ‘अहं स्थाणुः अस्मि’ शिवः अवदत् । स्थाणुः इत्यस्य शाखादिरहितः शुष्कवृक्षकाण्डभागः इत्यपि अर्थः । अतः पार्वती वदति ‘स्थाणुः न वदति’ इति । ‘अहं शिवायाः पतिः’ इति वदति शिवः । शिवा नाम शृगाली अपि । अतः पार्वती वदति ‘भवान् शिवायाः पतिः चेत् अरण्यं गत्वा तत्र वासं करोतु’ इति । एवं पार्वती यं वचनैः जितवती सः शिवः भवतः सर्वान् रक्षतु ।
कदाचित् विष्णुः शिवस्य गृहम् आगतवान् । विष्णोः आगमनं ज्ञात्वा शिवः कठिनचर्म धृत्वा तदुपरि सर्पं रज्जुत्वेन बद्ध्वा स्वागतार्थं वेगेन गतवान् । विष्णोः वाहनं गरुडः खलु तं दृष्ट्वा सर्पः नितरां भीतः । ततः सः पलायितवान् । रज्जुरूपस्य सर्पस्य अभावतः शिवस्य कटौ स्थितं चर्म अपतत् । तदा शिवस्य कीदृशी स्थितिः स्यात् इति भवन्तः एव ऊहन्ताम् । एतया घटनया लज्जाकारणतः अवनतमुखः सन् स्थितः शिवः भवतः सर्वान् पातु ।
लक्ष्म्याः स्वयंवरः प्रचलत् आसीत् । लक्ष्म्याः पिता सागरः तु स्वपुत्रीं विष्णवे दातुम् इच्छति । तां परिणेतुम् इच्छवः इन्द्रादयः अपि उपस्थिताः आसन् सभायाम् । ते स्वपुत्र्याः यया न अङ्गीकृताः स्युः तथ् करणीया आसीत् तेन । अतः सः पुत्र्याः भीतिं निवारयन् इव वदति ‘वत्से विषादः मास्तु । दीर्घश्वासः अपि मास्तु भवत्याः । गुरुः कम्पोऽपि मास्तु बलमित् जृम्भिमत् अपि मास्तु’’ इति । तस्य तात्पर्यम् एवं भवति ‘‘विषादः विषसेवी शिवः मास्त, श्वसनं- वायुः मास्तु, कस्य-जलस्य पाता रक्षकः वरुणः मास्तु, गुरुः बृहस्पतिः अपि मास्तु, बलमित् बलनामकस्य राक्षस्य संहर्ता इन्द्रः मास्तु, अत्र विष्णुसमीपम् आगच्छतु’’ इति । एवम् उपायेन पुत्र्याः विवाहं निर्णीतवान् सागरः भवतां पापं निवरयतु ।
कदाचित् पार्वती शिवम् उक्तवती ‘भवतः भिक्षायाचनं दृष्ट्वा अहं खिन्ना अस्मि । अतः कृपया कृषिं करोतु’ इति । तदा शिवः अपृच्छत् ‘किं कृषिः सुकरा तदर्थं नास्ति भूमिः अस्माकम् । जीबहलादयः न सन्ति । वृषभाः न सन्ति । वृषभाः यदि भवेयुः तर्हि तेषां पोषणरक्षणादिकं करणीयम् । किम् एतत्सर्वं शक्यम् ?’ इति । तदा पार्वती एकैकम् अपि समस्यां परिहरन्ती अवदत् ‘परशुरामः समग्रभूमण्डलमेव स्ववशीकृतवान् अस्ति । ततः भूमिं प्राप्नोतु । कुबेरः धनधान्याधिपः । सः भवतः मित्रम् । ततः बीजार्थं धान्यं प्राप्नोतु । यमात् महिषं प्राप्नोतु । भवतः वृषभः अस्ति एव । अतः तौ एव हले योजयामः । भवतः त्रिशूलं हलाग्रं (फालं भवतु) कृषिसमये आहारम् आनीय दातुं गोपोषणार्थं च अहम् अस्मि । स्कन्दः गोरक्षणं करिष्यति । एवं विशेषव्ययं विना कृषिः शक्या’ इति ।
एतादृशानि गौरीवचनानि भवतः सर्वान् रक्षन्तु ।
शिवः पञ्चभिः मुखैः युक्तः । पञ्च अपि मुखानि खादनम् इच्छन्ति । शिवस्य एकः पुत्रः गजाननः । अतः एव गजवत् प्रभूतं खादति सः । अपरः पुत्रः षडाननः । एवं पूरणीयानि उदराणि बहूनि । ईश्वरः तु स्वयं दिगम्बरः, अतः एव अकिञ्चनः । ‘तथापि तस्य जीवनं कथं प्रचलति’ इति वा भवतां सन्देहः पत्न्याः अन्नपूर्णायाः कृपा । अन्नपूर्णा सा सर्वेभ्यः प्रभूतम् अन्नं दातुं समर्था । एवं पत्नीकृपातः शिवः सुखेन जीवति
अजानता अपि शिक्षकेण कथं पाठः करणीयः इति अत्र वर्णितम् अस्ति । सः प्रथमं मूलं पठेत् । तदनु तत्रत्यां व्याख्यां पठेत् । पुनरपि मूलं पठेत्, व्याख्यामपि पुनः पठेत् । एवं मूलं व्याख्यां च पुनः पुनः पठन् सः मध्ये मध्ये ‘ज्ञातं किम्?’ इति छात्रान् पृच्छेत् । तदा तु छात्राः ‘आम्’ इति वदन्ति एव ।
कश्चन यात्रिकः कञ्चित् ग्रामं प्राप्य अपृच्छत् ‘मित्र अस्मिन् ग्रामे महान् कः अस्ति ?’
ग्रामीणः अवदत् ‘महान्तः अत्र बहवः । तालद्रुमाणां गणः एव अस्ति । तत्रत्याः सर्वे वृक्षाः महान्तः (उन्नताः) एव’ इति ।
‘दाता कः अस्ति ?’ यात्रिकः अपृच्छत् ।
‘रजकः । सः प्रातः वस्त्रं नीत्वा सायं ददाति’ इति अवदत् ग्रामीणः ।
‘अत्र दक्षः कः ?’ यात्रिकः अपृच्छत् ।
‘अन्येषां धनस्य पत्न्याः च हरणे सर्वे अपि दक्षाः एव’ इति ग्रामीणः अवदत् ।
‘एतादृशे कुत्सिते ग्रामे कथं वासः क्रियते भवता ?’ इति अपृच्छत् यात्रिकः ।
‘विषकृमिन्यायेन जीवामि । विषे स्थितः कृमिः आदौ कष्टम् अनुभवति चेदपि गच्छता कालेन अभ्यस्तविषवासः सः तत्रैव सुखेन जीवति । तद्वद् अहम् अपि जीवामि’ इति विषादेन उक्तवान् ग्रामीणः ।
जातकफलं ज्ञातुं यदा जनाः आगच्छन्ति तदा ज्योतिषिकेण सर्वदा ‘एवं भवति, एवं वा भवति’ इति द्विविधम् उत्तरं वक्तव्यम् । तथैव ‘अमुककाले भवति, अमुककाले वा भवति’ इति कालद्वयात्मकतया वक्तव्यम् । सर्वम् अपि भ्रमजनकतया अपि वक्तव्यम् । तदा एव ज्योतिषिकः आक्षेप्तॄणाम् आक्षेपात् आत्मानं रक्षितुम् अर्हति ।
कदाचित् ग्रामीणाः गजम् ऐदम्प्राथम्येन दृष्टवन्तः । ते अचिन्तयन् ‘अहो, महाकारता एतस्य एषः मेषः इव ऊर्णं न ददाति, क्षीरम् अपि न ददाति । एतम् आरुह्य सञ्चारोऽपि कर्तुं न शक्यः । उन्नतपृष्ठत्वात् एतस्य उपरि भारस्य आरोपणम् अपि न शक्यम् । अस्मै प्रभूतं तृणादिकं दातव्यं भवति । एतस्य निग्रहः अपि क्लेशकरः । अधिकधनस्य दानेन विलक्षणम् एतं को वा क्रीणीयात् वयं तु काश्चन वराटिकाः दातुं शक्नुयाम, तावदेव’ इति । स्वयोग्यतानुगुणं चिन्तितं तैः । अल्पाः जनाः महत्तमस्य योग्यतां गुणवत्ताम् उपयोगितां वा अवगन्तुं न अर्हन्ति खलु ?
कदाचित् कश्चन अर्थी राजानं याचितुम् आगतः । सः अवदत् ‘महाराज लोके भगवतः शिवस्य अभावः जातः अस्ति’ इति ।
‘कथमेतत् ?’ इति पृष्टं राज्ञा ।
‘शिवस्य अर्धं विष्णुना स्वीकृतं, पुनरर्धं पार्वत्या हृतम् । (अर्धनारीश्वरत्वात्) एवं विष्णुना पार्वत्या च अर्धं पुनरर्धं च हृतम् इत्यतः शिवस्य अभावः समुत्पन्नः ।’
‘एवं तर्हि शिवं श्रितवतां गङ्गाचन्द्रादीनां का गतिः ?’ राजा अपृच्छत् ।
‘गङ्गा सागरं गता । चन्द्रकला आकाशम् अगमत् । सर्पः पातालम् अगच्छत् । शिवस्य सर्वज्ञत्वम् ईश्वरत्वं च त्वां प्राप्नोत् । वराकं भिक्षाटनं तु मया प्राप्तम्’ इति अवदत् अर्थी ।
तस्य चाटूक्तिं श्रुतवान् राजा प्रभूतं धनं दत्तवान् इति किं पुनर्वक्तव्यम् ?
तार्किकाः सदापि ‘घटः’ ‘पटः’ ‘रासभः’ इत्यादीन् शब्दान् एव उच्चारयन्तः भवन्ति उदाहरणावसरे । अतः कश्चित् तान् उपहसन् वदति ‘घटः भेत्तव्यः, पटः छेत्तव्यः, रासभः आरोढव्यः वा । केनचित् उपायेन प्रसिद्धिप्राप्तिः चिन्तनीया’ इति ।
अद्य जनाः एतदेव कुर्वन्तः दृश्यन्ते । प्रसिद्धिप्राप्त्यर्थं विलक्षणान् अर्थहीनान् उपायान् आश्रयन्तोऽपि ते न लज्जन्ते ।
मम वासः अमुके पुण्यक्षेत्रे महापण्डितः अमुकः विद्वान् एव मम गुरुः आसीत् प्रसिद्धाः अमुकजनाः मया पाठिताः एतादृशानि आत्मख्यापनवचनानि ये वदन्ति ते धनसम्पादने विशेषक्लेशं न अनुभवन्ति ।
जातकफलं ज्ञातुं यदा जनाः आगच्छन्ति तदा ज्योतिइषकेण सर्वदा ‘एवं भवति, एवं वा भवति’ इति द्विविधम् उत्तरं वक्तव्यम् । तथैव अमुककाले अमुककाले वा भवति इति कालद्वयात्मकतया वक्तव्यम् । सर्वम् अपि भ्रमजनकतया अपि वक्तव्यम् । तदा एव ज्योतिषिकः आक्षेप्तॄणाम् आक्षेपात् आत्मानं रक्षितुम् अर्हति ।
यदि शिष्यः पाठ्यभानविषये कठिनं प्रश्नं पृच्छति तर्हि उत्तरकथनं निवारयितुं त्रयः मार्गाः । ‘रे पठपठ’ इति तर्जनं प्रथमः प्रकारः । ‘इदानीं समयः नास्ति । श्वः वदिष्यामि’ इति कथनं द्वितीयः मार्गः । ‘एषः विषयः भवता इदानीं न बुध्यते । कालान्तरे भवान् ज्ञास्यति’ इति कथनं तृतीयः प्रकारः । एतान् प्रकारान् अवलम्ब्य ये पाठयन्ति ते कस्यापि ग्रन्थस्य पाठने काठिन्यं न अनुभवन्ति ।
कश्चन वटुः सन्ध्यावन्दनात् पराङ्मुखः आसीत् । कदाचित् तस्य मित्रं तम् अपृच्छत् ‘किं भवान् सन्ध्यावन्दनं न करोति ?’ इति ।
‘मम आशौचम्’ इति अवदत् सः वटुः ।
'भवता कदापि सन्ध्यावन्दनं कृतं न दृष्टं मया । किं प्रतिदिनं आशौचं भवतः ?’ इति अपृच्छत् मित्रम् ।
‘अथ किम् प्रतिदिनं मोहमयी माता मृता भवति ज्ञानमयः सुतः जायते । एतस्मात् प्रतिदिनं जाताशौचं, मरणाशौचं च मम । अतः एव सन्ध्यावन्दनं न क्रियते मया’ इति अवदत् सः वटुः । व्याजकथकाः व्याजत्वेन किं किं न कथयेयुः ?
कश्चन अचिन्तयत् ‘मनः (मनश्शब्दः) नपुंसकम् । तत् प्रियायाः समीपं प्रेष्यते चेत् न काऽपि हानिः’ इति । अतः प्रियायाः समीपं मनः प्रेषितवान् सः । किन्तु तत् मनः तत्रैव रममाणम् अतिष्ठत् ।
अतः सः विषादेन वदति ‘‘मनश्शब्दं नपुंसकलिङ्गं कुर्वता पाणिनिना वयं हताः’’ इति ।
‘मनश्शब्दः’ नपुंसकः अस्ति चेत् ‘मनः’ अपि नपुंसकं स्यादिति नास्ति नियमः । एतत् अजानता तेन कष्टम् अनुभूतं यत् तदर्थं तस्मै विषीदामः वयम् ।
यदा रोगी आगच्छति तदा चतुरेण वैद्येन औषधं तु यत्किमपि वक्तव्यं, किन्तु पथ्यं तु कठिनं वक्तव्यम् । यदि दैवानुग्रहात् आरोग्यं भवति तर्हि वरम् एव । (‘मम चिकित्साप्रभावतः एव भवतः स्वास्थ्यलाभः जातः’ इति वक्तुं शक्यते । यदि अनारोग्यं वर्धते तर्हि ‘अपथ्यकारणतः एवं जातम्’ इति वक्तुं शक्यते एव ।
केचन शिष्याः अन्या गतिः नास्ति इत्यतः गुरोः समीपम् आगच्छन्ति । पुनः केचन अतिश्रद्धावन्तः भवन्ति । अन्ये केचन ज्ञानाभासं प्राप्यैव तृप्ताः भवन्ति । एते त्रिविधाः शिष्याः मूर्खाचार्यैः सौभाग्यात् एव प्राप्यन्ते ।
मूर्खोऽपि सुखेन यदि जीवितुम् इच्छति तर्हि तेन कौपीनं धृत्वा भस्मना शरीरस्य लेपनं करणीयम् । दर्भासने उपविश्य रुद्राक्षमालिका चालनीया हस्तेन । एकान्ते वसता तेन मौनम् अवलम्बनीयम् । एतावत् कृतं चेत् जनाः अहमहमिकया आगत्य प्रणमन्ति, अर्चन्ति, सत्कुर्वन्ति च ।
अतः मूर्खता अस्ति चेदपि चिन्ता न करणीया । वेषधारणात् जनप्रीतिः प्राप्तुं शक्या निश्चयेन ।
कश्चन वटुः सन्ध्यावन्दनात् पराङ्मुखः आसीत् । कदाचित् तस्य मित्रं तम् अपृच्छत् ‘‘किं भवान् सन्ध्यावन्दनं न करोति ?’’ इति । ‘‘मम आशौचम्’’ इति अवदत् सः वटुः । ‘‘भवता कदापि सन्ध्यावन्दनं कृतं न दृष्टं मया । किं प्रतिदिनं आशौचं भवतः ?’’ इति अपृच्छत् मित्रम् ।
‘‘अथ किम् प्रतिदिनं मोहमयी माता मृता भवति ज्ञानमयः सुतः जायते । एतस्मात् प्रतिदिनं जाताशौचं, मरणाशौचं च मम । अतः एव सन्ध्यावन्दनं न क्रियते मया’’ इति अवदत् सः वटुः । व्याजकथकाः व्याजत्वेन किं किं न कथयेयुः ?
यदि शिष्यः पाठ्यभागविषये कठिनं प्रश्नं पृच्छति तर्हि उत्तरकथनं निवारयितुं त्रयः मार्गाः । ‘रे पठ पठ’ इति तर्जनं प्रथमः प्रकारः । ‘इदानीं समयः नास्ति । श्वः वदिष्यामि’ इति कथनं द्वितीयः मार्गः । ‘एषः विषयः भवता इदानीं न बुध्यते । कालान्तरे भवान् ज्ञास्यति’ इति कथनं तृतीयः प्रकारः । एतान् प्रकारान् अवलम्ब्य ये पाठयन्ति ते कस्यापि ग्रन्थस्य पाठने काठिन्यं न अनुभवन्ति ।
छात्रावासेषु वसन्तः सर्वे अध्ययनैकासक्ताः भवन्ति इति न । भोजनादिव्यवस्था भवति तत्र इत्यतः सुखजीवनाय अपि वसन्ति केचन । तान् दृष्ट्वा केनचित् रचितः श्लोकः एषः ।
‘‘लोके चत्वारः आश्रमाः प्रसिद्धाः ब्रह्मचर्यं, गार्हस्थ्यं वानप्रस्थं, संन्यासः चेति । छात्रावासवासिनः एतेभ्यः आश्रमेभ्यः बहिर्भूताः, एतेभ्यो अन्येन पञ्चमेन प्रकारेण जीवन्ति । पञ्चेन्द्रियाणां तृप्त्यै येन केनचित् प्रकारेण प्रयतन्ते इत्यतः ते ‘पञ्चभद्राः’ इति निर्दिश्यन्ते । तादृशानां छात्राणाम् आवासः एषः’’ इति सः श्लोककारः वदति छात्रावासं दृष्ट्वा ।
लोके कृषिवाणिज्यादिषु निपुणाः स्ववृत्त्या आनन्देन जीवन्ति । तद्रहिताः अपि यदि बुद्धिमन्तः स्युः ते अपि आनन्देन जीवन्ति । किन्तु केचन कृषिवाणिज्यादिषु अनिपुणाः, बुद्धिपौरुषेण हीनाः च भवन्ति । ते कथं जीवन्ति ते तु धर्मोपदेशव्याजेन जीवन्ति ।
सत्यं खलु एतत् धर्मोपदेशकाः सर्वे वैराग्यवन्तः, धर्मैकसक्ताः वा न भवन्ति । केचन उपजीविकायै एव धर्मोपदेशम् अवलम्बितवन्तः भवन्ति । अस्माकं देशे धर्मोपदेशकानां विषये महती श्रद्धा भवति सामान्यानाम् । अतः तेषां जीवनं प्रचलति निरातङ्कम् ।
<DOC_END>
<DOC_START>
वृक्षस्य अग्रभागे वसामि, किन्तु पक्षिजातीयः नास्मि । मम नेत्रत्रयं विद्यते, किन्तु अहं शूलपाणिः नास्मि ।
चर्मवस्त्रं धृतवान् अस्मि, किन्तु अहं सिद्धयोगी नास्मि । अहं जलं धरामि, किन्तु नाहं घटः न वा मेघः ।
अस्थि नास्ति, मस्तकम् अस्ति, बाहुः अस्ति किन्तु अङ्गुली नास्ति ।
पादौ न विद्यतः किन्तु शरीरं दृढम् आलिङ्गति ।
एषा अस्ति कृष्णमुखी, किन्तु मार्जारी न । अस्याः जिह्वाद्वयं वर्तते, किन्तु सर्पिणी न ।
अस्याः पञ्च पतयः सन्ति, किन्तु पाञ्चाली न । यः उत्तरं जानीयात् सः पण्डितः ।
पादौ न विद्येते चेदपि बहु दूरं गच्छति । अक्षरज्ञानं विद्यते चेदपि पण्डितः न ।
मुखरहितः चेदपि स्फुटं वक्तुं समर्थः अस्ति । किं तत् ?
आकाशे विहरति, किन्तु पक्षी न । (पक्षवान् किन्तु पक्षी(विहगः) न) ।
वेगेन चलति, किन्तु मारुतः न । मेघः न, किन्तु भारयुतं नयति । मुखं नास्ति,
किन्तु महान्तं शब्दं करोति । कः सः ?
कुम्भकारस्य गृहे अर्धभागः, हस्तिनापुरे अर्धभागः, तयोः
युग्म लङ्कायां विद्यते । किमिति यः जानाति सः पण्डितः ।
रथी अस्ति, एकं चक्रं, किन्तु सूर्यः न । सारथिः भूमौ तिष्ठति ।
अगस्त्य(कुम्भसम्भवः इति ख्यातः)तातनिर्माणः कः इति यदि
प्रथमः अर्थः आदिः नास्ति, अन्त्यं नास्ति, मध्ये यः विद्यते तस्य समीपे भवति ।
मम अपि अस्ति, भवतः अपि अस्ति । जानाति चेत् उत्तरं वदतु ।
द्वितीयः अर्थः नकारः आदौ अस्ति, नकारः अन्ते विद्यते । मध्ये यकारः विद्यते ।
तच्च वस्तु मम समीपे अपि विद्यते, भवतः समीपे अपि विद्यते । किं तत् ?
वर्णमालायां ध-प इत्येतयोः अक्षरयोः मध्ये यदस्ति तत् भवतः समीपे विद्यते । किन्तु मम समीपे न विद्यते ।
तस्य प्राप्त्यर्थम् अहम् आगतः अस्मि ।
ववृक्षस्य अग्रभागे फलं दृश्यते । पुनः फलस्य अग्रे वृक्षः दृश्यते ।
अस्य शब्दस्य आदौ अकारः अन्ते सकारश्च विद्यते । यः उत्तरं जानाति सः पण्डितः ।
दन्ताः न विद्यन्ते चेदपि शिलाः खादति । जीवः नास्ति चेदपि बहु सम्भाषणं करोति ।
बहुभिः गुणैः युक्तश्चेदपि अन्यान् अनुसरति । किं स्यात् ?
एकं नेत्रम् अस्ति । अयं काकः न । बिलम् इच्छति किन्तु सर्पः न ।
सः क्षीणः भवति, वर्धितश्च भवति । किन्तु समुद्रः चन्द्रः वा न ।
वृक्षस्य उपरि भवति, किन्तु पक्षी न । तृणस्य उपरि शेते, किन्तु योगी न ।
पीतवर्णीयः भवति, किन्तु सुवर्णं न । अतः सुगन्धयुक्तः ताम्रः । किम् एतत्
'अतः' इत्येतस्य अर्थद्वयम् तस्मात् तकाररहितम्' इति च । 'ताम्रः'
एषा अरण्ये जाता । किन्तु ततः दूरङ्गता सा जले सर्वदा स्थास्यति ।
मानवः काश्यां किं प्राप्तुम् इच्छति राज्ञां युद्धे किं हिताय भवति ?
सर्वेषां देवानां वन्द्यः कः प्रश्नत्रयस्य अपि एकम् उत्तरं वदतु ।
स्त्रीषु शान्ता का गुणैः उत्तमः राजा कः पण्डितानाम् आदरपात्रः कः
एतेषां प्रश्नानाम् उत्तरम् अत्रैव उक्तमस्ति, किन्तु न ज्ञायते ।
स्त्रीषु शान्ता का गुणैः उत्तमः राजा कः पण्डितानाम् आदरपात्रः कः
एतेषां प्रश्नानाम् उत्तरम् अत्रैव उक्तमस्ति, किन्तु न ज्ञायते ।
त्रिषु लोकेषु या सञ्चरति, या विष्णोः प्रिया पत्नी सा का तस्य शब्दस्य आदौ अन्ते च एकैकः
वर्णः यदि योज्यते तर्हि तुल्यवाचकः शब्दः भवति । कः सः शब्दः ?
अनुजेन सह अरण्यं गत्वा राक्षसानां संहारं कः कृतवान् तस्य शब्दस्य मध्यभागे
अक्षरत्रयं योजयित्वा रावणः कीदृशः इति वदतु ।
पर्वतस्य उपरि रथः सञ्चरति । रथस्य सारथिः भूमौ तिष्ठति । रथः वायुवेगेन चलति ।
किन्तु एकमपि पदम् अग्रे न गच्छति । तर्हि किमेतत् ?
शत्रूणां, परार्धः जयः भवतः भवतु ।
निकृष्टजनानां मनसि कस्मात् वस्तुनः अहङ्कारः उत्पद्यते तस्य आदौ वर्णद्वयं यदि योज्यते
तर्हि 'वनवासिनः' इत्येषः अर्थः भवेत् । किं तत् राः धनम् । श, ब इत्येतत् अक्षरद्वयं
'देव राज्ञः सम्बोधनम् । 'तारा सुग्रीवस्य प्रिया ।
'धनम् निर्धनैः इष्यते । अर्थिभिः किं क्रियते ?
'सु इत्येतत् उत्तमार्थे प्रोक्तम् । 'ना पुरुषवाचकम् । प्रलम्बासुरस्य शत्रोः बलरामस्य
वस्तु मया दृष्टम् । इदं यः जानाति सः पण्डितः ।
स्वर्गं यत् प्रापयति तादृशं किं कार्यं मनुष्यः करोति तस्मिन् शब्दे प्रथमम् अन्तिमं च अक्षरं
यदि निष्कासयेम तर्हि गोत्वं (धेनोः गुणधर्माः) कुत्र विद्यते इत्येतस्य उत्तरं प्राप्येत ।
विष्णोः पत्नी का मा लक्ष्मीः पुनः' इत्यस्मिन् अर्थे उपयुज्यमानम् अव्ययं किम् तु'
सर्वे देवाः कां देवतां वन्दन्ते लिङ्गम्) सुन्दरं फलं किम् एकेन पदेन उत्तरतु । (बीजपूरफलम्)
कण्ठः विद्यते, मस्तकं न विद्यते । उभौ भुजौ स्तः, किन्तु करौ न स्तः ।
सीतापहरणे समर्थः, किन्तु रामः अपि न, रावणः अपि न । अत्र
’सीता’ इत्यस्य शैत्यम् इति अर्थः ग्रहीतव्यः । कञ्चुकं नाम चोलं शैत्यम् अपहरति ।
आदौ यकारः, अन्ते सकारः विद्यते । मध्ये ग्रन्थिः विद्यते ।
इदं यः न जानीयात् स तृणमात्रमपि न जानाति । ’तृणम्’ इत्यस्य पर्यायपदमेव अस्य उत्तरं भवति ।
अर्धचन्द्राकारयुक्तः स्त्रीलिङ्गशब्दः अयम् अक्षरत्रयेण युक्तः । आदिमवर्णः नकारः,
अन्तिमश्च भवति रिकारः । इदं यः जानीयात् सः पण्डितः । ’नेवरी’ इत्येतत्
किन्ञ्चन खाद्यवस्तु । महाराष्ट्रे अधिकतया प्रसिद्धम् । ’कर्जीकायि’ ’सुरळीपुरि’
इत्यादिभिः नामभिः अपि प्रसिद्धम् ।
<DOC_END>
<DOC_START>
''जलं च बिभ्रत् न घटो न मेघः ॥ center>
<DOC_END>
<DOC_START>
अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।
<DOC_END>
<DOC_START>
अभिवृत्य सपत्नानभि या नो अरातयः ।
अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥२॥
अभि त्वा देवः सविताभि सोमो अवीवृतत् ।
अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥
इदं तदक्रि देवा असपत्नः किलाभुवम् ॥४॥
यथाहमेषां भूतानां विराजानि जनस्य च ॥५॥
ज्येष्ठेभिर्यो भानुभिरृषूणां पर्येति परिवीतो विभावा ॥१॥
आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्तिः ॥२॥
ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसो व्युष्टौ ।
आ यस्मिन्मना हवींष्यग्नावरिष्टरथ स्कभ्नाति शूषैः ॥३॥
शूषेभिर्वृधो जुषाणो अर्कैर्देवाँ अच्छा रघुपत्वा जिगाति ।
मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान् ॥४॥
तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिरा कृणुध्वम् ।
आ यं विप्रासो मतिभिर्गृणन्ति जातवेदसं जुह्वं सहानाम् ॥५॥
सं यस्मिन्विश्वा वसूनि जग्मुर्वाजे नाश्वाः सप्तीवन्त एवैः ।
अस्मे ऊतीरिन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥६॥
अधा ह्यग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ ।
तं ते देवासो अनु केतमायन्नधावर्धन्त प्रथमास ऊमाः ॥७॥
अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः ।
या रुचो जातवेदसो देवत्रा हव्यवाहनीः ।
इळस्पदे समिध्यसे स नो वसून्या भर ॥१॥
सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे संजानाना उपासते ॥२॥
समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् ।
समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥३॥
समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति ॥४॥
प्रब्रूहि त्वँ श्रद्दधानाय मह्यम् ।
एतद् द्वितीयेन वृणे वरेण ॥ १३ ॥
विद्धि त्वमेतं निहितं गुहायाम् ॥ १४ ॥
स्वस्ति नः पूषा विश्ववेदाः ।
ॐ शान्तिः शान्तिः शान्तिः ॥
च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी
कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं
ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह
समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥
तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव
लोकमभिजयन्ते । त एव पुनरावर्तन्ते तस्मादेत ऋषयः
प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः
तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा
च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च ग्राणं च
घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च
वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं
च पायुश्च विसर्जयितव्यं च यादौ च गन्तव्यं च मनश्च
मन्तव्यं च बुद्धिश्च बोद्धिव्यं चाहङ्कारश्चाहङ्कर्तव्यं च
चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च
विद्यारयितव्यं च ॥ ८ ॥
ध्यायीत स तेजसि सूर्ये संपन्नः । यथा पादोदरस्त्वचा
विनिर्भुच्यत एवं ह वै स पाप्मना विनिर्भुक्तः स
सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात् परात्परं
पुरुशयं पुरुषमीक्षते । तदेतौ श्लोकौ भवतः ॥ ५ ॥
सुखासीनान अभ्यगच्छद ब्रह्मर्षीन संशितव्रतान। विनयावनतॊ भूत्वा कदा चित सूतनन्दनः॥२॥
तम आश्रमम् अनुप्राप्तं नैमिषारण्यवासिनाम्। चित्राः श्रोतुं कथाः तत्र परिवव्रुस्तपस्विनः॥३॥
अभिवाद्य मुनींस्तांस्तु सर्वान् एव कृताञ्जलिः। अपृच्छत्स तपॊवृद्धिं सद्भिश्चैवाभिनन्दितः॥४॥
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु। निर्दिष्टमासनं भेजे विनयाल्लॊमहर्षणिः॥५॥
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च। अथापृच्छद् ऋषिः तत्र कश्चित् प्रस्तावयन्कथाः॥६॥
कुत आगम्यते सौते क्व चायं विहृतस्तवया। कालः कमलपत्राक्ष शंसैतत्पृच्छतॊ मम॥७॥
दिते पुत्रो महावीर्यो हिरण्यकशिपुः पुरा ।
त्रैलोक्यं वशमानिन्ये ब्राह्मणो वरदर्पितः ॥
इन्द्रत्वमकरोद्दैत्यः स चासीत्सविता स्वयम् ।
धनानामधिपः सोऽभूत्स एवासीत्स्वयं यमः ।
यज्ञभागानशेषांस्तु स स्वयं बुभुजेऽसुरः ॥
देवाः स्वर्ग परित्यज्य तत्त्रासान्मुनिसत्तम ।
विचेरूरवनौ सर्वे बिभ्राणा मानुषीं तनुम् ॥
जित्वा त्रिभुवनं सर्वं त्रैलोक्यैश्वर्यदर्पितः ।
पानासक्तं महात्मानं हिरण्यकशिपुं तदा ।
अवादयन् जगुश्चान्ये जयशब्दं तथापरे ।
दैत्यराजस्य पुरतश्चक्रुः सिद्धा मुदान्विताः ॥
पपौ पानं मुदा युक्तः प्रासादे सुमनोहरे ॥
तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः ।
एकदा तु स धर्मात्मा जगाम गुरुणा सह ।
पादप्रणामावनतं तमुत्थाप्य पिता सुतम ।
ते तथैव ततश्चक्रुः प्रह्लादाय महात्मने ।
विषदानं यथाज्ञप्तं पित्रा तस्य महात्मनः ॥
हालाहलं विषं घोरमनन्तोच्चारणेन सः ।
अभिमन्त्र्य सहान्नेन मैत्रेय बुभुजे तदा ॥
अविकारं स तद्भुक्तवा प्रह्लादः स्वस्थमानसः ।
ततः सूदा भयत्रस्ता जीर्णा दृष्ट्वा महद्विषम् ।
किं देवैः किमनन्तेन किमन्येन तवाश्रयः ।
पिता ते सर्वलोकानां त्वं तथैव भविष्यसि ॥
श्र्लाघ्यः पिता समस्तानां गुरुणां परमो गुरुः ॥
इत्युक्त्वान्तर्दधे विष्णुस्तस्य मैत्रेय पश्यतः ।
स चापि पुनरागम्य ववन्दे चरणौ पितुः ॥
तं पिता मूर्ध्न्युपाघ्राय परष्विज्य च पीड़ितम् ।
जीवसीत्याह वत्येति बाष्पार्द्रनयने द्विज ॥
गुरुपित्रोश्चकारैवं शुश्रूषां सोऽपि धर्मवित् ॥
विष्णुना सोऽपि दैत्यानां मैत्रेयाभूत्पतिस्ततः ॥
ततो राज्यद्युतिं प्राप्य कर्मशुद्धिकरीं द्विज ।
क्षीणाधिकारः स यदा पुण्यपापविवर्जितः ।
तदा स भगनद्धयानात्परं निर्वाणमाप्तवान् ॥
प्रह्लादो भगवद्भक्तो यं त्वं मामनुपृच्छसि ॥
यस्त्वेतच्चरितं तस्य प्रह्लादस्य महात्मनः ।
शृणोति तस्य पापानि सद्यो गच्छन्ति सङ्क्षयम् ॥
अहोरात्रकृतं पापं प्रह्लादचरितं नरः ।
शृणवन् पठंश्च मैत्रेय व्यपोहति न संशयः ॥
द्वादश्यां वा तदाप्नोत गोप्रदानफलं द्विज ॥
प्रह्लादं सकलापत्सु यथा रक्षितवान्हरिः ।
तथा रक्षति यस्तस्य शृणोति चरितं सदा ॥
किमेकं दैवतं लोके किं वाप्येकं परायणम्।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्॥८॥
को धर्मः सर्वधर्माणां भवतः परमो मतः।
गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः।
सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः।
करसंपूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः॥
सम्यक् प्रयुक्तासु न कम्पते ज्ञः ॥ ६ ॥
सहस्रकोटि युगधारिणे ॐ नम इति।
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः।
<DOC_END>
<DOC_START>
अभिवृत्य सपत्नानभि या नो अरातयः ।
अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥२॥
अभि त्वा देवः सविताभि सोमो अवीवृतत् ।
अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥
इदं तदक्रि देवा असपत्नः किलाभुवम् ॥४॥
यथाहमेषां भूतानां विराजानि जनस्य च ॥५॥
ज्येष्ठेभिर्यो भानुभिरृषूणां पर्येति परिवीतो विभावा ॥१॥
आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्तिः ॥२॥
ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसो व्युष्टौ ।
आ यस्मिन्मना हवींष्यग्नावरिष्टरथ स्कभ्नाति शूषैः ॥३॥
शूषेभिर्वृधो जुषाणो अर्कैर्देवाँ अच्छा रघुपत्वा जिगाति ।
मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान् ॥४॥
तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिरा कृणुध्वम् ।
आ यं विप्रासो मतिभिर्गृणन्ति जातवेदसं जुह्वं सहानाम् ॥५॥
सं यस्मिन्विश्वा वसूनि जग्मुर्वाजे नाश्वाः सप्तीवन्त एवैः ।
अस्मे ऊतीरिन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥६॥
अधा ह्यग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ ।
तं ते देवासो अनु केतमायन्नधावर्धन्त प्रथमास ऊमाः ॥७॥
अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः ।
या रुचो जातवेदसो देवत्रा हव्यवाहनीः ।
इळस्पदे समिध्यसे स नो वसून्या भर ॥१॥
सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे संजानाना उपासते ॥२॥
समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् ।
समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥३॥
समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति ॥४॥
प्रब्रूहि त्वँ श्रद्दधानाय मह्यम् ।
एतद् द्वितीयेन वृणे वरेण ॥ १३ ॥
विद्धि त्वमेतं निहितं गुहायाम् ॥ १४ ॥
स्वस्ति नः पूषा विश्ववेदाः ।
ॐ शान्तिः शान्तिः शान्तिः ॥
च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी
कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं
ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह
समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥
तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव
लोकमभिजयन्ते । त एव पुनरावर्तन्ते तस्मादेत ऋषयः
प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः
तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा
च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च ग्राणं च
घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च
वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं
च पायुश्च विसर्जयितव्यं च यादौ च गन्तव्यं च मनश्च
मन्तव्यं च बुद्धिश्च बोद्धिव्यं चाहङ्कारश्चाहङ्कर्तव्यं च
चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च
विद्यारयितव्यं च ॥ ८ ॥
ध्यायीत स तेजसि सूर्ये संपन्नः । यथा पादोदरस्त्वचा
विनिर्भुच्यत एवं ह वै स पाप्मना विनिर्भुक्तः स
सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात् परात्परं
पुरुशयं पुरुषमीक्षते । तदेतौ श्लोकौ भवतः ॥ ५ ॥
सुखासीनान अभ्यगच्छद ब्रह्मर्षीन संशितव्रतान। विनयावनतॊ भूत्वा कदा चित सूतनन्दनः॥२॥
तम आश्रमम् अनुप्राप्तं नैमिषारण्यवासिनाम्। चित्राः श्रोतुं कथाः तत्र परिवव्रुस्तपस्विनः॥३॥
अभिवाद्य मुनींस्तांस्तु सर्वान् एव कृताञ्जलिः। अपृच्छत्स तपॊवृद्धिं सद्भिश्चैवाभिनन्दितः॥४॥
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु। निर्दिष्टमासनं भेजे विनयाल्लॊमहर्षणिः॥५॥
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च। अथापृच्छद् ऋषिः तत्र कश्चित् प्रस्तावयन्कथाः॥६॥
कुत आगम्यते सौते क्व चायं विहृतस्तवया। कालः कमलपत्राक्ष शंसैतत्पृच्छतॊ मम॥७॥
दिते पुत्रो महावीर्यो हिरण्यकशिपुः पुरा ।
त्रैलोक्यं वशमानिन्ये ब्राह्मणो वरदर्पितः ॥
इन्द्रत्वमकरोद्दैत्यः स चासीत्सविता स्वयम् ।
धनानामधिपः सोऽभूत्स एवासीत्स्वयं यमः ।
यज्ञभागानशेषांस्तु स स्वयं बुभुजेऽसुरः ॥
देवाः स्वर्ग परित्यज्य तत्त्रासान्मुनिसत्तम ।
विचेरूरवनौ सर्वे बिभ्राणा मानुषीं तनुम् ॥
जित्वा त्रिभुवनं सर्वं त्रैलोक्यैश्वर्यदर्पितः ।
पानासक्तं महात्मानं हिरण्यकशिपुं तदा ।
अवादयन् जगुश्चान्ये जयशब्दं तथापरे ।
दैत्यराजस्य पुरतश्चक्रुः सिद्धा मुदान्विताः ॥
पपौ पानं मुदा युक्तः प्रासादे सुमनोहरे ॥
तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः ।
एकदा तु स धर्मात्मा जगाम गुरुणा सह ।
पादप्रणामावनतं तमुत्थाप्य पिता सुतम ।
ते तथैव ततश्चक्रुः प्रह्लादाय महात्मने ।
विषदानं यथाज्ञप्तं पित्रा तस्य महात्मनः ॥
हालाहलं विषं घोरमनन्तोच्चारणेन सः ।
अभिमन्त्र्य सहान्नेन मैत्रेय बुभुजे तदा ॥
अविकारं स तद्भुक्तवा प्रह्लादः स्वस्थमानसः ।
ततः सूदा भयत्रस्ता जीर्णा दृष्ट्वा महद्विषम् ।
किं देवैः किमनन्तेन किमन्येन तवाश्रयः ।
पिता ते सर्वलोकानां त्वं तथैव भविष्यसि ॥
श्र्लाघ्यः पिता समस्तानां गुरुणां परमो गुरुः ॥
इत्युक्त्वान्तर्दधे विष्णुस्तस्य मैत्रेय पश्यतः ।
स चापि पुनरागम्य ववन्दे चरणौ पितुः ॥
तं पिता मूर्ध्न्युपाघ्राय परष्विज्य च पीड़ितम् ।
जीवसीत्याह वत्येति बाष्पार्द्रनयने द्विज ॥
गुरुपित्रोश्चकारैवं शुश्रूषां सोऽपि धर्मवित् ॥
विष्णुना सोऽपि दैत्यानां मैत्रेयाभूत्पतिस्ततः ॥
ततो राज्यद्युतिं प्राप्य कर्मशुद्धिकरीं द्विज ।
क्षीणाधिकारः स यदा पुण्यपापविवर्जितः ।
तदा स भगनद्धयानात्परं निर्वाणमाप्तवान् ॥
प्रह्लादो भगवद्भक्तो यं त्वं मामनुपृच्छसि ॥
यस्त्वेतच्चरितं तस्य प्रह्लादस्य महात्मनः ।
शृणोति तस्य पापानि सद्यो गच्छन्ति सङ्क्षयम् ॥
अहोरात्रकृतं पापं प्रह्लादचरितं नरः ।
शृणवन् पठंश्च मैत्रेय व्यपोहति न संशयः ॥
द्वादश्यां वा तदाप्नोत गोप्रदानफलं द्विज ॥
प्रह्लादं सकलापत्सु यथा रक्षितवान्हरिः ।
तथा रक्षति यस्तस्य शृणोति चरितं सदा ॥
किमेकं दैवतं लोके किं वाप्येकं परायणम्।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्॥८॥
को धर्मः सर्वधर्माणां भवतः परमो मतः।
गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः।
सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः।
करसंपूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः॥
सम्यक् प्रयुक्तासु न कम्पते ज्ञः ॥ ६ ॥
सहस्रकोटि युगधारिणे ॐ नम इति।
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः।
<DOC_END>
<DOC_START>
| text तत् स्पष्टीकरणपृष्ठ समान शीर्षकेन सह सहगत लेखा संग्रहित करोति।
<DOC_END>
<DOC_START>
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यत् श्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे
ते सुकृतेऽनु भूत्वा इमं लोकं हीनतरं वा विशन्ति ॥ मुण्डकोपनिषत् १-२-१०
इष्टापूर्तमेव वरिष्ठं मन्यमानाः प्रमूढा जनाः आत्मज्ञानाख्यम् अन्यत् श्रेयः न जानन्ति ।
एते नाकस्य पृष्ठे सुकृतफलानि अनुभूय अनन्तरम् इमं भूलोकम् आगच्छन्ति, अथवा
इतोऽपि हीनतरं लोकं सर्पादितिर्यग्योनिम् प्रविशन्ति ॥
अयं मन्त्रः केवलकर्ममार्गं धैर्येण निन्दति । ‘न हि निन्दान्यायेन’ अस्य मन्त्रस्य तात्पर्यं
ग्राह्यम् । न हि कर्ममार्गं निन्दितुमयं मन्त्रः आगतः किन्तु मोक्षसाधनभूतं ज्ञानमार्गं स्तोतुम् ॥
अग्निहोत्रादीनां श्रौतानां कर्मणां इष्टम् इति नाम, वापीकूपतटाकादीनां स्मार्तानां कर्मणां पूर्तम्
इति च नाम भवति । केवलम् इष्टापूर्तनिष्ठानां कर्मिणां स्वर्गलोकप्राप्तिः फलं भवति । तत्र
स्वर्ग्यभोगान् अनुभूय ततो अवरोहन्ति । अनन्तरं मानवयोनौ वा श्वादितिर्यग्योनौ वा जायन्ते ।
सर्वथा तेषां पुनर्जन्मभयम् अस्त्येव ॥
<DOC_END>
<DOC_START>
इह चेदवेदीदथ सत्यमस्ति, न चेदिहावेदीत् महती विनष्टिः । केनोपनिषत् २-५
अस्मिन्नेव जन्मनि आत्मानं जानाति चेत् तदा साधकस्य सत्यवस्तुनः प्राप्तिर्भवेत्, न जानाति
चेत् तदा महती हानिः ।
इदं मानवजन्मैव अत्यन्तदुर्लभं तथा अत्यन्तश्रेष्ठं पूर्वजन्मसु कृतानां पुण्यकर्मणां फलेत्वेन
अद्य अस्माकम् ईदृशम् उत्तमोत्तमं मानवजन्म प्राप्तमस्ति । ईदृशॆ पवित्रे मानवजन्मनि उत्तमं
श्रेष्ठमेव फलं प्राप्तव्यं खलु नौव्यापारं चिकीर्षुः चणकव्यापारं कर्तुं नेच्छति हि ?
भवतु, तर्हि, अस्मिन् मानवजन्मनि बुद्धिमता पुरुषेण किं वा सम्पादनीयम् आत्मज्ञानम् । आत्मैव
गुरुतरं सारतमं च तत्त्वम् आत्मैव हि समस्तस्यापि जगतः आधारभूतं मूलं वस्तु । मानवस्यैव ईदृशम्
आत्मानं विज्ञातुं सुवर्णावकाशः । तस्मात् आत्मज्ञानं सम्पादनीयमेव । तदैव मानवजन्मप्राप्तेः सार्थक्यम् ।
प्रत्यगात्मनि अविदिते तु महती हानिरेव स्यात् ॥
<DOC_END>
<DOC_START>
इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः । काठकोपनिषत् २-३-४
अस्य शरीरस्य पतनात् पूर्वम् आत्मानं जानाति चेत् स एव कृतकृत्यः ।
आत्मज्ञानप्राप्त्यर्थमेव इदं मानवजन्म अस्माकं प्राप्तमस्ति । उपाधिरहितस्वरूप एव
हि आत्मा नाम । अयमेव आत्मा ब्रह्म इति श्रुतयः प्रतिपादयन्ति । आत्मनि ब्रह्मत्वेन
अवगते तद् आत्मज्ञानं भवति, आत्मनि देहत्वेन विज्ञाते तद् भ्रान्तिज्ञानं भवति । भ्रान्तिज्ञानमेव
अध्यासः । अध्यासादेव जन्ममरणानि, अनर्थाः, दुःखपरम्पराश्च भवन्ति ॥
इदं शरीरम् अनित्यं क्षणिकं च । कदा कुत्र कस्मै किं भवति इति वा, कस्मिन्क्षणॆ अयं
देहः पतेद् इति वा न कोऽपि जानाति । न ज्ञायते, न च ज्ञातव्यम् । बुद्धिमद्भिः मानवैः
अवश्यं कर्तव्यं नाम 'आत्मनः विज्ञानम्' । आत्मज्ञानं यद्यपि कष्टमिव दृश्यते, तथापि नैव
कष्टं, किं तु सुसुखमेव । दुर्लभमपि आत्मज्ञानं विवेकिना सम्पादनीयमेव । तदैव मानवजन्मनः
<DOC_END>
<DOC_START>
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् । ईशावास्योपनिषत् १
इदं सर्वमपि जगत् परमात्मनैव व्याप्तमस्ति इति द्रष्टव्यम् ।
सर्वेषामपि शास्त्राणां सारभूताः वेदाः, ज्ञाननिधयो वेदाः । जगति विद्यमानानां सकलधर्मग्रन्थानामपि
आकरभूता हि वेदाः वेदानां सारा वेदान्ताः, वेदानां तात्पर्यमेव वेदान्ताः वेदानां हृदयमेव हि वेदान्ताः ।
वेदानां परं लक्ष्यमेव वेदान्ताः । वेदान्तानामेव हि नामान्तरम् ‘उपनिषदः’ इति ॥
प्रमाणत्वेन स्वीकृताः प्रसिद्धाः उपनिषदः चतुर्दश । तासां मध्ये प्राथम्येन प्रसिद्धा हि इयम् ‘ईशावास्योपनिषत्’ ।
अस्या उपनिषदः आदिमो मन्त्रोऽयम् । सकलवेदोपनिषत्पुराणेतिहासानां सारभूतम् उपदेशम् अयं मन्त्रः उपदिशति ।
स च सन्देशः, सर्वमिदं जगत् परमेव ब्रह्म इति । एक एव महाकाशः यथा घटघटिकाद्युपाधिभेदेन भिन्न इव दृश्यते,
एवमेव एकमेव परं ब्रह्म नानोपाधिसम्बन्धात् अनेकमिव अवभासते । परमार्थतः सर्वमिदं विश्वं परं ब्रह्मैव ॥
<DOC_END>
<DOC_START>
* अयः स्वभावादचलं बलाच्चलत्यचेतनं चुम्बकसंनिधाविव ।
:तनोति विश्वेक्षितुरीक्षितेरिता जगन्ति मायेश्वरतेयमीशितुः ॥
* कुतस्तस्य विजयादन्यद् यस्य भगवान् पुराणपुरुषो नारयणः स्वयं मङ्गलान्याशास्ते ।
* को हि नाम भगवता सन्दिष्टे विकल्पयति ।
* हरेः स्वतन्त्रस्य कृपापि तद्वद्धत्ते न सा जातिकुलाद्यपेक्षाम् ।
<DOC_END>
<DOC_START>
==उत्क्रामातः पुरुष माव पत्थाः ॥ अथर्ववेदः ८-१-४
हे जीवात्मन् उत्थाय अग्रे सर्यताम्, अधः न पत्यताम् ।
:रूढौ पुरुषः नाम पुरुषमात्रम् । किन्तु वैदिकपृष्ठभूमिकायां पुरं (शरीरं) यः आश्रितवान् सः जीवात्मा एव 'पुरुषः' । अयं न पुमान् न वा महिला । स्वेन आश्रितस्य शरीरस्य रचनानुगुणं सः पुमान् महिला इति व्यवहृतः भवति । अयम् आत्मा स्वस्य वास्तवस्थितिः का इति ज्ञात्वा उन्नतिं साधयेत्, पतनं न प्राप्नुयात् । आत्मबलस्य वर्धनमेव उन्नतिः, आत्मबलस्य नाशः एव अवनतिः । असत्यकथने भयं विद्यते, वास्तवस्य सम्मुखीकरणे अधैर्यं विद्यते । सत्यकथने धैर्यं विद्यते, कस्यापि परिणामस्य सम्मुखीकरणविश्वासः विद्यते । अनृतं प्रति पतनम् अवनतिः चेत्, सत्यस्य मार्गे गमनम् उन्नतिः भवति । विरोधः, अवरोधः वा यदा असहनीयः भवति तदा कोपः आयाति । यदा विरोधः सह्येत तदा तस्य निवारणोपायः अन्वेष्टुं शक्यः । कोपः आत्मबलं नाशयति । तितिक्षा उन्नतिं सूचयति ।
<DOC_END>
<DOC_START>
उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत । काठकोपनिषत् १-३-१४
हे विवेकिनो मुमुक्षवः, यूयम् उत्तिष्ठत, जाग्रत, वरान् गुरून् प्राप्नुत, तेभ्यः आत्मानं विजानीत ।
अस्मिन् मन्त्रे ब्रह्मविद्याचार्यः ब्रह्मनिष्ठश्च मृत्युदेवः सर्वेभ्यः जिज्ञासुमुमुक्षुभ्यः ज्ञानप्राप्त्यै चतुरः
सन्देशान् उपदिशति । ते च ।
उत्तिष्ठत –आत्मज्ञानं प्राप्तुं संकल्पं कुरुत । अनादिभूतायाम् अविद्यानिद्रायामेव मा मग्ना भवत ।
:नित्यशुद्धम् आत्मानम् अवगन्तुं प्रयत्नं कुरुत ॥
जाग्रत – सर्वानर्थबीजभूतायाः अविद्यानिद्रायाः ऊर्ध्वम् आगच्छत । अज्ञानान्धकारासुरं संहरत ।
वरान् प्राप्य – ब्रह्मनिष्ठान् सम्प्रदायविदः सद्गुरून् उपगम्य, सद्गुरुसेवां भक्त्या कुर्वन्तः तेभ्यः
निबोधत – सद्गुरुभ्यः आत्मस्वरूपम् विज्ञाय मुक्ता भवत ।
<DOC_END>
<DOC_START>
उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते ॥ प्रश्नोपनिषत् ३-१२
प्राणस्य उत्पत्तिः, आगमनम्, अस्तित्वम्, विभुत्वम्, पञ्चप्रकारेण अध्यात्मं च – इति प्राणस्य रहस्यपञ्चकं
यः जानाति, सः अमृतत्वम् अश्नुते ॥
प्राणोपासनेन सापेक्षिकम् अमृतत्वं प्राप्यते । प्राणोपासनस्य तु एतानि पञ्च रहस्यानि भवन्ति । तानि च –
१. आत्मन एव प्राणो जायते । आत्मा एव प्राणस्य मूलकारणम् आत्मन एव जनित्वा आत्मन्येव स्थित्वा
२. मनोद्वारा प्राणः इमं देहं प्रविशति, तथा सर्वमेव शरीरं व्याप्नोति ॥
३. कार्यकरणसंघातमिमं संव्याप्य प्राणः अन्तः बहिश्च वर्तते ॥
४. सर्वाण्यपि इन्द्रियाणि संव्याप्य प्राणः अनेकैः रुपैः अवभासते । प्राणः स्वयं विभुश्च ॥
५. पायूपस्थयोः अपानः, नेत्रश्रोत्रमुखनासिकासु प्राणः, नाभिदेशे समानः सन् प्राणः इन्द्रियव्यापी इति
:जानतः प्राणोपासनेन प्राणसायुज्यमेव फलं लभ्यते ॥
<DOC_END>
<DOC_START>
उद्गीतमेतत् परमं तु ब्रह्म तस्मिन् त्रयं सुप्रतिष्ठाऽक्षरं च । श्वेताश्वतरोपनिषत् १-७
इदम् उद्गीतं परं ब्रह्मेति कथ्यते । तस्मिन् त्रयम् अवभासते । इदमेव ब्रह्म जगतः सुप्रतिष्ठा ।
अस्य दृश्यमानस्य विश्वस्य पारमार्थिकं स्वरूपमेव ब्रह्म । नामरूपैः व्याकृतत्वेन दृश्यमानोऽयं
प्रपञ्चः परमार्थतः नामरूपरहितं ब्रह्मैव । अस्य जगतः आस्पदभूतं परमेव ब्रह्म । अस्य जगतः
मूलमेव ब्रह्म । अस्य जगतः सारभूतमेव ब्रह्म । न हि परं ब्रह्म नाम यत्रकुत्रापि विद्यमाना दूरस्था
अस्मिन्नेव ब्रह्मणि त्रयमपि भाति । त्रयं नाम – देशकालनिमित्तानि, कर्तृभोक्तृप्रमातारः, देवमानवराक्षसाः,
सत्त्वरजस्तमोगुणाः, जाग्रत्स्वप्नसुषुप्ताख्याः तिस्रोऽवस्थाः । सृष्टिस्थितिलयाः, भूतभवत्भविष्याणि,
ब्रह्मविष्णुमहेश्वराः, ऋग्वेदयजुर्वेदसामवेदाः । एवं त्रिधा विभक्तं समस्तमपि जगत् परस्मिन्नेव ब्रह्मणि
अवभासते । सर्वस्यापि जगतः आस्पदभूतं ब्रह्म ॥
<DOC_END>
<DOC_START>
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥
<DOC_END>
<DOC_START>
==उपसर्प मातरं भूमिमेताम् ॥ ऋग्वेदः १०-१८-१०
अस्याः मातृभूमेः समीपं गच्छ ।
: अस्माकं सर्वाणि चिन्तनानि, योजनाः च मातृभूमिपराः स्युः । मातृभूमिः नाम मानवैः स्वार्थ-अधिकार-अज्ञानैः सज्जीकृता सीमारेखादिभिः अभिज्ञायमाना देशरूपा राष्ट्रस्वरूपा भूमिः न अस्माकं देशे वायुमालिन्यं क्रियेत चेत् किं तस्य परिणामः जगति अन्यत्र न भवेत् अस्माकं समुद्रं मलिनं भवति चेत् किम् अत्रत्याः जलचराः एव मरणं प्राप्नुयुः भूमेः, परिसरस्य च अत्याचारः येनकेनापि यत्रकुत्रापि क्रियतां नाम, तस्य परिणामस्तु समस्तस्य जगतः उपरि भवति इत्येतत् स्पष्टमेव अवगम्यमानं सत्यम् । अतः, समग्रं भूगोलमेव सर्वेषां मातृभूमिः । वेदेषु 'राष्ट्र'शब्दस्य प्रयोगः अस्मिन्नेव अर्थे कृतः विद्यते । अस्माकं जीवनस्य सम्पदः एव इयं भूमिः, परिसरः, नदी, वनं, गिरिः, प्राणी, पक्षी, कृमिः, कीटः, खनिजानि च । एतेषां रक्षणं मानवानाम् आद्यं कर्तव्यम् । एतदनन्तरं यदि अपेक्षितं परिसराविरुद्धा उद्यमक्रान्तिः, बाह्याकाशान्वेषणम् इत्यादीनि कर्तुं शक्यन्ते । अस्माभिः आश्रयणीयां शाखामेव छित्त्वा स्वविनाशः आनीतः चेत् अन्यसम्पद्भिः किं प्रयोजनम् ?
<DOC_END>
<DOC_START>
==उपहूता इह गाव उपहूता अजावयः ॥ यजुर्वेदः ३-३०-२
गव्यूतिदूरे धेनवः सन्ति, गव्यूतिदूरे अजमेषाः सन्ति ।
:जगत् कृष्याधारितमस्ति । मूलभूतावश्यकः आहारः कृषेः फलम् । धेन्वादयः पशवः कृषेः अविभाज्यानि अङ्गानि, कृषेः अंशभागिनः । कृषेः आदौ तेषां गोभराः अपेक्षिताः, ततः तेषां शारीरकपरिश्रमः । तदनन्तरं तेषाम् अपत्येभ्यः दत्त्वा अवशिष्टं दुग्धम् । एतेषां पालनं मांसाय कदापि न । (कारणम् मानवाः स्वाभाविकतया सस्याहारिणः । मानवीये जीवने हिंसायाः अवसरः न विद्यते ।) भूमेः फलवत्ततावर्धनाय आवश्यकाः गोभरादयः गोमूत्र-गोमयरूपेण पशुपालनेन सुलभतया निश्शुल्कम् उपलभ्यन्ते । कृषेः व्ययः न्यूनः भविष्यति । स्वावलम्बनं साध्यं भवति, परिसरस्य शुद्धता रक्षिता भवति । अनेकेषु कृषिकार्येषु एतेषां प्राणिनां शारीरकश्रमस्य सहयोगः अपि प्राप्यते । तेषां रक्षणं पालनञ्च कृषकस्य कर्तव्यं भवति । एते सर्वे लाभाः परस्परं प्राप्तुं पशुमनुष्ययोः समीपवासः अपेक्षितः ।
<DOC_END>
<DOC_START>
उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके । काठकोपनिषत् १-१-१२
इह पुण्यकृत् मरणानन्तरं स्वर्गलोकं गत्वा तत्र अशनायां पिपासां च तीर्त्वा शोकरहितः
स्वर्गलोकनरकलोकयोः ‘लोकान्तरम्’ इति नाम । न कश्चिदपि पुरुषः अस्मिन् लोके
अनेन प्रत्यक्षप्रमाणेन स्वर्गनरकलोकान् द्रष्टुं समर्थो भवेत् । न च अनुमानप्रमाणेन
लोकान्तरविचारान् ज्ञातुं समर्थः । तर्हि लोकान्तरविषये अस्माकं प्रमाणं किम् शास्त्रमेव ॥
कठोपनिषदः अयं मन्त्रः स्वर्गलोकविवरणं ददाति । स्वर्गलोकस्य देवलोकः इति नामान्तरम् ।
तत्र वसतां ‘देवाः’ इति नामधेयम् । तत्रस्थानां देवानाम् अशनाया वा पिपासा वा न विद्यते ।
तत्र स्वर्गलोके रोगादयो न भवन्ति । जरा, आयासः, दारिर्द्यम्, दुःखं, भयादिकं नास्ति ।
वाहनेभ्यः अपघातो वा दुर्मरणं वा तत्र स्वर्गे न सम्भवति । सकलेन्द्रियाणां तत्र दिव्याः सुखभोगाः
समृद्धाः भवन्ति । अयं हि स्वर्गलोकस्य भोगः ॥
<DOC_END>
<DOC_START>
'प्रमादः' इत्येतस्य शब्दस्य अत्र विशेषः अर्थः विद्यते । प्रमादः नाम ब्रह्मभावात् अपसरणम् इति । अप्रमादः नाम ब्रह्मभावे स्थितिः इति । विभिन्नाः मोहाः, मिथ्याज्ञानम् इत्यादीनां मूलं ब्रह्मभावस्य विस्मरणमेव । ब्रह्मभावः जागरितः यदि भवेत् तर्हि मोहेन मृत्युना वा बाधा न भविष्यति ।
<DOC_END>
<DOC_START>
उभौ तौ न विजानीतो नायं हन्ति न हन्यते । काठकोपनिषत् १-२-१९
यौ आत्मानं कर्तृत्वेन कर्मत्वेन वा जानीतः तावुभावपि आत्मानं सम्यक् न विदतुः । यस्मात्
आत्मा न हन्ति, न च हन्यते ॥
सर्वस्या अपि क्रियायाः एकेन कर्त्रा भाव्यम् अपरेण कर्मणा च भाव्यम् । यथा, दर्शनक्रियायाः
एकः द्र्ष्टा भवेत्, तथा एकं कर्म च भवेत् । ‘रामो दशरथं पश्यति’ इत्यत्र दर्शनक्रियायाः रामः
कर्ता, दशरथः कर्म च भवति । एवमेव हननक्रियायाः एकेन कर्त्रा भाव्यम्, स एव हि ‘हन्ता’
इत्युच्यते; अन्येन च कर्मणा भाव्यम्, स एव हि ‘हन्तव्यः’ इत्युच्यते ॥
लोको हि ‘अहं हन्मि’ इति ‘अहं हन्ये’ इति च आत्मानं मन्यते । ‘सः मां हन्ति’ ‘अहं तेन
हतो भवामि’ इति सर्वोऽपि जनः जानाति । एषा हि अविद्या एव । यतो हि आत्मा हन्ता न भवति,
न च हन्तव्यो भवति । हन्ता देहः हन्तव्यश्च देह एव खलु । तस्मात् आत्मानं क्रियाकर्तृत्वेन वा
क्रियाकर्मत्वेन वा यौ जानीतः तौ उभौ अपि अज्ञौ एव ॥
<DOC_END>
<DOC_START>
ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ।
अग्निना रयिमश्नवत् पोषमेव दिवेदिवे ।
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि ।
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि ।
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् ।
स नः पितेव सूनवेऽग्ने सूपायनो भव ।
ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥१॥
तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥२॥
युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥३॥
एहि स्तोमाँ अभि स्वराभि गृणीह्या रुव ।
ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ॥४॥
उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे ।
शक्रो यथा सुतेषु णो रारणत्सख्येषु च ॥५॥
तमित्सखित्व ईमहे तं राये तं सुवीर्ये ।
स शक्र उत नः शकदिन्द्रो वसु दयमानः ॥६॥
गवामप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥७॥
नहि त्वा रोदसी उभे ऋघायमाणमिन्वतः ।
जेषः स्वर्वतीरपः सं गा अस्मभ्यं धूनुहि ॥८॥
आश्रुत्कर्ण श्रुधी हवं नू चिद्दधिष्व मे गिरः ।
इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम् ॥९॥
विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् ।
वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥१०॥
आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब ।
नव्यमायुः प्र सू तिर कृधी सहस्रसामृषिम् ॥११॥
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ।
वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥१२॥
स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश्च सम्राट् ।
सतीनसत्वा हव्यो भरेषु मरुत्वान्नो भवत्विन्द्र ऊती ॥१॥
यस्यानाप्तः सूर्यस्येव यामो भरेभरे वृत्रहा शुष्मो अस्ति ।
वृषन्तमः सखिभिः स्वेभिरेवैर्मरुत्वान्नो भवत्विन्द्र ऊती ॥२॥
दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः ।
तरद्द्वेषाः सासहिः पौंस्येभिर्मरुत्वान्नो भवत्विन्द्र ऊती ॥३॥
सो अङ्गिरोभिरङ्गिरस्तमो भूद्वृषा वृषभिः सखिभिः सखा सन् ।
ऋग्मिभिरृग्मी गातुभिर्ज्येष्ठो मरुत्वान्नो भवत्विन्द्र ऊती ॥४॥
स सूनुभिर्न रुद्रेभिरृभ्वा नृषाह्ये सासह्वाँ अमित्रान् ।
सनीळेभिः श्रवस्यानि तूर्वन्मरुत्वान्नो भवत्विन्द्र ऊती ॥५॥
स मन्युमीः समदनस्य कर्तास्माकेभिर्नृभिः सूर्यं सनत् ।
अस्मिन्नहन्सत्पतिः पुरुहूतो मरुत्वान्नो भवत्विन्द्र ऊती ॥६॥
तमूतयो रणयञ्छूरसातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् ।
स विश्वस्य करुणस्येश एको मरुत्वान्नो भवत्विन्द्र ऊती ॥७॥
तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय ।
सो अन्धे चित्तमसि ज्योतिर्विदन्मरुत्वान्नो भवत्विन्द्र ऊती ॥८॥
स सव्येन यमति व्राधतश्चित्स दक्षिणे संगृभीता कृतानि ।
स कीरिणा चित्सनिता धनानि मरुत्वान्नो भवत्विन्द्र ऊती ॥९॥
स ग्रामेभिः सनिता स रथेभिर्विदे विश्वाभिः कृष्टिभिर्न्वद्य ।
स पौंस्येभिरभिभूरशस्तीर्मरुत्वान्नो भवत्विन्द्र ऊती ॥१०॥
स जामिभिर्यत्समजाति मीळ्हेऽजामिभिर्वा पुरुहूत एवैः ।
अपां तोकस्य तनयस्य जेषे मरुत्वान्नो भवत्विन्द्र ऊती ॥११॥
स वज्रभृद्दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा ।
चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान्नो भवत्विन्द्र ऊती ॥१२॥
तस्य वज्रः क्रन्दति स्मत्स्वर्षा दिवो न त्वेषो रवथः शिमीवान् ।
तं सचन्ते सनयस्तं धनानि मरुत्वान्नो भवत्विन्द्र ऊती ॥१३॥
यस्याजस्रं शवसा मानमुक्थं परिभुजद्रोदसी विश्वतः सीम् ।
स पारिषत्क्रतुभिर्मन्दसानो मरुत्वान्नो भवत्विन्द्र ऊती ॥१४॥
न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः ।
स प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च मरुत्वान्नो भवत्विन्द्र ऊती ॥१५॥
रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा राय ऋज्राश्वस्य ।
वृषण्वन्तं बिभ्रती धूर्षु रथं मन्द्रा चिकेत नाहुषीषु विक्षु ॥१६॥
एतत्त्यत्त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः ।
ऋज्राश्वः प्रष्टिभिरम्बरीषः सहदेवो भयमानः सुराधाः ॥१७॥
दस्यूञ्छिम्यूँश्च पुरुहूत एवैर्हत्वा पृथिव्यां शर्वा नि बर्हीत् ।
सनत्क्षेत्रं सखिभिः श्वित्न्येभिः सनत्सूर्यं सनदपः सुवज्रः ॥१८॥
विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१९॥
प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना ।
अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥१॥
यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन्पिप्रुमव्रतम् ।
इन्द्रो यः शुष्णमशुषं न्यावृणङ्मरुत्वन्तं सख्याय हवामहे ॥२॥
यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः ।
यस्येन्द्रस्य सिन्धवः सश्चति व्रतं मरुत्वन्तं सख्याय हवामहे ॥३॥
यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणिकर्मणि स्थिरः ।
वीळोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥४॥
यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत् ।
इन्द्रो यो दस्यूँरधराँ अवातिरन्मरुत्वन्तं सख्याय हवामहे ॥५॥
यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः ।
इन्द्रं यं विश्वा भुवनाभि संदधुर्मरुत्वन्तं सख्याय हवामहे ॥६॥
रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः ।
इन्द्रं मनीषा अभ्यर्चति श्रुतं मरुत्वन्तं सख्याय हवामहे ॥७॥
यद्वा मरुत्वः परमे सधस्थे यद्वावमे वृजने मादयासे ।
अत आ याह्यध्वरं नो अच्छा त्वाया हविश्चकृमा सत्यराधः ॥८॥
अधा नियुत्वः सगणो मरुद्भिरस्मिन्यज्ञे बर्हिषि मादयस्व ॥९॥
मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने ।
आ त्वा सुशिप्र हरयो वहन्तूशन्हव्यानि प्रति नो जुषस्व ॥१०॥
मरुत्स्तोत्रस्य वृजनस्य गोपा वयमिन्द्रेण सनुयाम वाजम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥
इमां ते धियं प्र भरे महो महीमस्य स्तोत्रे धिषणा यत्त आनजे ।
तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु ॥१॥
अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः ।
अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कमिन्द्र चरतो वितर्तुरम् ॥२॥
तं स्मा रथं मघवन्प्राव सातये जैत्रं यं ते अनुमदाम संगमे ।
आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ्छर्म यच्छ नः ॥३॥
वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरेभरे ।
अस्मभ्यमिन्द्र वरिवः सुगं कृधि प्र शत्रूणां मघवन्वृष्ण्या रुज ॥४॥
नाना हि त्वा हवमाना जना इमे धनानां धर्तरवसा विपन्यवः ।
अस्माकं स्मा रथमा तिष्ठ सातये जैत्रं हीन्द्र निभृतं मनस्तव ॥५॥
गोजिता बाहू अमितक्रतुः सिमः कर्मन्कर्मञ्छतमूतिः खजंकरः ।
अकल्प इन्द्रः प्रतिमानमोजसाथा जना वि ह्वयन्ते सिषासवः ॥६॥
उत्ते शतान्मघवन्नुच्च भूयस उत्सहस्राद्रिरिचे कृष्टिषु श्रवः ।
अमात्रं त्वा धिषणा तित्विषे मह्यधा वृत्राणि जिघ्नसे पुरंदर ॥७॥
त्रिविष्टिधातु प्रतिमानमोजसस्तिस्रो भूमीर्नृपते त्रीणि रोचना ।
अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्र जनुषा सनादसि ॥८॥
त्वां देवेषु प्रथमं हवामहे त्वं बभूथ पृतनासु सासहिः ।
सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कृणोतु प्रसवे रथं पुरः ॥९॥
त्वं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन्महत्सु च ।
त्वामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय ॥१०॥
विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥
तत्त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम् ।
क्षमेदमन्यद्दिव्यन्यदस्य समी पृच्यते समनेव केतुः ॥१॥
स धारयत्पृथिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज ।
अहन्नहिमभिनद्रौहिणं व्यहन्व्यंसं मघवा शचीभिः ॥२॥
स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्नचरद्वि दासीः ।
विद्वान्वज्रिन्दस्यवे हेतिमस्यार्यं सहो वर्धया द्युम्नमिन्द्र ॥३॥
तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत् ।
उपप्रयन्दस्युहत्याय वज्री यद्ध सूनुः श्रवसे नाम दधे ॥४॥
तदस्येदं पश्यता भूरि पुष्टं श्रदिन्द्रस्य धत्तन वीर्याय ।
स गा अविन्दत्सो अविन्ददश्वान्स ओषधीः सो अपः स वनानि ॥५॥
भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् ।
य आदृत्या परिपन्थीव शूरोऽयज्वनो विभजन्नेति वेदः ॥६॥
तदिन्द्र प्रेव वीर्यं चकर्थ यत्ससन्तं वज्रेणाबोधयोऽहिम् ।
अनु त्वा पत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु त्वा ॥७॥
शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र यदावधीर्वि पुरः शम्बरस्य ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥८॥
विमुच्या वयोऽवसायाश्वान्दोषा वस्तोर्वहीयसः प्रपित्वे ॥१॥
ओ त्ये नर इन्द्रमूतये गुर्नू चित्तान्सद्यो अध्वनो जगम्यात् ।
देवासो मन्युं दासस्य श्चम्नन्ते न आ वक्षन्सुविताय वर्णम् ॥२॥
अव त्मना भरते केतवेदा अव त्मना भरते फेनमुदन् ।
क्षीरेण स्नातः कुयवस्य योषे हते ते स्यातां प्रवणे शिफायाः ॥३॥
युयोप नाभिरुपरस्यायोः प्र पूर्वाभिस्तिरते राष्टि शूरः ।
अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥४॥
प्रति यत्स्या नीथादर्शि दस्योरोको नाच्छा सदनं जानती गात् ।
अध स्मा नो मघवञ्चर्कृतादिन्मा नो मघेव निष्षपी परा दाः ॥५॥
स त्वं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे ।
मान्तरां भुजमा रीरिषो नः श्रद्धितं ते महत इन्द्रियाय ॥६॥
अधा मन्ये श्रत्ते अस्मा अधायि वृषा चोदस्व महते धनाय ।
मा नो अकृते पुरुहूत योनाविन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः ॥७॥
आण्डा मा नो मघवञ्छक्र निर्भेन्मा नः पात्रा भेत्सहजानुषाणि ॥८॥
अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय ।
उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥९॥
चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि ।
न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥१॥
अर्थमिद्वा उ अर्थिन आ जाया युवते पतिम् ।
तुञ्जाते वृष्ण्यं पयः परिदाय रसं दुहे वित्तं मे अस्य रोदसी ॥२॥
मो षु देवा अदः स्वरव पादि दिवस्परि ।
मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तं मे अस्य रोदसी ॥३॥
यज्ञं पृच्छाम्यवमं स तद्दूतो वि वोचति ।
क्व ऋतं पूर्व्यं गतं कस्तद्बिभर्ति नूतनो वित्तं मे अस्य रोदसी ॥४॥
अमी ये देवा स्थन त्रिष्वा रोचने दिवः ।
कद्व ऋतं कदनृतं क्व प्रत्ना व आहुतिर्वित्तं मे अस्य रोदसी ॥५॥
कद्व ऋतस्य धर्णसि कद्वरुणस्य चक्षणम् ।
कदर्यम्णो महस्पथाति क्रामेम दूढ्यो वित्तं मे अस्य रोदसी ॥६॥
अहं सो अस्मि यः पुरा सुते वदामि कानि चित् ।
तं मा व्यन्त्याध्यो वृको न तृष्णजं मृगं वित्तं मे अस्य रोदसी ॥७॥
सं मा तपन्त्यभितः सपत्नीरिव पर्शवः ।
मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी ॥८॥
अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता ।
त्रितस्तद्वेदाप्त्यः स जामित्वाय रेभति वित्तं मे अस्य रोदसी ॥९॥
अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः ।
देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर्वित्तं मे अस्य रोदसी ॥१०॥
सुपर्णा एत आसते मध्य आरोधने दिवः ।
ते सेधन्ति पथो वृकं तरन्तं यह्वतीरपो वित्तं मे अस्य रोदसी ॥११॥
नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम् ।
ऋतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तं मे अस्य रोदसी ॥१२॥
अग्ने तव त्यदुक्थ्यं देवेष्वस्त्याप्यम् ।
स नः सत्तो मनुष्वदा देवान्यक्षि विदुष्टरो वित्तं मे अस्य रोदसी ॥१३॥
सत्तो होता मनुष्वदा देवाँ अच्छा विदुष्टरः ।
अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वित्तं मे अस्य रोदसी ॥१४॥
ब्रह्मा कृणोति वरुणो गातुविदं तमीमहे ।
व्यूर्णोति हृदा मतिं नव्यो जायतामृतं वित्तं मे अस्य रोदसी ॥१५॥
असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः ।
न स देवा अतिक्रमे तं मर्तासो न पश्यथ वित्तं मे अस्य रोदसी ॥१६॥
त्रितः कूपेऽवहितो देवान्हवत ऊतये ।
तच्छुश्राव बृहस्पतिः कृण्वन्नंहूरणादुरु वित्तं मे अस्य रोदसी ॥१७॥
अरुणो मा सकृद्वृकः पथा यन्तं ददर्श हि ।
उज्जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तं मे अस्य रोदसी ॥१८॥
एनाङ्गूषेण वयमिन्द्रवन्तोऽभि ष्याम वृजने सर्ववीराः ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१९॥
इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिं हवामहे ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥१॥
त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥२॥
अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥३॥
नराशंसं वाजिनं वाजयन्निह क्षयद्वीरं पूषणं सुम्नैरीमहे ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥४॥
बृहस्पते सदमिन्नः सुगं कृधि शं योर्यत्ते मनुर्हितं तदीमहे ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥५॥
इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिरह्वदूतये ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥६॥
देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥७॥
यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृळयन्तः ।
आ वोऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या वरिवोवित्तरासत् ॥१॥
उप नो देवा अवसा गमन्त्वङ्गिरसां सामभि स्तूयमानाः ।
इन्द्र इन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदितिः शर्म यंसत् ॥२॥
तन्न इन्द्रस्तद्वरुणस्तदग्निस्तदर्यमा तत्सविता चनो धात् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥३॥
य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे ।
तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ॥१॥
यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम् ।
तावाँ अयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम् ॥२॥
चक्राथे हि सध्र्यङ्नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः ।
ताविन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् ॥३॥
समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा ।
तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम् ॥४॥
यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वृष्ण्यानि ।
या वां प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ॥५॥
यदब्रवं प्रथमं वां वृणानोऽयं सोमो असुरैर्नो विहव्यः ।
तां सत्यां श्रद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य ॥६॥
यदिन्द्राग्नी मदथः स्वे दुरोणे यद्ब्रह्मणि राजनि वा यजत्रा ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥७॥
यदिन्द्राग्नी यदुषु तुर्वशेषु यद्द्रुह्युष्वनुषु पूरुषु स्थः ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥८॥
यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥९॥
यदिन्द्राग्नी परमस्यां पृथिव्यां मध्यमस्यामवमस्यामुत स्थः ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥१०॥
यदिन्द्राग्नी दिवि ष्ठो यत्पृथिव्यां यत्पर्वतेष्वोषधीष्वप्सु ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥११॥
यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥१२॥
एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१३॥
वि ह्यख्यं मनसा वस्य इच्छन्निन्द्राग्नी ज्ञास उत वा सजातान् ।
नान्या युवत्प्रमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम् ॥१॥
अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा स्यालात् ।
अथा सोमस्य प्रयती युवभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यम् ॥२॥
मा च्छेद्म रश्मीँरिति नाधमानाः पितॄणां शक्तीरनुयच्छमानाः ।
इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्यद्री धिषणाया उपस्थे ॥३॥
युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति ।
तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पृङ्क्तमप्सु ॥४॥
युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये ।
तावासद्या बर्हिषि यज्ञे अस्मिन्प्र चर्षणी मादयेथां सुतस्य ॥५॥
प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च ।
प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या ॥६॥
आ भरतं शिक्षतं वज्रबाहू अस्माँ इन्द्राग्नी अवतं शचीभिः ।
इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन् ॥७॥
पुरंदरा शिक्षतं वज्रहस्तास्माँ इन्द्राग्नी अवतं भरेषु ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥८॥
इन्द्रं विश्वा अवीवृधन्समुद्रव्यचसं गिरः ।
रथीतमं रथीनां वाजानां सत्पतिं पतिम् ॥१॥
त्वामभि प्र णोनुमो जेतारमपराजितम् ॥२॥
पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः ।
यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम् ॥३॥
पुरां भिन्दुर्युवा कविरमितौजा अजायत ।
इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥४॥
त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् ।
त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥५॥
तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् ।
उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः ॥६॥
मायाभिरिन्द्र मायिनं त्वं शुष्णमवातिरः ।
विदुष्टे तस्य मेधिरास्तेषां श्रवांस्युत्तिर ॥७॥
सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥८॥
ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते ।
अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य समु तृप्णुत ऋभवः ॥१॥
आभोगयं प्र यदिच्छन्त ऐतनापाकाः प्राञ्चो मम के चिदापयः ।
सौधन्वनासश्चरितस्य भूमनागच्छत सवितुर्दाशुषो गृहम् ॥२॥
तत्सविता वोऽमृतत्वमासुवदगोह्यं यच्छ्रवयन्त ऐतन ।
त्यं चिच्चमसमसुरस्य भक्षणमेकं सन्तमकृणुता चतुर्वयम् ॥३॥
विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वमानशुः ।
सौधन्वना ऋभवः सूरचक्षसः संवत्सरे समपृच्यन्त धीतिभिः ॥४॥
क्षेत्रमिव वि ममुस्तेजनेनँ एकं पात्रमृभवो जेहमानम् ।
उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इच्छमानाः ॥५॥
आ मनीषामन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना ।
तरणित्वा ये पितुरस्य सश्चिर ऋभवो वाजमरुहन्दिवो रजः ॥६॥
ऋभुर्न इन्द्रः शवसा नवीयानृभुर्वाजेभिर्वसुभिर्वसुर्ददिः ।
युष्माकं देवा अवसाहनि प्रियेऽभि तिष्ठेम पृत्सुतीरसुन्वताम् ॥७॥
निश्चर्मण ऋभवो गामपिंशत सं वत्सेनासृजता मातरं पुनः ।
सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन ॥८॥
वाजेभिर्नो वाजसातावविड्ढ्यृभुमाँ इन्द्र चित्रमा दर्षि राधः ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥९॥
तक्षन्रथं सुवृतं विद्मनापसस्तक्षन्हरी इन्द्रवाहा वृषण्वसू ।
तक्षन्पितृभ्यामृभवो युवद्वयस्तक्षन्वत्साय मातरं सचाभुवम् ॥१॥
आ नो यज्ञाय तक्षत ऋभुमद्वयः क्रत्वे दक्षाय सुप्रजावतीमिषम् ।
यथा क्षयाम सर्ववीरया विशा तन्नः शर्धाय धासथा स्विन्द्रियम् ॥२॥
आ तक्षत सातिमस्मभ्यमृभवः सातिं रथाय सातिमर्वते नरः ।
सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पृतनासु सक्षणिम् ॥३॥
ऋभुक्षणमिन्द्रमा हुव ऊतय ऋभून्वाजान्मरुतः सोमपीतये ।
उभा मित्रावरुणा नूनमश्विना ते नो हिन्वन्तु सातये धिये जिषे ॥४॥
ऋभुर्भराय सं शिशातु सातिं समर्यजिद्वाजो अस्माँ अविष्टु ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥५॥
ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये ।
याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥१॥
युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे ।
याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु ऊतिभिरश्विना गतम् ॥२॥
युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना ।
याभिर्धेनुमस्वं पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतम् ॥३॥
याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति ।
याभिस्त्रिमन्तुरभवद्विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतम् ॥४॥
याभी रेभं निवृतं सितमद्भ्य उद्वन्दनमैरयतं स्वर्दृशे ।
याभिः कण्वं प्र सिषासन्तमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥५॥
याभिरन्तकं जसमानमारणे भुज्युं याभिरव्यथिभिर्जिजिन्वथुः ।
याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥६॥
याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये ।
याभिः पृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥७॥
याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथः ।
याभिर्वर्तिकां ग्रसिताममुञ्चतं ताभिरू षु ऊतिभिरश्विना गतम् ॥८॥
याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम् ।
याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥९॥
याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम् ।
याभिर्वशमश्व्यं प्रेणिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१०॥
याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् ।
कक्षीवन्तं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥११॥
याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे ।
याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतम् ॥१२॥
याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतम् ।
याभिर्विप्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१३॥
याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् ।
याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१४॥
याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः ।
याभिर्व्यश्वमुत पृथिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१५॥
याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः ।
याभिः शारीराजतं स्यूमरश्मये ताभिरू षु ऊतिभिरश्विना गतम् ॥१६॥
याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना ।
याभिः शर्यातमवथो महाधने ताभिरू षु ऊतिभिरश्विना गतम् ॥१७॥
याभिरङ्गिरो मनसा निरण्यथोऽग्रं गच्छथो विवरे गोअर्णसः ।
याभिर्मनुं शूरमिषा समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१८॥
याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षतम् ।
याभिः सुदास ऊहथुः सुदेव्यं ताभिरू षु ऊतिभिरश्विना गतम् ॥१९॥
याभिः शंताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम् ।
ओम्यावतीं सुभरामृतस्तुभं ताभिरू षु ऊतिभिरश्विना गतम् ॥२०॥
याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम् ।
मधु प्रियं भरथो यत्सरड्भ्यस्ताभिरू षु ऊतिभिरश्विना गतम् ॥२१॥
याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः ।
याभी रथाँ अवथो याभिरर्वतस्ताभिरू षु ऊतिभिरश्विना गतम् ॥२२॥
याभिः कुत्समार्जुनेयं शतक्रतू प्र तुर्वीतिं प्र च दभीतिमावतम् ।
याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥२३॥
अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम् ।
अद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥२४॥
द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥२५॥
इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।
यथा प्रसूता सवितुः सवायँ एवा रात्र्युषसे योनिमारैक् ॥१॥
रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः ।
समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥२॥
समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे ।
न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥३॥
भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरो न आवः ।
प्रार्प्या जगद्व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा ॥४॥
जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ त्वम् ।
दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा अजीगर्भुवनानि विश्वा ॥५॥
क्षत्राय त्वं श्रवसे त्वं महीया इष्टये त्वमर्थमिव त्वमित्यै ।
विसदृशा जीविताभिप्रचक्ष उषा अजीगर्भुवनानि विश्वा ॥६॥
एषा दिवो दुहिता प्रत्यदर्शि व्युच्छन्ती युवतिः शुक्रवासाः ।
विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्युच्छ ॥७॥
परायतीनामन्वेति पाथ आयतीनां प्रथमा शश्वतीनाम् ।
व्युच्छन्ती जीवमुदीरयन्त्युषा मृतं कं चन बोधयन्ती ॥८॥
उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य ।
यन्मानुषान्यक्ष्यमाणाँ अजीगस्तद्देवेषु चकृषे भद्रमप्नः ॥९॥
कियात्या यत्समया भवाति या व्यूषुर्याश्च नूनं व्युच्छान् ।
अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषमन्याभिरेति ॥१०॥
ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्तीमुषसं मर्त्यासः ।
अस्माभिरू नु प्रतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान् ॥११॥
यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती ।
सुमङ्गलीर्बिभ्रती देववीतिमिहाद्योषः श्रेष्ठतमा व्युच्छ ॥१२॥
शश्वत्पुरोषा व्युवास देव्यथो अद्येदं व्यावो मघोनी ।
अथो व्युच्छादुत्तराँ अनु द्यूनजरामृता चरति स्वधाभिः ॥१३॥
व्यञ्जिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः ।
प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन ॥१४॥
आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना ।
ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वैत् ॥१५॥
उदीर्ध्वं जीवो असुर्न आगादप प्रागात्तम आ ज्योतिरेति ।
आरैक्पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः ॥१६॥
स्यूमना वाच उदियर्ति वह्नि स्तवानो रेभ उषसो विभातीः ।
अद्या तदुच्छ गृणते मघोन्यस्मे आयुर्नि दिदीहि प्रजावत् ॥१७॥
या गोमतीरुषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय ।
वायोरिव सूनृतानामुदर्के ता अश्वदा अश्नवत्सोमसुत्वा ॥१८॥
माता देवानामदितेरनीकं यज्ञस्य केतुर्बृहती वि भाहि ।
प्रशस्तिकृद्ब्रह्मणे नो व्युच्छा नो जने जनय विश्ववारे ॥१९॥
यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥२०॥
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
यथा शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥१॥
यच्छं च योश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु ॥२॥
अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः ।
सुम्नायन्निद्विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः ॥३॥
त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे नि ह्वयामहे ।
आरे अस्मद्दैव्यं हेळो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ॥४॥
दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे ।
हस्ते बिभ्रद्भेषजा वार्याणि शर्म वर्म च्छर्दिरस्मभ्यं यंसत् ॥५॥
इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् ।
रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥६॥
मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥७॥
वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥८॥
उप ते स्तोमान्पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे ।
भद्रा हि ते सुमतिर्मृळयत्तमाथा वयमव इत्ते वृणीमहे ॥९॥
आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु ।
मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः ॥१०॥
अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥१॥
सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् ।
यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥२॥
भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥३॥
तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार ।
यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥४॥
तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।
अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति ॥५॥
अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥६॥
नासत्याभ्यां बर्हिरिव प्र वृञ्जे स्तोमाँ इयर्म्यभ्रियेव वातः ।
वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना ।
तद्रासभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय ॥२॥
तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवाँ अवाहाः ।
तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतंगैः ।
समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥४॥
यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम् ॥५॥
यमश्विना ददथुः श्वेतमश्वमघाश्वाय शश्वदित्स्वस्ति ।
तद्वां दात्रं महि कीर्तेन्यं भूत्पैद्वो वाजी सदमिद्धव्यो अर्यः ॥६॥
युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतं पुरंधिम् ।
कारोतराच्छफादश्वस्य वृष्णः शतं कुम्भाँ असिञ्चतं सुरायाः ॥७॥
हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम् ।
ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति ॥८॥
क्षरन्नापो न पायनाय राये सहस्राय तृष्यते गोतमस्य ॥९॥
जुजुरुषो नासत्योत वव्रिं प्रामुञ्चतं द्रापिमिव च्यवानात् ।
तद्वां नरा शंस्यं राध्यं चाभिष्टिमन्नासत्या वरूथम् ।
तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् ।
दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच ॥१२॥
अजोहवीन्नासत्या करा वां महे यामन्पुरुभुजा पुरंधिः ।
श्रुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम् ॥१३॥
आस्नो वृकस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम् ।
उतो कविं पुरुभुजा युवं ह कृपमाणमकृणुतं विचक्षे ॥१४॥
चरित्रं हि वेरिवाच्छेदि पर्णमाजा खेलस्य परितक्म्यायाम् ।
सद्यो जङ्घामायसीं विश्पलायै धने हिते सर्तवे प्रत्यधत्तम् ॥१५॥
शतं मेषान्वृक्ये चक्षदानमृज्राश्वं तं पितान्धं चकार ।
तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन् ॥१६॥
आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वता जयन्ती ।
विश्वे देवा अन्वमन्यन्त हृद्भिः समु श्रिया नासत्या सचेथे ॥१७॥
यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयन्ता ।
रेवदुवाह सचनो रथो वां वृषभश्च शिंशुमारश्च युक्ता ॥१८॥
रयिं सुक्षत्रं स्वपत्यमायुः सुवीर्यं नासत्या वहन्ता ।
आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम् ॥१९॥
परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः ।
विभिन्दुना नासत्या रथेन वि पर्वताँ अजरयू अयातम् ॥२०॥
एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा ।
निरहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणावरातीः ॥२१॥
शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः ।
शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम् ॥२२॥
अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः ।
पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय ॥२३॥
दश रात्रीरशिवेना नव द्यूनवनद्धं श्नथितमप्स्वन्तः ।
विप्रुतं रेभमुदनि प्रवृक्तमुन्निन्यथुः सोममिव स्रुवेण ॥२४॥
प्र वां दंसांस्यश्विनाववोचमस्य पतिः स्यां सुगवः सुवीरः ।
मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् ।
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥१॥
यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति ।
येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम् ॥२॥
ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन ।
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥३॥
अश्वं न गूळ्हमश्विना दुरेवैरृषिं नरा वृषणा रेभमप्सु ।
सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि ॥४॥
सुषुप्वांसं न निरृतेरुपस्थे सूर्यं न दस्रा तमसि क्षियन्तम् ।
शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥५॥
तद्वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन् ।
शफादश्वस्य वाजिनो जनाय शतं कुम्भाँ असिञ्चतं मधूनाम् ॥६॥
युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय ।
घोषायै चित्पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम् ॥७॥
युवं श्यावाय रुशतीमदत्तं महः क्षोणस्याश्विना कण्वाय ।
प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम् ॥८॥
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम् ।
सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं तरुत्रम् ॥९॥
एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः ।
यद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम् ॥१०॥
सूनोर्मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता ।
अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् ॥११॥
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा ।
हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन् ॥१२॥
युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः ।
युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥१३॥
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना ।
युवं भुज्युमर्णसो निः समुद्राद्विभिरूहथुरृज्रेभिरश्वैः ॥१४॥
अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान् ।
निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥१५॥
अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य ।
वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥१६॥
शतं मेषान्वृक्ये मामहानं तमः प्रणीतमशिवेन पित्रा ।
आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे ॥१७॥
शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति ।
जारः कनीन इव चक्षदान ऋज्राश्वः शतमेकं च मेषान् ॥१८॥
मही वामूतिरश्विना मयोभूरुत स्रामं धिष्ण्या सं रिणीथः ।
अथा युवामिदह्वयत्पुरंधिरागच्छतं सीं वृषणाववोभिः ॥१९॥
अधेनुं दस्रा स्तर्यं विषक्तामपिन्वतं शयवे अश्विना गाम् ।
युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम् ॥२०॥
यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा ।
अभि दस्युं बकुरेणा धमन्तोरु ज्योतिश्चक्रथुरार्याय ॥२१॥
आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्यैरयतम् ।
स वां मधु प्र वोचदृतायन्त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वाम् ॥२२॥
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना प्रावतं मे ।
अस्मे रयिं नासत्या बृहन्तमपत्यसाचं श्रुत्यं रराथाम् ॥२३॥
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम् ।
त्रिधा ह श्यावमश्विना विकस्तमुज्जीवस ऐरयतं सुदानू ॥२४॥
एतानि वामश्विना वीर्याणि प्र पूर्व्याण्यायवोऽवोचन् ।
ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथमा वदेम ॥२५॥
आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववाँ यात्वर्वाङ् ।
यो मर्त्यस्य मनसो जवीयान्त्रिवन्धुरो वृषणा वातरंहाः ॥१॥
त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक् ।
पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ॥२॥
प्रवद्यामना सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः ।
किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥३॥
आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः ।
ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥४॥
आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य ।
परि वामश्वा वपुषः पतंगा वयो वहन्त्वरुषा अभीके ॥५॥
उद्वन्दनमैरतं दंसनाभिरुद्रेभं दस्रा वृषणा शचीभिः ।
निष्टौग्र्यं पारयथः समुद्रात्पुनश्च्यवानं चक्रथुर्युवानम् ॥६॥
युवं कण्वायापिरिप्ताय चक्षुः प्रत्यधत्तं सुष्टुतिं जुजुषाणा ॥७॥
युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय ।
अमुञ्चतं वर्तिकामंहसो निः प्रति जङ्घां विश्पलाया अधत्तम् ॥८॥
युवं श्वेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम् ।
जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वृषणं वीड्वङ्गम् ॥९॥
ता वां नरा स्ववसे सुजाता हवामहे अश्विना नाधमानाः ।
आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ॥१०॥
आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः ।
हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥११॥
आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे ।
सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधामभि प्रयः ॥१॥
ऊर्ध्वा धीतिः प्रत्यस्य प्रयामन्यधायि शस्मन्समयन्त आ दिशः ।
स्वदामि घर्मं प्रति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत् ॥२॥
सं यन्मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे ।
युवोरह प्रवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम् ॥३॥
युवं भुज्युं भुरमाणं विभिर्गतं स्वयुक्तिभिर्निवहन्ता पितृभ्य आ ।
यासिष्टं वर्तिर्वृषणा विजेन्यं दिवोदासाय महि चेति वामवः ॥४॥
युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम् ।
आ वां पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवां पती ॥५॥
युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये ।
युवं शयोरवसं पिप्यथुर्गवि प्र दीर्घेण वन्दनस्तार्यायुषा ॥६॥
युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा समिन्वथः ।
क्षेत्रादा विप्रं जनथो विपन्यया प्र वामत्र विधते दंसना भुवत् ॥७॥
अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निबाधितम् ।
स्वर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ॥८॥
उत स्या वां मधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति ।
युवं दधीचो मन आ विवासथोऽथा शिरः प्रति वामश्व्यं वदत् ॥९॥
युवं पेदवे पुरुवारमश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः ।
शर्यैरभिद्युं पृतनासु दुष्टरं चर्कृत्यमिन्द्रमिव चर्षणीसहम् ॥१०॥
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे ।
असि होता न ईड्यः ॥३॥
ताँ उशतो वि बोधय यदग्ने यासि दूत्यम् ।
घृताहवन दीदिवः प्रति ष्म रिषतो दह ।
यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति ।
तस्य स्म प्राविता भव ॥८॥
यो अग्निं देववीतये हविष्माँ आविवासति ।
स नः पावक दीदिवोऽग्ने देवाँ इहा वह ।
उप यज्ञं हविश्च नः ॥१०॥
स न स्तवान आ भर गायत्रेण नवीयसा ।
अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः ।
इमं स्तोमं जुषस्व नः ॥१२॥
का राधद्धोत्राश्विना वां को वां जोष उभयोः ।
नू चिन्नु मर्ते अक्रौ ॥२॥
ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य ।
वि पृच्छामि पाक्या न देवान्वषट्कृतस्याद्भुतस्य दस्रा ।
पातं च सह्यसो युवं च रभ्यसो नः ॥४॥
प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम् ।
श्रुतं गायत्रं तकवानस्याहं चिद्धि रिरेभाश्विना वाम् ।
युवं ह्यास्तं महो रन्युवं वा यन्निरततंसतम् ।
ता नो वसू सुगोपा स्यातं पातं नो वृकादघायोः ॥७॥
मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः ।
दुहीयन्मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै ।
इषे च नो मिमीतं धेनुमत्यै ॥९॥
अध स्वप्नस्य निर्विदेऽभुञ्जतश्च रेवतः ।
उभा ता बस्रि नश्यतः ॥१२॥
कदित्था नॄँः पात्रं देवयतां श्रवद्गिरो अङ्गिरसां तुरण्यन् ।
प्र यदानड्विश आ हर्म्यस्योरु क्रंसते अध्वरे यजत्रः ॥१॥
स्तम्भीद्ध द्यां स धरुणं प्रुषायदृभुर्वाजाय द्रविणं नरो गोः ।
अनु स्वजां महिषश्चक्षत व्रां मेनामश्वस्य परि मातरं गोः ॥२॥
नक्षद्धवमरुणीः पूर्व्यं राट् तुरो विशामङ्गिरसामनु द्यून् ।
तक्षद्वज्रं नियुतं तस्तम्भद्द्यां चतुष्पदे नर्याय द्विपादे ॥३॥
अस्य मदे स्वर्यं दा ऋतायापीवृतमुस्रियाणामनीकम् ।
यद्ध प्रसर्गे त्रिककुम्निवर्तदप द्रुहो मानुषस्य दुरो वः ॥४॥
तुभ्यं पयो यत्पितरावनीतां राधः सुरेतस्तुरणे भुरण्यू ।
शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥५॥
अध प्र जज्ञे तरणिर्ममत्तु प्र रोच्यस्या उषसो न सूरः ।
इन्दुर्येभिराष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ्जरणाभि धाम ॥६॥
स्विध्मा यद्वनधितिरपस्यात्सूरो अध्वरे परि रोधना गोः ।
यद्ध प्रभासि कृत्व्याँ अनु द्यूननर्विशे पश्विषे तुराय ॥७॥
अष्टा महो दिव आदो हरी इह द्युम्नासाहमभि योधान उत्सम् ।
हरिं यत्ते मन्दिनं दुक्षन्वृधे गोरभसमद्रिभिर्वाताप्यम् ॥८॥
त्वमायसं प्रति वर्तयो गोर्दिवो अश्मानमुपनीतमृभ्वा ।
कुत्साय यत्र पुरुहूत वन्वञ्छुष्णमनन्तैः परियासि वधैः ॥९॥
पुरा यत्सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य ।
शुष्णस्य चित्परिहितं यदोजो दिवस्परि सुग्रथितं तदादः ॥१०॥
अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदतामिन्द्र कर्मन् ।
त्वं वृत्रमाशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥११॥
त्वमिन्द्र नर्यो याँ अवो नॄन्तिष्ठा वातस्य सुयुजो वहिष्ठान् ।
यं ते काव्य उशना मन्दिनं दाद्वृत्रहणं पार्यं ततक्ष वज्रम् ॥१२॥
त्वं सूरो हरितो रामयो नॄन्भरच्चक्रमेतशो नायमिन्द्र ।
प्रास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून् ॥१३॥
त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके ।
प्र नो वाजान्रथ्यो अश्वबुध्यानिषे यन्धि श्रवसे सूनृतायै ॥१४॥
आ नो भज मघवन्गोष्वर्यो मंहिष्ठास्ते सधमादः स्याम ॥१५॥
प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम् ।
दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥१॥
पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने ।
स्तरीर्नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः ॥२॥
ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् ।
शिशीतमिन्द्रापर्वता युवं नस्तन्नो विश्वे वरिवस्यन्तु देवाः ॥३॥
प्र वो नपातमपां कृणुध्वं प्र मातरा रास्पिनस्यायोः ॥४॥
आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे ।
प्र वः पूष्णे दावन आँ अच्छा वोचेय वसुतातिमग्नेः ॥५॥
श्रुतं मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम् ।
श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुरद्भिः ॥६॥
स्तुषे सा वां वरुण मित्र रातिर्गवां शता पृक्षयामेषु पज्रे ।
श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन् ॥७॥
अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः ।
जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः ॥८॥
जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक् ।
स्वयं स यक्ष्मं हृदये नि धत्त आप यदीं होत्राभिरृतावा ॥९॥
स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः ।
विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूरः ॥१०॥
अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः ।
नभोजुवो यन्निरवस्य राधः प्रशस्तये महिना रथवते ॥११॥
एतं शर्धं धाम यस्य सूरेरित्यवोचन्दशतयस्य नंशे ।
द्युम्नानि येषु वसुताती रारन्विश्वे सन्वन्तु प्रभृथेषु वाजम् ॥१२॥
मन्दामहे दशतयस्य धासेर्द्विर्यत्पञ्च बिभ्रतो यन्त्यन्ना ।
किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुष ऋञ्जते नॄन् ॥१३॥
हिरण्यकर्णं मणिग्रीवमर्णस्तन्नो विश्वे वरिवस्यन्तु देवाः ।
अर्यो गिरः सद्य आ जग्मुषीरोस्राश्चाकन्तूभयेष्वस्मे ॥१४॥
चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्य जिष्णोः ।
रथो वां मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ॥१५॥
पृथू रथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः ।
कृष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषाय क्षयाय ॥१॥
पूर्वा विश्वस्माद्भुवनादबोधि जयन्ती वाजं बृहती सनुत्री ।
उच्चा व्यख्यद्युवतिः पुनर्भूरोषा अगन्प्रथमा पूर्वहूतौ ॥२॥
यदद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते ।
देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥३॥
गृहंगृहमहना यात्यच्छा दिवेदिवे अधि नामा दधाना ।
सिषासन्ती द्योतना शश्वदागादग्रमग्रमिद्भजते वसूनाम् ॥४॥
भगस्य स्वसा वरुणस्य जामिरुषः सूनृते प्रथमा जरस्व ।
पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥५॥
उदीरतां सूनृता उत्पुरंधीरुदग्नयः शुशुचानासो अस्थुः ।
स्पार्हा वसूनि तमसापगूळ्हाविष्कृण्वन्त्युषसो विभातीः ॥६॥
अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते ।
परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन ॥७॥
सदृशीरद्य सदृशीरिदु श्वो दीर्घं सचन्ते वरुणस्य धाम ।
अनवद्यास्त्रिंशतं योजनान्येकैका क्रतुं परि यन्ति सद्यः ॥८॥
जानत्यह्नः प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची ।
ऋतस्य योषा न मिनाति धामाहरहर्निष्कृतमाचरन्ती ॥९॥
कन्येव तन्वा शाशदानाँ एषि देवि देवमियक्षमाणम् ।
संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कृणुषे विभाती ॥१०॥
सुसंकाशा मातृमृष्टेव योषाविस्तन्वं कृणुषे दृशे कम् ।
भद्रा त्वमुषो वितरं व्युच्छ न तत्ते अन्या उषसो नशन्त ॥११॥
अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य ।
परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषासः ॥१२॥
ऋतस्य रश्मिमनुयच्छमाना भद्रम्भद्रं क्रतुमस्मासु धेहि ।
उषो नो अद्य सुहवा व्युच्छास्मासु रायो मघवत्सु च स्युः ॥१३॥
उषा उच्छन्ती समिधाने अग्ना उद्यन्सूर्य उर्विया ज्योतिरश्रेत् ।
देवो नो अत्र सविता न्वर्थं प्रासावीद्द्विपत्प्र चतुष्पदित्यै ॥१॥
अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि ।
ईयुषीणामुपमा शश्वतीनामायतीनां प्रथमोषा व्यद्यौत् ॥२॥
एषा दिवो दुहिता प्रत्यदर्शि ज्योतिर्वसाना समना पुरस्तात् ।
ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥३॥
उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरकृत प्रियाणि ।
अद्मसन्न ससतो बोधयन्ती शश्वत्तमागात्पुनरेयुषीणाम् ॥४॥
पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यकृत प्र केतुम् ।
व्यु प्रथते वितरं वरीय ओभा पृणन्ती पित्रोरुपस्था ॥५॥
एवेदेषा पुरुतमा दृशे कं नाजामिं न परि वृणक्ति जामिम् ।
अरेपसा तन्वा शाशदाना नार्भादीषते न महो विभाती ॥६॥
अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानाम् ।
जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥७॥
स्वसा स्वस्रे ज्यायस्यै योनिमारैगपैत्यस्याः प्रतिचक्ष्येव ।
व्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्यङ्क्ते समनगा इव व्राः ॥८॥
आसां पूर्वासामहसु स्वसॄणामपरा पूर्वामभ्येति पश्चात् ।
ताः प्रत्नवन्नव्यसीर्नूनमस्मे रेवदुच्छन्तु सुदिना उषासः ॥९॥
प्र बोधयोषः पृणतो मघोन्यबुध्यमानाः पणयः ससन्तु ।
रेवदुच्छ मघवद्भ्यो मघोनि रेवत्स्तोत्रे सूनृते जारयन्ती ॥१०॥
वि नूनमुच्छादसति प्र केतुर्गृहंगृहमुप तिष्ठाते अग्निः ॥११॥
उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ ।
अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥१२॥
अस्तोढ्वं स्तोम्या ब्रह्मणा मेऽवीवृधध्वमुशतीरुषासः ।
युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं च वाजम् ॥१३॥
प्राता रत्नं प्रातरित्वा दधाति तं चिकित्वान्प्रतिगृह्या नि धत्ते ।
तेन प्रजां वर्धयमान आयू रायस्पोषेण सचते सुवीरः ॥१॥
सुगुरसत्सुहिरण्यः स्वश्वो बृहदस्मै वय इन्द्रो दधाति ।
यस्त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिमुत्सिनाति ॥२॥
आयमद्य सुकृतं प्रातरिच्छन्निष्टेः पुत्रं वसुमता रथेन ।
अंशोः सुतं पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः ॥३॥
उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः ।
पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥४॥
नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति ।
तस्मा आपो घृतमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा ॥५॥
दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः ।
दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्तः प्र तिरन्त आयुः ॥६॥
मा पृणन्तो दुरितमेन आरन्मा जारिषुः सूरयः सुव्रतासः ।
अन्यस्तेषां परिधिरस्तु कश्चिदपृणन्तमभि सं यन्तु शोकाः ॥७॥
अमन्दान्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य ।
यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः ॥१॥
शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्सद्य आदम् ।
शतं कक्षीवाँ असुरस्य गोनां दिवि श्रवोऽजरमा ततान ॥२॥
उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः ।
षष्टिः सहस्रमनु गव्यमागात्सनत्कक्षीवाँ अभिपित्वे अह्नाम् ॥३॥
चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति ।
मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः ॥४॥
पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्ताँ अष्टावरिधायसो गाः ।
सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥५॥
ददाति मह्यं यादुरी याशूनां भोज्या शता ॥६॥
उपोप मे परा मृश मा मे दभ्राणि मन्यथाः ।
अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।
घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥१॥
यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः ।
परिज्मानमिव द्यां होतारं चर्षणीनाम् ।
शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥२॥
स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहंतरः परशुर्न द्रुहंतरः ।
वीळु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् ।
निःषहमाणो यमते नायते धन्वासहा नायते ॥३॥
दृळ्हा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसेऽग्नये दाष्ट्यवसे ।
प्र यः पुरूणि गाहते तक्षद्वनेव शोचिषा ।
स्थिरा चिदन्ना नि रिणात्योजसा नि स्थिराणि चिदोजसा ॥४॥
तमस्य पृक्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्रायुषे दिवातरात् ।
आदस्यायुर्ग्रभणवद्वीळु शर्म न सूनवे ।
भक्तमभक्तमवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः ॥५॥
स हि शर्धो न मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः ।
अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम् ॥६॥
द्विता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः ।
अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम् ।
प्रियाँ अपिधीँर्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः ॥७॥
विश्वासां त्वा विशां पतिं हवामहे सर्वासां समानं दम्पतिं भुजे सत्यगिर्वाहसं भुजे ।
अतिथिं मानुषाणां पितुर्न यस्यासया ।
अमी च विश्वे अमृतास आ वयो हव्या देवेष्वा वयः ॥८॥
त्वमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये ।
शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
अध स्मा ते परि चरन्त्यजर श्रुष्टीवानो नाजर ॥९॥
प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्वग्नये ।
प्रति यदीं हविष्मान्विश्वासु क्षासु जोगुवे ।
अग्रे रेभो न जरत ऋषूणां जूर्णिर्होत ऋषूणाम् ॥१०॥
स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना ।
महि शविष्ठ नस्कृधि संचक्षे भुजे अस्यै ।
महि स्तोतृभ्यो मघवन्सुवीर्यं मथीरुग्रो न शवसा ॥११॥
अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनु व्रतमग्निः स्वमनु व्रतम् ।
विश्वश्रुष्टिः सखीयते रयिरिव श्रवस्यते ।
अदब्धो होता नि षददिळस्पदे परिवीत इळस्पदे ॥१॥
तं यज्ञसाधमपि वातयामस्यृतस्य पथा नमसा हविष्मता देवताता हविष्मता ।
स न ऊर्जामुपाभृत्यया कृपा न जूर्यति ।
यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥२॥
एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वृषभः कनिक्रदद्दधद्रेतः कनिक्रदत् ।
शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः ।
सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥३॥
स सुक्रतुः पुरोहितो दमेदमेऽग्निर्यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति ।
क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे ।
यतो घृतश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥४॥
क्रत्वा यदस्य तविषीषु पृञ्चतेऽग्नेरवेण मरुतां न भोज्येषिराय न भोज्या ।
स हि ष्मा दानमिन्वति वसूनां च मज्मना ।
स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ॥५॥
विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्न शिश्रथच्छ्रवस्यया न शिश्रथत् ।
विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे ।
विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्वारा व्यृण्वति ॥६॥
स मानुषे वृजने शंतमो हितोऽग्निर्यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः ।
स हव्या मानुषाणामिळा कृतानि पत्यते ।
स नस्त्रासते वरुणस्य धूर्तेर्महो देवस्य धूर्तेः ॥७॥
अग्निं होतारमीळते वसुधितिं प्रियं चेतिष्ठमरतिं न्येरिरे हव्यवाहं न्येरिरे ।
विश्वायुं विश्ववेदसं होतारं यजतं कविम् ।
देवासो रण्वमवसे वसूयवो गीर्भी रण्वं वसूयवः ॥८॥
यं त्वं रथमिन्द्र मेधसातयेऽपाका सन्तमिषिर प्रणयसि प्रानवद्य नयसि ।
सद्यश्चित्तमभिष्टये करो वशश्च वाजिनम् ।
सास्माकमनवद्य तूतुजान वेधसामिमां वाचं न वेधसाम् ॥१॥
स श्रुधि यः स्मा पृतनासु कासु चिद्दक्षाय्य इन्द्र भरहूतये नृभिरसि प्रतूर्तये नृभिः ।
यः शूरैः स्वः सनिता यो विप्रैर्वाजं तरुता ।
तमीशानास इरधन्त वाजिनं पृक्षमत्यं न वाजिनम् ॥२॥
दस्मो हि ष्मा वृषणं पिन्वसि त्वचं कं चिद्यावीरररुं शूर मर्त्यं परिवृणक्षि मर्त्यम् ।
इन्द्रोत तुभ्यं तद्दिवे तद्रुद्राय स्वयशसे ।
मित्राय वोचं वरुणाय सप्रथः सुमृळीकाय सप्रथः ॥३॥
अस्माकं व इन्द्रमुश्मसीष्टये सखायं विश्वायुं प्रासहं युजं वाजेषु प्रासहं युजम् ।
अस्माकं ब्रह्मोतयेऽवा पृत्सुषु कासु चित् ।
नहि त्वा शत्रु स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम् ॥४॥
नि षू नमातिमतिं कयस्य चित्तेजिष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभिः ।
नेषि णो यथा पुरानेनाः शूर मन्यसे ।
विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अच्छ ॥५॥
प्र तद्वोचेयं भव्यायेन्दवे हव्यो न य इषवान्मन्म रेजति रक्षोहा मन्म रेजति ।
स्वयं सो अस्मदा निदो वधैरजेत दुर्मतिम् ।
अव स्रवेदघशंसोऽवतरमव क्षुद्रमिव स्रवेत् ॥६॥
वनेम तद्धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम् ।
आ सत्याभिरिन्द्रं द्युम्नहूतिभिर्यजत्रं द्युम्नहूतिभिः ॥७॥
प्रप्रा वो अस्मे स्वयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन्दुर्मतीनाम् ।
स्वयं सा रिषयध्यै या न उपेषे अत्रैः ।
हतेमसन्न वक्षति क्षिप्ता जूर्णिर्न वक्षति ॥८॥
त्वं न इन्द्र राया परीणसा याहि पथाँ अनेहसा पुरो याह्यरक्षसा ।
पाहि नो दूरादारादभिष्टिभिः सदा पाह्यभिष्टिभिः ॥९॥
त्वं न इन्द्र राया तरूषसोग्रं चित्त्वा महिमा सक्षदवसे महे मित्रं नावसे ।
ओजिष्ठ त्रातरविता रथं कं चिदमर्त्य ।
अन्यमस्मद्रिरिषेः कं चिदद्रिवो रिरिक्षन्तं चिदद्रिवः ॥१०॥
पाहि न इन्द्र सुष्टुत स्रिधोऽवयाता सदमिद्दुर्मतीनां देवः सन्दुर्मतीनाम् ।
हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः ।
अधा हि त्वा जनिता जीजनद्वसो रक्षोहणं त्वा जीजनद्वसो ॥११॥
एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्तं राजेव सत्पतिः ।
हवामहे त्वा वयं प्रयस्वन्तः सुते सचा ।
पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ॥१॥
पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं न वंसगस्तातृषाणो न वंसगः ।
आ त्वा यच्छन्तु हरितो न सूर्यमहा विश्वेव सूर्यम् ॥२॥
अविन्दद्दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि ।
व्रजं वज्री गवामिव सिषासन्नङ्गिरस्तमः ।
अपावृणोदिष इन्द्रः परीवृता द्वार इषः परीवृताः ॥३॥
दादृहाणो वज्रमिन्द्रो गभस्त्योः क्षद्मेव तिग्ममसनाय सं श्यदहिहत्याय सं श्यत् ।
त्वं वृथा नद्य इन्द्र सर्तवेऽच्छा समुद्रमसृजो रथाँ इव वाजयतो रथाँ इव ।
इमां ते वाचं वसूयन्त आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय त्वामतक्षिषुः ।
शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम् ।
अत्यमिव शवसे सातये धना विश्वा धनानि सातये ॥६॥
भिनत्पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो ।
अतिथिग्वाय शम्बरं गिरेरुग्रो अवाभरत् ।
महो धनानि दयमान ओजसा विश्वा धनान्योजसा ॥७॥
इन्द्रः समत्सु यजमानमार्यं प्रावद्विश्वेषु शतमूतिराजिषु स्वर्मीळ्हेष्वाजिषु ।
दक्षन्न विश्वं ततृषाणमोषति न्यर्शसानमोषति ॥८॥
सूरश्चक्रं प्र वृहज्जात ओजसा प्रपित्वे वाचमरुणो मुषायतीऽशान आ मुषायति ।
सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेव तुर्वणिः ॥९॥
स नो नव्येभिर्वृषकर्मन्नुक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः ।
दिवोदासेभिरिन्द्र स्तवानो वावृधीथा अहोभिरिव द्यौः ॥१०॥
इन्द्राय हि द्यौरसुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर्द्युम्नसाता वरीमभिः ।
इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः ।
इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ॥१॥
विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक् ।
तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि ।
इन्द्रं न यज्ञैश्चितयन्त आयव स्तोमेभिरिन्द्रमायवः ॥२॥
वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।
यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि ।
आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥३॥
विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः ।
महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥४॥
आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखीयतो यदाविथ ।
चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे ।
ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥५॥
उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः ।
यदिन्द्र हन्तवे मृधो वृषा वज्रिञ्चिकेतसि ।
आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥६॥
त्वं तमिन्द्र वावृधानो अस्मयुरमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम् ।
जहि यो नो अघायति शृणुष्व सुश्रवस्तमः ।
त्वया वयं मघवन्पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः ।
नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते ।
अस्मिन्यज्ञे वि चयेमा भरे कृतं वाजयन्तो भरे कृतम् ॥१॥
स्वर्जेषे भर आप्रस्य वक्मन्युषर्बुधः स्वस्मिन्नञ्जसि क्राणस्य स्वस्मिन्नञ्जसि ।
अहन्निन्द्रो यथा विदे शीर्ष्णाशीर्ष्णोपवाच्यः ।
अस्मत्रा ते सध्र्यक्सन्तु रातयो भद्रा भद्रस्य रातयः ॥२॥
तत्तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन्यज्ञे वारमकृण्वत क्षयमृतस्य वारसि क्षयम् ।
वि तद्वोचेरध द्वितान्तः पश्यन्ति रश्मिभिः ।
स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥३॥
नू इत्था ते पूर्वथा च प्रवाच्यं यदङ्गिरोभ्योऽवृणोरप व्रजमिन्द्र शिक्षन्नप व्रजम् ।
ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च ।
सुन्वद्भ्यो रन्धया कं चिदव्रतं हृणायन्तं चिदव्रतम् ॥४॥
सं यज्जनान्क्रतुभिः शूर ईक्षयद्धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः ।
तस्मा आयुः प्रजावदिद्बाधे अर्चन्त्योजसा ।
इन्द्र ओक्यं दिधिषन्त धीतयो देवाँ अच्छा न धीतयः ॥५॥
युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तंतमिद्धतं वज्रेण तंतमिद्धतम् ।
दूरे चत्ताय च्छन्त्सद्गहनं यदिनक्षत् ।
अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥६॥
उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सं महीरनिन्द्राः ।
अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तृळ्हा अशेरन् ॥१॥
अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम् ।
अवासां मघवञ्जहि शर्धो यातुमतीनाम् ।
वैलस्थानके अर्मके महावैलस्थे अर्मके ॥३॥
पिशङ्गभृष्टिमम्भृणं पिशाचिमिन्द्र सं मृण ।
सर्वं रक्षो नि बर्हय ॥५॥
अवर्मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषाँ अद्रिवो घृणान्न भीषाँ अद्रिवः ।
अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः ॥६॥
वनोति हि सुन्वन्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः ।
सुन्वान इत्सिषासति सहस्रा वाज्यवृतः ।
सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥७॥
आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये ।
ऊर्ध्वा ते अनु सूनृता मनस्तिष्ठतु जानती ।
नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥१॥
मन्दन्तु त्वा मन्दिनो वायविन्दवोऽस्मत्क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः ।
यद्ध क्राणा इरध्यै दक्षं सचन्त ऊतयः ।
सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥२॥
वायुर्युङ्क्ते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ।
प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥३॥
तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु ।
तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते ।
अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥४॥
तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्यपामिषन्त भुर्वणि ।
त्वां त्सारी दसमानो भगमीट्टे तक्ववीये ।
त्वं विश्वस्माद्भुवनात्पासि धर्मणासुर्यात्पासि धर्मणा ॥५॥
त्वं नो वायवेषामपूर्व्यः सोमानां प्रथमः पीतिमर्हसि सुतानां पीतिमर्हसि ।
उतो विहुत्मतीनां विशां ववर्जुषीणाम् ।
विश्वा इत्ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥६॥
स्तीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते ।
तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे ।
प्र ते सुतासो मधुमन्तो अस्थिरन्मदाय क्रत्वे अस्थिरन् ॥१॥
तुभ्यायं सोमः परिपूतो अद्रिभि स्पार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति ।
तवायं भाग आयुषु सोमो देवेषु हूयते ।
वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः ॥२॥
आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये ।
तवायं भाग ऋत्वियः सरश्मिः सूर्ये सचा ।
अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ॥३॥
आ वां रथो नियुत्वान्वक्षदवसेऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये ।
पिबतं मध्वो अन्धसः पूर्वपेयं हि वां हितम् ।
वायवा चन्द्रेण राधसा गतमिन्द्रश्च राधसा गतम् ॥४॥
आ वां धियो ववृत्युरध्वराँ उपेममिन्दुं मर्मृजन्त वाजिनमाशुमत्यं न वाजिनम् ।
तेषां पिबतमस्मयू आ नो गन्तमिहोत्या ।
इन्द्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवम् ॥५॥
इमे वां सोमा अप्स्वा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ।
एते वामभ्यसृक्षत तिरः पवित्रमाशवः ।
युवायवोऽति रोमाण्यव्यया सोमासो अत्यव्यया ॥६॥
अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहमिन्द्रश्च गच्छतम् ।
वि सूनृता ददृशे रीयते घृतमा पूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम् ॥७॥
अत्राह तद्वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठन्त जायवोऽस्मे ते सन्तु जायवः ।
साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः ॥८॥
सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्नियन्तवः ॥९॥
प्र सु ज्येष्ठं निचिराभ्यां बृहन्नमो हव्यं मतिं भरता मृळयद्भ्यां स्वादिष्ठं मृळयद्भ्याम् ।
ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता ।
अथैनोः क्षत्रं न कुतश्चनाधृषे देवत्वं नू चिदाधृषे ॥१॥
अदर्शि गातुरुरवे वरीयसी पन्था ऋतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः ।
द्युक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च ।
अथा दधाते बृहदुक्थ्यं वय उपस्तुत्यं बृहद्वयः ॥२॥
ज्योतिष्मतीमदितिं धारयत्क्षितिं स्वर्वतीमा सचेते दिवेदिवे जागृवांसा दिवेदिवे ।
अयं मित्राय वरुणाय शंतमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः ।
तं देवासो जुषेरत विश्वे अद्य सजोषसः ।
यो मित्राय वरुणायाविधज्जनोऽनर्वाणं तं परि पातो अंहसो दाश्वांसं मर्तमंहसः ।
उक्थैर्य एनोः परिभूषति व्रतं स्तोमैराभूषति व्रतम् ॥५॥
नमो दिवे बृहते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे ।
इन्द्रमग्निमुप स्तुहि द्युक्षमर्यमणं भगम् ।
ज्योग्जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥६॥
ऊती देवानां वयमिन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः ।
अग्निर्मित्रो वरुणः शर्म यंसन्तदश्याम मघवानो वयं च ॥७॥
आ राजाना दिविस्पृशास्मत्रा गन्तमुप नः ।
इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥१॥
इम आ यातमिन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः ।
उत वामुषसो बुधि साकं सूर्यस्य रश्मिभिः ।
सुतो मित्राय वरुणाय पीतये चारुरृताय पीतये ॥२॥
तां वां धेनुं न वासरीमंशुं दुहन्त्यद्रिभिः सोमं दुहन्त्यद्रिभिः ।
अस्मत्रा गन्तमुप नोऽर्वाञ्चा सोमपीतये ।
अयं वां मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥३॥
प्रप्र पूष्णस्तुविजातस्य शस्यते महित्वमस्य तवसो न तन्दते स्तोत्रमस्य न तन्दते ।
विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥१॥
प्र हि त्वा पूषन्नजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः ।
हुवे यत्त्वा मयोभुवं देवं सख्याय मर्त्यः ।
यस्य ते पूषन्सख्ये विपन्यवः क्रत्वा चित्सन्तोऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे ।
तामनु त्वा नवीयसीं नियुतं राय ईमहे ।
अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवाँ अजाश्व श्रवस्यतामजाश्व ।
ओ षु त्वा ववृतीमहि स्तोमेभिर्दस्म साधुभिः ।
नहि त्वा पूषन्नतिमन्य आघृणे न ते सख्यमपह्नुवे ॥४॥
अस्तु श्रौषट् पुरो अग्नीं धिया दध आ नु तच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे ।
यद्ध क्राणा विवस्वति नाभा संदायि नव्यसी ।
अध प्र सू न उप यन्तु धीतयो देवाँ अच्छा न धीतयः ॥१॥
यद्ध त्यन्मित्रावरुणावृतादध्याददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना ।
धीभिश्चन मनसा स्वेभिरक्षभिः सोमस्य स्वेभिरक्षभिः ॥२॥
युवां स्तोमेभिर्देवयन्तो अश्विनाश्रावयन्त इव श्लोकमायवो युवां हव्याभ्यायवः ।
युवोर्विश्वा अधि श्रियः पृक्षश्च विश्ववेदसा ।
प्रुषायन्ते वां पवयो हिरण्यये रथे दस्रा हिरण्यये ॥३॥
अचेति दस्रा व्यु नाकमृण्वथो युञ्जते वां रथयुजो दिविष्टिष्वध्वस्मानो दिविष्टिषु ।
अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये ।
पथेव यन्तावनुशासता रजोऽञ्जसा शासता रजः ॥४॥
शचीभिर्नः शचीवसू दिवा नक्तं दशस्यतम् ।
मा वां रातिरुप दसत्कदा चनास्मद्रातिः कदा चन ॥५॥
वृषन्निन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस्तुभ्यं सुतास उद्भिदः ।
यद्ध त्यामङ्गिरोभ्यो धेनुं देवा अदत्तन ।
मो षु वो अस्मदभि तानि पौंस्या सना भूवन्द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः ।
यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम् ।
अस्मासु तन्मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥८॥
दध्यङ्ह मे जनुषं पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर्मनुर्विदुस्ते मे पूर्वे मनुर्विदुः ।
तेषां देवेष्वायतिरस्माकं तेषु नाभयः ।
तेषां पदेन मह्या नमे गिरेन्द्राग्नी आ नमे गिरा ॥९॥
होता यक्षद्वनिनो वन्त वार्यं बृहस्पतिर्यजति वेन उक्षभिः पुरुवारेभिरुक्षभिः ।
जगृभ्मा दूरआदिशं श्लोकमद्रेरध त्मना ।
अधारयदररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥१०॥
अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम् ॥११॥
ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये ।
आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः ।
इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् ।
प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः ।
ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः ।
घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः ।
ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया ।
आकीं सूर्यस्य रोचनाद्विश्वान्देवाँ उषर्बुधः ।
विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना ।
त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि ।
सेमं नो अध्वरं यज ॥११॥
युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः ।
वेदिषदे प्रियधामाय सुद्युते धासिमिव प्र भरा योनिमग्नये ।
वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम् ॥१॥
अभि द्विजन्मा त्रिवृदन्नमृज्यते संवत्सरे वावृधे जग्धमी पुनः ।
अन्यस्यासा जिह्वया जेन्यो वृषा न्यन्येन वनिनो मृष्ट वारणः ॥२॥
कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् ।
प्राचाजिह्वं ध्वसयन्तं तृषुच्युतमा साच्यं कुपयं वर्धनं पितुः ॥३॥
मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः ।
असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥४॥
आदस्य ते ध्वसयन्तो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः ।
यत्सीं महीमवनिं प्राभि मर्मृशदभिश्वसन्स्तनयन्नेति नानदत् ॥५॥
भूषन्न योऽधि बभ्रूषु नम्नते वृषेव पत्नीरभ्येति रोरुवत् ।
ओजायमानस्तन्वश्च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः ॥६॥
स संस्तिरो विष्टिरः सं गृभायति जानन्नेव जानतीर्नित्य आ शये ।
पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद्वर्पः पित्रोः कृण्वते सचा ॥७॥
तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः प्रायवे पुनः ।
तासां जरां प्रमुञ्चन्नेति नानददसुं परं जनयञ्जीवमस्तृतम् ॥८॥
अधीवासं परि मातू रिहन्नह तुविग्रेभिः सत्वभिर्याति वि ज्रयः ।
वयो दधत्पद्वते रेरिहत्सदानु श्येनी सचते वर्तनीरह ॥९॥
अस्माकमग्ने मघवत्सु दीदिह्यध श्वसीवान्वृषभो दमूनाः ।
अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः ॥१०॥
इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते ।
यत्ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नमा त्वम् ॥११॥
रथाय नावमुत नो गृहाय नित्यारित्रां पद्वतीं रास्यग्ने ।
अस्माकं वीराँ उत नो मघोनो जनाँश्च या पारयाच्छर्म या च ॥१२॥
अभी नो अग्न उक्थमिज्जुगुर्या द्यावाक्षामा सिन्धवश्च स्वगूर्ताः ।
गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त ॥१३॥
बळित्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि ।
यदीमुप ह्वरते साधते मतिरृतस्य धेना अनयन्त सस्रुतः ॥१॥
पृक्षो वपुः पितुमान्नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु ।
तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥२॥
निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः ।
यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥३॥
प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति ।
उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा शुचिः ॥४॥
आदिन्मातॄराविशद्यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे ।
अनु यत्पूर्वा अरुहत्सनाजुवो नि नव्यसीष्ववरासु धावते ॥५॥
आदिद्धोतारं वृणते दिविष्टिषु भगमिव पपृचानास ऋञ्जते ।
देवान्यत्क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे ॥६॥
वि यदस्थाद्यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः ।
तस्य पत्मन्दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥७॥
रथो न यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते ।
आदस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथादीषते वयः ॥८॥
त्वया ह्यग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः ।
यत्सीमनु क्रतुना विश्वथा विभुररान्न नेमिः परिभूरजायथाः ॥९॥
त्वमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि ।
तं त्वा नु नव्यं सहसो युवन्वयं भगं न कारे महिरत्न धीमहि ॥१०॥
अस्मे रयिं न स्वर्थं दमूनसं भगं दक्षं न पपृचासि धर्णसिम् ।
रश्मीँरिव यो यमति जन्मनी उभे देवानां शंसमृत आ च सुक्रतुः ॥११॥
उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्चन्द्ररथः ।
स नो नेषन्नेषतमैरमूरोऽग्निर्वामं सुवितं वस्यो अच्छ ॥१२॥
अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय प्रतरं दधानः ।
अमी च ये मघवानो वयं च मिहं न सूरो अति निष्टतन्युः ॥१३॥
तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥१॥
घृतवन्तमुप मासि मधुमन्तं तनूनपात् ।
यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥२॥
नराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः ॥३॥
ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम् ।
इयं हि त्वा मतिर्ममाच्छा सुजिह्व वच्यते ॥४॥
स्तृणानासो यतस्रुचो बर्हिर्यज्ञे स्वध्वरे ।
वृञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः ॥५॥
वि श्रयन्तामृतावृधः प्रयै देवेभ्यो महीः ।
पावकासः पुरुस्पृहो द्वारो देवीरसश्चतः ॥६॥
यह्वी ऋतस्य मातरा सीदतां बर्हिरा सुमत् ॥७॥
यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्पृशम् ॥८॥
शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती ।
इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ॥९॥
तन्नस्तुरीपमद्भुतं पुरु वारं पुरु त्मना ।
त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥१०॥
अवसृजन्नुप त्मना देवान्यक्षि वनस्पते ।
अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः ॥११॥
पूषण्वते मरुत्वते विश्वदेवाय वायवे ।
स्वाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन ॥१२॥
स्वाहाकृतान्या गह्युप हव्यानि वीतये ।
इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥१३॥
प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे ।
अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्वियः ॥१॥
स जायमानः परमे व्योमन्याविरग्निरभवन्मातरिश्वने ।
अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥२॥
अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः ।
भात्वक्षसो अत्यक्तुर्न सिन्धवोऽग्ने रेजन्ते अससन्तो अजराः ॥३॥
यमेरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना ।
अग्निं तं गीर्भिर्हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥४॥
न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः ।
अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून्स वना न्यृञ्जते ॥५॥
कुविन्नो अग्निरुचथस्य वीरसद्वसुष्कुविद्वसुभिः काममावरत् ।
चोदः कुवित्तुतुज्यात्सातये धियः शुचिप्रतीकं तमया धिया गृणे ॥६॥
घृतप्रतीकं व ऋतस्य धूर्षदमग्निं मित्रं न समिधान ऋञ्जते ।
इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम् ॥७॥
अप्रयुच्छन्नप्रयुच्छद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः ।
अदब्धेभिरदृपितेभिरिष्टेऽनिमिषद्भिः परि पाहि नो जाः ॥८॥
एति प्र होता व्रतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम् ।
अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते ॥१॥
अभीमृतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः ।
अपामुपस्थे विभृतो यदावसदध स्वधा अधयद्याभिरीयते ॥२॥
युयूषतः सवयसा तदिद्वपुः समानमर्थं वितरित्रता मिथः ।
आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन्समयंस्त सारथिः ॥३॥
यमीं द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा ।
दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा ॥४॥
तमीं हिन्वन्ति धीतयो दश व्रिशो देवं मर्तास ऊतये हवामहे ।
त्वं ह्यग्ने दिव्यस्य राजसि त्वं पार्थिवस्य पशुपा इव त्मना ।
एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ॥६॥
अग्ने जुषस्व प्रति हर्य तद्वचो मन्द्र स्वधाव ऋतजात सुक्रतो ।
यो विश्वतः प्रत्यङ्ङसि दर्शतो रण्वः संदृष्टौ पितुमाँ इव क्षयः ॥७॥
तं पृच्छता स जगामा स वेद स चिकित्वाँ ईयते सा न्वीयते ।
तस्मिन्सन्ति प्रशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस्पतिः ॥१॥
तमित्पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत् ।
न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः ॥२॥
तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे ।
पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः ॥३॥
उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः ।
अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम् ॥४॥
स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि ।
व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वाँ ऋतचिद्धि सत्यः ॥५॥
त्रिमूर्धानं सप्तरश्मिं गृणीषेऽनूनमग्निं पित्रोरुपस्थे ।
निषत्तमस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥१॥
उक्षा महाँ अभि ववक्ष एने अजरस्तस्थावितऊतिरृष्वः ।
उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य ॥२॥
समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके ।
धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् ।
सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन् ॥४॥
दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे ।
पुरुत्रा यदभवत्सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥५॥
कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः ।
उभे यत्तोके तनये दधाना ऋतस्य सामन्रणयन्त देवाः ॥१॥
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः ।
पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तन्वं वन्दे अग्ने ॥२॥
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ।
ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥३॥
यो नो अग्ने अररिवाँ अघायुररातीवा मर्चयति द्वयेन ।
मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥४॥
उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन ।
अतः पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥५॥
मथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् ।
नि यं दधुर्मनुष्यासु विक्षु स्वर्ण चित्रं वपुषे विभावम् ॥१॥
ददानमिन्न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन् ।
जुषन्त विश्वान्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः ॥२॥
नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः ।
प्र सू नयन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः ॥३॥
पुरूणि दस्मो नि रिणाति जम्भैराद्रोचते वन आ विभावा ।
आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु द्यून् ॥४॥
न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति ।
अन्धा अपश्या न दभन्नभिख्या नित्यास ईं प्रेतारो अरक्षन् ॥५॥
महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ ।
स यो वृषा नरां न रोदस्योः श्रवोभिरस्ति जीवपीतसर्गः ।
प्र यः सस्राणः शिश्रीत योनौ ॥२॥
आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्वा ।
अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात् ।
होता यजिष्ठो अपां सधस्थे ॥४॥
अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।
इन्द्र सोमं पिब ऋतुना त्वा विशन्त्विन्दवः ।
मरुतः पिबत ऋतुना पोत्राद्यज्ञं पुनीतन ।
यूयं हि ष्ठा सुदानवः ॥२॥
अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना ।
त्वं हि रत्नधा असि ॥३॥
अग्ने देवाँ इहा वह सादया योनिषु त्रिषु ।
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूँरनु ।
युवं दक्षं धृतव्रत मित्रावरुण दूळभम् ।
द्रविणोदा ददातु नो वसूनि यानि शृण्विरे ।
द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ।
अध स्मा नो ददिर्भव ॥१०॥
अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता ।
गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि ।
पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा ।
तोदस्येव शरण आ महस्य ॥१॥
व्यनिनस्य धनिनः प्रहोषे चिदररुषः ।
कदा चन प्रजिगतो अदेवयोः ॥२॥
स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि ।
प्रप्रेत्ते अग्ने वनुषः स्याम ॥३॥
मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् ।
अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषामवः ॥१॥
यद्ध त्यद्वां पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः ।
अध क्रतुं विदतं गातुमर्चत उत श्रुतं वृषणा पस्त्यावतः ॥२॥
आ वां भूषन्क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा दक्षसे महे ।
यदीमृताय भरथो यदर्वते प्र होत्रया शिम्या वीथो अध्वरम् ॥३॥
प्र सा क्षितिरसुर या महि प्रिय ऋतावानावृतमा घोषथो बृहत् ।
युवं दिवो बृहतो दक्षमाभुवं गां न धुर्युप युञ्जाथे अपः ॥४॥
मही अत्र महिना वारमृण्वथोऽरेणवस्तुज आ सद्मन्धेनवः ।
स्वरन्ति ता उपरताति सूर्यमा निम्रुच उषसस्तक्ववीरिव ॥५॥
आ वामृताय केशिनीरनूषत मित्र यत्र वरुण गातुमर्चथः ।
अव त्मना सृजतं पिन्वतं धियो युवं विप्रस्य मन्मनामिरज्यथः ॥६॥
यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः ।
उपाह तं गच्छथो वीथो अध्वरमच्छा गिरः सुमतिं गन्तमस्मयू ॥७॥
युवां यज्ञैः प्रथमा गोभिरञ्जत ऋतावाना मनसो न प्रयुक्तिषु ।
भरन्ति वां मन्मना संयता गिरोऽदृप्यता मनसा रेवदाशाथे ॥८॥
रेवद्वयो दधाथे रेवदाशाथे नरा मायाभिरितऊति माहिनम् ।
न वां द्यावोऽहभिर्नोत सिन्धवो न देवत्वं पणयो नानशुर्मघम् ॥९॥
युवं वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मन्तवो ह सर्गाः ।
अवातिरतमनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥१॥
एतच्चन त्वो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त ऋघावान् ।
त्रिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह प्रथमा अजूर्यन् ॥२॥
अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत ।
गर्भो भारं भरत्या चिदस्य ऋतं पिपर्त्यनृतं नि तारीत् ॥३॥
प्रयन्तमित्परि जारं कनीनां पश्यामसि नोपनिपद्यमानम् ।
अनवपृग्णा वितता वसानं प्रियं मित्रस्य वरुणस्य धाम ॥४॥
अनश्वो जातो अनभीशुरर्वा कनिक्रदत्पतयदूर्ध्वसानुः ।
अचित्तं ब्रह्म जुजुषुर्युवानः प्र मित्रे धाम वरुणे गृणन्तः ॥५॥
आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन्सस्मिन्नूधन् ।
पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत् ॥६॥
आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा ववृत्याम् ।
अस्माकं ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर्दिव्या सुपारा ॥७॥
यजामहे वां महः सजोषा हव्येभिर्मित्रावरुणा नमोभिः ।
घृतैर्घृतस्नू अध यद्वामस्मे अध्वर्यवो न धीतिभिर्भरन्ति ॥१॥
प्रस्तुतिर्वां धाम न प्रयुक्तिरयामि मित्रावरुणा सुवृक्तिः ।
अनक्ति यद्वां विदथेषु होता सुम्नं वां सूरिर्वृषणावियक्षन् ॥२॥
पीपाय धेनुरदितिरृताय जनाय मित्रावरुणा हविर्दे ।
हिनोति यद्वां विदथे सपर्यन्स रातहव्यो मानुषो न होता ॥३॥
उत वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः ।
उतो नो अस्य पूर्व्यः पतिर्दन्वीतं पातं पयस उस्रियायाः ॥४॥
विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि ।
यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥१॥
प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥२॥
प्र विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वृष्णे ।
य इदं दीर्घं प्रयतं सधस्थमेको विममे त्रिभिरित्पदेभिः ॥३॥
यस्य त्री पूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति ।
य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ॥४॥
तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति ।
उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः ॥५॥
ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः ।
अत्राह तदुरुगायस्य वृष्णः परमं पदमव भाति भूरि ॥६॥
प्र वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत ।
या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना ॥१॥
त्वेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति ।
ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे ।
दधाति पुत्रोऽवरं परं पितुर्नाम तृतीयमधि रोचने दिवः ॥३॥
तत्तदिदस्य पौंस्यं गृणीमसीनस्य त्रातुरवृकस्य मीळ्हुषः ।
यः पार्थिवानि त्रिभिरिद्विगामभिरुरु क्रमिष्टोरुगायाय जीवसे ॥४॥
द्वे इदस्य क्रमणे स्वर्दृशोऽभिख्याय मर्त्यो भुरण्यति ।
तृतीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः ॥५॥
चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीँरवीविपत् ।
बृहच्छरीरो विमिमान ऋक्वभिर्युवाकुमारः प्रत्येत्याहवम् ॥६॥
भवा मित्रो न शेव्यो घृतासुतिर्विभूतद्युम्न एवया उ सप्रथाः ।
अधा ते विष्णो विदुषा चिदर्ध्य स्तोमो यज्ञश्च राध्यो हविष्मता ॥१॥
यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति ।
यो जातमस्य महतो महि ब्रवत्सेदु श्रवोभिर्युज्यं चिदभ्यसत् ॥२॥
तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन ।
आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ॥३॥
तमस्य राजा वरुणस्तमश्विना क्रतुं सचन्त मारुतस्य वेधसः ।
दाधार दक्षमुत्तममहर्विदं व्रजं च विष्णुः सखिवाँ अपोर्णुते ॥४॥
आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः ।
वेधा अजिन्वत्त्रिषधस्थ आर्यमृतस्य भागे यजमानमाभजत् ॥५॥
अबोध्यग्निर्ज्म उदेति सूर्यो व्युषाश्चन्द्रा मह्यावो अर्चिषा ।
आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥१॥
यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् ।
अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥२॥
अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः ।
त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥३॥
आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम् ।
प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥४॥
युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः ।
युवमग्निं च वृषणावपश्च वनस्पतीँरश्विनावैरयेथाम् ॥५॥
युवं ह स्थो भिषजा भेषजेभिरथो ह स्थो रथ्या राथ्येभिः ।
अथो ह क्षत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश ॥६॥
वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणावभिष्टौ ।
को वां दाशत्सुमतये चिदस्यै वसू यद्धेथे नमसा पदे गोः ।
जिगृतमस्मे रेवतीः पुरंधीः कामप्रेणेव मनसा चरन्ता ॥२॥
युक्तो ह यद्वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः ।
उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः ॥३॥
उपस्तुतिरौचथ्यमुरुष्येन्मा मामिमे पतत्रिणी वि दुग्धाम् ।
मा मामेधो दशतयश्चितो धाक्प्र यद्वां बद्धस्त्मनि खादति क्षाम् ॥४॥
शिरो यदस्य त्रैतनो वितक्षत्स्वयं दास उरो अंसावपि ग्ध ॥५॥
दीर्घतमा मामतेयो जुजुर्वान्दशमे युगे ।
अपामर्थं यतीनां ब्रह्मा भवति सारथिः ॥६॥
प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा ।
देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः ॥१॥
उत मन्ये पितुरद्रुहो मनो मातुर्महि स्वतवस्तद्धवीमभिः ।
सुरेतसा पितरा भूम चक्रतुरुरु प्रजाया अमृतं वरीमभिः ॥२॥
ते सूनवः स्वपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये ।
स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ॥३॥
नव्यंनव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ॥४॥
तद्राधो अद्य सवितुर्वरेण्यं वयं देवस्य प्रसवे मनामहे ।
अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम् ॥५॥
आ त्वा वहन्तु हरयो वृषणं सोमपीतये ।
इमा धाना घृतस्नुवो हरी इहोप वक्षतः ।
इन्द्रं प्रातर्हवामह इन्द्रं प्रयत्यध्वरे ।
उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः ।
सुते हि त्वा हवामहे ॥४॥
सेमं न स्तोममा गह्युपेदं सवनं सुतम् ।
गौरो न तृषितः पिब ॥५॥
इमे सोमास इन्दवः सुतासो अधि बर्हिषि ।
अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शंतमः ।
अथा सोमं सुतं पिब ॥७॥
विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति ।
सेमं नः काममा पृण गोभिरश्वैः शतक्रतो ।
ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी ।
सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः ॥१॥
उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः ।
सुधृष्टमे वपुष्ये न रोदसी पिता यत्सीमभि रूपैरवासयत् ॥२॥
स वह्निः पुत्रः पित्रोः पवित्रवान्पुनाति धीरो भुवनानि मायया ।
धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत ॥३॥
अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा ।
वि यो ममे रजसी सुक्रतूययाजरेभि स्कम्भनेभिः समानृचे ॥४॥
ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत् ।
येनाभि कृष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम् ॥५॥
किमु श्रेष्ठः किं यविष्ठो न आजगन्किमीयते दूत्यं कद्यदूचिम ।
न निन्दिम चमसं यो महाकुलोऽग्ने भ्रातर्द्रुण इद्भूतिमूदिम ॥१॥
एकं चमसं चतुरः कृणोतन तद्वो देवा अब्रुवन्तद्व आगमम् ।
सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ ॥२॥
अग्निं दूतं प्रति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः ।
धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातरनु वः कृत्व्येमसि ॥३॥
चकृवांस ऋभवस्तदपृच्छत क्वेदभूद्यः स्य दूतो न आजगन् ।
हनामैनाँ इति त्वष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः ।
अन्या नामानि कृण्वते सुते सचाँ अन्यैरेनान्कन्या नामभि स्परत् ॥५॥
इन्द्रो हरी युयुजे अश्विना रथं बृहस्पतिर्विश्वरूपामुपाजत ।
ऋभुर्विभ्वा वाजो देवाँ अगच्छत स्वपसो यज्ञियं भागमैतन ॥६॥
निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताकृणोतन ।
सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवाँ अयातन ॥७॥
इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम् ।
सौधन्वना यदि तन्नेव हर्यथ तृतीये घा सवने मादयाध्वै ॥८॥
आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत् ।
वधर्यन्तीं बहुभ्यः प्रैको अब्रवीदृता वदन्तश्चमसाँ अपिंशत ॥९॥
श्रोणामेक उदकं गामवाजति मांसमेकः पिंशति सूनयाभृतम् ।
आ निम्रुचः शकृदेको अपाभरत्किं स्वित्पुत्रेभ्यः पितरा उपावतुः ॥१०॥
उद्वत्स्वस्मा अकृणोतना तृणं निवत्स्वपः स्वपस्यया नरः ।
अगोह्यस्य यदसस्तना गृहे तदद्येदमृभवो नानु गच्छथ ॥११॥
सम्मील्य यद्भुवना पर्यसर्पत क्व स्वित्तात्या पितरा व आसतुः ।
अशपत यः करस्नं व आददे यः प्राब्रवीत्प्रो तस्मा अब्रवीतन ॥१२॥
सुषुप्वांस ऋभवस्तदपृच्छतागोह्य क इदं नो अबूबुधत् ।
श्वानं बस्तो बोधयितारमब्रवीत्संवत्सर इदमद्या व्यख्यत ॥१३॥
दिवा यान्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण याति ।
अद्भिर्याति वरुणः समुद्रैर्युष्माँ इच्छन्तः शवसो नपातः ॥१४॥
यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥१॥
यन्निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति ।
सुप्राङजो मेम्यद्विश्वरूप इन्द्रापूष्णोः प्रियमप्येति पाथः ॥२॥
एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः ।
अभिप्रियं यत्पुरोळाशमर्वता त्वष्टेदेनं सौश्रवसाय जिन्वति ॥३॥
यद्धविष्यमृतुशो देवयानं त्रिर्मानुषाः पर्यश्वं नयन्ति ।
अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्नजः ॥४॥
होताध्वर्युरावया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः ।
तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥५॥
यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति ।
ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु ॥६॥
उप प्रागात्सुमन्मेऽधायि मन्म देवानामाशा उप वीतपृष्ठः ।
अन्वेनं विप्रा ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् ॥७॥
यद्वाजिनो दाम संदानमर्वतो या शीर्षण्या रशना रज्जुरस्य ।
यद्वा घास्य प्रभृतमास्ये तृणं सर्वा ता ते अपि देवेष्वस्तु ॥८॥
यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्तमस्ति ।
यद्धस्तयोः शमितुर्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु ॥९॥
यदूवध्यमुदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति ।
सुकृता तच्छमितारः कृण्वन्तूत मेधं शृतपाकं पचन्तु ॥१०॥
यत्ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति ।
मा तद्भूम्यामा श्रिषन्मा तृणेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ॥११॥
ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति ।
ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु ॥१२॥
यन्नीक्षणं माँस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि ।
ऊष्मण्यापिधाना चरूणामङ्काः सूनाः परि भूषन्त्यश्वम् ॥१३॥
निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः ।
यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु ॥१४॥
मा त्वाग्निर्ध्वनयीद्धूमगन्धिर्मोखा भ्राजन्त्यभि विक्त जघ्रिः ।
इष्टं वीतमभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्यश्वम् ॥१५॥
यदश्वाय वास उपस्तृणन्त्यधीवासं या हिरण्यान्यस्मै ।
संदानमर्वन्तं पड्बीशं प्रिया देवेष्वा यामयन्ति ॥१६॥
यत्ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद ।
स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥१७॥
चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति ।
अच्छिद्रा गात्रा वयुना कृणोत परुष्परुरनुघुष्या वि शस्त ॥१८॥
एकस्त्वष्टुरश्वस्या विशस्ता द्वा यन्तारा भवतस्तथ ऋतुः ।
या ते गात्राणामृतुथा कृणोमि ताता पिण्डानां प्र जुहोम्यग्नौ ॥१९॥
मा त्वा तपत्प्रिय आत्मापियन्तं मा स्वधितिस्तन्व आ तिष्ठिपत्ते ।
न वा उ एतन्म्रियसे न रिष्यसि देवाँ इदेषि पथिभिः सुगेभिः ।
हरी ते युञ्जा पृषती अभूतामुपास्थाद्वाजी धुरि रासभस्य ॥२१॥
सुगव्यं नो वाजी स्वश्व्यं पुंसः पुत्राँ उत विश्वापुषं रयिम् ।
अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान् ॥२२॥
यदक्रन्दः प्रथमं जायमान उद्यन्समुद्रादुत वा पुरीषात् ।
श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥१॥
यमेन दत्तं त्रित एनमायुनगिन्द्र एणं प्रथमो अध्यतिष्ठत् ।
गन्धर्वो अस्य रशनामगृभ्णात्सूरादश्वं वसवो निरतष्ट ॥२॥
असि यमो अस्यादित्यो अर्वन्नसि त्रितो गुह्येन व्रतेन ।
असि सोमेन समया विपृक्त आहुस्ते त्रीणि दिवि बन्धनानि ॥३॥
त्रीणि त आहुर्दिवि बन्धनानि त्रीण्यप्सु त्रीण्यन्तः समुद्रे ।
उतेव मे वरुणश्छन्त्स्यर्वन्यत्रा त आहुः परमं जनित्रम् ॥४॥
अत्रा ते भद्रा रशना अपश्यमृतस्य या अभिरक्षन्ति गोपाः ॥५॥
आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतंगम् ।
शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि ॥६॥
अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदे गोः ।
यदा ते मर्तो अनु भोगमानळादिद्ग्रसिष्ठ ओषधीरजीगः ॥७॥
अनु व्रातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते ॥८॥
हिरण्यशृङ्गोऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् ।
देवा इदस्य हविरद्यमायन्यो अर्वन्तं प्रथमो अध्यतिष्ठत् ॥९॥
ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः ।
हंसा इव श्रेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः ॥१०॥
तव शरीरं पतयिष्ण्वर्वन्तव चित्तं वात इव ध्रजीमान् ।
तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥११॥
उप प्रागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः ।
अजः पुरो नीयते नाभिरस्यानु पश्चात्कवयो यन्ति रेभाः ॥१२॥
उप प्रागात्परमं यत्सधस्थमर्वाँ अच्छा पितरं मातरं च ।
अद्या देवाञ्जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥१३॥
कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः ।
कया मती कुत एतास एतेऽर्चन्ति शुष्मं वृषणो वसूया ॥१॥
कस्य ब्रह्माणि जुजुषुर्युवानः को अध्वरे मरुत आ ववर्त ।
श्येनाँ इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ॥२॥
कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं त इत्था ।
सं पृच्छसे समराणः शुभानैर्वोचेस्तन्नो हरिवो यत्ते अस्मे ॥३॥
ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः ।
आ शासते प्रति हर्यन्त्युक्थेमा हरी वहतस्ता नो अच्छ ॥४॥
अतो वयमन्तमेभिर्युजानाः स्वक्षत्रेभिस्तन्वः शुम्भमानाः ।
महोभिरेताँ उप युज्महे न्विन्द्र स्वधामनु हि नो बभूथ ॥५॥
क्व स्या वो मरुतः स्वधासीद्यन्मामेकं समधत्ताहिहत्ये ।
अहं ह्युग्रस्तविषस्तुविष्मान्विश्वस्य शत्रोरनमं वधस्नैः ॥६॥
भूरि चकर्थ युज्येभिरस्मे समानेभिर्वृषभ पौंस्येभिः ।
भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद्वशाम ॥७॥
वधीं वृत्रं मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् ।
अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः ॥८॥
अनुत्तमा ते मघवन्नकिर्नु न त्वावाँ अस्ति देवता विदानः ।
न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥९॥
एकस्य चिन्मे विभ्वस्त्वोजो या नु दधृष्वान्कृणवै मनीषा ।
अहं ह्युग्रो मरुतो विदानो यानि च्यवमिन्द्र इदीश एषाम् ॥१०॥
अमन्दन्मा मरुत स्तोमो अत्र यन्मे नरः श्रुत्यं ब्रह्म चक्र ।
इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस्तन्वे तनूभिः ॥११॥
एवेदेते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः ।
संचक्ष्या मरुतश्चन्द्रवर्णा अच्छान्त मे छदयाथा च नूनम् ॥१२॥
को न्वत्र मरुतो मामहे वः प्र यातन सखीँरच्छा सखायः ।
मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म ऋतानाम् ॥१३॥
आ यद्दुवस्याद्दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा ।
ओ षु वर्त्त मरुतो विप्रमच्छेमा ब्रह्माणि जरिता वो अर्चत् ॥१४॥
एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥१५॥
तन्नु वोचाम रभसाय जन्मने पूर्वं महित्वं वृषभस्य केतवे ।
ऐधेव यामन्मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन ॥१॥
नित्यं न सूनुं मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः ।
नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम् ॥२॥
यस्मा ऊमासो अमृता अरासत रायस्पोषं च हविषा ददाशुषे ।
उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ॥३॥
आ ये रजांसि तविषीभिरव्यत प्र व एवासः स्वयतासो अध्रजन् ।
भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्वृष्टिषु ॥४॥
यत्त्वेषयामा नदयन्त पर्वतान्दिवो वा पृष्ठं नर्या अचुच्यवुः ।
विश्वो वो अज्मन्भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः ॥५॥
यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन ।
यत्रा वो दिद्युद्रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा ॥६॥
प्र स्कम्भदेष्णा अनवभ्रराधसोऽलातृणासो विदथेषु सुष्टुताः ।
अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य प्रथमानि पौंस्या ॥७॥
शतभुजिभिस्तमभिह्रुतेरघात्पूर्भी रक्षता मरुतो यमावत ।
जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात्तनयस्य पुष्टिषु ॥८॥
विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्याहिता ।
अंसेष्वा वः प्रपथेषु खादयोऽक्षो वश्चक्रा समया वि वावृते ॥९॥
भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः ।
अंसेष्वेताः पविषु क्षुरा अधि वयो न पक्षान्व्यनु श्रियो धिरे ॥१०॥
महान्तो मह्ना विभ्वो विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः ।
मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः ॥११॥
तद्वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव व्रतम् ।
इन्द्रश्चन त्यजसा वि ह्रुणाति तज्जनाय यस्मै सुकृते अराध्वम् ॥१२॥
तद्वो जामित्वं मरुतः परे युगे पुरू यच्छंसममृतास आवत ।
अया धिया मनवे श्रुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे ॥१३॥
येन दीर्घं मरुतः शूशवाम युष्माकेन परीणसा तुरासः ।
आ यत्ततनन्वृजने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्याम् ॥१४॥
एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥१५॥
सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः ।
सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ॥१॥
आ नोऽवोभिर्मरुतो यान्त्वच्छा ज्येष्ठेभिर्वा बृहद्दिवैः सुमायाः ।
अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे ॥२॥
मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिगुपरा न ऋष्टिः ।
गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक् ॥३॥
परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः ।
न रोदसी अप नुदन्त घोरा जुषन्त वृधं सख्याय देवाः ॥४॥
जोषद्यदीमसुर्या सचध्यै विषितस्तुका रोदसी नृमणाः ।
आ सूर्येव विधतो रथं गात्त्वेषप्रतीका नभसो नेत्या ॥५॥
आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम् ।
अर्को यद्वो मरुतो हविष्मान्गायद्गाथं सुतसोमो दुवस्यन् ॥६॥
प्र तं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति ।
सचा यदीं वृषमणा अहंयु स्थिरा चिज्जनीर्वहते सुभागाः ॥७॥
पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान् ।
उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईं मरुतो दातिवारः ॥८॥
नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः ।
ते धृष्णुना शवसा शूशुवांसोऽर्णो न द्वेषो धृषता परि ष्ठुः ॥९॥
वयमद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये ।
वयं पुरा महि च नो अनु द्यून्तन्न ऋभुक्षा नरामनु ष्यात् ॥१०॥
एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥११॥
यज्ञायज्ञा वः समना तुतुर्वणिर्धियंधियं वो देवया उ दधिध्वे ।
आ वोऽर्वाचः सुविताय रोदस्योर्महे ववृत्यामवसे सुवृक्तिभिः ॥१॥
वव्रासो न ये स्वजाः स्वतवस इषं स्वरभिजायन्त धूतयः ।
सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ॥२॥
सोमासो न ये सुतास्तृप्तांशवो हृत्सु पीतासो दुवसो नासते ।
ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्च कृतिश्च सं दधे ॥३॥
अव स्वयुक्ता दिव आ वृथा ययुरमर्त्याः कशया चोदत त्मना ।
अरेणवस्तुविजाता अचुच्यवुर्दृळ्हानि चिन्मरुतो भ्राजदृष्टयः ॥४॥
को वोऽन्तर्मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव जिह्वया ।
धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः ॥५॥
क्व स्विदस्य रजसो महस्परं क्वावरं मरुतो यस्मिन्नायय ।
यच्च्यावयथ विथुरेव संहितं व्यद्रिणा पतथ त्वेषमर्णवम् ॥६॥
सातिर्न वोऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती ।
भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती ॥७॥
प्रति ष्टोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति ।
अव स्मयन्त विद्युतः पृथिव्यां यदी घृतं मरुतः प्रुष्णुवन्ति ॥८॥
असूत पृश्निर्महते रणाय त्वेषमयासां मरुतामनीकम् ।
एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥१०॥
महश्चित्त्वमिन्द्र यत एतान्महश्चिदसि त्यजसो वरूता ।
स नो वेधो मरुतां चिकित्वान्सुम्ना वनुष्व तव हि प्रेष्ठा ॥१॥
अयुज्रन्त इन्द्र विश्वकृष्टीर्विदानासो निष्षिधो मर्त्यत्रा ।
मरुतां पृत्सुतिर्हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ ॥२॥
अम्यक्सा त इन्द्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति ।
अग्निश्चिद्धि ष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसि ॥३॥
त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम् ।
स्तुतश्च यास्ते चकनन्त वायो स्तनं न मध्वः पीपयन्त वाजैः ॥४॥
त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिदृतायोः ।
ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः ॥५॥
प्रति प्र याहीन्द्र मीळ्हुषो नॄन्महः पार्थिवे सदने यतस्व ।
अध यदेषां पृथुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः ॥६॥
प्रति घोराणामेतानामयासां मरुतां शृण्व आयतामुपब्दिः ।
ये मर्त्यं पृतनायन्तमूमैरृणावानं न पतयन्त सर्गैः ॥७॥
त्वं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः ।
स्तवानेभि स्तवसे देव देवैर्विद्यामेषं वृजनं जीरदानुम् ॥८॥
इन्द्रावरुणयोरहं सम्राजोरव आ वृणे ।
गन्तारा हि स्थोऽवसे हवं विप्रस्य मावतः ।
अनुकामं तर्पयेथामिन्द्रावरुण राय आ ।
युवाकु हि शचीनां युवाकु सुमतीनाम् ।
इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम् ।
तयोरिदवसा वयं सनेम नि च धीमहि ।
इन्द्रावरुण वामहं हुवे चित्राय राधसे ।
इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा ।
प्र वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे ।
न नूनमस्ति नो श्वः कस्तद्वेद यदद्भुतम् ।
अन्यस्य चित्तमभि संचरेण्यमुताधीतं वि नश्यति ॥१॥
किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव ।
तेभिः कल्पस्व साधुया मा नः समरणे वधीः ॥२॥
किं नो भ्रातरगस्त्य सखा सन्नति मन्यसे ।
विद्मा हि ते यथा मनोऽस्मभ्यमिन्न दित्ससि ॥३॥
अरं कृण्वन्तु वेदिं समग्निमिन्धतां पुरः ।
तत्रामृतस्य चेतनं यज्ञं ते तनवावहै ॥४॥
त्वमीशिषे वसुपते वसूनां त्वं मित्राणां मित्रपते धेष्ठः ।
इन्द्र त्वं मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि ॥५॥
प्रति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम् ।
रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान् ॥१॥
एष व स्तोमो मरुतो नमस्वान्हृदा तष्टो मनसा धायि देवाः ।
उपेमा यात मनसा जुषाणा यूयं हि ष्ठा नमस इद्वृधासः ॥२॥
स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः ।
ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा ॥३॥
अस्मादहं तविषादीषमाण इन्द्राद्भिया मरुतो रेजमानः ।
युष्मभ्यं हव्या निशितान्यासन्तान्यारे चकृमा मृळता नः ॥४॥
येन मानासश्चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् ।
स नो मरुद्भिर्वृषभ श्रवो धा उग्र उग्रेभि स्थविरः सहोदाः ॥५॥
त्वं पाहीन्द्र सहीयसो नॄन्भवा मरुद्भिरवयातहेळाः ।
सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं वृजनं जीरदानुम् ॥६॥
चित्रो वोऽस्तु यामश्चित्र ऊती सुदानवः ।
आरे सा वः सुदानवो मरुत ऋञ्जती शरुः ।
तृणस्कन्दस्य नु विशः परि वृङ्क्त सुदानवः ।
गायत्साम नभन्यं यथा वेरर्चाम तद्वावृधानं स्वर्वत् ।
गावो धेनवो बर्हिष्यदब्धा आ यत्सद्मानं दिव्यं विवासान् ॥१॥
अर्चद्वृषा वृषभिः स्वेदुहव्यैर्मृगो नाश्नो अति यज्जुगुर्यात् ।
प्र मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः ॥२॥
नक्षद्धोता परि सद्म मिता यन्भरद्गर्भमा शरदः पृथिव्याः ।
क्रन्ददश्वो नयमानो रुवद्गौरन्तर्दूतो न रोदसी चरद्वाक् ॥३॥
ता कर्माषतरास्मै प्र च्यौत्नानि देवयन्तो भरन्ते ।
जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः ॥४॥
तमु ष्टुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः ।
प्र यदित्था महिना नृभ्यो अस्त्यरं रोदसी कक्ष्ये नास्मै ।
सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावाँ ओपशमिव द्याम् ॥६॥
समत्सु त्वा शूर सतामुराणं प्रपथिन्तमं परितंसयध्यै ।
सजोषस इन्द्रं मदे क्षोणीः सूरिं चिद्ये अनुमदन्ति वाजैः ॥७॥
एवा हि ते शं सवना समुद्र आपो यत्त आसु मदन्ति देवीः ।
विश्वा ते अनु जोष्या भूद्गौः सूरीँश्चिद्यदि धिषा वेषि जनान् ॥८॥
असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः ।
असद्यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था ॥९॥
विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः ।
मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः ॥१०॥
यज्ञो हि ष्मेन्द्रं कश्चिदृन्धञ्जुहुराणश्चिन्मनसा परियन् ।
तीर्थे नाच्छा तातृषाणमोको दीर्घो न सिध्रमा कृणोत्यध्वा ॥११॥
मो षू ण इन्द्रात्र पृत्सु देवैरस्ति हि ष्मा ते शुष्मिन्नवयाः ।
महश्चिद्यस्य मीळ्हुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥१२॥
एष स्तोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः ।
आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं जीरदानुम् ॥१३॥
त्वं राजेन्द्र ये च देवा रक्षा नॄन्पाह्यसुर त्वमस्मान् ।
त्वं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः ॥१॥
दनो विश इन्द्र मृध्रवाचः सप्त यत्पुरः शर्म शारदीर्दर्त् ।
ऋणोरपो अनवद्यार्णा यूने वृत्रं पुरुकुत्साय रन्धीः ॥२॥
अजा वृत इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम् ।
रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ॥३॥
शेषन्नु त इन्द्र सस्मिन्योनौ प्रशस्तये पवीरवस्य मह्ना ।
सृजदर्णांस्यव यद्युधा गास्तिष्ठद्धरी धृषता मृष्ट वाजान् ॥४॥
वह कुत्समिन्द्र यस्मिञ्चाकन्स्यूमन्यू ऋज्रा वातस्याश्वा ।
प्र सूरश्चक्रं वृहतादभीकेऽभि स्पृधो यासिषद्वज्रबाहुः ॥५॥
जघन्वाँ इन्द्र मित्रेरूञ्चोदप्रवृद्धो हरिवो अदाशून् ।
प्र ये पश्यन्नर्यमणं सचायोस्त्वया शूर्ता वहमाना अपत्यम् ॥६॥
रपत्कविरिन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः ।
करत्तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मृधि श्रेत् ॥७॥
सना ता त इन्द्र नव्या आगुः सहो नभोऽविरणाय पूर्वीः ।
भिनत्पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः ॥८॥
त्वं धुनिरिन्द्र धुनिमतीरृणोरपः सीरा न स्रवन्तीः ।
प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥९॥
त्वमस्माकमिन्द्र विश्वध स्या अवृकतमो नरां नृपाता ।
स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ॥१०॥
मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः ।
वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥१॥
आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः ।
सहावाँ इन्द्र सानसिः पृतनाषाळमर्त्यः ॥२॥
त्वं हि शूरः सनिता चोदयो मनुषो रथम् ।
सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥३॥
मुषाय सूर्यं कवे चक्रमीशान ओजसा ।
वह शुष्णाय वधं कुत्सं वातस्याश्वैः ॥४॥
शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ॥५॥
यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥६॥
मत्सि नो वस्यइष्टय इन्द्रमिन्दो वृषा विश ।
ऋघायमाण इन्वसि शत्रुमन्ति न विन्दसि ॥१॥
तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम् ।
अनु स्वधा यमुप्यते यवं न चर्कृषद्वृषा ॥२॥
यस्य विश्वानि हस्तयोः पञ्च क्षितीनां वसु ।
असुन्वन्तं समं जहि दूणाशं यो न ते मयः ।
अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते ॥४॥
आवो यस्य द्विबर्हसोऽर्केषु सानुषगसत् ।
आजाविन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ॥५॥
यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥६॥
आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनां पुरुहूत इन्द्रः ।
स्तुतः श्रवस्यन्नवसोप मद्रिग्युक्त्वा हरी वृषणा याह्यर्वाङ् ॥१॥
आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता मधूनि ।
युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् ॥३॥
अयं यज्ञो देवया अयं मियेध इमा ब्रह्माण्ययमिन्द्र सोमः ।
ओ सुष्टुत इन्द्र याह्यर्वाङुप ब्रह्माणि मान्यस्य कारोः ।
विद्याम वस्तोरवसा गृणन्तो विद्यामेषं वृजनं जीरदानुम् ॥५॥
यद्ध स्या त इन्द्र श्रुष्टिरस्ति यया बभूथ जरितृभ्य ऊती ।
मा नः कामं महयन्तमा धग्विश्वा ते अश्यां पर्याप आयोः ॥१॥
आपश्चिदस्मै सुतुका अवेषन्गमन्न इन्द्रः सख्या वयश्च ॥२॥
जेता नृभिरिन्द्रः पृत्सु शूरः श्रोता हवं नाधमानस्य कारोः ।
प्रभर्ता रथं दाशुष उपाक उद्यन्ता गिरो यदि च त्मना भूत् ॥३॥
एवा नृभिरिन्द्रः सुश्रवस्या प्रखादः पृक्षो अभि मित्रिणो भूत् ।
समर्य इष स्तवते विवाचि सत्राकरो यजमानस्य शंसः ॥४॥
त्वया वयं मघवन्निन्द्र शत्रूनभि ष्याम महतो मन्यमानान् ।
त्वं त्राता त्वमु नो वृधे भूर्विद्यामेषं वृजनं जीरदानुम् ॥५॥
पूर्वीरहं शरदः शश्रमाणा दोषा वस्तोरुषसो जरयन्तीः ।
मिनाति श्रियं जरिमा तनूनामप्यू नु पत्नीर्वृषणो जगम्युः ॥१॥
ये चिद्धि पूर्व ऋतसाप आसन्साकं देवेभिरवदन्नृतानि ।
ते चिदवासुर्नह्यन्तमापुः समू नु पत्नीर्वृषभिर्जगम्युः ॥२॥
न मृषा श्रान्तं यदवन्ति देवा विश्वा इत्स्पृधो अभ्यश्नवाव ।
जयावेदत्र शतनीथमाजिं यत्सम्यञ्चा मिथुनावभ्यजाव ॥३॥
नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित् ।
लोपामुद्रा वृषणं नी रिणाति धीरमधीरा धयति श्वसन्तम् ॥४॥
इमं नु सोममन्तितो हृत्सु पीतमुप ब्रुवे ।
यत्सीमागश्चकृमा तत्सु मृळतु पुलुकामो हि मर्त्यः ॥५॥
अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं बलमिच्छमानः ।
उभौ वर्णावृषिरुग्रः पुपोष सत्या देवेष्वाशिषो जगाम ॥६॥
सोमानं स्वरणं कृणुहि ब्रह्मणस्पते ।
यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः ।
स नः सिषक्तु यस्तुरः ॥२॥
मा नः शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य ।
स घा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः ।
त्वं तं ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम् ।
यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन ।
आदृध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम् ।
युवो रजांसि सुयमासो अश्वा रथो यद्वां पर्यर्णांसि दीयत् ।
हिरण्यया वां पवयः प्रुषायन्मध्वः पिबन्ता उषसः सचेथे ॥१॥
युवमत्यस्याव नक्षथो यद्विपत्मनो नर्यस्य प्रयज्योः ।
स्वसा यद्वां विश्वगूर्ती भराति वाजायेट्टे मधुपाविषे च ॥२॥
युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यं गोः ।
अन्तर्यद्वनिनो वामृतप्सू ह्वारो न शुचिर्यजते हविष्मान् ॥३॥
युवं ह घर्मं मधुमन्तमत्रयेऽपो न क्षोदोऽवृणीतमेषे ।
तद्वां नरावश्विना पश्वइष्टी रथ्येव चक्रा प्रति यन्ति मध्वः ॥४॥
आ वां दानाय ववृतीय दस्रा गोरोहेण तौग्र्यो न जिव्रिः ।
अपः क्षोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा ॥५॥
नि यद्युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरंधिम् ।
प्रेषद्वेषद्वातो न सूरिरा महे ददे सुव्रतो न वाजम् ॥६॥
वयं चिद्धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान् ।
अधा चिद्धि ष्माश्विनावनिन्द्या पाथो हि ष्मा वृषणावन्तिदेवम् ॥७॥
युवां चिद्धि ष्माश्विनावनु द्यून्विरुद्रस्य प्रस्रवणस्य सातौ ।
अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत्सहस्रैः ॥८॥
धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम ॥९॥
तं वां रथं वयमद्या हुवेम स्तोमैरश्विना सुविताय नव्यम् ।
अरिष्टनेमिं परि द्यामियानं विद्यामेषं वृजनं जीरदानुम् ॥१०॥
कदु प्रेष्टाविषां रयीणामध्वर्यन्ता यदुन्निनीथो अपाम् ।
अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम् ॥१॥
आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः ।
मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु ॥२॥
आ वां रथोऽवनिर्न प्रवत्वान्सृप्रवन्धुरः सुविताय गम्याः ।
वृष्ण स्थातारा मनसो जवीयानहम्पूर्वो यजतो धिष्ण्या यः ॥३॥
इहेह जाता समवावशीतामरेपसा तन्वा नामभिः स्वैः ।
जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे ॥४॥
प्र वां निचेरुः ककुहो वशाँ अनु पिशङ्गरूपः सदनानि गम्याः ।
हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः ॥५॥
प्र वां शरद्वान्वृषभो न निष्षाट् पूर्वीरिषश्चरति मध्व इष्णन् ।
एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः ॥६॥
असर्जि वां स्थविरा वेधसा गीर्बाळ्हे अश्विना त्रेधा क्षरन्ती ।
उपस्तुताववतं नाधमानं यामन्नयामञ्छृणुतं हवं मे ॥७॥
उत स्या वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वते नॄन् ।
वृषा वां मेघो वृषणा पीपाय गोर्न सेके मनुषो दशस्यन् ॥८॥
युवां पूषेवाश्विना पुरंधिरग्निमुषां न जरते हविष्मान् ।
हुवे यद्वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम् ॥९॥
अभूदिदं वयुनमो षु भूषता रथो वृषण्वान्मदता मनीषिणः ।
धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता ॥१॥
इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा ।
पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना ॥२॥
किमत्र दस्रा कृणुथः किमासाथे जनो यः कश्चिदहविर्महीयते ।
अति क्रमिष्टं जुरतं पणेरसुं ज्योतिर्विप्राय कृणुतं वचस्यवे ॥३॥
जम्भयतमभितो रायतः शुनो हतं मृधो विदथुस्तान्यश्विना ।
वाचंवाचं जरितू रत्निनीं कृतमुभा शंसं नासत्यावतं मम ॥४॥
युवमेतं चक्रथुः सिन्धुषु प्लवमात्मन्वन्तं पक्षिणं तौग्र्याय कम् ।
येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः ॥५॥
अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि प्रविद्धम् ।
चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति ॥६॥
कः स्विद्वृक्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत् ।
पर्णा मृगस्य पतरोरिवारभ उदश्विना ऊहथुः श्रोमताय कम् ॥७॥
तद्वां नरा नासत्यावनु ष्याद्यद्वां मानास उचथमवोचन् ।
अस्मादद्य सदसः सोम्यादा विद्यामेषं वृजनं जीरदानुम् ॥८॥
तं युञ्जाथां मनसो यो जवीयान्त्रिवन्धुरो वृषणा यस्त्रिचक्रः ।
येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर्न पर्णैः ॥१॥
सुवृद्रथो वर्तते यन्नभि क्षां यत्तिष्ठथः क्रतुमन्तानु पृक्षे ।
वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे ॥२॥
आ तिष्ठतं सुवृतं यो रथो वामनु व्रतानि वर्तते हविष्मान् ।
येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च ॥३॥
अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम् ॥४॥
युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवतेऽवसे हविष्मान् ।
दिशं न दिष्टामृजूयेव यन्ता मे हवं नासत्योप यातम् ॥५॥
अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि ।
एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥६॥
ता वामद्य तावपरं हुवेमोच्छन्त्यामुषसि वह्निरुक्थैः ।
नासत्या कुह चित्सन्तावर्यो दिवो नपाता सुदास्तराय ॥१॥
अस्मे ऊ षु वृषणा मादयेथामुत्पणीँर्हतमूर्म्या मदन्ता ।
श्रुतं मे अच्छोक्तिभिर्मतीनामेष्टा नरा निचेतारा च कर्णैः ॥२॥
श्रिये पूषन्निषुकृतेव देवा नासत्या वहतुं सूर्यायाः ।
वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ॥३॥
अस्मे सा वां माध्वी रातिरस्तु स्तोमं हिनोतं मान्यस्य कारोः ।
अनु यद्वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ॥४॥
एष वां स्तोमो अश्विनावकारि मानेभिर्मघवाना सुवृक्ति ।
यातं वर्तिस्तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥५॥
अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि ।
एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥६॥
कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद ।
विश्वं त्मना बिभृतो यद्ध नाम वि वर्तेते अहनी चक्रियेव ॥१॥
भूरिं द्वे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते ।
नित्यं न सूनुं पित्रोरुपस्थे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥२॥
अनेहो दात्रमदितेरनर्वं हुवे स्वर्वदवधं नमस्वत् ।
तद्रोदसी जनयतं जरित्रे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥३॥
अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे ।
उभे देवानामुभयेभिरह्नां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥४॥
संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोरुपस्थे ।
अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतं पृथिवी नो अभ्वात् ॥५॥
दधाते ये अमृतं सुप्रतीके द्यावा रक्षतं पृथिवी नो अभ्वात् ॥६॥
उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन् ।
दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतं पृथिवी नो अभ्वात् ॥७॥
देवान्वा यच्चकृमा कच्चिदागः सखायं वा सदमिज्जास्पतिं वा ।
इयं धीर्भूया अवयानमेषां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥८॥
उभा शंसा नर्या मामविष्टामुभे मामूती अवसा सचेताम् ।
भूरि चिदर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ॥९॥
ऋतं दिवे तदवोचं पृथिव्या अभिश्रावाय प्रथमं सुमेधाः ।
पातामवद्याद्दुरितादभीके पिता माता च रक्षतामवोभिः ॥१०॥
इदं द्यावापृथिवी सत्यमस्तु पितर्मातर्यदिहोपब्रुवे वाम् ।
भूतं देवानामवमे अवोभिर्विद्यामेषं वृजनं जीरदानुम् ॥११॥
आ न इळाभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु ।
अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ॥१॥
आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः ।
भुवन्यथा नो विश्वे वृधासः करन्सुषाहा विथुरं न शवः ॥२॥
प्रेष्ठं वो अतिथिं गृणीषेऽग्निं शस्तिभिस्तुर्वणिः सजोषाः ।
असद्यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः ॥३॥
उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः ।
समाने अहन्विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन् ॥४॥
उत नोऽहिर्बुध्न्यो मयस्कः शिशुं न पिप्युषीव वेति सिन्धुः ।
येन नपातमपां जुनाम मनोजुवो वृषणो यं वहन्ति ॥५॥
उत न ईं त्वष्टा गन्त्वच्छा स्मत्सूरिभिरभिपित्वे सजोषाः ।
आ वृत्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां न इह गम्याः ॥६॥
उत न ईं मतयोऽश्वयोगाः शिशुं न गावस्तरुणं रिहन्ति ।
तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसन्त ॥७॥
उत न ईं मरुतो वृद्धसेनाः स्मद्रोदसी समनसः सदन्तु ।
पृषदश्वासोऽवनयो न रथा रिशादसो मित्रयुजो न देवाः ॥८॥
प्र नु यदेषां महिना चिकित्रे प्र युञ्जते प्रयुजस्ते सुवृक्ति ।
अध यदेषां सुदिने न शरुर्विश्वमेरिणं प्रुषायन्त सेनाः ॥९॥
प्रो अश्विनाववसे कृणुध्वं प्र पूषणं स्वतवसो हि सन्ति ।
अद्वेषो विष्णुर्वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान् ॥१०॥
इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयाः ।
नि या देवेषु यतते वसूयुर्विद्यामेषं वृजनं जीरदानुम् ॥११॥
पितुं नु स्तोषं महो धर्माणं तविषीम् ।
यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ॥१॥
स्वादो पितो मधो पितो वयं त्वा ववृमहे ।
उप नः पितवा चर शिवः शिवाभिरूतिभिः ।
मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः ॥३॥
तव त्ये पितो रसा रजांस्यनु विष्ठिताः ।
दिवि वाता इव श्रिताः ॥४॥
तव त्ये पितो ददतस्तव स्वादिष्ठ ते पितो ।
प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥५॥
त्वे पितो महानां देवानां मनो हितम् ।
अकारि चारु केतुना तवाहिमवसावधीत् ॥६॥
यददो पितो अजगन्विवस्व पर्वतानाम् ।
अत्रा चिन्नो मधो पितोऽरं भक्षाय गम्याः ॥७॥
यत्ते सोम गवाशिरो यवाशिरो भजामहे ।
करम्भ ओषधे भव पीवो वृक्क उदारथिः ।
तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम ।
देवेभ्यस्त्वा सधमादमस्मभ्यं त्वा सधमादम् ॥११॥
समिद्धो अद्य राजसि देवो देवैः सहस्रजित् ।
तनूनपादृतं यते मध्वा यज्ञः समज्यते ।
आजुह्वानो न ईड्यो देवाँ आ वक्षि यज्ञियान् ।
विराट् सम्राड्विभ्वीः प्रभ्वीर्बह्वीश्च भूयसीश्च याः ।
सुरुक्मे हि सुपेशसाधि श्रिया विराजतः ।
भारतीळे सरस्वति या वः सर्वा उपब्रुवे ।
त्वष्टा रूपाणि हि प्रभुः पशून्विश्वान्समानजे ।
तेषां न स्फातिमा यज ॥९॥
उप त्मन्या वनस्पते पाथो देवेभ्यः सृज ।
पुरोगा अग्निर्देवानां गायत्रेण समज्यते ।
अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥१॥
अग्ने त्वं पारया नव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा ।
पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥२॥
अग्ने त्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः ।
पुनरस्मभ्यं सुविताय देव क्षां विश्वेभिरमृतेभिर्यजत्र ॥३॥
पाहि नो अग्ने पायुभिरजस्रैरुत प्रिये सदन आ शुशुक्वान् ।
मा ते भयं जरितारं यविष्ठ नूनं विदन्मापरं सहस्वः ॥४॥
मा दत्वते दशते मादते नो मा रीषते सहसावन्परा दाः ॥५॥
वि घ त्वावाँ ऋतजात यंसद्गृणानो अग्ने तन्वे वरूथम् ।
विश्वाद्रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट् ॥६॥
त्वं ताँ अग्न उभयान्वि विद्वान्वेषि प्रपित्वे मनुषो यजत्र ।
अभिपित्वे मनवे शास्यो भूर्मर्मृजेन्य उशिग्भिर्नाक्रः ॥७॥
अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ ।
वयं सहस्रमृषिभिः सनेम विद्यामेषं वृजनं जीरदानुम् ॥८॥
प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे ।
नहि देवो न मर्त्यो महस्तव क्रतुं परः ।
ये महो रजसो विदुर्विश्वे देवासो अद्रुहः ।
य उग्रा अर्कमानृचुरनाधृष्टास ओजसा ।
ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः ।
य ईङ्खयन्ति पर्वतान्तिरः समुद्रमर्णवम् ।
आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा ।
अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु ।
अनर्वाणं वृषभं मन्द्रजिह्वं बृहस्पतिं वर्धया नव्यमर्कैः ।
गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः ॥१॥
तमृत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि ।
बृहस्पतिः स ह्यञ्जो वरांसि विभ्वाभवत्समृते मातरिश्वा ॥२॥
उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत्सवितेव प्र बाहू ।
अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस्तुविष्मान् ॥३॥
अस्य श्लोको दिवीयते पृथिव्यामत्यो न यंसद्यक्षभृद्विचेताः ।
मृगाणां न हेतयो यन्ति चेमा बृहस्पतेरहिमायाँ अभि द्यून् ॥४॥
ये त्वा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः ।
न दूढ्ये अनु ददासि वामं बृहस्पते चयस इत्पियारुम् ॥५॥
सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः ।
अनर्वाणो अभि ये चक्षते नोऽपीवृता अपोर्णुवन्तो अस्थुः ॥६॥
सं यं स्तुभोऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः ।
स विद्वाँ उभयं चष्टे अन्तर्बृहस्पतिस्तर आपश्च गृध्रः ॥७॥
एवा महस्तुविजातस्तुविष्मान्बृहस्पतिर्वृषभो धायि देवः ।
स न स्तुतो वीरवद्धातु गोमद्विद्यामेषं वृजनं जीरदानुम् ॥८॥
कङ्कतो न कङ्कतोऽथो सतीनकङ्कतः ।
द्वाविति प्लुषी इति न्यदृष्टा अलिप्सत ॥१॥
अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती ॥२॥
शरासः कुशरासो दर्भासः सैर्या उत ।
मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्यलिप्सत ॥३॥
नि केतवो जनानां न्यदृष्टा अलिप्सत ॥४॥
एत उ त्ये प्रत्यदृश्रन्प्रदोषं तस्करा इव ।
अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन ॥५॥
द्यौर्वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा ।
अदृष्टा विश्वदृष्टास्तिष्ठतेलयता सु कम् ॥६॥
अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत ॥७॥
उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा ।
उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन् ।
आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥९॥
सूर्ये विषमा सजामि दृतिं सुरावतो गृहे ।
सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥१०॥
सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥११॥
त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यमक्षन् ।
ताश्चिन्नु न मरन्ति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥१२॥
नवानां नवतीनां विषस्य रोपुषीणाम् ।
सर्वासामग्रभं नामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥१३॥
त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः ।
तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव ॥१४॥
ततो विषं प्र वावृते पराचीरनु संवतः ॥१५॥
वृश्चिकस्यारसं विषमरसं वृश्चिक ते विषम् ॥१६॥
वायवा याहि दर्शतेमे सोमा अरंकृताः ।
तेषां पाहि श्रुधी हवम् ॥१॥
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः ।
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् ।
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् ।
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
अयं देवाय जन्मने स्तोमो विप्रेभिरासया ।
य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी ।
तक्षन्नासत्याभ्यां परिज्मानं सुखं रथम् ।
युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः ।
सं वो मदासो अग्मतेन्द्रेण च मरुत्वता ।
उत त्यं चमसं नवं त्वष्टुर्देवस्य निष्कृतम् ।
इहेन्द्राग्नी उप ह्वये तयोरित्स्तोममुश्मसि ।
ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः ।
ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे ।
उग्रा सन्ता हवामह उपेदं सवनं सुतम् ।
ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् ।
तेन सत्येन जागृतमधि प्रचेतुने पदे ।
प्रातर्युजा वि बोधयाश्विनावेह गच्छताम् ।
या वां कशा मधुमत्यश्विना सूनृतावती ।
नहि वामस्ति दूरके यत्रा रथेन गच्छथः ।
स चेत्ता देवता पदम् ॥५॥
अपां नपातमवसे सवितारमुप स्तुहि ।
विभक्तारं हवामहे वसोश्चित्रस्य राधसः ।
सखाय आ नि षीदत सविता स्तोम्यो नु नः ।
अग्ने पत्नीरिहा वह देवानामुशतीरुप ।
आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् ।
अभि नो देवीरवसा महः शर्मणा नृपत्नीः ।
इहेन्द्राणीमुप ह्वये वरुणानीं स्वस्तये ।
मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् ।
तयोरिद्घृतवत्पयो विप्रा रिहन्ति धीतिभिः ।
स्योना पृथिवि भवानृक्षरा निवेशनी ।
यच्छा नः शर्म सप्रथः ॥१५॥
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् ।
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे ।
इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये ।
मित्रं वयं हवामहे वरुणं सोमपीतये ।
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः ।
मरुत्वन्तं हवामह इन्द्रमा सोमपीतये ।
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
विश्वे मम श्रुता हवम् ॥८॥
हत वृत्रं सुदानव इन्द्रेण सहसा युजा ।
हस्काराद्विद्युतस्पर्यतो जाता अवन्तु नः ।
आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः ।
आजा नष्टं यथा पशुम् ॥१३॥
पूषा राजानमाघृणिरपगूळ्हं गुहा हितम् ।
उतो स मह्यमिन्दुभिः षड्युक्ताँ अनुसेषिधत् ।
अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ।
अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः ।
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः ॥२०॥
आपः पृणीत भेषजं वरूथं तन्वे मम ।
इदमापः प्र वहत यत्किं च दुरितं मयि ।
यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥२२॥
आपो अद्यान्वचारिषं रसेन समगस्महि ।
पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥२३॥
सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥२४॥
कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम ।
को नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥१॥
अग्नेर्वयं प्रथमस्यामृतानां मनामहे चारु देवस्य नाम ।
स नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥२॥
अभि त्वा देव सवितरीशानं वार्याणाम् ।
भगभक्तस्य ते वयमुदशेम तवावसा ।
नहि ते क्षत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः ।
नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य प्रमिनन्त्यभ्वम् ॥६॥
अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः ।
नीचीना स्थुरुपरि बुध्न एषामस्मे अन्तर्निहिताः केतवः स्युः ॥७॥
उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ ।
अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित् ॥८॥
शतं ते राजन्भिषजः सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु ।
बाधस्व दूरे निरृतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत् ॥९॥
अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्दिवेयुः ।
अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्तमेति ॥१०॥
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः ।
तदिन्नक्तं तद्दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे ।
शुनःशेपो यमह्वद्गृभीतः सो अस्मान्राजा वरुणो मुमोक्तु ॥१२॥
शुनःशेपो ह्यह्वद्गृभीतस्त्रिष्वादित्यं द्रुपदेषु बद्धः ।
अवैनं राजा वरुणः ससृज्याद्विद्वाँ अदब्धो वि मुमोक्तु पाशान् ॥१३॥
अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः ।
क्षयन्नस्मभ्यमसुर प्रचेता राजन्नेनांसि शिश्रथः कृतानि ॥१४॥
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।
अथा वयमादित्य व्रते तवानागसो अदितये स्याम ॥१५॥
यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् ।
मा नो वधाय हत्नवे जिहीळानस्य रीरधः ।
वि मृळीकाय ते मनो रथीरश्वं न संदितम् ।
परा हि मे विमन्यवः पतन्ति वस्यइष्टये ।
कदा क्षत्रश्रियं नरमा वरुणं करामहे ।
तदित्समानमाशाते वेनन्ता न प्र युच्छतः ।
वेदा यो वीनां पदमन्तरिक्षेण पतताम् ।
वेद मासो धृतव्रतो द्वादश प्रजावतः ।
वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः ।
नि षसाद धृतव्रतो वरुणः पस्त्यास्वा ।
अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति ।
कृतानि या च कर्त्वा ॥११॥
स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत् ।
प्र ण आयूंषि तारिषत् ॥१२॥
बिभ्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् ।
परि स्पशो नि षेदिरे ॥१३॥
न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् ।
परा मे यन्ति धीतयो गावो न गव्यूतीरनु ।
सं नु वोचावहै पुनर्यतो मे मध्वाभृतम् ।
दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि ।
एता जुषत मे गिरः ॥१८॥
इमं मे वरुण श्रुधी हवमद्या च मृळय ।
त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि ।
स यामनि प्रति श्रुधि ॥२०॥
उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत ।
वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते ।
सेमं नो अध्वरं यज ॥१॥
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः ।
आ हि ष्मा सूनवे पितापिर्यजत्यापये ।
पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च ।
इमा उ षु श्रुधी गिरः ॥५॥
यच्चिद्धि शश्वता तना देवंदेवं यजामहे ।
प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः ।
स्वग्नयो हि वार्यं देवासो दधिरे च नः ।
अथा न उभयेषाममृत मर्त्यानाम् ।
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः ।
चनो धाः सहसो यहो ॥१०॥
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः ।
स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः ।
स नो दूराच्चासाच्च नि मर्त्यादघायोः ।
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् ।
अग्ने देवेषु प्र वोचः ॥४॥
आ नो भज परमेष्वा वाजेषु मध्यमेषु ।
यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः ।
नकिरस्य सहन्त्य पर्येता कयस्य चित् ।
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता ।
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।
स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः ।
स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः ।
यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः ॥१३॥
यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे ।
यत्र द्वाविव जघनाधिषवण्या कृता ।
यत्र नार्यपच्यवमुपच्यवं च शिक्षते ।
यत्र मन्थां विबध्नते रश्मीन्यमितवा इव ।
यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे ।
इह द्युमत्तमं वद जयतामिव दुन्दुभिः ॥५॥
उत स्म ते वनस्पते वातो वि वात्यग्रमित् ।
ता नो अद्य वनस्पती ऋष्वावृष्वेभिः सोतृभिः ।
यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥१॥
शिप्रिन्वाजानां पते शचीवस्तव दंसना ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥२॥
नि ष्वापया मिथूदृशा सस्तामबुध्यमाने ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥३॥
ससन्तु त्या अरातयो बोधन्तु शूर रातयः ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥४॥
समिन्द्र गर्दभं मृण नुवन्तं पापयामुया ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥५॥
पताति कुण्डृणाच्या दूरं वातो वनादधि ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥६॥
सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥७॥
अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती ।
अश्विना पुरुदंससा नरा शवीरया धिया ।
दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः ।
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ।
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।
इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ।
ओमासश्चर्षणीधृतो विश्वे देवास आ गत ।
विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः ।
विश्वे देवासो अस्रिध एहिमायासो अद्रुहः ।
पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।
महो अर्णः सरस्वती प्र चेतयति केतुना ।
धियो विश्वा वि राजति ॥१२॥
आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् ।
शतं वा यः शुचीनां सहस्रं वा समाशिराम् ।
एदु निम्नं न रीयते ॥२॥
सं यन्मदाय शुष्मिण एना ह्यस्योदरे ।
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो ।
योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।
अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।
यं ते पूर्वं पिता हुवे ॥९॥
तं त्वा वयं विश्ववारा शास्महे पुरुहूत ।
अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् ।
तथा तदस्तु सोमपाः सखे वज्रिन्तथा कृणु ।
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
आ घ त्वावान्त्मनाप्त स्तोतृभ्यो धृष्णवियानः ।
आ यद्दुवः शतक्रतवा कामं जरितॄणाम् ।
शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि ।
स नो हिरण्यरथं दंसनावान्स नः सनिता सनये स नोऽदात् ॥१६॥
समानयोजनो हि वां रथो दस्रावमर्त्यः ।
न्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः ।
कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये ।
वयं हि ते अमन्मह्यान्तादा पराकात् ।
अश्वे न चित्रे अरुषि ॥२१॥
त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः ।
अस्मे रयिं नि धारय ॥२२॥
त्वमग्ने प्रथमो अङ्गिरा ऋषिर्देवो देवानामभवः शिवः सखा ।
तव व्रते कवयो विद्मनापसोऽजायन्त मरुतो भ्राजदृष्टयः ॥१॥
त्वमग्ने प्रथमो अङ्गिरस्तमः कविर्देवानां परि भूषसि व्रतम् ।
विभुर्विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिदायवे ॥२॥
त्वमग्ने प्रथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते ।
अरेजेतां रोदसी होतृवूर्येऽसघ्नोर्भारमयजो महो वसो ॥३॥
त्वमग्ने मनवे द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः ।
श्वात्रेण यत्पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्नापरं पुनः ॥४॥
त्वमग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः ।
य आहुतिं परि वेदा वषट्कृतिमेकायुरग्रे विश आविवाससि ॥५॥
त्वमग्ने वृजिनवर्तनिं नरं सक्मन्पिपर्षि विदथे विचर्षणे ।
यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित्समृता हंसि भूयसः ॥६॥
त्वं तमग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवेदिवे ।
यस्तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये ॥७॥
त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः ।
ऋध्याम कर्मापसा नवेन देवैर्द्यावापृथिवी प्रावतं नः ॥८॥
त्वं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जागृविः ।
तनूकृद्बोधि प्रमतिश्च कारवे त्वं कल्याण वसु विश्वमोपिषे ॥९॥
त्वमग्ने प्रमतिस्त्वं पितासि नस्त्वं वयस्कृत्तव जामयो वयम् ।
सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपामदाभ्य ॥१०॥
त्वामग्ने प्रथममायुमायवे देवा अकृण्वन्नहुषस्य विश्पतिम् ।
इळामकृण्वन्मनुषस्य शासनीं पितुर्यत्पुत्रो ममकस्य जायते ॥११॥
त्वं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य ।
त्राता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव व्रते ॥१२॥
त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय चतुरक्ष इध्यसे ।
यो रातहव्योऽवृकाय धायसे कीरेश्चिन्मन्त्रं मनसा वनोषि तम् ॥१३॥
त्वमग्न उरुशंसाय वाघते स्पार्हं यद्रेक्णः परमं वनोषि तत् ।
आध्रस्य चित्प्रमतिरुच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः ॥१४॥
त्वमग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतं परि पासि विश्वतः ।
स्वादुक्षद्मा यो वसतौ स्योनकृज्जीवयाजं यजते सोपमा दिवः ॥१५॥
इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरात् ।
आपिः पिता प्रमतिः सोम्यानां भृमिरस्यृषिकृन्मर्त्यानाम् ॥१६॥
मनुष्वदग्ने अङ्गिरस्वदङ्गिरो ययातिवत्सदने पूर्ववच्छुचे ।
अच्छ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च प्रियम् ॥१७॥
एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा ।
उत प्र णेष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्या ॥१८॥
इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री ।
अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥१॥
अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥२॥
आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम् ॥३॥
आत्सूर्यं जनयन्द्यामुषासं तादीत्ना शत्रुं न किला विवित्से ॥४॥
अहन्वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन ।
स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः ॥५॥
अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधमृजीषम् ।
नातारीदस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥६॥
अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान ।
वृष्णो वध्रिः प्रतिमानं बुभूषन्पुरुत्रा वृत्रो अशयद्व्यस्तः ॥७॥
नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः ।
याश्चिद्वृत्रो महिना पर्यतिष्ठत्तासामहिः पत्सुतःशीर्बभूव ॥८॥
नीचावया अभवद्वृत्रपुत्रेन्द्रो अस्या अव वधर्जभार ।
उत्तरा सूरधरः पुत्र आसीद्दानुः शये सहवत्सा न धेनुः ॥९॥
अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् ।
वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ॥१०॥
दासपत्नीरहिगोपा अतिष्ठन्निरुद्धा आपः पणिनेव गावः ।
अपां बिलमपिहितं यदासीद्वृत्रं जघन्वाँ अप तद्ववार ॥११॥
अश्व्यो वारो अभवस्तदिन्द्र सृके यत्त्वा प्रत्यहन्देव एकः ।
अजयो गा अजयः शूर सोममवासृजः सर्तवे सप्त सिन्धून् ॥१२॥
नास्मै विद्युन्न तन्यतुः सिषेध न यां मिहमकिरद्ध्रादुनिं च ।
इन्द्रश्च यद्युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये ॥१३॥
अहेर्यातारं कमपश्य इन्द्र हृदि यत्ते जघ्नुषो भीरगच्छत् ।
नव च यन्नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि ॥१४॥
इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।
सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव ॥१५॥
एतायामोप गव्यन्त इन्द्रमस्माकं सु प्रमतिं वावृधाति ।
अनामृणः कुविदादस्य रायो गवां केतं परमावर्जते नः ॥१॥
उपेदहं धनदामप्रतीतं जुष्टां न श्येनो वसतिं पतामि ।
इन्द्रं नमस्यन्नुपमेभिरर्कैर्य स्तोतृभ्यो हव्यो अस्ति यामन् ॥२॥
नि सर्वसेन इषुधीँरसक्त समर्यो गा अजति यस्य वष्टि ।
चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि प्रवृद्ध ॥३॥
वधीर्हि दस्युं धनिनं घनेनँ एकश्चरन्नुपशाकेभिरिन्द्र ।
धनोरधि विषुणक्ते व्यायन्नयज्वानः सनकाः प्रेतिमीयुः ॥४॥
परा चिच्छीर्षा ववृजुस्त इन्द्रायज्वानो यज्वभि स्पर्धमानाः ।
प्र यद्दिवो हरिव स्थातरुग्र निरव्रताँ अधमो रोदस्योः ॥५॥
अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः ।
वृषायुधो न वध्रयो निरष्टाः प्रवद्भिरिन्द्राच्चितयन्त आयन् ॥६॥
त्वमेतान्रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे ।
अवादहो दिव आ दस्युमुच्चा प्र सुन्वत स्तुवतः शंसमावः ॥७॥
चक्राणासः परीणहं पृथिव्या हिरण्येन मणिना शुम्भमानाः ।
न हिन्वानासस्तितिरुस्त इन्द्रं परि स्पशो अदधात्सूर्येण ॥८॥
परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम् ।
अमन्यमानाँ अभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र ॥९॥
न ये दिवः पृथिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन् ।
युजं वज्रं वृषभश्चक्र इन्द्रो निर्ज्योतिषा तमसो गा अदुक्षत् ॥१०॥
अनु स्वधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम् ।
सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि द्यून् ॥११॥
न्याविध्यदिलीबिशस्य दृळ्हा वि शृङ्गिणमभिनच्छुष्णमिन्द्रः ।
यावत्तरो मघवन्यावदोजो वज्रेण शत्रुमवधीः पृतन्युम् ॥१२॥
अभि सिध्मो अजिगादस्य शत्रून्वि तिग्मेन वृषभेणा पुरोऽभेत् ।
सं वज्रेणासृजद्वृत्रमिन्द्रः प्र स्वां मतिमतिरच्छाशदानः ॥१३॥
आवः कुत्समिन्द्र यस्मिञ्चाकन्प्रावो युध्यन्तं वृषभं दशद्युम् ।
शफच्युतो रेणुर्नक्षत द्यामुच्छ्वैत्रेयो नृषाह्याय तस्थौ ॥१४॥
आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ्छ्वित्र्यं गाम् ।
ज्योक्चिदत्र तस्थिवांसो अक्रञ्छत्रूयतामधरा वेदनाकः ॥१५॥
त्रिश्चिन्नो अद्या भवतं नवेदसा विभुर्वां याम उत रातिरश्विना ।
युवोर्हि यन्त्रं हिम्येव वाससोऽभ्यायंसेन्या भवतं मनीषिभिः ॥१॥
त्रयः पवयो मधुवाहने रथे सोमस्य वेनामनु विश्व इद्विदुः ।
त्रय स्कम्भास स्कभितास आरभे त्रिर्नक्तं याथस्त्रिर्वश्विना दिवा ॥२॥
समाने अहन्त्रिरवद्यगोहना त्रिरद्य यज्ञं मधुना मिमिक्षतम् ।
त्रिर्वाजवतीरिषो अश्विना युवं दोषा अस्मभ्यमुषसश्च पिन्वतम् ॥३॥
त्रिर्वर्तिर्यातं त्रिरनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् ।
त्रिर्नान्द्यं वहतमश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ॥४॥
त्रिर्नो रयिं वहतमश्विना युवं त्रिर्देवताता त्रिरुतावतं धियः ।
त्रिः सौभगत्वं त्रिरुत श्रवांसि नस्त्रिष्ठं वां सूरे दुहिता रुहद्रथम् ॥५॥
त्रिर्नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिरु दत्तमद्भ्यः ।
ओमानं शंयोर्ममकाय सूनवे त्रिधातु शर्म वहतं शुभस्पती ॥६॥
त्रिर्नो अश्विना यजता दिवेदिवे परि त्रिधातु पृथिवीमशायतम् ।
तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् ॥७॥
त्रिरश्विना सिन्धुभिः सप्तमातृभिस्त्रय आहावास्त्रेधा हविष्कृतम् ।
तिस्रः पृथिवीरुपरि प्रवा दिवो नाकं रक्षेथे द्युभिरक्तुभिर्हितम् ॥८॥
कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥९॥
आ नासत्या गच्छतं हूयते हविर्मध्वः पिबतं मधुपेभिरासभिः ।
युवोर्हि पूर्वं सवितोषसो रथमृताय चित्रं घृतवन्तमिष्यति ॥१०॥
आ नासत्या त्रिभिरेकादशैरिह देवेभिर्यातं मधुपेयमश्विना ।
प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥११॥
आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम् ।
शृण्वन्ता वामवसे जोहवीमि वृधे च नो भवतं वाजसातौ ॥१२॥
ह्वयाम्यग्निं प्रथमं स्वस्तये ह्वयामि मित्रावरुणाविहावसे ।
ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारमूतये ॥१॥
आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥२॥
याति देवः प्रवता यात्युद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् ।
आ देवो याति सविता परावतोऽप विश्वा दुरिता बाधमानः ॥३॥
अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् ।
आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥४॥
वि जनाञ्छ्यावाः शितिपादो अख्यन्रथं हिरण्यप्रउगं वहन्तः ।
शश्वद्विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥५॥
तिस्रो द्यावः सवितुर्द्वा उपस्थाँ एका यमस्य भुवने विराषाट् ।
आणिं न रथ्यममृताधि तस्थुरिह ब्रवीतु य उ तच्चिकेतत् ॥६॥
वि सुपर्णो अन्तरिक्षाण्यख्यद्गभीरवेपा असुरः सुनीथः ।
क्वेदानीं सूर्यः कश्चिकेत कतमां द्यां रश्मिरस्या ततान ॥७॥
अष्टौ व्यख्यत्ककुभः पृथिव्यास्त्री धन्व योजना सप्त सिन्धून् ।
हिरण्याक्षः सविता देव आगाद्दधद्रत्ना दाशुषे वार्याणि ॥८॥
हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते ।
अपामीवां बाधते वेति सूर्यमभि कृष्णेन रजसा द्यामृणोति ॥९॥
हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववाँ यात्वर्वाङ् ।
अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः ॥१०॥
ये ते पन्थाः सवितः पूर्व्यासोऽरेणवः सुकृता अन्तरिक्षे ।
तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव ॥११॥
प्र वो यह्वं पुरूणां विशां देवयतीनाम् ।
अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते ॥१॥
जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते ।
स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ॥२॥
प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् ।
महस्ते सतो वि चरन्त्यर्चयो दिवि स्पृशन्ति भानवः ॥३॥
देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं प्रत्नमिन्धते ।
विश्वं सो अग्ने जयति त्वया धनं यस्ते ददाश मर्त्यः ॥४॥
मन्द्रो होता गृहपतिरग्ने दूतो विशामसि ।
त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत ॥५॥
त्वे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः ।
स त्वं नो अद्य सुमना उतापरं यक्षि देवान्सुवीर्या ॥६॥
तं घेमित्था नमस्विन उप स्वराजमासते ।
होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति स्रिधः ॥७॥
घ्नन्तो वृत्रमतरन्रोदसी अप उरु क्षयाय चक्रिरे ।
भुवत्कण्वे वृषा द्युम्न्याहुतः क्रन्ददश्वो गविष्टिषु ॥८॥
सं सीदस्व महाँ असि शोचस्व देववीतमः ।
वि धूममग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् ॥९॥
यं त्वा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन ।
यं कण्वो मेध्यातिथिर्धनस्पृतं यं वृषा यमुपस्तुतः ॥१०॥
यमग्निं मेध्यातिथिः कण्व ईध ऋतादधि ।
तस्य प्रेषो दीदियुस्तमिमा ऋचस्तमग्निं वर्धयामसि ॥११॥
रायस्पूर्धि स्वधावोऽस्ति हि तेऽग्ने देवेष्वाप्यम् ।
त्वं वाजस्य श्रुत्यस्य राजसि स नो मृळ महाँ असि ॥१२॥
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता ।
ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ॥१३॥
ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह ।
कृधी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः ॥१४॥
पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः ।
पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य ॥१५॥
घनेव विष्वग्वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक् ।
यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत ॥१६॥
अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम् ।
अग्निः प्रावन्मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम् ॥१७॥
अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे ।
अग्निर्नयन्नववास्त्वं बृहद्रथं तुर्वीतिं दस्यवे सहः ॥१८॥
दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥१९॥
त्वेषासो अग्नेरमवन्तो अर्चयो भीमासो न प्रतीतये ।
रक्षस्विनः सदमिद्यातुमावतो विश्वं समत्रिणं दह ॥२०॥
क्रीळं वः शर्धो मारुतमनर्वाणं रथेशुभम् ।
ये पृषतीभिरृष्टिभिः साकं वाशीभिरञ्जिभिः ।
इहेव शृण्व एषां कशा हस्तेषु यद्वदान् ।
प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे ।
प्र शंसा गोष्वघ्न्यं क्रीळं यच्छर्धो मारुतम् ।
को वो वर्षिष्ठ आ नरो दिवश्च ग्मश्च धूतयः ।
येषामज्मेषु पृथिवी जुजुर्वाँ इव विश्पतिः ।
स्थिरं हि जानमेषां वयो मातुर्निरेतवे ।
उदु त्ये सूनवो गिरः काष्ठा अज्मेष्वत्नत ।
त्यं चिद्घा दीर्घं पृथुं मिहो नपातममृध्रम् ।
यद्ध यान्ति मरुतः सं ह ब्रुवतेऽध्वन्ना ।
प्र यात शीभमाशुभिः सन्ति कण्वेषु वो दुवः ।
अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयमेषाम् ।
प्र यदित्था परावतः शोचिर्न मानमस्यथ ।
कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥१॥
स्थिरा वः सन्त्वायुधा पराणुदे वीळू उत प्रतिष्कभे ।
युष्माकमस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥२॥
परा ह यत्स्थिरं हथ नरो वर्तयथा गुरु ।
वि याथन वनिनः पृथिव्या व्याशाः पर्वतानाम् ॥३॥
नहि वः शत्रुर्विविदे अधि द्यवि न भूम्यां रिशादसः ।
युष्माकमस्तु तविषी तना युजा रुद्रासो नू चिदाधृषे ॥४॥
प्र वेपयन्ति पर्वतान्वि विञ्चन्ति वनस्पतीन् ।
प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥५॥
उपो रथेषु पृषतीरयुग्ध्वं प्रष्टिर्वहति रोहितः ।
आ वो यामाय पृथिवी चिदश्रोदबीभयन्त मानुषाः ॥६॥
गन्ता नूनं नोऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥७॥
युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते ।
वि तं युयोत शवसा व्योजसा वि युष्माकाभिरूतिभिः ॥८॥
असामि हि प्रयज्यवः कण्वं दद प्रचेतसः ।
असामिभिर्मरुत आ न ऊतिभिर्गन्ता वृष्टिं न विद्युतः ॥९॥
असाम्योजो बिभृथा सुदानवोऽसामि धूतयः शवः ।
ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ॥१०॥
उप नः सवना गहि सोमस्य सोमपाः पिब ।
अथा ते अन्तमानां विद्याम सुमतीनाम् ।
परेहि विग्रमस्तृतमिन्द्रं पृच्छा विपश्चितम् ।
यस्ते सखिभ्य आ वरम् ॥४॥
उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत ।
उत नः सुभगाँ अरिर्वोचेयुर्दस्म कृष्टयः ।
एमाशुमाशवे भर यज्ञश्रियं नृमादनम् ।
अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः ।
तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो ।
यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचा ॥१॥
त्वामिद्धि सहसस्पुत्र मर्त्य उपब्रूते धने हिते ।
सुवीर्यं मरुत आ स्वश्व्यं दधीत यो व आचके ॥२॥
प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता ।
अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥३॥
यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः ।
तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम् ॥४॥
प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् ।
तमिद्वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम् ।
इमां च वाचं प्रतिहर्यथा नरो विश्वेद्वामा वो अश्नवत् ॥६॥
को देवयन्तमश्नवज्जनं को वृक्तबर्हिषम् ।
उप क्षत्रं पृञ्चीत हन्ति राजभिर्भये चित्सुक्षितिं दधे ।
नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ॥८॥
यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा ।
नू चित्स दभ्यते जनः ॥१॥
यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः ।
वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् ।
सुगः पन्था अनृक्षर आदित्यास ऋतं यते ।
यं यज्ञं नयथा नर आदित्या ऋजुना पथा ।
प्र वः स धीतये नशत् ॥५॥
स रत्नं मर्त्यो वसु विश्वं तोकमुत त्मना ।
कथा राधाम सखाय स्तोमं मित्रस्यार्यम्णः ।
मा वो घ्नन्तं मा शपन्तं प्रति वोचे देवयन्तम् ।
सं पूषन्नध्वनस्तिर व्यंहो विमुचो नपात् ।
सक्ष्वा देव प्र णस्पुरः ॥१॥
यो नः पूषन्नघो वृको दुःशेव आदिदेशति ।
अप स्म तं पथो जहि ॥२॥
अप त्यं परिपन्थिनं मुषीवाणं हुरश्चितम् ।
त्वं तस्य द्वयाविनोऽघशंसस्य कस्य चित् ।
आ तत्ते दस्र मन्तुमः पूषन्नवो वृणीमहे ।
अधा नो विश्वसौभग हिरण्यवाशीमत्तम ।
अति नः सश्चतो नय सुगा नः सुपथा कृणु ।
अभि सूयवसं नय न नवज्वारो अध्वने ।
शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्युदरम् ।
न पूषणं मेथामसि सूक्तैरभि गृणीमसि ।
यथा नो अदितिः करत्पश्वे नृभ्यो यथा गवे ।
यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति ।
गाथपतिं मेधपतिं रुद्रं जलाषभेषजम् ।
यः शुक्र इव सूर्यो हिरण्यमिव रोचते ।
शं नः करत्यर्वते सुगं मेषाय मेष्ये ।
अस्मे सोम श्रियमधि नि धेहि शतस्य नृणाम् ।
यास्ते प्रजा अमृतस्य परस्मिन्धामन्नृतस्य ।
मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥९॥
अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य ।
आ दाशुषे जातवेदो वहा त्वमद्या देवाँ उषर्बुधः ॥१॥
जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् ।
सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥२॥
अद्या दूतं वृणीमहे वसुमग्निं पुरुप्रियम् ।
धूमकेतुं भाऋजीकं व्युष्टिषु यज्ञानामध्वरश्रियम् ॥३॥
श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे ।
देवाँ अच्छा यातवे जातवेदसमग्निमीळे व्युष्टिषु ॥४॥
स्तविष्यामि त्वामहं विश्वस्यामृत भोजन ।
अग्ने त्रातारममृतं मियेध्य यजिष्ठं हव्यवाहन ॥५॥
सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः ।
प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम् ॥६॥
होतारं विश्ववेदसं सं हि त्वा विश इन्धते ।
स आ वह पुरुहूत प्रचेतसोऽग्ने देवाँ इह द्रवत् ॥७॥
सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः ।
कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥८॥
उषर्बुध आ वह सोमपीतये देवाँ अद्य स्वर्दृशः ॥९॥
अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः ।
असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः ॥१०॥
नि त्वा यज्ञस्य साधनमग्ने होतारमृत्विजम् ।
मनुष्वद्देव धीमहि प्रचेतसं जीरं दूतममर्त्यम् ॥११॥
यद्देवानां मित्रमहः पुरोहितोऽन्तरो यासि दूत्यम् ।
सिन्धोरिव प्रस्वनितास ऊर्मयोऽग्नेर्भ्राजन्ते अर्चयः ॥१२॥
श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः ।
आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥१३॥
शृण्वन्तु स्तोमं मरुतः सुदानवोऽग्निजिह्वा ऋतावृधः ।
पिबतु सोमं वरुणो धृतव्रतोऽश्विभ्यामुषसा सजूः ॥१४॥
यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् ॥१॥
श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः ।
अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवम् ॥३॥
महिकेरव ऊतये प्रियमेधा अहूषत ।
घृताहवन सन्त्येमा उ षु श्रुधी गिरः ।
याभिः कण्वस्य सूनवो हवन्तेऽवसे त्वा ॥५॥
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।
शोचिष्केशं पुरुप्रियाग्ने हव्याय वोळ्हवे ॥६॥
नि त्वा होतारमृत्विजं दधिरे वसुवित्तमम् ।
श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ॥७॥
आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः ।
बृहद्भा बिभ्रतो हविरग्ने मर्ताय दाशुषे ॥८॥
प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य ।
इहाद्य दैव्यं जनं बर्हिरा सादया वसो ॥९॥
अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः ।
अयं सोमः सुदानवस्तं पात तिरोअह्न्यम् ॥१०॥
एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः ।
या दस्रा सिन्धुमातरा मनोतरा रयीणाम् ।
वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि ।
हविषा जारो अपां पिपर्ति पपुरिर्नरा ।
आदारो वां मतीनां नासत्या मतवचसा ।
या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः ।
आ नो नावा मतीनां यातं पाराय गन्तवे ।
अरित्रं वां दिवस्पृथु तीर्थे सिन्धूनां रथः ।
दिवस्कण्वास इन्दवो वसु सिन्धूनां पदे ।
स्वं वव्रिं कुह धित्सथः ॥९॥
अभूदु भा उ अंशवे हिरण्यं प्रति सूर्यः ।
अभूदु पारमेतवे पन्था ऋतस्य साधुया ।
तत्तदिदश्विनोरवो जरिता प्रति भूषति ।
वावसाना विवस्वति सोमस्य पीत्या गिरा ।
युवोरुषा अनु श्रियं परिज्मनोरुपाचरत् ।
उभा पिबतमश्विनोभा नः शर्म यच्छतम् ।
अयं वां मधुमत्तमः सुतः सोम ऋतावृधा ।
तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ॥१॥
त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातमश्विना ।
कण्वासो वां ब्रह्म कृण्वन्त्यध्वरे तेषां सु शृणुतं हवम् ॥२॥
अश्विना मधुमत्तमं पातं सोममृतावृधा ।
अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गच्छतम् ॥३॥
त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम् ।
कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥४॥
याभिः कण्वमभिष्टिभिः प्रावतं युवमश्विना ।
ताभिः ष्वस्माँ अवतं शुभस्पती पातं सोममृतावृधा ॥५॥
रयिं समुद्रादुत वा दिवस्पर्यस्मे धत्तं पुरुस्पृहम् ॥६॥
यन्नासत्या परावति यद्वा स्थो अधि तुर्वशे ।
अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥७॥
अर्वाञ्चा वां सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप ।
इषं पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ॥८॥
तेन नासत्या गतं रथेन सूर्यत्वचा ।
येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये ॥९॥
उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि ह्वयामहे ।
शश्वत्कण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना ॥१०॥
सह वामेन न उषो व्युच्छा दुहितर्दिवः ।
सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥१॥
अश्वावतीर्गोमतीर्विश्वसुविदो भूरि च्यवन्त वस्तवे ।
उदीरय प्रति मा सूनृता उषश्चोद राधो मघोनाम् ॥२॥
उवासोषा उच्छाच्च नु देवी जीरा रथानाम् ।
ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥३॥
अत्राह तत्कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥४॥
जरयन्ती वृजनं पद्वदीयत उत्पातयति पक्षिणः ॥५॥
वि या सृजति समनं व्यर्थिनः पदं न वेत्योदती ।
वयो नकिष्टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥६॥
शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान् ॥७॥
विश्वमस्या नानाम चक्षसे जगज्ज्योतिष्कृणोति सूनरी ।
अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप स्रिधः ॥८॥
उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः ।
आवहन्ती भूर्यस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥९॥
विश्वस्य हि प्राणनं जीवनं त्वे वि यदुच्छसि सूनरि ।
सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥१०॥
उषो वाजं हि वंस्व यश्चित्रो मानुषे जने ।
तेना वह सुकृतो अध्वराँ उप ये त्वा गृणन्ति वह्नयः ॥११॥
विश्वान्देवाँ आ वह सोमपीतयेऽन्तरिक्षादुषस्त्वम् ।
सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम् ॥१२॥
यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत ।
सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम् ॥१३॥
ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि ।
सा न स्तोमाँ अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥१४॥
उषो यदद्य भानुना वि द्वारावृणवो दिवः ।
प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः ॥१५॥
सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा ।
सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥१६॥
उषो भद्रेभिरा गहि दिवश्चिद्रोचनादधि ।
वहन्त्वरुणप्सव उप त्वा सोमिनो गृहम् ॥१॥
सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम् ।
तेना सुश्रवसं जनं प्रावाद्य दुहितर्दिवः ॥२॥
उषः प्रारन्नृतूँरनु दिवो अन्तेभ्यस्परि ॥३॥
व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् ।
तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत ॥४॥
आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ।
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।
आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।
शं ते सन्तु प्रचेतसे ॥७॥
त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो ।
त्वां वर्धन्तु नो गिरः ॥८॥
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् ।
मा नो मर्ता अभि द्रुहन्तनूनामिन्द्र गिर्वणः ।
उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।
अदृश्रमस्य केतवो वि रश्मयो जनाँ अनु ।
प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषान् ।
येना पावक चक्षसा भुरण्यन्तं जनाँ अनु ।
वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः ।
सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥१०॥
उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् ।
हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥११॥
शुकेषु मे हरिमाणं रोपणाकासु दध्मसि ।
अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥१२॥
उदगादयमादित्यो विश्वेन सहसा सह ।
द्विषन्तं मह्यं रन्धयन्मो अहं द्विषते रधम् ॥१३॥
अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् ।
यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत ॥१॥
इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत् ॥२॥
त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये शतदुरेषु गातुवित् ।
ससेन चिद्विमदायावहो वस्वाजावद्रिं वावसानस्य नर्तयन् ॥३॥
वृत्रं यदिन्द्र शवसावधीरहिमादित्सूर्यं दिव्यारोहयो दृशे ॥४॥
त्वं मायाभिरप मायिनोऽधमः स्वधाभिर्ये अधि शुप्तावजुह्वत ।
त्वं पिप्रोर्नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्वाविथ ॥५॥
त्वं कुत्सं शुष्णहत्येष्वाविथारन्धयोऽतिथिग्वाय शम्बरम् ।
महान्तं चिदर्बुदं नि क्रमीः पदा सनादेव दस्युहत्याय जज्ञिषे ॥६॥
त्वे विश्वा तविषी सध्र्यग्घिता तव राधः सोमपीथाय हर्षते ।
तव वज्रश्चिकिते बाह्वोर्हितो वृश्चा शत्रोरव विश्वानि वृष्ण्या ॥७॥
वि जानीह्यार्यान्ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान् ।
शाकी भव यजमानस्य चोदिता विश्वेत्ता ते सधमादेषु चाकन ॥८॥
वृद्धस्य चिद्वर्धतो द्यामिनक्षत स्तवानो वम्रो वि जघान संदिहः ॥९॥
तक्षद्यत्त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः ।
आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणमवहन्नभि श्रवः ॥१०॥
मन्दिष्ट यदुशने काव्ये सचाँ इन्द्रो वङ्कू वङ्कुतराधि तिष्ठति ।
उग्रो ययिं निरपः स्रोतसासृजद्वि शुष्णस्य दृंहिता ऐरयत्पुरः ॥११॥
आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे ।
इन्द्र यथा सुतसोमेषु चाकनोऽनर्वाणं श्लोकमा रोहसे दिवि ॥१२॥
अददा अर्भां महते वचस्यवे कक्षीवते वृचयामिन्द्र सुन्वते ।
इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः ।
अश्वयुर्गव्यू रथयुर्वसूयुरिन्द्र इद्रायः क्षयति प्रयन्ता ॥१४॥
इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसेऽवाचि ।
अस्मिन्निन्द्र वृजने सर्ववीराः स्मत्सूरिभिस्तव शर्मन्स्याम ॥१५॥
त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते ।
अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥१॥
स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वावृधे ।
इन्द्रो यद्वृत्रमवधीन्नदीवृतमुब्जन्नर्णांसि जर्हृषाणो अन्धसा ॥२॥
स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः ।
इन्द्रं तमह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः ॥३॥
आ यं पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः ।
तं वृत्रहत्ये अनु तस्थुरूतयः शुष्मा इन्द्रमवाता अह्रुतप्सवः ॥४॥
अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव प्रवणे सस्रुरूतयः ।
इन्द्रो यद्वज्री धृषमाणो अन्धसा भिनद्वलस्य परिधीँरिव त्रितः ॥५॥
परीं घृणा चरति तित्विषे शवोऽपो वृत्वी रजसो बुध्नमाशयत् ।
वृत्रस्य यत्प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम् ॥६॥
ह्रदं न हि त्वा न्यृषन्त्यूर्मयो ब्रह्माणीन्द्र तव यानि वर्धना ।
त्वष्टा चित्ते युज्यं वावृधे शवस्ततक्ष वज्रमभिभूत्योजसम् ॥७॥
जघन्वाँ उ हरिभिः सम्भृतक्रतविन्द्र वृत्रं मनुषे गातुयन्नपः ।
अयच्छथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दृशे ॥८॥
बृहत्स्वश्चन्द्रममवद्यदुक्थ्यमकृण्वत भियसा रोहणं दिवः ।
यन्मानुषप्रधना इन्द्रमूतयः स्वर्नृषाचो मरुतोऽमदन्ननु ॥९॥
द्यौश्चिदस्यामवाँ अहेः स्वनादयोयवीद्भियसा वज्र इन्द्र ते ।
वृत्रस्य यद्बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः ॥१०॥
यदिन्न्विन्द्र पृथिवी दशभुजिरहानि विश्वा ततनन्त कृष्टयः ।
अत्राह ते मघवन्विश्रुतं सहो द्यामनु शवसा बर्हणा भुवत् ॥११॥
त्वमस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः ।
चकृषे भूमिं प्रतिमानमोजसोऽपः स्वः परिभूरेष्या दिवम् ॥१२॥
त्वं भुवः प्रतिमानं पृथिव्या ऋष्ववीरस्य बृहतः पतिर्भूः ।
विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान् ॥१३॥
न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तमानशुः ।
नोत स्ववृष्टिं मदे अस्य युध्यत एको अन्यच्चकृषे विश्वमानुषक् ॥१४॥
आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननु त्वा ।
वृत्रस्य यद्भृष्टिमता वधेन नि त्वमिन्द्र प्रत्यानं जघन्थ ॥१५॥
न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः ।
नू चिद्धि रत्नं ससतामिवाविदन्न दुष्टुतिर्द्रविणोदेषु शस्यते ॥१॥
दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस्पतिः ।
शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि ॥२॥
शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु ।
अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः ॥३॥
एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना ।
इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥४॥
समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः ।
सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥५॥
ते त्वा मदा अमदन्तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते ।
यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥६॥
युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा ।
नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥७॥
त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी ।
त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥८॥
षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् ॥९॥
त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम् ।
त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥१०॥
य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम ।
त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥११॥
मा नो अस्मिन्मघवन्पृत्स्वंहसि नहि ते अन्तः शवसः परीणशे ।
अक्रन्दयो नद्यो रोरुवद्वना कथा न क्षोणीर्भियसा समारत ॥१॥
अर्चा शक्राय शाकिने शचीवते शृण्वन्तमिन्द्रं महयन्नभि ष्टुहि ।
यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते ॥२॥
अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन्मनः ।
बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः ॥३॥
त्वं दिवो बृहतः सानु कोपयोऽव त्मना धृषता शम्बरं भिनत् ।
यन्मायिनो व्रन्दिनो मन्दिना धृषच्छितां गभस्तिमशनिं पृतन्यसि ॥४॥
नि यद्वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद्व्रन्दिनो रोरुवद्वना ।
प्राचीनेन मनसा बर्हणावता यदद्या चित्कृणवः कस्त्वा परि ॥५॥
त्वमाविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यं शतक्रतो ।
त्वं रथमेतशं कृत्व्ये धने त्वं पुरो नवतिं दम्भयो नव ॥६॥
स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः प्रति यः शासमिन्वति ।
उक्था वा यो अभिगृणाति राधसा दानुरस्मा उपरा पिन्वते दिवः ॥७॥
असमं क्षत्रमसमा मनीषा प्र सोमपा अपसा सन्तु नेमे ।
ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च ॥८॥
तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः ।
व्यश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कृष्व ॥९॥
अपामतिष्ठद्धरुणह्वरं तमोऽन्तर्वृत्रस्य जठरेषु पर्वतः ।
अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते ॥१०॥
स शेवृधमधि धा द्युम्नमस्मे महि क्षत्रं जनाषाळिन्द्र तव्यम् ।
रक्षा च नो मघोनः पाहि सूरीन्राये च नः स्वपत्या इषे धाः ॥११॥
दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति ।
भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः ॥१॥
सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः ।
इन्द्रः सोमस्य पीतये वृषायते सनात्स युध्म ओजसा पनस्यते ॥२॥
त्वं तमिन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणामिरज्यसि ।
प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः ॥३॥
स इद्वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् ।
वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनां मघवा यदिन्वति ॥४॥
स इन्महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः ।
अधा चन श्रद्दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् ॥५॥
स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन् ।
ज्योतींषि कृण्वन्नवृकाणि यज्यवेऽव सुक्रतुः सर्तवा अपः सृजत् ॥६॥
दानाय मनः सोमपावन्नस्तु तेऽर्वाञ्चा हरी वन्दनश्रुदा कृधि ।
यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः ॥७॥
अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि श्रुतो दधे ।
आवृतासोऽवतासो न कर्तृभिस्तनूषु ते क्रतव इन्द्र भूरयः ॥८॥
एष प्र पूर्वीरव तस्य चम्रिषोऽत्यो न योषामुदयंस्त भुर्वणिः ।
दक्षं महे पाययते हिरण्ययं रथमावृत्या हरियोगमृभ्वसम् ॥१॥
तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः ।
पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा ॥२॥
स तुर्वणिर्महाँ अरेणु पौंस्ये गिरेर्भृष्टिर्न भ्राजते तुजा शवः ।
येन शुष्णं मायिनमायसो मदे दुध्र आभूषु रामयन्नि दामनि ॥३॥
देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्युषसं न सूर्यः ।
यो धृष्णुना शवसा बाधते तम इयर्ति रेणुं बृहदर्हरिष्वणिः ॥४॥
वि यत्तिरो धरुणमच्युतं रजोऽतिष्ठिपो दिव आतासु बर्हणा ।
स्वर्मीळ्हे यन्मद इन्द्र हर्ष्याहन्वृत्रं निरपामौब्जो अर्णवम् ॥५॥
त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः ।
त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया पाष्यारुजः ॥६॥
प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे ।
अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥१॥
अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः ।
यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥२॥
यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारि हरितो नायसे ॥३॥
नहि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति नो हर्य तद्वचः ॥४॥
भूरि त इन्द्र वीर्यं तव स्मस्यस्य स्तोतुर्मघवन्काममा पृण ।
अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥५॥
त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन्पर्वशश्चकर्तिथ ।
अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥६॥
नू चित्सहोजा अमृतो नि तुन्दते होता यद्दूतो अभवद्विवस्वतः ।
वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति ॥१॥
आ स्वमद्म युवमानो अजरस्तृष्वविष्यन्नतसेषु तिष्ठति ।
अत्यो न पृष्ठं प्रुषितस्य रोचते दिवो न सानु स्तनयन्नचिक्रदत् ॥२॥
क्राणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः ।
रथो न विक्ष्वृञ्जसान आयुषु व्यानुषग्वार्या देव ऋण्वति ॥३॥
वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः ।
तृषु यदग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर ॥४॥
तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वाँ अव वाति वंसगः ।
अभिव्रजन्नक्षितं पाजसा रज स्थातुश्चरथं भयते पतत्रिणः ॥५॥
दधुष्ट्वा भृगवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः ।
होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने ॥६॥
होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते अध्वरेषु ।
अग्निं विश्वेषामरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम् ॥७॥
अग्ने गृणन्तमंहस उरुष्योर्जो नपात्पूर्भिरायसीभिः ॥८॥
भवा वरूथं गृणते विभावो भवा मघवन्मघवद्भ्यः शर्म ।
उरुष्याग्ने अंहसो गृणन्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥९॥
वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते ।
वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनाँ उपमिद्ययन्थ ॥१॥
मूर्धा दिवो नाभिरग्निः पृथिव्या अथाभवदरती रोदस्योः ।
तं त्वा देवासोऽजनयन्त देवं वैश्वानर ज्योतिरिदार्याय ॥२॥
आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरेऽग्ना वसूनि ।
या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा ॥३॥
बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः ।
स्वर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नृतमाय यह्वीः ॥४॥
दिवश्चित्ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् ।
राजा कृष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ ॥५॥
प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्ते ।
वैश्वानरो दस्युमग्निर्जघन्वाँ अधूनोत्काष्ठा अव शम्बरं भेत् ॥६॥
वैश्वानरो महिम्ना विश्वकृष्टिर्भरद्वाजेषु यजतो विभावा ।
शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सूनृतावान् ॥७॥
युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे ।
वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।
देवयन्तो यथा मतिमच्छा विदद्वसुं गिरः ।
इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
अतः परिज्मन्ना गहि दिवो वा रोचनादधि ।
इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।
इन्द्रं महो वा रजसः ॥१०॥
वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् ।
द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा ॥१॥
अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः ।
दिवश्चित्पूर्वो न्यसादि होतापृच्छ्यो विश्पतिर्विक्षु वेधाः ॥२॥
तं नव्यसी हृद आ जायमानमस्मत्सुकीर्तिर्मधुजिह्वमश्याः ।
यमृत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त ॥३॥
उशिक्पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु ।
दमूना गृहपतिर्दम आँ अग्निर्भुवद्रयिपती रयीणाम् ॥४॥
तं त्वा वयं पतिमग्ने रयीणां प्र शंसामो मतिभिर्गोतमासः ।
आशुं न वाजम्भरं मर्जयन्तः प्रातर्मक्षू धियावसुर्जगम्यात् ॥५॥
ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा ॥१॥
अस्मा इदु प्रय इव प्र यंसि भराम्याङ्गूषं बाधे सुवृक्ति ।
इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥२॥
अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन ।
मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥३॥
अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय ।
गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥४॥
अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे ।
वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥५॥
अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय ।
वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः ॥६॥
अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना ।
मुषायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता ॥७॥
अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः ।
परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥८॥
अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात् ।
स्वराळिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥९॥
अस्येदेव शवसा शुषन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः ।
गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥१०॥
अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयच्छत् ।
ईशानकृद्दाशुषे दशस्यन्तुर्वीतये गाधं तुर्वणिः कः ॥११॥
अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः ।
गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै ॥१२॥
अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः ।
युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥१३॥
अस्येदु भिया गिरयश्च दृळ्हा द्यावा च भूमा जनुषस्तुजेते ।
उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः ॥१४॥
प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः ॥१५॥
एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् ।
ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात् ॥१६॥
ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा ॥१॥
अस्मा इदु प्रय इव प्र यंसि भराम्याङ्गूषं बाधे सुवृक्ति ।
इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥२॥
अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन ।
मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥३॥
अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय ।
गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥४॥
अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे ।
वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥५॥
अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय ।
वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः ॥६॥
अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना ।
मुषायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता ॥७॥
अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः ।
परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥८॥
अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात् ।
स्वराळिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥९॥
अस्येदेव शवसा शुषन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः ।
गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥१०॥
अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयच्छत् ।
ईशानकृद्दाशुषे दशस्यन्तुर्वीतये गाधं तुर्वणिः कः ॥११॥
अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः ।
गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै ॥१२॥
अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः ।
युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥१३॥
अस्येदु भिया गिरयश्च दृळ्हा द्यावा च भूमा जनुषस्तुजेते ।
उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः ॥१४॥
प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः ॥१५॥
एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् ।
ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात् ॥१६॥
प्र मन्महे शवसानाय शूषमाङ्गूषं गिर्वणसे अङ्गिरस्वत् ।
सुवृक्तिभि स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय ॥१॥
प्र वो महे महि नमो भरध्वमाङ्गूष्यं शवसानाय साम ।
येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन् ॥२॥
बृहस्पतिर्भिनदद्रिं विदद्गाः समुस्रियाभिर्वावशन्त नरः ॥३॥
स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः ।
सरण्युभिः फलिगमिन्द्र शक्र वलं रवेण दरयो दशग्वैः ॥४॥
गृणानो अङ्गिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः ।
वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः ॥५॥
तदु प्रयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः ।
उपह्वरे यदुपरा अपिन्वन्मध्वर्णसो नद्यश्चतस्रः ॥६॥
द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिरर्कैः ।
भगो न मेने परमे व्योमन्नधारयद्रोदसी सुदंसाः ॥७॥
सनाद्दिवं परि भूमा विरूपे पुनर्भुवा युवती स्वेभिरेवैः ।
सनेमि सख्यं स्वपस्यमानः सूनुर्दाधार शवसा सुदंसाः ।
आमासु चिद्दधिषे पक्वमन्तः पयः कृष्णासु रुशद्रोहिणीषु ॥९॥
सनात्सनीळा अवनीरवाता व्रता रक्षन्ते अमृताः सहोभिः ।
पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति स्वसारो अह्रयाणम् ॥१०॥
सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः ।
पतिं न पत्नीरुशतीरुशन्तं स्पृशन्ति त्वा शवसावन्मनीषाः ॥११॥
सनादेव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म ।
द्युमाँ असि क्रतुमाँ इन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः ॥१२॥
सनायते गोतम इन्द्र नव्यमतक्षद्ब्रह्म हरियोजनाय ।
सुनीथाय नः शवसान नोधाः प्रातर्मक्षू धियावसुर्जगम्यात् ॥१३॥
त्वं महाँ इन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पृथिवी अमे धाः ।
यद्ध ते विश्वा गिरयश्चिदभ्वा भिया दृळ्हासः किरणा नैजन् ॥१॥
आ यद्धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात् ।
येनाविहर्यतक्रतो अमित्रान्पुर इष्णासि पुरुहूत पूर्वीः ॥२॥
त्वं सत्य इन्द्र धृष्णुरेतान्त्वमृभुक्षा नर्यस्त्वं षाट् ।
त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन् ॥३॥
त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद्वज्रिन्वृषकर्मन्नुभ्नाः ।
यद्ध शूर वृषमणः पराचैर्वि दस्यूँर्योनावकृतो वृथाषाट् ॥४॥
त्वं ह त्यदिन्द्रारिषण्यन्दृळ्हस्य चिन्मर्तानामजुष्टौ ।
व्यस्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान् ॥५॥
त्वां ह त्यदिन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते ।
तव स्वधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत् ॥६॥
त्वं ह त्यदिन्द्र सप्त युध्यन्पुरो वज्रिन्पुरुकुत्साय दर्दः ।
बर्हिर्न यत्सुदासे वृथा वर्गंहो राजन्वरिवः पूरवे कः ॥७॥
त्वं त्यां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन् ।
यया शूर प्रत्यस्मभ्यं यंसि त्मनमूर्जं न विश्वध क्षरध्यै ॥८॥
अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम् ।
सुपेशसं वाजमा भरा नः प्रातर्मक्षू धियावसुर्जगम्यात् ॥९॥
वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिं प्र भरा मरुद्भ्यः ।
अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः ॥१॥
ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः ।
पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो घोरवर्पसः ॥२॥
युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव ।
दृळ्हा चिद्विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि मज्मना ॥३॥
चित्रैरञ्जिभिर्वपुषे व्यञ्जते वक्षस्सु रुक्माँ अधि येतिरे शुभे ।
अंसेष्वेषां नि मिमृक्षुरृष्टयः साकं जज्ञिरे स्वधया दिवो नरः ॥४॥
ईशानकृतो धुनयो रिशादसो वातान्विद्युतस्तविषीभिरक्रत ।
दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसा परिज्रयः ॥५॥
पिन्वन्त्यपो मरुतः सुदानवः पयो घृतवद्विदथेष्वाभुवः ।
अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति स्तनयन्तमक्षितम् ॥६॥
महिषासो मायिनश्चित्रभानवो गिरयो न स्वतवसो रघुष्यदः ।
मृगा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम् ॥७॥
सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः ।
क्षपो जिन्वन्तः पृषतीभिरृष्टिभिः समित्सबाधः शवसाहिमन्यवः ॥८॥
रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः ।
आ वन्धुरेष्वमतिर्न दर्शता विद्युन्न तस्थौ मरुतो रथेषु वः ॥९॥
विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः ।
अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वृषखादयो नरः ॥१०॥
हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान् ।
मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः ॥११॥
घृषुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि ।
रजस्तुरं तवसं मारुतं गणमृजीषिणं वृषणं सश्चत श्रिये ॥१२॥
प्र नू स मर्तः शवसा जनाँ अति तस्थौ व ऊती मरुतो यमावत ।
अर्वद्भिर्वाजं भरते धना नृभिरापृच्छ्यं क्रतुमा क्षेति पुष्यति ॥१३॥
चर्कृत्यं मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मं मघवत्सु धत्तन ।
धनस्पृतमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमाः ॥१४॥
नू ष्ठिरं मरुतो वीरवन्तमृतीषाहं रयिमस्मासु धत्त ।
सहस्रिणं शतिनं शूशुवांसं प्रातर्मक्षू धियावसुर्जगम्यात् ॥१५॥
पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम् ॥१॥
सजोषा धीराः पदैरनु ग्मन्नुप त्वा सीदन्विश्वे यजत्राः ॥२॥
ऋतस्य देवा अनु व्रता गुर्भुवत्परिष्टिर्द्यौर्न भूम ॥३॥
वर्धन्तीमापः पन्वा सुशिश्विमृतस्य योना गर्भे सुजातम् ॥४॥
पुष्टिर्न रण्वा क्षितिर्न पृथ्वी गिरिर्न भुज्म क्षोदो न शम्भु ॥५॥
अत्यो नाज्मन्सर्गप्रतक्तः सिन्धुर्न क्षोदः क ईं वराते ॥६॥
जामिः सिन्धूनां भ्रातेव स्वस्रामिभ्यान्न राजा वनान्यत्ति ॥७॥
यद्वातजूतो वना व्यस्थादग्निर्ह दाति रोमा पृथिव्याः ॥८॥
श्वसित्यप्सु हंसो न सीदन्क्रत्वा चेतिष्ठो विशामुषर्भुत् ॥९॥
सोमो न वेधा ऋतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः ॥१०॥
रयिर्न चित्रा सूरो न संदृगायुर्न प्राणो नित्यो न सूनुः ॥१॥
तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा ॥२॥
दाधार क्षेममोको न रण्वो यवो न पक्वो जेता जनानाम् ॥३॥
ऋषिर्न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति ॥४॥
दुरोकशोचिः क्रतुर्न नित्यो जायेव योनावरं विश्वस्मै ॥५॥
चित्रो यदभ्राट् छ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु ॥६॥
सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत्त्वेषप्रतीका ॥७॥
यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम् ॥८॥
तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ॥९॥
सिन्धुर्न क्षोदः प्र नीचीरैनोन्नवन्त गावः स्वर्दृशीके ॥१०॥
वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् ॥१॥
क्षेमो न साधुः क्रतुर्न भद्रो भुवत्स्वाधीर्होता हव्यवाट् ॥२॥
हस्ते दधानो नृम्णा विश्वान्यमे देवान्धाद्गुहा निषीदन् ॥३॥
विदन्तीमत्र नरो धियंधा हृदा यत्तष्टान्मन्त्राँ अशंसन् ॥४॥
अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः ॥५॥
प्रिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः ॥६॥
य ईं चिकेत गुहा भवन्तमा यः ससाद धारामृतस्य ॥७॥
वि ये चृतन्त्यृता सपन्त आदिद्वसूनि प्र ववाचास्मै ॥८॥
वि यो वीरुत्सु रोधन्महित्वोत प्रजा उत प्रसूष्वन्तः ॥९॥
चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥१०॥
श्रीणन्नुप स्थाद्दिवं भुरण्यु स्थातुश्चरथमक्तून्व्यूर्णोत् ॥१॥
परि यदेषामेको विश्वेषां भुवद्देवो देवानां महित्वा ॥२॥
आदित्ते विश्वे क्रतुं जुषन्त शुष्काद्यद्देव जीवो जनिष्ठाः ॥३॥
भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतमेवैः ॥४॥
ऋतस्य प्रेषा ऋतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः ॥५॥
यस्तुभ्यं दाशाद्यो वा ते शिक्षात्तस्मै चिकित्वान्रयिं दयस्व ॥६॥
होता निषत्तो मनोरपत्ये स चिन्न्वासां पती रयीणाम् ॥७॥
इच्छन्त रेतो मिथस्तनूषु सं जानत स्वैर्दक्षैरमूराः ॥८॥
पितुर्न पुत्राः क्रतुं जुषन्त श्रोषन्ये अस्य शासं तुरासः ॥९॥
वि राय और्णोद्दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः ॥१०॥
शुक्रः शुशुक्वाँ उषो न जारः पप्रा समीची दिवो न ज्योतिः ॥१॥
परि प्रजातः क्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन् ॥२॥
वेधा अदृप्तो अग्निर्विजानन्नूधर्न गोनां स्वाद्मा पितूनाम् ॥३॥
पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् ॥५॥
विशो यदह्वे नृभिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः ॥६॥
नकिष्ट एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टिं चकर्थ ॥७॥
तत्तु ते दंसो यदहन्समानैर्नृभिर्यद्युक्तो विवे रपांसि ॥८॥
उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै ॥९॥
त्मना वहन्तो दुरो व्यृण्वन्नवन्त विश्वे स्वर्दृशीके ॥१०॥
इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा ।
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।
स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि ।
तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।
न विन्धे अस्य सुष्टुतिम् ॥७॥
वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः ॥१॥
आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म ॥२॥
गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम् ॥३॥
अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः ॥४॥
स हि क्षपावाँ अग्नी रयीणां दाशद्यो अस्मा अरं सूक्तैः ॥५॥
एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्ताँश्च विद्वान् ॥६॥
वर्धान्यं पूर्वीः क्षपो विरूपा स्थातुश्च रथमृतप्रवीतम् ॥७॥
अराधि होता स्वर्निषत्तः कृण्वन्विश्वान्यपांसि सत्या ॥८॥
गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर्णः ॥९॥
वि त्वा नरः पुरुत्रा सपर्यन्पितुर्न जिव्रेर्वि वेदो भरन्त ॥१०॥
साधुर्न गृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु ॥११॥
उप प्र जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः ।
स्वसारः श्यावीमरुषीमजुष्रञ्चित्रमुच्छन्तीमुषसं न गावः ॥१॥
वीळु चिद्दृळ्हा पितरो न उक्थैरद्रिं रुजन्नङ्गिरसो रवेण ।
चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः ॥२॥
दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभृत्राः ।
अतृष्यन्तीरपसो यन्त्यच्छा देवाञ्जन्म प्रयसा वर्धयन्तीः ॥३॥
मथीद्यदीं विभृतो मातरिश्वा गृहेगृहे श्येतो जेन्यो भूत् ।
आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय ॥४॥
महे यत्पित्र ईं रसं दिवे करव त्सरत्पृशन्यश्चिकित्वान् ।
सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्विषिं धात् ॥५॥
स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु द्यून् ।
वर्धो अग्ने वयो अस्य द्विबर्हा यासद्राया सरथं यं जुनासि ॥६॥
अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः ।
न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् ॥७॥
आ यदिषे नृपतिं तेज आनट् छुचि रेतो निषिक्तं द्यौरभीके ।
अग्निः शर्धमनवद्यं युवानं स्वाध्यं जनयत्सूदयच्च ॥८॥
मनो न योऽध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे ।
राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा ॥९॥
मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष्कविः सन् ।
नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ॥१०॥
नि काव्या वेधसः शश्वतस्कर्हस्ते दधानो नर्या पुरूणि ।
अग्निर्भुवद्रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥१॥
अस्मे वत्सं परि षन्तं न विन्दन्निच्छन्तो विश्वे अमृता अमूराः ।
श्रमयुवः पदव्यो धियंधास्तस्थुः पदे परमे चार्वग्नेः ॥२॥
तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घृतेन शुचयः सपर्यान् ।
नामानि चिद्दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः ॥३॥
आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः ।
विदन्मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम् ॥४॥
संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन् ।
रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युर्निमिषि रक्षमाणाः ॥५॥
त्रिः सप्त यद्गुह्यानि त्वे इत्पदाविदन्निहिता यज्ञियासः ।
तेभी रक्षन्ते अमृतं सजोषाः पशूञ्च स्थातॄञ्चरथं च पाहि ॥६॥
विद्वाँ अग्ने वयुनानि क्षितीनां व्यानुषक्छुरुधो जीवसे धाः ।
अन्तर्विद्वाँ अध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट् ॥७॥
आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् ।
मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः ॥९॥
अधि श्रियं नि दधुश्चारुमस्मिन्दिवो यदक्षी अमृता अकृण्वन् ।
अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीरग्ने अरुषीरजानन् ॥१०॥
रयिर्न यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकितुषो न शासुः ।
स्योनशीरतिथिर्न प्रीणानो होतेव सद्म विधतो वि तारीत् ॥१॥
देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा ।
पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥२॥
देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा ।
पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी ॥३॥
तं त्वा नरो दम आ नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु ।
अधि द्युम्नं नि दधुर्भूर्यस्मिन्भवा विश्वायुर्धरुणो रयीणाम् ॥४॥
वि पृक्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः ।
सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसे दधानाः ॥५॥
ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः ।
परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम् ॥६॥
त्वे अग्ने सुमतिं भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः ।
नक्ता च चक्रुरुषसा विरूपे कृष्णं च वर्णमरुणं च सं धुः ॥७॥
छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान्रोदसी अन्तरिक्षम् ॥८॥
अर्वद्भिरग्ने अर्वतो नृभिर्नॄन्वीरैर्वीरान्वनुयामा त्वोताः ।
ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥९॥
एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च ।
शकेम रायः सुधुरो यमं तेऽधि श्रवो देवभक्तं दधानाः ॥१०॥
उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये ।
आरे अस्मे च शृण्वते ॥१॥
यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु ।
उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि ।
यस्य दूतो असि क्षये वेषि हव्यानि वीतये ।
तमित्सुहव्यमङ्गिरः सुदेवं सहसो यहो ।
आ च वहासि ताँ इह देवाँ उप प्रशस्तये ।
न योरुपब्दिरश्व्यः शृण्वे रथस्य कच्चन ।
प्र दाश्वाँ अग्ने अस्थात् ॥८॥
उत द्युमत्सुवीर्यं बृहदग्ने विवाससि ।
जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् ।
कस्ते जामिर्जनानामग्ने को दाश्वध्वरः ।
को ह कस्मिन्नसि श्रितः ॥३॥
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः ।
यजा नो मित्रावरुणा यजा देवाँ ऋतं बृहत् ।
अग्ने यक्षि स्वं दमम् ॥५॥
को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम ॥१॥
एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः ।
अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥२॥
प्र सु विश्वान्रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा ।
अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने ॥३॥
प्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः ।
वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम् ॥४॥
यथा विप्रस्य मनुषो हविर्भिर्देवाँ अयजः कविभिः कविः सन् ।
एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्व ॥५॥
कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः ।
यो मर्त्येष्वमृत ऋतावा होता यजिष्ठ इत्कृणोति देवान् ॥१॥
यो अध्वरेषु शंतम ऋतावा होता तमू नमोभिरा कृणुध्वम् ।
अग्निर्यद्वेर्मर्ताय देवान्स चा बोधाति मनसा यजाति ॥२॥
स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः ।
तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः ॥३॥
स नो नृणां नृतमो रिशादा अग्निर्गिरोऽवसा वेतु धीतिम् ।
तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ॥४॥
स एषु द्युम्नं पीपयत्स वाजं स पुष्टिं याति जोषमा चिकित्वान् ॥५॥
अभि त्वा गोतमा गिरा जातवेदो विचर्षणे ।
तमु त्वा गोतमो गिरा रायस्कामो दुवस्यति ।
तमु त्वा वृत्रहन्तमं यो दस्यूँरवधूनुषे ।
अवोचाम रहूगणा अग्नये मधुमद्वचः ।
हिरण्यकेशो रजसो विसारेऽहिर्धुनिर्वात इव ध्रजीमान् ।
शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः ॥१॥
आ ते सुपर्णा अमिनन्तँ एवैः कृष्णो नोनाव वृषभो यदीदम् ।
शिवाभिर्न स्मयमानाभिरागात्पतन्ति मिह स्तनयन्त्यभ्रा ॥२॥
यदीमृतस्य पयसा पियानो नयन्नृतस्य पथिभी रजिष्ठैः ।
अर्यमा मित्रो वरुणः परिज्मा त्वचं पृञ्चन्त्युपरस्य योनौ ॥३॥
अग्ने वाजस्य गोमत ईशानः सहसो यहो ।
अस्मे धेहि जातवेदो महि श्रवः ॥४॥
स इधानो वसुष्कविरग्निरीळेन्यो गिरा ।
क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः ।
स तिग्मजम्भ रक्षसो दह प्रति ॥६॥
अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि ।
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् ।
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् ।
यो नो अग्नेऽभिदासत्यन्ति दूरे पदीष्ट सः ।
सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति ।
एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।
नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै ।
इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि ।
जयेम सं युधि स्पृधः ॥३॥
वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ।
महाँ इन्द्रः परश्च नु महित्वमस्तु वज्रिणे ।
समोहे वा य आशत नरस्तोकस्य सनितौ ।
यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।
एवा ह्यस्य सूनृता विरप्शी गोमती मही ।
पक्वा शाखा न दाशुषे ॥८॥
एवा हि ते विभूतय ऊतय इन्द्र मावते ।
एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।
इत्था हि सोम इन्मदे ब्रह्मा चकार वर्धनम् ।
शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ॥१॥
स त्वामदद्वृषा मदः सोमः श्येनाभृतः सुतः ।
येना वृत्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्ननु स्वराज्यम् ॥२॥
इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यम् ॥३॥
निरिन्द्र भूम्या अधि वृत्रं जघन्थ निर्दिवः ।
सृजा मरुत्वतीरव जीवधन्या इमा अपोऽर्चन्ननु स्वराज्यम् ॥४॥
इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः ।
अभिक्रम्याव जिघ्नतेऽपः सर्माय चोदयन्नर्चन्ननु स्वराज्यम् ॥५॥
अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा ।
मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिच्छत्यर्चन्ननु स्वराज्यम् ॥६॥
यद्ध त्यं मायिनं मृगं तमु त्वं माययावधीरर्चन्ननु स्वराज्यम् ॥७॥
महत्त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्ननु स्वराज्यम् ॥८॥
सहस्रं साकमर्चत परि ष्टोभत विंशतिः ।
इन्द्रो वृत्रस्य तविषीं निरहन्सहसा सहः ।
महत्तदस्य पौंस्यं वृत्रं जघन्वाँ असृजदर्चन्ननु स्वराज्यम् ॥१०॥
इमे चित्तव मन्यवे वेपेते भियसा मही ।
यदिन्द्र वज्रिन्नोजसा वृत्रं मरुत्वाँ अवधीरर्चन्ननु स्वराज्यम् ॥११॥
न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् ।
अभ्येनं वज्र आयसः सहस्रभृष्टिरायतार्चन्ननु स्वराज्यम् ॥१२॥
यद्वृत्रं तव चाशनिं वज्रेण समयोधयः ।
अहिमिन्द्र जिघांसतो दिवि ते बद्बधे शवोऽर्चन्ननु स्वराज्यम् ॥१३॥
अभिष्टने ते अद्रिवो यत्स्था जगच्च रेजते ।
त्वष्टा चित्तव मन्यव इन्द्र वेविज्यते भियार्चन्ननु स्वराज्यम् ॥१४॥
नहि नु यादधीमसीन्द्रं को वीर्या परः ।
तस्मिन्नृम्णमुत क्रतुं देवा ओजांसि सं दधुरर्चन्ननु स्वराज्यम् ॥१५॥
तस्मिन्ब्रह्माणि पूर्वथेन्द्र उक्था समग्मतार्चन्ननु स्वराज्यम् ॥१६॥
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
तमिन्महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥१॥
असि हि वीर सेन्योऽसि भूरि पराददिः ।
यदुदीरत आजयो धृष्णवे धीयते धना ।
युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्माँ इन्द्र वसौ दधः ॥३॥
क्रत्वा महाँ अनुष्वधं भीम आ वावृधे शवः ।
श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवान्दधे हस्तयोर्वज्रमायसम् ॥४॥
न त्वावाँ इन्द्र कश्चन न जातो न जनिष्यतेऽति विश्वं ववक्षिथ ॥५॥
यो अर्यो मर्तभोजनं पराददाति दाशुषे ।
इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः ॥६॥
मदेमदे हि नो ददिर्यूथा गवामृजुक्रतुः ।
विद्मा हि त्वा पुरूवसुमुप कामान्ससृज्महेऽथा नोऽविता भव ॥८॥
एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् ।
अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥९॥
उपो षु शृणुही गिरो मघवन्मातथा इव ।
यदा नः सूनृतावतः कर आदर्थयास इद्योजा न्विन्द्र ते हरी ॥१॥
अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥२॥
सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि ।
स घा तं वृषणं रथमधि तिष्ठाति गोविदम् ।
यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी ॥४॥
युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो ।
युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः ।
उत्त्वा सुतासो रभसा अमन्दिषुः पूषण्वान्वज्रिन्समु पत्न्यामदः ॥६॥
अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः ।
तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥१॥
आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः ।
प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥२॥
अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः ।
असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥३॥
आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया ।
सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥४॥
यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि ।
आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे ॥५॥
बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि ।
ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥६॥
आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥१॥
ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणाम् ॥२॥
आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी ।
अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥३॥
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् ।
शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥४॥
इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन ।
सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥५॥
नकिष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे ।
नकिष्ट्वानु मज्मना नकिः स्वश्व आनशे ॥६॥
य एक इद्विदयते वसु मर्ताय दाशुषे ।
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥७॥
कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् ।
कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥८॥
यश्चिद्धि त्वा बहुभ्य आ सुतावाँ आविवासति ।
उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥९॥
स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः ।
या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥१०॥
ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥११॥
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥१२॥
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् ।
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।
आसन्निषून्हृत्स्वसो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥१६॥
क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति ।
कस्तोकाय क इभायोत रायेऽधि ब्रवत्तन्वे को जनाय ॥१७॥
को अग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर्ध्रुवेभिः ।
कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ॥१८॥
त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् ।
न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥१९॥
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥२०॥
प्र ये शुम्भन्ते जनयो न सप्तयो यामन्रुद्रस्य सूनवः सुदंससः ।
रोदसी हि मरुतश्चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः ॥१॥
त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः ।
अर्चन्तो अर्कं जनयन्त इन्द्रियमधि श्रियो दधिरे पृश्निमातरः ॥२॥
गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः ।
बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घृतम् ॥३॥
वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिदोजसा ।
मनोजुवो यन्मरुतो रथेष्वा वृषव्रातासः पृषतीरयुग्ध्वम् ॥४॥
प्र यद्रथेषु पृषतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः ।
उतारुषस्य वि ष्यन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम ॥५॥
आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः ।
सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥६॥
तेऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः ।
विष्णुर्यद्धावद्वृषणं मदच्युतं वयो न सीदन्नधि बर्हिषि प्रिये ॥७॥
शूरा इवेद्युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे ।
भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव त्वेषसंदृशो नरः ॥८॥
त्वष्टा यद्वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत् ।
धत्त इन्द्रो नर्यपांसि कर्तवेऽहन्वृत्रं निरपामौब्जदर्णवम् ॥९॥
ऊर्ध्वं नुनुद्रेऽवतं त ओजसा दादृहाणं चिद्बिभिदुर्वि पर्वतम् ।
धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे ॥१०॥
जिह्मं नुनुद्रेऽवतं तया दिशासिञ्चन्नुत्सं गोतमाय तृष्णजे ।
आ गच्छन्तीमवसा चित्रभानवः कामं विप्रस्य तर्पयन्त धामभिः ॥११॥
या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि ।
अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम् ॥१२॥
मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम् ।
उत वा यस्य वाजिनोऽनु विप्रमतक्षत ।
स गन्ता गोमति व्रजे ॥३॥
अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु ।
अस्य श्रोषन्त्वा भुवो विश्वा यश्चर्षणीरभि ।
पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम् ।
सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः ।
शशमानस्य वा नरः स्वेदस्य सत्यशवसः ।
यूयं तत्सत्यशवस आविष्कर्त महित्वना ।
प्रत्वक्षसः प्रतवसो विरप्शिनोऽनानता अविथुरा ऋजीषिणः ।
जुष्टतमासो नृतमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव स्तृभिः ॥१॥
उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित्पथा ।
श्चोतन्ति कोशा उप वो रथेष्वा घृतमुक्षता मधुवर्णमर्चते ॥२॥
प्रैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद्ध युञ्जते शुभे ।
ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयं महित्वं पनयन्त धूतयः ॥३॥
स हि स्वसृत्पृषदश्वो युवा गणोऽया ईशानस्तविषीभिरावृतः ।
असि सत्य ऋणयावानेद्योऽस्या धियः प्राविताथा वृषा गणः ॥४॥
पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा ।
यदीमिन्द्रं शम्यृक्वाण आशतादिन्नामानि यज्ञियानि दधिरे ॥५॥
श्रियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त ऋक्वभिः सुखादयः ।
ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥६॥
आ विद्युन्मद्भिर्मरुतः स्वर्कै रथेभिर्यात ऋष्टिमद्भिरश्वपर्णैः ।
आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥१॥
तेऽरुणेभिर्वरमा पिशङ्गैः शुभे कं यान्ति रथतूर्भिरश्वैः ।
रुक्मो न चित्रः स्वधितीवान्पव्या रथस्य जङ्घनन्त भूम ॥२॥
श्रिये कं वो अधि तनूषु वाशीर्मेधा वना न कृणवन्त ऊर्ध्वा ।
युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम् ॥३॥
अहानि गृध्राः पर्या व आगुरिमां धियं वार्कार्यां च देवीम् ।
ब्रह्म कृण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्र उत्सधिं पिबध्यै ॥४॥
एतत्त्यन्न योजनमचेति सस्वर्ह यन्मरुतो गोतमो वः ।
एषा स्या वो मरुतोऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी ।
आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः ।
देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवेदिवे ॥१॥
देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नो नि वर्तताम् ।
देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥२॥
तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् ।
अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥३॥
तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः ।
तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥४॥
तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयम् ।
पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥५॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥६॥
पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः ।
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥७॥
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥९॥
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥१०॥
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।
मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।
सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।
अस्मान्सु तत्र चोदयेन्द्र राये रभस्वतः ।
सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् ।
अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।
वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् ।
सुतेसुते न्योकसे बृहद्बृहत एदरिः ।
ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् ।
ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः ।
ते अस्मभ्यं शर्म यंसन्नमृता मर्त्येभ्यः ।
वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः ।
उत नो धियो गोअग्राः पूषन्विष्णवेवयावः ।
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः ।
मधु द्यौरस्तु नः पिता ॥७॥
मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः ।
शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥९॥
त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठमनु नेषि पन्थाम् ।
तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः ॥१॥
त्वं सोम क्रतुभिः सुक्रतुर्भूस्त्वं दक्षैः सुदक्षो विश्ववेदाः ।
त्वं वृषा वृषत्वेभिर्महित्वा द्युम्नेभिर्द्युम्न्यभवो नृचक्षाः ॥२॥
राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम ।
शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥३॥
या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु ।
तेभिर्नो विश्वैः सुमना अहेळन्राजन्सोम प्रति हव्या गृभाय ॥४॥
त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा ।
त्वं भद्रो असि क्रतुः ॥५॥
त्वं च सोम नो वशो जीवातुं न मरामहे ।
त्वं सोम महे भगं त्वं यून ऋतायते ।
त्वं नः सोम विश्वतो रक्षा राजन्नघायतः ।
सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे ।
इमं यज्ञमिदं वचो जुजुषाण उपागहि ।
सोम त्वं नो वृधे भव ॥१०॥
सोम गीर्भिष्ट्वा वयं वर्धयामो वचोविदः ।
सुमित्रः सोम नो भव ॥१२॥
सोम रारन्धि नो हृदि गावो न यवसेष्वा ।
मर्य इव स्व ओक्ये ॥१३॥
यः सोम सख्ये तव रारणद्देव मर्त्यः ।
तं दक्षः सचते कविः ॥१४॥
उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः ।
सखा सुशेव एधि नः ॥१५॥
आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ।
आ प्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः ।
भवा नः सुश्रवस्तमः सखा वृधे ॥१७॥
सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः ।
आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ॥१८॥
गयस्फानः प्रतरणः सुवीरोऽवीरहा प्र चरा सोम दुर्यान् ॥१९॥
सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति ।
सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै ॥२०॥
अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षामप्सां वृजनस्य गोपाम् ।
भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वामनु मदेम सोम ॥२१॥
त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः ।
त्वमा ततन्थोर्वन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥२२॥
देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य ।
मा त्वा तनदीशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥२३॥
एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते ।
निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥१॥
उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत ।
अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥२॥
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः ।
इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥३॥
अधि पेशांसि वपते नृतूरिवापोर्णुते वक्ष उस्रेव बर्जहम् ।
ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्युषा आवर्तमः ॥४॥
प्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कृष्णमभ्वम् ।
स्वरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत् ॥५॥
अतारिष्म तमसस्पारमस्योषा उच्छन्ती वयुना कृणोति ।
श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥६॥
भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः ।
प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्राँ उप मासि वाजान् ॥७॥
उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम् ।
सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ॥८॥
विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति ।
विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन्मनायोः ॥९॥
पुनःपुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना ।
श्वघ्नीव कृत्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥१०॥
व्यूर्ण्वती दिवो अन्ताँ अबोध्यप स्वसारं सनुतर्युयोति ।
प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥११॥
अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्दृशाना ॥१२॥
येन तोकं च तनयं च धामहे ॥१३॥
उषो अद्येह गोमत्यश्वावति विभावरि ।
युक्ष्वा हि वाजिनीवत्यश्वाँ अद्यारुणाँ उषः ।
अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् ।
अर्वाग्रथं समनसा नि यच्छतम् ॥१६॥
यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः ।
आ न ऊर्जं वहतमश्विना युवम् ॥१७॥
अग्नीषोमाविमं सु मे शृणुतं वृषणा हवम् ।
प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः ॥१॥
अग्नीषोमा यो अद्य वामिदं वचः सपर्यति ।
तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यम् ॥२॥
अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम् ।
स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् ॥३॥
अग्नीषोमा चेति तद्वीर्यं वां यदमुष्णीतमवसं पणिं गाः ।
अवातिरतं बृसयस्य शेषोऽविन्दतं ज्योतिरेकं बहुभ्यः ॥४॥
युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् ।
आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः ।
अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम् ॥६॥
अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् ।
सुशर्माणा स्ववसा हि भूतमथा धत्तं यजमानाय शं योः ॥७॥
तस्य व्रतं रक्षतं पातमंहसो विशे जनाय महि शर्म यच्छतम् ॥८॥
अग्नीषोमा सवेदसा सहूती वनतं गिरः ।
अग्नीषोमावनेन वां यो वां घृतेन दाशति ।
अग्नीषोमाविमानि नो युवं हव्या जुजोषतम् ।
अग्नीषोमा पिपृतमर्वतो न आ प्यायन्तामुस्रिया हव्यसूदः ।
अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् ॥१२॥
इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥१॥
यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् ।
स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषामा वयं तव ॥२॥
शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् ।
त्वमादित्याँ आ वह तान्ह्युश्मस्यग्ने सख्ये मा रिषामा वयं तव ॥३॥
भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् ।
जीवातवे प्रतरं साधया धियोऽग्ने सख्ये मा रिषामा वयं तव ॥४॥
विशां गोपा अस्य चरन्ति जन्तवो द्विपच्च यदुत चतुष्पदक्तुभिः ।
चित्रः प्रकेत उषसो महाँ अस्यग्ने सख्ये मा रिषामा वयं तव ॥५॥
त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः ।
विश्वा विद्वाँ आर्त्विज्या धीर पुष्यस्यग्ने सख्ये मा रिषामा वयं तव ॥६॥
यो विश्वतः सुप्रतीकः सदृङ्ङसि दूरे चित्सन्तळिदिवाति रोचसे ।
रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव ॥७॥
पूर्वो देवा भवतु सुन्वतो रथोऽस्माकं शंसो अभ्यस्तु दूढ्यः ।
तदा जानीतोत पुष्यता वचोऽग्ने सख्ये मा रिषामा वयं तव ॥८॥
वधैर्दुःशंसाँ अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः ।
अथा यज्ञाय गृणते सुगं कृध्यग्ने सख्ये मा रिषामा वयं तव ॥९॥
यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः ।
आदिन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ॥१०॥
अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन् ।
सुगं तत्ते तावकेभ्यो रथेभ्योऽग्ने सख्ये मा रिषामा वयं तव ॥११॥
अयं मित्रस्य वरुणस्य धायसेऽवयातां मरुतां हेळो अद्भुतः ।
मृळा सु नो भूत्वेषां मनः पुनरग्ने सख्ये मा रिषामा वयं तव ॥१२॥
देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे ।
शर्मन्स्याम तव सप्रथस्तमेऽग्ने सख्ये मा रिषामा वयं तव ॥१३॥
तत्ते भद्रं यत्समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः ।
दधासि रत्नं द्रविणं च दाशुषेऽग्ने सख्ये मा रिषामा वयं तव ॥१४॥
यस्मै त्वं सुद्रविणो ददाशोऽनागास्त्वमदिते सर्वताता ।
यं भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम ॥१५॥
स त्वमग्ने सौभगत्वस्य विद्वानस्माकमायुः प्र तिरेह देव ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१६॥
द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्समुप धापयेते ।
हरिरन्यस्यां भवति स्वधावाञ्छुक्रो अन्यस्यां ददृशे सुवर्चाः ॥१॥
दशेमं त्वष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभृत्रम् ।
तिग्मानीकं स्वयशसं जनेषु विरोचमानं परि षीं नयन्ति ॥२॥
त्रीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु ।
पूर्वामनु प्र दिशं पार्थिवानामृतून्प्रशासद्वि दधावनुष्ठु ॥३॥
क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत स्वधाभिः ।
बह्वीनां गर्भो अपसामुपस्थान्महान्कविर्निश्चरति स्वधावान् ॥४॥
आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे ।
उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते ॥५॥
उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः ।
स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः ॥६॥
उद्यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् ।
उच्छुक्रमत्कमजते सिमस्मान्नवा मातृभ्यो वसना जहाति ॥७॥
त्वेषं रूपं कृणुत उत्तरं यत्सम्पृञ्चानः सदने गोभिरद्भिः ।
कविर्बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर्बभूव ॥८॥
उरु ते ज्रयः पर्येति बुध्नं विरोचमानं महिषस्य धाम ।
विश्वेभिरग्ने स्वयशोभिरिद्धोऽदब्धेभिः पायुभिः पाह्यस्मान् ॥९॥
धन्वन्स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभि नक्षति क्षाम् ।
विश्वा सनानि जठरेषु धत्तेऽन्तर्नवासु चरति प्रसूषु ॥१०॥
एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥
स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळधत्त विश्वा ।
आपश्च मित्रं धिषणा च साधन्देवा अग्निं धारयन्द्रविणोदाम् ॥१॥
स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनाम् ।
विवस्वता चक्षसा द्यामपश्च देवा अग्निं धारयन्द्रविणोदाम् ॥२॥
तमीळत प्रथमं यज्ञसाधं विश आरीराहुतमृञ्जसानम् ।
ऊर्जः पुत्रं भरतं सृप्रदानुं देवा अग्निं धारयन्द्रविणोदाम् ॥३॥
स मातरिश्वा पुरुवारपुष्टिर्विदद्गातुं तनयाय स्वर्वित् ।
विशां गोपा जनिता रोदस्योर्देवा अग्निं धारयन्द्रविणोदाम् ॥४॥
द्यावाक्षामा रुक्मो अन्तर्वि भाति देवा अग्निं धारयन्द्रविणोदाम् ॥५॥
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः ।
अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन्द्रविणोदाम् ॥६॥
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् ।
सतश्च गोपां भवतश्च भूरेर्देवा अग्निं धारयन्द्रविणोदाम् ॥७॥
द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत् ।
द्रविणोदा वीरवतीमिषं नो द्रविणोदा रासते दीर्घमायुः ॥८॥
एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥९॥
अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् ।
सुक्षेत्रिया सुगातुया वसूया च यजामहे ।
प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः ।
प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः ।
त्वं हि विश्वतोमुख विश्वतः परिभूरसि ।
स नः सिन्धुमिव नावयाति पर्षा स्वस्तये ।
वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः ।
इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ॥१॥
पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश ।
वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥२॥
वैश्वानर तव तत्सत्यमस्त्वस्मान्रायो मघवानः सचन्ताम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥३॥
जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः ।
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥१॥
<DOC_END>
<DOC_START>
त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥१॥
तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः ।
तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥२॥
त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः ।
त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरंध्या ॥३॥
त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म ईड्यः ।
त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देव भाजयुः ॥४॥
त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् ।
त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥५॥
त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे ।
त्वं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नु त्मना ॥६॥
त्वमग्ने द्रविणोदा अरंकृते त्वं देवः सविता रत्नधा असि ।
त्वं भगो नृपते वस्व ईशिषे त्वं पायुर्दमे यस्तेऽविधत् ॥७॥
त्वामग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रमृञ्जते ।
त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति ॥८॥
त्वामग्ने पितरमिष्टिभिर्नरस्त्वां भ्रात्राय शम्या तनूरुचम् ।
त्वं पुत्रो भवसि यस्तेऽविधत्त्वं सखा सुशेवः पास्याधृषः ॥९॥
त्वमग्न ऋभुराके नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे ।
त्वं वि भास्यनु दक्षि दावने त्वं विशिक्षुरसि यज्ञमातनिः ॥१०॥
त्वमग्ने अदितिर्देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा ।
त्वमिळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती ॥११॥
त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ संदृशि श्रियः ।
त्वं वाजः प्रतरणो बृहन्नसि त्वं रयिर्बहुलो विश्वतस्पृथुः ॥१२॥
त्वामग्न आदित्यास आस्यं त्वां जिह्वां शुचयश्चक्रिरे कवे ।
त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविरदन्त्याहुतम् ॥१३॥
त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविरदन्त्याहुतम् ।
त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ॥१४॥
त्वं तान्सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे ।
पृक्षो यदत्र महिना वि ते भुवदनु द्यावापृथिवी रोदसी उभे ॥१५॥
अस्माञ्च ताँश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥१६॥
जोहूत्रो अग्निः प्रथमः पितेवेळस्पदे मनुषा यत्समिद्धः ।
श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स वाजी ॥१॥
श्रूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरमृतो विचेताः ।
श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ॥२॥
उत्तानायामजनयन्सुषूतं भुवदग्निः पुरुपेशासु गर्भः ।
शिरिणायां चिदक्तुना महोभिरपरीवृतो वसति प्रचेताः ॥३॥
जिघर्म्यग्निं हविषा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा ।
पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नै रभसं दृशानम् ॥४॥
आ विश्वतः प्रत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत ।
मर्यश्री स्पृहयद्वर्णो अग्निर्नाभिमृशे तन्वा जर्भुराणः ॥५॥
ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद्वदेम ।
अनूनमग्निं जुह्वा वचस्या मधुपृचं धनसा जोहवीमि ॥६॥
इमा हि त्वामूर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः ॥१॥
सृजो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः ।
उक्थेष्विन्नु शूर येषु चाकन्स्तोमेष्विन्द्र रुद्रियेषु च ।
तुभ्येदेता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः ॥३॥
शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः ।
शुभ्रस्त्वमिन्द्र वावृधानो अस्मे दासीर्विशः सूर्येण सह्याः ॥४॥
उतो अपो द्यां तस्तभ्वांसमहन्नहिं शूर वीर्येण ॥५॥
स्तवा नु त इन्द्र पूर्व्या महान्युत स्तवाम नूतना कृतानि ।
स्तवा वज्रं बाह्वोरुशन्तं स्तवा हरी सूर्यस्य केतू ॥६॥
हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारमस्वार्ष्टाम् ।
वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित्सरिष्यन् ॥७॥
नि पर्वतः साद्यप्रयुच्छन्सं मातृभिर्वावशानो अक्रान् ।
दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन्नि ॥८॥
इन्द्रो महां सिन्धुमाशयानं मायाविनं वृत्रमस्फुरन्निः ।
अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् ॥९॥
अरोरवीद्वृष्णो अस्य वज्रोऽमानुषं यन्मानुषो निजूर्वात् ।
नि मायिनो दानवस्य माया अपादयत्पपिवान्सुतस्य ॥१०॥
पिबापिबेदिन्द्र शूर सोमं मन्दन्तु त्वा मन्दिनः सुतासः ।
पृणन्तस्ते कुक्षी वर्धयन्त्वित्था सुतः पौर इन्द्रमाव ॥११॥
त्वे इन्द्राप्यभूम विप्रा धियं वनेम ऋतया सपन्तः ।
अवस्यवो धीमहि प्रशस्तिं सद्यस्ते रायो दावने स्याम ॥१२॥
शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम् ॥१३॥
रासि क्षयं रासि मित्रमस्मे रासि शर्ध इन्द्र मारुतं नः ।
सजोषसो ये च मन्दसानाः प्र वायवः पान्त्यग्रणीतिम् ॥१४॥
व्यन्त्विन्नु येषु मन्दसानस्तृपत्सोमं पाहि द्रह्यदिन्द्र ।
अस्मान्सु पृत्स्वा तरुत्रावर्धयो द्यां बृहद्भिरर्कैः ॥१५॥
स्तृणानासो बर्हिः पस्त्यावत्त्वोता इदिन्द्र वाजमग्मन् ॥१६॥
उग्रेष्विन्नु शूर मन्दसानस्त्रिकद्रुकेषु पाहि सोममिन्द्र ।
प्रदोधुवच्छ्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्य पीतिम् ॥१७॥
धिष्वा शवः शूर येन वृत्रमवाभिनद्दानुमौर्णवाभम् ।
अपावृणोर्ज्योतिरार्याय नि सव्यतः सादि दस्युरिन्द्र ॥१८॥
सनेम ये त ऊतिभिस्तरन्तो विश्वा स्पृध आर्येण दस्यून् ।
अस्मभ्यं तत्त्वाष्ट्रं विश्वरूपमरन्धयः साख्यस्य त्रिताय ॥१९॥
अस्य सुवानस्य मन्दिनस्त्रितस्य न्यर्बुदं वावृधानो अस्तः ।
अवर्तयत्सूर्यो न चक्रं भिनद्वलमिन्द्रो अङ्गिरस्वान् ॥२०॥
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥२१॥
यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत् ।
यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥१॥
यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान्प्रकुपिताँ अरम्णात् ।
यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥२॥
यो हत्वाहिमरिणात्सप्त सिन्धून्यो गा उदाजदपधा वलस्य ।
यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥३॥
येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः ।
श्वघ्नीव यो जिगीवाँल्लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥४॥
यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् ।
सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥५॥
यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः ।
युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥६॥
यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः ।
यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥७॥
यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः ।
समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥८॥
यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते ।
यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥९॥
यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान ।
यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥१०॥
यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् ।
ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥११॥
यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे सप्त सिन्धून् ।
यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥१२॥
द्यावा चिदस्मै पृथिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते ।
यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥१३॥
यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती ।
यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥१४॥
यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः ।
वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥१५॥
ऋतुर्जनित्री तस्या अपस्परि मक्षू जात आविशद्यासु वर्धते ।
तदाहना अभवत्पिप्युषी पयोऽंशोः पीयूषं प्रथमं तदुक्थ्यम् ॥१॥
सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम् ।
समानो अध्वा प्रवतामनुष्यदे यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥२॥
अन्वेको वदति यद्ददाति तद्रूपा मिनन्तदपा एक ईयते ।
विश्वा एकस्य विनुदस्तितिक्षते यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥३॥
प्रजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पृष्ठं प्रभवन्तमायते ।
असिन्वन्दंष्ट्रैः पितुरत्ति भोजनं यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥४॥
अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनामहिहन्नारिणक्पथः ।
तं त्वा स्तोमेभिरुदभिर्न वाजिनं देवं देवा अजनन्सास्युक्थ्यः ॥५॥
यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद्दुदोहिथ ।
स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्युक्थ्यः ॥६॥
यः पुष्पिणीश्च प्रस्वश्च धर्मणाधि दाने व्यवनीरधारयः ।
यश्चासमा अजनो दिद्युतो दिव उरुरूर्वाँ अभितः सास्युक्थ्यः ॥७॥
यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः ।
शतं वा यस्य दश साकमाद्य एकस्य श्रुष्टौ यद्ध चोदमाविथ ।
अरज्जौ दस्यून्समुनब्दभीतये सुप्राव्यो अभवः सास्युक्थ्यः ॥९॥
विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कृत्नवे धनम् ।
षळस्तभ्ना विष्टिरः पञ्च संदृशः परि परो अभवः सास्युक्थ्यः ॥१०॥
सुप्रवाचनं तव वीर वीर्यं यदेकेन क्रतुना विन्दसे वसु ।
जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्युक्थ्यः ॥११॥
अरमयः सरपसस्तराय कं तुर्वीतये च वय्याय च स्रुतिम् ।
नीचा सन्तमुदनयः परावृजं प्रान्धं श्रोणं श्रवयन्सास्युक्थ्यः ॥१२॥
अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् ।
इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥१३॥
अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः ।
कामी हि वीरः सदमस्य पीतिं जुहोत वृष्णे तदिदेष वष्टि ॥१॥
अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् ।
तस्मा एतं भरत तद्वशायँ एष इन्द्रो अर्हति पीतिमस्य ॥२॥
अध्वर्यवो यो दृभीकं जघान यो गा उदाजदप हि वलं वः ।
तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः ॥३॥
अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून् ।
यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्य भृथे हिनोत ॥४॥
अध्वर्यवो यः स्वश्नं जघान यः शुष्णमशुषं यो व्यंसम् ।
यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत ॥५॥
अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः ।
यो वर्चिनः शतमिन्द्रः सहस्रमपावपद्भरता सोममस्मै ॥६॥
अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थेऽवपज्जघन्वान् ।
अध्वर्यवो यन्नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तदिन्द्रे ।
गभस्तिपूतं भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत ॥८॥
अध्वर्यवः कर्तना श्रुष्टिमस्मै वने निपूतं वन उन्नयध्वम् ।
जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत ॥९॥
अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पृणता भोजमिन्द्रम् ।
वेदाहमस्य निभृतं म एतद्दित्सन्तं भूयो यजतश्चिकेत ॥१०॥
अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा ।
तमूर्दरं न पृणता यवेनेन्द्रं सोमेभिस्तदपो वो अस्तु ॥११॥
अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् ।
इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥१२॥
प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम् ।
त्रिकद्रुकेष्वपिबत्सुतस्यास्य मदे अहिमिन्द्रो जघान ॥१॥
अवंशे द्यामस्तभायद्बृहन्तमा रोदसी अपृणदन्तरिक्षम् ।
स धारयत्पृथिवीं पप्रथच्च सोमस्य ता मद इन्द्रश्चकार ॥२॥
सद्मेव प्राचो वि मिमाय मानैर्वज्रेण खान्यतृणन्नदीनाम् ।
वृथासृजत्पथिभिर्दीर्घयाथैः सोमस्य ता मद इन्द्रश्चकार ॥३॥
स प्रवोळ्हॄन्परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ ।
सं गोभिरश्वैरसृजद्रथेभिः सोमस्य ता मद इन्द्रश्चकार ॥४॥
स ईं महीं धुनिमेतोररम्णात्सो अस्नातॄनपारयत्स्वस्ति ।
त उत्स्नाय रयिमभि प्र तस्थुः सोमस्य ता मद इन्द्रश्चकार ॥५॥
सोदञ्चं सिन्धुमरिणान्महित्वा वज्रेणान उषसः सं पिपेष ।
अजवसो जविनीभिर्विवृश्चन्सोमस्य ता मद इन्द्रश्चकार ॥६॥
स विद्वाँ अपगोहं कनीनामाविर्भवन्नुदतिष्ठत्परावृक् ।
प्रति श्रोण स्थाद्व्यनगचष्ट सोमस्य ता मद इन्द्रश्चकार ॥७॥
भिनद्वलमङ्गिरोभिर्गृणानो वि पर्वतस्य दृंहितान्यैरत् ।
रिणग्रोधांसि कृत्रिमाण्येषां सोमस्य ता मद इन्द्रश्चकार ॥८॥
स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युं प्र दभीतिमावः ।
रम्भी चिदत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश्चकार ॥९॥
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥१०॥
प्र वः सतां ज्येष्ठतमाय सुष्टुतिमग्नाविव समिधाने हविर्भरे ।
इन्द्रमजुर्यं जरयन्तमुक्षितं सनाद्युवानमवसे हवामहे ॥१॥
यस्मादिन्द्राद्बृहतः किं चनेमृते विश्वान्यस्मिन्सम्भृताधि वीर्या ।
जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि क्रतुम् ॥२॥
न क्षोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः ।
न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु ॥३॥
विश्वे ह्यस्मै यजताय धृष्णवे क्रतुं भरन्ति वृषभाय सश्चते ।
वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना ॥४॥
वृष्णः कोशः पवते मध्व ऊर्मिर्वृषभान्नाय वृषभाय पातवे ।
वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति ॥५॥
वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्यायुधा ।
वृष्णो मदस्य वृषभ त्वमीशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि ॥६॥
प्र ते नावं न समने वचस्युवं ब्रह्मणा यामि सवनेषु दाधृषिः ।
कुविन्नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे ॥७॥
पुरा सम्बाधादभ्या ववृत्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी ।
सकृत्सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वृषणो नसीमहि ॥८॥
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥९॥
तदस्मै नव्यमङ्गिरस्वदर्चत शुष्मा यदस्य प्रत्नथोदीरते ।
विश्वा यद्गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्यैरयत् ॥१॥
स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानमातिरत् ।
शूरो यो युत्सु तन्वं परिव्यत शीर्षणि द्यां महिना प्रत्यमुञ्चत ॥२॥
अधाकृणोः प्रथमं वीर्यं महद्यदस्याग्रे ब्रह्मणा शुष्ममैरयः ।
रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्यक्पृथक् ॥३॥
अधा यो विश्वा भुवनाभि मज्मनेशानकृत्प्रवया अभ्यवर्धत ।
आद्रोदसी ज्योतिषा वह्निरातनोत्सीव्यन्तमांसि दुधिता समव्ययत् ॥४॥
सास्मा अरं बाहुभ्यां यं पिताकृणोद्विश्वस्मादा जनुषो वेदसस्परि ।
येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्यवृणक्तुविष्वणिः ॥६॥
अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम् ।
कृधि प्रकेतमुप मास्या भर दद्धि भागं तन्वो येन मामहः ॥७॥
भोजं त्वामिन्द्र वयं हुवेम ददिष्ट्वमिन्द्रापांसि वाजान् ।
अविड्ढीन्द्र चित्रया न ऊती कृधि वृषन्निन्द्र वस्यसो नः ॥८॥
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥९॥
प्राता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः ।
दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर्मतिभी रंह्यो भूत् ॥१॥
सास्मा अरं प्रथमं स द्वितीयमुतो तृतीयं मनुषः स होता ।
अन्यस्या गर्भमन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा ॥२॥
हरी नु कं रथ इन्द्रस्य योजमायै सूक्तेन वचसा नवेन ।
मो षु त्वामत्र बहवो हि विप्रा नि रीरमन्यजमानासो अन्ये ॥३॥
आ द्वाभ्यां हरिभ्यामिन्द्र याह्या चतुर्भिरा षड्भिर्हूयमानः ।
आष्टाभिर्दशभिः सोमपेयमयं सुतः सुमख मा मृधस्कः ॥४॥
आ विंशत्या त्रिंशता याह्यर्वाङा चत्वारिंशता हरिभिर्युजानः ।
आ पञ्चाशता सुरथेभिरिन्द्रा षष्ट्या सप्तत्या सोमपेयम् ॥५॥
आशीत्या नवत्या याह्यर्वाङा शतेन हरिभिरुह्यमानः ।
अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय ॥६॥
मम ब्रह्मेन्द्र याह्यच्छा विश्वा हरी धुरि धिष्वा रथस्य ।
पुरुत्रा हि विहव्यो बभूथास्मिञ्छूर सवने मादयस्व ॥७॥
न म इन्द्रेण सख्यं वि योषदस्मभ्यमस्य दक्षिणा दुहीत ।
उप ज्येष्ठे वरूथे गभस्तौ प्रायेप्राये जिगीवांसः स्याम ॥८॥
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥९॥
अपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः ।
यस्मिन्निन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश्च नरः ॥१॥
अस्य मन्दानो मध्वो वज्रहस्तोऽहिमिन्द्रो अर्णोवृतं वि वृश्चत् ।
प्र यद्वयो न स्वसराण्यच्छा प्रयांसि च नदीनां चक्रमन्त ॥२॥
स माहिन इन्द्रो अर्णो अपां प्रैरयदहिहाच्छा समुद्रम् ।
अजनयत्सूर्यं विदद्गा अक्तुनाह्नां वयुनानि साधत् ॥३॥
सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद्दाशुषे हन्ति वृत्रम् ।
सद्यो यो नृभ्यो अतसाय्यो भूत्पस्पृधानेभ्यः सूर्यस्य सातौ ॥४॥
स सुन्वत इन्द्रः सूर्यमा देवो रिणङ्मर्त्याय स्तवान् ।
आ यद्रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन् ॥५॥
स रन्धयत्सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय ।
दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य ॥६॥
एवा त इन्द्रोचथमहेम श्रवस्या न त्मना वाजयन्तः ।
अश्याम तत्साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः ॥७॥
एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः ।
ब्रह्मण्यन्त इन्द्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः ॥८॥
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥९॥
यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा ।
समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदम् ॥१॥
अभि त्वा नक्तीरुषसो ववाशिरेऽग्ने वत्सं न स्वसरेषु धेनवः ।
दिव इवेदरतिर्मानुषा युगा क्षपो भासि पुरुवार संयतः ॥२॥
तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योररतिं न्येरिरे ।
रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं न क्षितिषु प्रशंस्यम् ॥३॥
तमुक्षमाणं रजसि स्व आ दमे चन्द्रमिव सुरुचं ह्वार आ दधुः ।
पृश्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु ॥४॥
स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष ऋञ्जते गिरा ।
हिरिशिप्रो वृधसानासु जर्भुरद्द्यौर्न स्तृभिश्चितयद्रोदसी अनु ॥५॥
स नो रेवत्समिधानः स्वस्तये संददस्वान्रयिमस्मासु दीदिहि ।
आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये ॥६॥
दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि ।
प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर्ण शुक्रमुषसो वि दिद्युतः ॥७॥
स इधान उषसो राम्या अनु स्वर्ण दीदेदरुषेण भानुना ।
होत्राभिरग्निर्मनुषः स्वध्वरो राजा विशामतिथिश्चारुरायवे ॥८॥
एवा नो अग्ने अमृतेषु पूर्व्य धीष्पीपाय बृहद्दिवेषु मानुषा ।
दुहाना धेनुर्वृजनेषु कारवे त्मना शतिनं पुरुरूपमिषणि ॥९॥
वयमग्ने अर्वता वा सुवीर्यं ब्रह्मणा वा चितयेमा जनाँ अति ।
अस्माकं द्युम्नमधि पञ्च कृष्टिषूच्चा स्वर्ण शुशुचीत दुष्टरम् ॥१०॥
स नो बोधि सहस्य प्रशंस्यो यस्मिन्सुजाता इषयन्त सूरयः ।
यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे ॥११॥
उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश्च शर्मणि ।
वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः ॥१२॥
अस्माञ्च ताँश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥१३॥
वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर्न रथम् ।
विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन् ॥१॥
त्वं न इन्द्र त्वाभिरूती त्वायतो अभिष्टिपासि जनान् ।
स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता ।
यः शंसन्तं यः शशमानमूती पचन्तं च स्तुवन्तं च प्रणेषत् ॥३॥
तमु स्तुष इन्द्रं तं गृणीषे यस्मिन्पुरा वावृधुः शाशदुश्च ।
स वस्वः कामं पीपरदियानो ब्रह्मण्यतो नूतनस्यायोः ॥४॥
सो अङ्गिरसामुचथा जुजुष्वान्ब्रह्मा तूतोदिन्द्रो गातुमिष्णन् ।
मुष्णन्नुषसः सूर्येण स्तवानश्नस्य चिच्छिश्नथत्पूर्व्याणि ॥५॥
स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन्मनुषे दस्मतमः ।
अव प्रियमर्शसानस्य साह्वाञ्छिरो भरद्दासस्य स्वधावान् ॥६॥
स वृत्रहेन्द्रः कृष्णयोनीः पुरंदरो दासीरैरयद्वि ।
अजनयन्मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत् ॥७॥
तस्मै तवस्यमनु दायि सत्रेन्द्राय देवेभिरर्णसातौ ।
प्रति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून्पुर आयसीर्नि तारीत् ॥८॥
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥९॥
विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते ।
अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम् ॥१॥
अभिभुवेऽभिभङ्गाय वन्वतेऽषाळ्हाय सहमानाय वेधसे ।
तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत ॥२॥
सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः ।
वृतंचयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं प्र कृतानि वीर्या ॥३॥
अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः ।
रध्रचोदः श्नथनो वीळितस्पृथुरिन्द्रः सुयज्ञ उषसः स्वर्जनत् ॥४॥
यज्ञेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः ।
अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्याशत ॥५॥
इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे ।
पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नाम् ॥६॥
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत् ।
स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥१॥
अध त्विषीमाँ अभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे ।
अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥२॥
साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः ।
दाता राध स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥३॥
तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् ।
यद्देवस्य शवसा प्रारिणा असुं रिणन्नपः ।
गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥१॥
देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः ।
उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि ॥२॥
आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि ।
बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम् ॥३॥
सुनीतिभिर्नयसि त्रायसे जनं यस्तुभ्यं दाशान्न तमंहो अश्नवत् ।
ब्रह्मद्विषस्तपनो मन्युमीरसि बृहस्पते महि तत्ते महित्वनम् ॥४॥
न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न द्वयाविनः ।
विश्वा इदस्माद्ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस्पते ॥५॥
त्वं नो गोपाः पथिकृद्विचक्षणस्तव व्रताय मतिभिर्जरामहे ।
बृहस्पते यो नो अभि ह्वरो दधे स्वा तं मर्मर्तु दुच्छुना हरस्वती ॥६॥
बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि ॥७॥
त्रातारं त्वा तनूनां हवामहेऽवस्पर्तरधिवक्तारमस्मयुम् ।
बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन्नशन् ॥८॥
त्वया वयं सुवृधा ब्रह्मणस्पते स्पार्हा वसु मनुष्या ददीमहि ।
या नो दूरे तळितो या अरातयोऽभि सन्ति जम्भया ता अनप्नसः ॥९॥
त्वया वयमुत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा ।
मा नो दुःशंसो अभिदिप्सुरीशत प्र सुशंसा मतिभिस्तारिषीमहि ॥१०॥
अनानुदो वृषभो जग्मिराहवं निष्टप्ता शत्रुं पृतनासु सासहिः ।
असि सत्य ऋणया ब्रह्मणस्पत उग्रस्य चिद्दमिता वीळुहर्षिणः ॥११॥
अदेवेन मनसा यो रिषण्यति शासामुग्रो मन्यमानो जिघांसति ।
बृहस्पते मा प्रणक्तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः ॥१२॥
भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनंधनम् ।
विश्वा इदर्यो अभिदिप्स्वो मृधो बृहस्पतिर्वि ववर्हा रथाँ इव ॥१३॥
तेजिष्ठया तपनी रक्षसस्तप ये त्वा निदे दधिरे दृष्टवीर्यम् ।
आविस्तत्कृष्व यदसत्त उक्थ्यं बृहस्पते वि परिरापो अर्दय ॥१४॥
बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु ।
यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥१५॥
मा न स्तेनेभ्यो ये अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः ।
आ देवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥१६॥
विश्वेभ्यो हि त्वा भुवनेभ्यस्परि त्वष्टाजनत्साम्नःसाम्नः कविः ।
स ऋणचिदृणया ब्रह्मणस्पतिर्द्रुहो हन्ता मह ऋतस्य धर्तरि ॥१७॥
तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः ।
इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम् ॥१८॥
ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥१९॥
सेमामविड्ढि प्रभृतिं य ईशिषेऽया विधेम नवया महा गिरा ।
यथा नो मीढ्वान्स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥१॥
यो नन्त्वान्यनमन्न्योजसोतादर्दर्मन्युना शम्बराणि वि ।
प्राच्यावयदच्युता ब्रह्मणस्पतिरा चाविशद्वसुमन्तं वि पर्वतम् ॥२॥
तद्देवानां देवतमाय कर्त्वमश्रथ्नन्दृळ्हाव्रदन्त वीळिता ।
उद्गा आजदभिनद्ब्रह्मणा वलमगूहत्तमो व्यचक्षयत्स्वः ॥३॥
तमेव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुरुत्समुद्रिणम् ॥४॥
सना ता का चिद्भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरन्त वः ।
अयतन्ता चरतो अन्यदन्यदिद्या चकार वयुना ब्रह्मणस्पतिः ॥५॥
अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमं गुहा हितम् ।
ते विद्वांसः प्रतिचक्ष्यानृता पुनर्यत उ आयन्तदुदीयुराविशम् ॥६॥
ऋतावानः प्रतिचक्ष्यानृता पुनरात आ तस्थुः कवयो महस्पथः ।
ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम् ॥७॥
ऋतज्येन क्षिप्रेण ब्रह्मणस्पतिर्यत्र वष्टि प्र तदश्नोति धन्वना ।
तस्य साध्वीरिषवो याभिरस्यति नृचक्षसो दृशये कर्णयोनयः ॥८॥
स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस्पतिः ।
चाक्ष्मो यद्वाजं भरते मती धनादित्सूर्यस्तपति तप्यतुर्वृथा ॥९॥
विभु प्रभु प्रथमं मेहनावतो बृहस्पतेः सुविदत्राणि राध्या ।
इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः ॥१०॥
योऽवरे वृजने विश्वथा विभुर्महामु रण्वः शवसा ववक्षिथ ।
स देवो देवान्प्रति पप्रथे पृथु विश्वेदु ता परिभूर्ब्रह्मणस्पतिः ॥११॥
विश्वं सत्यं मघवाना युवोरिदापश्चन प्र मिनन्ति व्रतं वाम् ।
अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम् ॥१२॥
उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना ।
वीळुद्वेषा अनु वश ऋणमाददिः स ह वाजी समिथे ब्रह्मणस्पतिः ॥१३॥
ब्रह्मणस्पतेरभवद्यथावशं सत्यो मन्युर्महि कर्मा करिष्यतः ।
यो गा उदाजत्स दिवे वि चाभजन्महीव रीतिः शवसासरत्पृथक् ॥१४॥
ब्रह्मणस्पते सुयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः ।
वीरेषु वीराँ उप पृङ्धि नस्त्वं यदीशानो ब्रह्मणा वेषि मे हवम् ॥१५॥
ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥१६॥
इन्धानो अग्निं वनवद्वनुष्यतः कृतब्रह्मा शूशुवद्रातहव्य इत् ।
जातेन जातमति स प्र सर्सृते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥१॥
वीरेभिर्वीरान्वनवद्वनुष्यतो गोभी रयिं पप्रथद्बोधति त्मना ।
तोकं च तस्य तनयं च वर्धते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥२॥
सिन्धुर्न क्षोदः शिमीवाँ ऋघायतो वृषेव वध्रीँरभि वष्ट्योजसा ।
अग्नेरिव प्रसितिर्नाह वर्तवे यंयं युजं कृणुते ब्रह्मणस्पतिः ॥३॥
तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति ।
अनिभृष्टतविषिर्हन्त्योजसा यंयं युजं कृणुते ब्रह्मणस्पतिः ॥४॥
तस्मा इद्विश्वे धुनयन्त सिन्धवोऽच्छिद्रा शर्म दधिरे पुरूणि ।
देवानां सुम्ने सुभगः स एधते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥५॥
सुप्रावीरिद्वनवत्पृत्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम् ॥१॥
यजस्व वीर प्र विहि मनायतो भद्रं मनः कृणुष्व वृत्रतूर्ये ।
हविष्कृणुष्व सुभगो यथाससि ब्रह्मणस्पतेरव आ वृणीमहे ॥२॥
स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरते धना नृभिः ।
देवानां यः पितरमाविवासति श्रद्धामना हविषा ब्रह्मणस्पतिम् ॥३॥
यो अस्मै हव्यैर्घृतवद्भिरविधत्प्र तं प्राचा नयति ब्रह्मणस्पतिः ।
उरुष्यतीमंहसो रक्षती रिषोऽंहोश्चिदस्मा उरुचक्रिरद्भुतः ॥४॥
इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि ।
शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ॥१॥
आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥२॥
त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः ।
अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिदन्ति ॥३॥
धारयन्त आदित्यासो जगत्स्था देवा विश्वस्य भुवनस्य गोपाः ।
दीर्घाधियो रक्षमाणा असुर्यमृतावानश्चयमाना ऋणानि ॥४॥
विद्यामादित्या अवसो वो अस्य यदर्यमन्भय आ चिन्मयोभु ।
युष्माकं मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम् ॥५॥
सुगो हि वो अर्यमन्मित्र पन्था अनृक्षरो वरुण साधुरस्ति ।
तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म ॥६॥
पिपर्तु नो अदिती राजपुत्राति द्वेषांस्यर्यमा सुगेभिः ।
बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥७॥
तिस्रो भूमीर्धारयन्त्रीँरुत द्यून्त्रीणि व्रता विदथे अन्तरेषाम् ।
ऋतेनादित्या महि वो महित्वं तदर्यमन्वरुण मित्र चारु ॥८॥
त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः ।
अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय ॥९॥
त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः ।
शतं नो रास्व शरदो विचक्षेऽश्यामायूंषि सुधितानि पूर्वा ॥१०॥
न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोत पश्चा ।
पाक्या चिद्वसवो धीर्या चिद्युष्मानीतो अभयं ज्योतिरश्याम् ॥११॥
यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्च नित्याः ।
स रेवान्याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ॥१२॥
शुचिरपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः ।
नकिष्टं घ्नन्त्यन्तितो न दूराद्य आदित्यानां भवति प्रणीतौ ॥१३॥
अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः ।
उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन्तमिस्राः ॥१४॥
उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् ।
उभा क्षयावाजयन्याति पृत्सूभावर्धौ भवतः साधू अस्मै ॥१५॥
या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः ।
अश्वीव ताँ अति येषं रथेनारिष्टा उरावा शर्मन्स्याम ॥१६॥
माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।
मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥१७॥
इदं कवेरादित्यस्य स्वराजो विश्वानि सान्त्यभ्यस्तु मह्ना ।
अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः ॥१॥
तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः ।
उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु द्यून् ॥२॥
तव स्याम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण प्रणेतः ।
यूयं नः पुत्रा अदितेरदब्धा अभि क्षमध्वं युज्याय देवाः ॥३॥
प्र सीमादित्यो असृजद्विधर्ताँ ऋतं सिन्धवो वरुणस्य यन्ति ।
न श्राम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुया परिज्मन् ॥४॥
मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर ऋतोः ॥५॥
अपो सु म्यक्ष वरुण भियसं मत्सम्राळृतावोऽनु मा गृभाय ।
दामेव वत्साद्वि मुमुग्ध्यंहो नहि त्वदारे निमिषश्चनेशे ॥६॥
मा नो वधैर्वरुण ये त इष्टावेनः कृण्वन्तमसुर भ्रीणन्ति ।
मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ॥७॥
नमः पुरा ते वरुणोत नूनमुतापरं तुविजात ब्रवाम ।
त्वे हि कं पर्वते न श्रितान्यप्रच्युतानि दूळभ व्रतानि ॥८॥
पर ऋणा सावीरध मत्कृतानि माहं राजन्नन्यकृतेन भोजम् ।
अव्युष्टा इन्नु भूयसीरुषास आ नो जीवान्वरुण तासु शाधि ॥९॥
यो मे राजन्युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यमाह ।
स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद्वरुण पाह्यस्मान् ॥१०॥
माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।
मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥११॥
धृतव्रता आदित्या इषिरा आरे मत्कर्त रहसूरिवागः ।
शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वाँ अवसे हुवे वः ॥१॥
यूयं देवाः प्रमतिर्यूयमोजो यूयं द्वेषांसि सनुतर्युयोत ।
अभिक्षत्तारो अभि च क्षमध्वमद्या च नो मृळयतापरं च ॥२॥
किमू नु वः कृणवामापरेण किं सनेन वसव आप्येन ।
यूयं नो मित्रावरुणादिते च स्वस्तिमिन्द्रामरुतो दधात ॥३॥
हये देवा यूयमिदापय स्थ ते मृळत नाधमानाय मह्यम् ।
मा वो रथो मध्यमवाळृते भून्मा युष्मावत्स्वापिषु श्रमिष्म ॥४॥
आरे पाशा आरे अघानि देवा मा माधि पुत्रे विमिव ग्रभीष्ट ॥५॥
अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् ।
त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः ॥६॥
माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।
मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥७॥
समिद्धो अग्निर्निहितः पृथिव्यां प्रत्यङ्विश्वानि भुवनान्यस्थात् ।
होता पावकः प्रदिवः सुमेधा देवो देवान्यजत्वग्निरर्हन् ॥१॥
नराशंसः प्रति धामान्यञ्जन्तिस्रो दिवः प्रति मह्ना स्वर्चिः ।
घृतप्रुषा मनसा हव्यमुन्दन्मूर्धन्यज्ञस्य समनक्तु देवान् ॥२॥
ईळितो अग्ने मनसा नो अर्हन्देवान्यक्षि मानुषात्पूर्वो अद्य ।
स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम् ॥३॥
देव बर्हिर्वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्यस्याम् ।
घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ॥४॥
वि श्रयन्तामुर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः ।
व्यचस्वतीर्वि प्रथन्तामजुर्या वर्णं पुनाना यशसं सुवीरम् ॥५॥
साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते ।
तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ॥६॥
दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः समृचा वपुष्टरा ।
देवान्यजन्तावृतुथा समञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु ॥७॥
सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः ।
तिस्रो देवीः स्वधया बर्हिरेदमच्छिद्रं पान्तु शरणं निषद्य ॥८॥
पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः ।
प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः ॥९॥
वनस्पतिरवसृजन्नुप स्थादग्निर्हविः सूदयाति प्र धीभिः ।
त्रिधा समक्तं नयतु प्रजानन्देवेभ्यो दैव्यः शमितोप हव्यम् ॥१०॥
घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम ।
अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥११॥
समिद्धो अग्निर्निहितः पृथिव्यां प्रत्यङ्विश्वानि भुवनान्यस्थात् ।
होता पावकः प्रदिवः सुमेधा देवो देवान्यजत्वग्निरर्हन् ॥१॥
नराशंसः प्रति धामान्यञ्जन्तिस्रो दिवः प्रति मह्ना स्वर्चिः ।
घृतप्रुषा मनसा हव्यमुन्दन्मूर्धन्यज्ञस्य समनक्तु देवान् ॥२॥
ईळितो अग्ने मनसा नो अर्हन्देवान्यक्षि मानुषात्पूर्वो अद्य ।
स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम् ॥३॥
देव बर्हिर्वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्यस्याम् ।
घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ॥४॥
वि श्रयन्तामुर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः ।
व्यचस्वतीर्वि प्रथन्तामजुर्या वर्णं पुनाना यशसं सुवीरम् ॥५॥
साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते ।
तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ॥६॥
दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः समृचा वपुष्टरा ।
देवान्यजन्तावृतुथा समञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु ॥७॥
सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः ।
तिस्रो देवीः स्वधया बर्हिरेदमच्छिद्रं पान्तु शरणं निषद्य ॥८॥
पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः ।
प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः ॥९॥
वनस्पतिरवसृजन्नुप स्थादग्निर्हविः सूदयाति प्र धीभिः ।
त्रिधा समक्तं नयतु प्रजानन्देवेभ्यो दैव्यः शमितोप हव्यम् ॥१०॥
घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम ।
अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥११॥
ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः ।
अहरहर्यात्यक्तुरपां कियात्या प्रथमः सर्ग आसाम् ॥१॥
यो वृत्राय सिनमत्राभरिष्यत्प्र तं जनित्री विदुष उवाच ।
पथो रदन्तीरनु जोषमस्मै दिवेदिवे धुनयो यन्त्यर्थम् ॥२॥
ऊर्ध्वो ह्यस्थादध्यन्तरिक्षेऽधा वृत्राय प्र वधं जभार ।
मिहं वसान उप हीमदुद्रोत्तिग्मायुधो अजयच्छत्रुमिन्द्रः ॥३॥
बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् ।
यथा जघन्थ धृषता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र ॥४॥
अव क्षिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः ।
तोकस्य सातौ तनयस्य भूरेरस्माँ अर्धं कृणुतादिन्द्र गोनाम् ॥५॥
प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ ।
इन्द्रासोमा युवमस्माँ अविष्टमस्मिन्भयस्थे कृणुतमु लोकम् ॥६॥
न मा तमन्न श्रमन्नोत तन्द्रन्न वोचाम मा सुनोतेति सोमम् ।
यो मे पृणाद्यो ददद्यो निबोधाद्यो मा सुन्वन्तमुप गोभिरायत् ॥७॥
सरस्वति त्वमस्माँ अविड्ढि मरुत्वती धृषती जेषि शत्रून् ।
त्यं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वृषभं शण्डिकानाम् ॥८॥
यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य ।
बृहस्पत आयुधैर्जेषि शत्रून्द्रुहे रीषन्तं परि धेहि राजन् ॥९॥
अस्माकेभिः सत्वभिः शूर शूरैर्वीर्या कृधि यानि ते कर्त्वानि ।
ज्योगभूवन्ननुधूपितासो हत्वी तेषामा भरा नो वसूनि ॥१०॥
तं वः शर्धं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनम् ।
यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवेदिवे ॥११॥
अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा ।
प्र यद्वयो न पप्तन्वस्मनस्परि श्रवस्यवो हृषीवन्तो वनर्षदः ॥१॥
अध स्मा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् ।
यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः ॥२॥
उत स्य न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः ।
अनु नु स्थात्यवृकाभिरूतिभी रथं महे सनये वाजसातये ॥३॥
उत स्य देवो भुवनस्य सक्षणिस्त्वष्टा ग्नाभिः सजोषा जूजुवद्रथम् ।
उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगतामपीजुवा ।
स्तुषे यद्वां पृथिवि नव्यसा वच स्थातुश्च वयस्त्रिवया उपस्तिरे ॥५॥
उत वः शंसमुशिजामिव श्मस्यहिर्बुध्न्योऽज एकपादुत ।
त्रित ऋभुक्षाः सविता चनो दधेऽपां नपादाशुहेमा धिया शमि ॥६॥
एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सम् ।
श्रवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः ॥७॥
अस्य मे द्यावापृथिवी ऋतायतो भूतमवित्री वचसः सिषासतः ।
ययोरायुः प्रतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे ॥१॥
मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत्त्वेमहे ॥२॥
अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम् ।
पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा ॥३॥
राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥४॥
यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥५॥
सिनीवालि पृथुष्टुके या देवानामसि स्वसा ।
जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥६॥
या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।
तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥७॥
इन्द्राणीमह्व ऊतये वरुणानीं स्वस्तये ॥८॥
आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः ।
अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः ॥१॥
त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः ।
व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः ॥२॥
श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस्तवसां वज्रबाहो ।
पर्षि णः पारमंहसः स्वस्ति विश्वा अभीती रपसो युयोधि ॥३॥
उन्नो वीराँ अर्पय भेषजेभिर्भिषक्तमं त्वा भिषजां शृणोमि ॥४॥
हवीमभिर्हवते यो हविर्भिरव स्तोमेभी रुद्रं दिषीय ।
ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन्मनायै ॥५॥
उन्मा ममन्द वृषभो मरुत्वान्त्वक्षीयसा वयसा नाधमानम् ।
घृणीव च्छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम् ॥६॥
क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः ।
अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥७॥
प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि ।
नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम ॥८॥
स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः ।
ईशानादस्य भुवनस्य भूरेर्न वा उ योषद्रुद्रादसुर्यम् ॥९॥
अर्हन्बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम् ।
अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र त्वदस्ति ॥१०॥
स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् ।
मृळा जरित्रे रुद्र स्तवानोऽन्यं ते अस्मन्नि वपन्तु सेनाः ॥११॥
कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् ।
भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मे ॥१२॥
या वो भेषजा मरुतः शुचीनि या शंतमा वृषणो या मयोभु ।
यानि मनुरवृणीता पिता नस्ता शं च योश्च रुद्रस्य वश्मि ॥१३॥
परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर्मही गात् ।
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ ॥१४॥
एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि ।
हवनश्रुन्नो रुद्रेह बोधि बृहद्वदेम विदथे सुवीराः ॥१५॥
धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास्तविषीभिरर्चिनः ।
अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा अवृण्वत ॥१॥
द्यावो न स्तृभिश्चितयन्त खादिनो व्यभ्रिया न द्युतयन्त वृष्टयः ।
रुद्रो यद्वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि ॥२॥
उक्षन्ते अश्वाँ अत्याँ इवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः ।
हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः ॥३॥
पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः ।
पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः ॥४॥
आ हंसासो न स्वसराणि गन्तन मधोर्मदाय मरुतः समन्यवः ॥५॥
आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन ।
अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम् ॥६॥
तं नो दात मरुतो वाजिनं रथ आपानं ब्रह्म चितयद्दिवेदिवे ।
इषं स्तोतृभ्यो वृजनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः ॥७॥
यद्युञ्जते मरुतो रुक्मवक्षसोऽश्वान्रथेषु भग आ सुदानवः ।
धेनुर्न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीमिषम् ॥८॥
यो नो मरुतो वृकताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः ।
वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हन्तना वधः ॥९॥
चित्रं तद्वो मरुतो याम चेकिते पृश्न्या यदूधरप्यापयो दुहुः ।
यद्वा निदे नवमानस्य रुद्रियास्त्रितं जराय जुरतामदाभ्याः ॥१०॥
तान्वो महो मरुत एवयाव्नो विष्णोरेषस्य प्रभृथे हवामहे ।
हिरण्यवर्णान्ककुहान्यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे ॥११॥
उषा न रामीररुणैरपोर्णुते महो ज्योतिषा शुचता गोअर्णसा ॥१२॥
ते क्षोणीभिररुणेभिर्नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः ।
निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम् ॥१३॥
ताँ इयानो महि वरूथमूतय उप घेदेना नमसा गृणीमसि ।
त्रितो न यान्पञ्च होतॄनभिष्टय आववर्तदवराञ्चक्रियावसे ॥१४॥
यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम् ।
अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु ॥१५॥
उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे ।
अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि ॥१॥
इमं स्वस्मै हृद आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत् ।
अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान ॥२॥
समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति ।
तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः ॥३॥
तमस्मेरा युवतयो युवानं मर्मृज्यमानाः परि यन्त्यापः ।
स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घृतनिर्णिगप्सु ॥४॥
अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम् ।
कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम् ॥५॥
अश्वस्यात्र जनिमास्य च स्वर्द्रुहो रिषः सम्पृचः पाहि सूरीन् ।
आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन्नानृतानि ॥६॥
स्व आ दमे सुदुघा यस्य धेनुः स्वधां पीपाय सुभ्वन्नमत्ति ।
सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति ॥७॥
यो अप्स्वा शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति ।
वया इदन्या भुवनान्यस्य प्र जायन्ते वीरुधश्च प्रजाभिः ॥८॥
अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः ।
तस्य ज्येष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः ॥९॥
हिरण्यरूपः स हिरण्यसंदृगपां नपात्सेदु हिरण्यवर्णः ।
हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै ॥१०॥
तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम् ।
यमिन्धते युवतयः समित्था हिरण्यवर्णं घृतमन्नमस्य ॥११॥
अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः ।
सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैः परि वन्द ऋग्भिः ॥१२॥
स ईं वृषाजनयत्तासु गर्भं स ईं शिशुर्धयति तं रिहन्ति ।
सो अपां नपादनभिम्लातवर्णोऽन्यस्येवेह तन्वा विवेष ॥१३॥
अस्मिन्पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसम् ।
आपो नप्त्रे घृतमन्नं वहन्तीः स्वयमत्कैः परि दीयन्ति यह्वीः ॥१४॥
अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिम् ।
विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥१५॥
तुभ्यं हिन्वानो वसिष्ट गा अपोऽधुक्षन्सीमविभिरद्रिभिर्नरः ।
पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्रादा सोमं प्रथमो य ईशिषे ॥१॥
यज्ञैः सम्मिश्लाः पृषतीभिरृष्टिभिर्यामञ्छुभ्रासो अञ्जिषु प्रिया उत ।
आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥२॥
अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन ।
अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः ॥३॥
आ वक्षि देवाँ इह विप्र यक्षि चोशन्होतर्नि षदा योनिषु त्रिषु ।
प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि ॥४॥
एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः ।
तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥५॥
जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु ।
अच्छा राजाना नम एत्यावृतं प्रशास्त्रादा पिबतं सोम्यं मधु ॥६॥
मन्दस्व होत्रादनु जोषमन्धसोऽध्वर्यवः स पूर्णां वष्ट्यासिचम् ।
तस्मा एतं भरत तद्वशो ददिर्होत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥१॥
यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते ।
अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥२॥
मेद्यन्तु ते वह्नयो येभिरीयसेऽरिषण्यन्वीळयस्वा वनस्पते ।
आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥३॥
अपाद्धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत प्रयो हितम् ।
तुरीयं पात्रममृक्तममर्त्यं द्रविणोदाः पिबतु द्राविणोदसः ॥४॥
अर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम् ।
पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू ॥५॥
जोष्यग्ने समिधं जोष्याहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम् ।
विश्वेभिर्विश्वाँ ऋतुना वसो मह उशन्देवाँ उशतः पायया हविः ॥६॥
उदु ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात् ।
नूनं देवेभ्यो वि हि धाति रत्नमथाभजद्वीतिहोत्रं स्वस्तौ ॥१॥
विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति ।
आपश्चिदस्य व्रत आ निमृग्रा अयं चिद्वातो रमते परिज्मन् ॥२॥
आशुभिश्चिद्यान्वि मुचाति नूनमरीरमदतमानं चिदेतोः ।
अह्यर्षूणां चिन्न्ययाँ अविष्यामनु व्रतं सवितुर्मोक्यागात् ॥३॥
पुनः समव्यद्विततं वयन्ती मध्या कर्तोर्न्यधाच्छक्म धीरः ।
उत्संहायास्थाद्व्यृतूँरदर्धररमतिः सविता देव आगात् ॥४॥
नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते प्रभवः शोको अग्नेः ।
ज्येष्ठं माता सूनवे भागमाधादन्वस्य केतमिषितं सवित्रा ॥५॥
समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत् ।
शश्वाँ अपो विकृतं हित्व्यागादनु व्रतं सवितुर्दैव्यस्य ॥६॥
त्वया हितमप्यमप्सु भागं धन्वान्वा मृगयसो वि तस्थुः ।
वनानि विभ्यो नकिरस्य तानि व्रता देवस्य सवितुर्मिनन्ति ॥७॥
याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः ।
विश्वो मार्ताण्डो व्रजमा पशुर्गात्स्थशो जन्मानि सविता व्याकः ॥८॥
न यस्येन्द्रो वरुणो न मित्रो व्रतमर्यमा न मिनन्ति रुद्रः ।
नारातयस्तमिदं स्वस्ति हुवे देवं सवितारं नमोभिः ॥९॥
भगं धियं वाजयन्तः पुरंधिं नराशंसो ग्नास्पतिर्नो अव्याः ।
आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम ॥१०॥
अस्मभ्यं तद्दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आ गात् ।
शं यत्स्तोतृभ्य आपये भवात्युरुशंसाय सवितर्जरित्रे ॥११॥
ग्रावाणेव तदिदर्थं जरेथे गृध्रेव वृक्षं निधिमन्तमच्छ ।
ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा ॥१॥
मेने इव तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषु ॥२॥
शृङ्गेव नः प्रथमा गन्तमर्वाक्छफाविव जर्भुराणा तरोभिः ।
चक्रवाकेव प्रति वस्तोरुस्रार्वाञ्चा यातं रथ्येव शक्रा ॥३॥
नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव ।
श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातमस्मान् ॥४॥
वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वाक् ।
हस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छ ॥५॥
ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं जीवसे नः ।
नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे ॥६॥
हस्तेव शक्तिमभि संददी नः क्षामेव नः समजतं रजांसि ।
इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् ॥७॥
एतानि वामश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् ।
तानि नरा जुजुषाणोप यातं बृहद्वदेम विदथे सुवीराः ॥८॥
हुवे वः सुद्योत्मानं सुवृक्तिं विशामग्निमतिथिं सुप्रयसम् ।
मित्र इव यो दिधिषाय्यो भूद्देव आदेवे जने जातवेदाः ॥१॥
इमं विधन्तो अपां सधस्थे द्वितादधुर्भृगवो विक्ष्वायोः ।
एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः ॥२॥
अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो न मित्रम् ।
अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिरस्य हियानस्य दक्षोः ।
वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान् ॥४॥
आ यन्मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् ।
स चित्रेण चिकिते रंसु भासा जुजुर्वाँ यो मुहुरा युवा भूत् ॥५॥
आ यो वना तातृषाणो न भाति वार्ण पथा रथ्येव स्वानीत् ।
कृष्णाध्वा तपू रण्वश्चिकेत द्यौरिव स्मयमानो नभोभिः ॥६॥
स यो व्यस्थादभि दक्षदुर्वीं पशुर्नैति स्वयुरगोपाः ।
अग्निः शोचिष्माँ अतसान्युष्णन्कृष्णव्यथिरस्वदयन्न भूम ॥७॥
नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि ।
अस्मे अग्ने संयद्वीरं बृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः ॥८॥
त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपराँ अभि ष्युः ।
सुवीरासो अभिमातिषाहः स्मत्सूरिभ्यो गृणते तद्वयो धाः ॥९॥
सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः ।
जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम् ॥१॥
इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा ।
आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु ॥२॥
सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम् ।
विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥३॥
दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यन्तरिक्षे ।
तावस्मभ्यं पुरुवारं पुरुक्षुं रायस्पोषं वि ष्यतां नाभिमस्मे ॥४॥
विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति ।
सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पृतना जयेम ॥५॥
धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु ।
अवतु देव्यदितिरनर्वा बृहद्वदेम विदथे सुवीराः ॥६॥
शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः ।
अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ।
न यत्परो नान्तर आदधर्षद्वृषण्वसू ।
ता न आ वोळ्हमश्विना रयिं पिशङ्गसंदृशम् ।
इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् ।
स हि स्थिरो विचर्षणिः ॥१०॥
इन्द्रश्च मृळयाति नो न नः पश्चादघं नशत् ।
भद्रं भवाति नः पुरः ॥११॥
इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत् ।
विश्वे देवास आ गत शृणुता म इमं हवम् ।
तीव्रो वो मधुमाँ अयं शुनहोत्रेषु मत्सरः ।
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
विश्वे मम श्रुता हवम् ॥१५॥
अम्बितमे नदीतमे देवितमे सरस्वति ।
अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥१६॥
त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् ।
शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥१७॥
इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति ।
या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ॥१८॥
प्रेतां यज्ञस्य शम्भुवा युवामिदा वृणीमहे ।
द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशम् ।
आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः ।
कनिक्रदज्जनुषं प्रब्रुवाण इयर्ति वाचमरितेव नावम् ।
सुमङ्गलश्च शकुने भवासि मा त्वा का चिदभिभा विश्व्या विदत् ॥१॥
मा त्वा श्येन उद्वधीन्मा सुपर्णो मा त्वा विददिषुमान्वीरो अस्ता ।
पित्र्यामनु प्रदिशं कनिक्रदत्सुमङ्गलो भद्रवादी वदेह ॥२॥
अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते ।
मा न स्तेन ईशत माघशंसो बृहद्वदेम विदथे सुवीराः ॥३॥
प्रदक्षिणिदभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः ।
उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु राजति ॥१॥
वृषेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद ॥२॥
आवदँस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः ।
यदुत्पतन्वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः ॥३॥
होताजनिष्ट चेतनः पिता पितृभ्य ऊतये ।
प्रयक्षञ्जेन्यं वसु शकेम वाजिनो यमम् ॥१॥
आ यस्मिन्सप्त रश्मयस्तता यज्ञस्य नेतरि ।
मनुष्वद्दैव्यमष्टमं पोता विश्वं तदिन्वति ॥२॥
दधन्वे वा यदीमनु वोचद्ब्रह्माणि वेरु तत् ।
परि विश्वानि काव्या नेमिश्चक्रमिवाभवत् ॥३॥
साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि ।
विद्वाँ अस्य व्रता ध्रुवा वया इवानु रोहते ॥४॥
ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः ।
कुवित्तिसृभ्य आ वरं स्वसारो या इदं ययुः ॥५॥
यदी मातुरुप स्वसा घृतं भरन्त्यस्थित ।
तासामध्वर्युरागतौ यवो वृष्टीव मोदते ॥६॥
स्वः स्वाय धायसे कृणुतामृत्विगृत्विजम् ।
स्तोमं यज्ञं चादरं वनेमा ररिमा वयम् ॥७॥
यथा विद्वाँ अरं करद्विश्वेभ्यो यजतेभ्यः ।
अयमग्ने त्वे अपि यं यज्ञं चकृमा वयम् ॥८॥
इमां मे अग्ने समिधमिमामुपसदं वनेः ।
इमा उ षु श्रुधी गिरः ॥१॥
तं त्वा गीर्भिर्गिर्वणसं द्रविणस्युं द्रविणोदः ।
स बोधि सूरिर्मघवा वसुपते वसुदावन् ।
स नो वृष्टिं दिवस्परि स नो वाजमनर्वाणम् ।
अन्तर्ह्यग्न ईयसे विद्वाञ्जन्मोभया कवे ।
स विद्वाँ आ च पिप्रयो यक्षि चिकित्व आनुषक् ।
श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तमा भर ।
मा नो अरातिरीशत देवस्य मर्त्यस्य च ।
पर्षि तस्या उत द्विषः ॥२॥
विश्वा उत त्वया वयं धारा उदन्या इव ।
शुचिः पावक वन्द्योऽग्ने बृहद्वि रोचसे ।
त्वं नो असि भारताग्ने वशाभिरुक्षभिः ।
द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः ।
नि होता होतृषदने विदानस्त्वेषो दीदिवाँ असदत्सुदक्षः ।
अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥१॥
त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता ।
अग्ने तोकस्य नस्तने तनूनामप्रयुच्छन्दीद्यद्बोधि गोपाः ॥२॥
यस्माद्योनेरुदारिथा यजे तं प्र त्वे हवींषि जुहुरे समिद्धे ॥३॥
अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गृणीहि राधः ।
त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ॥४॥
उभयं ते न क्षीयते वसव्यं दिवेदिवे जायमानस्य दस्म ।
कृधि क्षुमन्तं जरितारमग्ने कृधि पतिं स्वपत्यस्य रायः ॥५॥
सैनानीकेन सुविदत्रो अस्मे यष्टा देवाँ आयजिष्ठः स्वस्ति ।
अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि ॥६॥
<DOC_END>
<DOC_START>
यस्मिन् देवा अधि विश्वे निषेदुः ।
यस्तं न वेद किम् ऋचा करिष्यति
य इत्तद्विदुः त इमे समासते ॥ श्वेताश्वतरोपनिषत् ४-८
यस्मिन् परमे व्योम्नि अक्षरे वेदाः प्रतिष्ठिताः, सर्वे देवाश्च प्रतिष्ठिताः सन्ति,
करिष्यति ये तद् ब्रह्म स्वात्मत्वेन विदुः ते सन्तृप्ताः सन्तः अमृता भवन्ति ।
सर्वे वेदाः, सर्वे देवाश्च परस्मादेव आत्मनः जाताः सन्तः परमात्मन्येव प्रतिष्ठिताः
सन्ति । परं ब्रह्मैव समस्तस्यापि विश्वस्य आस्पदभूतं कूटस्थं तत्त्वम् । सर्वाणि
वेदवेदान्तशास्त्रपुराणानि तमेव परमात्मानं प्रतिपादयन्ति । परब्रह्मणः विज्ञानमेव
परं ब्रह्म अविज्ञाय सकलवेदशास्त्रपारङ्गतश्चेत् तावन्मात्रेण किं प्रयोजनम् अधीता
वेदा एव अनर्थज्ञं तम् अज्ञं तिरस्कुर्वन्ति । परमात्मानं विज्ञायैव मानवः अमृतात्मा
भवति । शास्त्राध्ययनस्य ब्रह्मज्ञानमेव परमं प्रयोजनम् ॥
<DOC_END>
<DOC_START>
==ऋतस्य पन्थां न तरन्ति दुष तः ॥ ऋग्वेदः ९-७३-६
दुष्कर्मी न्यायमार्गम् अतिक्रान्तुं न शक्नोति ।
: न्यायमार्गस्य अन्त्यं भवति शान्ति-समाधानानन्दादिषु । अयं मार्गः विस्तृतः राजमार्गः वर्तते । अस्मिन् मार्गे चलनाय सञ्चारनियमाः पालनीयाः । अस्मिन्नेव मार्गे चलतः अन्यस्य पथिकस्य घट्टनं न करणीयम् । तस्य अवरोधः न कर्तव्यः । प्रत्युत अन्येषां प्रयाणं सुखकरं यथा स्यात् तथा साहाय्यं करणीयम् । अस्मिन् मार्गे गमनावसरे सत्यमेव कथनीयम् । जीविकासम्पादनमपि ऋजुमार्गेणैव स्यात् । अनुकम्प-सत्य-निष्कपटादयः सत्कर्म इति कथ्यते । एतेषां पालनं यः न करोति सः एव दुष्कर्मी । सञ्चारनियमान् अपालयन् दुष्कर्मी अस्मिन् मार्गे गन्तुं नार्हति । उपमार्गाः पादमार्गाः च बहवः विद्यन्ते । किन्तु ते च मार्गाः शान्ति-समाधानानन्दान् प्रति न नेष्यन्ति । तेन मार्गेण गम्यते चेत् मार्गभ्रष्टाः सन्तः क्लेशव्यूहे एव परिभ्रमणीयं भवेत् । न्यायं मार्गं दुष्टः क्रान्तुं नार्हति !
<DOC_END>
<DOC_START>
==ऋषिः स यो मनुर्हितः ॥ ऋग्वेदः ४-५-२
मनुकुलस्य हिताकांक्षी एव ऋषिः ।
: जटाश्मश्रुधारी, धृतदण्डकमण्डलुः एव ऋषिः इति सामान्या कल्पना । न तथा । मनुकुलस्य सकलस्य जीवराशेः हिताकांक्षी एव ऋषिः । इयम् आकांक्षा मानसिकीमात्रं न भवेत् अपि तु क्रियारूपं प्राप्नुयात् । ऋषिर्दर्शनात् सत्यस्य दर्शनात् ऋषिः भवति । सत्यदर्शनं नाम किम् आत्मनः बलवर्धनाय एव विद्यते इदं जीवनं न तु इन्द्रियभोगमात्राय । न्यूनाधिक्यं विना इमम् आनन्दं दीर्घकालम् अनुभोक्तुम् इदम् आत्मबलम् अत्यवश्यम् । सर्वेषां जीविनां हिताकांक्षा, तस्य साधनमेव आत्मबलस्य प्राप्तै विद्यमानः एकैकः मार्गः । सर्वैः अपि ऋषिभिः भवितव्यमेव । यावदधिकं साधयेम तावदधिकं बलं सञ्चितं स्यात् ।
<DOC_END>
<DOC_START>
अस्य एकमेव नेत्रं विद्यते, किन्तु काकः न । बिलम् इच्छति, किन्तु न सर्पः । क्षयं अपि च वृद्धिं गच्छति किन्तु समुद्रः चन्द्रमा वा नास्ति ।
<DOC_END>
<DOC_START>
एकनाथरामकृष्णरानडे नवेम्बर् १९, १९१४ आगस्ट् २२, १९८२) स्वातन्त्र्ययोधा, क्रान्तिकारी च आसीत् । स्वामी विवेकानन्दवर्येण नितरां प्रेरितः सः १९७१ तमे वर्षे भारते कन्याकुमार्यां विवेकानन्दकेन्द्रं संस्थापितवान् ।
गतेभ्यः सहस्राधिकवर्षेभ्यः अस्माभिः स्वीयं कर्तव्यं विस्मृतम् अस्ति । अस्माभिः एव कृतानां विपरीतकर्मणां कारणतः अद्यत्वे वयं कटुफलम् अनुभवन्तः स्मः । समाजस्य राष्ट्रस्य वा वैभवपूर्ण-स्थितेः निर्माणं यथा सिद्ध्येत् तादृशम् उत्तमं कार्यं करवाम । तादृशं कार्यं कुर्याम येन तदीयं फलम् अग्रिमपरम्परीयैः अपि अवश्यं प्राप्येत । (सङ्घसाधना, एकनाथरानडे, पृ-131)
<DOC_END>
<DOC_START>
एकीभवति न पश्यति इत्याहुः, एकीभवति न जिघ्रति इत्याहुः…… न विजानाति
इन्द्रियम् लिङ्गात्मनि एकीभवति । तदा समीपस्थाः मुमूर्षुं दर्शयन्तः 'अयं न पश्यति, न जिघ्रति,
मुमूर्षुर्नाम मरणसमीपस्थः । प्रारब्धकर्मफलानि अनुभूय अस्य जन्मनः, अस्य लोकस्य, अस्य देहस्य
च सर्वान् व्यवहारान् परिसमाप्य आगामिजन्म प्राप्तुम्, आगामिदेहं प्राप्तुं सिद्धो हि मुमूर्षुर्नाम । अयं यदा
प्राणं त्यजति तदा अस्य सर्वाण्यपि इन्द्रियाणि स्वानि स्वानि मूलस्थानानि प्रविशन्ति । तानि तानि
इन्द्रियाणि आत्मनः तासु तासु कारणदेव तासु एकीभवन्ति ॥
अत्र प्रमाणं तु अयं मन्त्रः । मुमूर्षोः इन्द्रियमनांसि तदा स्वस्व व्यापारेभ्यः शान्तानि भवन्ति । अत एव
तस्य समीपस्थाः बान्धवाः तं पश्यन्तः 'एषः नैव किञ्चित् पश्यति, नैव किञ्चित् जानाति' इति वदन्ति
खलु एषा एव मुमूर्षोः अवस्था !
<DOC_END>
<DOC_START>
एकैकः पुरुषो देवान् भुनक्ति… तस्मात् एषां तन्न प्रियं यदेतत् मनुष्या विदुः । बृहदारण्यकोपनिषत् १-४-१०
यथा एकैकः पुरुषः अनेकान् पशून् पालयित्वा तेभ्यः स्वयं सुखम् अनुभवति, तथैव देवताः मनुष्यान् पशुवत् रक्षन्ति ।
अयं मानवः बहुदेवतानां पशुस्थानीयः सन् देवताराधनद्वारा ताभ्यो भोगान् उत्पादयति । तस्मात् यदि मनुष्याः आत्मानं
विज्ञाय कृतार्थाः भवितुम् ईहन्ते, न तत् देवानाम् किञ्चिदपि इष्टं भवति ॥
कर्मोपासनानि कुर्वन्तः देवताः स्तुवन्तः, देवताभ्यः आहुतीः अर्पयन्तः मानवाः यदि देवताः सन्तोषयन्ति, तदा तास्ता
देवताः सन्तुष्यन्ति । ततः सन्तुष्टाः देवताः मानवेभ्यः इष्टप्राप्तिरूपं फलम् अनुगृह्णन्ति । मानवैः प्रार्थितान् सर्वान् वरान्
एतत् सर्वमपि लौकिकदृष्ट्या रमणीयमिव दृश्यमानमपि अत्र दोषोऽस्ति । मानवाः पशूनिव, देवा अपि मानवान् स्वार्थपशून्
कृत्वा परिपालयन्ति । परमस्वार्थिनो हि देवाः । तस्मात् हे मानवाः, जाग्रत, जाग्रत आत्मज्ञानेन यूयं कृतार्था भवत ॥
<DOC_END>
<DOC_START>
साक्षी चेता केवलो निर्गुणश्च ॥ श्वेताश्वतरोपनिषत् ६-११
परमात्मा अद्वितीयः स्वयंप्रकाशः सन् सर्वभूतेषु गूढः ।
अयं सर्वव्यापकः सर्वभूतान्तरात्मा कर्माध्यक्षः सर्वभूताधिवासश्च ।
अयमेवात्मा साक्षी चिन्मात्रः केवलो निर्गुणश्च भवति ॥
अयं मन्त्रः सुप्रसिद्धः । अध्यारोपापवादप्रक्रियाम् अनुसृत्य
अयं मन्त्रः परब्रह्मणः परमार्थस्वरूपं प्रतिपादयति । परमात्मा
एकः, अद्वितीयः । अयं सर्वभूतेषु वसति । सर्वव्यापकोऽपि
आत्मा अयं कर्माध्यक्षः । सर्वप्राणिनां सर्वकर्मणां तत्तत्फलानां
च साक्षिभूतोऽयम् आत्मा । सर्वे प्राणिनः स्वस्वस्वभावसंस्कारानुगुण्येन
पुण्यपापकर्माणि कुर्वन्ति । तथैव तादृशानि फलानि च प्राप्य
भुञ्जते । आत्मा तु सर्वस्याप्यस्य केवलं साक्षिभूतः । आत्मा स्वयं
निर्गुणः, निर्विशेषः, केवलः अद्वितीयश्च भवति ॥
<DOC_END>
<DOC_START>
एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च
व्युत्थाय अथ भिक्षाचर्यं चरन्ति । बृहदारण्यकोपनिषत् ३-५-१
तम् एतम् आत्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाः वित्तैषणायाः लोकैषणायाश्च
व्युत्थाय अथ भिक्षाचर्यं चरन्ति ।
गृहस्थेन ‘तिस्रः आशाः एष्टव्याः’ इति वेदेषु उच्यते । अस्यैव ‘एषणात्रयम्’ इति
नाम । ताश्च तिस्रः एषणाः पुत्रैषणा, वित्तैषणा, लोकैषणा च । एषणात्रयाकांक्षिणो
हि अज्ञानिनः संसारिणः । गृहस्थाश्रमं प्रविश्य पुत्रान् उत्पाद्या आत्मनः वंशवृक्षं
वर्धयित्वा अस्मिन् मानुषे लोके ख्यातबुभूषा एव पुत्रैषणा । कर्माणि कृत्वा अधिकां
सम्पदं प्राप्तुम् इच्छा एव वित्तैषणा । अग्निहोत्रं, यज्ञयागादीनि च अनुष्ठाय
मरणानन्तरं स्वर्गलोकप्रेप्सा एव लोकैषणा ॥
एषणात्रयसंन्यासं कृत्वा प्रत्यगात्मानं ज्ञातुं ये यतन्ते, ज्ञात्वा ये कृतार्थाः भवितुम्
इच्छन्ति ते एव धीराः । एते एषणात्रयं त्यक्त्वा, संन्यासिनो भूत्वा,
वेदान्तवाक्यार्थविचारपराः सन्तः ज्ञानिनो मुच्यन्ते । एते एव यतयः ॥
<DOC_END>
<DOC_START>
अस्य महतो भूतस्य निः श्वसितम् एतत् यद् ऋग्वेदो यजुर्वेदः सामवेदो अथर्वाङ्गिरसः । बृहदारण्यकोपनिषत् २-४-१०
ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः इत्येते महतः परमात्मनः निः श्वसितमेव ।
सर्वे वेदाः, समस्ताः उपनिषदः, सकलानि शास्त्राणि च परमात्मन एव जायन्ते । मीमांसकाः वेदान् अपौरुषेयान् आचक्षते ।
अपौरुषेयत्वं नाम न केनापि पुरुषेण रचितत्वम् । वेदान्तिनोऽपि वेदान् अपौरुषेयान् एव वदन्ति । अपि तु द्वयोरपि वेदापौरुषेयत्व
वेदाः परमात्मनः निः श्वसितम्, भगवतः वाणी, ईश्वरस्य वचः – इति वेदान्तिनः कथयन्ति । नासिकावायुः उच्छवासः
निश्श्वासश्च इति द्विधा विद्यते हि । प्रयत्नसाध्यः उच्छ्वासः, निरायासस्तु निश्श्वासः । वेदाः भगवतः निश्श्वासः । परमात्मनो
निरायासम् आगता वेदाः भगवतः निश्श्वासः । परमात्मनो निरायासम् आगता वेदाः सहजतया अभिव्यक्ता इत्यर्थः । सर्वज्ञस्य
सर्वशक्तस्य च परमात्मनः बाह्यसाकाररूपा एव हि वेदा नाम । तस्मादेव हेतोः वेदाः प्रमाणानि भवन्ति ॥
<DOC_END>
<DOC_START>
एतत् ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित् । श्वेताश्वत्रोपनिषत् १-१२
नित्यमेव आत्मसंस्थं ब्रह्मैव सर्वैः ज्ञेयम्, अतः परं वेदितव्यं किञ्चिदपि नास्ति ।
सर्वासां वेदोपनिषदां सारं सरलतया उपदिशति अयं मन्त्रः । 'ब्रह्मैव सर्वैः विज्ञेयम्' इति
हि सकलशास्त्राणां सन्देशः । ‘ब्रह्म’शब्दश्रवणमात्रेण अनेकेषां मनसि परोक्षभूता दूरस्था
काचित् देवता इति कल्पना जायते । नैषा कल्पना साध्वी । ब्रह्म इति ‘आत्मसंस्थम्’ ।
आत्मनि सम्यक् स्थितम् – आत्मसंस्थम् । स्वस्मिन्नेव अवस्थितं स्वरूपभूतं ब्रह्म इत्यर्थः ॥
परमार्थतस्तु ब्रह्म न आत्मनि स्थितम् । किं तु आत्मैव ब्रह्म । ब्रह्मैव उपाधिभिः जीवात्मरूपेण
अवभासते । एतद् ब्रह्मैव साधकैः विज्ञेयम् । अनेन ज्ञानेनैव परमा शान्तिः, मुक्तिश्च लभ्यते ।
एतावति विज्ञाते इतोऽधिकं ज्ञातव्यं न किञ्चिदवशिष्यते । ज्ञातव्यं सर्वमपि एतावदेव ।
सकलशास्त्राणामपि सन्देशः अयमेव । ब्रह्मणि आत्मत्वेन ज्ञाते सति साधकः मुक्तो भवति ॥
<DOC_END>
<DOC_START>
कर्मानुष्ठानेन अस्माकम् इष्टफलप्राप्तिर्भवति, अनिष्टपरिहारश्च भवति । कर्मभिः सर्वविधानि अभ्युदयफलानि
लभ्यन्ते, अतः कर्तव्यान्येव कर्माणि; इत्येतत् सत्यमेव । न तु कर्मफलं मुक्तिर्भवति । कर्मयोगरूपेण अनुष्ठीयन्ते
चेत् तदा चित्तशुद्धिद्वारा कर्माणि आत्मज्ञानोदयाय सहायकानि भवन्ति ॥
इदं सूक्ष्मं रहस्यम् अविज्ञाय ये केवलकर्ममार्गनिरताः सन्तः कर्ममार्गमेव च श्रेयोमार्गं मन्यन्ते ते मूढा एव ननु
कर्मफलानि अनुभवितुं जायन्ते । जाताः सन्तः पुनः कर्माणि कुर्वते, पुनः म्रियन्ते । एवम् एतेषां जन्ममरणानि
अपरिहार्याणि । आत्मज्ञानादेव मुक्तिः लभ्यते, न तु कर्मकोटिभिः ॥
<DOC_END>
<DOC_START>
एतद् वृङ्क्ते पुरुषस्य अल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे । काठकोपनिषत् १-१-८
यस्य गृहस्थस्य गृहे भोजनम् अकृत्वा अतिथिः वसति, तस्य आथितेयस्य सर्वमपि पुण्यम् एषः ब्राह्मणो
अनिरीक्षितः अनाहूतः यः स्वयमेव गृहम् आगच्छति तस्य ‘अतिथिः’ इति नामधेयम् । इमम् अतिथिं
’महाविष्णु’ भावनया सत्कुर्यात् । अतिथिसेवा गृहस्थाश्रमस्य मुख्यं कर्तव्यम् । अतिथिसेवया देवताः
सन्तुष्टा भवन्ति । अयं भारतीयः सम्प्रदायः ॥
इदानींतनकाले तु अतिथीनां दर्शनेनैव कोपः सञ्जायते । अतिथयो नाम अस्माकं जुगुप्सा जायेत ।
अतिथीनां सत्कारो न क्रियते इत्येव केवलं न, किं तु तेषां तिरस्कार एव क्रियते । एतत् सर्वथा
अकार्यम्, अयं महापराधः । अतिथितिरस्कारः महापापमेव ॥
मानवेन सप्रयत्नं सम्पादितः सर्वोऽपि पुण्यराशिः अतिथितिरस्कारेणा नश्यति । पुण्यसम्पादनम्
अतीव कष्टम्, अपि तु तस्य नाशनम् अतिसुलभम् । तस्मात् अतिथिसत्कारः सदा कर्तव्यः,
अतिथितिरस्कारः न कदापि कर्तव्यः इत्यर्थः ॥
<DOC_END>
<DOC_START>
एतद्ध्येवाक्षरं ब्रह्म एतदध्येवाक्षरं परम् । काठकोपनिषत् १-२-१६
एष ओङ्कार एव परं ब्रह्म अपरं च ब्रह्म भवति ।
उपनिषत्सु ओङ्कारस्य उपासनं ज्ञानं च तत्र तत्र उपदिश्यते । ओङ्कारः अपरब्रह्मत्वेन
उपास्यः, परब्रह्मत्वेन च ज्ञेयः इति उपदिश्यते । अकार उकार मकारात्मकम् ओङ्कारं
सृष्टिस्थितिलयकरत्वेन अपरं ब्रह्म उपासीत । नैष्ठिकब्रह्मचारिणः तुरीयाश्रमिणः
संन्यासिनश्च प्रणवोपासनतत्पराः भवेयुः । तेषां मरणानन्तरं ब्रह्मलोकप्राप्तिः फलं
भवति, तत्र आत्मज्ञानं लब्ध्वा ते मुच्यन्ते ॥
अथ उत्तमाधिकारिणः मुमुक्षवः जिज्ञासवश्चेत् ते तत्त्वविचारपराः सन्तः ओङ्कारं
परब्रह्मत्वेन जानीयुः । अकार एव जाग्रदवस्था, उकार एव स्वप्नावस्था, मकार
एव सुषुप्तावस्था च । अमात्रः अपादश्च ओङ्काराख्यः प्रणव एव परं ब्रह्म । वैश्वानर
तैजस प्राज्ञाख्यान् त्रीनप्यात्मनः अतीत्य स्थितः तुरीय आत्मैव ओङ्कारः । ओङ्कार
एव परं ब्रह्म, देशकालातीतः आत्मैव ओङ्कारः । एवंज्ञानमेव सम्यग्दर्शनम् ।
सद्गुरुप्रसादात् एवम् अमात्रं परब्रह्मस्वरूपम् ओङ्कारम् आत्मत्वेन यो वेत्ति
<DOC_END>
<DOC_START>
एतद्वै सत्यकाम, परं चापरं च ब्रह्म यदोङ्कारः । प्रश्नोपनिषत् ५-२
हे शैब्य सत्यकाम, अयम् ओङ्कारः परं ब्रह्म अपरं ब्रह्म च भवति ।
उपनिषत्सु ओङ्कारस्य महिमा नानारीत्या उपदिष्टोऽस्ति । प्रकृतायाम् अस्यां प्रश्नोपनिषदि
पिप्पलादो महर्षिः ओङ्कारम् परब्रह्मत्वेन अपरब्रह्मत्वेन च उपदिशति । परं ब्रह्म नाम परिपूर्णम्
अक्षरम् । इदमेव अत्र उपनिषदि सत्यमिति पुरुष इति च उपदिश्यते । धीराः ओङ्कारं
नाशरहितम् अक्षरम् इति विज्ञाय मुच्यन्ते ॥
अनुत्तमाधिकारिणां तु इदं ज्ञातुं न शक्यम् । अतः मन्दमध्यमाधिकारिणाम् ओङ्कारः परब्रह्मणः
प्रतीकत्वेन उपदिश्यते । महाविष्णोः शालग्राम इव परस्य ब्रह्मणः ओङ्कारः प्रतीकं भवति ।
परस्य ब्रह्मणः ओङ्कार आलम्बनभूतः । बहूनाम् आलम्बनानां मध्ये ओङ्कारः ब्रह्मणः समीपतमम्
आलम्बनं भवति । परब्रह्मत्वे ज्ञेयमिति, अपरब्रह्मत्वे उपास्यमिति ओङ्कारस्वरूपं ज्ञातव्यम् ।
ओङ्कारोपासनेन ब्रह्मलोकम्, ओङ्कारज्ञानेन मोक्षं च प्राप्नुयात् साधकः ॥
<DOC_END>
<DOC_START>
एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्य संज्ञा अस्तीति होवाच याज्ञवल्क्यः ॥ बृहदारण्यकोपनिषत् २-४-१२
इदं सर्वं जगत् भूतेभ्यः समुत्थितं सत् अन्ते तेष्वेव विनश्यति । मरणानन्तरं संज्ञा नास्ति इति याज्ञवल्क्यः उवाच ॥
इदं सर्वं विश्वं परमात्मन एव जनित्वा परमात्मन्येव स्थित्वा, परमात्मन्येव लीयते । स्थितिकाले ब्रह्मणः भिन्नमिव दृश्यमानत्वं तु
अविद्यया एव, न तु परमार्थतः । तरङ्गबुद्बुदफेनादयः समुद्रादेव जायन्ते, समुद्रे एव विद्यन्ते, अन्ते समुद्रे एव विलीयन्ते हि ?
नामरूपाभ्यां भिन्नभिन्नमिव दृश्यमानम् इदं विश्वं सर्वदा ब्रह्मैव सदपि अविद्यादोषेण अज्ञानिनाम् एवं बुद्धिं नारोहति । अन्ते सर्वं ब्रह्मण्येव
प्रलीयते । अविद्यानिरसनानन्तरं यथापूर्वं जीवत्वं वा नानात्वं वा नावशिष्यते । ब्रह्मविदः नानात्वज्ञानं वा नामरूपविशेषज्ञानं वा कथम्
अवशिष्येत नैव अवशिष्येत । अज्ञानप्रदर्शितं विशेषविज्ञानं ज्ञानोदयसमकालमेव बाधितं भवति ॥
<DOC_END>
<DOC_START>
एवं त्वयि नान्यथेतोऽस्ति, न कर्म लिप्यते नरे । ईशावास्योपनिषत् २
हे मानव, ईदृशे त्वयि पापाचरणस्य अवकाशो नास्ति, तेन पापफलस्य लेपः तव नास्ति ॥
मानवस्य पापाचरणं नाम इदानींकाले स्वाभाविकं भवति, पापान्येव मानवः करोति । प्रातरुत्थाय रात्रौ
शयनपर्यन्तमपि मानवस्य जीवनं पापमयमेव दृश्यते । अस्मात् पापजीवनात् परिहारोपायम् उपदिशति इयं श्रुतिः ॥
'हे मानव, धर्मपरायणो भव' इत्येष एव सः सन्देशः । मानवः सदाचारसम्पन्नश्चेत् तस्य दुराचारकरणे अवकाशः कुत्र?
जपः, पारायणम्, पूजा, भगवद्ध्यानम् सत्सङ्गः, पुराणश्रवणम्, सत्कथाकालक्षेपः – इत्यादिधर्ममार्गे एव निरतानां
सज्जनानां चौर्यम्, वञ्चनम्, अनृतवचनम्, जिह्मम्, प्राज्ञ-देव-द्विज- गुरुनिन्दा इत्यादिपापाचरणे अवकाश एव नास्ति ॥
पापाचारदूराणां मानवानां पापस्य फलानि नैव सम्भवन्ति । पापसंस्काराश्च नाशं गच्छन्ति ॥
<DOC_END>
<DOC_START>
एष ते आत्मा सर्वान्तरः, अतोऽन्यदार्तम् । बृहदारण्यकोपनिषत् ३-४-२
एष एव ते आत्मा, एष एव सर्वान्तरः, एतस्माद् आत्मनः
याज्ञवल्क्यमहर्षेः सिंहगर्जनमेतत् । अस्मिन् मन्त्रे आत्मनः
स्वरूपं महिमा च वर्णितोऽस्ति । आप्नोति इति आत्मा,
सर्वेषु वस्तुषु परिपूर्णः इत्यर्थः । आत्मा नाम सर्वस्यापि
सारभूतः, सर्वस्यापि आन्तरः, सर्वस्यापि व्यापकः मूलभूतः
कारणभूतः इत्यर्थः । अयमेव सर्वान्तरभूतः । सर्वप्रमाणानामपि
आत्मभूतमेनमात्मानं न केनापि प्रमाणेन विषयीकर्तुं शक्यते ।
अयमात्मा एव सत्यम्, अयमेव आनन्दस्वरूपः, अयमेव च
इमम् आत्मानं विहाय अन्यत् सर्वमपि आर्तमेव । आर्तं नाम
अनित्यम्, विनाशि इत्यर्थः । आत्मा एक एव अविनाशी
अविकारी सत्यस्वरूपः । देशकालयोरपि कारणभूतस्य आत्मनः
कुतो वा नाशः देशकालपरिच्छिन्नानाम् अनात्मवस्तूनाम्
अस्तित्वं कुतो वा कथं वा भवेत् सर्वाणि अनात्मवस्तूनि
<DOC_END>
<DOC_START>
एष ब्रह्म, एष इन्द्रः, एष प्रजापतिः, एते सर्वे देवाः, इमानि पञ्च महाभूतानि ।
पृथिवी वायुः आकाश आपो ज्योतींषि इत्येतानि इमानि च क्षुद्रमिश्राणीव॥ ऎतरेयोपनिषत् ३-१-३
अयमात्मैव अपरं ब्रह्म, अयमेव च इन्द्रः, अयं प्रजापतिः अयमेव सर्वे देवाः । अयमात्मैव
भूमिः वायुः आकाशः आपः अग्निश्च इति पञ्चभूतानि । अयमात्मैव क्षुद्रमिश्रप्राणिनश्च ॥
प्रज्ञानस्वरूपोऽयमात्मैव सकलप्राणिरूपेण अवभासते । उपाधिष्वेव नीचोच्चभावः, न तु
चिन्मात्रस्वरूपे आत्मनि कश्चिदपि भेदः सम्भवति । आत्मा एक एव, नामरूपाणि तु भिन्नभिन्नानि ॥
अस्मिन् विशाले विश्वे प्रप्रथमजो नाम हिरण्यगर्भः, अस्यैव ‘ब्रह्मा’ इति नामान्तरम् । अयमेव
‘अपरं ब्रह्म’ इति व्यपदिश्यते । अयमेव वैश्वानरः, विराटपुरुषश्च । अयमेव सर्वेषां प्राणिनां
मूलकारणम् । अयं परमार्थतः परेमेव ब्रह्म । इन्द्रः प्रजापतिः, देवाः, मानवाः, राक्षसाः पशवः
पक्षिणश्च – इत्येते परमार्थतः परब्रह्मस्वरूपा एव ॥
<DOC_END>
<DOC_START>
कथमसतः सज्जायेत इति । सत्त्वेव सोम्य इदमग्र आसीत्
असतो हि कथं सत् वस्तु जायेत हे सोम्य, इदं जगत् अग्रे
एकमेव अद्वितीयं सदेव आसीत् ॥
जगत्सृष्टिविषये असत्कार्यवादः सत्कार्यवादश्च इति द्वौ पक्षौ स्तः ।
सत्कार्यवादः सांख्यवेदान्तदर्शनयोः प्रतिपादितः । असत्कार्यवादस्तु
सत्कार्यवादो नाम विद्यमानस्यैव कारणस्य कार्यरूपेण अवभासः ।
इदानीं नामरूपाभ्यां भिन्नविभिन्नतया दृश्यमानमिदं जगत् सृष्टेः
पूर्वं ब्रह्मस्वरूपेणैव आसीत् । एवं पुरा विद्यमानमेव ब्रह्म इदानीं
असतः अविद्यमानाद्वस्तुनः, सद्वस्तु सन् पदार्थः कथं जायेत न
कथंचिदपि जायेत इत्यर्थः । युक्त्या वा श्रुत्या वा असद्वादः न
समर्थ्येत । तस्मात् असद्वादः असारः । इदं जगत् पुरा एकमेव
अद्वितीयं ब्रह्मैव आसीत् । इदानीमपि ब्रह्मैव अस्ति । न कदापि
ब्रह्मभिन्नतया इदं जगदस्ति इत्यभिप्रायः ॥
<DOC_END>
<DOC_START>
*अर्थो हि कन्या परकीय एव ।
*कन्यायाश्च परार्थतैव हि मता ।
*कन्यायाश्च वरसम्पत्तिः पितुः प्रयत्नतः ।
*गुणवते कन्या प्रतिपादनीया, इति अयं तावत् प्रथमः संकल्पः ।
*धनं परस्यैव हि कन्यकाजनो, निक्षेपमात्रं पित्तृगेहवर्तनम् ।
* निर्भिन्नं खलु हृदयरहस्यं कोपयति कन्यकाजनम् ।
* एकाकिन्यै कन्यायै स्त्रियै च अतित्रासदोऽसौ समाजः ।
*अदत्ते त्यागता लज्जा दत्तेति व्यथितं मनः ।
:धर्मस्नेहान्तरे न्यस्ता दुःखिताः खलु मातरः ॥
*गोत्रानुकूलेभ्यो राजकुलेभ्यः कन्याप्रदानं प्रतिदूतसम्प्रेषणम् वर्तते ।
*जामातृसम्पत्तिमचिन्तयित्वा पित्रा तु दत्ता स्वमनोभिलाषात् ।
*कन्यापितुर्हि सततं बहु चिन्तनीयम् ।
*न तत्र कर्त्तव्यमिहास्ति लोके, कन्यापितृत्वं बहुवन्दनीयम् ।
<DOC_END>
<DOC_START>
कबीरः १४४०-१५१८) भारतीयः कविः, तत्त्वज्ञानी, भक्तिमार्गानुयायी च ।
कबीरेण आरम्भकाले रचितः कवनसङ्ग्रहः 'बिजक्'नामकः ।
मुद्गलस्य ताडनानि यत् वज्रं सहेत तत् श्लाघताम् । विवेचनापूर्णेन परीक्षणेन बहवः बोधकाः कपटाः इति ज्ञायते ।
* शाकविपण्यां भवतः वज्राणि न उद्घाटयतु । बन्धे बद्ध्वा हृदये रक्षतु, स्वस्य मार्गे गच्छतु ।
* कबीरः वदति हे साधो सर्वेषां श्वासानां श्वासः अस्ति देवः ।
* हिन्दवः यवनाः च तत् परन्धाम प्राप्तवन्तः, यत्र भेदलेशोऽपि न विद्यते ।
<DOC_END>
<DOC_START>
*अकारणं रूपमकारणं कुलं महत्सु निचेषु च कर्म शोभते ।
*सहजं किल यद् विनिन्दितं न खलु तत्कर्म विवर्जनीयम् ।
*ज्ञात्वोद्दिश्य नरा लाभं कर्मोत्साहेन कुर्वते ।
*आत्मनः कर्मणः फलं सर्वैरुपभोक्तुं युज्ज्यते ।
:फलन्ति काकतालीयं तेभ्यः प्राज्ञा न विभ्यति ॥
*यत् कर्म अन्तरात्मनः परितोषाय भवति, तत् कुरु ।
<DOC_END>
<DOC_START>
*अधीत्य शास्त्रसम्भारं वाड्मयं जनयेत् कविः ।
:गृहीत्वा शस्त्रसम्भारं राष्ट्रं रक्षति सैनिकः ॥
*राजा तु दण्डबलेन शरीरे शासनं करोति किन्तु कविः वाग्बलेन हृदये ।
*कवयो नवाः समयोद्भवा जयिनो मानधन्याः ।
*यदि कवयो नाभविष्यन् तर्हि नृपतीनां नामापि कश्चिन्न गृह्णीयात् ।
:कविताम् कर्तुम् विचारयितुं च शक्नोति ।
*कवित्वम् अत्यन्तं दुर्लभं भवति ।
<DOC_END>
<DOC_START>
कश्चित् धीरः प्रत्यगात्मानमैक्षत् आवृत्तचक्षुः अमृतत्वम् इच्छन् । काठकोपनिषत् २-१-१
आवृत्तचक्षुः सन् धीरो मुमुक्षुः अमृतत्वम् इच्छन् आत्मानं पश्यति ।
स्थूलपदार्थग्राहकैः इन्द्रियैः सूक्ष्मम् आत्मानं विज्ञातुं न शक्यते । तर्हि कथमात्मनो विज्ञानम् ?
इन्द्रियाणि विहाय आवृत्तचक्षुः सन् आत्मानं पश्येत् । इन्द्रियाणि प्रत्यङ्मुखानि कृत्वा अत्र चक्षुः
इति नेत्रादीनि इन्द्रियाणि । बहिर्मुखैरिन्द्रियैः प्रत्यगात्मा विज्ञातुं न शक्यते ॥
भवतु, तर्हि का गतिः । अन्तः करणमेव साधकानां गतिः । अन्तः करणं शुद्धं भवेत् । बाह्यविषयेभ्यः
विमुखीकृत्य शुद्धेन मनसा शास्त्राचार्याणाम् उपदेशं शृणुयात् । मुमुक्षुसाधकाः इन्द्रियभोगविरक्ताः सन्तः
शमदम –उपरति- तितिक्षाश्रद्धासमाधानसाधनपराः भवेयुः । विवेकवैराग्यसम्पन्नाः सन्तः सद्गुरूपदेशम्
एकाग्रतया श्रुत्वा मनननिदिध्यासनं कुर्वन्ति चेत् तदा प्रत्यगात्मानं जानन्ति ॥
<DOC_END>
<DOC_START>
प्रपञ्चे मनुष्यस्य अवस्था परिभ्रमतः चक्रनेमिवत् कदाचित् उपरि कदाचित् अधः च सञ्चरति।
न केवलं व्यक्तेः स्थितिः अपि तु विश्वस्य गतिः अपि चक्रनेमिः इव । जगतः सभ्यताः अपि जननं वृद्धिं क्षयं विनाशञ्च प्राप्नुवन्ति ।
<DOC_END>
<DOC_START>
विष्णोः पत्नी का मा लक्ष्मीः पुनः' इत्यस्मिन् अर्थे उपयुज्यमानम् अव्ययं किम् तु'
सर्वे देवाः कां देवतां वन्दन्ते लिङ्गम्) सुन्दरं फलं किम् एकेन पदेन उत्तरतु । (बीजपूरफलम्)
<DOC_END>
<DOC_START>
कामः सङ्कल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिः अधृतिः ह्रीः धीः भीः
इत्येतत् सर्वं मन एव । बृहदारण्यकोपनिषत् १-५-३
कामः, सङ्कल्पः संशयः, श्रद्धा, अश्रद्धा, धृतिः, अधृतिः, ह्रीः, धीः, भयम्- इत्येतत्
मनो नाम अन्तः करणम् । प्रत्यक्षप्रमाणागोचरं सूक्ष्मं करणं नाम मनः । मनः सूक्ष्मानपि विचारान्
गृह्णाति । मनसैव बन्धनम्, मनसैव च मोक्षः; मनसा एव स्वर्गः, मनसा एव च नरकम्; मनसा एव
सुखम्, मनसा एव दुःखम्; मनसा एव धैर्यम्, मनसा एव भीतिः, मनसा एव जीवनम्, मनसा एव
अहो, अद्भुतमेतन्मनः भवतु, तर्हि किं तन्मनः? इति चेत् । विचार्यते । कामनं कामः, सङ्कल्पविकल्पाः,
संशयः, श्रद्धा, अश्रद्धा, धैर्यम्, अधैर्यम्, ह्रीः, धीः, भयम्, इदं सर्वमपि मन एव । इतराभिश्च शताधिकाभिः
वृत्तिभिः संयुक्तम् एतन्मनः दैवदत्ता अद्भुता सम्पत् । अस्य मनसः विवेकपूर्वकम् उपयोगेन मानवाः सर्वे कृतार्था
भवेयुः आत्मोद्धारं च कुर्युः ॥
<DOC_END>
<DOC_START>
कामान् यः कामयते मन्यमानः स कामभिः जायते तत्र तत्र । मुण्डकोपनिषत् ३-२-२
यः मानवः कामानेव चिन्तयन् कामानेव सदा कामयते, सः अविवेकी मरणानन्तर तैस्तैः कामभिः,
कामितया जीवन् कामी पुनः कामी एव जायेत । कामशब्दस्य ‘काम्यन्ते इति कामाः’ इति काम्यपदार्थाः,
‘कामनं कामः’ इति इच्छा च – अर्थो भवति । अविद्यानिमित्तः कामो भवति । अविद्यावतो हि अनात्मविषयाः
कामाः भवन्ति । कामैः कर्माणि, कर्मभ्यः जन्मप्राप्तिः, ततः सुखदुःखसंसारः सन्ततो भवति ॥
आत्मस्वरूपम् अजानतः अज्ञानिनः सदा अनात्मचिन्तनम्, वित्रयाभिध्यानं च । शब्दस्पर्शरूपरसगन्धविषयचिन्तनमेव
अज्ञस्य कर्म । अयमेव कामो नाम । अस्मिन् कामे सति तावतैव अलम् । तेन सर्वानर्थप्राप्तिः । ‘विषयाभिध्यानं
सर्वानर्थमूलम्’ इति श्रीशंकरभगवत्पादानां सन्देशः गीताभाष्ये । कामचिन्तकस्य काममयस्य, कामारामस्य,
कामकामस्य, कामात्मनः कामान् विहाय अर्थान्तरचिन्तनं नास्त्येव । कामिनः कामा एव गतिः ॥
<DOC_END>
<DOC_START>
आत्माप्यनीशः सुखदुःखहेतोः ॥ श्वेताश्वतरोपनिषत् १-२
अस्य विश्वस्य कारणं किं कालः स्वभावो वा नियतिर्वा जीवात्मा वा अथवा एतेषां समूहो वा
इति ज्ञानिनः विचारं कुर्वन्ति । स्वयं सुखदुःखभोक्ता दीनः जीवात्मा तु नास्य जगतः कारणं भवेत् ॥
अनेके महर्षयः अन्योन्यं मिलित्वा एवं सन्तोषेण विचारं कुर्वन्ति । इमं प्रपञ्चं दृष्ट्वा यस्य कस्यापि आश्चर्यं
भवति, अद्भुतमेव इदं विश्वं नाम । अस्य विशालस्य जगतः केनापि कारणेन भाव्यमेव । अतः किं तत् कारणं
स्यात् इति ते दीर्घम् आलोचयन्ति । केवलं तर्कबलेन बुद्धिसामर्थ्येन यथाकथञ्चित् लघुतया न विचारचिन्तनमेतत् ।
किं तु श्रुतियुक्तिअनुभवानां समन्वयेन निर्णेयः महान् विचारक्रमोऽयम् । सुखदुःखरूपे संसारसागरे स्वयं निमग्नः
जीवस्तु नास्य संसारस्य कारणं भवेत् । तर्हिं किं कारणं स्यात् इति हि महर्षीणां विचारस्य विषयः ॥
<DOC_END>
<DOC_START>
*फुल्लाति मधुनिपलाशो नृत्यति वर्षासु बर्हिणो भूयः ।
:कूजति शरदि मरालः काले सर्वं गुनाम् धत्ते ।
*कालाधीनं हि सर्वं लॊके भवति ।
:नैनं मर्त्यः प्रभवति महानप्यणुं लङ्घनाय ॥
*क्षिप्रमक्रियमणस्य कालः पिबति तद्रसम् ।
*कालचक्रपरवशा हि सर्वॆ प्राणिनः ।
<DOC_END>
<DOC_START>
कालिदासः(काल्याः दासः) महान् संस्कृतकविः नाटककारः च आसीत्। सः कविकुलगुरुः इति ख्यातः। सः गुप्तकाले अवसत्। सः उज्जयिन्यां विक्रमादित्यस्य सभायां नवरत्नेषु एकः आसीत्।
संपत्तौ च विपत्तौ च सतां एकैव रूपता ।।}}
पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ।।}}
गुणैर्वरं भुवनहितच्छलेन यं सनातनः पितरम् उपागमत्स्वयम् ।।}}
न हि कल्याणकृत् कश्चिद्दुर्गतिं तात गच्छति ।।}}
निनः कलहो नास्ति न भयं चास्ति जाग्रतः ।।}}
सोत्साहानां नास्त्यसाध्यं नराणां मार्गारब्धाः सर्वयत्नाः फलन्ति ।।}}
*अस्त्य् उत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
*यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।
*अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।
*यश् चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर् बिभर्ति ।
*आमेखलं संचरतां घनानां च्छायाम् अधःसानुगतां निषेव्य ।
*पदं तुषारस्रुतिधौतरक्तं यस्मिन्न् अदृष्ट्वापि हतद्विपानाम् ।
*न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।
*यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन ।
*कपोलकण्डूः करिभिर् विनेतुं विघट्टितानां सरलद्रुमाणाम् ।
*उद्वेजयत्य् अङ्गुलिपार्ष्णिभागान् मार्गे शिलीभूतहिमे ऽपि यत्र ।
*दिवाकराद् रक्षति यो गुहासु लीनं दिवा भीतम् इवान्धकारम् ।
*लाङ्गूलविक्षेपविसर्पिशोभैर् इतस् ततश् चन्द्रमरीचिगौरैः ।
*भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः ।
*सप्तर्षिहस्तावचितावशेषाण्य् अधो विवस्वान् परिवर्तमानः ।
*यज्ञाङ्गयोनित्वम् अवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च ।
*स मानसीं मेरुसखः पित्ṝ्णां कन्यां कुलस्य स्थितये स्थितिज्ञः ।
*कालक्रमेणाथ तयोः प्रवृत्ते स्वर्ऊपयोग्ये सुरतप्रसङ्गे ।
*असूत सा नागवधूपभोग्यं मैनाकम् अम्भोनिधिबद्धसख्यम् ।
*अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी ।
*सा भूधराणाम् अधिपेन तस्यां समाधिमत्याम् उदपादि भव्या ।
*तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे ।
*तां पार्वतीत्य् आभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव ।
*महीभृतः पुत्रवतो ऽपि दृष्टिस् तस्मिन्न् अपत्ये न जगाम तृप्तिम् ।
*प्रभामहत्या शिखयेव दीपस् त्रिमार्गयेव त्रिदिवस्य मार्गः ।
*मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश् च ।
*तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तम् इवात्मभासः ।
*असंभृतं मण्डनम् अङ्गयष्टेर् अनासवाख्यं करणं मदस्य ।
*उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर् भिन्नम् इवारविन्दम् ।
*अभ्युन्नताङ्गुष्ठनखप्रभाभिर् निक्षेपणाद् रागम् इवोद्गिरन्तौ ।
*सा राजहंसैर् इव संनताङ्गी गतेषु लीलाञ्चितविक्रमेषु ।
*वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस् तदीये ।
*नागेन्द्रहस्तास् त्वचि कर्कशत्वाद् एकान्तशैत्यात् कदलीविशेषाः ।
*एतावता नन्व् अनुमेयशोभं काञ्चीगुणस्थानम् अनिन्दितायाः ।
*तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः ।
*मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला ।
*अन्योन्यम् उत्पीडयद् उत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् ।
*शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाव् इति मे वितर्कः ।
*कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।
*चन्द्रं गता पद्मगुणान् न भुङ्क्ते पद्माश्रिता चान्द्रमसीम् अभिख्याम् ।
*पुष्पं प्रवालोपहितं यदि स्यान् मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
*स्वरेण तस्याम् अमृतस्रुतेव प्रजल्पितायाम् अभिजातवाचि ।
*तस्याः शलाकाञ्जननिर्मितेव कान्तिर् भ्रुवोर् आनतलेखयोर् या ।
*लज्जा तिरश्चां यदि चेतसि स्याद् असंशयं पर्वतराजपुत्र्याः ।
*तां नारदः कामचरः कदा चित् कन्यां किल प्रेक्ष्य पितुः समीपे ।
*गुरुः प्रगल्भे ऽपि वयस्य् अतो ऽस्यास् तस्थौ निवृत्तान्यवराभिलाषः ।
*अयाचितारं न हि देवदेवम् अद्रिः सुतां ग्राहयितुं शशाक ।
*यदैव पूर्वे जनने शरीरं सा दक्षरोषात् सुदती ससर्ज ।
*स कृत्तिवासास् तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु ।
*गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर् दधानाः ।
*तुषारसंघातशिलाः खुराग्रैः समुल्लिखन् दर्पकलः ककुद्मान् ।
*तत्राग्निम् आधाय समित्समिद्धं स्वम् एव मूर्त्यन्तरम् अष्टमूर्तिः ।
*अनर्घ्यम् अर्घ्येण तम् अद्रिनाथः स्वर्गौकसाम् अर्चितम् अर्चयित्वा ।
*प्रत्यर्थिभूताम् अपि तां समाधेः शुश्र्ऊषमाणां गिरिशो ऽनुमेने ।
*अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री ।
*तस्मिन् विप्रकृताः काले तारकेण दिवौकसः ।
*तेषाम् आविर् अभूद् ब्रह्मा परिम्लानमुखश्रियाम् ।
*अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् ।
*नमस् त्रिमूर्तये तुभ्यं प्राक् सृष्टेः केवलात्मने ।
*यद् अमोघम् अपाम् अन्तर् उप्तं बीजम् अज त्वया ।
*तिसृभिस् त्वम् अवस्थाभिर् महिमानम् उदीरयन् ।
*स्त्रीपुंसाव् आत्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।
*जगद्योनिर् अयोनिस् त्वं जगदन्तो निरन्तकः ।
*आत्मानम् आत्मना वेत्सि सृजस्य् आत्मानम् आत्मना ।
*द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर् गुरुः ।
*उद्घातः प्रणवो यासां न्यायैस् त्रिभिर् उदीरणम् ।
*त्वाम् आमनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।
*त्वं पित्ṝणाम् अपि पिता देवानाम् अपि देवता ।
*त्वम् एव हव्यं होता च भोज्यं भोक्ता च शाश्वतः ।
*इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः ।
*पुराणस्य कवेस् तस्य चतुर्मुखसमीरिता ।
*स्वागतं स्वान् अधीकारान् प्रभावैर् अवलम्ब्य वः ।
*किम् इदं द्युतिम् आत्मीयां न बिभ्रति यथा पुरा ।
*प्रशमाद् अर्चिषाम् एतद् अनुद्गीर्णसुरायुधम् ।
*किं चायम् अरिदुर्वारः पाणौ पाशः प्रचेतसः ।
*कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।
*यमो ऽपि विलिखन् भूमिं दण्डेनास्तमितत्विषा ।
*अमी च कथम् आदित्याः प्रतापक्षतिशीतलाः ।
*पर्याकुलत्वान् मरुतां वेगभङ्गो ऽनुमीयते ।
*लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरैः ।
*तद् ब्र्ऊत वत्साः किम् इतः प्रार्थयध्वे समागताः ।
*स द्विनेत्रो हरेश् चक्षुः सहस्रनयनाधिकम् ।
*एवं यद् आत्थ भगवन्न् आमृष्टं नः परैः पदम् ।
*पुरे तावन्तम् एवास्य तनोति रविर् आतपम् ।
*सर्वाभिः सर्वदा चन्द्रस् तं कलाभिर् निषेवते ।
*तस्योपायनयोग्यानि रत्नानि सरितां पतिः ।
*ज्वलन्मणिशिखाश् चैनं वासुकिप्रमुखा निशि ।
*इत्थम् आराध्यमानो ऽपि क्लिश्नाति भुवनत्रयम् ।
*वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः ।
*उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः ।
*यज्वभिः संभृतं हव्यं विततेष्व् अध्वरेषु सः ।
*उच्चैर् उच्चैःश्रवास् तेन हयरत्नम् अहारि च ।
*तस्मिन्न् उपायाः सर्वे नः क्र्ऊरे प्रतिहतक्रियाः ।
*जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा ।
*तदीयास् तोयदेष्व् अद्य पुष्करावर्तकादिषु ।
*तद् इच्छामो विभो सृष्टं सेनान्यं तस्य शान्तये ।
*गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् ।
*वचस्य् अवसिते तस्मिन् ससर्ज गिरम् आत्मभूः ।
*संपत्स्यते वः कामो यं कालः कश्चित् प्रतीक्ष्यताम् ।
*इतः स दैत्यः प्राप्तश्रीर् नेत एवार्हति क्षयम् ।
*वृतं तेनेदम् एव प्राङ् मया चास्मै प्रतिश्रुतम् ।
*संयुगे सांयुगीनं तम् उद्यतं प्रसहेत कः ।
*स हि देवः परं ज्योतिस् तमःपारे व्यवस्थितम् ।
*उमार्ऊपेण ते यूयं संयमस्तिमितं मनः ।
*तस्यात्मा शितिकण्ठस्य सैनापत्यम् उपेत्य वः ।
*इति व्याहृत्य विबुधान् विश्वयोनिस् तिरोदधे ।
*तत्र निश्चित्य कन्दर्पम् अगमत् पाकशासनः ।
*अथ स ललितयोषिद्भ्र्ऊलताचारुशृङ्गं रतिवलयपदाङ्के चापम् आसज्य कण्ठे ।
*तस्मिन् मघोनस् त्रिदशान् विहाय सहस्रम् अक्ष्णां युगपत् पपात ।
*स वासवेनासनसंनिकृष्टम् इतो निषीदेति विसृष्टभूमिः ।
*आज्ञापय ज्ञातविशेष पुंसां लोकेषु यत् ते करणीयम् अस्ति ।
*केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्घैर् जनिता तपोभिः ।
*असंमतः कस् तव मुक्तिमार्गं पुनर्भवक्लेशभयात् प्रपन्नः ।
*अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर् द्विषस् ते ।
*काम् एकपत्नीव्रतदुःखशीलां लोलं मनश् चारुतया प्रविष्टाम् ।
*कयासि कामिन् सुरतापराधात् पादानतः कोपनयावधूतः ।
*प्रसीद विश्राम्यतु वीर वज्रं शरैर् मदीयैः कतमः सुरारिः ।
*तव प्रसादात् कुसुमायुधो ऽपि सहायम् एकं मधुम् एव लब्ध्वा ।
*अथोरुदेशाद् अवतार्य पादम् आक्रान्तिसंभावितपादपीठम् ।
*सर्वं सखे त्वय्य् उपपन्नम् एतद् उभे ममास्त्रे कुलिशं भवांश् च ।
*अवैमि ते सारम् अतः खलु त्वां कार्ये गुरुण्य् आत्मसमं नियोक्ष्ये ।
*आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम् ।
*अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यम् उशन्ति देवाः ।
*तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व ।
*गुरोर् नियोगाच् च नगेन्द्रकन्या स्थाणुं तपस्यन्तम् अधित्यकायाम् ।
*तद् गच्छ सिद्ध्यै कुरु देवकार्यम् अर्थो ऽयम् अर्थान्तरभाव्य एव ।
*तस्मिन् सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् ।
*सुराः समभ्यर्थयितार एते कार्यं त्रयाणाम् अपि विष्टपानाम् ।
*मधुश् च ते मन्मथ साहचर्याद् आसव् अनुक्तो ऽपि सहाय एव ।
*तथेति शेषाम् इव भर्तुर् आज्ञाम् आदाय मूर्ध्ना मदनः प्रतस्थे ।
*स माधवेनाभिमतेन सख्या रत्या च साशङ्कम् अनुप्रयातः ।
*तस्मिन् वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती ।
*कुबेरगुप्तां दिशम् उष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य ।
*असूत सद्यः कुसुमान्य् अशोकः स्कन्धात् प्रभृत्य् एव सपल्लवानि ।
*सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्तिं नवचूतबाणे ।
*वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः ।
*बालेन्दुवक्राण्य् अविकासभावाद् बभुः पलाशान्य् अतिलोहितानि ।
*लग्नद्विरेफाञ्जनभक्तिचित्रम् मुखे मधुश्रीस् तिलकं प्रकाश्य ।
*मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर् विघ्नितदृष्टिपाताः ।
*चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन् मधुरं चुकूज ।</br>
*तपस्विनः स्थाणुवनौकसस् ताम् आकालिकीं वीक्ष्य मधुप्रवृत्तिम् ।
*तं देशम् आरोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने ।
*मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वाम् अनुवर्तमानः ।
*ददौ रसात् पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः ।
*श्रुताप्सरोगीतिर् अपि क्षणे ऽस्मिन् हरः प्रसंख्यानपरो बभूव ।
*लतागृहद्वारगतो ऽथ नन्दी वामप्रकोष्ठार्पितहेमवेत्रः ।
*निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् ।
*दृष्टिप्रपातं परिहृत्य तस्य कामः पुरःशुक्रम् इव प्रयाणे ।
*अवृष्टिसंरम्भम् इवाम्बुवाहम् अपाम् इवाधारम् अनुत्तरङ्गम् ।
*कपालनेत्रान्तरलब्धमार्गैर् ज्योतिःप्ररोहैर् उदितैः शिरस्तः ।
*मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम् ।
*स्मरस् तथाभूतम् अयुग्मनेत्रं पश्यन्न् अदूरान् मनसाप्य् अधृष्यम् ।
*निर्वाणभूयिष्ठम् अथास्य वीर्यं संधुक्षयन्तीव वपुर्गुणेन ।
*आवर्जिता किं चिद् इव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
*स्रस्तां नितम्बाद् अवलम्बमाना पुनः-पुनः केसरदामकाञ्चीम् ।
*तां वीक्ष्य सर्वावयवानवद्यां रतेर् अपि ह्रीपदम् आदधानाम् ।
*भविष्यतः पत्युर् उमा च शंभोः समाससाद प्रतिहारभूमिम् ।
*ततो भुजंगाधिपतेः फणाग्रैर् अधः कथं चिद् धृतभूमिभागः ।
*तस्मै शशंस प्रणिपत्य नन्दी शुश्र्ऊषया शैलसुताम् उपेताम् ।
*तस्याः सखीभ्यां प्रणिपातपूर्वं स्वहस्तलूनः शिशिरात्ययस्य ।
*उमापि नीलालकमध्यशोभि विस्रंसयन्ती नवकर्णिकारम् ।
*अनन्यभाजं पतिम् आप्नुहीति सा तथ्यम् एवाभिहिता भवेन ।
*कामस् तु बाणावसरं प्रतीक्ष्य पतङ्गवद् वह्निमुखं विविक्षुः ।
*प्रतिग्रहीतुं प्रणयिप्रियत्वात् त्रिलोचनस् ताम् उपचक्रमे च ।
*हरस् तु किंचित्परिलुप्तधैर्यश् चन्द्रोदयारम्भ इवाम्बुराशिः ।
*विवृण्वती शैलसुतापि भावम् अङ्गैः स्फुरद्बालकदम्बकल्पैः ।
*अथेन्द्रियक्षोभम् अयुग्मनेत्रः पुनर् वशित्वाद् बलवन् निगृह्य ।
*स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसम् आकुञ्चितसव्यपादम् ।
*क्रोधं प्रभो संहर संहरेति यावद् गिरः खे मरुतां चरन्ति ।
*तीव्राभिषङ्गप्रभवेण वृत्तिम् मोहेन संस्तम्भयतेन्द्रियाणाम् ।
*तम् आशु विघ्नं तपसस् तपस्वी वनस्पतिं वज्र इवावभज्य ।
*शैलात्मजापि पितुर् उच्छिरसो ऽभिलाषं व्यर्थं समर्थ्य ललितं वपुर् आत्मनश् च ।
*सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या दुहितरम् अनुकम्प्याम् अद्रिर् आदाय दोर्भ्याम् ।
*अथ मोहपरायणा सती विवशा कामवधूर् विबोधिता ।
*अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने ।
*अयि जीवितनाथ जीवसीत्य् अभिधायोत्थितया तया पुरः ।
*अथ सा पुनर् एव विह्वला वसुधालिङ्गनधूसरस्तनी ।
*उपमानम् अभूद् विलासिनां करणं यत् तव कान्तिमत्तया ।
*क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः ।
*कृतवान् असि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।
*स्मरसि स्मर मेखलागुणैर् उत गोत्रस्खलितेषु बन्धनम् ।
*हृदये वससीति मत्प्रियं यद् अवोचस् तद् अवैमि कैतवम् ।
*परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीम् अहं तव ।
*नयनान्य् अरुणानि घूर्णयन् वचनानि स्खलयन् पदे-पदे ।
*अवगम्य कथीकृतं वपुः प्रियबन्धोस् तव निष्फलोदयः ।
*अलिपङ्क्तिर् अनेकशस् त्वया गुणकृत्ये धनुषो नियोजिता ।
*प्रतिपद्य मनोहरं वपुः पुनर् अप्य् आदिश तावद् उत्थितः ।
*शिरसा प्रणिपत्य याचितान्य् उपगूढानि सवेपथूनि च ।
*रचितं रतिपण्डित त्वया स्वयम् अङ्गेषु ममेदम् आर्तवम् ।
*विबुधैर् असि यस्य दारुणैर् असमाप्ते परिकर्मणि स्मृतः ।
*अहम् एत्य पतङ्गवर्त्मना पुनर् अङ्काश्रयिणी भवामि ते ।
*मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे ।
*क्रियतां कथम् अन्त्यमण्डनं परलोकान्तरितस्य ते मया ।
*ऋजुतां नयतः स्मरामि ते शरम् उत्सङ्गनिषण्णधन्वनः ।
*अथ तैः परिदेविताक्षरैर् हृदये दिग्धशरैर् इवार्दितः ।
*तम् अवेक्ष्य रुरोद सा भृशं स्तनसंबाधम् उरो जघान च ।
*इति चैनम् उवाच दुःखिता सुहृदः पश्य वसन्त किं स्थितम् ।
*अयि संप्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः ।
*अमुना ननु पार्श्ववर्तिना जगद् आज्ञां ससुरासुरं तव ।
*गत एव न ते निवर्तते स सखा दीप इवानिलाहतः ।
*विधिना कृतम् अर्धवैशसं ननु माम् कामवधे विमुञ्चता ।
*तद् इदं क्रियताम् अनन्तरं भवता बन्धुजनप्रयोजनम् ।
*शशिना सह याति कौमुदी सह मेघेन तडित् प्रलीयते ।
*अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना ।
*कुसुमास्तरणे सहायतां बहुशः सौम्य गतस् त्वम् आवयोः ।
*तद् अनु ज्वलनं मदर्पितं त्वरयेर् दक्षिणवातवीजनैः ।
*इति चापि विधाय दीयतां सलिलस्याञ्जलिर् एक एव नौ ।
*परलोकविधौ च माधव स्मरम् उद्दिश्य विलोलपल्लवाः ।
*इति देवविमुक्तये स्थितां रतिम् आकाशभवा सरस्वती ।
*कुसुमायुधपत्नि दुर्लभस् तव भर्ता न चिराद् भविष्यति ।
*अभिलाषम् उदीरितेन्द्रियः स्वसुतायाम् अकरोत् प्रजापतिः ।
*परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः ।
*इति चाह स धर्मयाचितः स्मरशापावधिदां सरस्वतीम् ।
*तद् इदं परिरक्ष शोभने भवितव्यप्रियसंगमं वपुः ।
*इत्थं रतेः किम् अपि भूतम् अदृश्यर्ऊपं मन्दीचकार मरणव्यवसायबुद्धिम् ।
*अथ मदनवधूर् उपप्लवान्तं व्यसनकृशा परिपालयां बभूव ।
*तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती ।
*इयेष सा कर्तुम् अवन्ध्यर्ऊपतां समाधिम् आस्थाय तपोभिर् आत्मनः ।
*निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम् ।
*मनीषिताः सन्ति गृहे ऽपि देवतास् तपः क्व वत्से क्व च तावकं वपुः ।
*इति ध्रुवेच्छाम् अनुशासती सुतां शशाक मेना न नियन्तुम् उद्यमात् ।
*कदा चिद् आसन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी ।
*अथानुर्ऊपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा ।
*विमुच्य सा हारम् अहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् ।
*यथा प्रसिद्धैर् मधुरं शिरोरुहैर् जटाभिर् अप्य् एवम् अभूत् तदाननम् ।
*प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जीं त्रिगुणां बभार याम् ।
*विसृष्टरागाद् अधरान् निवर्तितः स्तनाङ्गरागारुणिताच् च कन्दुकात् ।
*महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैर् अपि या स्म दूयते ।
*पुनर् ग्रहीतुं नियमस्थया तया द्वये ऽपि निक्षेप इवार्पितम् द्वयम् ।
*अतन्द्रिता सा स्वयम् एव वृक्षकान् घटस्तनप्रस्रवणैर् व्यवर्धयत् ।
*अरण्यबीजाञ्जलिदानलालितास् तथा च तस्यां हरिणा विशश्वसुः ।
*कृताभिशेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीम् अधीतिनीम् ।
*यदा फलं पूर्वतपःसमाधिना न तावता लभ्यम् अमंस्त काङ्क्षितम् ।
*क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाह्यत ।
*शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा ।
*तथाभितप्तं सवितुर् गभस्तिभिर् मुखं तदीयं कमलश्रियं दधौ ।
*अयाचितोपस्थितम् अम्बु केवलं रसात्मकस्योडुपतेश् च रश्मयः ।
*निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन च ।
*स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।
*शिलाशयां ताम् अनिकेतवासिनीं निरन्तरास्व् अन्तरवातवृष्टिषु ।
*निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीर् उदवासतत्परा ।
*मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना ।
*स्वयंविशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस् तया पुनः ।
*मृणालिकापेलवम् एवमादिभिर् व्रतैः स्वम् अङ्गं ग्लपयन्त्य् अहर्निशम् ।
*अथाजिनाषाढधरः प्रगल्भवाग् ज्वलन्न् इव ब्रह्ममयेन तेजसा ।
*तम् आतिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती ।
*विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् ।
*अपि क्रियार्थं सुलभं समित्कुशं जलान्य् अपि स्नानविधिक्षमाणि ते ।
*अपि त्वदावर्जितवारिसंभृतं प्रवालम् आसाम् अनुबन्धि वीरुधाम् ।
*अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु ।
*यद् उच्यते पार्वति पापवृत्तये न र्ऊपम् इत्य् अव्यभिचारि तद् वचः ।
*विकीर्णसप्तर्षिबलिप्रहासिभिस् तथा न गाङ्गैः सलिलैर् दिवश् च्युतैः ।
*अनेन धर्मः सविशेषम् अद्य मे त्रिवर्गसारः प्रतिभाति भाविनि ।
*प्रयुक्तसत्कारविशेषम् आत्मना न मां परं संप्रतिपत्तुम् अर्हसि ।
*अतो ऽत्र किंचिद् भवतीं बहुक्षमां द्विजातिभावाद् उपपन्नचापलः ।
*कुले प्रसूतिः प्रथमस्य वेधसस् त्रिलोकसौन्दर्यम् इवोदितं वपुः ।
*भवत्य् अनिष्टाद् अपि नाम दुःसहान् मनस्विनीनां प्रतिपत्तिर् ईदृशी ।
*अलभ्यशोकाभिभवेयम् आकृतिर् विमानना सुभ्रु कुतः पितुर् गृहे ।
*किम् इत्य् अपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलम् ।
*दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास् तव देवभूमयः ।
*निवेदितं निश्वसितेन सोष्मणा मनस् तु मे संशयम् एव गाहते ।
*अहो स्थिरः को ऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते ।
*मुनिव्रतैस् त्वाम् अतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् ।
*अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश् चतुरावलोकिनः ।
*कियच् चिरं श्राम्यसि गौरि विद्यते ममापि पूर्वाश्रमसंचितं तपः ।
*इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् ।
*सखी तदीया तम् उवाच वर्णिनं निबोध साधो तव चेत् कुतूहलम् ।
*इयं महेन्द्रप्रभृतीन् अधिश्रियश् चतुर्दिगीशान् अवमत्य मानिनी ।
*असह्यहुंकारनिवर्तितः पुरा पुरारिम् अप्राप्तमुखः शिलीमुखः ।
*तदाप्रभृत्य् उन्मदना पितुर् गृहे ललाटिकाचन्दनधूसरालका ।
*उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैर् इयम् ।
*त्रिभागशेषासु निशासु च क्षणम् निमील्य नेत्रे सहसा व्यबुध्यत ।
*यदा बुधैः सर्वगतस् त्वम् उच्यसे न वेत्सि भावस्थम् इमं जनं कथम् ।
*यदा च तस्याधिगमे जगत्पतेर् अपश्यद् अन्यं न विधिं विचिन्वती ।
*द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टम् एष्व् अपि ।
*न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिर् अस्रोत्तरम् ईक्षिताम् इमाम् ।
*अगूढसद्भावम् इतीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस् तया ।
*अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् ।
*यथा श्रुतं वेदविदां वर त्वया जनो ऽयम् उच्चैःपदलङ्घनोत्सुकः ।
*अथाह वर्णी विदितो महेश्वरस् तदर्थिनी त्वं पुनर् एव वर्तसे ।
*अवस्तुनिर्बन्धपरे कथं नु ते करो ऽयम् आमुक्तविवाहकौतुकः ।
*त्वम् एव तावत् परिचिन्तय स्वयं कदा चिद् एते यदि योगम् अर्हतः ।
*चतुष्कपुष्पप्रकराविकीर्णयोः परो ऽपि को नाम तवानुमन्यते ।
*अयुक्तर्ऊपं किम् अतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् ।
*इयं च ते ऽन्या पुरतो विडम्बना यद् ऊढया वारणराजहार्यया ।
*द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
*वपुर् विर्ऊपाक्षम् अलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।
*निवर्तयास्माद् असदीप्सितान् मनः क्व तद्विधस् त्वं क्व च पुण्यलक्षणा ।
*इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया ।
*उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवम् आत्थ माम् ।
*विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा ।
*अकिञ्चनः सन् प्रभवः स संपदां त्रिलोकनाथः पितृसद्मगोचरः ।
*विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा ।
*तदङ्गसंसर्गम् अवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये ।
*असंपदस् तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा ।
*विवक्षता दोषम् अपि च्युतात्मना त्वयैकम् ईशं प्रति साधु भाषितम् ।
*अलं विवादेन यथा श्रुतस् त्वया तथाविधस् तावद् अशेषम् अस्तु सः ।
*निवार्यताम् आलि किम् अप्य् अयं बटुः पुनर् विवक्षुः स्फुरितोत्तराधरः ।
*इतो गमिश्याम्य् अथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला ।
*तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर् निक्षेपणाय पदम् उद्धृतम् उद्वहन्ती ।
*अद्यप्रभृत्य् अवनताङ्गि तवास्मि दासः क्रीतस् तपोभिर् इति वादिनि चन्द्रमौलौ ।
*अथ विश्वात्मने गौरी संदिदेश मिथः सखीम् ।
*तया व्याहृतसंदेशा सा बभौ निभृता प्रिये ।
*स तथेति प्रतिज्ञाय विसृज्य कथम् अप्य् उमाम् ।
*ते प्रभामण्डलैर् व्योम द्योतयन्तस् तपोधनाः ।
*आसक्तबाहुलतया सार्धम् उद्धृतया भुवा ।
*प्राक्तनानां विशुद्धानां परिपाकम् उपेयुषाम् ।
*तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा ।
*ताम् अगौरवभेदेन मुनींश् चापश्यद् ईश्वरः ।
*तद्दर्शनाद् अभूच् छम्भोर् भूयान् दारार्थम् आदरः ।
*धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति ।
*अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् ।
*यद् ब्रह्म सम्यग् आम्नातं यद् अग्नौ विधिना हुतम् ।
*यद् अध्यक्षेण जगतां वयम् आरोपितास् त्वया ।
*यस्य चेतसि वर्तेथाः स तावत् कृतिनां वरः ।
*सत्यम् अर्काच् च सोमाच् च परम् अध्यास्महे पदम् ।
*त्वत्संभावितम् आत्मानं बहु मन्यामहे वयम् ।
*या नः प्रीतिर् विर्ऊपाक्ष त्वदनुध्यानसंभवा ।
*साक्षाद् दृष्टो ऽसि न पुनर् विद्मस् त्वां वयम् अञ्जसा ।
*किं येन सृजसि व्यक्तम् उत येन बिभर्षि तत् ।
*अथवा सुमहत्य् एषा प्रार्थना देव तिष्ठतु ।
*अथ मौलिगतस्येन्दोर् विशदैर् दशनांशुभिः ।
*विदितं वो यथा स्वार्था न मे काश्चित् प्रवृत्तयः ।
*सो ऽहं तृष्णातुरैर् वृष्टिं विद्युत्वान् इव चातकैः ।
*अत आहर्तुम् इच्छामि पार्वतीम् आत्मजन्मने ।
*ताम् अस्मदर्थे युष्माभिर् याचितव्यो हिमालयः ।
*उन्नतेन स्थितिमता धुरम् उद्वहता भुवः ।
*एवं वाच्यः स कन्यार्थम् इति वो नोपदिश्यते ।
*आर्याप्य् अरुन्धती तत्र व्यापारं कर्तुं अर्हति ।
*तत् प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम् ।
*तस्मिन् संयमिनाम् आद्ये जाते परिणयोन्मुखे ।
*ततः परमम् इत्य् उक्त्वा प्रतस्थे मुनिमण्डलम् ।
*ते चाकाशम् असिश्यामम् उत्पत्य परमर्षयः ।
*अलकाम् अतिवाह्येव वसतिं वसुसंपदाम् ।
*जितसिंहभया नागा यत्राश्वा बिलयोनयः ।
*शिखरासक्तमेघानां व्यजन्ते यत्र वेश्मनाम् ।
*यत्र कल्पद्रुमैर् एव विलोलविटपांशुकैः ।
*यत्र स्फटिकहर्म्येषु नक्तम् आपानभूमिषु ।
*यौवनान्तं वयो यस्मिन्न् आतङ्कः कुसुमायुधः ।
*अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् ।
*ते सद्मनि गिरेर् वेगाद् उन्मुखद्वाःस्थवीक्षिताः ।
*गगनाद् अवतीर्णा सा यथावृद्धपुरस्सरा ।
*तान् अर्घ्यान् अर्घ्यम् आदाय दूरात् प्रत्युद्ययौ गिरिः ।
*विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः ।
*अपमेघोदयं वर्षम् अदृष्टकुसुमं फलम् ।
*मूढं बुद्धम् इवात्मानं हैमीभूतम् इवायसम् ।
*अद्यप्रभृति भूतानाम् अधिगम्यो ऽस्मि शुद्धये ।
*अवैमि पूतम् आत्मानं द्वयेनैव द्विजोत्तमाः ।
*जङ्गमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम् ।
*न केवलं दरीसंस्थं भास्वतां दर्शनेन वः ।
*कर्तव्यं वो न पश्यामि स्याच् चेत् किं नोपपद्यते ।
*तथापि तावत् कस्मिंश् चिद् आज्ञां मे दातुम् अर्हथ ।
*एते वयम् अमी दाराः कन्येयं कुलजीवितम् ।
*इत्य् ऊचिवांस् तम् एवार्थं दरीमुखविसर्पिणा ।
*उपपन्नम् इदं सर्वम् अतः परम् अपि त्वयि ।
*स्थाने त्वां स्थावरात्मानं विष्णुम् आहुस् तथा हि ते ।
*गाम् अधास्यत् कथं नागो मृणालमृदुभिः फणैः ।
*यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः ।
*तिर्यग् ऊर्ध्वम् अधस्ताच् च व्यापको महिमा हरेः ।
*यज्ञभागभुजां मध्ये पदम् आतस्थुषा त्वया ।
*काठिन्यं स्थावरे काये भवता सर्वम् अर्पितम् ।
*तद् आगमनकार्यं नः शृणु कार्यं तवैव तत् ।
*योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् ।
*स ते दुहितरं साक्षात् साक्षी विश्वस्य कर्मणः ।
*तम् अर्थम् इव भारत्या सुतया योक्तुम् अर्हसि ।
*यावद् एतानि भूतानि स्थावराणि चराणि च ।
*प्रणम्य शितिकण्ठाय विबुधास् तदनन्तरम् ।
*उमा वधूर् भवान् दाता याचितार इमे वयम् ।
*एवं वादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी ।
*शैलः संपूर्णकामो ऽपि मेनामुखम् उदैक्षत ।
*मेने मेनापि तत् सर्वं पत्युः कार्यम् अभीप्सितम् ।
*इदम् अत्रोत्तरं न्याय्यम् इति बुद्ध्या विमृश्य सः ।
*एहि विश्वात्मने वत्से भिक्षासि परिकल्पिता ।
*एतावद् उक्त्वा तनयाम् ऋषीन् आह महीधरः ।
*ईप्सितार्थक्रियोदारं ते ऽभिनन्द्य गिरेर् वचः ।
*वैवाहिकीं तिथिं पृष्टास् तत्क्षणं हरबन्धुना ।
*ते हिमालयम् आमन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।
*पशुपतिर् अपि तान्य् अहानि कृच्छ्राद् अगमयद् अद्रिसुतासमागमोत्कः ।
*अथौषधीनाम् अधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् ।
*वैवाहिकैः कौतुकसंविधानैर् गृहे गृहे व्यग्रपुरंध्रिवर्गम् ।
*संतानकाकीर्णमहापथं तच् चीनांशुकैः कल्पितकेतुमालम् ।
*एकैव सत्याम् अपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव ।
*अङ्काद् ययाव् अङ्कम् उदीरिताशीः सा मण्डनान् मण्डनम् अन्वभुङ्क्त ।
*मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु ।
*सा गौरसिद्धार्थनिवेशवद्भिर् दूर्वाप्रवालैः प्रतिभिन्नरागम् ।
*बभौ च संपर्कम् उपेत्य बाला नवेन दीक्षाविधिसायकेन ।
*तां लोध्रकल्केन हृताङ्गतैलाम् आश्यानकालेयकृताङ्गरागाम् ।
*तस्मात् प्रदेशाच् च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन ।
*तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः ।
*धूपोष्मणा त्याजितम् आर्द्रभावं केशान्तम् अन्तःकुसुमं तदीयम् ।
*विन्यस्तशुक्लागुरु चक्रुर् अस्या गोरोचनापत्रविभङ्गम् अङ्गम् ।
*लग्नद्विरेफं परिभूय पद्मं समेघलेखं शशिनश् च बिम्बम् ।
*रेखाबिभक्तश् च विभक्तगात्र्याः किंचिन्मधूच्छिष्टविमृष्टरागः ।
*पत्युः शिरश्चन्द्रकलाम् अनेन स्पृशेति सख्या परिहासपूर्वम् ।
*तस्याः सुजातोत्पलपत्रकान्ते प्रसाधिकाभिर् नयने निरीक्ष्य ।
*सा संभवद्भिः कुसुमैर् लतेव ज्योतिर्भिर् उद्यद्भिर् इव त्रियामा ।
*आत्मानम् आलोक्य च शोभमानम् आदर्शबिम्बे स्तिमितायताक्षी ।
*अथाङ्गुलिभ्यां हरितालम् आर्द्रं माङ्गल्यम् आदाय मनःशिलां च ।
*उमास्तनोद्भेदम् अनुप्रवृद्धो मनोरथो यः प्रथमो बभूव ।
*बबन्ध चास्राकुलदृष्टिर् अस्याः स्थानान्तरे कल्पितसन्निवेशम् ।
*क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्त्रियामा ।
*ताम् अर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ट्ःआं प्रणमय्य माता ।??
*अखण्डितं प्रेम लभस्व पत्युर् इत्य् उच्यते ताभिर् उमा स्म नम्रा ।
*इच्छाविभूत्योर् अनुर्ऊपम् अद्रिस् तस्याः कृती कृत्यम् अशेषयित्वा ।
*तावद् वरस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुर्ऊपम् ।
*तद्गौरवान् मङ्गलमण्डनश्रीः सा पस्पृशे केवलम् ईश्वरेण ।
*बभूव भस्मैव सिताङ्गरागः कपालम् एवामलशेखरश्रीः ।
*शङ्खान्तरद्योति विलोचनं यद् अन्तर्निविष्टामलपिङ्गतारम् ।
*यथाप्रदेशं भुजगेश्वराणां करिश्यताम् आभरणान्तरत्वम् ।
*दिवापि निष्ठ्यूतमरीचिभासा बाल्याद् अनाविष्कृतलाञ्छनेन ।
*इत्य् अद्भुतैकप्रभवः प्रभावात् प्रसिद्धनेपथ्यविधेर् विधाता ।
*स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् ।
*तं मातरो देवम् अनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः ।
*तासां च पश्चात् कनकप्रभाणां काली कपालाभरणा चकासे ।
*ततो गणैः शूलभृतः पुरोगैर् उदीरितो मङ्गलतूर्यघोषः ।
*उपाददे तस्य सहस्ररश्मिस् त्वष्ट्रा नवं निर्मितम् आतपत्रम् ।
*मूर्ते च गङ्गायमुने तदानीं सचामरे देवम् असेविषाताम् ।
*तम् अन्वगच्छत् प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश् च साक्षात् ।
*एकैव मूर्तिर् बिभिदे त्रिधा सा सामान्यम् एषां प्रथमावरत्वम् ।
*तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः ।
*कम्पेन मूर्ध्नः शतपत्रयोनिं वाचा हरिं वृत्रहणं स्मितेन ।
*तस्मै जयाशीः ससृजे पुरस्तात् सप्तर्षिभिस् तान् स्मितपूर्वम् आह ।</br>
*खे खेलगामी तम् उवाह वाहः सशब्दचामीकरकिङ्किणीकः ।
*स प्रापद् अप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात् ।
*तस्योपकण्ठे घननीलकण्ट्ःअः कुतूहलाद् उन्मुखपौरदृष्टः ।
*तम् ऋद्धिमद्बन्धुजनाधिर्ऊढैर् वृन्दैर् गजानां गिरिचक्रवर्ती ।
*वर्गाव् उभौ देवमहीधराणां द्वारे पुरस्योद्घटितापिधाने ।
*ह्रीमान् अभूद् भूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः ।
*स प्रीतियोगाद् विकसन्मुखश्रीर् जामातुर् अग्रेसरताम् उपेत्य ।
*तस्मिन् मुहूर्ते पुरसुन्दरीणाम् ईशानसंदर्शनलालसानाम् ।
*आलोकमार्गं सहसा व्रजन्त्या कयाचिद् उद्वेष्टनवान्तमाल्यः ।
*प्रसाधिकालम्बितम् अग्रपादम् आक्षिप्य काचिद् द्रवरागम् एव ।
*विलोचनं दक्षिणम् अञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा ।
*जालान्तरप्रेषितदृष्तिर् अन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।
*अर्धाचिता सत्वरम् उत्थितायाः पदे पदे दुर्निमिते गलन्ती ।
*तासां मुखैर् आसवगन्धगर्भैर् व्याप्तान्तराः सान्द्रकुतूहलानाम् ।
*तावत् पताकाकुलम् इन्दुमौलिर् उत्तोरणं राजपथं प्रपेदे ।
*तम् एकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुर् विषयान्तराणि ।
*स्थाने तपो दुश्चरम् एतदर्थम् अपर्णया पेलवयापि तप्तम् ।
*परस्परेण स्पृहणीयशोभं न चेद् इदं द्वन्द्वम् अयोजयिष्यत् ।
*न नूनम् आर्ऊढरुषा शरीरम् अनेन दग्धं कुसुमायुधस्य ।
*अनेन संबन्धम् उपेत्य दिष्ट्या मनोरथप्रार्थितम् ईश्वरेण ।
*इत्य् ओषधिप्रस्थविलासिनीनां शृण्वन् कथाः श्रोत्रसुखास् त्रिनेत्रः ।
*तत्रावतीर्याच्युतदत्तहस्तः शरद्घनाद् दीधितिमान् इवोक्ष्णः ।
*तम् अन्वग् इन्द्रप्रमुखाश् च देवाः सप्तर्षिपूर्वाः परमर्षयश् च ।
*तत्रेश्वरो विष्टरभाग् यथावत् सरत्नम् अर्घ्यं मधुमच् च गव्यम् ।
*दुकूलवासाः स वधूसमीपं निन्ये विनीतैर् अवरोधरक्षैः ।
*तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या ।
*तयोः समापत्तिषु कातराणि किंचिद्व्यवस्थापितसंहृतानि ।
*तस्याः करं शैलगुर्ऊपनीतं जग्राह ताम्राङ्गुलिम् अष्टमूर्त्तिः ।
*रोमोद्गमः प्रादुर् अभूद् उमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुर् आसीत् ।
*प्रयुक्तपाणिग्रहणं यद् अन्यद् वधूवरं पुष्यति कान्तिम् अग्र्याम् ।
*प्रदक्षिणप्रक्रमणात् कृशानोर् उदर्चिषस् तन् मिथुनं चकासे ।
*तौ दम्पती त्रिः परिणीय वह्निम् कराग्रसंस्पर्शनिमीलिताक्षीम् ।
*सा लाजधूमाञ्जलिम् इष्टगन्धं गुर्ऊपदेशाद् वदनं निनाय ।
*तद् ईषदार्द्रारुणगण्डलेखम् उच्छ्वासिकालाञ्जनरागम् अक्ष्णोः ।
*वधूं द्विजः प्राह तवैष वत्से वह्निर् विवाहं प्रति पूर्वसाक्षी ।
*आलोचनान्तं श्रवणे वितत्य पीतं गुरोस् तद्वचनं भवान्या ।
*ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन ।
*इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ ।
*वधूर् विधात्रा प्रतिनन्द्यते स्म कल्याणि वीरप्रसवा भवेति ।
*कॢप्तोपचारां चतुरस्रवेदीं ताव् एत्य पश्चाट् कनकासनस्थौ ।
*द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन् मिथुनं नुनाव ।
*तौ सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् ।
*देवास् तदन्ते हरम् ऊढभार्यं किरीटबद्धाञ्जलयो निपत्य ।
*तस्यानुमेने भगवान् विमन्युर् व्यापारम् आत्मन्य् अपि सायकानाम् ।
*अथ विबुधगणांस् तान् इन्दुमौलिर् विसृज्य क्षितिधरपतिकन्याम् आददानः करेण ।
*नवपरिणयलज्जाभूषणां तत्र गौरीं वदनम् अपहरन्तीं तत्कृतोत्क्षेपम् ईशः ।
*पाणिपीडनविधेर् अनन्तरं शैलराजदुहितुर् हरं प्रति ।
*व्याहृता प्रतिवचो न सन्दधे गन्तुम् ऐच्छद् अवलम्बितांशुका ।
*कैतवेन शयिते कुतूहलात् पार्वती प्रतिमुखं निपातितम् ।
*नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः ।
*एवम् आलि निगृहीतसाध्वसं शङ्करो रहसि सेव्यताम् इति ।
*अप्य् अवस्तुनि कथाप्रवृत्तये प्रश्नतत्परम् अनङ्गशासनम् ।
*शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका ।
*चुम्बनेष्व् अधरदानवर्जितं सन्नहस्तम् अदयोपगूहने ।
*यन् मुखग्रहणम् अक्षताधरं दत्तम् अव्रणपदं नखं च यत् ।
*रात्रिवृत्तम् अनुयोक्तुम् उद्यतं सा विभातसमये सखीजनम् ।
*दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।
*नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत् ।
*वासराणि कतिचित् कथञ्चन स्थाणुना रतम् अकारि चानया ।
*सस्वजे प्रियम् उरोनिपीडिता प्रार्थितं मुखम् अनेन नाहरत् ।
*भावसूचितम् अदृष्टविप्रियं चाटुमत् क्षणवियोगकातरम् ।
*तं यथात्मसदृशं वरं वधूर् अन्वरज्यत वरस् तथैव ताम् ।
*शिष्यतां निधुवनोपदेशिनः शङ्करस्य रहसि प्रपन्नया ।
*दष्टमुक्तम् अधरोष्ठम् आम्बिका वेदनाविधुतहस्तपल्लवा ।
*चुम्बनादलकचूर्णदूषितं शङ्करो ऽपि नयनं ललाटजम् ।
*एवम् इन्द्रियसुखस्य वर्त्मनः सेवनाद् अनुगृहीतमन्मथः ।
*सो ऽनुमान्य हिमवन्तम् आत्मभूर् आत्मजाविरहदुःखखेदितम् ।
*मेरुम् एत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतान् कृती ।
*पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्व् अमृतविप्रुषो नवाः ।
*तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम् ।
*तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् ।
*इत्य् अभौमम् अनुभूय शङ्करः पार्थिवं च दयितासखः सुखम् ।
*तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यम् अवलोक्य भास्करम् ।
*पद्मकान्तिम् अरुणत्रिभागयोः संक्रमय्य तव नेत्रयोर् इव ।
*सीकरव्यतिकरं मरीचिभिर् दूरयत्य् अवनते विवस्वति ।
*स्थानम् आह्निकम् अपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् ।
*पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता ।
*उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्क्तम् अतिवाहितातपाः ।
*एष वृक्षशिखरे कृतास्पदो जातर्ऊपरसगौरमण्डलः ।
*पूर्वभागतिमिरप्रवृत्तिभिर् व्यक्तपङ्कम् इव जातम् एकतः ।
*आविशद्भिर् उटजाङ्गणं मृगैर् मूलसेकसरसैश् च वृक्षकैः ।
*बद्धकोशम् अपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् ।
*दूरमग्रपरिमेयरश्मिना वारुणी दिग् अरुणेन भानुना ।
*सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयङ्गमस्वरैः ।
*सो ऽयम् आनतशिरोधरैर् हयैः कर्णचामरविघट्टितेक्षणैः ।
*खं प्रसुप्तम् इव संस्थिते रवौ तेजसो महत ईदृशी गतिः ।
*संध्ययाप्य् अनुगतं रवेर् वपुर् वन्द्यम् अस्तशिखरे समर्पितम् ।
*रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि भान्त्य् अमूः ।
*सिंहकेसरसटासु भूभृतां पल्लवप्रसविषु द्रुमेषु च ।
*तन् मुहूर्त्तम् अनुमन्तुम् अर्हसि प्रस्तुताय नियमाय माम् अपि ।
*निर्विभुज्य दशनच्छदं ततो वाचि भर्तुर् अवधीरणापरा ।
*ईश्वरो ऽपि दिवसात्ययोचितं मन्त्रपूर्वम् अनुतस्थिवान् विधिम् ।
*मुञ्च कोपम् अनिमित्तकोपने संध्यया प्रणमितो ऽस्मि नान्यया ।
*निर्मितेषु पितृषु स्वयंभुवा या तनुः सुतनु पूर्वम् उज्झिता ।
*ताम् इमां तिमिरवृद्धिपीडितां शैलराजतनये ऽधुना स्थिताम् ।
*सान्ध्यम् अस्तमितशेषम् आतपं रक्तलेखम् अपरा बिभर्ति दिक् ।
*यामिनीदिवससन्धिसम्भवे तेजसि व्यवहिते सुमेरुणा ।
*नोर्ध्वम् ईक्षणगतिर् न चाप्य् अधो नाभितो न पुरतो न पृष्ठतः ।
*शुद्धम् आविलम् अवस्थितं चलं वक्रम् आर्जवगुणान्वितं च यत् ।
*नूनम् उन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।
*मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका ।
*रुद्धनिर्गमनम् आ दिनक्षयात् पूर्वदृष्टतनुचन्द्रिकास्मितम् ।
*पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरो ऽम्भसा ।
*शक्यम् ओषधिपतेर् नवोदयाः कर्णपूररचनाकृते तव ।
*अङ्गुलीभिर् इव केशसंचयं सन्निगृह्य तिमिरं मरीचिभिः ।
*पश्य पार्वति नवेन्दुरश्मिभिः सामिभिन्नतिमिरं नभस्तलम् ।
*रक्तभावम् अपहाय चन्द्रमा जात एष परिशुद्धमण्डलः ।
*उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।
*कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिर् इव पश्य सुन्दरि ।
*उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेर् इयम् ।
*एतद् उच्छ्वसितपीतम् ऐन्दवं वोढुम् अक्षमम् इव प्रभारसम् ।
*पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितर्ऊपसंशयम् ।
*शक्यम् अङ्गुलिभिर् उद्धृतैर् अधः शाखिनां पतितपुष्पपेशलैः ।
*एष चारुमुखि योगतारया युज्यते तरलबिम्बया शशी ।
*लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रती स्वयम् ।
*आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः ।
*मान्यभक्तिर् अथवा सखीजनः सेव्यताम् इदम् अनङ्गदीपनम् ।
*पार्वती तदुपयोगसम्भवां विक्रियाम् अपि सतां मनोहराम् ।
*तत्क्षणं विपरिवर्तितह्रियोर् नेष्यतोः शयनम् इद्धरागयोः ।
*घूर्णमाननयनं स्खलत्कथं स्वेदिबिन्दुमद् अकारणस्मितम् ।
*तां विलम्बितपनीयमेखलाम् उद्वहञ् जघनभारदुर्वहाम् ।
*क्लिष्टकेशम् अवलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् ।
*केवलं प्रियतमादयालुना ज्योतिषाम् अवनतासु पङ्क्तिषु ।
*स व्यबुध्यत बुधस्तवोचितः शतकुम्भकमलाकरैः समम् ।
*तौ क्षणं शिथिलितोपगूहनौ दम्पती चलितमानसोर् मयः ।
*ऊरुमूलनखमार्गराजिभिस् तत्क्षणं हृतविलोचनो हरः ।
*स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः ।
*समदिवसनिशीथं सङ्गिनस् तत्र शम्भोः शतम् अगमद् ऋतूनां साग्रम् एका निशेव ।
मेघदूतम् कालिदासेन लिखितम् काव्यम् अस्ति। एतत् ह्रस्व काव्यम् अस्ति। अस्मिन् एकादश शतम् श्लोकाः सन्ति। अस्मिन् काव्ये विवासितः यक्षः मेघदुतेन अलकापुरीवासिन्यै स्वपत्न्यै सन्देशम् प्रेषितवान्।
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । br>
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥ br>
*तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी br>
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥ br>
*तस्यस्थित्वा कथमपि पुरः कौतुकाधानहेतोर् br>
अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ । br>
मेघालोके भवति सुखिनो ऽप्यन्यथावृत्तिचेतः br>
कण्ठाश्लेषप्रणयिनि जने किं पुनर् दूरसंस्थे ॥ ३ ॥ br>
जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् । br>
सः प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै br>
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥ br>
*धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः br>
संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापनीयाः । br>
कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥</br>
*जातं वंशे भुवनविदिते पुष्करावर्तकानां br>
जानामी त्वां प्रकृतिपुरुषं कामरूपं मघोनः । br>
तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतो ऽहम् br>
*संतप्तानाम् त्वमसि शरणम् तत्पयोद प्रियायाः br>
संदेशं मे हर धनपतिक्रोधविश्लेषितस्य । br>
गन्तव्या त वसतिरलका नाम यक्षेश्वराणाम् br>
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ ७ ॥ br>
प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसत्यः । br>
कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां br>
न स्यादन्यो ऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ ८ ॥ br>
सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥ ९ ॥ br>
*मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम् br>
वामश्चायं नदति मधुरं चातकस्ते सगन्धः । br>
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ १० ॥ br>
*कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामवन्ध्याम् br>
तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः br>
संपत्स्यन्ते नभसि भवतः राजहंसाः सहायाः ॥ ११ ॥ br>
*आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं br>
वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु । br>
काले काले भवति भवतो यस्य संयोगम् एत्य br>
स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ १२ ॥</br>
संदेशं मे तदनु जलद श्रोष्यसि श्राव्यबन्धः । br>
खिन्नः खिन्नः शिकरिषु पदं न्यस्य गन्तासि यत्र br>
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपयुज्य ॥ १३ ॥ br>
*अद्रेः शृङ्गं हरति पवनः किं स्विद् इत्य् उन्मुखीभिर् br>
दृष्टोत्साहश् चकितचकितं मुग्धसिद्धाङ्गनाभिः । br>
स्थानाद् अस्मात् सरसनिचुलाद् उत्पतोदङ्मुखः खं br>
दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ १४ ॥ br>
किंचित्पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण ॥ १६ ॥ br>
न क्षुद्रो ऽपि प्रथमसुकृतापेक्षया संश्रयाय br>
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७ ॥ br>
त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे । br>
*स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं br>
तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः । br>
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णं br>
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ १९ ॥ br>
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां br>
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २० ॥ br>
*नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढैर् br>
सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २१ ॥</br>
*उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः br>
कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते । br>
शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः br>
प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥ २२ ॥</br>
संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २३ ॥</br>
*तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं br>
गत्वा सद्यः फलमपि महत् कामुकत्वस्य लब्धा । br>
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत्र br>
सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्म्याः ॥ २४ ॥</br>
त्वत्संपर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः । br>
उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ २५ ॥</br>
*नीचैराख्यं गिरिम् अधिवसेस् तत्र विश्रामहेतोस् br>
त्वत्सम्पर्कात् पुलकितम् इव प्रौढपुष्पैः कदम्बैः । br>
उद्दामानि प्रथयति शिलावेश्मभिर् यौवनानि ॥ २६ ॥ br>
*विश्रान्तः सन्व्रज वननदीतीरजानां निषीञ्चन् br>
छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २७ ॥ br>
*वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां br>
सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः । br>
लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २८ ॥ br>
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः । br>
निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य br>
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ २९ ॥ br>
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती br>
कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ ३० ॥</br>
पूर्वोद्दिष्टामुपसर पुरीं श्रीविशालां विशालाम् । br>
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां br>
शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ३१ ॥</br>
*दीर्घीकुर्वन्पटु मदकलं कूजितं सारसानां br>
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः br>
सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३२ ॥</br>
*प्रद्योतस्य प्रियदुहितरं वत्सराजो ऽत्र जह्रे</br>
हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः । br>
अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पाद् br>
इत्यागन्तून्रमयति जनो यत्र बन्धूनभिज्ञः ॥ ३३ ॥</br>
दृष्ट्वा यस्यां विपणिरचितान्विद्रुमाणां च भङ्गान् br>
संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ ३४ ॥</br>
पश्यन् लक्ष्मीं ललितवनितापादरागाङ्कितेषु ॥ ३५ ॥</br>
*भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः br>
पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य । br>
स्थातव्यं ते नयनविषयं यावदत्येति भानुः । br>
आमन्द्राणाम् फलमविकलं लप्स्यसे गर्जितानाम् ॥ ३७ ॥</br>
आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥ ३८ ॥</br>
सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः । br>
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ३९ ॥</br>
*गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं br>
रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः । br>
तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः ॥ ४० ॥</br>
नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः । br>
दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं br>
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ४१ ॥ br>
*तस्मिन्काले नयनसलिलं योषितां खण्डितानां br>
शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु । br>
प्रालेयास्त्रं कमलवदनात्सो ऽपि हर्तुं नलिन्याः br>
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ ४२ ॥</br>
*गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने br>
छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् । br>
तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यान् br>
मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ ४३ ॥</br>
हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । br>
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि br>
ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः ॥ ४४ ॥</br>
स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः । br>
शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ ४५ ॥ br>
*तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा br>
पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलार्द्रैः । br>
अत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ ४६ ॥</br>
*ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी br>
पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति । br>
धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं br>
स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ४८ ॥</br>
*त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे br>
तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् । br>
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टिर् br>
एकं भुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४९ ॥</br>
पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ५० ॥ br>
क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः । br>
धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ ५१ ॥ br>
बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे । br>
कृत्वा तासामधिगममपां सौम्य सारस्वतीनाम् br>
अन्तःशुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ५२ ॥</br>
जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । br>
गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः br>
शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५३ ॥</br>
*तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी br>
त्वं चेद् अच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः । br>
संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ br>
तस्या एव प्रभवम् अचलं प्राप्य गौरं तुषारैः । br>
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः br>
शोभां शुभ्रां त्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ ५५ ॥</br>
*तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा br>
आपन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ ५६ ॥</br>
*ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन् br>
मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् । br>
के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५७ ॥</br>
*तत्र व्यक्तं दृषदि चरणन्यासम् अर्धेन्दुमौलेः br>
शश्वत्सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः । br>
कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५८ ॥</br>
*शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः br>
संसक्ताभिस्त्रिपुरविजयो गीयते किंनराभिः । br>
निर्ह्रादस्ते मुरज इव चेत्कन्दरेषु ध्वनिः स्यात् br>
संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥ ५९ ॥</br>
हंसद्वारं भृगुपतिशयोवर्त्म यत्क्रौञ्चरन्ध्रम् । br>
श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ ६० ॥</br>
कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः । br>
शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितस्य स्थितः खं br>
राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥ ६१ ॥</br>
*उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे br>
अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ६२ ॥</br>
*हित्वा तस्मिन् भुजवलयं शम्भुना दत्तहस्ता br>
क्रीदाशैले यदि च विचरेत् पादचारेण गौरी । br>
सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ ६३ ॥</br>
नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् । br>
ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्यात् br>
क्रीदालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः ॥ ६४ ॥</br>
कुर्वन् कामं क्षणमुखपटप्रीतिमैरावतस्य । br>
धुन्वन् कल्पद्रुमकिसलयान् यंशुकानीव वातैर् br>
नानाचेष्टैर्जलदललितैर्निव्र्विशेस्तं नगेन्द्रम् ॥ ६५ ॥</br>
*तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां br>
न त्वं दृष्ट्वा न पुनर् अलकां ज्ञास्यसे कामचारिन् । br>
या वः काले वहति सलिलोद्गारमुच्चैर्विमाना br>
मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६६ ॥</br>
नीता लोध्रप्रसवरजसा पाण्डुताम् आनने श्रीः।</br>
*यस्यां यक्षाः सितमणिमयान्य् एत्य हर्म्यस्थलानि</br>
अर्चिस्तुङ्गान् अभिमुखम् अपि प्राप्य रत्नप्रदीपान्</br>
शङ्कास्पृष्टा इव जलमुचस् त्वादृशा जालमार्गैर्</br>
उद्गायद्भिर् धनपतियशः किंनरैर् यत्र सार्धम्।</br>
*वासश् चित्रं मधु नयनयोर् विभ्रमादेशदक्षं</br>
पुष्पोद्भेदं सह किसलयैर् भूषणानां विकल्पम्।</br>
शैलोदग्रास् त्वम् इव करिणो वृष्टिमन्तः प्रभेदात्।</br>
*मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं</br>
प्रायश् चापं न वहति भयान् मन्मथः षट्पदज्यम्।</br>
यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे</br>
यस्यास् तोये कृतवसतयो मानसं संनिकृष्टं</br>
*तस्यास् तीरे रचितशिखरः पेशलैर् इन्द्रनीलैः</br>
मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण</br>
*रक्ताशोकश् चलकिसलयः केसरश् चात्र कान्तः</br>
एकः सख्यास् तव सह मया वामपादाभिलाषी</br>
*तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर्</br>
तालैः शिञ्जावलयसुभगैर् नर्तितः कान्तया मे</br>
*एभिः साधो हृदयनिहितैर् लक्षणैर् लक्षयेथा</br>
द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा।</br>
क्षामच्छायां भवनम् अधुना मद्वियोगेन नूनं</br>
*तां जानीथाः परिमितकथां जीवितं मे द्वितीयं</br>
दूरीभूते मयि सहचरे चक्रवाकीम् इवैकाम्।</br>
गाढोत्कण्ठां गुरुषु दिवसेष्व् एषु गच्छत्सु बालां</br>
*आलोके ते निपतति पुरा सा बलिव्याकुला वा</br>
मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती।</br>
पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां</br>
*उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां</br>
तन्त्रीम् आर्द्रां नयनसलिलैः सारयित्वा कथंचिद्</br>
*सव्यापारम् अहनि न तथा पीडयेद् विप्रयोगः</br>
शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते।</br>
मत्सन्देशः सुखयितुम् अलं पश्य साध्वीं निशीथे</br>
प्राचीमूले तनुम् इव कलामात्रशेषां हिमांशोः।</br>
नीता रात्रिः क्षण इव मया सार्धम् इच्छारतैर् या</br>
*सा संन्यस्ताभरणम् अबला पेशलं धारयन्ती</br>
शय्योत्सङ्गे निहितम् असकृद् दुःखदुःखेन गात्रम्।</br>
त्वाम् अप्य् अस्रं नवजलमयं मोचयिष्यत्य् अवश्यं</br>
*जाने सख्यास् तव मयि मनः संभृतस्नेहमस्माद्</br>
इत्थंभूतां प्रथमविरहे ताम् अहं तर्कयामि।</br>
वाचालं मां न खलु सुभगंमन्यभावः करोति</br>
प्रत्यादेशाद् अपि च मधुनो विस्मृतभ्र्ऊविलासम्।</br>
त्वय्य् आसन्ने नयनम् उपरिस्पन्दि शङ्के मृगाक्ष्या</br>
*वामश् चास्याः कररुहपदैर् मुच्यमानो मदीयैर्</br>
*तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद्</br>
मा भूद् अस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित्</br>
प्रत्याश्वस्तां समम् अभिनवैर् जालकैर् मालतीनाम्।</br>
*भर्तुर् मित्रं प्रियम् अविधवे विद्धि माम् अम्बुवाहं</br>
यो वृन्दानि त्वरयति पथि श्रम्यतां प्रोषितानां</br>
*इत्य् आख्याते पवनतनयं मैथिलीवोन्मुखी सा</br>
त्वाम् उत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैव।</br>
श्रोष्यत्य् अस्मात् परम् अवहिता सौम्य सीमन्तिनीनां</br>
*ताम् आयुष्मन् मम च वचनाद् आत्मनश् चोपकर्तुं</br>
ब्र्ऊया एवं तव सहचरो रामगिर्याश्रमस्थः।</br>
अव्यापन्नः कुशलम् अबले पृच्छति त्वां वियुक्तः</br>
*अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं</br>
*शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात्</br>
कर्णे लोलः कथयितुम् अभूद् आननस्पर्शलोभात्।</br>
सो ऽतिक्रान्तः श्रवणविषयं लोचनाभ्याम् अदृष्टस्</br>
वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान्।</br>
*त्वाम् आलिख्य प्रणयकुपितां धातुरागैः शिलायाम्</br>
अस्रैस् तावन् मुहुर् उपचितैर् दृष्टिर् आलुप्यते मे</br>
दूरीभूतं प्रतनुम् अपि मां पञ्चबाणः क्षिणोति।</br>
घर्मान्ते ऽस्मिन् विगणय कथं वासराणि व्रजेयुर्</br>
लब्धायास् ते कथम् अपि मया स्वप्नसन्दर्शनेषु।</br>
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां</br>
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः</br>
*संक्षिप्यन्ते क्षन इव कथं दीर्घयामा त्रियामा</br>
सर्वावस्थास्व् अहर् अपि कथं मन्दमन्दातपं स्यात्।</br>
इत्थं चेतश् चटुलनयने दुर्लभप्रार्थनं मे</br>
*नन्व् आत्मानं बहु विगणयन्न् आत्मनैवावलम्बे</br>
तत्कल्याणि त्वम् अपि नितरां मा गमः कातरत्वम्।</br>
कस्यात्यन्तं सुखम् उपनतं दुःखम् एकान्ततो वा</br>
*शापान्तो मे भुजगशयनाद् उत्थिते शार्ङ्गपाणौ</br>
शेषान् मासान् गमय चतुरो लोचने मीलयित्वा।</br>
पश्चाद् आवां विरहगुणितं तं तम् आत्माभिलाषं</br>
*भूयश्चाह त्वम् अपि शयने कण्ठलग्ना पुरा मे</br>
निद्रां गत्वा किम् अपि रुदती सस्वरं विप्रबुद्धा।</br>
सान्तर्हासं कथितम् असकृत् पृच्छतश् च त्वया मे</br>
*एतस्मान् मां कुशलिनम् अभिज्ञानदानाद् विदित्वा</br>
मा कौलीनाद् असितनयने मय्य् अविश्वासिनी भूः।</br>
स्नेहान् आहुः किम् अपि विरहे ध्वंसिनस् ते त्व् अभोगाद्</br>
*कच्चित् सौम्य व्यवसितम् इदं बन्धुकृत्यं त्वया मे</br>
प्रत्यादेशान् न खलु भवतो धीरतां कल्पयामि।</br>
निःशब्दो ऽपि प्रदिशसि जलं याचितश् चातकेभ्यः</br>
<DOC_END>
<DOC_START>
१. इदं किलाव्याजमनोहरं वपुस्तपः क्षमं साधयितुं य इच्छति ।
:ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति ॥ शाकुन्तल १।१८॥
:वपुरभिनवमस्याः पुष्यति स्वां न शोभां
:कुसुममिव पिनद्धं पाण्डुपत्रोदरेण ॥ शाकुन्तल १।१९॥
:किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ शाकुन्तल १।२०॥
४. कठिनमपि मृगाक्ष्या वल्कलं कान्तरूपम्,
:न मनसि रुचिमङ्गं स्वल्पमप्यादधाति ।
:निजमिव कमलिन्याः कर्कशं वृन्तजालम् ॥ शाकुन्तल १।२१॥
५. अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
:कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ॥ शाकुन्तल १।२२॥
६. यतो यतः षट्चरणोऽभिवर्तते ततस्ततः प्रेरितवामलोचना ।
:विवर्त्तितभ्रूरियमद्य शिक्षते भयादकामाऽपि हि दृष्टिविभ्रमम् ॥ शाकुन्तल १।२४॥
७. चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं,
:रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
:वयं तत्त्वान्वेषान्मधुकर! हतास्त्वं खलु कृती ॥ शाकुन्तल १।२५॥
८. लोलां दृष्टिमितस्तो वितनुते सभ्रूलताविभ्रमा-
:माभुग्नेन विवर्त्तिता वलिमता मध्येन कम्रस्तनी ।
:जातेयं भ्रमराभिलङ्घनभिया वाद्यैर्विना नर्त्तकी ॥ शाकुन्तल १।२६॥
९. मानुषीषु कथं स्यादस्य रूपस्य सम्भवः ।
:न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥ शाकुन्तल १।२८॥
:दद्यापि स्तनवेपथं जनयति श्वासः प्रमाणाधिकः ।
:बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥ शाकुन्तल १।३२॥
११. वाचं न मिश्रयति यद्यपि मद्वचोभिः,
:कर्णं ददात्यभिमुखं मयि भाषमाणे ।
:भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥ शाकुन्तल १।३३॥
१२. सुरयुवतिसम्भवं किल मुनरेपत्यं तदुज्झिताधिगतम् ।
:अर्कस्योपरि शिथिलं च्युतमिव नवमालिका कुसुमम् ॥ शाकुन्तल २।८॥
:रूपोच्चयेन विधिना विहिता कृशाङ्गी ।
:धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ शाकुन्तल २।९॥
१४. अनाघ्रातं पुष्पं किसलयमलूनं कररुहै-
:रनाविद्धं रंत्नं मधु नवमनास्वादितरसम् ।
:अखण्डं पुण्यानां फलमिव च तद्रूपमनघम्,
:न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥ शाकुन्तल २।१०॥
१५. अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम् ।
:विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ॥ शाकुन्तल २।११॥
१६. दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे,
:तन्वी स्थिता कतिचिदेव पदानि गत्वा ।
:शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥ शाकुन्तल २।१२॥
:मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा ।
:शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते,
:पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥ शाकुन्तल ३।८॥
१८. तव न जाने हृदयं मम पुनः कामो दिवाऽपि रात्रिमपि ।
:निर्घृण! तपसि बलीयस्त्वयि वृत्तमनोरथान्यङ्गानि ॥ शाकुन्तल ३।१४॥
:गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥ शाकुन्तल ३।१६॥
२०. का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।
:मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥ शाकुन्तल ५।१३॥
२१. त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः शकुन्तला मूर्तिमती च सत्क्रिया ।
:समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः ॥ शाकुन्तल ५।१५॥
:न च खलु परिभोक्तुं नैव शक्नोमि हातुम् ॥ शाकुन्तल ५।१९॥
२३. आजन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य ।
:परातिसन्धानमधीयते यौर्विद्येति ते सन्तु किलाप्तवाचः ॥ शाकुन्तल ५।२५॥
२४. वसने परिधूसरे वसाना नियमक्षामुखी धृतैकवेणिः ।
:अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥ शाकुन्तल ७।२१॥
१. यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया,
:पीड्यन्ते गृहिणः कथं नु तनया विश्लेषदुः खैर्नवैः ॥ शा० ४।६॥
२. पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या,
:नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।
:आदौ वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः,
:सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥ शा० ४।९॥
३. उद्गलितदर्भकवला मृगाः परित्यक्तनर्तना मयूराः ।
:अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ॥ शा० ४।१२॥
:तैलं न्यषिच्यत मुखे कुशसूचिविद्धे ।
:सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥ शाकुन्तल ४।१४॥
:वाष्पं कुरु स्थिरतया विहतानुबन्धम् ।
:मार्गे पदानि खलु ते विषमीभवन्ति ॥ शा० ४।१५॥
६. अस्मान्साधु विचिन्त्य संयमधनान्नुच्चैः कुलं चात्मन-
:स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
:भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ शा० ४।१७॥
७. शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपन्तीजने,
:पत्युर्विप्रकृताऽपि रोषणतया मा स्म प्रतीपं गमः ।
:भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी,
:यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ शा० ४।१८॥
८. अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे,
:तनयमचिरात् प्राचीवार्कं प्रसूय च पावनम्,
:मम विरहजां न त्वं वत्से! शुचं गणयिष्यसि ॥ शाकुन्तल ४।१९॥
:शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥ शा० ४।२०॥
१०. शममेष्यति मम शोकः कथं नु वत्से! त्वया रचितपूर्वम् ।
:उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥ शा० ४।२१॥
११. अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः ।
:जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥ शा० ४।२२॥
१२. आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः ।
:आशीरन्या न ते योग्या पौलोमी सदृशी भव ॥ शा० ७।२८॥
१३. दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् ।
:श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥ शा० ७।२९॥
:प्रकीडितुं सिंहशिशुं बलात्कारेण कर्षति ।
२. महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे ।
:स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः ॥ शा०७।१५॥
३. प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः ।
:अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम् ॥ शा० ७।१६॥
:अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा मलिनी भवन्ति ॥ शा० ७।१७॥
५. अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
:कां निर्वृत्तिं चेतसि तस्य कुर्याद्यस्यायमङ्कत्कृतिनः प्रसूढः ॥ शा०७।१९॥
:पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः ।
:पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् ॥ शा० ७।३३॥
<DOC_END>
<DOC_START>
१. नमस्त्रिमूर्तये तुभ्यं प्राक् सृष्टेः केवलात्मने ।
:गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ कुमार० २।४
२. यदमोघमपामन्तरुप्तं बीजमज त्वया ।
:अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥ कु० २।५॥
:प्रलयस्थितिसर्गाणामेकः कारणतां गतः ॥ कु० २।६॥
४. स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।
:प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ॥ कु० २।७॥
५. स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य ते ।
:यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥ कु० २।८॥
६. जगद्योनिरयोस्त्वं जगदन्तो निरन्तकः ।
:जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥ कु० २।९॥
७. आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
:आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे॥ कु० २।१०॥
८. द्रवः सङ्घातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः ।
:व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥ कु० २।११॥
९. उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् ।
:कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥ कु० २।१२॥
१०. त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।
:तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥ कु० २।१३॥
११. त्वं पितॄणामपि पिता देवानामपि देवता ।
:परतोऽपि परश्चासि विधाता वेधसामपि ॥ कु० २।१४॥
१२. त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः ।
:वेद्यं च वेदिता चासि ध्याता ध्येयं च यत्परं ॥ कु० २।१५॥
१३. मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ॥ कु० २।१६॥
१. नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते ।
:अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधा स्थितात्मने ॥ रघु० १०।१६॥
२. रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते ।
:देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः ॥ रघु० १०।१७॥
३. अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः ।
:अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् ॥ रघु० १०।१८॥
४. हृदयस्थमनासन्नमकामं त्वां तपस्विनम् ।
:दयालुमनघस्पृष्टं पुराणमजरं विदुः ॥ रघु० १०।१९॥
:सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥ रघु० १०।२०॥
६. सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् ।
:सप्तार्चिमुखमाचख्युः सप्तलोकैकसंश्रयम् ॥ रघु० १०।२१॥
७. चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्गुणाः ।
:चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखात् ॥ रघु० १०।२२॥
८. अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् ।
:ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये ॥ रघु० १०।२३॥
९. अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।
:स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव ॥ रघु० १०।२४॥
१०. शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः ।
:पर्याप्तोऽसि प्रजाः पातुमौदासीन्येन वर्तितुम् ॥ रघु० १०।२५॥
११. बहुधाऽप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः ।
:त्वय्येव निपतन्त्योघजाह्नवीया इवार्णवे ॥ रघु० १०।२६॥
:गतिस्त्वं वीतरागाणामभूर्यः सन्निवृत्तये ॥ रघु० १०।२७॥
१३. प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव ।
:आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥ रघु० १०।२८॥
१४. उदधेरिव रत्नानि तेजांसीव विवस्वतः ।
:स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते ॥ रघु० १०।३०॥
१५. अनवाप्तमवाप्तव्यं न ते किञ्चन विद्यते ।
:लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः ॥ रघु० १०।३१॥
१६. महिमानं यदुत्कीर्त्य तव संह्रियते वचः ।
:श्रमेण तदशक्त्या वा न गुणानामियत्तया ॥ रघु० १०।३२॥
१७. विभक्तात्मा विभुस्तासामेकः कुक्षिष्वनेकधा ।
:उवास प्रतिमाचन्द्रः प्रसन्नानामपामिव ॥ रघु० १०।३५॥
१. वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
:जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ रघु० १।१॥
२. वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी,
:यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।
:स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायाऽस्तु वः ॥ विक्रमो० १।१॥
३. या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री,
:ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
:यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः,
:प्रत्याक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ शाकुन्तल १।१॥
४. एकैश्वर्ये स्थितोऽपि प्रणतबहुफले यः कृत्तिवासाः,
:कान्तासम्मिश्रदेहोऽप्यविषयमनसां यः परस्ताद् यतीनाम् ।
:अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः,
:सन्मार्गालोकनाय व्यपनयतु स वस्तामर्सी वृत्तिमीशः ॥ मालविका० १।१॥
५. स हि देवः परं ज्योतिस्तमः पारे व्यवस्थितम् ।
:परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना ॥ कुमार०२।५८॥
:शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं बिभर्ति यः ॥ कु० ६।७५॥
:येनेदं ध्रियते विश्वं धुर्यैर्यानमिवाध्वनि ॥ कु० ६।७६॥
८. योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् ।
:अनावृत्तिभयं यस्य पदमाहुर्मनीषिणः ॥ कु० ६।७७॥
९. असि त्वमेको जगतामधीशः स्वर्गौकसां त्वं विपदो निहंसि ।
:ततः सुरेन्द्रप्रमुखाः प्रभो त्वामुपासते दैत्यवरैर्विधूताः ॥ कुमार० ९।७॥
१०. पुरातनीं ग्रह्मकपालमालां कण्ठे वहन्तं पुनराश्वसन्तीम् ।
:उद्गीतावेदां मुकुटेन्दुवर्षत्सुधाभरौघाप्लवलब्धसंज्ञाम् ॥ कुमार० १२।१७॥
:भूतं भवद्भावि च यच्च किञ्चित्सर्वज्ञ सर्वं तव गोचरं तत् ॥ कु० १२।४४॥
१२. पुरा मयाऽकारि गिरीन्द्रपुत्र्याः प्रतिग्रहोऽयं नियतात्मनाऽपि ।
:तत्रैष हेतुः तद्भवेन वीरेण यद् वध्यत एष शत्रुः ॥ कुमार० १२।५५॥
<DOC_END>
<DOC_START>
१. प्रदृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी ॥ रघु० १६।४५॥
२. दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः ।
:उद्दण्डपद्मं गृहदीर्घिकाणां नारी नितम्बद्वयसम्बभूव ॥ रघु० १६।४६॥
३. वनेषु सायन्तनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु ।
:प्रत्येकनिक्षिप्तपदः सशब्दं संख्यामिवैषां भ्रमरश्चकार ॥ रघु० १६।४७॥
४. स्वेदानुविद्धार्द्रनखक्षताङ्के भूयिष्ठसन्दष्टशिखं कपोले ।
:च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥ रघु० १६।४८॥
:कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥ रघु० १६।५०॥
६. पत्रच्छायासु हंसा मुकुलितनयना दीर्घिका पद्मिनीनाम्,
:सर्वैरुस्रैः समग्रैस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः ॥ मालविका० २।१२॥
७. प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदावगाहक्षतवारिसञ्चयः ।
:दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघकालोऽयमुपागतः प्रिये ॥ ऋतु० १।१॥
:नितम्बदेशाश्च सहेममेखलाः प्रकुर्वते कस्य मनो न सोत्सुकम् ॥ ऋतु० १।६॥
९. असह्यवातोद्धतरेणमुण्डला प्रचण्डसूर्यातपातपिता मही ।
:न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः ॥ ऋतु० १।१०॥
१०. रवेर्मयूखैरभितापितो भृशं विदह्यमानः पथि तप्तापांसुभिः ।
:अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः फणी मयूरस्य तले निषीदति ॥ ऋतु० १।१३॥
११. हुताग्निकल्पैः सवितुर्गभस्तिभिः कलापिनः क्लान्तशरीरचेतसः ।
:न भोगिनं घ्नन्ति समीपवर्तिन कलापचक्रेषु निवेशिताननम् ॥ ऋतु० १।१६॥
:विषाग्निसूर्यातपतापितः फणी न हन्ति मण्डूककुलं तृषाकुलः ॥ ऋतु० १।२०॥
:सुहृद इव समेता द्वन्द्वभावं विहाय ।
:विपुलपुलिनदेशान्निम्नगां संविशन्ति ॥ ऋतु० १।२७॥
:व्रजतु तव निदाघः कामिनीभिः समेतो,
:निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥ ऋतु० १।२८॥
:प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ शाकुन्तल १।३॥
:समागतो राजवदुद्धरद्युतिर्घनागमण् कामिजनप्रियः प्रिये ॥ ऋतु० २।१॥
:क्वचित्सगर्भप्रमदास्तनप्रभैः समाचितं व्योम घनैः समन्ततः ॥ ऋतु० २।२॥
३. बलाहकाश्चाऽशनिशब्दमर्दलाः सुरेन्द्रचापं दधतस्तडिद्गुणम् ।
:सुतीक्ष्णाधारापतनोग्रसायकैस्तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥ ऋतु० २।४॥
४. निपातयन्त्यः परितस्तटद्रुमान् प्रवृद्धवेगैः सलिलैरनिर्मलैः ।
:स्त्रियः सुदुष्टा इव जातविभ्रमाः प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥ ऋतु० २।७॥
:कृतापराधानपि योषितः प्रियान्परिष्वजन्ते शयने निरन्तरम् ॥ ऋतु० २।११॥
:निरस्तमाल्याभरणानुलेपनाः स्थिता निराशाः प्रमदाः प्रवासिनाम् ॥ ऋतु० २।१२॥
७. शिरोरुहैः श्रोणितटावलम्बिभिः कृतावतंसैः कुसुमैः सुगन्धिभिः ।
:स्तनैः सहारैः ससीधुभिः स्त्रियो रतिं सञ्जनयन्ति कामिनाम् ॥ ऋतु० २।१८॥
८. वहन्ति वर्षन्ति नदन्ति भान्ति रुदन्ति नृत्यन्ति समाश्रयन्ति ।
:नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवङ्गाः ॥ ऋतु० २।१९॥
:श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे,
:शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥ ऋतु० २।२२॥
:दिशतु तव हितानि प्रायशो वाञ्छितानि ॥ ऋतु० २।१९॥
११. मेघालोके भवति सुखिनोऽप्यन्यथावृत्तिचेतः ।
:कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ पू० मे० ३॥
१२. कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम् ॥ पू० मे० ८॥
:ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥ रघु० ४।१७॥
२. हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु ।
:विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥ रघु० ४।१९॥
३. प्रससादोदयादम्भः कुम्भयोनेर्महौजसः ॥ रघु० ४।२१॥
४. सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् ।
:यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥ रघु० ४।२४॥
:प्राप्ता शरन्नववधूरिव रूपरम्या ॥ ऋतु० ३।१॥
:हंसैर्जलानि सरितां कुमुदैः सरांसि ।
:शुक्लीकृतान्युपवनानि च मालतीभिः ॥ ऋतु० ३।२॥
:वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥ ऋतु० ३।७॥
:भ्रूविभ्रमाश्च रुचिरास्तनुभिस्तरङ्गैः ॥ ऋतु० ३।१७॥
९. शरदि कुमुदसङ्गाद्वायवो वान्ति शीता,
:विमलकिरणचन्द्रं व्योम ताराविचित्रम् ॥ ऋतु० ३।२२॥
:प्रतिदिशतु शरद्वश्चेतसः प्रीतिमग्र्याम् ॥ ऋतु० ३।२८॥
:प्रयान्ति कालेऽत्र जनस्य सेव्यताम् ॥
१३. न चन्दनं चन्द्रमरीचिशीतलं न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् ।
:न वायवः सान्द्रतुषारशीतला जनस्य चित्तं रमयन्ति साम्प्रतम् ॥ ऋतु० ५।३॥
:शिशिरसमय एष श्रेयसे वोऽस्तु नित्यम् ॥ ऋतु० १६॥
१. नवप्रवालोद्गमसस्यरम्यः प्रफुल्ललोध्रः परिपक्वशालिः ।
:विलीनपद्मः प्रपतत्तुषारो हेमन्तकालः समुपागतोऽयम् ॥ ऋतु० ४।१॥
:प्रसन्नतोयानि सुशीतलानि सरांसि चेतांसि हरन्ति पुंसाम् ॥ ऋतु० ४।९॥
३. मार्गं समीक्ष्यातिनिरस्तनीरं प्रवासखिन्नं पतिमुद्वहन्त्यः ।
:अवेक्ष्यमाणा हरिणेक्षणाक्ष्यः प्रबोधयन्तीव मनोरथानि ॥ ऋतु० ४।१०॥
४. दन्तच्छदैः सव्रणदन्तचिह्नैः स्तनैश्च पाण्यग्रकृताभिलेखैः ।
:संसूच्यते निर्दयमङ्गनानां रतोपभोगो नवयौवनानाम् ॥ ऋतु० ४।१३॥
:स्रस्तांसदेशलुलिताकुलकेशपाशा निद्रां प्रयाति मृदुसूर्यकराभितप्ता ॥ ऋतु० ४।१५॥
:अभ्यञ्जनं विदधति प्रमदाः सुशोभाः ॥ ऋतु० ४।१८॥
:प्रदिशतु हिमयुक्तः कालः एषः सुखं वः ॥ ऋतु० ४।१९॥
१. कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् ।
:इति यथाक्रममाविरभून्मधुर्द्रुमवतीमवतीर्य वनस्थलीम् ॥ रघु० ९।४२॥
२. अमदयन्मधुसनाथया किसलयाधरसङ्गतया मनः ।
:कुसुमसम्भृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ रघु० ९।४२॥
३. अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः ।
:परभृताविरुतैश्च विलासिनः स्मरबलैकरसाः कृताः ॥ रघु० ९।४३॥
४. ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः ।
:कुसुमकेसररेणुमलिव्रजाः सपवनोपवनोत्थितमन्वयुः ॥ रघु० ९।४५॥
५. त्यजत मानमलं बत विग्रहैर्न पुनरेति गतं चतुरं वयः ।
:परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥ रघु० ९।४७॥
६. चूताङ्कुरस्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज ।
:मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ॥ कुमार० ३।३२॥
७. तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने ।
:काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः ॥ कुमार० ३।३५॥
८. मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
:श्रृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥ कुमार० ३।३६॥
९. ददौ रसात् पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः ।
:अर्धोपभुक्तेन बिसेन जायां सम्भावयामास रथाङ्गनामा ॥ कुमार० ३।३७॥
१०. गीतान्तरेषु श्रमवारिलेशैः किञ्चित्समुच्छ्वासितपत्रलेखम् ।
:पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किम्पुरुषश्चुचुम्बे ॥ कु० ३।३८॥
:लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखा भुजबन्धनानि ॥ कु० ३।३९॥
१२. उन्मत्तानां श्रवणसुभगैः कूजितैः कोकिलानाम्,
:सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव ।
:सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ॥ मालविका० ३।४॥
:सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी योषिताम् ॥ मालविका० ३।५॥
:मनांसि भेत्तुं सुरतप्रसङ्गिनां वसन्तयोद्धा समुपागतः प्रिये ॥ ऋतु० ६।१॥
१५. द्रुमाः सपुष्पाः सलिलं सपद्मं स्त्रियः सकामाः पवनः सुगन्धिः ।
:सुखाः प्रदोषा दिवसाश्च रम्याः सर्वं प्रियं चारुतरं वसन्ते ॥ ऋतु० ६।२॥
१६. नेत्रेषु लोलो मदिरालसेषु गण्डेषु पाण्डुः कठिनः स्तनेषु ।
:मध्येषु निम्नो जघनेषुः पीनः स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ॥ ऋतु० ६।१२॥
१७. आदीप्तवह्निसदृशैर्मरुताऽवधूतैः सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।
:सद्यो वसन्तसमयेन समाचितेयं रक्तांशुका नववधूरिव भाति भूमिः ॥ ऋतु० ६।२१॥
:हरन्ति हृदयं प्रसभं नराणाम् ॥ ऋतु० ६।२६॥
:पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः ।
:सर्वं रसायनमिदं कुसुमायुधस्य ॥ ऋतु० ६।३५॥
:र्ज्यो यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितम् ।
:मत्तेभो मलयानिलः परभृता यद्वन्दिनो लोकजित्,
:सोऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः ॥ ऋतु० ६।३८॥
<DOC_END>
<DOC_START>
१. नमस्त्रिमूर्तये तुभ्यं प्राक् सृष्टेः केवलात्मने ।
:गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ कुमार० २।४
२. यदमोघमपान्तरुप्तं बीजमज! त्वया ।
:अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥ कु० २।५॥
:प्रलयस्थितिसर्गाणामेकः कारणतां गतः ॥ कु० २।६॥
४. स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।
:प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ॥ कु० २।७॥
५. स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य ते ।
:यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥ कु० २।८॥
६. जगद्योनिरयोस्त्वं जगदन्तो निरन्तकः ।
:जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥ कु० २।९॥
७. आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
:आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे॥ कु० २।१०॥
८. द्रवः सङ्घातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः ।
:व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥ कु० २।११॥
९. उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् ।
:कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥ कु० २।१२॥
१०. त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।
:तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥ कु० २।१३॥
११. त्वं पितॄणामपि पिता देवानामपि देवता ।
:परतोऽपि परश्चासि विधाता वेधसामपि ॥ कु० २।१४॥
१२. त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः ।
:वेद्यं च वेदिता चासि ध्याता ध्येयं च यत्परं ॥ कु० २।१५॥
१३. मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ॥ कु० २।१६॥
१. अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
:पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ कुमार० १।१॥
:प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवानिति ॥ कुमार० ६।५१॥
३. मनसः शिखराणां च सदृशी ते समुन्नतिः ॥ कुमार० ६।६६॥
१. योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥ कु० ६।१६॥
:नालक्षयत्साध्वससन्नहस्तः स्रस्तं शरं चापमपि स्वहस्तात् ॥ कुमार० ३।५१॥
३. निर्वाणभूयिष्ठमथास्य वीर्यं सन्धुक्षयन्तीव वपुर्गुणेन ।
:अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या ॥ कुमार० ३।५२॥
:मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ति ॥ कुमार० ३।५३॥
५. आवर्जिता किञ्चिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
:पर्याप्तपुष्पस्तबकावनम्रा सञ्चारिणी पल्लविनी लतेव ॥ कुमार० ३।५४॥
६. स्रस्तां नितम्बादवलम्बमाना पुनः पुनः केसरदामकाञ्चीम् ।
:न्यासीकृतां स्थानविदा स्मरेण मौर्वीद्वितीयामिव कार्मकस्य ॥ कुमार० ३।५५॥
७. सुगन्धिनिश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम् ।
:प्रतिक्षणं सम्भ्रमलोलदृष्टिर्लीलारविन्देन निवारयन्ति ॥ कु० ३।५६॥
८. तां विक्ष्य सर्वावयवानवद्यां रेतरपि ह्रीपदमादधानाम् ।
:जितेन्द्रिये शूलिनि पुष्पचापः स्वकार्यसिद्धिं पुनराशशंसे ॥ कु० ३।५७॥
९. भविष्यतः पत्युरुमापि शम्भोः समाससाद प्रतिहारभूमिम् ।
:योगात्स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिरुपारराम ॥ कु० ३।५८॥
१०. ततो भुजङ्गाधिपतेः फणाग्रैरधः कथञ्चिद्धृतभूमिभागः ।
:शनैः कृतप्राणविमुक्तिरीशः पर्यङ्कबन्धं निबिडं बिभेद ॥ कु० ३।५९॥
११. तस्मै शशंस प्रणिपत्य नन्दी शुश्रूषा शैलसुतामुपेताम् ।
:प्रवेशयामास च भर्तुरेनां भ्रूक्षेमात्रानुमतप्रवेशाम् ॥ कु० ३।६०॥
१२. तस्याः सखीभ्यां प्रणिपातपूर्वं स्वहस्तलूनः शिशिरात्ययस्य ।
:व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥ कु० ३।६१॥
१३. उमापि निलालकमध्यशोभि विस्नंसयन्ति नवकर्णिकारम् ।
:चकार कर्णच्युतपल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय ॥ कु० ३।६२॥
१४. अनन्यभाजं पतिमाप्नुहीति सा तथ्यमेवाभिहिता भवेन ।
:न हीश्वरव्याहृतयः कदाचित् पुष्पान्ति लोको विपरीतमर्थम् ॥ कु० ३।६३॥
१५. कामस्तु बाणावसरं प्रतीक्ष्य परङ्ग्वद्वह्निमुखं विविक्षुः ।
:उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ॥ कु० ३।६४॥
१६. अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण ।
:विशेषितां भानुमतो मयूखैर्मन्दाकिनी पुष्करबीजमालाम् ॥ कु० ३।६५॥
१७. प्रतिग्रहितुं प्रणयिप्रियत्वात् त्रिलोचनस्तामुपचक्रे च ।
:सम्मोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥ कुमार० ३।६६॥
१८. हरस्तु किञ्चित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
:उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ कुमार० ३।६७॥
१९. विवृण्वती शैलसुताऽपि भावमङ्गैझ् स्फुरद् बालकदम्बपुष्पैः ।
:साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥ कुमार०३।६८॥
२०. अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद् बलवन्निगृह्य ।
:हेतुं स्वचेतोर्विकृतेर्दिदृक्षुर्दिशामुपान्तेषु ससर्ज दृष्टिम् ॥ कुमार० ३।६९॥
२१. स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् ।
:ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥ कुमार० ३।७०॥
२२. तपः परामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य ।
:स्फुरन्नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किलनिष्पपात ॥ कु०३।७१॥
२३. क्रोधं प्रभो! संहर संहरेति यावद् गिरः खे मरुतां चरन्ति ।
:तावत् स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ कुमार ३।७२॥
१. अयि जीवितनाथ! जीवसीत्यभिधायोत्थितया तया पुरः ।
:ददृशे पुरुषाकृतिं क्षितौ हरकोपानलभस्मकेवलम् ॥ कुमार० ४।३॥
२. अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी ।
:विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम् ॥ कुमार० ४।४॥
३. उपमानमभूद् विलासिनां करणं यत्तव कान्तिमत्तया ।
:तादिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः ॥ कुमार० ४।५॥
४. क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः ।
:नलिनीं क्षतसेतुबन्धनो जलसङ्घात इवासि विद्रुतः ॥ कुमार० ४।६॥
५. कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।
:किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ कुमार० ४।७॥
६. स्मरसि स्मर! मेख्लागुणैरुत गोत्रस्खलितेषु बन्धनम् ।
:च्युरकेशरदूषितेक्षणान्यवतंसोत्पलताडानानि वा ॥ कुमार० ४।८॥
७. हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् ।
:उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥ कुमार० ४।९॥
८. परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव ।
:विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् ॥ कुमार० ४।१०॥
९. रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः ।
:वसतिं प्रिय! कामिनां प्रियास्त्वदृते प्रापयितुं क ईश्वरः ॥ कुमार० ४।११॥
१०. अलिपङ्क्तिरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता ।
:विरुतैः करुणस्वनैरियं गुरुशोकानुरोदितीव माम् ॥ कुमार० ४।१५॥
११. शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च ।
:सुरतानि च तानि ते रहः स्मर! संस्मृत्य न शान्तिरस्ति मे ॥ कुमार० ४।१७॥
१२. रचितं रतिपण्डित! त्वया स्वयमङ्गेषु ममेदमार्तवम् ।
:ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यते ॥ कुमार० ४।१८॥
१३. बिबुधैरसि यस्य दारुणैरसमाप्ते परिकर्मणि स्मृतः ।
:तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे ॥ कुमार० ४।१९॥
१४. अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते ।
:चतुरैः सुरकामिनीजनैः प्रिय! यावन्न विलोभ्यसे दिवि ॥ कुमार० ४।२०॥
१५. मदनेन विना कृता रतिः क्षणमात्रं किल जीवितेति मे ।
:वचनीयमिदं व्यवस्थितं रमण! त्वामनुयामि यद्यपि ॥ कुमार० ४।२१॥
१६. क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया ।
:सममेव गतोऽस्यतर्कितां गतिमङ्गेन च जीवितेन च ॥ कुमार० ४।२२॥
१७. ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः ।
:मधुना सह सस्मितां कथां नयनोपान्तविलोकितं च यत् ॥ कुमार० ४।२३॥
:न खलूग्ररुषा पिनाकिना गमितः सोऽपि सुहृद्गतां गतिम् ॥ कुमार० ४।२४॥
१९. अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवाहतः ।
:रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत् पुरः ॥ कुमार० ४।२५॥
२०. तमवेक्ष्य रुरोद सा भृशं स्तनसम्बाधमुरो जघान च ।
:स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते ॥ कुमार० ४।२६॥
२१. इति चैनमुवाच दुःखिता सुहृदः पश्य वसन्तः! किं स्थितम् ।
:तदिदं कणशो विकीर्यते पवनैर्भस्म कपोतकर्बुरम् ॥ कुमार० ४।२७॥
२२. अयि सम्प्रति देहि दर्शनं स्मर! पर्युत्सुक एष माधवः ।
:दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥ कुमार० ४।२८॥
२३. गत एव न ते निवर्तते स सखा दीप इवानिलाहतः ।
:अहमस्य दशेव पश्य मामविषह्यव्यसनेन धूमिताम् ॥ कुमार० ४।३०॥
२४. विधिना कृतमर्धवैशसं ननु मां कामवधे विमुञ्चता ।
:अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥ कुमार० ४।३१॥
२५. तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् ।
:विधुरां ज्वलनातिसर्जनान्ननु मां प्रापय पत्युरन्तिकम् ॥ कुमार० ४।३२॥
२६. शशिना सह याति कौमुदी सह मेघेन तडित्प्रलीयते ।
:प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥ कुमार० ४।३३॥
२७. अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना ।
:नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥ कुमार० ४।३४॥
२८. कुसुमास्तरणे सहायतां बहुशः सौम्य! गतस्त्वमावयोः ।
:कुरु सम्प्रति तावदाशु मे प्रणिपाताञ्जलियाचितश्चिताम् ॥ कुमार० ४।३५॥
२९. तदनु ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातवीजनैः ।
:विदितं खलु ते यथा स्मरः क्षणमप्युत्सहते न मां विना ॥ कुमार० ४।३६॥
३०. इति चापि विधाय दीयतां सलिलस्याञ्जलिरेक एव नौ ।
:अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः ॥ कुमार० ४।३७॥
३१. परलोकविधौ च माधव! स्मरमुद्दिश्य विलोलपल्लवाः ।
:निवपेः सहकारमञ्जरीः प्रियचूतप्रसवो हि ते सखा ॥ कुमार० ४।३८॥
३२. इति देहविमुक्तये स्थितां रतिमाकाशभवा सरस्वती ।
:शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिरिवान्वकम्पयत् ॥ कुमार० ४।३९॥
३३. कुसुमायुधपत्नि! दुर्लभस्तव भर्ता न चिराद् भविष्यति ।
:श्रुणु येन स कर्मणा गतः शलभत्वं हरलोचनार्चिषि ॥ कुमार० ४।४०॥
३४. अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत् प्रजापतिः ।
:अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतदन्वभूत् ॥ कुमार० ४।४१॥
३५. परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः ।
:उपलब्धसुखस्तदा स्मरं वपुषा स्वेन नियोजयिष्यति ॥ कुमार० ४।४२॥
३६. इति चाह स धर्मयाचितः स्मरशापान्तभवां सरस्वतीम् ।
३७. तदिदं परिरक्ष शॊभने! भवितव्यप्रियसङ्गमं वपुः ।
:रविपीतजला तपाप्यये पुनरोघेन हि युज्यते नदी ॥ कुमार० ४।४४॥
३८. इत्थं रतेः किमपि भूतमदृश्यरूपम्-
:माश्वासयत् सूचरितार्थपदैर्वचोभिः ॥ कुमार० ४।४५॥
:किरणपरिक्षयधूसरा प्रदोषम् ॥ कुमार० ४।४६॥
१. अथानुरूपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा ।
:प्रजासु पश्चात्प्रथितं तदाख्यया जगाम गौरीशिखरं शिखण्डिमत् ॥ कुमार० ५।७॥
२. यथा प्रसिद्धैर्मधुरं शिरोरुहैर्जटाभिरप्येवमभूत् तदाननम् ।
:न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥ कुमार० ५।९॥
३. प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जीं त्रिगुणां बभार याम् ।
:अकारि तत्पूर्वनिबद्धया तया सरागमस्या रसनागुणास्पदम् ॥ कुमार० ५।१०॥
४. कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥ कुमार० ५।११॥
५. महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते ।
:अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले ॥ कुमार० ५।१२॥
६. पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितं द्वयम् ।
:लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ॥ कुमार० ५।१३॥
७. कृताभिषेकां हुतजातवेदसं त्वमुत्तरासङ्गवतीं निवीतिनीम् ।
:दिदृक्षवस्तां मुनयोऽभ्युपागमन् न धर्मवृद्धेषु वयः समीक्ष्यते ॥ कुमार० ५।१६॥
:नवोटजाभ्यन्तरसम्भृतानलं तपोवनं तच्च बभूव पावनम् ॥ कुमार० ५।१७॥
९. शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा ।
:विजित्य नेत्रप्रतिघातिनीं प्रभामनन्यदृष्टिः सवितारमैक्षत ॥ कुमार० ५।२०॥
१०. तथातितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ ।
:अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् ॥ कुमार० ५।२१॥
११. अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः ।
:बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्तसाधनः ॥ कुमार० ५।२२॥
१२. निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसम्भृतेन सा ।
:तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुञ्चदूर्ध्वगम् ॥ कुमार० ५।२३॥
१३. शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु ।
:व्यलोकयन्नुन्मिषितैस्तडिन्मयैर्महातपः साक्ष्य इव स्थिताः क्षपाः ॥ कु० ५।२५॥
१४. निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा ।
:परस्पराक्रन्दिनी चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती ॥ कुमार० ५।२६॥
१५. मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना ।
:तुषारवृष्टिक्षतपद्मसम्पदां सरोजसन्धानमिवाकरोदपाम् ॥ कुमार० ५।२७॥
१६. स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः ।
:तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः ॥ कुमार० ५।२८॥
१७. मृणालिकाकोमलमेवमादिभिर्व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् ।
:तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा ॥ कुमार० ५।२९॥
१. अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा ।
:विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥ कुमार० ५।३०॥
२. विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् ।
:उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः ॥ कुमार० ५।३२॥
३. विकीर्णसप्तर्षिबलिप्रहासिभिस्तथा न गाङ्गैः सलिलैर्दिवश्च्युतैः ।
:यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वयः ॥ कुमार० ५।३७॥
४. कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः ।
:अमृग्यमैश्वर्यसुखं नवं वयस्तपः फलं स्यात्किमतः परं वद ॥ कुमार० ५।४१॥
५. किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् ।
:वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पये ॥ कुमार० ५।४४॥
६. निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते ।
:न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥ कुमार० ५।४६॥
:शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥ कु० ५।४८॥
८. कियच्चिरं श्राम्यसि गौरि! विद्यते ममापि पूर्वाश्रमसञ्चितं तपः ।
:तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ॥ कुमार० ५।५०॥
९. सखी तदीया तमुवाच वर्णिनं निबोध साधो! तव चेत्कुतूहलम् ।
:यदर्थमम्भोजमिवोष्णवारणं कृतं तपः साधनमेतया वपुः ॥ कुमार० ५।५२॥
१०. इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी ।
:अरूपहार्यं मदनस्य निग्रहात् पिनाकपाणिं पतिमाप्तुमिच्छति ॥ कुमार० ५।५३॥
११. असह्यहुङ्कारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः ।
:इमां हृदि व्यायतपातमक्षिणोद् विशीर्णमूर्तेरपि पुष्पधन्वनः ॥ कुमार० ५।५४॥
१२. द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपः साक्षिषु दृष्टमेष्वपि ।
:न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः ॥ कुमार० ५।६०॥
१३. अगूढसद्भादमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया ।
:अपीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः ॥ कुमार० ५।६२॥
१४. यथा श्रुतं वेदविदां वर! त्वया जनोऽयमुच्चैः पदलङ्घनोत्सुकः ।
:तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥ कुमार० ५।६४॥
१५. अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्त्तसे ।
:अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे ॥ कु० ५।६५॥
:करेण शम्भोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ॥ कुमार० ५।६६॥
१७. त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः ।
:वधूदुकूलं कलहसंलक्षणं गजाजिनं शोणितबिन्दुवर्षि च ॥ कुमार० ५।६७॥
१८. चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते ।
:अलक्तकाङ्कानि पदानि पादयोएविकीर्णकेशासु परेतभूमिषु ॥ कुमार० ५।६८॥
१९. अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् ।
:स्तनद्वयेऽस्मिन् हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति ॥ कुमार० ५।६९॥
२०. इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया ।
:विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥ कुमार० ५।७०॥
२१. द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः ।
:कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥ कुमार० ५।७१॥
२२. वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।
:वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥ कुमार० ५।७२॥
२३. इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया ।
:विकुञ्चितभ्रूलतमाहिते तथा विलोचने तिर्यगुपान्तलोहिते ॥ कुमार० ५।७४॥
२४. उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् ।
:अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥ कुमार० ५।७५॥
२५. विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा ।
:जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः ॥ कुमार०५।७६॥
२६. अकिञ्चनः सन् प्रभवः स सम्पदां त्रिलोकनाथः पितृसद्मगोचरः ।
:स भीमरूपः शिव इत्युदीर्यते न सन्ति याथार्थ्यविदः पिनाकिनः ॥ कुमार० ५।७७॥
२७. विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा ।
:कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ॥ कुमार० ५।७८॥
२८. तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्म रजो विशुद्धये ।
:तथाहि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसाम् ॥ कुमार० ५।७९॥
२९. असम्पदस्तस्य वृषेण गच्छतः प्रभिन्नचिग्वारणवाहनो वृषा ।
:करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली ॥ कुमार० ५।८०॥
३०. विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् ।
:यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥ कुमार० ५।८१॥
३१. अलं विवादेन यथाश्रुतस्त्वया तथाविधस्तावदशेषमस्तु वः ।
:ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥ कुमार० ५।८२॥
३२. निवार्यतामालिः! किमप्ययं वटुः पुनर्विवक्षु स्फुरितोत्तराधरः ।
:न केवलं यो महतोऽपभाषते श्रुणोति तस्मादपि यः स पापभाक् ॥ कुमार० ५।८३॥
३३. इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला ।
:स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ॥ कुमार० ५।८४॥
३४. तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि-
:शैलाधिराजतनया न ययौ न तस्थौ ॥ कु० ५।८५॥
३५. अद्य प्रभृत्यवनताङ्गि! तवास्मि दासः,
:क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥ कु० ५।८६॥
१. ततः कुमारः समुदां निदानैः स बाललीलाचरितैर्विचित्रैः ।
:गिरीशागौर्योर्हृदयं जहार मुदे न हृद्या किमु बालकेलिः ॥ कुमार० ११।४०॥
२. क्वचित्स्खलद्भिः क्वचिदस्खलद्भिः क्वचित्प्रकम्पैः क्वचिदप्रकम्पैः ।
:बालः स लीला चलनप्रयोगैस्तयोर्मुदं वर्धयति स्म पित्रोः ॥ कुमार० ११।४२॥
:मुहुर्वदन् किञ्चिदलक्षितार्थं मुदं तयोरङ्कगतस्ततान ॥ कुमार० ११।४३॥
४. इत्थं शिशोः शैशवकेलिवृत्तैर्मनोऽभिरामैर्गिरिजागिरीशौ ।
:मनोविनोदैकरसप्रसक्तौ दिवानिशं नाविदतां कदाचित् ॥ कुमार० ११।४९॥
<DOC_END>
<DOC_START>
१. दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः,
:सङ्क्षिप्तं निबिडोन्नतस्तनमुरः ओपार्श्वे प्रमृष्टे इव ।
:मध्यः पाणिमितो नितम्बि जघनं पादावरालाङ्गुली –
:छन्दो नर्तयितुर्यथैव मनसि श्लिष्टं तथास्या वपुः ॥ मालविका० २।३॥
२. अव्याजसुन्दरीं तां विधानेन ललितेन योजयता ।
:परिकल्पितो विधात्रा बाणः कामस्य विषदिग्धः ॥ मालविका० २।१३॥
३. विपुलं नितम्बदेशे मध्ये क्षामं समुन्नतं कुचयोः ।
:अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ मालविका० ३। ७॥
:माधवपरिणतपत्रा कतिपयकुसुमेव कुन्दलता ॥ मालविका० ३। ८।
<DOC_END>
<DOC_START>
:नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः ।
:चूडापाशे नवकुरबकं चारु कर्णे शिरीषम्,
:सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ उत्तरमेघ २॥
:नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥ उ० मे० ३॥
३. आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै-
:र्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ उ० मे० ४॥
४. यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि,
:त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ उ० मे० ५॥
:क्षौमं रागाद् निभृतकरेष्वाक्षिपत्सु प्रियेषु ।
:ह्रिमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ उ० मे० ७॥
:व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ उ० मे० ९॥
:र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ उ० मे० ११॥
:हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ उ० मे० १५॥
:नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ उ० मे० १६॥
:मद्गोहिन्याः प्रिय इति सखे! चेतसा कातरेण,
:प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ उ० मे०१७॥
:एकः सख्यास्तव सह मया वामपादाभिलाषी,
:काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनाऽस्याः ॥ उ० मे० १८॥
५. तन्मध्ये च स्फटिकफलका काञ्चनीवासयष्टि-
:या मध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ उ० मे० १९॥
:द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।
:सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ उ० मे० २०॥
:सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥ पूर्व० मे० ९॥
२. तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी,
:मध्ये क्षामा चकितहरिणी प्रेक्षणा निम्ननाभिः ।
:या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥ उ० मे० २२॥
३. तां जानीथाः परिमितकथां जीवितं मे द्वितीयम्,
:दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
:गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालाम्,
:जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ उ० मे० २३॥
४. नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया,
:इन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥ उ० मे० २४॥
५. आलोके ते निपतति पुरा सा बलिव्याकुला वा,
:मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
:पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थाम्,
:कच्चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ उ० मे० २५॥
६. उत्सङ्गे वा मलिनवसने सौम्य! निक्षिप्य वीणाम्,
:भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ उ० मे० २६॥
:विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः ।
:प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ उ० मे० २७॥
८. सव्यापारामहनि न तथा पीडयेन्मद्वियोगः,
:शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
:मत्सन्देशैः सुखयितुमलं पश्य साध्वीं निशीथे,
:तामुन्निद्रामवनिशयनां सौधावातायनस्थः ॥ उ० मे० २८॥
:प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
:नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या,
:तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥ उ० मे० ३१॥
:पूर्वप्रीत्या गतमभिमुखं सन्निवृत्तं तथैव ।
:साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥ उ० मे० ३२॥
:माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥ उ० मे० ३३॥
१२. आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा,
:शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।
:गण्डाभोगात् कठिनविषमामेकवेणीं करेण ॥ उ० मे० ३४॥
१३. सा संन्यस्ताभरणमबला पेशलं धारयन्ती,
:प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ उ० मे० ३५॥
१४. जाने सख्यास्तव मयि मनः सम्भृतस्नेहमस्माद्,
:इत्थम्भूतां प्रथमविरहे तामहं तर्कयामि ।
:वाचालं मां न खलु सुभगम्मन्यभावः करोति,
:प्रत्यक्षं ते निखिलमचिराद् भ्रातुरुक्तं मया यत् ॥ उ० मे० ३६॥
:प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।
:र्मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ।
:यास्यत्यूरुः सरसकदलीस्तम्भ गौरश्चलत्वम् ॥ उ० मे० ३८ ॥
१७. तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्याद-
:न्यास्यैनां स्तनितविमुखो याममात्रं सहस्व ।
:माभूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथञ्चित्,
:सद्यः कण्ठच्युतभुजलताग्रन्थिगाढोपगूढम् ॥ उ० मे० ३९ ॥
१. भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहम्,
:यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानाम्,
:मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ उ० मे० ४१ ॥
२. इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा,
:त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैवम् ।
:कान्तोदन्तः सुहृदुपनतः सङ्गमात्किञ्चिदूनः ॥ उ० मे० ४२ ॥
:ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः ।
:अव्यापन्नः कुशलमबले! पृच्छति त्वां वियुक्तः,
:पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ उ० मे० ४३ ॥
४. अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तम्,
:सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ उ० मे० ४४ ॥
५. शब्दाख्येयं यदपि किल ते यः सखीनाम्,
:वक्त्रच्छायां शशिनि शिखनां बर्हभारेषु केशान् ।
:हन्तैकस्मिन् क्वचिदपि न ते चण्डि सादृश्यमस्ति ॥ उ० मे० ४६ ॥
७. त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
:मात्मानं ते चरणपतितं यावदिच्छामि कर्त्तुम् ।
:स्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ उ० मे० ४७ ॥
:र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु ।
:पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
:मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ उ० मे० ४९ ॥
९. भित्त्वा सद्यः किसलयपुटान् देवदारुमाणाम्,
:ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।
:आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः,
:पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ उ० मे० ५० ॥
१०. सङ्क्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा,
:सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ।
:गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ उ० मे० ५१ ॥
:तत्कल्याणि! त्वमापि नितरां मा गमः कातरत्वम् ।
:नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ उ० मे० ५२ ॥
१२. शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ,
:शेषान् मासान् गमय चतुरो लोचने मिलयित्वा ।
:निर्वेष्यावः परिणतशरद्दन्द्रिकासु क्षपासु ॥ उ० मे० ५३ ॥
<DOC_END>
<DOC_START>
:यथाऽपराधदण्डानां यथाकालप्रबोधिनाम् ॥ रघु० १।६॥
३. त्यागाय सम्भृतार्थानां सत्याय मितभाषिणाम् ।
:यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥ रघु० १।७॥
४. शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
:वार्धक्ये मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ रघु० १।८॥
५. अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ॥ रघु० ११।२॥
६. सौभ्रात्रमेषां हि कुलानुसारि ॥ रघु० १६।१॥
७. अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः ॥ रघु० १६।२॥
८. वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्तिः ॥ रघु० १६।८॥
९. न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥ रघु० २।४॥
१०. तितीर्षुदुस्तरं मोहादुडुपेनास्मि सागरम् ॥ रघु० १।२॥
१. प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् ।
:सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥ रघु० १।१८॥
२. शास्त्रेष्वकुण्ठिता बुद्धिर्मौवीं धनुषि चातता ॥ रघु० १।१९॥
३. जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
:अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ॥ रघु० १।२१॥
४. ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ॥ रघु० १।२२॥
५. प्रजानां विनयाधानाद्रक्षणाद् भरणादपि ।
:स पिता पितरस्तासां केवलं जन्महेतवः ॥ रघु० १।२४॥
६. राजा प्रकृतिरञ्जनात् ॥ रघु० ४।१२॥
७. न खरो न च भूयसा मृदुः पवमानण् पृथिवीरुहानिव ।
:स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन् ॥ रघु० ८।९॥
८. जनपदे न गदः पदमादधावभिभवः कुत एव सपत्नजः ।
:क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसी पार्थिवे ॥ रघु० ९।४॥
९. न मृगयाभिरातिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु ।
:तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् ॥ रघु० ९।७॥
१०. न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि ।
:न च सपत्नजनेष्वपि तेन वागपुरुषा परुषाक्षरमीरिता ॥ रघु० ९।८॥
११. श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनलसोमसमद्युतिः ॥ रघु० ९।१५॥
१२. वापीष्विव स्रवन्तीषु वनेषुपवनेष्विव ।
:सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु ॥ रघु० १७।६४॥
१३. तपो रक्षन् स विध्नेभ्यस्तस्करेभ्यश्च सम्पदः ।
:यथास्वमाश्रमैश्चक्रे वर्णैरपि षडंशभाक् ॥ रघु० १७।६५॥
१४. यस्मिन्महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानाम् ।
:वातोऽपि नास्रंसयदंशुकानि को लम्बयेदाहरणाय हस्तम् ॥ रघु० ६।७५॥
१. दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥ रघु० १।६०॥
२. तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभिः ॥ रघु० १।६१॥
३. हविरावर्जितं होतस्त्वया विधिवदग्निषु ।
:वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ॥ रघु० १।६२॥
४. पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।
:यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम् ॥ रघु० १।६३॥
५. त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना ।
:सानुबन्धाः कथं न स्युः सम्पदो मे निरापदः ॥ रघु० १।६४॥
६. इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ॥ रघु० १।७२॥
१. इति वादिन एवास्य होतुराहुतिसाधनम् ।
:अनिन्द्या नन्दिनी नाम धेनुराववृते वनात् ॥ रघु० १।८२॥
:बिभ्रति श्वेतरोमाङ्कं सन्ध्येव शशिनं नवम् ॥ रघु० १।८३॥
३. भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि ।
:प्रस्रवेनाभिवर्षन्ती वत्सालोकप्रवर्तिना ॥ रघु० १।८४॥
४. रजः कणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् ।
:तीर्थाभिषेकजां शुद्धिमादधाना महीक्षितः ॥ रघु० १।८५॥
५. अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः ।
:उपस्थितेयं कल्याणी नाम्नी कीर्तित एव यत् ॥ रघु० १।८७॥
६. वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् ।
:विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ॥ रघु० १।८८॥
७. प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः ।
:निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः ॥ रघु० १।८९॥
८. अथ प्रजानमधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ।
:वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥ रघु० २।१॥
९. तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया ।
:मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥ रघु० २।२॥
१०. आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दंशनिवारणैश्च ।
:आव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥ रघु० २।५॥
११. स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः ।
:जलाभिलाषि जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥ रघु० २।६॥
१२. पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या ।
:तदन्तरे सा विरराज धेनुर्दिनक्षपा मध्यगतेव सन्ध्या ॥ रघु० २।२०॥
१. अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् ।
:न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य ॥ रघु० २।३४॥
२. कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् ।
:अवेहि मां किङ्करमष्टमूर्ते कुम्भोदरं नाम निकुम्भमित्रम् ॥ रघु० २।३५॥
३. अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
:यो हेमकुम्भस्तननिः सृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥ रघु० २।३६॥
४. कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य ।
:अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः ॥ रघु० २।३७॥
५. तदा प्रभृत्येव वनद्विपानां त्रासार्थमस्मिन् हिमाद्रिकुक्षौ ।
:व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागरसत्त्ववृत्तिः ॥ रघु० २।३८॥
६. तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
:उपस्थिता शोणितपारणा मे सुरद्विषचान्द्रमसी सुधेव ॥ रघु० २।३९ ॥
७. स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान् दर्शितशिष्यभक्तिः ।
:शस्त्रेण रक्ष्यं यदशक्यरक्ष्यं न तद्यशः शस्त्रभृतां क्षिणोति ॥ रघु० २।४०॥
८. संरुद्धचेष्टस्य मृगेन्द्र! कामं हास्यं वचस्तद्यदहं विवक्षुः ।
:अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान्भावमतोऽभिधास्ये ॥ रघु० २।४३॥
९. मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः ।
:गुरोरपीदं धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ॥ रघु० २।४४॥
१०. स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद ।
:दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः ॥ रघु० २।४५॥
११. एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च ।
:अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम् ॥ रघु० २।४७॥
१२. भूतानुकम्पा तव चेदियं गौरेका भवेत् स्वस्तिमती त्वदन्ते ।
:जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥ रघु० २।४८॥
१३. अथैकधेनोरपराधचण्डाद् गुरोः कृशानुप्रतिमाद् बिभेषि ।
:शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोघ्निः ॥ रघु० २।४९॥
१४. तद्रक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम् ।
:महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः ॥ रघु० २।५०॥
१५. निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच ।
:धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ॥ रघु० २।५२॥
१६. क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः ।
:राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ॥ रघु० २।५३॥
१७. कथं न शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनीनाम् ।
:इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयाऽस्याम् ॥ रघु० २।५४॥
१८. सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः ।
:न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः ॥ रघु० २।५५॥
१९. भवानपीदं परवानवैति महान् हि यत्नस्तव देवदारौ ।
:स्थातुं नियोक्तुर्न हि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥ रघु० २।५६॥
२०. किमप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः ।
:एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ॥ रघु० २।५७॥
२१. सम्बन्धमाभाषणपूर्वमाहुर्वृत्तः स नौ सङ्गतयोर्वनान्ते ।
:तद्भूतनाथानुग नार्हसि त्वं सम्बन्धिनो प्रणयं विहन्तुम् ॥ रघु० २।५८॥
२२. तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्ठम्भविमुक्तबाहुः ।
:स न्यस्तशास्त्रो हरये स्वदेहमुपानयत्पिण्डमिवामिषस्य ॥ रघु० २।५९॥
२३. तस्मिन् क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम् ।
:अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥ रघु० २।६०॥
२४. उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् ।
:ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्रविणीं न सिंहम् ॥ रघु० २।६१॥
२५. तं विस्मितं धेनुरुवाच साधो मायां मयोद्भाव्य परीक्षितोऽसि ।
:ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः ॥ रघु० २।६२॥
२६. भक्त्या गुरौ मय्यनुकम्पया च प्रीताऽस्मि ते पुत्र वरं वृणीष्व ।
:न केवलानां पयसां प्रसूतिमवेहि मां कामदुघां प्रसन्नाम् ॥ रघु० २।६३॥
२७. ततः समानीय स मानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः ।
:वंशस्य कर्तारमनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे ॥ रघु० २।६४॥
२८. सन्तानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा ।
:दुग्ध्वा पयः पत्रपुटे मदीयं पुत्रोपभुङ्क्ष्वेति तमादिदेश ॥ रघु०२।६५॥
२९. वत्सस्य होमार्थविधेश्च शेषमृषेरनुज्ञामधिगम्य मातः ।
:औधस्यमिच्छमि तवोपभोक्तुं षष्ठांशमुर्व्या इव रक्षितायाः ॥ रघु० २।६६॥
३०. इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव ।
:तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रममश्रमेण ॥ रघु० २।६७॥
१. सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा ।
:नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ रघु० ६।६७॥
२. तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी ।
:न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली ॥ रघु० ६।६९॥
३. कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः ।
:त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥ रघु० ६।७९॥
४. ततः सुनन्दावचनावसाने लज्जां तनूकृत्य नरेन्द्रकन्या ।
:दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ॥ रघु० ६।८०॥
५. सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् ।
:रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रमादरालकेश्याः ॥ रघु०६।८१॥
६. तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे ।
:आर्ये! व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ॥ रघु०६।८२॥
७. तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः ।
:अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः ॥ रघु० ६।८४॥
:श्रवणकटुनृपाणामेकवाक्यं विवव्रुः ॥ रघु० ६।८५॥
९. रतिस्मरौ नूनमिमावभूतां राज्ञां सहस्रेषु तथा हि बाला ।
:गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसङ्गतिज्ञम् ॥ रघु० ७।१५॥
१. विललाप स वाष्पगद्गदं सहजामप्यपहाय धीरताम् ।
:अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ रघु० ८।४३॥
२. कुसुमान्यपि गात्रसङ्गमात्प्रभवन्त्यायुरपोहितुं यदि ।
:न भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः ॥ रघु० ८।४४॥
३. अथवा मृदुवस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः ।
:हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता ॥ रघु० ८।४५॥
४. स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् ।
:विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ॥ रघु० ८।४६॥
५. अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा ।
:यदनेन तरुर्न पातितः क्षपिता तद्विटपाश्रिता लता ॥ रघु० ८।४७॥
६. मनसाऽपि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् ।
:ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ॥ रघु० ८।५२॥
७. शशिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं परत्रिणम् ।
:इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः ॥ रघु०८।५६॥
८. नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् ।
:तदिदं विषहिष्यते कथं वद वामोरु! चिताधिरोहिणम् ॥ रघु० ८।५७॥
९. कलमन्यभृतासु भाषितं कलहंसीषु मदालसं गतम् ।
:पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः ॥ रघु०८।५९॥
१०. समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः ।
:अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः ॥ रघु० ८।६५॥
११. धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः ।
:गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥ रघु० ८।६६॥
१२. गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
:करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥ रघु० ८।६७॥
१३. विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् ।
:अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ॥ रघु० ८।६९॥
१४. विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति ।
:अकरोत्पृथिवीरुहानपि स्रुतशाखारसवाष्पदूषितान् ॥ रघु० ८।७०॥
१५. प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् ।
:न चकार शरीरमग्निसात् सहदेव्या न तु जीविताशया ॥ रघु० ८।७२॥
१६. अथ तं सवनाय दीक्षितः प्रणिधानाद् गुरुराश्रमस्थितः ।
:अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत् ॥ रघु० ८।७५॥
१७. तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता ।
:वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः ॥ रघु० ८।८३॥
१८. उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्त्वया ।
:मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम् ॥ रघु० ८।८४॥
१९. रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते ।
:परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥ रघु० ८।८५॥
२०. मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः ।
:क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥ रघु० ८।८७॥
२१. स्वजनाश्रु किलातिसन्ततं दहति प्रेतमिति प्रचक्षते ॥ रघु० ८।८६॥
२२. अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् ।
:स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ रघु० ८।८८॥
२३. स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा ।
:विरहः किमिवानुतापयेद्वद बाह्यौर्विषयैर्विपश्चितम् ॥ रघु० ८।८९॥
२४. न पृथग्जनवच्छुचो वशं वशिनामुत्तम! गन्तुमर्हसि ।
:द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः ॥ रघु० ८।९०॥
२५. स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् ।
:तदलब्धपदं हृदि शोकधने प्रतियातमिवान्तिकमस्य गुरोः ॥ रघु० ८।९१॥
१. राम इत्यभिरामेण वपुषा तस्य चोदितः ।
:नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥ रघु० १०।६७॥
२. पित्रा दत्तां रुदन् रामः प्राङ्महीं प्रत्यपद्यत ।
:पश्चाद् वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत् ॥ रघु० १२।७॥
३. दधतो मङ्गलक्षौमे वसानस्य च वल्कले ।
:ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः ॥ रघु० १२।८॥
१. क्लेशावहा भर्तुरलक्षणाऽहं सीतेति नाम स्वमुदीरयन्ती ।
:स्वर्गप्रतिष्ठस्य गुरोर्महिष्यावभक्तिभेदेन वधूर्ववन्दे ॥ रघु० १४।५॥
२. उत्तिष्ठ वत्से! ननु सानुजोऽसौ वृत्तेन भर्त्ता शुचिना तवैव ।
:कृच्छ्रं महत्तीर्ण इति प्रियार्हां तामूचतुस्ते प्रियमप्यमिथ्या ॥ रघु० १४।६॥
३. बभूव रामः सहसा सवाष्पस्तुषारवर्षीव सहस्यचन्द्रः ।
:कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः ॥ रघु० १४।८४॥
४. श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः ।
:अनन्यजानेः सैवासीद्यस्माज्जाया हिरण्यमयी ॥ रघु० १५।६१॥
१. निर्बन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश्चरितं त्वदीयम् ।
:अन्यत्र रक्षोभवनोषितायाः परिग्रहान्मानवदेव देव्याः ॥ रघु० १४।३२॥
२. कलत्रनिन्दागुरुणा किलैवमभ्याहतं कीर्तिविपर्ययेण ।
:अयोघनेनाय इवाइतप्तं वैदेहिबन्धोर्हृदयं विदद्रे ॥ रघु० १४।३३॥
३. किमात्मनिर्वादकथामुपेक्षे जायामदोषामुत सन्त्यजामि ।
:इत्येकपक्षाश्रयविक्लवत्वादासीत् स दोलाचलचित्तवृत्तिः ॥ रघु० १४।३४॥
४. निश्चित्य चानन्यनिवृत्तिवाच्यं त्यागेन पत्न्याः परिमार्ष्टुमैच्छत् ।
:अपि स्वदेहात्किमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः ॥ रघु० १४।३५॥
५. राजर्षिवंशस्य रविप्रसूतेरुपस्थितः पश्यत कीदृशोऽयम् ।
:मत्तः सदाचारशुचेः कलङ्कः पयोदवारादिव दर्पणस्य ॥ रघु०१४।३७॥
६. पौरेषु सोऽहं बहुलीभवन्तमपां तरङ्गेष्विव तैलबिन्दुम् ।
:सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्थाणुमिव द्विपेन्द्रः ॥ रघु० १४।३८॥
७. तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः ।
:त्यक्ष्यामि वैदेहसुतां पुरस्तात् समुद्रनेमिं पितुराज्ञयेव ॥ रघु० १४।३९॥
८. अवैमि चैनामनघेति किन्तु लोकापवादो बलवान्मतो मे ।
:छाया हि भुमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः ॥ रघु० १४।४०॥
९. इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम् ।
:न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुमासीदनुमोदितुं वा ॥ रघु० १४।४३॥
:स त्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यजैनाम् ॥ रघु० १४।४५॥
११. स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात्प्रहृतं द्विषद्वत् ।
:प्रत्यग्रहीदग्रजशासनं तदाज्ञा गुरुणां ह्यविचारणीया ॥ रघु० १४।४६॥
१२. सा नीयमाना रुचिरान्प्रदेशान्प्रियङ्करो मे प्रिय इत्यनन्दत् ।
:नाबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम् ॥ रघु० १४।४८॥
:औत्पातिको मेघ इवाश्मवर्षं महीपतेः शासनमुज्जगार ॥ रघु० १४।५३॥
:स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम ॥ रघु० १४।५४॥
१५. न चावदद् भर्तुरवर्णमार्या निराकरिष्णो वृजिनादुतेऽपि ।
:आत्मानमेव स्थिरदुःखभाजं पुनः पुनर्दुष्कृतिनं निनिन्द ॥ रघु० १४।५७॥
१६. आश्वास्य रामावरजः सतीं तामाख्यातवाल्मीकिनिकेतमार्गः ।
:निघ्नस्य मे भार्तृनिदेशरौक्ष्यं देवि! क्षमस्वेति बभूव नम्रः ॥ रघु० १४।५८॥
१७. सीता तमुत्थाप्य जगाद वाक्यं प्रीताऽस्मि ते सौम्य! चिराय जीव ।
:बिडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वम् ॥ रघु० १४।५९॥
१८. वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् ।
:मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य ॥ रघु० १४।६१॥
१९. कल्याणबुद्धेरथवा तवायं न कामचारो मयि शङ्कनीयः ।
:ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः ॥ रघु० १४।६२॥
२०. किं वा तवात्यन्तवियोगमोघे कुर्यामुपेक्षां हतजीवितेऽस्मिन् ।
:स्याद्रक्षणीयं यदि मे न तेजस्त्वदीयमन्तर्गतमन्तरायः ॥ रघु० १४।६५॥
२१. साऽहं तपः सूर्यनिविष्टदृष्टिरूर्ध्वं प्रसूतेश्चरितुं यतिष्ये ।
:भूयो यथा मे जननान्तरेऽपि त्वमेव भर्ता न च विप्रयोगः ॥ रघु० १४।६६॥
२२. नृपस्य वर्णाश्रमपालनं यत् स एव धर्मो मनुना प्रणीतः ।
:निर्वासिताऽप्येवमतस्त्वयाऽहं तपस्विसामान्यमवेक्षणीया ॥ रघु० १४।६७॥
२३. तथेति तस्याः प्रतिगृह्य वाचं राजानुजे दृष्टिपथं व्यतीते ।
:सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः ॥ रघु० १४।६८॥
२४. नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजहुर्हरिण्यः ।
:तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ॥ रघु० १४।६९॥
२५. तामभ्यगच्छद्रुदितानुसारी कविः कुशेध्माहरणाय यातः ।
:निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य श्लोकः ॥ रघु० १४।७०॥
२६. तमश्रु नेत्रावरणं प्रमृज्य सीता विलापाद् विरता ववन्दे ।
:तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान् सुपुत्राशिषमित्युवाच ॥ रघु० १४।७१॥
२७. जाने विसृष्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भर्त्रा ।
:तन्मा व्यथिष्ठा विषयान्तरस्थं प्राप्तासि वैदेहि पितुर्निकेतम् ॥ रघु० १४।७२॥
:त्वां प्रत्यकस्मात् कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे ॥ रघु० १४।७३॥
२९. धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनसि ममानुकम्पया ॥ रघु० १४।७४॥
१. स तावाख्याय रामाय मैथिलेयौ तदात्मजौ ।
:कविः कारुणिको वव्रे सीतायाः सम्परिग्रहम् ॥ रघु० १५।७१॥
२. तात! शुद्धा समक्षं नः स्नुषा ते जातवेदसि ।
:दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः ॥ रघु० १५।७२॥
३. ताः स्वचातित्रमुद्दिश्य प्रत्यायतु मैथिली ।
:ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया ॥ रघु०१५।७३॥
४. इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः ।
:शिष्यैरानाययामास स्वसिद्धिं नियमैरिव ॥ रघु० १५।७४॥
५. अन्येद्युरथ काकुत्स्थः सन्निपात्य पुरौकसः ।
:कविमाह्वययामास प्रस्तुतप्रतिपत्तये ॥ रघु० १५।७४॥
६. स्वसंस्कारवत्याऽसौ पुत्राभ्यामथ सीतया ।
:ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः ॥ रघु० १५।७४॥
:अन्वमीयत शुद्धेति शान्तेन वपुषैव सा ॥ रघु० १५।७७॥
८. तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः ।
:कुरु निःसंशयं वत्से! स्ववृत्ते लोकमित्यशात् ॥ रघु० १५।७९॥
९. अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः ।
:आचम्योदीरयामास सीता सत्यां सरस्वतीम् ॥ रघु० १५।८०॥
१०. वाङ्मनकर्मभिः पत्यौ व्यभिचारो यथा न मे ।
:तथा विश्वम्भरे देवि! मामन्तर्धातुमर्हसि ॥ रघु०१५।८१॥
११. एवमुक्ते तया साध्व्यातन्ध्रात्सद्योभवाद् भुवः ।
:शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ ॥ रघु० १५।८२॥
:समुद्ररशना साक्षात्प्रदुरासीद् वसुन्धरा ॥ रघु० १५।८३॥
१३. सा सीतामङ्कमारोप्य भर्तृप्रणिहितेक्षणाम् ।
:मा मेति व्यवहरत्येव तस्मिन् पातालमभ्यगात् ॥ रघु० १५।८४॥
<DOC_END>
<DOC_START>
१. अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः,
:श्रृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
:निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ विक्रम० १। १०॥
२. आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।
:उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ विक्रम० २ ।३॥
:दृष्टा त्वया तर्हि विरहसमुद्रान्तरादुत्तारय माम् ॥विक्रम०४।५९॥
१. पद्भ्यां स्पृशेद् वसुमतीं यदि सा सुगात्री,
:दृश्येत चारुपदपङ्क्तिरलक्तकाङ्का ॥ विक्रम० ४। १६॥
२. बर्हिण परमित्यभ्यर्थये आचक्ष्व मे तत्,
:अत्रवने भ्रमता यदि त्वया दृष्टा सा मम कान्ता ।
:चिह्नेन ज्ञास्याख्यातं तव मया ॥ विक्रम० ४।२०॥
३. नीलकण्ठ ममोत्कण्ठा वनेऽस्मिन्वनिता त्वया ।
:दीर्घापाङ्गा सितापाङ्गदृष्टा दृष्टिक्षमा भवेत् ॥ विक्रम० ४।२१॥
४. परभृते मधुरप्रलापिनि कान्ते नन्दनवने स्वच्छन्दं भ्रमन्ती ।
:यदि त्वया प्रियतमा सा मम दृष्टा तर्ह्याचक्ष्व मे परपुष्टे ॥ विक्रम० ४।२४॥
:तामानय प्रियतमां मम वा समीपम्,
:मां वा नयाशु कलभाषिणी यत्र कान्ता ॥ विक्रम० ४। २५॥
६. पश्चात्सरः प्रतिगमिष्यसि मानसं तत् ,
:पायेयमुत्सृज बिसं ग्रहणाय भूयः ।
:स्वार्थात्सतां गुरुतरा प्रणयिक्रियैव ॥ विक्रम० ४। ३१॥
७. रे रे हंस किं गोप्यते गत्यनुसारेणा मया लक्ष्यते ।
:केन तव शिक्षिता एषा गतिर्लालसा सा त्वया दृष्टा जघनभरालसा ॥ विक्रम० ४। ३२॥
८. यदि हंस गता न ते नतभ्रूः सरसो रोधसि दर्शनं प्रिया मे ।
:मदखेलपदं कथं नु तस्याः सकलं चोरगतं त्वया गृहीतम् ॥ विक्रम० ४। ३३॥
९. रथाङ्गनामन् वियुतो रथाङ्गश्रोणिबिम्बया ।
:अयं त्वां पृच्छति रथी मनोरथशतैर्वृतः ॥ विक्रम० ४/ ३७॥
१०. मधुकर मदिराक्ष्याः शंस तस्याः प्रवृत्तिम्,
:वरतनुरथवासौ नैव दृष्टा त्वया मे ।
:तव रतिरभविष्यत्पण्डरीके किमस्मिन् ॥ विक्रम० ४/४२॥
११. अहं पृच्छामि आचक्ष्व गजवर ललितप्रहारेण नाशिततरुवर ।
:दूरविनिर्जितशशधरकान्तिर्दृष्टा प्रिया त्वया सम्मुखं यान्ती ॥ विक्रम० ४। ४५॥
१२. मदकलयुवतिशशिकला गजयूथप यूथिकाशबलकेशी ।
:स्थिरयौवना स्थिता ते दूरालोके सुखालोका ॥ विक्रम० ४। ४६॥
१३. अपि वनान्तरमल्पकुचान्तरा श्रयति पर्वतपर्वसु सन्नता ।
:इदमनङ्गपरिग्रहमङ्गना पृथुनितम्ब नितम्बवती तव ॥ विक्रम० ४। ४९॥
:किन्नरमधुरोद्गीतमनोहर दर्शय मम प्रियतमां महीधर ॥ विक्रम० ४। ५०॥
:गगनोज्ज्वलकानने मृगलोचना भ्रमन्ती दृष्टा त्वया,
:तर्हि विरहसमुद्रान्तरादुत्तारय माम् ॥ विक्रम० ४। ५९॥
१६. समर्थये यत्प्रथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा ।
:अतो विनिद्रे सहसाविलोचने करोमि न स्पर्शविभावितप्रियः ॥ विक्रम० ४। ७०॥
१७. मयूरः परभृता हंसो रथाङ्गः अलिर्गजः पर्वतः सरित्कुरङ्गमः ।
:तव कारणेनारण्ये भ्रमता को न खलु पृष्टो मया रुदता ॥ विक्रम० ४। ७२॥
<DOC_END>
<DOC_START>
१. हवींषि मन्त्रपूतानि हुताश त्वयि जुह्वतः ।
:तपस्विनस्तपः सिद्धिं यान्ति त्वं तपसां प्रभुः ॥ कुमार० १० । १९॥
२. निधत्से हुतमर्काय स पर्जन्योऽभिवर्षति ।
:ततोऽन्नानि प्रजास्तेभ्यस्तेनासि जगतः पिता ॥ कुमार० १० । २० ॥
३. अन्तश्चरोऽसि भूतानां तानि त्वत्तो भवन्ति च ।
:ततो जीवितभूतस्त्वं जगतः प्राणदोऽसि च ॥ कुमार० १० । २१ ॥
४. जगतः सकलस्यास्य त्वमेकोऽस्युपकारकृत् ।
:कार्योपपादने तत्र त्वत्तोऽन्यः क?ः प्रगल्भते ॥ कुमार० १०।२२॥
५. अमीषां सुरसङ्घानां त्वमेकोऽर्थसमर्थने ।
:विपत्तिरपि संश्लाघ्योपकारव्रतिनोऽनल ॥ कुमार० १०।२३॥
१. श्लिष्टा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषयुक्ता ।
:यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयतव्य एव ॥ मालविका० १ । १६१॥
२. यदा पुनर्मन्दमेधा शिष्या उपदेशं
:मलिनयन्ति तदाऽऽचार्यस्य न दोषः ॥ मालविका० १।१६-१७॥
३. विनेतुरद्रव्यपरिग्रहोऽपि बुद्धिलाघवं प्रकाशयति ॥ मालविका० १। १६-१७ ॥
४. लब्धास्पदोऽस्मीति विवादभीरोस्तितिक्षमाणस्य परेणा निन्दाम् ।
:यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति ॥ मालविका० १।१७॥
५. सुशिक्षितोऽपि सर्व उपदेशदर्शनेन निष्णातो भवति ॥ मालविका० १। १८-१९॥
६. प्रभवत्याचार्यः शिष्यजनस्य ॥ मालविका० १। १९-२०॥
७. प्रायः समानविद्याः परस्परयशः पुरोभागाः ॥ मालविका० १।२०॥
८. उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः ।
:श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु ॥ मालविका० २।९॥
१. व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ॥ रघु० १। १३ ॥
२. आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।
:आगमैः सदृशारम्भ आरम्भसदृशोदयः ॥ रघु० १। १५॥
३. युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणध्दकन्धरः ।
:वपुः प्रकर्षादजयद् गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत ॥ रघु० ३। ३४॥
४. पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥ रघु० ३ । ४६॥
:आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥ रघु० ६। ३२॥
६. प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणम् ।
:मूर्तिमन्तममन्यन्त विश्वासमनुजीविनः ॥ रघु० १७।३१
१. ययातेरिव शर्मिष्ठा भर्तृर्बहुमता भव ।
:सुतं त्वमपि सम्राजं सेव पुरुमवाप्नुहि ॥ शाकुन्तल ४। ७॥
२. अमीं वेदिं परितः क्लृप्तधिष्णयाः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः ।
:अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु ॥ शाकुन्तल ४। ८॥
:शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥ शाकुन्तल ४। ११॥
१. अथ स ललितयोषिद् भ्रूलताचारुश्रृङ्गं,
:शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥ कु० २। ६४॥
२. तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा ।
:कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं के मम धन्विनोऽन्ये ॥ कुमार० ३। १० ॥
३. त्वदधीनं खलु देहिनां सुखम् ॥ कुमार० ४। १०॥
४. तव कुसुमशरत्वं शीतरश्मित्वमिन्दो –
:स्त्वमपि कुसुमबाणान्वज्रसारी करोषि ॥ शा० ३।३॥
:पिपासतो ममानुज्ञां ददातीव प्रियाधरः ॥ शाकुन्तल ३। ३६॥
६. इदमप्युपकृतिपक्षे सुरभि मुखं ते यदाघ्रातम् ।
:ननु कमलस्य मधुकरः सन्तुष्यति गन्धमात्रेणा ॥ शा० ३। ३७॥
१. अत्यारुढो हि नारीणामकालज्ञो मनोभवः ॥ रघुवंश १२।३३॥
२. मामक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् ॥ रघुवंशा १३ । १६॥
३. विघ्नितसमागमसुखो मनसिशयः शतगुणी भवति ॥ विक्रम० ३। ८॥
४. अन्यसङ्क्रान्तप्रेमाणो नागरिका भार्यामधिकं दक्षिणा भवन्ति ॥ विक्रम० ३। १३-१४ ॥
५. अङ्गमनङ्गक्लिष्टं सुखयेदन्या न मे करस्पर्शात् ।
:नोच्छ्वसिति तपनकिरणैश्चन्द्रस्यैवांशुभिः कुमुदम् ॥ विक्रम० ३।१६॥
६. पादास्त एव शशिनः सुखयन्ति गात्रम्,
:बाणास्त एव मदनस्य मनोनुकूलः ।
:त्वत्सङ्गमेन मम तत्तदिवानुनीतम् ॥ विक्रम० ३।२० ॥
७. दुरारुढः खलु प्रणयाऽसहनः ॥ विक्रम० ४। २ -३ ॥
:मृदु तीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि ॥ मालविका० ३।२॥
९. कामार्त्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ पूर्वमेघ ५ ॥
१०. स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ पूर्वमेघ ३० ॥
११. ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः ॥ पूर्वमेघ ४५॥
१२. स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते
:त्वभोगादिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ उ० मे० ५५॥
१३. सर्वं तत्किल मत्परायणामहो कामी स्वतां पश्यति ॥ शाकुन्तल २।२॥
१. शम्भोरम्भोमयी मूर्तिः ॥ कुमार० १० ।२६॥
२. सा निः शेषक्लेशनाशिनी ॥ कुमार० १०।२८॥
:उदारदुरितोद्गारहारिणी दुर्गतारिणी ॥ कुमार० १०।२९
:सगरान्वयनिर्वाणकारिणी धर्मधारिणी ॥ कुमार० १० । ३०॥
:त्रिभिः स्त्रोतोभिरश्रान्तं पुनाना भुवनत्रयम् ॥ कुमार० १० ।३१॥
६. गंगावारिणि कल्याणकारिणि श्रमहारिणि ।
:स मग्नो निवृत्तिं प्राप पुण्यभारिणी तारिणि ॥ कुमार० १० ।३६॥
:योगनिद्रागतैर्योगपट्टबन्धैरुपाश्रिताम् ॥ कुमार० १०। ४६॥
:ब्रह्मर्षिभिः परं ब्रह्म गृणभ्दिरुपसेविताम् ॥ कुमार० १०।४७॥
९. अथ दिव्यां नदीं देवीमभ्यनन्दन्विलोक्य ताः ।
:कं नाभिनन्दयत्येषा दृष्टा पीयूषवाहिनी ॥ कुमार० १०। ४८॥
१०. चन्द्रचूडामणिर्देवो यामुद्ववहति मूर्धनि ।
:यस्या विलोकनं पुण्यं श्रद्दधुस्ता मुदा हृदि ॥ कुमार० १०। ४९॥
१. कालो ह्ययं सङ्क्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥ रघु० ५ । १०॥
२. अशोच्या हि पितुः कन्या सभ्दर्तृप्रतिपादिता ॥ कुमार० ६। ७९॥
३. प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः ॥ कुमार० ६। ८५
४. स्त्रीणां प्रियालोकफलो हि वेशः ॥ कुमार० ७।२२॥
५. भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः ॥ कुमार० ८। १२॥
६. सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते ।
:अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥ शा० ५।१७॥
१. अमुं सहासप्रहितेक्षणानि व्याजार्धसन्दर्शितमेखलानि ।
:नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गना विभ्रमचेष्टितानि ॥ रघु० १३।४२॥
२. पित्रा विसृष्टां मदपेक्षया यः श्रियं युवाऽप्य~घ्कगतामभोक्ता ।
:इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम् ॥ रघुं १३।६७॥
३. आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥ कुमार० ३। ४० ॥
४. भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥ कुमार० ५। ३९॥
५. वशिनां हि परपरिगहसंश्लेषपराङ्मुखी वृत्तिः ॥ शाकुन्तल ५।२८॥
:पूर्यमाणमदृश्याग्निप्रत्युद्यातैस्तपस्विभिः ॥ रघु० १। ४९॥
:अपत्यैरिव नीवारभागधेयोचितैर्मृगैः ॥ रघु० १।५०॥
:विश्वासाय विहङ्गानामालवालाम्बुपायिनाम् ॥ रघु० १। ५१॥
:मृगैर्वर्तितरोमन्थम् उटजाङ्गनभूमिषु ॥ रघुं १। ५२॥
:पुनानं पवनोधूतैर्धूमैर् आहुतिगन्धिभिः ॥ रघु० १। ५३॥
६. सा दष्टनीवारबलीनि हिंस्त्रैः सम्बध्दवैखानसकन्यकानि ।
:इयेष भूयः कुशावन्ति गन्तुं भागीरथीतीरतपोवनानि ॥ रघु० १४। २८॥
७. तपस्विसंसर्गविनीतसत्त्वे तपोवने वीतभया वसास्मिन् ॥ रघु० १४। ७५॥
८. अशून्यतीरां मुनिसन्निवेशैस्तमोपहन्त्रीं तमसां वगाह्य ।
:तत्सैकतोत्सङ्गबलिक्रियाभिः सम्पत्स्यते ते मनसः प्रसादः ॥ रघु० १४।७६॥
९. पयोघटैराश्रमबालवृक्षान् संवर्धयन्ती स्वबलानुरुपैः ।
:असंशयं प्राक्तनयोपपत्तेः स्तनन्धयप्रीतिमवाप्स्यसि त्वम् ॥ रघु० १४। ७८॥
१०. सायं मृगाध्यासितवेदिपार्श्वं स्वमाश्रमं शान्तमृगं निनाय ॥ रघु० १४। ७९॥
:तस्यै सपर्यानुपदं दिनान्ते निवासहेतोरुटजं वितेरुः ॥ रघु० १४। ८१॥
१२. आविशभ्दिरुटजाङ्गणं मृगैर्मूलसेकसरसैश्च वृक्षकैः ।
:आश्रमाः प्रविशदग्र्ये धेनवो बिभ्रति श्रियमुदीरिताग्नयः ॥ कुमार० ८। ३८॥
:स्थथा च तस्यां हरिणा विशश्वसुः ।
:पुरः सखीनाममिमीत लोचने ॥ कुमार० ५। १५॥
१४. अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु ।
:य उत्पलाक्षि प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते ॥ कुमार० ५ । ३५॥
:प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्ते एवोपलाः ।
:स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ शाकुन्तल १। १४॥
१६. कुल्याम्भोभिः प्रकृतिचपलैः शाखिनो धौतमूलाः,
:नष्टाशङ्काः हरिणशिशवो मन्दमन्दं चरन्ति ॥ शाकुन्तल १। १५॥
:यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥ शा० ७। ११॥
१८. प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने,
:यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥ शा० ७। १२॥
१. त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥ रघु० १। २८॥
२. प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥ रघु० १। ७९॥
३. हीनान्यनुपकर्तृणि प्रवृद्धानि विकुर्वते ॥ रघु० १७। ५८॥
४. शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥ कुमार० २। ४०॥
६. न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय
:प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ पू० मे० १७॥
१. क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम् ॥ कुमार० ६। १३॥
२. अवधूतप्रणिपाताः पश्चात्सन्तप्यमानमनसो हि ।
:विविधैरनुतप्यन्ते दयितानुनयैर्मनस्विन्यः ॥ विक्रम० ३। ५॥
३. प्रभुता रमणॆषु योषितां न हि भावस्खलितान्यपेक्षते ॥ विक्रम० ४। २६॥
४. प्रभवन्त्योऽपि हि भर्तृषु कारणकोपाः कुटुम्बिन्यः ॥ मालविका० १ ।१८॥
१. शासनं पशुपतेः स कुमारः स्वीचकार शिरसाऽवनतेन ।
:सर्वथैव पितृभक्तिरतानामेष एव परमः खलु धर्मः ॥ कुमार० १२। ५८॥
१. आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् ।
:कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम् ॥ रघु० ५। ६॥
२. क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु ।
:तदङ्कशय्याच्युतनाभिनाला कच्चित् मृगीणामनघा प्रसूतिः ॥ रघु० ५।७॥
३. निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितृणाम् ।
:तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥ रघु० ५। ८
४. नीवारपाकादिकङ्गरीयैरामृश्यते जानपदैर्न किच्चित् ।
:कालोपपन्नातिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं वः ॥ रघु० ५। ९॥
५. त्वं रक्षसा भीरु यतोऽपनीता तं मार्गमेताः कृपया लता मे ।
:अदर्शयन्वक्तुमशक्नुवन्त्यः शाखाभिरावर्जितपल्लवाभिः ॥ रघु० १३। २४॥
६. मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् ।
:व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥ रघु० १३॥ २५॥
७. एषा त्वया पेशलमध्ययाऽपि घटाम्बुसंवर्धितबालचूता ।
:आनन्दयत्युन्मुखकृष्णासारा दृष्टा चिरात्पञ्चवटी मनो मे ॥ रघु० १३। ३४॥
१. भानुः सकृद्युक्ततुरङ्ग एव रात्रिन्दिवं गन्धवहः प्रवाति ।
:शेषः सदैवाऽऽहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः ॥ शाकुन्तल ५। ४॥
:शमयति परितापं छायया संश्रितानाम् ॥ शा० ५। ६॥
:प्रशमयसि विवादं कल्पसे रक्षणाय ।
:अतनुषु विभवेषु ज्ञातयः सन्तु नाम,
:त्वयि तु परिसमाप्तं बन्धुकृत्यं जनानाम् ॥ शा० ५। ७॥
१. आचार इत्यधिकृतेन मया गृहीता,
:काले गते बहुतिथे मम सैव जाता,
:प्रस्थानविक्लवगतेरवलम्बनाय ॥ शा० ५। ३॥
२. क्षणात्प्रबोधमायाति लङ्घ्यते तमसा पुनः ।
:निर्वास्यतः प्रदीपस्य शिखेव जरतो मतिः ॥ शाकुन्तल ५। २॥
१. इयं ते जननी प्राप्ता त्वदालोकनतत्परा ।
:स्नेहप्रस्रवनिर्भिन्नमुद्वहन्ती स्तनांशुकम् ॥ विक्रम० ५। १२
२. सुतविक्रमे सति न नन्दति का खलु वीरसूः ॥ कुमार० १२। ५९॥
१. सम्बन्धमाभाषणपूर्वमाहुः ॥ रघुवंश २।५८॥
२. दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥ कुमार ४। २८॥
३. प्रयुक्तसत्कारविशॆषमात्मना न मां परं सम्प्रतिपत्तुमर्हसि ।
:यतः सतां सन्नतगात्रि सङ्गतं मनीषिभिः साप्तपदीनमुच्यते ॥ कुमार० ५। ३९ ॥
१. असम्भृतं पण्डानमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
:कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साऽथ वयः प्रपेदे ॥ कुमार० १ । ३१॥
२. उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भन्नमिवारविन्दम् ।
:बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन ॥ कुमार० १ । ३२॥
३. अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् ।
:मध्ये यथाश्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥ कुमार० १ ।४०॥
४. सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन ।
:सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव ॥ कु० १। ४९॥
५. अप्यौत्सुक्ये महति दयिता प्रार्थनासु प्रतीपाः,
:काङ्क्षन्त्योऽपि व्यतिकरसुखं कातराः स्वाङ्गदाने ।
:आबाध्यन्ते न खलु मदनेनैव लब्धान्तरत्वा-
:दाबाधन्ते मनसिजमपि क्षिप्तकालाः कुमार्य्यः ॥ शाकुन्तल ३।२७॥
६. अतः परीक्ष्य कर्तव्यं विशेषात्सङ्गतं रहः ।
:अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥ शाकुन्तल ५।२४॥
१. आदानं हि विसर्गाय सतां वारिमुचामिव ॥ रघु० ४। ८६॥
२. प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः ॥ रघु० ५। ५६॥
३. अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥ रघु० ९। ७४॥
४. अकामोपनतेनेव सार्धार्हृदयमेनसा ॥ रघु० १०। ३९॥
५. अत्यारुढं रिपोः सोढं चन्दनेनेव भोगिना ॥ रघु० १०। ४३
६. सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलधर्मिकाङ्क्षतम् ॥ रघु० ११। ५०॥
७. त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् ॥ रघु० १५।३॥
८. धर्मसंरक्षणार्थैव प्रवृत्तिर्भुवि शार्ङ्गिणः ॥ रघु० १५।४ ॥
९. सतुल्यपुष्पाभरणो हि धीरः ॥ रघु० १६। ७४॥
१०. प्रह्वेष्वनिर्बन्धरुषो हि सन्तः ॥ रघु० १६। ८०॥
११. क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीव ॥ कुमार० १। १२॥
१२. अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ॥ कुमार० १। ५२॥
१३. विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ॥ कुमार० १। ५९॥
१४. आत्मेश्वराणां न हि जातु विध्नाः समाधिभेदप्रभवो भवन्ति ॥ कुमार० ३।४० ॥
१५. न हीश्वरव्याहृतयः कदाचित् पुष्णन्ति लोको विपरीतमर्थम् ॥ कुमार० ३। ६३॥
१७. क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ कुमार० ५।५॥
१८. न धर्मवृद्धेषु वयः समीक्ष्यते ॥ कुमार० ५।१६॥
१९. भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वति गौरवाः क्रियाः ॥ कु० ५। ३१॥
२०. अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥ कुमार० ५। ७५॥
२१. न केवलं यो महतोऽपभाषते श्रृणोति तस्मादपि यः स पापभाक् ॥ कुमार० ५। ८३॥
२२. स्त्रीपुमानित्यनास्थैषा वृत्तं हि महितं सताम् ॥ कुमार० ६। १२॥
२३. प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः ॥ कुमार० ६। २०॥
२४. विक्रियायै न कल्पन्त्ए सम्बन्धाः सदनुष्ठिताः ॥ कुमार० ६। २९॥
२५. यदध्यासितमर्हभ्दिस्तद्धि तीर्थं प्रचक्षते ॥ कुमार० ६। ५६॥
२६. विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया । कुमार० ८।६५॥
२७. विपत्तिरपि संश्लाघ्योपकारव्रतिनोऽनल ॥ कुमार० १०। २३
२८. न कस्य वीर्याय वरस्य सङ्गतिः ॥ कुमार० १५।५१॥
२९. अतिस्नेहः खलु कार्यदर्शी ॥ विक्रम० २।८-९॥
३०. स्वार्थात्सतां गुरुतरा प्रणयिक्रियैव ॥ विक्रम० ४। ३१॥
३१. न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संशयाय
:प्राप्ते मित्रे भवति विमुखः किंपुनर्यस्तयोच्चैः ॥ पूर्वमेघ १७॥
३२. सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ पूर्वमेघ १९॥
३३. मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ पूर्वमेघ ४२॥
३४. आपन्नार्तिप्रशमनफलाः सम्पदो ह्युत्तमानाम् ॥ पूर्वमेघ ५७॥
३५. प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ उत्तरमेघ ५७॥
३६. केषां न स्यादभिमतफला प्रार्थना ह्युत्तमेषु ॥ उत्तरमेघ ६१॥
३७. भवन्ति नम्रास्तरवः फलोद्गमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः ।
:अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥
३८. प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षूंषि न दारुणाः शराः ॥ शा० ६। २९॥
१. लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।
:सन्ततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥ रघु० १। ६९॥
२. दिशः प्रसेदुः मरुतः ववुः सुखाः प्रदक्षिणार्दिर्हविरग्निराददे ।
:बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥ रघु० ३। १४॥
३. तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि ।
:उपान्त सम्मीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ॥ रघु० ३। २६॥
४. न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् ।
:सुताभिधानं स ज्योतिः सद्यः शोकतमोऽपहम् ॥ रघु० १० । २॥
५. वाष्पायते निपतिता मम दृष्टिरस्मिन्,
:वात्सल्यबन्धि हृदयं मनसः प्रसादः ।
:रिच्छामि चैनमदयं परिरब्धुमङ्गैः ॥ विक्रम० ५।९॥
६. यदि हार्दमिदं श्रुत्वा पिता ममायं सुतोऽहमस्येति ।
:उत्सङ्गवर्धितानां गुरुषु भवेत् कीदृशः स्नेहः ॥ विक्रम० ५। १०॥
७. सर्वाङ्गीणः स्पर्शः सुतस्य किल तेन मामुपगतेन ।
:आह्लादयस्व तावच्चन्द्रकरश्चन्द्रकान्तमिव ॥ विक्रम० ५।११॥
८. प्रमोदवाष्पाकुललोचना सा न तं ददर्श क्षणमग्रतोऽपि ।
:परिस्पृशन्ती करकुड्मलेन सुखान्तरं प्राप किमप्यपूर्वम् ॥ कुमार० ११। १८॥
:विवृद्धवात्सल्यरसोत्तराया देव्या दृशेर्गोचरतां जगाम ॥ कुमार० ११। १९॥
१०. तमीक्षमाणा क्षणमीक्षणानां सहस्रमाप्तुं विनिमेषमैच्छत् ।
:सा नन्दनालोकनमङ्गलेषु क्षणं क्षणं तृप्यति कस्य चेतः ॥ कुमार० ११।२०॥
:तमेकपुत्रं जगदेकमाताऽभ्युत्सङ्गिनं प्रस्रविणी बभूव ॥ कुमार० ११। २३॥
१२. हैमी फलं हेमगिरेर्लतेव विकस्वरं नाकनदीव पद्मम् ।
:पूर्वेव दिङ्नूतनमिन्दुमाभात्तं पार्वती नन्दनमादधाना ॥ कुमार० ११। २६॥
१. पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता ।
:लब्धया प्रतिमया सरोऽम्भसां तापनीयमिव सेतुबन्धनम् ॥ कुमार० ८।३४॥
२. खं प्रसुप्तमिव संस्थिते रवौ तेजसो महत ईदृशी गतिः ।
:तत्प्रकाशयति यावदुद्गतं मीलनाय खलु तावतश्च्युतम् ।। कुमार० ८। ४३॥
३. निर्मितेषु पितृषु स्वयम्भुवा या तनुः सुतनु पूर्वमुज्झिता ।
:सेयमस्तमुदयं च सेवते तेन मानिनि ममात्र गौरवम् ॥ कुमार० ८।५२॥
४. नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः ।
:लोक एष तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि ॥ कुमार० ८। ५६॥
१. व्याहृता प्रतिवचो न सन्दधे गन्तुमैच्छदवलम्बितांशुका ।
:सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥ कुमार० ८। २॥
२. नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः ।
:तद् दुकूलमथ चाभवत् स्वयं दूरमुच्छवसितनीविबन्धनम् ॥ कुमार० ८। ४॥
:क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम् ॥ कुमार० ८। ८॥
४. यन्मुखग्रहणामक्षताधरं दानमव्रणपदं नखस्य यत् ।
:यद्रतं च सदयं प्रियस्य तत्पार्वती विषहते स्म नेतरत् ॥ कुमार० ८।९॥
५. ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम् ॥ कुमार० ८। १३॥
६. सस्वजे प्रियमुरोनिपीडनं प्रार्थितं मुखमनेन नाहरत् ।
:मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा ॥ कुमार० ८। १४॥
:शीतलेन निरवापयत् क्षणं मौलिचन्द्रशकलेन शूलिनः ॥ कुमार० ८।
८. क्लिष्टकेशमवलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् ।
:तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभून्न पृप्तये ॥ कुमार० ८। ८३॥
९. स प्रजागरकषायलोचनं गाढदन्तपरिताडिताधरम् ।
:आकुलालकमरंस्त रागवान्प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥ कुमार० ८।८८॥
१०. स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः ।
:दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदनात् ॥ कुमार० ८। ९०॥
:ज्वलन इव समुद्रान्तर्गतस्तज्जलौघैः ॥ कुमार० ८। ९१॥
१२. स नाम सम्भोगो यस्यादृशेषु प्रदेशेषु ॥ विक्रम० ४।२-३॥
१३. कात्सन्र्येन निर्वर्णयितुं च रुपमिच्छन्ति तत्पूर्वसमागमानाम् ।
:न च प्रियेष्वायतलोचनानां समग्रवृत्तीनि विलोचनानि ॥ मालविका० ४।८॥
१४. हस्तं कम्पयते रुणध्दि रसनाव्यापारलोलाङ्गुलीः ,
:स्वौहस्तौ नयति स्तनावरणतामालिङ्ग्यमाना बलात् ।
:व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥ मालविका० ४। १५॥
१५. कान्तो दन्तः सुहृदुपनतः सङ्गमात्किञ्चिदूनः ॥ उत्तरमेघ ४२॥
:मुखमंसविवर्तिपक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥ शा० ३। २३॥
१. गुरोर्यियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरङ्गे ।
:तदर्थमुर्वीमवदारयभ्दिः पूर्वैः किलायं परिवर्धितो नः ॥ रघु० १३। ३॥
२. गर्भं दधत्यर्कमरीचयोऽस्माद् विवृद्धिमत्राश्नुवते वसूनि ।
:अबिन्धनं वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन ॥ रघु० १३।४॥
३. तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना ।
:विष्णोरिवास्यानवधारणीयमीदृक्तया रुपमियत्तया वा ॥ रघु० १३। ५॥
४. अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥ रघु० १३। ६॥
१. स्थातुं नियोक्तुर्न हि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥ रघु० २। ५६॥
२. प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु ॥ कुमार० ३। १।
३. अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते ॥ कुमार० ३।३॥
४. विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु ॥ कुमार० ६।६२॥
५. कालप्रयुक्ता खलु कार्यविभ्दिर्विज्ञापना भर्तृषु सिध्दिमेति ॥ कुमार० ७। ९३॥
६. परितोषयन्ति गीर्भिगिरीशा रुचिराभिरीशम् ॥ कुमार० ९। १२॥
७. प्रभुप्रसादो हि मुदे न कस्य ॥ कुमार० १२।३२॥
८. स्त्रीषु कष्टोऽधिकारः ॥ विक्रम० ३।१॥
१. आद्यः प्रणवश्छन्दसामिव ॥ रघु० १।११॥
२. भक्तोपपन्नेषु हि तद्विधानां प्रसादचिह्ननि पुरः फलानि ॥ रघु० २।२२॥
३. न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य ॥ रघु० २।३४॥
४. शस्त्रेणा रक्ष्यं यदशक्यरक्ष्यं न तद्यशः शस्त्रभृतां क्षिणोति ॥ रघु० २। ४०॥
५. महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः ॥ रघु० २। ५०॥
६. क्रिया हि वस्तूपहिता प्रसीदति ॥ रघु० ३। २९॥
७. यशस्तु रक्ष्यं परतो यशोधनैः ॥ रघु० ३। ४८॥
८. पदं हि सर्वत्र गुणैर्निधीयते ॥ रघु० ३। ६२॥
९. प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥ रघु० ४। ६४॥
१०. सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिम्ना ॥ रघु० ५। १३॥
११. निर्गलिताम्बुगर्भं शरद्धनं नार्दति चातकोऽपि ॥ रघु० ५। १७॥
१२. उष्णत्वमगन्यातपसम्प्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य ॥ रघु० ५। ५४॥
१३. नक्षत्रताराग्रहसङ्कुलाऽपि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ रघु० ६। २२॥
१४. निसर्गभिन्नास्पदमेकसंस्थमस्मिन्द्वयं श्रीश्च सरस्वती च ॥ रघु० ६। २९॥
१५. भिन्नरुचिर्हि लोकः ॥ रघु० ६।३०॥
१६. कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति ॥ रघु० ९। ८०॥
१७. अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धोर्हि लक्षणम् ॥ रघु० १० । ६॥
१८. स्वयमेव हि वाताऽग्नेः सारथ्यं प्रतिपद्यते ॥ रघु० १०। ४० ॥
१९. सम्यगाराधिता विद्या प्रबोधविनयाविव ॥ रघु० १० । ७१॥
२०. तेजसां हि न वयः समीक्ष्यते ॥ रघु० ११। १॥
२१. पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरोऽपि यः ॥ रघु० ११ । ७५॥
२२. खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमम् ॥ रघु० ११। ७६॥
२३. केवलोऽपि सुभगो नवाम्बुदः किं पुनस्तिदशचापलाञ्छितः ॥ रघु० ११।८०॥
२४. निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥ रघु० ११। ८९॥
२५. तस्याभवत्क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोरिव वृष्टिपातः ॥ रघु० ११। ९२॥
२६. काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥ रघु० १२। ६९॥
२७. नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥ रघु० १३। ७॥
२८. स्तुवन्ति पौराश्चरितं त्वदीयम् ॥ रघु० १४। ३२॥
२९. यशोधनानां हि यशो गरीयः ॥ रघु० १४। ३५॥
३०. लोकापवादो बलवान्मतो मे ॥ रघु) १४। ४०॥
३१. अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः ॥ रघु) १४। ४१॥
३२. आज्ञा गुरुणां ह्य्विचारणीया ॥ रघु० १४।४१॥
३३. जयो रन्ध्रप्रहारिणाम् ॥ रघु० १५। १७॥
३४. प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किमुतोन्मयूखम् ॥ रघु० १६।६९॥
३५. पश्चिमाधामिनी यामात्प्रसादमिव चेतना ॥ रघु० १७। १॥
३६. अपुनात् सवितेवोभौ मार्गावुत्तरदक्षिणौ ॥ रघु० १७।२॥
३७. वयोरुपविभूतीनामेकैकं मदकारणम् ॥ रघु० १७। ४३॥
३८. कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥ रघु० १७। ४७॥
३९. न हि सिंहो गजस्कन्दी भयाद् गिरि गुहाशयः ॥ रघु० १७। ५२॥
४०. वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ॥ रघु० १७। ३४॥
४१. समीरणसहायोऽपि नाम्भः प्रार्थी दावानलः ॥ रघु) १७। ५६॥
४२. अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते ॥ रघु० १७। ५६॥
४३. प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः ।
:स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी ॥ रघु० १७। ७१॥
४४. सकृड्विविग्नानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान् ग्रहीतुम् ॥ रघु० १८। १३॥
४५. सुखोपरोधि वृत्तं हि राज्ञामुपरुद्धवृत्तम् ॥ रघु० १८। १८॥
४६. स्वादुभिस्तु विषयैर्हृतस्ततो दुः खमिन्द्रियगणो निवार्यते । रघु० १९।४९॥
४७. एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥ कुमार० १। ३॥
४८. अनन्तपुष्पस्य मधोर्हि चूतेद्विरेफमाला सविशेषसङ्ग ॥ कुमार० १४। २७॥
४९. संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥ कुमार० १। २८॥
५०. ऋते कृशानोर्न हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् ॥ कुमार० १।९ ॥
५१. वीर्यवन्त्यौषधानीव विकारे सान्निपातिके ॥ कुमार० २। ४८॥
५२. विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ कुमार० २। ५५॥
५३. मनसा कार्यसंसिद्धौ त्वराद्विगुणरंहसा ॥ कुमार० २। ६३॥
५४. अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म ॥ कुमार० ३।९॥
५५. समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥ कुमार० ३। २१॥
५६. प्रायेणा सामग्य्रविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥ कुमार० ३। २८॥
५७. स्वजनस्य हि दुः खमग्रतो विवृतद्वारमिवोपजायते ॥ कुमार० ४। २६॥
५८. दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥ कुमार० ४। २८॥
५९. शशिना सह याति कौमुदी सह मेघेन तडित्प्रलीयते ।
:प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥ कुमार० ४। ३३॥
६०. रविपीतजला तपात्यये पुनरोधेन हि युज्यते नदी ॥ कुमार० ४।४४॥
६१. प्रियेषु सौभाग्यफला हि चारुता ॥ कुमार० ५। १॥
६२. अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ॥ कुमार० ५।२॥
६३. पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥ कुमार ५। ४॥
६४. न षटपदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥ कुमार० ५।९॥
६५. शरीरमाद्यं खलु धर्मसाधनम् ॥ कुमार० ५।३३॥
६६. पापवृत्तये न रुपम् ॥ कुमार० ५।३६॥
६७. कः करं प्रसारयेत् पन्नगरत्नसूचये ॥ कुमार० ५।४३॥
६८. वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ॥ कुमार० ५।४४॥
६९. न रत्नमन्विष्यति मृग्यते हि तत् ॥ कुमार० ५।४५॥
७०. मनोरथानामगतिर्न विद्यते ॥ कुमार० ५।६४॥
७१. अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया ॥ कुमार० ५। ७३॥
७२. न कामवृत्तिर्वचनीयमीक्षते ॥ कुमार० ५।८२॥
७३. मार्गाचलव्यतिकराकुलितेव सिन्धुः शाइलाधिराजतनया न ययौ न तस्थौ ॥ कुमार० ५। ८५॥
७४. क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥ कुमार० ५। ८६॥
७५. प्रायेणैवंविधे कार्ये पुरन्ध्रीणां प्रगल्भता ॥ कुमार० ६। ३२॥
७६. नूनमात्मसदृशी प्रकल्पिता वेधसा हि गुणदोषयोर्गतिः ॥ कुमार० ८।६६॥
७७. स्तोत्रं कस्य न तुष्टये ॥ कुमार० १०। ९॥
७८. कार्येष्ववश्यकार्येषु सिद्धये क्षिप्रकारिता ॥ कुमार० १०। २५॥
७९. विपदा परिभूताः किं व्यवस्यन्ति विलम्बितुम् ॥ कुमार० १०।३५॥
८०. रत्नाकरे युज्यते एव रत्नम् ॥ कुमार० ११।११॥
८१. पुत्रोत्सवे माद्य्ति का न हर्षात् ॥ कुमार० ११। १७॥
८२. कस्य मनो न हि क्षुभ्यति धाम धाम्नि ॥ कुमार० १२।२२॥
८३. चिरार्जितं पुण्यमिवापचारात् ॥ कुमार० १२।३८॥
८४. दावानलप्लोषविपत्तिमन्यो महाम्बुदात् किं हरते वनानाम् ॥ कुमार० १२।४१॥
८५. भवन्ति वाचोऽवसरे प्रयुक्ता ध्रुवं फलाविष्टमहोदयाय ॥ कुमार० १२।४३॥
८६. ध्रुवमभिमते पूर्णे को वा मुदा न हि माद्यति ॥ कुमार० १२।६०॥
८७. महतां वृथा भवेदसदाग्रहान्धस्य हितोपदेशनम् ॥ कुमार० १५। २६॥
८८. कुतस्त्वया तस्य समं विरोधिता ॥ कुमार० १५।३४॥
८९. आहवस्तस्य सह त्वया कुतः ॥ कुमार० १२।३५॥
९०. युयुत्सुभिः किं समरे विलम्ब्यते ॥ कुमार० १५ ।४७॥
९१. नास्त्यगतिर्मनोरथानाम् ॥ विक्रम० २।११-१२॥
९२. अनुत्सेकः खलु विक्रमालङ्कारः ॥ विक्रम० १।१७-१८॥
९३. ननु प्रथमं मेघराजिर्दृश्यते पश्चाद्विद्युल्लता ॥ विक्रम० २।१४-१५॥
९४. तप्तेन तत्पमयसा घटनाय योग्यम् ॥ विक्रम० २। १५॥
९५. लोत्रेण गृहीतस्य कुम्भीरकस्यास्ति वा प्रतिवचनम् ॥ विक्रम० २।१९-२०॥
९६. आश्वासितः पिशाओऽपि भोजनेन ॥ विक्रम० १२।१९-२० ॥
९७. भवितव्यानुविधायिनी इन्द्रियाणि ॥ विक्रम० २। मिश्र विषकम्भक॥
९८. स्त्रीषु कष्टोऽधिकारः ॥ विक्रम० ३।१॥
९९. ९९ यदेवोपनतं दुःखात् सुखं तद्रसवत्तरम् ।
:निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः ॥ विक्रम० ३। २१॥
१००. सर्वथा नास्ति विधेरलङ्घनीयं नाम ॥ विक्रम० ४।२-३॥
१०१. परावृत्तभागधेयानां दुःखं दुःखानुबन्धि ॥ विक्रम० ४।९-१०॥
१०२. राजा कालस्य कारणम् ॥ विक्रम० ४।११-१२॥
१०३. महदपि परदुःखं शीतलं सम्यगाहुः ॥ विक्रम० ४। २७॥
१०४. विभावितैकदेशेन देयं यदभियुज्यते ॥ विक्रम० ४।३४॥
१०५. अनिर्वेदप्राप्याणि श्रेयांसि ॥ विक्रम ४। ५५ -५६॥
१०६. उपपद्यते परिभवास्पदं दशाविपर्ययः ॥ विक्रम० ४।६०-६१॥
१०७. न खलु वयसा जात्यैवायं स्वकार्यसहो भरः ॥ विक्रम० ५।१८॥
१०८. पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम् ।
१०९. आकृतिविशेषेष्वादरः पदं करोति ॥ मालविका० १।३-४॥
११०. नाट्यं भिन्नरुचेत्जनस्य बहुधाप्येकं समाराधकम् ॥ मालविका० १।४॥
१११. पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः ।
:जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ मालविका० १।६॥
११२. हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकाऽपि वा ॥ रघु० १। १०॥
११३. अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरुढमूलत्वात् ।
:नवसंरोपणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् ॥ मालविका० १।८॥
११४. प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ॥ रघु० १।३॥
११५. प्रतिकारविधानमायुषः सति शेषे हि कल्पते ॥ रघु० ८।४०॥
११६. कठिनः खलु स्त्रियः ॥ कुमार० ४।५॥
११७. रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ पूर्वमेघ २१॥
११८. के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ पूर्वमेघ ५८॥
११९. सूर्योपाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ उत्तरमेघ २० ॥
१२०. प्रायः सर्वो भवति करुणा वृत्तिरार्द्रन्तरात्मा ॥ उत्तरमेघ ३४॥
१२१. पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ उत्तरमेघ ४३॥
१२२. कस्यात्यन्तं सुखमुपनतं दुः खमेकान्ततो वा ।
:नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ उत्तरमेघ ४३॥
१२३. बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ शाकुन्तल १।२॥
१२४. आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥ शाकुन्तल १।११॥
१२५. विनीतवेषेण प्रवेष्टव्यानि आश्रमतपोवनानि ॥ शाकुन्तल १५-१६॥
१२६. भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ शाकुन्तल १। १६॥
१२७. सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणाप्रवृत्तयः ॥ शाकुन्तल १। २१॥
१२८. राजरक्षितव्यानि तपोवनानि नाम ॥ शाकुन्तल २२-२३॥
१२९. सर्वं खलु कान्तमात्मानं पश्यति ॥ शाकुन्तल २।७-८॥
१३०. विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य ॥ शाकुन्तल ३। ७-८॥
१३१. स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति ॥ शा० ३।८-९॥
१३२. सागरमुज्झित्वा कुत्र वा महानद्यवतरति ॥ शा० ३। १० -११॥
१३३. श्रिया दुरापः कथमीप्सितो भवेत् ॥ शाकुन्तल ३।१२॥
१३४. विवक्षितं हि अनुक्तमनुतापं जनयति ॥ शाकुन्तल ३। १६-१७॥
१३५. अहो विघ्नवत्यः प्रार्थितार्थसिद्धयः ॥ शाकुन्तल ३।२२।-२३॥
१३६. क इदानीं शरीरनिर्वापयित्रीं शारदीं ज्योत्स्नां पतान्तेन वारयति शा० ३। १२-१३॥
१३७. को नामोष्णोदकेन नवमालिकां सिञ्चति शाकुन्तल ३ । विष्कम्भक ॥
१३८. प्रकृतिदुरवापा हि विषयाः ॥ शाकुन्तल ३। ४०॥
१३९. तेजोद्वयस्य युगपदव्यसनोदयाभ्यां लोको नियम्यत इवात्मदशान्तरेषु ॥ शा० ४।२॥
१४०. इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुः सहानि ॥ शा० ४।३॥
१४१. अत्यारुढिर्भवति महतामप्यपभ्रंशनिष्ठा ॥ शाकुन्तल ॥४।५
१४२. सुशिष्यपरिदत्ता विद्येवाशोचनीया संवृत्ता ॥ शाकुन्तल ४।३-४॥
१४३. अओदकान्तं स्निग्धो जनोऽनुगन्तव्यः ॥ शाकुन्तल ४।१५-१६॥
१४४. गुर्वपि विरहदुः खमाशाबन्धः साहयति ॥ शाकुन्तल ४।१६॥
१४५. स्नेहः पापशङ्की ॥ शाकुन्तल ४। १९-२०॥
१४६. कुतो विश्रामो लोकपालानाम् ॥ शाकुन्तल ४।१९-२०॥
१४७. नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ शा० ५।५॥
१४८. भावस्थिराणि जननान्तरसौहृदानि ॥ शाकुन्तल ५।९॥
१४९. अनिर्वर्णनीयं परकलत्रम् ॥ शाकुन्तल ५।१३-१४॥
१५०. तमस्तपति घर्मांशौ कथमाविर्भविष्यति ॥ शाकुन्तल ५।१४॥
१५१. स्वाधीनकुशलाः सिद्धिमन्तः ॥ शाकुन्तल ५।१४-१५॥
१५२. मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥ शाकुन्तल ५।१८॥
१५३. सर्वः सगन्धेषु विश्वसिति ॥ शाकुन्तल ५।२१-२२॥
:सन्दृश्यते किमुत याः प्रतिबोधवत्यः ।
:मन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥ शा० ५।२२॥
१५५. उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥ शाकुन्तल ५। २६॥
१५६. वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥ शाकुन्तल ५।२८॥
१५७. अवसरोपसर्पणीया राजानः ॥ शाकुन्तल ६। प्रवेशकः ॥
१५८. उच्छेत्तुं प्रभवति यन्न सप्तसप्तिस्तन्नैशं तिमिरमपाकरोति चन्द्रः ॥
१५९. ज्वलितचलितेन्धनोऽग्निर्विप्रकृत?ः पन्नगः फणां कुरुते ।
:प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते हि जनः ॥ शा० ६।३१॥
१६०. कल्पिष्यमाणा महते फलाय वसुन्धरा काल इवोप्तबीजा ॥ शा० ६। २४॥
१६१. हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥ शाकुन्तल ६।२८॥
१६२. उत्सर्पिणी खलु महतां प्रार्थना ॥ शाकुन्तल ७।१२-१३॥
१६३. पूर्वावधीरितं श्रेयो दुःखं हि परिवर्धते ॥ शाकुन्तल ७। १३॥
१६४. किमीश्वराणां परोक्षम् ॥ शाकुन्तल ७। २५-२६॥
१६५. प्रबलतमसामेवम्प्रायाः शुभेषु हि प्रवृत्तयः ।
:स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥ शा० ७। २४॥
१६६. छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥ शा० ७। ३२॥
१६७. सरस्वती श्रुतिर्महती महीयताम् ॥ शाकुन्तल ७। ३५॥
१. ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः ,
:पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
:पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥ शाकुन्तल १।७॥
:धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥ शाकुन्तल १।८॥
३. यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलताम् ,
:यदर्धे विच्छिन्नं भवति कृतसन्धानमिव तत् ।
:प्रकृत्या यद्वक्रं तदपि समरेखं नयनयो-
:र्न मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथजवात् ॥ शाकुन्तल १।९॥
:केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते ॥ शाकुन्तल ७।८॥
५. उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक् तदनन्तरं पयः ।
:निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः ॥ शा० ७।३० ॥
<DOC_END>
<DOC_START>
मानवः काश्यां किं प्राप्तुम् इच्छति राज्ञां युद्धे किं हिताय भवति ?
सर्वेषां देवानां वन्द्यः कः प्रश्नत्रयस्य अपि एकम् उत्तरं वदतु ।
<DOC_END>
<DOC_START>
कुम्भकारस्य गृहे अर्धभागः, हस्तिनापुरे अर्धभागः, तयोः
युग्म लङ्कायां विद्यते । किमिति यः जानाति सः पण्डितः ।
<DOC_END>
<DOC_START>
कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः । ईशावास्योपनिषत् २
अज्ञानिसाधकैः शतसंवत्सरपर्यन्तं कर्माणि कर्तव्यान्येव ।
अज्ञानिनः ज्ञानिनश्च इति मानवाः द्वेधा विभज्यन्ते । अज्ञानिनो नाम आत्मज्ञानरहिताः, फलापेक्षिणः
कर्मिणो मानवाः । ज्ञानिनस्तु आत्मतत्त्वविदो धीराः । एतेषां न किञ्चिदपि प्राप्तव्यं फलं विद्यते, कुतः
आत्मनिष्ठत्वात् । न हि ज्ञानिनां केनापि कर्मणा कृतेन प्राप्तव्यानि फलानि विद्यन्ते ॥
अज्ञानिनो हि फलार्थम् अधर्मानुष्ठानमपि कुर्वन्ति । फलापेक्षिणां फलेष्वेव आसक्तिः, न तु धर्मानुष्ठानेषु । एतान्
उद्दिश्य अत्र ‘सत्कर्माणि कर्तव्यानि’ इत्ययं मन्त्रः उपदिशति । अज्ञानिनः साधकाः कर्मयोगं कुर्युः । परपीडाकराणि
शास्त्रनिषिद्धानि समाजघातकानि च पापकर्माणि त्यक्त्वा साधून्येव कर्माणि साधकः कुर्यादित्यर्थः । तानि च भगवदर्पणबुद्ध्या
क्रियन्ते चेत् ततः चित्तशुद्धिद्वारा साधकस्य ज्ञानप्राप्तियोग्यता भवति ॥
<DOC_END>
<DOC_START>
*यदि च विभवरूपज्ञानसत्त्वादयः स्युर्न तु कुलविकलानां वर्तते वृत्तशुद्धिः ।
*यॆन पुरुषेण कुलकन्यका करे गृहीत तथा तस्य धर्मदारैर्भवितव्यं खलु ।
*न कम्पन्ते झंझामरुति किल वाति प्रतिदिशम् ।
:समुन्मूर्च्छत्साराः कुलशिखरिणः किञ्चिदपि ते ॥
*अप्रतिष्ठे कुलज्येष्ठे का प्रतिष्ठा कुलस्य ।
*सति च कुलविरोधे नापराध्यन्ति बालाः ।
*असन्त इव सन्तोऽपि कोपयन्ति परं नरम् ।
<DOC_END>
<DOC_START>
==कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ॥ अथर्ववेदः ७-५०-८
मम दक्षिणहस्ते क्रियाशीलता विद्यते, मम वामहस्ते जयः विद्यते ।
: अलसस्य कुतो जयः कार्यं करणीयम्, उत्साहेन कार्यं कर्तव्यम् । फलस्य प्रतीक्षायाम् आतङ्केन कार्यं न कर्तव्यम् । 'निष्कपटभावेन यदि कार्यं क्रियेत तर्हि जयः निश्चितः एव । तत्र न कोपि संशयः । अयम् आशावादः उपरितने वाक्ये परिदृश्यते ।
: कार्यस्य फलं भवति अनेकधा । किन्तु अद्यत्वे वयम् इदं फलं धनरूपेणैव अत्यल्पे समये अधिकप्रमाणेन प्राप्तुम् इच्छामः अनया प्रतीक्षया कृतं कर्म न कार्यं, न क्रियाशीलता इदं द्यूतम् कार्यस्य फलं ज्ञानं स्यात्, अनुभवः स्यात् । जनसम्पर्कः, आरोग्यं वा स्यात् । गौरवादराः स्युः । सर्वस्य अपेक्षया अधिकतमः आत्मविश्वासः आत्मतृप्तिः स्यात्
<DOC_END>
<DOC_START>
एषा अस्ति कृष्णमुखी, किन्तु मार्जारी न । अस्याः जिह्वाद्वयं वर्तते, किन्तु सर्पिणी न ।
अस्याः पञ्च पतयः सन्ति, किन्तु पाञ्चाली न । यः उत्तरं जानीयात् सः पण्डितः ।
<DOC_END>
<DOC_START>
सर्वमात्मकृतं कर्म लोकवादो ग्रहा इति ॥
किन्तु केवलं ग्रहनक्षात्रादीनां कारणतः अस्माकं जीवने सुखदुःखादयः न भवन्ति । अस्माभिः
कृतानां कर्मणां कारणतः एव शुभाशुभफलं प्राप्यते । ग्रहगतिकारणतः इदं जातम् इत्येतत् जनानां
<DOC_END>
<DOC_START>
==केवलाघो भवति केवलादी ॥ ऋग्वेदः १०-११७-६
एकाकी यः खादति सः पापी एव भवति ।
खादनं न दोषाय । जीविनः सर्वे, जिजीविषवः सर्वे अपि अवश्यं खादेयुः एव । किन्तु,
:किमर्थं खादनीयम् शक्तेः सम्पादनाय ।
:कदा खादनीयम् बुभुक्षा यदा भवेत् तदा ।
:किं खादनीयम् ज्ञानस्य शक्तेः दायकः सात्त्विकः आहारः खादनीयः ।
:कियत् खादनीयम् उदरस्य अर्धभागः आहारेण, पादभागः जलेन, पादभागः वायुना च पूरणीयम् ।
:कथं खादनीयम् समीचीनतया चर्वणं कृत्वा खादनीयम् ।
एतान् विषयान् अवगत्य खादनीयम् । खादनात् पूर्वं दातारं भगवन्तं, कृषकं च कृतज्ञतापूर्वकं संस्मृत्य अन्यैः सह संविभज्य खादनीयम् । इदं विस्मृत्य एकाकी एव यदि खादेत् तर्हि रोगादिभिः पीडितः भवेत् ।
<DOC_END>
<DOC_START>
[[केशवबलिरामहेडगेवारः एप्रिल् १, १८८९ जून् २१, १९४०) राष्ट्रियस्वयंसेवकसङ्घस्य संस्थापकः । पूर्वतनस्य भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य नायकः आसीत् ।
* असङ्घटितावस्था, आत्मविस्मृतिः, परस्परं स्नेहाभावः चैव अद्यतनः मुख्यः रोगः अस्ति । एतस्य दूरीकरणाय सुसङ्घटितम् एकात्मराष्ट्रस्वरूपं साक्षात्कृत्य जागरितजीवनं प्रतिष्ठापनीयम् अस्ति ।
* समग्रः हिन्दुसमाजः एव अस्माकं कार्यक्षेत्रम् । वयं सर्वान् हिन्दून् अस्मदीयान् भावयेम । अस्माभिः स्वस्य मानसम्मानादिक्षुद्रभावनाः परित्यज्य प्रेम्णा नम्रतया च समाजस्य सर्वेषां बन्धूनां समीपं गन्तव्यम् । तादृशं शिलासदृशं हृदयं किं स्यात्, यच्च भवतः मृदुतापूर्णानां नम्रतापूर्णानां च शब्दानां श्रवणं निराकुर्यात् ?
* अहं सशपथं वदामि यत् जगति सङ्घटनम् एकम् एव तादृशी शक्तिः अस्ति, यस्याः च आधारेण सर्वासां समस्यानां निवारणं भवितुम् अर्हति ।
* अस्माकं समाजे सङ्घटनं निर्माय तस्य बलवत्तता अजेयता च सम्पादनीया इत्येतस्मात् ऋते अन्यत् किमपि करणीयं नास्ति अस्माभिः । एतावत् कृतं चेत् अन्यानि कार्याणि स्वयं प्रवर्तिष्यन्ते, अद्य अस्मान् याः राजनैतिक्यः, सामाजिक्यः, आर्थिक्यः च समस्याः बाधन्ते ताः विनायासं निवारिताः भविष्यन्ति च ।
* कोऽपि जनः महान् भवेत् चेदपि सः निरन्तरम् अचलः पूर्णः च भवितुं नार्हति । अतः गुरुत्वेन व्यक्तिविशेषस्य स्वीकारात् जायमानां विचित्रां स्थितिम् अनिच्छन्तः वयं जयिष्णुं प्रभविष्णुं भगवद्ध्वजं गुरुं भावितवन्तः, यस्मिन् अस्माकम् इतिहासस्य, परम्परायाः, राष्ट्राय कृतस्य स्वार्थत्यागस्य, राष्ट्रियतासम्बद्धानां सर्वेषां मूलतत्त्वानां च समन्वयः अस्ति । एतस्मात् अचलात् उदात्तात् ध्वजात् या स्फूर्तिः प्राप्येत सा कस्याश्चित् मानवीयविभूतितः प्राप्यमाणायाः स्फूर्तितः अपि श्रेष्ठा अस्ति । (परमपूजनीयः डाक्टर्हेडगेवारः, भारतीयविचारसाधना, पुणे, पृ 67-68 )
* अस्माकं कार्यम् अखिलहिन्दुसमाजाय अस्ति इत्यतः तस्य कस्मिंश्चिदपि अङ्गे यदि उपेक्षा क्रियेत तर्हि कार्यं न सम्पद्येत । उच्चनीचश्रेणीकेषु सर्वेषु अपि हिन्दुषु अस्माकं व्यवहारः समान- प्रेम्णा स्यात् । हिन्दोः नीचत्वेन दूरीकरणं पापकरम् । सङ्घस्य स्वयंसेवकानां मनस्सु तु एतादृश्याः सङ्कुचितभावनायाः अवकाशः कदापि न स्यात् । हिन्दुस्थाने प्रीतिमत्सु सर्वेषु अपि हिन्दुषु अस्माकं व्यवहारः सहोदरे इव स्यात् । जनाः कथं व्यवहरन्ति, किं वदन्ति इत्यस्य न किमपि महत्त्वम् । अस्माकं व्यवहारः यदि आदर्शपूर्णः भवेत् तर्हि सर्वे हिन्दुबान्धवाः ततः आकृष्टाः भवेयुः एव । समग्रः हिन्दुसमाजः एव अस्माकं कार्यक्षेत्रम् । (परमपूजनीयः डाक्टर्हेडगेवारः, भारतीयविचारसाधना, पुणे, पृ 71-72)
* सर्वैः अपि सङ्घस्य स्वयंसेवकैः आकर्षणकेन्द्रैः भवितव्यम् । दशविंशान् जनान् स्वसमीपम् आक्रष्टुं यत् कौशलम् आवश्यकं तत्र प्रावीण्यं प्राप्तव्यम् । कोऽपि एकः गुणः तस्मिन् पूर्णतः स्यात् । यस्य शब्दाः अमृतवर्षिणः स्युः, यस्मिन् परिस्थितेः अवगमनाय सामर्थ्यं स्यात्, कः कस्मिन् कार्ये उपयोगाय भवेत् इति अवगत्य स स जनः तेषु तेषु कार्येषु नियोक्तुं कुशलता यस्मिन् स्यात्, सः एव सङ्घटनं कर्तुम् अर्हति । (परमपूजनीयः डाक्टरहेडगेवारः, भारतीयविचारसाधना पृ. 100)
* ‘यथाशक्ति’ समाजकार्यस्य करणम् इति कथनं न युक्तम् । स्वीयस्य परिवारस्य विषये ‘यथाशक्ति’ कार्यं किं क्रियेत समाजस्य विषये अपि एषा एव भावना भवेत् । तस्मिन् विषये सन्धिः कर्तुं न शक्यः । ‘विरामसमये’ कार्यकरणम् इत्येषा धारणा अपि कृत्रिमा अज्ञानप्रयुक्ता च । ततः न व्यक्तेः कल्याणं, न वा समाजस्य । निष्कपटभावेन निःस्वार्थबुद्ध्या कार्यकरणम् एव स्वाभाविकं स्यात् ।
<DOC_END>
<DOC_START>
एतद अपूर्णम् लेखाय सूचि अस्ति।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे अकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्थि नास्ति शिरो नास्ति बाहुरस्ति निरंगुलिः । नास्ति पादद्वयं गाढ़म् अङ्गम् आलिंगति स्वयम् ।
<DOC_END>
<DOC_START>
अयं वर्गः अतिथिविषये भवति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे अथर्ववेदस्य सूक्तयः विद्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः अनर्थविषये भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः अभ्यासविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे विविधश्रेष्ठजनानाम् अमृतवचनानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे देशभक्तानाम् अमृतवचनानि भवन्ति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे धर्मबोधकानाम् अमृतवचनानि भवन्ति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे राजनीतिज्ञानाम् अमृतवचनानि भवन्ति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे लेखकानाम् अमृतवचनानि भवन्ति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे विज्ञानिनाम् अमृतवचनानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे शिक्षणवेतॄणाम् अमृतवचनानि भवन्ति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे समाजपरिवर्तकाणाम् अमृतवचनानि भवन्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः अविवेकविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे आकारादीनि सुभाषितानि विद्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे आकाराद्याः प्रहेलिकाः भवन्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः आत्मनः विषये भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः आत्मावलोकनविषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः आत्मोद्धारविषये भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः ईशावास्योपनिषदः विषये वर्तते ।
<DOC_END>
<DOC_START>
अयं वर्गः ईश्वरविषये भवति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे उकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे विविधैः जनैः उक्तानि वचनानि भवन्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः उणादिकोषविषयकः अस्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः उपदेशविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे विविधानाम् उपनिषदां वाक्यानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे ऋग्वेदस्य सूक्तयः भवन्ति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे एकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे एकाराद्याः प्रहेलिकाः भवन्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः ऐतरेयोपनिषदः विषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे ककारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे ककाराद्याः प्रहेलिकाः भवन्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः कन्याविसषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः कर्मणः विषये भवति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे कवीनाम् उक्तयः भवन्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः कवेः विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः काठकोपनिषदः विषये वर्तते ।
<DOC_END>
<DOC_START>
अयं वर्गः कालविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् कालिदासेन लिखिताः सूक्तयः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे काशिकाग्रन्थविषयः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः कुलविषये भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः केनोपनिषदः विषये वर्तते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे कैवल्योपनिषदः विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः कोपविषये भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः कौषीतकिब्राह्मणोपनिषदः विषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे क्षकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे खकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे गकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः गुणविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे विविधाः ग्रन्थाः विद्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे रामायणस्य सूक्तयः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे चकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे चकाराद्याः प्रहेलिकाः विद्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे विविधविषयकाः चाटुचणकाः भवन्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः चाणक्यनीतिदर्पणविषयकः अस्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः चिकित्साविषये भवति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे छकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः छान्दोग्योपनिषदः विषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे जकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः जाबालोपनिषदः विषये वर्तते ।
<DOC_END>
<DOC_START>
अयं वर्गः जीवनविषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः ज्ञातव्यानां विषये भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः ज्ञानिनां विषये भवति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे तकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः तैत्तिरीयोपनिषदः विषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे दकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे दकाराद्याः प्रहेलिकाः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्ग दक्षताविषयः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः दुर्जनानां विषये भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः दुष्टानां विषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे राष्ट्रभक्तानाम् अमृतवचनानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः दैवविषये विद्यते ।
तस्मात् पुरुषकारेण विना दैवं न सिध्यति।।
पूर्वजन्मनि कृतं कर्म एव मनुष्यस्य दैवं भवति, अतः दैवस्य निर्माता मनुष्य एव।
<DOC_END>
<DOC_START>
अयं वर्गः दोषाणां विषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे धकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः धनविषये भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः धर्मविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे धर्मबोधकानाम् वचनानि भवन्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः धीराणां विषये भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः धैर्यविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे नकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे नकाराद्याः प्रहेलिकाः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे विविधानां संस्कृतनाटकानां सूक्तयः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः नीतिग्रन्थानां विषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे पकारादीनि सुभाषितानि भवन्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः परिश्रमविषये भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः परोपकारविषयकः वर्तते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे प्रश्नोपनिषदः विषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे वर्णानुगुणं प्रहेलिकाः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अत्र विविधफलकानि समाकलिताः भवन्ति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे बकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः बुद्धेः विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः बृहदारण्यकोपनिषदः विषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे भकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः भयविषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः भर्तृहरिशतकविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे मकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः महापुरुषाणां विषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे महाभारसूक्तयः विद्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः महाभाष्यग्रन्थविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः माण्डूक्योपनिषदः विषये वर्तते ।
<DOC_END>
<DOC_START>
अयं वर्गः मानविषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः माहाभाष्यप्रदीपग्रन्थविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे मुण्डकोपनिषदः विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः मुण्डकोपनिषदः विषये वर्तते ।
<DOC_END>
<DOC_START>
अयं वर्गः मुनेः विषये भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः मूढानां विषये भवति ।
मूर्खस्य पञ्च चिह्नानि गर्वो दुर्वचनं तथा।
<DOC_END>
<DOC_START>
अयं वर्गः मौक्तिकग्रन्थसम्बद्धः वर्तते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे यकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे यकाराद्याः प्रहेलिकाः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् यजुर्वेदस्य सूक्तयः भवन्ति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे रकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे रकाराद्याः प्रहेलिकाः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे राजनीतिज्ञानाम् उक्तयः विद्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् रामायणस्य सूक्तयः विद्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे लेखकानाम् उक्तयः विद्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः लोकस्वभावविषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः लोकहितविषये वर्तते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे वकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे वकाराद्याः प्रहेलिकाः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः वचनविषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः वर्ज्यविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे वर्णानुगुणं सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे विज्ञानिनाम् उक्तयः विद्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः विदुरनीतिविषयकः अस्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः विद्यायाः विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः विदुषां विषये भवति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे विविधविषययुक्तानि विद्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः विवेकविषये भवति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे विभिन्नानि विषयवस्तूनि विद्यन्ते ।
<DOC_END>
<DOC_START>
'संस्कृतसूक्ति'विभागे विद्यमानाः सर्वे वर्गाः अत्र उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् विविधाः विषयाः विद्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे विषयानुगुणं सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वेदानां सूक्तयः भवन्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः व्याकरणग्रन्थविषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः व्याकरणसिद्धान्तसुधानिधिसम्बद्धः वर्तते ।
<DOC_END>
<DOC_START>
अयं वर्गः व्याकरणसूक्तिविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे शकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे शिक्षणवेतॄणाम् उक्तयः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः शीलविषये भवति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे श्वेताश्वतरोपनिषदः विषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे षकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे विविधसंस्कृतनाटकानां विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः संस्कृतिविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे सकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे सकाराध्याः प्रहेलिकाः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः सङ्घटनविषये वर्तते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे सज्जनानां विषये भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः सत्यविषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः सत्सङ्गतेः विषये भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः सदाचारविषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः सन्तृप्तिविषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः सन्तोषविषये भवति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे समाजपरिवर्तकानाम् उक्तयः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः सम्पत्तेः विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः सान्निध्यविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे सामवेदस्य सूक्तयः भवन्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः सिद्धेः विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः सुखविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे सुभद्राहरणनाटकस्य सूक्तयः विद्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे सुभाषितग्रन्थाः विद्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् सुभाषितरत्नकरण्डकस्य सुभाषितानि विद्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे सुभाषितरत्नभाण्डागारस्य सुभाषितानि विद्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् विभिन्नक्रमेण सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः सुहृदः विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः सूक्तिविषये भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः सूक्तिग्रन्थविषयकः वर्तते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे स्वानुभूतिनाटकस्य सूक्तयः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः स्वाभिमानविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे हकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अहं सुमना । संस्कृत भारत्याः 'संस्कृतविकिपीडिया' विभागस्य संयोजिका अस्मि । अहं संस्कृतसाहित्ये विद्यावारिधिपदवीं प्राप्तवती अस्मि । संस्कृतम्, आङ्ग्लं, कन्नडं, हिन्दीभाषां च जानामि । संस्कृतकार्यं कर्तुं मोदते मम मनः ।
<DOC_END>
<DOC_START>
शुभा अहं संस्कृतभारत्याः बेङ्गलूरुकार्यालये अक्षरे विकिपीडियाप्रकल्पे कार्यरता अस्मि । विकिसूक्त्तौ कार्यकरणं नाम निरन्तरं सज्जनसङ्गप्राप्तिः इति मे भाति । भवन्तः अपि अत्र कार्यरताः भवन्तु, मया प्राप्यमाणं समग्रम् आनन्दं प्राप्नुवन्तु इति आशासे ।
विकिसूक्तौ छन्दोऽनुगुणम् इति अस्मिन् वर्गे पृष्ठानि समावेशयितुम् इच्छामि परं कर्तुं रीतिं न जानामि।अधुना विकिसूक्ति: छन्दोऽनुगुणम् इति पृथक् तथा सर्वथा अनुबन्धरहितं पृष्ठं महता प्रयासेन कथंचिद् मया निर्मितम्।
=अनुष्टुप् वर्ग: अथवा उपवर्ग: कथं निर्मातव्य:=
२ अनुष्टुप्-छन्दसि सुभाषितानि इत्यादीन् वर्गान् निर्माय ततः तेषां मातृवर्गः भवेत् 'छन्दोनुगुणं सुभाषितानि' इति ।
<DOC_END>
<DOC_START>
त्रयं यदा विन्दते ब्रह्ममेतत् ॥ श्वेताश्वतरोपनिषत् १-९
जीवभोगकरिणी प्रकृतिरपि अजा एव । आत्मा अनन्तः
विश्वरूपः अकर्ता च भवति । एतत् त्रयमपि ब्रह्मैव इति
ज्ञः, अज्ञः, प्रकृतिरिति, त्रयमपि परमार्थतः परमेव ब्रह्म ।
‘ज्ञः’ इति सर्वज्ञः ईश्वरः; ‘अज्ञः’ इति असर्वज्ञः जीवः;
प्रकृतिस्तु जडा सर्वशक्तिः । ईश्वरस्य जीवानां प्रकृतेश्च
नियंतृ सूक्ष्मतत्त्वं किञ्चित् तत्त्वं विद्यते । तदेव ब्रह्म
परमार्थदृष्ट्या तु ईश्वरः जीवाः प्रकृतिश्च इत्येतत् त्रयमपि
अजम् एकमेवाद्वितीयं ब्रह्मैव । एकमेव ब्रह्म सर्वज्ञेश्वररूपेण,
अल्पज्ञ जीवरूपेण अचेतनप्रकृतिरूपेण च त्रेधा अवभासते ।
एवं यो जानाति स एव ब्रह्मज्ञानी भवति । सः कृतार्थः सन्
<DOC_END>
<DOC_START>
श्रीवत्सनामकः अहम् गुजरातराज्यस्य अहमदाबादनगरे विद्यमाने संस्कृतभारतीकेन्द्रे ’विकिपीडिया’ सम्बद्धं कार्यं कुर्वन्नस्मि ।
<DOC_END>
<DOC_START>
हरिः ओम् नमनानि संस्कृतानुरागी किञ्चिज्ञः, कादाचिद्भवेत् सेवात्र |
<DOC_END>
<DOC_START>
नायकः, स्थिरबुद्धिः, निर्भयः, यः सागरम् अपूरयत् सः एव राजा मायः, आशिषां
निधानरूपः याः अरिनाशने समर्थाः ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे वर्णचित्रसम्बद्धाः श्लोकाः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे विविधानि चित्रकाव्यानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
दिवं दुदाव नादेन दाने दानवनन्दिनः ॥
दुःखदाता विद्यते, तेन हिरण्यकशिपोः (कश्चन दानवः यः विष्णोः नामस्मरणात्
पुत्रं प्रतिषेधति ।) वधावसरे आकाशः महारवेण सम्पूरितः ।
<DOC_END>
<DOC_START>
यस्य ध्वनिः दुन्दुभायते, यः घनमेघः इव आसीत्, तेन शत्रुगजः आक्रान्तः ।
<DOC_END>
<DOC_START>
तथैव यः निकृष्टं मानवम् अभिविध्यति सोपि न मानवः । अभिविद्धः
मानवः अभिविद्धः इति न परिगण्यते यदि तदीयः गुरुः अनभिविद्धः ।
अभिविद्धं मानवं यः अभिविध्यति सोऽपि न मानवः।
<DOC_END>
<DOC_START>
लुलुभुः पुपुषुर्मुत्सु मुमुहुर्नु मुहुर्मुहुः ॥
देवानाम् आचार्यश्च । सः सन्तुष्टः बलिष्ठश्च तिष्ठतु, पौनःपुन्येन प्रज्ञाशून्यः मा
भवतु इति धिया ते तम् प्रार्थयन् ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे स्वरचित्रयुताः श्लोकाः भवन्ति ।
<DOC_END>
<DOC_START>
चत्वारि तस्य वर्धंन्ते आयुर्विद्यायशोबलम् ॥
<DOC_END>
<DOC_START>
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णम् उदच्यते । पूर्णस्य पूर्णम् आदाय
पूर्णमेव अवशिष्यते ॥ बृहदारण्यकोपनिषत् ५-१-१
तत् पूर्णम्, इदं पूर्णम्, पूर्णात् पूर्णम् उद्भूतम् । पूर्णस्य पूर्णम् आदाय
अयं हि सुप्रसिद्धो जनप्रियश्च मन्त्रः । अत्रमन्त्रे पूर्ण शब्दः सप्तकृत्वः
आम्नातः । परिपूर्णे परब्रह्मणि भेदा वा अंशा वा तारतम्याणि वा नैव
विद्यन्ते इति सुन्दरतया सरलतया च अयं मन्त्रः उद्घोषयति । आकाशवत्
निरवयवं सर्वव्यापकं च ब्रह्म परिपूर्णमेव खलु ?
सोपाधिकतया दृश्यमानमिदं जगत् अपि पूर्णमेव । महाकाशः पूर्णः,
घटाकाशोऽपि पूर्णः । पूर्णे ब्रह्मणि महत् अल्पम् इति भेदो नावकल्पते ।
पूर्णात् ब्रह्मणः आगतं सर्वमपि पूर्णमेव ब्रह्म । इदं जगदपि पूर्णमेव ।
अणुरेणुतृणकाष्ठादि सर्वमपि पूर्णः ब्रह्मैव । अविद्याकल्पितेषु उपाधिष्वेव
तारतम्यं दृश्यते न तु पूर्णे ब्रह्मणि । एवंविद्वानेव ब्रह्मज्ञानी । सोऽपि
<DOC_END>
<DOC_START>
न मातृवधेन, न पितृवधेन, न स्तेयेन, न भ्रूणहत्यया पापमस्य
अस्य ब्रह्मात्मज्ञानिनः मातृहत्यया वा पितृवधेन वा सुवर्णस्तेयेन वा
शिशुहत्यया वा नैव किञ्चिदपि पापं भवति ।
सत्सम्प्रदायविद्भ्यः एव ज्ञानिभ्यः सद्गुरूभ्यः वेदान्तवाक्यानाम् अर्थः
विज्ञातव्यः इति दर्शयितुम् अयं मन्त्रः उदाहरणभूतोऽस्ति । अस्य मन्त्रस्य
अर्थः अविद्यया अन्यथैव विपरीततया अनेकैः गृहीतोऽस्ति । कस्तर्हि
कदाचित् ब्रह्मज्ञानिना पापकर्माणि कृतान्यपि चेत् तेन पापकर्मणा न
तस्य पापफललेपोऽस्ति । यतः ब्रह्मज्ञानिनः देहाद्यध्यासो वा कर्तृत्वबुद्धिर्वा
नैव सम्भवति । सर्वं हि अग्निर्दहति । काष्ठं वा संन्यासिनं वा शवं वा शिशुं
वा समानतया दहतः अग्नेः पापम् अस्ति किम् नैवास्ति । कर्तृत्वाभावात् ।
तथैव अध्यासरहितस्य परिपूर्णब्रह्मज्ञानिनः पुण्यपापकर्मणां लेपः स्वप्नेऽपि
सम्भावयितुं न शक्यते इत्यर्थः ॥
<DOC_END>
<DOC_START>
अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ श्वेताश्वतरोपनिषत् २-१५
अजं ध्रुवं सर्वदोषरहितं देवं ज्ञात्वा सर्वपाशेभ्यो मुच्यते ।
अयम् एकः प्रसिद्धो मन्त्रः । देवं विज्ञाय सर्वबन्धनेभ्यो मुक्तिः ।
कोऽसौ देवः इन्द्रो वा विष्णुर्वा सूर्यो वा अर्यमा वा एष देवः
नतमोऽपि एषाम् अत्र देवः विवक्षितः प्रतिपादितो वा । तर्हि
मुक्तिसाधनभूतं देवज्ञानं कीदृशम् अत्र देवो नाम अद्वितीयं
परिपूर्णं निर्गुणं परमेव ब्रह्म, नान्यः ॥
स देवः न अस्मत् भिन्नः । अयं देवः न ‘असौ’ दूरस्थः, किन्तु
‘एषः’ देवोऽयम् । ‘देवः’ इत्युक्ते सामान्येन रामः, कृष्णः, गणपतिः,
शिवः, लक्ष्मीः इत्याद्यैव अस्माकं कल्पना । ता देवताः परोक्षभूताः ।
वेदान्तप्रतिपाद्यस्तु देवः अस्माकं प्रत्यगात्मभूत एव । एषः अजः
जन्मरहितः, ध्रुवः नाशरहितः । उपाधिदोषविदूरोऽयं परो देवः ।
इमम् आत्मत्वेन विदित्वा तादृशः ब्रह्मवित् सर्वपाशेभ्यो मुच्यते ।
अस्य पुनः जन्म वा संसारबन्धो वा नास्तीत्यर्थः ॥
<DOC_END>
<DOC_START>
शृण्वन्तोऽपि बहवो यं न विद्युः । काठकोपनिषत् १-२-७
वेदान्तेषु प्रतिपादितं प्रत्यगात्मतत्त्वं सद्गुरुभ्यः शृण्वन्तोऽपि
अनेके एनं प्रत्यगात्मानं सम्यक् न जानीयुः ।
सामान्यतः अस्मिन् काले सर्वेऽपि मानवाः विषयभोगनिरताः
इन्द्रियलोलुपाः सन्तः कालं यापयन्ति । तत्रापि केचित् कर्माणि
उपासनानि च श्रद्धया कुर्वन्तः, तेन जनप्रियतां सम्पादयन्तः तत्र
तत्र लभ्येरन् । अपि तु वेदान्तवाक्यार्थश्रवणं कुर्वन्तः वेदान्तविचारं
च कुर्वाणाः जिज्ञासुजनाः दुर्लभा एव भवन्ति । उपनिषदां सन्देशान्
बोधयन्तः उपन्यासकाश्च अल्पीयांस एव भवन्ति । यद्यपि तादृशाः
उपन्यासकाः आत्मविचारम् उपदिशन्ति, तथापि तादृशं विचारं श्रद्धया
तत्पराः सन्तः शृण्वन्त एव जनाः न दृश्यन्ते ॥
मनोरंजनतया वेदान्तान् शृण्वन्तः जनाः यद्यपि दृश्यन्ते तथापि
श्रुतार्थं मनननिदिध्यासनद्वारा अनुभवे पश्यन्तः उत्तमाधिकारिणः
दुर्लभा एव भवन्ति । प्रत्यक्षप्रमाणागोचरं परिशुद्धमात्मानं विज्ञातुं
कष्टमेव भवेत् । विवेक वैराग्य शमादि मुमुक्षुत्व साधनसम्पन्नैः
साधकैः आत्मज्ञानं श्रवणद्वारा लभ्येत ॥
<DOC_END>
<DOC_START>
परीक्ष्य लोकान् कर्मचितान् ब्राह्मणः निर्वेदमायात् नास्ति
अकृतः कृतेन । मुण्डकोपनिषत् १-२-१२
कर्मचितान् लोकान् परीक्ष्य तत्त्वजिज्ञासुः स्वर्गादिलोकेभ्यः विरक्तो
भवेत् । केवलकर्मभ्यः मोक्षः न प्राप्यते इति विवेकिना जिज्ञासुना
मुमुक्षुसाधकेभ्यः हितोपदेशः करोति अयं मन्त्रः । वैराग्यमेव आत्मज्ञानस्य
प्रधानं द्वारम् । वैराग्यहीनस्य आत्मज्ञानं नैव लभ्यते । न हि वैराग्यं
नाम केवलं विषयभोगत्यागः । पत्नी पुत्र धन गृहादित्यागमात्रेण वैराग्यं
प्राप्तमिति न मन्तव्यम् । न हि ब्रह्मजिज्ञासां विना वस्तुत्यागमात्रं वैराग्यम् ॥
किं तु, विवेकेन विषयभोगस्य असारताज्ञानमेव वैराग्यम् । कृत्वा प्राप्तिः
सर्वापि अनित्या एव । एवं विचारेण विवेकेन यो जानाति स एव ब्रह्मविद्यां
प्राप्तुं समर्थो भवति । “केवलकर्मभिः मुक्तिर्न लभ्यते” इत्येव हि मुमुक्षोः
बीजमन्त्रः । एवं ज्ञात्वा विरक्तस्यैव आत्मज्ञानमहासौधे प्रवेशः, नेतरस्य ॥
<DOC_END>
<DOC_START>
यो वा एतदक्षरं गार्गि अविदित्वा अस्मात् लोकात् प्रैति स कृपणः । बृहदारण्यकोपनिषत् ३-८-१०
हे गार्गि, एतद् अक्षरम् अविदित्वा यः अस्मात् लोकात् प्रैति स कृपणः ।
कृपणो नाम लोभी, कृपणो नाम मूढः, कृपणो नाम वराकः, कृपणो नाम
इति वदन्ति । धनी सन्नपि सत्पात्रे यः दानं न करोति तं जनाः कृपणः
इति मन्यन्ते । व्यवहारे अकुशलम् अज्ञं वदन्ति । परप्रयोजनाय यः
सदा खरवत् कर्मतत्परः तं वराकं वदन्ति लौकिकाः ॥
वेदान्तेषु पुनः नैवम् । अक्षरं विज्ञातुं सामर्थ्यवानपि मानवः यः न जानाति,
न च अवगन्तुं प्रयत्नमेव करोति तं ‘कृपणं ’ वदन्ति । परिपूर्णं परतत्त्वम्
अजानन् सदा केवलव्यवहारनिमग्नः सन् तावतैव सन्तृप्तः सन् यदा कदा वा
यो म्रियते सः नूनमपि कृपणः खलु स्वसम्पादितं सर्वमपि धनम् अत्रैव
विहाय आत्मानं च अविदित्वा रिक्तहस्तः यो गच्छति नासौ कृपणः किम् ?
<DOC_END>
<DOC_START>
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । बृहदारण्यकोपनिषत् ४-१-२६
गजसदृशानां गवां सहस्रं ददामि इति याज्ञवल्क्यमहर्षये जनको राजर्षिः
अत्र याज्ञवल्क्यमहर्षिः गुरुः, जनकमहाराजः शिष्यः । गुरुः दरिद्रः, शिष्यः
चक्रवर्ती उदारी च । शिष्यो जनकः न केवलं तत्त्वजिज्ञासुः गुरुभक्तश्च,
किन्तु उदारी च । स्वप्रश्नानां याज्ञवल्क्य गुरोः सकाशात् लब्धप्रतिवचनः
जनकः प्रतिपर्यायमपि ‘गुरुदक्षिणा’त्वेन “सहस्रं धेनूनां ददामि” इति
गुरुभ्यः दक्षिणात्वेन यस्मिन् कस्मिन् वस्तुनि दत्तेऽपि तत् सार्थकमेव ।
स्वसंपदानुगुण्येन गुरुदक्षिणां समर्पयेत् शिष्यः । अत्र जनकराजः धनी
चक्रवर्ती । स्वसंपदानुगुण्येन गुरुदक्षिणां गुरवे याज्ञवल्क्याय भक्त्या समर्पयति ।
एतद्धि गुरुभक्तेः निदर्शनं नाम गुरुभक्तेः इयं हि परा काष्ठा
ब्रह्मविद्योपदेशकाय सद्गुरवे समृद्धं सर्वं दत्तमपि अल्पमेव । सद्गुरवे
दत्तं सर्वम् अनन्तमेव भवति । न हि सद्गुरवे अदेयं नाम वस्तु एव नास्ति ॥
<DOC_END>
<DOC_START>
अनन्यप्रोक्ते गतिरत्र नास्ति । काठकोपनिषत् १-२-८
अनन्येन गुरुणा अनन्यभूते आत्मनि अनन्यतया प्रोक्ते सति तत्र गतिर्नास्ति ॥
आत्मतत्त्वम् अधिकृत्य उपदेष्टॄणाम् आचार्याणां न्यूनता नास्ति अस्मिन् काले,
वेदान्तान् अध्येतुं ग्रन्थानां न्यूनता नास्ति, उपन्यासश्रोतॄणां जिज्ञासूनां च न्यूनता
नास्ति । सत्यमेतत् । अपि तु प्रवचनकर्तॄणाम् आचार्याणां वा श्रोतॄणां शिष्याणां वा
ब्रह्मात्मज्ञानं न प्राप्तम् । न च प्राप्यते । कुतः उभयोरपि शुष्कशास्त्रपाण्डित्यमात्रं
विद्यते, न तु मुमुक्षुत्वम् । केवलेन शुष्कपाण्डित्येन आत्मज्ञानं नोदेति । किन्तु
भवतु, शिष्याणाम् आत्मज्ञाननिष्ठाप्राप्त्यै कथं तर्हि गुरुणा भाव्यम् उपदेष्ट्रा आचार्येण
अनन्येन भाव्यम् । अनन्यो नाम् अभिन्नः इत्यर्थः । कस्मात् अभिन्नः परस्माद ब्रह्मणः ।
ब्रह्मविद्याचार्येणा सद्गुरुणा स्वतः ब्रह्मनिष्ठेन ब्रह्मस्वरूपेण सता शिष्येभ्यः परब्रह्मस्वरूपे
उपदिष्टे सत्येव सः उपदेशः अविद्यानिरसनसमर्थः फलकारी भवति । अयमेव समर्थः सद्गुरुः ॥
<DOC_END>
<DOC_START>
असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद् वेद ।
सन्तमेनं ततो विदुरिति ॥ तैत्तिरीयोपनिषत् २-६-१
ब्रह्म ‘असत्’ इति वेद चेत् सः असन् एव भवति । ब्रह्म ‘अस्ति’ इति वेद
चेत् ततः एनं सन्तं विदुः इति ॥
परं ब्रह्म ‘नास्ति’ इति केचिद् वदन्ति, ‘अस्ति’ इति च अपरे वदन्ति । तयोः
कतरत् मतं साधु? इति चेत् । ‘अस्ति’ इति वदतामेव पक्षः श्रेयान् । ब्रह्म
आत्मनः अभिन्नम्, स्वस्वरूपमेव ब्रह्म । तस्मात् ‘ब्रह्म अस्ति’ इत्युक्ते
‘अहम् अस्मि’ इत्येवार्थः । एवंविदं ज्ञानिनः ‘सन्तम्’ आहुः । सन्तं नाम
सत्पुरूषम् इत्यर्थः । अस्ति इति सन्, परमार्थतो विद्यमानः इत्यर्थः ॥
यस्तु ‘ब्रह्म नास्ति’ इति वादं करोति तादृशः ‘असन्’ एव भवति । स्वस्वरूपभूतमेव
तादृशं पुरूषं ज्ञानिनः ‘असत्पुरूषः’ इत्येव कथयन्ति । तस्मात् विवेकी मुमुक्षुः
‘अस्ति’ इत्येव ब्रह्म जानीयात् इति तात्पर्यम् ॥
<DOC_END>
<DOC_START>
तत्कारणं साङ्ख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः । श्वेताश्वतरोपनिषत् ६-१३
जगत्कारणभूतं साङ्ख्ययोगाधिगम्यं तं देवं ज्ञात्वा सर्वपाशैः मुच्यते ।
आत्मानं विज्ञातुं वेदवेदान्तेषु मार्गद्वयम् उपदिष्टं दृश्यते । साङ्ख्यमार्गः
योगमार्गश्च इति द्वौ मार्गौ । साङ्ख्यं नाम विचारमार्गः, ज्ञानमार्गः ।
वस्तुतन्त्रज्ञानरूपः राजमार्गोऽयम् । वेदान्तवाक्यस्य श्रवणमनननिदिध्यासनरूपमार्गोयम् ।
अपरो योग मार्गः । ध्यानमार्गोऽयम् । कर्तृतंत्ररूपः सुलभमार्गोऽयम् ।
मार्गद्वयमप्येतत् आत्मज्ञानद्वारा मुक्तिसाधनं भवति ॥
एवम् आत्मनि विज्ञाते सति ज्ञातुः किं फलम् सर्वपाशविमोचनम् ।
आत्मज्ञानबलेन सर्वपाशैः प्रमुच्यते साधकः । बंधनमेव पाशाः । सुखदुःखे,
रागद्वेषौ, लाभालाभौ, जन्ममरणे, प्रियाप्रिये – इत्यादयः पाशाः । रज्जुपाशवत्
एते पाशाः संसारिणो जीवान् दुःखात्मके संसारचक्रे सम्यक् बध्नन्ति ।
एते सर्वेऽपि पाशाः आत्मज्ञानेन छिद्यन्ते ॥
<DOC_END>
<DOC_START>
पराञ्चि खानि व्यतृणत् स्वयम्भूः, तस्मात् पराङ् पश्यति नान्तरात्मन् । काठकोपनिषत् २-१-१
परमेश्वरः इन्द्रियाणि पराङ्मुखान्येव सृष्टवानस्ति । तस्मादेव हेतोः सर्वः पुरूषः
परागेव पश्यति, न तु अन्तरात्मानम् ॥
आत्मा न इन्द्रियग्राह्यः, सूक्ष्मत्वात् । बहिर्मुखानि इन्द्रियाणि, केवलानि स्थूलानि
वस्तूनि गृह्णन्ति । कुत एतत् इन्द्रियाणां सृष्टिरेव एवम्, तेषां रचना एव एवमस्ति,
इन्द्रियाणां स्वभाव एव एषः ॥
तस्मात् नेत्र-श्रोत्र-घ्राण –जिह्वा – चर्माख्यानि पञ्च ज्ञानेन्द्रियाणि इमानि, बाह्यानि
रूपशब्दवासनारसस्पर्शाख्यानि वस्तूनि जानन्ति । एतानि वस्तूनि स्थूलाः पदार्था
भवन्ति । स्थूलान् पदार्थान् विज्ञातुम् इन्द्रियाणि समर्थानि भवेयुः, नतु इन्द्रियैः
आत्मानं द्र्ष्टुं शक्यते । बहिर्मुखानाम् इद्रियाणां स्वभाव एव एषः। तस्मात्, पराग्भूतानि
इन्द्रियाणि विहाय धीरैः अध्यात्मसाधकैः सुसंस्कृतेन अन्तरिन्द्रियेण अन्तः करणेन
आत्मानं ज्ञातुं प्रयतितव्यम् । शास्त्राचार्योपदेशश्रवणेन विचारेण विवेकेन आत्मा विज्ञातव्यः ॥
<DOC_END>
<DOC_START>
यत् तदद्रेश्यम् अग्राह्यम् अगोत्रम् अवर्णम् अचक्षुः श्रोत्रं तदपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद् भूतयोनिं परिपश्यन्ति धीराः ॥ मुण्डकोपनिषत् १-१-६
अद्रेश्यम्, अग्राह्यम्, अगोत्रम्, अवर्णम्, अचक्षुः श्रोत्रम्, अपाणिपादम्, नित्यम्,
विभुम्, सर्वगतम्, सुसूक्ष्मम्, अव्ययम्, जगत्कारणाभूतं यत् तदेव अक्षरम् ।
इदम् अक्षरं धीराः सर्वत्र पश्यन्ति ॥
उपनिषत्सु प्रतिपादितस्य अक्षरस्य स्वरूपं धैर्येण उपदिशति अयं मन्त्रः । पुराणेषु
उपदिष्टानां देवतानां शरीरेंद्रियाणि पत्नीपुत्रादयश्च विद्यन्ते, न तु वेदान्तप्रतिपाद्यस्य
परस्य ब्रह्मणः । वेदान्तेषु अक्षरम् इत्येव तु कथ्यते ब्रह्म ॥
इदम् अक्षरम् इन्द्रियप्रमाणागोचरं कर्मेन्द्रियाविषयं च भवति । एतदक्षरम् अगोत्रम् ।
अकार्यम् अकारणं च अक्षरम् । इन्द्रियरहितम् अन्तः करणरहितं च अक्षरम् । व्यापकं
सर्वगतं सुसूक्ष्मम् अव्ययं च अक्षरम् । आत्मत्वेन एददक्षरं ये जानन्ति ते एव ज्ञानिनः ।
<DOC_END>
<DOC_START>
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति, आत्मनस्तु कामाय
सर्वं प्रियं भवति । बृहदारण्यकोपनिषत् २-४-५
अरे मैत्रेयि, अस्मिन् प्रपञ्चे न किञ्चित् वस्तु स्वस्य सुखाय अस्माकं
प्रियं भवति । आत्मनः कामायैव हि सर्वं प्रियं भवति ॥
सर्वः पुरुषः अनेकान् पदार्थान् कामयते प्रीणाति च । पतिः भार्यां, पत्नी
भर्तारं, पितरौ स्वपुत्रान्, पुत्राश्च स्वपितरौ प्रीणन्ति इति लोके वयं पश्यामः ।
एवमेव मानवाः समीपस्थान् बान्धवान्, सेवकान्, गृहक्षेत्रादीनि, वाहनयानादीनि च
प्रीणन्ति इति सर्वत्र पश्यामः ।
एतान् पदार्थान् वयम् अस्माकं सुखायैव प्रीणीमः, न तु तेषां पदार्थानां
सुखाय । पतिर्हि आत्मसुखायैव पत्नीं प्रीणाति । यदि कदाचित् तस्याः
पत्न्याः आत्मनः दुःखमेव भवेदिति जानाति, तदा तां पत्नीं सः दूरीकरोति
खलु सर्वथापि अयं प्रपञ्चः आत्मार्थ एव इति निर्णीयते । कोऽयमात्मा
इति वेदान्ताः विचार्य उपदिशन्ति । सर्वेषामपि आनन्दस्वरूपभूत एवायमात्मा ॥
<DOC_END>
<DOC_START>
यथा पृथिव्याम् ओषधयः सम्भवन्ति ।
तथाऽक्षरात् सम्भवतीह विश्वम् ॥ मुण्डकोपनिषत् १-१-७
यथा ऊर्णनाभिः स्वयमेव स्वस्मादेव तन्तून् सृष्ट्वा अनन्तरं स्वस्मिन्नेव
उपसंहरति, यथा च पृथिव्याम् ओषधिवनस्पतयः सम्भवन्ति, यथा च जीवतः
पुरुषात् केशलोमानि जायन्ते, एवमेव परस्मात् अक्षरात् इदं विश्वं सम्भवति ॥
“अक्षरात् इदं विश्वं सम्भवति” इतिसन्देशं सुन्दरतया दृष्टान्तत्रयेण अयं मन्त्रः
लूताकीटः उपादानकारणान्तरम् अनपेक्ष्य स्वयमेव तन्तून् सृष्ट्वा ततः स्वस्मिन्नेव
यथा उपसंहरति, तथैव परमात्मा स्वयमेक एव अस्य विश्वस्य उपादानं निमित्तं
च कारणम् । भूमेः जाताः ओषधयः भूमावेव यथा लीयन्ते, तथैव ब्रह्मणः जातमिदं
जगत् ब्रह्मण्येव लीयते । जीवतः मनुष्यात् यथा केशलोमादीनि जायन्ते तद्वदेव
चिन्मात्राद् ब्रह्मणः जगदिदं जायते इत्यर्थः ॥
<DOC_END>
<DOC_START>
अभयं वै जनक प्राप्तोसि इति होवाच भगवान् याज्ञवल्क्यः । बृहदारण्यकोपनिषत् ४-२-४
हे जनकराज, त्वम् इदानीम् अभयं प्राप्तवानसि इति भगवान्
जनकराजः याज्ञवल्क्यात् आत्मतत्त्वं सम्यक् विज्ञातवान्, तथा च
याज्ञवल्क्याय स्वगुरवे श्रद्धाभक्तितः गुरुदक्षिणां समृद्धां ददाति
जनकराजः । इदानीं जनकस्य मनसि आत्मतत्त्वस्वरूपविषये
नास्ति संशयः । जनकस्य प्रसन्नं मुखारविन्दं पश्यतः गुरोः
याज्ञवल्क्यस्य महान् आनन्दः सञ्जातः । तदा गुरुः स्वशिष्यं
प्रति “हे जनक, त्वम् इदानीम् अभये ब्रह्मणि प्रतिष्ठितोऽसि”
“अभयप्राप्तिः” नाम “ब्रह्मनिष्ठता” इत्यर्थः । अद्वितीयं परं ब्रह्मैव
हि अभयं नाम । ब्रह्मज्ञानेन ब्रह्मप्राप्तिः, अभयज्ञानेन अभयप्राप्तिः ।
परमार्थतस्तु अभयज्ञानमेव ब्रह्मप्राप्तिः । वेदान्तेषु ब्रह्मज्ञानमेव
ब्रह्मप्राप्तिः । ज्ञानमेव हि मुक्तिः । अज्ञानेन भयम्, सुज्ञानेन अभयम् ।
सद्गुरूपदेशश्रवणेन ब्रह्मज्ञानं मुक्तिश्च लभ्यते ॥
<DOC_END>
<DOC_START>
आपः स्रोतस्सु अरणीषु चाग्निः ।
सत्येनैनं तपसा योऽनुपश्यति ॥ श्वेताश्वतरोपनिषत् १-१५
तिलेषु तैलमिव, दघ्नि सर्पिरिव, स्रोतस्सु आप इव, अरणीषु
अग्निरिव, आत्मनि असौ आत्मा सत्येन तपसा च गृह्यते ।
स्वस्मिन्नेव विद्यमानमत्मानं द्र्ष्टुं साधकेन क्रियमाणं साधनं
नाम सत्यवचनं तपश्च । सत्यं नाम सर्वथा अनृतवर्जनम् ।
तपो नाम इन्द्रियनिग्रहः आत्मचिन्तनं च । नैजस्वरूपानुचिन्तनमेव
अत्र तपः । एताभ्यां साधनाभ्याम् आत्मनो दर्शनं भवति ॥
एतत्प्रतिपादनाय दृष्टान्तचतुष्टयम् दीयते । तैलम्, सर्पिः,
जलम्, अग्निश्च दृष्टान्ताः । तिलेषु पिंडितेषु तैलम्, दघ्नि
मथिते सर्पिः, भूम्यां दीर्घं खनितायां जलम्, काष्ठे घर्षिते
अग्निः यथा आविर्भवन्ति, तथैव आत्मस्वरूपमननरूपेण
तपसा आत्मनि चिन्तिते सति आत्मदर्शनं भवति ॥
<DOC_END>
<DOC_START>
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । काठकोपनिषत् १-२-२३
अयमात्मा प्रवचनेन न लभ्यः, मेधया न लभ्यः, बहुना श्रुतेनापि न लभ्यः ।
बुद्धिसामर्थ्येन मेधाशक्तिबलेन च अयं प्रचण्डमानवः, भूमिपर्वतसमुद्रसूर्यचन्द्रनक्षत्रादीनां
रहस्यानि अन्विष्यन् यशस्वी भवति । वेदशास्त्रपुराणानाम् अध्ययनेन योगानुष्ठानस्य
बलेन च जन्मान्तरलोकान्तरविचारान् अयं बुद्धिमान् मानवः विजानाति । अष्टसिद्धीश्च
अस्तु, सन्तोषः । चतुर्वेदाध्ययनमात्रेण नात्मा ज्ञातो भवति । केषाञ्चित् विदुषां
मेधासामर्थ्यं समृद्धं भवति । एकधा पठितं श्रुतं वा विषयम् आमरणं स्मरन्ति केचन
पण्डिताः । एतेषाम् “एकसन्धिग्राहिणः” इति नामधेयम् । एतेनापि बलेन आत्मानं
ज्ञातुं न शक्यते । अपरे पुनः तर्कमीमांसा-व्याकरण-ज्यौतिष्यागमादिशास्त्रप्रवीणाः
सन्तः प्रवचनपटवो भवन्ति । तावता किं वा फलम् नैतेनापि बलेन आत्मानं ते
<DOC_END>
<DOC_START>
यः पृथिव्यां तिष्ठन्, पृथिव्याः अन्तरः, यं पृथिवी न वेद
यस्य पृथिवी शरीरं, यः पृथिवीमन्तरो यमयति, एष ते
आत्मा अन्तर्यामी अमृतः । बृहदारण्यकोपनिषत् ३-७-३
यः पृथिव्यां तिष्ठन्, पृथिव्याः अन्तरः, यं पृथिवी न वेद,
यस्य पृथिवी शरीरम्, यः पृथिवीम् अन्तरो यमयति, एष ते
अस्मिन् मन्त्रे अत्यन्तं सुन्दरतया अन्तर्यामिणः पञ्च लक्षणानि
उपदिष्टानि सन्ति । तानि च –
१. पृथिव्याः आधारत्वेन स्थितः अन्तर्यामी
२. पृथिव्याः अन्तः निहितः अन्तर्यामी
एवमेव पञ्चापि भूतानि, सकलानपि प्राणिनः संव्याप्य तेषां नियन्ता
यः स एव आत्मा “अन्तर्यामी” भवति ॥
<DOC_END>
<DOC_START>
आसप्तमान् तस्य लोकान् हिनस्ति । मुण्डकोपनिषत् १-२-३
अविधिकर्माणि कुर्वन् आत्मनः आसप्तमान् लोकान् हिनस्ति ॥
शास्त्रेषु गृहस्थस्य नित्याग्निहोत्रं विहितम् अस्ति । गृहस्थेन प्रतिदिनम्
अवश्यं कर्तव्यमेव अग्निहोत्रं कर्म । अग्निहोत्रेण प्रत्यहं सम्यक् अनुष्ठितेन
अनुष्ठातुः मरणानन्तरं स्वर्गलोकप्राप्तिरेव भवति । यथाशास्त्रं सम्यक्
अननुष्ठितेन तु अग्निहोत्रेण कर्मणा न केवलं अग्निहोत्रिणः यजमानस्य
अनिष्टमेव फलं भवति इति, किं तु सः पूर्वापरान् स्वान् सप्त लोकान्
हिनस्ति, नरकान् लोकान् गमयति च । अविधिकर्मणां फलमिदम् ॥
शास्त्रीयकर्मभिः शास्त्रोक्तविधानेन श्रद्धया अनुष्ठीयमानैः यजमानस्य इष्टानि
फलानि भवन्ति । यथाविधि अननुष्ठीयमानैस्तु तैरेव कर्मभिः न केवलम्
इष्टं फलं न भवतीति, किं तु विरूद्धान्येव फलानि भवन्ति । अविधिना कर्म
कुर्वाणो मानवः प्रपितामह पितामहपितृन् पुत्रपौत्रप्रपौत्रान् आत्मानं च नरके
पातयति । तस्मात् अविधिकर्माणि भयङ्कराणि भवन्ति इत्यर्थः ॥
<DOC_END>
<DOC_START>
वैशिष्ट्यम् – अस्मिन् श्लोके प्रथमपङ्क्तौ ”’इ”’ इत्येषः स्वरः,
द्वितीयपङ्क्तौ ’अ’ इत्येषः स्वरः एव उपयुक्तः अस्ति ।
अर्थः – हे भगवन् ईश्वर, त्रिणेत्रधारि, स्वरूपज्ञ, क्षितिमापक,
क्षितिनाशक, अष्टगुणितायाः अतिमानवशक्तेः कुबेरस्य नवविधसम्पत्तेश्च
अनुभोक्ता, दक्षकामदेवयोः विध्वंसक, हे देव, मां स्मरतु ।
<DOC_END>
<DOC_START>
वैशिष्ट्यम् – ३२ वर्णैः युक्तः अयं श्लोकः य इत्येकेन व्यञ्जनेन
आ इत्येकेन एव स्वरेण विरचितः अस्ति ।
श्लोकस्य सुष्ठु अवगमनाय अत्र पदविभागः, अन्वयश्च दत्तः अस्ति ।
यायाया, आय, आयाय, अयाय, अयाय, अयाय, अयाय, अयाया, यायाय,
अर्थः – भगवतः विभूषके इमे पादुके, ये उत्तमस्य शुभस्य सर्वस्य
प्राप्तौ सहकुरुतः, ये ज्ञानदायिके, ये (भगवत्प्राप्तेः) इच्छां जागरयतः,
ये च अरिनाशके, ये गमनागमनावसरे उपयुज्येते, ययोः साहाय्येन जगतः
सर्वाणि स्थलानि गन्तुं शक्यानि, ते स्तः भगवतः विष्णोः पादुके ।
<DOC_END>
<DOC_START>
कलया कलावतोऽपि हि कलयति कलितास्त्रतां मदनः ।
कश्चन विशिष्टः आसक्तिकरः शब्दप्रभावः अनुभूयते ।
स्वीयसुमधुरेण कण्ठेन मनोहरस्वराणि वायुमण्डले यदा पूरयन्ति तदा
कामदेवः मदनः शशेः कलाः अपि स्वीयसुन्दरास्त्रत्वेन उपयुज्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गॆ 'अमिता'चित्रकाव्यानि विद्यन्तॆ |
<DOC_END>
<DOC_START>
अस्मिन्नु खलु अक्षरे गार्गि आकाशः ओतश्च प्रोतश्च । बृहदारण्यकोपनिषत् ३-८-११
हे गार्गि, अस्मिन् एव खलु अक्षरे आकाशः ओतश्च प्रोतश्च ।
आकाशो नाम प्रधानादपि सूक्ष्मतरम् अव्याकृततत्त्वम् । त्रिगुणात्मकं प्रधानमेव सूक्ष्मं तत्त्वम् ।
अव्याकृताकाशं तु प्रधानस्यापि कारणभूतं तत्त्वम् । नामरूपरहितम् इन्द्रियागोचरम्, सूक्ष्मातिसूक्ष्मम्
आकाशम्, अव्याकृतम्, बीजम्, अव्यक्तम्, सुप्तिः इत्यादिशब्दैः अभिधीयते । अनुमानगम्यं, शास्त्रगम्यं
चैतत् । नैव त्वनुभवगम्यम् । इदमेव हि अव्याकृताकाशम् नाम ॥
एतादृशाव्याकृतस्यापि कारणभूतम् अक्षरं कथं भवेत् न क्षरतीति अक्षरं परं ब्रह्म । अक्षरे एव
खलु इदम् अव्याकृताकाशम् ओतं प्रोतं च । न हि अक्षरं विहाय अव्याकृताकाशं जीवितुम् अर्हति ।
अक्षराधीनमेव तु अव्याकृताकाशस्य अस्तित्वम् । चिन्मात्रस्वरूपम् अक्षरमेव हि सर्वव्यापि चराचरात्मकस्य
विश्वस्य आधारभूतम् आस्पदभूतं चास्ति । देशकालयोरपि कारणभूतम् इदमक्षरम् । एतत्प्रतिपादनायैव
<DOC_END>
<DOC_START>
ते तमर्चयन्तः, त्वं हि नः पिता योऽस्माकम् अविद्यायाः परं पारं
शिष्याः तं पिप्पलादमहर्षिम् अर्चयन्तः “त्वमेव नः पिताऽसि, यतो हि अस्माकं
ब्रह्मविद्याम् उपदिश्य, अस्मान् अविद्यासागरात् परं तारं तारयसि” इति
वेदोपनिषत्सु गुरुशिष्यसम्बन्धः सुन्दरतया निरूपितोऽस्ति । गुरौ शिष्याणां
भक्तिं शिष्येषु गुरुवात्सल्यं च वयमत्र पश्यामः ॥
प्रकृते मन्त्रे, सुकेशाभारद्वाजादयः षट् शिष्याः भक्त्या पिप्पलादमहर्षिम्
उपसन्नाः सन्तः सद्गुरं नमस्कृत्य “परब्रह्मविद्यां कृपया उपदिशतु भवान्” इति
प्रार्थितवन्तः । तथैव आत्मज्ञानोपदेशेन आत्मानं कृतार्थान् कृतवन्तं सद्गुरुं ते
शिष्याः कृतज्ञता भक्त्या नमस्कृतवन्तः । एवं कृतार्थाः सन्तः शिष्याः स्वगुरुं
“त्वमेव नः पिता, माता, सर्वमपि त्वमेव; अस्मान् अविद्यासागरात् तारयित्वा
कृतार्थान् कृतवानसि, अतः तुभ्यमस्माकं कृतज्ञताभक्तिपूर्वकाः अनन्ताः प्रणामाः”
इति वन्दन्ते । अयमेव खलु भारतीयसंस्कृतौ सुन्दरः गुरुशिष्यसम्बन्धः ?
<DOC_END>
<DOC_START>
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । बृहदारण्यकोपनिषत् २-४-५
अरे मैत्रेयि आत्मा एव द्रष्टव्यः । आत्मा एव श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ॥
अत्यन्तप्रसिद्धो मन्त्रोऽयम् अत्यन्तमुख्यश्च जिज्ञासूनाम् । आत्मा एव ज्ञातव्यः इति
उपदिशति अयं मन्त्रः । आत्मज्ञानादेव मुक्तिः आत्मज्ञानादेव अविद्यानिवृत्तिश्च ।
अतः विवेकिना आत्मज्ञानमेव सम्पादनीयम् ॥
अस्तु आत्मज्ञानप्राप्त्यै साधकैः किं कर्तव्यम् श्रवण-मनन-निदिध्यासनानि कर्तव्यानि ।
श्रवण-मनन-निदिध्यासनानि आत्मज्ञानस्य साक्षात् साधनानि भवन्ति । श्रवणं नाम सद्गुरोः
वेदान्त सन्देशानां श्रद्धया श्रवणक्रिया । मननं नाम श्रुतस्यैव युक्त्या अनुसन्धानम् । निदिध्यासनं
नाम तस्यैव पुनः अनुभवे स्थापनम् अनुभवे पर्यवसानं च । एतानि त्रीण्यपि साधनानि
आत्मज्ञानप्राप्त्यै प्रधानानि भवन्ति । अतः श्रवणमनननिदिध्यासनैः साधनैः उत्तमजिज्ञासूनाम्
आत्मज्ञानम् अस्मिन्नेव जन्मनि लभ्यते । तस्मात् आत्मज्ञानलाभाय साक्षात्साधनानि एतानि भवन्ति ॥
<DOC_END>
<DOC_START>
सदेव सोम्य इदमग्र आसीत् एकमेव अद्वितीयम् । छान्दोग्योपनिषत् ६-२-१
हे सोम्य, श्वेतकेतो, इदं जगत् अग्रे एकमेव अद्वितीयं सदेव ब्रह्म आसीत् ।
न शून्यात् इदं जगत् उत्पन्नम् । किं तु सतः जातमिदं विश्वम् । ‘सत्’ नाम ‘अस्तिता”
इत्यर्थः । सत एव नामान्तरं “ब्रह्म” । ब्रह्मैव अग्रे आसीत् । ब्रह्म च एकमेव अद्वितीयम् ।
अद्वितीयं नाम द्वितीयरहितम् । परब्रह्मणा सह न किञ्चिदन्यत् आसीत् इत्यर्थः ॥
सत्स्वरूपे परस्मिन् ब्रह्मणि सजातीयभेदो वा विजातीयभेदो वा स्वगतभेदो वा नैवास्ति ।
ब्रह्मैव एकमेव आसीत्, अद्वितीयम् आसीत्, ब्रह्म परिपूर्णमासीत् । परमार्थतस्तु इदानीमपि
तद्ब्रह्म परिपूर्णमेवास्ति । परस्मिन् ब्रह्मणि तु न कोऽपि विशेषोऽस्ति । एकस्वरूप एव समुद्रः
वीचयः, तरङ्गाः, फेनानि, बुद्बुदाः इति यथा व्यवह्रियते; तथैव एकमेव परं ब्रह्म जगत् इति
अज्ञानिभिः व्यपदिश्यते । विद्यमानं तु परं ब्रह्म एकमेव । अज्ञानेनैव तु बह्मणि नामरूपाणि
<DOC_END>
<DOC_START>
अस्थूलम् अनणु, अह्रस्वम् अदीर्घम्, अलोहितम्, अस्नेहम्, अच्छायम्, अतमः
अवायु, अनाकाशम्, असङ्गम्, अरसम्, अगन्धम्, अचक्षुष्कम्, अश्रोत्रम्, अवाक्
अमनः, अतेजस्कम्, अप्राणम्, अमुखम्, अमात्रम्, अनन्तरम्, अबाह्यम् । बृहदारण्यकोपनिषत् ३-८-८
याज्ञवल्क्यस्य उपदेशोऽयम् । अक्षरस्य स्वरूपम् उपदिशति अयं मन्त्रः । अक्षरं न स्थूलम्,
न अणु, न ह्रस्वम्, न दीर्घम्, न लोहितम्; स्नेहरहितम्, न छायम्, न तमः; वायुरहितम्,
आकाशारहितम्, सङ्गरहितम्, रसरहितम्, गन्धरहितम्, नेत्ररहितम्, श्रोतृरहितम्,
वागिन्द्रियरहितम्, मनोरहितम्, तेजोरहितम्, प्राणरहितम्, मुखरहितम्, मात्रारहितम्,
अयमेकः प्रसिद्धो मन्त्रः । उपनिषत्सु प्रतिपादितस्य परस्य ब्रह्मणः स्वरूपं बहुसुन्दरतया
प्रतिपादयति अयं मन्त्रः । आत्मैव अक्षरम्, अक्षरमेव च परं ब्रह्म । ब्रह्मैव आत्मा ।
तदेतदक्षरं सकलोपाधिविवर्जितं भवति । इन्द्रियरहितं पञ्चभूतसम्बन्धरहितं निरुपाधिकं
तत्त्वम् अक्षरम् । एतद्यो वेत्ति स एव आत्मज्ञानी भवति ॥
<DOC_END>
<DOC_START>
अत्रायं पुरुषः स्वयंज्योतिर्भवति । बृहदारण्यकोपनिषत् ४-३-९
अत्र स्वप्ने अयम् आत्मा पुरुषः स्वयंज्योतिर्भवति ।
आत्मा स्वप्नकाले स्वयंज्योतिः भवति । स्वयंज्योतिर्नाम स्वयंप्रकाशस्वरूपः ।
अनितरसहायः सन् आत्मा स्वयमेव सर्वमपि भवति खलु यद्यपि आत्मा
सदा स्वतः स्वरूपेण ज्योतिस्स्वरूप एव तथापि तत् स्वरूपम् अस्माकं स्वप्ने
विशेषतो अनुभूयते । आत्मा तु जागरिते स्वप्ने सुषुप्तौ च सर्वदा स्वयंज्योतिः
स्वरूप एव भवति । अपि तु स्पष्टतया एतादृशानुभवो जागरिते नास्माकं गोचरो
भवति । यतो हि जागरिते इन्द्रियाणि अन्तः करणं च कार्याणि कुर्वन्ति ।
आत्मा अपि तैः सह संहत इव दृश्यते ॥
स्वप्ने तु आत्मा एक एव भवति । तत्र इन्द्रियमनोबुद्धयः नैव विद्यन्ते । तथापि
आत्मा एक एव स्वयमेव सर्वं भूत्वा सर्वं प्रकाशयति खलु अयं स्वप्नानुभवः
सार्वत्रिकः सार्वजनीनश्च । आत्मनः इमं स्वयंमहिमानं स्वप्ने द्र्ष्टुं सर्वेषामपि
शक्यते । परमार्थदृष्ट्या तु त्रिष्वपि स्थानेषु आत्मा स्वयंज्योतिः स्वरूप एव भवति ॥
<DOC_END>
<DOC_START>
सभासमाना सहसापरागात् सभासमाना सहसापरागात् ॥
२. सभासमाना (भासमानैः सह वर्तत इति) सहसा
(रजः कणात्) अतति (प्राप्नोति – परागात्)
३. भा (कान्तिः) समाना (सरूपाः, तैः सह वर्तते) सभासमाना।
इति साः, तैः सह वर्तत इति) सहसा । अपरागात् (अपरस्मात् पर्वतात्)
४. एवं भूता असमाना – सभा – सहसा – परागात् (परागता)
विभक्तुम् अशक्येन बन्धेन युक्ता जनसभा तस्मात् पर्वतात् वेगेन दूरङ्गता । इयं सभा
कान्त्या शोभमाना, अभिमानयुता, आमोदयुता, अरिसंहरणे कृतसङ्कल्पा च आसीत् । विद्वद्भिः
शोभमाना च वर्तते स्म । मार्गशीर्षमासः इत्यतः वातावरणं धूल्या युक्तमासीत् । समानकान्त्या
युतैः अरिसंहारकैः शोभायमानां सभां प्रति उत्साहेन आगच्छतां जनानां कारणतः उत्पन्ना सा धूलिः ।
<DOC_END>
<DOC_START>
तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् ।
बाल्यं च पाण्डित्यं च निर्विद्य अथ मुनिः, अमौनं च मौनं
च निर्विद्य अथ ब्राह्मणः ॥ बृहदारण्यकोपनिषत् ३-५-१
तस्मात् साधकः ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन स्थातुम्
इच्छेत् । बाल्यं च पाण्डित्यं च निर्विद्य अथ मुनिः । अमौनं
च मौनं च निर्विद्य अथ ब्राह्मणो भवति ॥
साधको जिज्ञासुः सद्गुरुभ्यो वेदान्तवाक्यार्थविचारं कुर्वन् पाण्डित्यं
सम्पादयेत् । अत्र पाण्डित्यं नाम आत्मज्ञानमेव । आत्मज्ञानमेकमेव
हि परमार्थतः पाण्डित्यम् । देहादिभ्यः विलक्षणः असंसारी आत्मैवाहमस्मि
इति दृढनिश्चयो हि पाण्डित्यम् । अनेन पाण्डित्येन सहजं विद्याबलं
जायते । कामकर्मपाशैः अनाकृष्टं हि बलमेव अत्र बलं भवति । इदं
बलं ब्रह्मविद्यया एव प्राप्यते ॥
ततः अमौनं नाम पाण्डित्यबाल्ये । मौनं नाम अनात्मवस्तु तिरस्कारं
च निर्विद्य सः कृतार्थ एव भवति । एतादृश एव अन्वर्थ ब्राह्मणः ।
ब्रह्मज्ञानी एव निजब्राह्मणः । ब्रह्मज्ञानेन सर्वैरपि मानवैः सम्पाद्यमिदं
<DOC_END>
<DOC_START>
प्लवा ह्येते अदृढा यज्ञरूपाः । मुण्डकोपनिषत् १-२-७
यज्ञयागादिकर्मरूपाः एते प्लवाः अदृढाः ।
अस्मिन् जन्मजरामरणरूपे संसारसागरे पतिताः मानवाः ।
अस्मात् सागरात् आत्मानं तारयितुं दृढाः प्लवा एव अपेक्षिताः ।
स प्लवो नाम आत्मज्ञानमेव । वेदान्तोपदिष्टेन आत्मज्ञानमात्रेणैव
अस्मात् दुःखरूपात् संसारात् ऊर्ध्वम् आगत्य मोक्षं प्राप्य मानवः
कृतार्थो भवेत् । आमज्ञानविहीनः सन् केवलकर्मोपासननिष्ठश्चेत्
तावता संसारसागरं नूनमपि नैवासौ तरेत् ॥
इयं मुण्डकश्रुतिः यज्ञयागादीनि कर्माणि ”अदृढाः प्लवाः” इति
उद्घोषयति । केवलकर्मभिः अभ्युदयफलानि लभ्येरन्, न तु
मुक्तिः लभ्येत । फलप्राप्त्यर्थं हि सर्वे मानवाः सर्वाणि कर्माणि
कुर्वते । केवलकर्मनिष्ठस्य विवेको वा वैराग्यं वा नैव लभ्यते ।
दूरत एव तत्त्वविचारः । अस्य आत्मज्ञानं वा मोक्षो वा लभ्यते
किम् नैव, नैव । मानवेन विवेकिना विचारपरेण भाव्यम्, ततः
आत्मज्ञानप्राप्त्यर्थं मानवेन धीरेण भाव्यम् इत्याशयः ॥
<DOC_END>
<DOC_START>
यो वा एतदक्षरं गार्गि अविदित्वा अस्मिन् लोके जुहोति यजते…
अन्तवदेव अस्य तद्भवति । बृहदारण्यकोपनिषत् ३-८-१०
हे गार्गि, एतदक्षरम् अविदित्वा यो मानवः, अस्मिन् लोके जुहोति,
यजते वा तत् तस्य अन्तवदेव भवति ।
आत्मैव अक्षरम्, अविनाशि परब्रह्मैव अक्षरम् । एतादृश आत्मविदेव
आत्मज्ञानी भवति । एतस्माद् आत्मज्ञानादेव संसारनिवृत्तिः मुक्तिप्राप्तिश्च ।
एतमात्मानं विदित्वैव मानवजन्म सार्थकं भवति, नान्यथा । आत्मज्ञानम्
एकं विहाय सर्वस्मिन् इतरस्मिन् वस्तूनि ज्ञाते, कृते, प्राप्तेऽपि तत्
आत्मज्ञानम् अप्राप्य केवलं देवताराधनतत्परमात्रेण कृतार्थो न भवति ।
शास्त्रोक्तैः होमहवनयज्ञयागदानतप आदिभिः साधनैः यथाविधि
अनुष्ठितैरपि, तावन्मात्रेण मुक्तिः प्राप्यते किम् नैव प्राप्यते ।
शास्त्रीयकर्मभिः समनुष्ठितैः तानि तानि फलानि लभ्येरन् । तानि
कर्मफलानि तु अन्तवन्ति, अनित्यान्येव भवन्ति इत्येतत् ज्ञानिपुङ्गवस्य
<DOC_END>
<DOC_START>
अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति । काठकोपनिषत् १-२-१२
स्वयंप्रकाशम् आत्मानम् अध्यात्मयोगेन विदित्वा, धीरः सन्
प्रतिपुरुषं जन्मप्रभृति मरणपर्यन्तं सुखदुःखानुभवः पौनः पुन्येन
भवत्येव । इष्टप्राप्तौ सुखम्, अनिष्टप्राप्तौ दुःखम् । अयं सार्वत्रिकः
सार्वजनीनः सहजः अपरिहार्यश्च महारोगः । सुखानन्तरं दुःखम्,
दुःखानन्तरं सुखम् । एवं सुखदुःखप्रवाहापतितो जन्तुरेव नास्ति ।
सर्वेऽपि प्राणिनः सुखदुःखभाजो भवन्ति ॥
तर्हि ईदृशानां सुखदुःखानाम् अन्तो नाम नास्त्येव किम् अस्त्येव
अन्तः । कथम् आत्मज्ञानेन । आत्मानं विवेकेन सम्यक् ज्ञात्वा
सद्य एव सुखदुःखानां सम्बन्धः, जन्ममरणानां च प्रवाहः शान्तो
भवति । आत्मा कथं ज्ञातव्यः अध्यात्मयोगेन । अध्यात्मयोगो
नाम अविद्याकल्पितात् अनात्मभूतात् देहादेः आत्मानं विविच्य
विवेकेन अन्तरन्तः प्रवेशः । एवम् अध्यात्मयोगेन आत्मज्ञानं लभ्यते ।
<DOC_END>
<DOC_START>
सन्मूलाः सोम्य इमाः सर्वाः प्रजाः सदायतनाः
हे सोम्य, श्वेतकेतो, इमाः सर्वाः प्रजाः सन्मूलाः, सदायतनाः,
छान्दोग्योपनिषदि प्रसिद्धोऽयं मन्त्रः । पित्रा उद्दालकेन स्वप्रियपुत्रं
श्वेतकेतुं प्रति उपदिष्टोऽयम् मन्त्रः । सर्वासाम् उपनिषदां
सन्देशसारभूतोऽयं मन्त्रः । वेदान्तदर्शनस्य विशेषं महत्त्वं
इमाः सर्वाः प्रजाः सत एव आगताः । अत्र प्रजा इति न केवलं
मनुष्याः, किन्तु सर्वेऽपि प्राणिनः । स्थावरजङ्गमात्मकाः इमे
सर्वेऽपि प्राणिनः सद्रूपात् ब्रह्मण एव जाताः, ब्रह्मण्येव जीवन्तः,
अन्ते ब्रह्मण्येव लीयन्ते च । इदं जगत् सदा सद्रूपमेव ब्रह्म ॥
घटाकाशो महाकाशादेव आगत्य, महाकाशे एव स्थित्वा, महाकाशे
एव लीयते च । उत्पत्तिस्थितिलयकालेषु घटाकाशः महाकाश एव
यथा, एवमेव जगदिदं सर्वं ब्रह्मैव । सद्रूपं ब्रह्म विहाय प्राणिनो
वा जगद्वा नैव सन्ति । इयानेव सर्ववेदान्तानां सन्देशसारः ॥
<DOC_END>
<DOC_START>
अदृष्टो द्र्ष्टा, अश्रुतः श्रोता, अमतो मन्ता
अविज्ञातो विज्ञाता । बृहदारण्यकोपनिषत् ३-७-२३
आत्मा अदृष्टोऽपि द्रष्टा, अश्रुतोऽपि श्रोता, अमतोऽपि मन्ता,
आत्मानं परस्परविरुद्धतया उपदिशतीव अयं मन्त्रो दृश्यते ।
तथा नास्ति । जागरूकतया अस्य मन्त्रस्य अर्थो अनुसन्धेयः ।
आत्मा अदृष्टः, अपि तु द्रष्टा । तथा अश्रुतः, अपि तु श्रोता
अमतः, अपि तु मन्ता । अविज्ञातोऽयमात्मा, अपि तु विज्ञाता ॥
दृष्टो नाम इन्द्रियैर्वा इतरप्रमाणैर्वा ग्राह्यः इत्यर्थः । अदृष्टो
नाम न दृष्टः । द्रष्टा नाम पश्यति इति । आत्मा यद्यपि
चक्षुषा न गृह्यते, तथापि स्वयमेव चक्षुरवभासकः इत्यर्थः ।
श्रोत्रेण यद्यपि न विषयीक्रियते आत्मा तथापि श्रोत्रावभासकः
इत्यर्थः । मनसा वा बुद्ध्या वा न विषयीक्रियते आत्मा, आत्मैव
मनोबुद्धिसाक्षिभूतः । न केनापि प्रमाणेन विषयीक्रियमाणोऽप्यात्मा
स्वयं सर्वकरणावभासकः प्रत्यगात्मा सन् अमृतोऽयम् इत्यर्थः ॥
<DOC_END>
<DOC_START>
नैषा तर्केण मतिरापनेया । काठकोपनिषत् १-२-९
एषा ब्रह्मात्मविद्या तर्केण न आपनेया ।
मनुष्यो अतीव बुद्धिमान् महामेधावी च । स्वबुद्धिसामर्थ्येन
अयं प्रचण्डमानवः सर्वं साधयेत्, सर्वं कुर्यात् । तर्कबलेन
मानवः सत्यम् अनृतं साधयेत्, अनृतं च सत्यं साधयेत् ।
शुष्कतर्केण अयं मानवः आत्मनः स्वार्थं सर्वं यथेष्टं साधयेत् ॥
अपि तु शुष्केण तर्केण नायं मानवः आत्मविद्यां प्राप्नुयात् ।
बाह्यानि अनात्मवस्तूनि विवेकबुद्ध्या गृह्णीयात् । प्रत्यगात्मानम्
अवगन्तुं तु चित्तशुद्धिरपेक्ष्यते । चित्तशुद्धिप्राप्त्यै शमः दमः
उपरतिः, तितिक्षा, श्रद्धा, समाधानं च साधनानि भवन्ति ।
एतैर्हि साधनैः अन्तः करणं शुद्धं भवति । शुद्धे परिपक्वे च
अन्तः करणे आत्मनः स्वरूपम् अवभासते । इन्द्रियमनोबुद्धिप्रकाशकं
प्रत्यगात्मानम् अनुभवेनैव जानीयात्, नासौ आत्मा तु केवलेन
शास्त्रपाण्डित्येन ज्ञातुं शक्यते । अनुभवानुसारिणः श्रौततर्कस्य
साहाय्येन सद्गुरूपदेशस्य अर्थम् अवगच्छेत् । सद्गुरूपदेशं विहाय
केवलेन शुष्कतर्केण आत्मा विज्ञातुं नैव शक्यते ॥
<DOC_END>
<DOC_START>
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं
तद् परं ब्रह्म विज्ञातुं मुमुक्षुः जिज्ञासुः श्रोत्रियं ब्रह्मनिष्ठं
परब्रह्मणः तत्त्वं ज्ञातुम् इच्छुः साधकः “जिज्ञासुः” भवति ।
तत्त्वजिज्ञासायाः फलम् आत्मज्ञानमेव । ज्ञानफलमेव मोक्षः ।
सर्वथाऽपि तु कर्ममार्गात् विरक्तेन मुमुक्षुसाधकेन अवश्यमेव
कर्तव्यं साधनं नाम “ब्रह्मजिज्ञासा” ॥
ब्रह्मजिज्ञासां कर्तुमेव साधकः सद्गुरुम् उपसर्पेत् । जिज्ञासुः
स्वयमेव स्वतन्त्रतया ब्रह्मजिज्ञासां न कुर्यात्, “शास्त्रज्ञोऽपि
स्वातन्त्र्येण ब्रह्मज्ञानान्वेषणं नैव कुर्यात् इति मुमुक्षून्
बोधयन्ति भगवत्पादाचार्याः । अतः सद्गुरूपाश्रयणम् आवश्यकमेव ॥
भवतु, तादृशाः सद्गुरवः के कथं ते वर्तेरन् इति चेत्,
“श्रोत्रियं ब्रह्मनिष्ठम्” इति श्रुतिः उपदिशति । वेदान्तशास्त्रतात्पर्याभिज्ञो
हि श्रोत्रियः, ब्रह्मैवाहमस्मीति अनुभवेन विज्ञाय ब्रह्मप्रतिष्ठश्च
ब्रह्मनिष्ठः । ईदृशः सद्गुरुरेव जिज्ञासोः गतिः ॥
<DOC_END>
<DOC_START>
भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च ।
मृत्युर्धावति पञ्चम इति ॥ तैत्तिरीयोपनिषत् २-८-१
अस्य परमात्मनः भयादेव वायुः पवते, अस्य भयादेव सूर्यः उदेति, अस्य
भयादेव अग्निः इन्द्रश्च आत्मनः कार्याणि कुरुतः । मृत्युश्च परमात्मनः,
भयादेव सदा स्वव्यापारं कर्तुं धावति ॥
देवानामपि भयमस्ति, देवा अपि मानववत् स्वस्वकार्याणि कुर्वन्ति ।
देवानामपि आत्मभूतः परमात्मा । परमात्मा स्वतन्त्रः । परमात्मनः
अनुग्रहादेव सर्वेऽपि प्राणिनः स्वस्वकर्माणि नियतं कुर्वन्ति ॥
प्रकृते तु, वायुः सदा पवते, सूर्यः विश्रमाहितः सततं प्रपञ्चं प्रकाशयति,
अग्निः सततं दहति, इन्द्रः आत्मनः कर्तव्यं श्रद्धया करोति, तथा
मृत्युदेवोऽपि आत्मनः कर्तव्यं कर्म सदा कुर्वन् धावति । भगवतः
भयमेव हि एतस्य सर्वस्यापि कार्यस्य हेतुः । परमात्माधीनतया
एव हि एते सर्वे देवाः स्वकर्मनिरताः सन्ति । सर्वेषां भयहेतुरपि
स्वयं निर्भयं सर्वेषामपि प्रत्यगात्मभूतं ब्रह्म ॥
<DOC_END>
<DOC_START>
नान्योऽतोऽस्ति द्रष्टा, नान्योऽतोऽस्ति श्रोता, नान्योऽतोऽस्ति
मन्ता नान्योऽतोऽस्ति विज्ञाता । एष ते आत्मा अन्तर्यामी
अमृतः, अतोऽन्यदार्तम् । बृहदारण्यकोपनिषत् ३-७-२३
अस्मादात्मनः अन्यः द्रष्टा नास्ति, अस्मात् अन्यः श्रोता नास्ति,
अतोऽन्यः मन्ता नास्ति, अतोऽन्यः विज्ञाता नास्ति । एष एव ते
अन्तर्यामी आत्मा, अमृतः । अतोऽन्यद् आर्तम् ॥
आत्मनो भिन्नम् अन्यं जीवात्मानं निषेधति अयं मन्त्रः । अत्र
आत्मा नाम प्रत्यगात्मा चिन्मात्रस्वरूपः । आत्मा तु एक एव ।
आत्मा नाम परमार्थस्वरूप एव । आप्नोति इति आत्मा ॥
मन्ता, बुद्ध्युपाधिना विज्ञाता भवति । अयमेव अन्तर्यामी, अयमेव
सर्वेषां प्राणिनाम् आत्मा । द्रष्टृ, श्रोतृ, मन्तृ, विज्ञातृ, वक्तृ – आदिजीवरूपेणा
दृश्यमानः आत्मा अयमेव । इममेकं प्रत्यगात्मानं विहाय अन्यत्
सर्वमपि आर्तम् । आर्तं नाम अनित्यम्, असत्यम्, दुःखमेव इत्यर्थः ॥
<DOC_END>
<DOC_START>
तं त्वा ‘औपनिषदं’ पुरुषं पृच्छामि । बृहदारण्यकोपनिषत् ३-९-२६
“तम् औपनिषदं पुरुषं ब्रूहि” इति अहं त्वां पृच्छामि ।
वेदान्तप्रतिपादितस्य आत्मनः औपनिषदः पुरुषः इति नामधेयम् ।
उपनिषत्सु प्रतिपादितः आत्मा औपनिषदः । उपनिषत्सु वेदान्तेष्वेव
प्रतिबोधितः आत्मा औपनिषदः पुरुषः । न कुत्राप्यन्यत्र अयमुपदिश्यते ।
पुराणेषु उपदिष्टाः देवताः पौराणिकदेवताः इति कथ्यन्ते । इन्द्र
चन्द्र मित्र वरुणार्यमाद्याः देवाः पौराणिकाः भवन्ति । नैते “औपनिषदः
पुरुषाः” भवन्ति । पौराणिकदेवताः अनात्मभूताः सोपाधिकाः संसारिस्वरूपा
एव । औपनिषदः पुरुषः पुनः अयं निरुपाधिकः पुरुषः परिपूर्णं परं ब्रह्म ।
औपनिषदः पुरुषः निरुपाधिकः निर्विशेषः निरवयवः असंसारी प्रत्यगात्मा
परब्रह्मस्वरूपः । नामरूपक्रियासम्बन्धरहितः देशकालरहितः परिपूर्णः
प्रत्यगात्मैव औपनिषदः पुरुषः । औपनिषदात्मज्ञानादेव मुक्तिः ॥
<DOC_END>
<DOC_START>
न नरेणावरेण प्रोक्तः एषः सुविज्ञेयो बहुधा चिन्त्यमानः । काठकोपनिषत् १-२-८
अवरेणा नरेण प्रोक्तः एष आत्मा सुविज्ञेयो न भवति । यतः
अयम् आत्मा अनेकवादिभिः अनेकधा चिन्त्यमानः अस्ति ॥
“आत्मैव ब्रह्म, ब्रह्मैव आत्मा, अस्माकं पारमार्थिकं
स्वरूपमेव ब्रह्म; जीवाः नैव परमार्थतः संसारिणः; सर्वेऽपि
जीवाः तत्त्वतः अजम् अजरम् अमृतं ब्रह्मैव” इति उपनिषदः
उद्घोषयन्ति । उपनिषदाम् ईदृशान् सन्देशान् स्वयमेव
पुस्तकपठनद्वारा अवगन्तुं न शक्यते । अत एव सद्गुरून्
उपगम्य, सद्गुरुभ्य एव वेदान्तसन्देशार्थान् विजानीयात् साधकः ॥
भवतु, तादृशाः सद्गुरवः के ब्रह्मनिष्ठाः आचार्याः । विश्वविख्यातः
सन् प्रवचनपटुरपि च सन् सकलशास्त्रप्रवीणश्च सन्नपि आत्मज्ञानी
न भवेत् चेत्, तादृशः ब्रह्मविद्याचार्यो नैव भवेत् । वेदान्तसम्प्रदायवित्
ब्रह्मनिष्ठश्चेत् तादृशः एव सद्गुरुः भवेत् । अन्यथा केवलपुस्तकमस्तकविद्यासम्पन्नः
प्रवचनपटुः केवल शुष्कपण्डितः वेदान्ताचार्यो नैव भवेत् ॥
<DOC_END>
<DOC_START>
अष्टौ वसवः, एकादश रुद्राः, द्वादश आदित्याः, ते एकत्रिंशत्
इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशत् इति । बृहदारण्यकोपनिषत् ३-१-२
अष्टौ वसवः, एकादश रुद्राः, द्वादश आदित्याः, इति एते एकत्रिंशत्,
इन्द्रश्च प्रजापतिश्च – एवं त्रयस्त्रिंशत् देवा अपि ब्रह्मैव ।
त्रयस्त्रिंशत् कोटिः देवताः इति लोके सामान्यतः वदन्ति । एकैकापि
देवता एकस्याः कोटेः प्रतिनिधिभूतास्ति । अस्तु, ताः त्रयस्त्रिंशत्
देवताः काः इति चेत् उपदिशत्ययं मन्त्रः ॥
१. अष्टौ वसवः धरः, ध्रुवः, सोमः, अहः, अनिलः, अनलः
२. एकादश रुद्राः हरः बहुरूपः, त्र्यम्बकः, अपराजितः,
:वृषाकपिः, शम्भुः, कपर्दिः, रैवतः, मृगव्याधः, शर्वः, कपालिश्चेति ॥
३. द्वादश आदित्याः धाता, मित्रः अर्यमा, शक्रः, वरुणः, अंशः,
:भगः, विवस्वान्, पूषा, सविता, त्वष्टा, विष्णुश्चेति ॥
एते त्रयो गणदेवाः । इन्द्रः प्रजापतिश्चेति त्रयस्त्रिंशत् देवाः ॥
<DOC_END>
<DOC_START>
जुष्टं यदा पश्यत्यन्यमीशम् अस्य महिमानमिति वीतशोकः । मुण्डकोपनिषत् ३-१-२
संसारिव्यतिरिक्तं योगिजुष्टम् ईश्वरम्, आत्मनः महिमानं च यदा
जिज्ञासुः पश्यति सः सद्य एव शोकरहितो भवति ।
जीवात्मनः जन्मजन्मान्तरेभ्यः शोकमोहाः प्रवाहवत् भवन्त्येव ।
अत एव अस्य संसारस्य शोकमोहसागरः इति नाम। अस्मिन् मग्नस्य
जीवात्मनः अस्मात् संसारात् तरणोपायः एव न दृश्यते । अस्मिन्
मन्त्रे तु संसारसागरतरणोपायमार्गः उपदिश्यते ॥
मुमुक्षुणा जीवत्वरहितस्य असंसारिणः ईश्वरस्य स्वरूपं विवेकेन
ज्ञातव्यम् । न हि ईश्वरो नाम अत्यन्तम् आत्मनो भिन्नः ।
स्वस्य स्वरूपमेव सः । एकस्यैव आत्मनः रूपद्वयं दृश्यते ।
उपाधिरहितं प्रत्यगात्मस्वरूपं च अपरम् । इदमेव च ईश्वरस्य
स्वरूपम्, इदमेव जीवस्य परमार्थस्वरूपम् । जन्ममरणराहित्यमेव
हि आत्मनः महिमा एतद्विदः शोकमोहसम्बन्धः सम्भवति किम् ?
<DOC_END>
<DOC_START>
शोकातिगो मोदते स्वर्गलोके । काठकोपनिषत् १-१-१८
अग्निहोत्री मरणानन्तरं स्वर्गलोके शोकातिगो मोदते ॥
मानवानां वासस्थानभूतो लोको मर्त्यलोकः अथवा भूलोकः ।
दुःखलोकः इति च नामान्तरम् अस्य । अत्र लोके दुःखान्येव
स्वर्गलोकस्तु सुखस्थानम् । देवलोकः इति च नामान्तरमस्य ।
न हि अयं स्वर्गो लोकः तावता सुलभेन लभ्यः । अस्मिन्
मनुष्यलोके द्विजत्वेन जाताः, तत्रापि शुद्धब्राह्मणाः सन्तः,
कुर्वन्त एव मरणानन्तरं स्वर्गलोकं प्राप्नुयुः । पुण्यलोकोऽसौ
भवति । स्वर्गलोके अप्सरस्त्रियः, कल्पवृक्षः, कामधेनुः,
चिन्तामणिश्च इत्येते पदार्था भवन्ति । अत्र मनुष्यलोके यथा
जरादुःखानि भवन्ति न तथा तत्र दुःखसम्भवः । शरीरजाः
रोगाश्च तत्र स्वर्गे न भवन्ति । स्वर्गलोके सकलभोगसम्पदः
भवन्ति । तत्र देवानां सङ्कल्पसिद्धिर्भवति । अपि तु अयं
स्वर्गलोकोऽपि अनित्य एव । नायं मोक्षः ॥
<DOC_END>
<DOC_START>
या ह्येव पुत्रैषणा सा वित्तैषणा, या वित्तैषणा
सा लोकैषणा, उभे ह्येते एषणे एव भवतः । बृहदारण्यकोपनिषत् ३-५-१
या पुत्रैषणा सा एव वित्तैषणा, या वित्तैषणा सा एव
लोकैषणा । उभे ह्येते एषणे एव भवतः ॥
पुत्रैषणा नाम पुत्रं प्राप्तुम् इच्छा । वित्तैषणा नाम धनं
प्राप्तुम् आशा । लोकैषणा नाम स्वर्गलोकं जेतुं कामः ।
सर्वथापि तिस्रोऽपि एषणाः कामा एव । एषणा, कामः,
आशा इति पर्यायपदानि । प्राप्तुम् इच्छा – इत्यर्थः ॥
इच्छायाः कारणम् अविद्या एव । अविद्यया एव हि कामानाम्
उदयः । अविद्यारहितस्य कुतो वा कामानाम् अवकाशः
केषु विषयेषु कामाः निवृत्ताविद्यस्य कामानामपि निवृत्तिरेव ।
तस्मात् अविद्यावत एव कामाः, कामविलासाः। अविद्यावतां संसारिणां
मध्ये केषाञ्चित् पत्नीपुत्रेषु काम, केषाञ्चित् वाहनख्यात्यादिषु
कामः, अपरेषां पुण्यसम्पादने कामः, इतरेषां केषाञ्चित् स्वर्गादिलोकेषु
कामः । सर्वथापि सर्वमपि काम एव । अविद्या एव हि कामानां मूलम् ।
<DOC_END>
<DOC_START>
जुष्टस्ततस्तेन अमृतत्वमेति । श्वेताश्वतरोपनिषत् १-६
ईश्वरेण अनुगृहीतः जीवः अमृतत्वम् एति ।
जीवात्मा अविद्यया पुनः पुनः जायमानः म्रियमाणश्च सुखदुःखानि
अनुभवन् दुःखी भवति । अहम् अन्यः ईश्वरः अन्यः इति भेदज्ञानमेव
अविद्या । अविचारदशायाम् एषा अविद्या अनादिः अनन्ता सहजा
इव च दृश्यते । आत्मतत्त्वविचारमात्रेण च इयम् अविद्या अपगच्छति ॥
आत्मतत्त्वविचारः तावता सुलभेन कर्तुं शक्यते वा नैव । ईश्वरानुग्रहादेव
अस्माकम् आत्मतत्त्वविचारे प्रवेशो लभ्येत । ईश्वरानुग्रहादेव मानवस्य
अध्यात्मविचारमार्गे प्रवृत्तिः स्यात् । ईश्वरानुग्रहादेव अस्माकं वेदान्तार्थप्रतिपत्तिर्भवेत् ।
ब्रह्मात्मविज्ञाने जाते सति अविद्या अपगता भवति । अविद्यानाशे सति
जीवस्य संसारित्वमपि नष्टमेव भवति । ततोऽमृतत्वं मोक्षं प्राप्नोति ।
तस्मात् अध्यात्मसाधकैः प्रप्रथमतः ईश्वराराधनेन ईश्वरानुग्रहपात्रता सम्पादनीया ।
तस्माद् ईश्वराराधनं कर्तव्यमेव मुमुक्षुभिः ॥
<DOC_END>
<DOC_START>
पठनेन च समाना एव तिष्ठति ।
सम्मुखीकरणम् अतीव क्लेशाय । इदं सैन्यं महत्तमं विद्यते,
भीतानां जनानाम् आक्रन्दनं श्रूयते च । इदं शत्रून् समहरत् ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे गतिचित्रयुतानि चित्रकाव्यं दृश्यते |
<DOC_END>
<DOC_START>
एतस्मात् जायते प्राणो मनः सर्वेन्द्रियाणि च । मुण्डकोपनिषत् २-१-३
एतस्मादेव आत्मनः प्राणः मनः सर्वेन्द्रियाणि च जायन्ते ।
आत्मनः महिमानं व्यापकत्वं च उपदिशति अयं मन्त्रः । आत्मनः एव प्राणो जायते ।
अत्र प्राणो नाम आध्यात्मिकः मुख्यः प्राणः स एव आधिदैविकः समष्टिकरणात्मा
हिरण्यगर्भः । अयमेव आधिभौतिको वायुः । आत्मनो जातं सर्वमपि कार्यं परमार्थतः
अनृतमेव भवति । कार्यं सर्वं वाचारम्भणमात्रमेव “वाचारम्भणं विकारो नामधेयम्”
इति छान्दोग्योपनिषत् धैर्येण उद्घोषयति ॥
मनश्च आत्मन एव जायते । अत्र मनः इति हिरण्यगर्भस्य समष्टिबुद्धिरुच्यते ।
सकलप्राणिनां व्यष्टिबुद्धिश्च अत्र गृह्येत । मनः, बुद्धिः, चित्तम्, अहङ्कारः इति
चतसृभिः वृत्तिभिः अवभासमानम् अन्तः करणमेव अत्र ‘मनः’ शब्देन कथ्यते ।
ईदृशं मनोऽपि आत्मन एव कार्यम् । तथा ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च आत्मन
एव जायन्ते । आत्मा तु प्राणात्, मनसः इन्द्रियेभ्यश्चात्यन्तसूक्ष्मः ॥
<DOC_END>
<DOC_START>
अथ हैनं गार्गी वाचक्नवी पप्रच्छ, याज्ञवल्क्येति होवाच, यदिदं सर्वं
कस्मिन्नु खलु ओतं प्रोतं च बृहदारण्यकोपनिषत् ३-६-१
अथ, वाचक्नवी गार्गी पप्रच्छ, “भो याज्ञवल्क्य, इदं सर्वं कस्मिन् ओतं प्रोतं च“ इति ।
अस्माकं भारतीयसंस्कृतौ स्त्रीणां कीदृशम् उत्तमं स्थानमस्ति भारतीयसम्प्रदाये कीदृश्यः
श्रेष्ठाः स्त्रियः सन्ति इति एतस्माद् मन्त्राद् ज्ञायते । गार्गी नाम एका स्त्री । नैषा केवलं
सामान्या स्त्री । किन्तु एषा वाचक्नवी, परब्रह्मविषये विचारवादकरणे समर्था आसीत् ।
वाचक्नोः पुत्री एषा गार्गी भारतीयानां सर्वासामपि स्त्रीणाम् आदर्शभूता योषित् । एषा
याज्ञवल्क्यं प्रति एवं पृष्टवती –
“भो याज्ञवल्क्य, इदं सर्वमपि विश्वं कस्मिन् ओतं प्रोतं चास्ति” इदं विश्वं नाम सर्वमपि
आध्यात्मिकम् आधिभौतिकं तथा आधिदैविकं जगत् इत्यर्थः । अयं सर्वोऽपि प्रपञ्चः कस्मिन्
प्रतिष्ठितः सकलदेवाधिदेवानामपि आस्पदभूतम् आधारभूतं तत्त्वं किम् इति प्रश्नस्य
आशयः । यस्मिन् इदं जगत् प्रतिष्ठितं तदेव परं ब्रह्म इति याज्ञवल्क्यस्य प्रतिवचनम् ॥
<DOC_END>
<DOC_START>
इहैवान्तः शरीरे सोम्य, स पुरुषः, यस्मिन्नेताः षोडश कलाः
हे सोम्य, सुकेशाभारद्वाज, यस्मिन् एताः षोडश कलाः प्रभवन्ति, सः
पुरुषः इहैव अन्तः शरीरे अस्ति ।
आत्मनः षोडशकलपुरुषः इति नामधेयम्, अयं षोडशकलपुरुषः अस्मास्वेव
निहितोऽस्ति । अस्मादेव पुरुषात् षोडशकलाः प्रभवन्ति, अस्मिन्नेव विद्यन्ते,
जीवन्ति, अन्ते च पुरुषे एव लीयन्ते । षोडाशानामपि कलानां कारणभूतः सः
पुरुषः आत्मैव इति यो विजानाति स एव धीरः ॥
भवतु ताः षोडश कलाः काः इति चेत् उच्यते । प्राणः, श्रद्धा, आकाशः,
वायु, तेजः, आपः, पृथिवी, इंद्रियाणि, मनः, अन्नम्, वीर्यम्, पतः, वेदाः कर्माणि,
लोकाः, नामानि च – इति षोडश कलाः । एतासां षोडशानाम् अपि कलानां
कारणभूतः कलानाम् आधारभूतः सन्, स्वयं तु षोडशाकलाभ्योऽपि विलक्षणः
सच्चिदानन्दस्वरूपः आत्मैव इति जानीयात् । इदमेव हि आत्मज्ञानं नाम ।
ब्रह्मविद्या च इयमेव । एषैव अक्षरविद्या, अध्यात्मविद्या च ॥
<DOC_END>
<DOC_START>
स्वप्नान्तं जागरितान्तं च उभौ येनानुपश्यति ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ काठकोपनिषत् २-१-४
यस्य सान्निध्येन स्वप्नान्तं च जागरितान्तं च पश्यति मानवः तं महान्तं
विभुम् आत्मानं मत्वा धीरो न शोचति ।
“मत्वा धीरो न शोचति” इत्येषः सकलवेदान्तानां सन्देशसारः । ‘पल्लवी’त्वेन
(गीतस्य प्रथमा पङ्क्तित्वेन) इदं वाक्यं भवति । ज्ञात्वा धीरः, प्राप्य दीनः,
कृत्वा मन्दः – इत्यर्थः । ज्ञात्वा धीरो भवति । किं ज्ञात्वा आत्मानं ज्ञात्वा ।
आत्मनः ज्ञानं नाम किम् इति चेत् उच्यते ॥
आत्मा नाम जागरितं स्वप्नं सुषुप्तिं च प्रकाशयन् चिन्मात्रस्वरूपः । स्वयम् अविक्रियः
सन् विकारिणं सकलमपि प्रपञ्चं भासयन् आत्मैव अहमस्मीति जानन् धीरो भवति ॥
आत्मा महान्, आत्मा विभुः, आत्मा अविकारी । आत्मा जागरितं, स्वप्नं, सुषुप्तं च
साक्षित्वेन प्रकाशयति । एवंवित् नूनमपि धीर एव खलु एवंविदः शोकमोहौ किं स्तः
नैव । अनात्मभूतान् देहेन्द्रियादीन् आत्मत्वेन विजानतः अज्ञस्यैव हि सदा शोकमोह-
संसारबन्धनम्, न तु आत्मस्वरूपविदः ॥
<DOC_END>
<DOC_START>
एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः । बृहदारण्यकोपनिषत् ३-८-९
हे गार्गि, अक्षरस्य प्रशासने सूर्याचन्द्रमसौ विधृतौ तिष्ठतः ।
अक्षरस्य महिमानम् अयं मन्त्रः उपदिशति । अक्षरमिति, न क्षरति इति ।
नाशरहितं परब्रह्मतत्त्वम् । देशकालाभ्याम् अपरिच्छिन्नः परमेश्वर एव
अक्षरम् । समस्तस्यापि विश्वस्य जन्मस्थितिलयकारणभूतं परतत्त्वम् अक्षरम्
इति कथ्यते । नामरूपक्रियारहितं परिपूर्णं तत्त्वम् अक्षरम् ॥
अस्य अक्षरस्य प्रशासने एव ग्रहनक्षत्रादयः स्वव्यापारान् कुर्वन्ति । सूर्यश्च
चन्द्रमाश्च अस्य अक्षरस्य शासने एव जीवतः । सूर्यो नाम किं सामान्या
देवता ग्रहराजो हि सूर्यः? सूर्यो नाम प्रकाशदेवता सूर्यो नाम विश्वप्रकाशिका
मङ्गळदेवता जगद्वन्द्यदेवो हि सूर्यः यदि एकस्मिन् दिने सूर्यो नोदेति न
च प्रकाशयति, तदा सर्वमन्धकारमयं जगत् । अथ चन्द्रनारायणः अयमपि
मङ्गलदेव एव । अक्षराधीनौ एव सोमसूर्यौ स्वव्यापारं कुरुतः । अक्षरमेव
सूर्यस्यापि सूर्यः । ज्ञातो वा अक्षरस्य महिमा ?
<DOC_END>
<DOC_START>
पराचः कामान् अनुयन्ति बालाः । ते मृत्योर्यन्ति विततस्य पाशम् ॥ काठकोपनिषत् २-१-२
बहिर्मुखान् एव भोगान् अनुसृत्य गच्छन्तो बालकाः तत्र विततस्य मृत्योः पाशं यन्ति ।
स्वस्मिन्नेव विद्यमानं स्वाभाविकमानन्दम् अजानन् सर्वो मनुष्यः बाह्यविषयेष्वेव निरतः ।
बाह्यविषयप्रवृत्तिर्हि मानवानां सहजो दोषः । अस्मात् सुखं लभ्येत, तस्माद् आनन्दः प्राप्येत
इति भ्रान्त्या सर्वेऽपि मानवाः सर्वदापि विषयसङ्ग्रहे विषयभोगेषु च निरताः । ईदृशान् अविवेकिनः
मात्रा दत्तानि खाद्यानि मधुरभक्ष्यादीनि तिरस्कृत्य, गृहाद् बहिरागत्य, पथिषु धावित्वा तत्र
वाहनादिषु संलग्नाः अपघातहताः सन्तः यथा बालाः दुःखभाजो भवन्ति एवमेव वयोवृद्धा अपि
<DOC_END>
<DOC_START>
तदक्षरं वेदयते यस्तु सौम्य, स सर्वज्ञः सर्वमेवाविवेश इति । प्रश्नोपनिषत् ४-११
हे सौम्य, सौर्यायणिगार्ग्य, यस्तु नरः तदक्षरं वेदयते सः सर्वज्ञो
भूत्वा सर्वमपि स्वयमेव भवति ।
‘अक्षरं’ नाम नाशरहितं परब्रह्मतत्त्वम् । अक्षरमेव अस्माकं निजस्वरूपम् ।
ब्रह्मादिपिपीलिकापर्यन्तानां सकलप्राणिनां निजस्वरूपमेतदक्षरम् । अक्षरतत्त्वजिज्ञासोः
साधकस्य मनः परिशुद्धं परिपक्वं च भवेत् । विवेकः, वैराग्यं, शमादयः, मुमुक्षुत्वं
च – इत्येवंरूपैः चतुर्भिः साधनैः सम्पन्नेन भाव्यं तत्त्वजिज्ञासुना । एतादृशेन
मुमुक्षुणा साधकेनैव हि अक्षरस्वरूपम् अधिगम्यते ॥
मनोबुद्धिचित्ताहंकाराणां विज्ञानात्मनां च आधारभूतम् अक्षरमेव । अक्षरादेव
विश्वमिदं जातम्, अक्षरे एव स्थितं सत्, अक्षरे एव लीयते । अक्षरमेवाहमिति
यो जानाति सः सर्वोऽपि भवति । ज्ञानात् पूर्वमपि सर्वज्ञः सर्वश्च सन् अपि,
अविद्यया स्वयम् असर्वज्ञ इव आसीत् । अपि तु इदानीम् विद्योदयेन अविद्यायाः
निवृत्तत्वात् स्वयं सर्वज्ञः सर्वश्च भूत्वा अक्षरमेवाहस्मीति विजानाति ॥
<DOC_END>
<DOC_START>
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति । मुण्डकोपनिषत् ३-१-३
विद्वान् तदा पुण्यपापे विधूय निरञ्जनः परमं साम्यम् उपैति ।
जीवात्मनः पुण्यपापे बन्धकभूते । पत्नीं, पुत्रं, गृहं, धनं, धान्यं, कीर्तिं,
मानापमाने, अन्नं, जलं च यथाकथञ्चित् साधकः त्यजेत् । अपि तु
अहो पुण्यपापे न कथञ्चिदपि एषः त्यजेत् । अयं साधकः पुण्यपापे
स्वयं परिहरेत्, नैव तु ते पुण्यपापे इमं साधकं त्यजेताम् । पुण्यपापयोः
सम्बन्धः अस्य रक्तगतः । न हि । अस्थिगतोऽस्ति पुण्यपापाभ्यामेव
अस्य बन्धनप्राप्तिः । पुण्यपापविमोचनं न सुलभम् । न च सर्वथा
असाध्यमेव । अस्त्यत्र सुलभोपायः । स एव आत्मज्ञानाख्यो राजमार्गः।
विवेकविज्ञानेन आत्मनः नैजस्वरूपे अवगते सति पुण्यपापे विधूते भवतः ।
अविद्ययैव हि पुण्यपापाख्यसर्पपीडा । आत्मज्ञानाख्य गरुडदर्शनमात्रेणैव
पुण्यपापयोः परिहारः । पुण्यपापे भस्मीभवतः । पुण्यपापात्यय एव परमसाम्यस्य
<DOC_END>
<DOC_START>
यत्रायं पुरुषो म्रियते किमेनं न जहाति इति, नामेति । बृहदारण्यकोपनिषत् ३-२-१२
यदा पुरुषो म्रियते तदा एनं किं न जहाति इति । नाम इति ।
जारत्कारवः आर्तभागः याज्ञवल्क्यं पप्रच्छ “यदा अयं पुरुषो म्रियते, तदा एनम् अत्यजत्
किम् अनुसरति?” इति । शरीरं मृत्वा गच्छति, भस्मीभवति अथवा मृदि सम्पद्यते ।
इन्द्रियाणि मनश्च नश्यन्ति । किं तत् तर्हि यत् अनश्यत् अनुवर्तते ?
‘नाम’ अनुसरति इति याज्ञवल्क्यः प्रतिवदति । नामैव नामधेयम् । मनुष्ये मृतेऽपि तस्य
‘नाम’ तु अमृतं सत् अनुवर्तते एव । अभिधेयस्यैव नाशः, न तु अभिधानस्य नाशः । अभिधानं
नित्यम्, अभिधेयं तु अनित्यम् । नाम अनन्तं ब्रह्मापि अनन्तम् । तस्मात् ‘नाम ब्रह्म’ इति
उपासीनस्य अनन्तफलानि भवन्ति । विश्वे देवा अनन्ताः, नामानि च अनन्तानि । तस्मात्
नामानि विश्वेदेवत्वेन उपासीत । नामनामिनोर्मध्ये नाम नित्यम् । नामी तु अनित्यः । तस्मात्
नामैव ब्रह्म । अयं नाम्नो महिमा ज्ञातो वा ?
<DOC_END>
<DOC_START>
तस्माद्वा एतस्मात् विज्ञानमयात् । अन्योन्तर आत्मा आनन्दमयः ।
तेनैष पूर्णः ॥ तैत्तिरीयोपनिषत् २-५-३
तस्माद् एतस्माद् विज्ञानमयादात्मनः अन्यः अन्तरतरः आत्मा आनन्दमयः ।
अन्नमय प्राणमय मनोमय विज्ञानमय आनन्दमयाख्यान् पञ्च आत्मनः अनुवदति
एषा उपनिषत् । “पञ्चकोशाः” इति व्यपदिश्यन्ते एते । पूर्वस्मात् पूर्वस्मात् आत्मनः
उत्तरोत्तरः आत्मा सूक्ष्मः व्यापकः अन्तरतरश्च भवति ॥
प्रकृते तु, विज्ञानमयः आत्मा बुद्धिमयः । विज्ञानमयः आत्मा मनोमयस्याप्यात्मनः
प्रत्यगात्मभूतः । अस्माद् विज्ञानमयादप्यात्मनः सूक्ष्मतरो हि आनन्दमयात्मा ।
सकलकर्मणां फलं नाम आनन्द एव । आनन्दप्रचुरोऽयमानन्दमयः आत्मा पूर्वेषां
चतुर्णामपि कोशानामात्मभूतः । सत्यमेवैतत् । अपि तु अयमानन्दमयोऽप्यात्मा
अनात्मैव । यतो हि आनन्दमयः आत्मा पञ्चकोशेषु अन्यतम एव । परं ब्रह्मैव
तु प्रत्यगात्मभूतम् । पञ्चकोशविलक्षणः प्रत्यगात्मा एव परिशुद्धः परिपूर्णश्च आत्मा भवति ॥
<DOC_END>
<DOC_START>
तमेवैकं जानथ आत्मानम्, अन्या वाचो विमुञ्चथ, अमृतस्यैष सेतुः । मुण्डकोपनिषत् २-२-५
तमात्मानम् एकमेव जानथ, अन्याः वाचो विमुञ्चथ, एष एव अमृतस्य सेतुः ॥
एष मन्त्रः अध्यात्मसाधकानां पथ्यम् उपदिशति । आयुर्वेदशास्त्रे आरोग्यप्राप्त्यर्थं
पथ्यम् उपदिश्यते खलु पथ्यस्य द्वे मुखे, कर्तव्यं मुखम् एकम्, त्याज्यं मुखम्
अपरम् । एवमेव वेदान्ते अपि साधकानां मन्तव्यं त्यक्तव्यं च इति साधनद्वयम्
उपदिश्यते । ईदृशम् आध्यात्मिकं पथ्यम् अनुसरतां साधकानाम् आत्मज्ञानं सुनिश्चितं
किं तत् पथ्यम् प्रथमतः आत्मा एव विज्ञातव्यः । अवस्थात्रयव्यापकम् अद्वितीयम्
आत्मानमेव साधकः अनुपश्येत् । आत्मन एव इदं विश्वं जातम् इत्येतत् विवेकेन
जानीयात् । द्वितीयतः सर्वान् अनात्मनः त्यजेत् । अपराविद्यासम्बद्धान् सर्वानपि
अनात्मविचारान् त्यजेत् । अनेन क्रमेण आत्मज्ञानोदयो भवति । आत्मविज्ञानात्
अमृतत्वं मोक्षः लभ्यते । एवम् अनात्मविषयचिन्तनत्यागपूर्वकम् आत्मज्ञानं
<DOC_END>
<DOC_START>
यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेत् ज्ञान आत्मनि ।
ज्ञानमात्मनि महति नियच्छेत्, तद्यच्छेत् शान्त आत्मनि ॥ काठकोपनिषत् १-३-१३
साधकः वागिन्द्रियं मनसि उपसंहरेत् । तन्मनः महति आत्मनि नियच्छेत् ।
तं महान्तमात्मानं शान्ते आत्मनि उपसंहरेत् ॥
देहेन्द्रियमनोबुद्धीः प्रत्यगात्मनि उपसंहरेत् । ईदृशः अध्यात्मयोगः उपदिष्टोऽत्र ।
इदं शरीरम् अचेतनम्, पञ्चभूतकार्यं च । इन्द्रियैरेव अयं देहः सर्वथा व्याप्तः ।
इन्द्रियैरेव हि देहस्य अस्तित्वम् तानि सर्वाणीन्द्रियाणि मन अधीनानि भवन्ति ।
मनसि सत्येव शरीरस्य इन्द्रियाणां च अस्तित्वम् । मनसः अभावे सर्वं निरर्थकमेव ।
इदं च मनः बुद्धितन्त्रम् । बुद्धिअधीनतया एव मनः स्वव्यापारं करोति । मनसः
स्वतन्त्रास्तित्वं नास्ति । बुद्धितन्त्रमेव मनः एषा व्यष्टिरूपा बुद्धिरपि समष्टिबुद्धिरूपस्य
हिरण्यगर्भस्य अंश एव । सः हिरण्यगर्भश्च प्रत्यगात्मनः आविर्भाव एव । ‘स
प्रत्यगात्मा अहमेव’ इति विवेकपुरस्सरम् अनुचिन्तनमेव अध्यात्मयोगस्य रहस्यम् ॥
<DOC_END>
<DOC_START>
समाने वृक्षे पुरुषो निमग्नः अनीशया शोचति मुह्यमानः । मुण्डकोपनिषत् ३-१-२
समाने वृक्षे निमग्नः पुरुषः मुह्यमानः अनीशया शोचति ।
जीवस्य दुःखमयीं स्थितिम् अयं मन्त्रः अतिसुन्दरतया दर्शयति ।
जीवात्मपरमात्मानौ उभावपि अस्मिन्नेव समाने शरीरे वृक्षे वसतः ।
परमात्मा निर्लिप्तत्वात् असंसारी सन् साक्षिरूपेण वर्तते । जीवात्मा
तु अनीशया अविद्यया शोकसागरनिमग्नः ॥
‘अनीशा’ नाम दीनभावः । अविद्याकृता दैन्यस्थितिरेव हि ‘अनीशा’
नाम । तद्यथा – अहं रुग्णः अहं दुर्बलः, अहं वृद्धः, मम न कोऽप्यस्ति
सहायकः, अहम् एकाकी किं वा कुर्याम् मम ईदृशी स्थितिः आगता
खलु अहो न कोऽपि मां पश्यति – इत्यादिभावना एव अनीशा ।
देहात्मज्ञानमेव अनीशायाः हेतुः । ‘देहात्मभावम् आपन्नः’ इति शाङ्करं
भाष्यम् । ‘अविद्याकामकर्मफलरागादिगुरुभाराक्रान्तः’ इति च
श्रीशङ्करभगवत्पादा चार्याणां विवेचनम् अनीशया मुह्यमानः
जीवोऽयं सर्वदा शोकसागरनिमग्नः । इयमेव जीवस्य दुःस्थितिर्नाम !
<DOC_END>
<DOC_START>
आत्मैव अस्य ज्योतिर्भवतीति, आत्मनैव अयं ज्योतिषा आस्ते पल्ययते
कर्म कुरुते विपल्येतीति । बृहदारण्यकोपनिषत् ४-३-६
आत्मैव अस्य जीवस्य ज्योतिः भवति । आत्मना एव ज्योतिषा अयं जीवः
आस्ते, पल्ययते, कर्म कुरुते, विपल्येति ॥
ज्योतिर्ब्राह्मणे अयमेको मन्त्रः । अस्य जीवात्मनः ज्योतिः कः इति जनकेन
पृष्टः याज्ञवल्क्यः ‘सूर्य एव ज्योतिः’ इति उपदिदेश । ‘सूर्ये अस्तमिते सति किं
ज्योतिः ?’ चन्द्रः । चन्द्रमसि अस्तमिते अग्निः। अग्नेरप्यभावे किं ज्योतिः?
वाक् । वाचि शान्तायां किं ज्योतिः इति जनकप्रश्नस्य उत्तरत्वेन याज्ञवल्क्यः
आत्मैव प्रकाशः, आत्मैव ज्योतिः । सुषुप्ते नैव बाह्यानि ज्योतीषि विद्यन्ते, न
च इन्द्रियमनांसि तत्र विद्यन्ते । आत्मा तु अस्त्येव तत्रापि । आत्मचैतन्यज्योतिषा
एव अयं कार्यकरणसङ्घातः स्वव्यापारं करोति । सूर्याचन्द्रमसोः अग्निनक्षत्रादीनामपि
आत्मैव ज्योतिः । अयमात्मा एव अस्माकं पारमार्थिकं स्वरूपम् ॥
<DOC_END>
<DOC_START>
अभिप्रायस्य पापत्वान्नैवं तु विवृणोम्यहम्॥ आदि.१४१/१६॥
धृतराष्ट्रस्तु तं हृष्टः पर्यपृच्छत् पुनः पुनः।
किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत॥ सभा.६५/४३॥
एतद्वाक्यं विदुर यत् ते सभायामिह प्रोक्तं पाण्डवान् प्राप्य मां च।
वनं राजा धृतराष्ट्रः सपुत्रो व्याघ्रास्ते वै संजयः पाण्डुपुत्राः।
लताधर्माः धार्तराष्ट्राः शालाः संजय पाण्डवाः।
हन्तात्मनः कर्म निबोध राजन् धर्मार्थयुक्तादार्यवृत्तादयेतम्।
त्वमेवैको जातु पुत्रस्य राजन् वशं गत्वा सर्वलोके नरेन्द्र।
अनाप्तानां संग्रहात् त्वं नरेन्द्र तथाऽऽप्तानां निग्रहाच्चैव राजन्।
विपरीततरश्च त्वं भागधेये न सम्मतः।
दुर्योधने सौबले च कर्णे च दुःशासने तथा।
बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः।
कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत्।
अवाग् गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः।
त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र् सुतप्रियः।
राजा तु धृतराष्ट्रोऽयं वयोवृध्दो न शाम्यति।
भवत्येव हि मे सूत बुध्दिर्दोषानुदर्शिनी।
मनः प्रीणाति मे वाक्यं जयं संजय श्रृण्वतः।
श्रृणु राजन् स्थिरो भूत्वा तवापनयनो महान्।
गतोदके सेतुबन्धो यादृक् तादृङ् मतिस्तव।
तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च।
तव जिह्माभिप्रायं विदित्वा पाण्डवान् प्रति।
आत्मापराधात् सुमहान् प्राप्तस्ते विपुलः क्षयः।
न हि ते सुकृतं किंचिदादौ मध्ये च भारत।
[[वर्गः:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
योगी युञ्जीत सततमात्मानं रहसि स्थितः।
तत्रैकाग्रं मनः कृत्वा यत चित्तेन्द्रियक्रियः।
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता।
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन।
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्।
असंशयं महाबाहो मनो दुर्निग्रहं चलम्।
असंयतात्मना योगो दुष्प्राप इति मे मतिः।
एष ध्यानपथः पूर्वो मया समनुवर्णितः॥ शान्ति.१९५/१०॥
स्फुरिष्यति समुद्भ्रान्ता विद्युदम्बरे यथा॥ शान्ति.१९५/११॥
एवमेवास्य चित्तं च भवति ध्यानवर्त्मनि॥ शान्ति.१९५/१२॥
समाहितं क्षणं किञ्चिद् ध्यानवर्त्मनि तिष्ठति।
पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत्॥ शान्ति.१९५/१३॥
समादध्यात् पुनश्चेतो ध्यानेन ध्यानयोगवित्॥ शान्ति.१९५/१४॥
मुनेः समादधानस्य प्रथमं ध्यानमादितः॥ शान्ति.१९५/१५॥
मनसा क्लिश्यमानस्तु समाधानं च कारयेत्।
न निर्वेदं मुनिर्गच्छेत् कुर्यादेवात्मनो हितम्॥ शान्ति.१९५/१६॥
संहरेत् क्रमशश्चैव स सम्यक् प्रशमिष्यति॥ शान्ति.१९५/१९॥
न तत्पुरुषकारेण न च दैवेन केनचित्।
सुखमेष्यति तत् तस्य यदेवं संयतात्मनः॥ शान्ति.१९५/२१॥
दुष्कृते सुकृते चापि न जन्तुर्नियतो भवेत्।
नित्यं मनः समाधाने प्रयतेत विचक्षणः॥ शान्ति.२९०/२१॥
[[वर्गः:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
दुःखैर्न तप्येन्न सुखैः प्रहृष्येत् समेन वर्तेत सदैव धीरः॥ आदि.८९/९॥
भये न मुह्याम्यष्टकाहं कदाचित् संतापो मे मानसो नास्ति कश्चित्।
धाता यथा मां विदधीत लोके ध्रुवं तथाहं भवितेति मत्वा॥ आदि.८९/१०॥
धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः।
यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन।
यया स्वप्नं भयं शोकं विषादं मदमेव च।
धृतिर्नाम सुखे दुःखे यथा नाप्नोति विक्रियाम्॥ शान्ति.१६२/१९॥
सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च।
पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन वा।
मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करि नृप॥ शान्ति.२२७/३॥
धैर्येण युक्तस्य सतः शरीरं न विशीर्यते॥
विशोकता सुखं धत्ते चारोग्यमुत्तमम्॥ शान्ति.२२७/४॥
आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम्।
यच्च प्राज्ञो नरस्तात सात्त्विकीं वृत्तिमास्थितः॥ शान्ति.२२७/५॥
तस्यैश्वर्यं च धैर्यं च व्यवसायश्च कर्मसु।
धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा।
चक्षुः श्रोत्रे च मनसा मनो वाचं च विद्यया॥ शान्ति.३३०/२८॥
[[वर्गः:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
यः परः प्रकृते प्रोक्तः पुरुषः पञ्चविंशकः।
स एव सर्वभूतात्मा नर इत्यभिधीयते॥ अनु.१२४ दा.पा.॥
नराज्जातानि तत्त्वानि नाराणीति ततो विदुः।
तान्येव चायनं तस्य तेन नारायणः स्मृतः॥ अनु.१२४ दा.पा.॥
तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते॥ अनु.१२४ दा.पा.॥
अन्तकाले जपन्नेति तद्विष्णोः परमं पदम्॥ अनु.१२४ दा.पा.॥
निरुपममुपमेयं योगिविज्ञानगम्यं त्रिभुवनगुरुमीशं सम्प्रपद्यस्व विष्णुम्॥ अनु.१२४ दा.पा.॥
[[वर्गः:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
अभिन्न श्रुतचारित्रस्तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/५॥
अरतिः क्रोधचापल्ये भयं नैतानि नारदे।
अदीर्घसूत्रः शूरश्च तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/६॥
उपास्यो नारदो बाढं वाचि नास्य व्यतिक्रमः।
कामतो यदि वा लोभात् तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/७॥
ॠजुश्च सत्यवादी च तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/८॥
तेजसा यशसा बुध्द्या ज्ञानेन विनयेन च।
जन्मना तपसा वृध्दस्तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/९॥
सुशीलः सुखसंवेशः सुभोजः स्वादरः शुचिः।
सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/१०॥
कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते।
न प्रीयते परानर्थैस्तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/११॥
समत्वाच्च प्रियो नास्ति नाप्रियश्च कथंचन।
मनोऽनुकूलवादी च तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/१३॥
नार्थे धने कामे वा भूतपूर्वोऽस्य विग्रहः।
दोषाश्चास्य समुच्छिन्नास्तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/१५॥
समाधिर्नास्य कामार्थे नात्मानं स्तौति कर्हिचित्।
अवन्ध्यकालो वश्यात्मा तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/२०॥
कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधिना।
नित्ययुक्तोऽप्रमत्तश्च तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/२१॥
नापत्रपश्च युक्तश्च नियुक्तः श्रेयसे परे।
अभेत्ता परगुह्यानां तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/२२॥
[[वर्गः:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
परवाच्येषु निपुणः सर्वो भवति सर्वदा।
न वाच्यः परिवादोऽयं न श्रोतव्यः कथंचन।
कर्णावथ पिधातव्यौ प्रस्थेयं चान्यतो भवेत्॥ शान्ति.१३२/१२॥
असतां शीलमेतद् वै परिवादोऽथ पैशुनम्॥ शान्ति.१३२/१३॥
कुत्सा संजायते राजंल्लोकान् प्रेक्ष्याभिशाम्यति॥ शान्ति.१६३/१८॥
न चक्षुषा न मनसा न वाचा दूषयेदपि।
न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत् क्वचित्॥ शान्ति.२७८/४॥
सतां गुरूणां वृद्धानां कुलस्त्रीणां विशेषतः।
परिवादं न च ब्रूयात् परेषामात्मनस्तथा॥ अनु.१०४/१२९॥
[[वर्गः:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
स्खलितार्थं पुनस्तात संत्यजन्ति च बान्धवाः।
अभिशस्तं प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम्।
दरिद्रं पातकं लोके न तच्छंसितुमर्हति॥ शान्ति.८/१४॥
धने सुखकला या तु सापि दुःखैर्विधीयते॥ शान्ति.१७७/३५॥
अधनस्येह जीवितार्थो न विद्यते॥ शान्ति.१८०/६॥
ॠध्दिर्वाप्यथवा नर्ध्दिः पर्यायकृतमेव तत्॥ शान्ति.२२४/३६॥
[[वर्गः:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते।
अबलं तु महद्भूतं यस्मिन् सर्वं प्रतिष्ठितम्॥ शान्ति.९१/१२॥
अविषह्यतमं मन्ये मा स्म दुर्बलमासदः॥ शान्ति.९१/१४॥
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम्॥ शान्ति.९१/१५॥
अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम्।
अबलस्य कुतः राज्यमराज्ञः श्रीर्भवेत् कुतः॥ शान्ति.१३३/४॥
बलवत्संनिकर्षो हि न कदाचित् प्रशस्यते॥ शान्ति.१३८/१७५॥
प्रशान्तादपि मे पापाद् भेतव्यं बलिनः सदा॥ शान्ति.१३८/१७७॥
तस्मात् वैरं न कुर्वीत दुर्बलो बलवत्तरैः।
शोचेध्दि वैरं कुर्वाणो यथा वै शाल्मलिस्तथा॥ शान्ति.१५७/९॥
[[वर्गः:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
यथावच्छास्त्रसम्पन्ना कस्तं देशं परित्यजेत्॥ शान्ति.२८७/४२॥
आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम्।
आत्मपूजाभिकामो वै को वसेत् तत्र पण्डितः॥ शान्ति.२८७/४३॥
यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः।
प्रदीप्तमिव चैलान्तं कस्तं देशं न संत्यजेत्॥ शान्ति.२८७/४४॥
भवेत् तत्र वसेच्चैव पुण्यशीलेषु साधुषु॥ शान्ति.२८७/४५॥
न ताननुसेवेज्जातु ते हि पापकृतो जनाः॥ शान्ति.२८७/४६॥
यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः।
याजनाध्यापने युक्ता यत्र तद् राष्ट्रमावसेत्॥ शान्ति.२८७/५०॥
अशुचीन् यत्र पश्येत ब्राह्मणान् वृत्तिकर्शितान्।
स्वस्थचित्तो वसेत् तत्र कृतकृत्य इवात्मवान्॥ शान्ति.२८७/५३॥
चरेत् तत्र वसेच्चैव पुण्यशीलेषु साधुषु॥ शान्ति.२८७/५४॥
यत्र राजाधर्मनित्यो राज्यं धर्मेण पालयेत्।
अपास्य कामान् कामेशो वसेत् तत्राविचारयन्॥ शान्ति.२८७/५६॥
यथाशीला हि राजानः सर्वान् विषयवासिनः।
श्रेयसा योजयत्याशु श्रेयसि प्रत्युपस्थिते॥ शान्ति.२८७/५७॥
<DOC_END>
<DOC_START>
पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च।
न तेषु निवसेत् प्राज्ञः श्रेयोऽर्थी पापबुध्दिषु॥ आदि.७९/१०॥
अकारणाद् ये द्विषन्ति परिवादं वदन्ति च।
न तत्रास्य निवासोऽस्ति पाप्मभिः पापतां व्रजेत्॥ आदि.७९/११-१२ दा.पा.॥
सुकृते दुष्कृते वापि यत्र सज्जति यो नरः।
ध्रुवं रतिर्भवेत् तत्र तस्माद् दोषं न रोचयेत्॥ आदि.७९/११-१२ दा.पा.॥
दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च।
मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः।
हीनप्रज्ञो दौष्कुलेयो नृशंसो दीर्घं वैरी क्षत्रविद्यास्वधीरः।
भ्रूणहा गुरुतल्पी च यश्च स्यात् पानपो द्विजः।
न श्रद्दधाति कल्याणं परेभ्यो ऽप्यात्मशङ्कितः।
न तथेच्छन्ति कल्याणान् परेषां वेदितुं गुणान्।
सदोषं दर्शनं येषां संवासे सुमहद् भयम्।
ये वै भेदनशीलास्तु सकामा निस्त्रपाः शठाः।
काम क्रोधानुवर्ती हि यो मोहाद् विरुरुत्सति।
अकार्याणां क्रियाणां च संयोगं यः करोति वै।
परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः॥ शान्ति.१०३/४६॥
तूष्णीम्भावेऽपि विज्ञेयं न चेद् भवति कारणम्।
निःश्वासं चोष्ठसंदंशं शिरसश्च प्रकम्पनम्॥ शान्ति.१०३/४७॥
अदृष्टितो न कुरुते दृष्टो नैवाभिभाषते॥ शान्ति.१०३/४८॥
पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः॥ शान्ति.१०३/५१॥
नरः पापसमाचारस्त्यक्तव्यो दूरतो बुधैः॥ शान्ति.१४३/११३॥
कण्टकान् कूपमग्निं च वर्जयन्ति यथा नराः।
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम्॥ शान्ति.१६४/२॥
आत्मशीलप्रमाणेन न विश्वसिति कस्यचित्॥ शान्ति.१६४/८॥
तथोपकारिणं चैव मन्यते वञ्चितं परम्।
दत्त्वापि च धनं काले संतपत्युपकारिणे॥ शान्ति.१६४/१०॥
भक्ष्यं पेयमथालेह्यं यच्चान्यत् साधु भोजनम्।
प्रेक्षमाणेषु योऽश्नीयान्नृशंसमिति तं वदेत्॥ शान्ति.१६४/११॥
निकृती हि नरो लोकान् पापान् गच्छत्यसंशयम्।
विदुलस्येव तत् पुष्पं मोघं जनयितुः स्मृतः॥ अनु.१०५/८॥
सर्वानर्थः कुले यत्र जायते पापपुरुषः।
अकीर्तिं जनयत्येव कीर्तिमन्तर्दधति च॥ अनु.१०५/९॥
[[वर्गः:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
न विश्वासाज्जातु परस्य गेहे गच्छेन्नरश्चेतयानो विकाले।
अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम्।
ब्राह्मणं ब्राह्मणो वेद भर्ता वेद स्त्रियं तथा।
दैवतेषु प्रयत्नेन राजसु ब्राह्मणेषु च।
येऽर्थाः स्त्रीषु समायुक्ताः प्रमत्तपतितेषु च।
यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः।
[[वर्गः:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च।
निद्रा सर्वात्मना त्याज्या स्वप्नदोषानवेक्षता॥ शान्ति.२१६/१॥
विज्ञानाभिनिवेशात्तु स जागर्त्यनिशं सदा॥ शान्ति.२१६/३॥
[[वर्गः:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
[[वर्गः:महाभारतसूक्तयः (भागः ४ तवर्गादयः विषयाः
<DOC_END>
<DOC_START>
मितं ददाति हि पिता मितं माता मितं सुतः।
अमितस्य हि दातारं का पतिं नाभिनन्दति॥ आदि.१५७/२२-२३ दा.पा.॥
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता।
आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत।
नैतादृशं दैवतमस्ति सत्ये सर्वेषु लोकेषु सदेवकेषु।
मितं ददाति हि पिता मितं भ्राता मितं सुतः।
अमितस्य हि दातारं भर्तारं का न पूजायेत्॥ शान्ति.१४८/६॥
नास्ति भर्तृसमो नाथो नास्ति भर्तृसमं सुखम्।
विसृज्य धनसर्वस्वं भर्ता वै शरणम् स्त्रियः॥ शान्ति.१४८/७॥
भरणाध्दि स्त्रियो भर्ता पालनाध्दि पतिस्तथा॥ शान्ति.२६६/३७॥
स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम्॥ शान्ति.२६६/३९॥
पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः।
पत्या समा गतिर्नास्ति दैवतं वा यथा पतिः॥ अनु.१४६/५५॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः।
मातापित्रोश्च शुश्रूषा स्त्रीणां भर्तरि च द्विज।
एकपत्न्यश्च या नार्यो याश्च सत्यं वदन्त्युत।
न कामये भर्तृविनाकृता सुखं न कामये भर्तृविनाकृता दिवम्।
साध्वी कुलं वर्धयति साध्वी पुष्टिर्गृहे परा।
साध्वी लक्ष्मी रतिः साक्षात् प्रतिष्ठा संततिस्तथा॥ अनु.२२ दा.पा.॥
पतिव्रतानां नारीणां प्रणामं प्रकरोम्यहम्॥ अनु.९६ दा.पा.॥
अहितानि च वाक्यानि सर्वाणि परुषाणि च।
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवन्॥ अनु.१२३/९॥
देवतानां पितॄणां च ब्राह्मणानां च पूजने।
अप्रमत्ता सदा युक्ता श्वश्रूश्वसुरवर्तिनी॥ अनु.१२३/१०॥
पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम्।
अद्वारि न च तिष्ठासि चिरं न कथयामि च॥ अनु.१२३/११॥
असद् वा हसितं किंचिदहितं वापि कर्मणा।
रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा॥ अनु.१२३/१२॥
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम्।
प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि॥ अनु.१२३/१७॥
गुप्तगुह्या सदा चास्मि सुसम्मृष्टनिवेशना॥ अनु.१२३/१९॥
अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी॥ अनु.१४६/३५॥
सा भवेद् धर्मपरमा सा भवेद् धर्मभागिनी।
देववत् सततं साध्वी या भर्तारं प्रपश्यति॥ अनु.१४६/३६॥
परुषाण्यपि चोक्ता या दृष्टा दुष्टेन चक्षुषा।
सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता॥ अनु.१४६/४२॥
पतिं पुत्रमिवोपास्ते सा नारी धर्मभागिनी॥ अनु.१४६/४४॥
या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत्।
पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी॥ अनु.१४६/४५॥
शुश्रूषां परिचर्यां च करोत्यविमनाः सदा।
सुप्रतीता विनीता च सा नारी धर्मभागिनी॥ अनु.१४६/४६॥
न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा।
स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी॥ अनु.१४६/४७॥
देवतातिथिभृत्यानां निर्वाप्य पतिना सह॥ अनु.१४६/४९॥
तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते॥ अनु.१४६/५०॥
मातापितृपरा नित्यं या नारी सा तपोधना॥ अनु.१४६/५१॥
बिभर्त्यन्नेन या नारी सा पतिव्रत भागिनी॥ अनु.१४६/५२॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः।
जायायास्तध्दि जायात्वं पौराणाः कवयो विदुः॥ आदि.७४/३७॥
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता॥ आदि.७४/४०॥
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा।
भार्या मूलं त्रिवर्गस्य भार्या मूलं तरिष्यतः॥ आदि.७४/४१॥
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः॥ आदि.७४/४२॥
पितरो धर्म कार्येषु भवन्त्यार्तस्य मातरः॥ आदि.७४/४३॥
सुसंरब्धोऽपि रामाणां न कुर्यादप्रियं नरः।
रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य हि॥ आदि.७४/५१॥
नारीणां चिरवासो हि बान्धवेषु न रोचते॥ आदि.७४/१२॥
पतिस्नेहोऽतिबलवान् न तथा भ्रातृसौहृदम्॥ आदि.१५१/१९॥
सहधर्मचारीं दान्तां नित्यं मातृसमां मम।
सखायं विहितां देवैर्नित्यं परमिकां गरिम्। आदि.१५६/३१॥
एतध्दि परमं नार्याः कार्यं लोके सनातनम्।
प्राणानपि परित्यज्य यद् भर्तृहितमाचरेत्॥ आदि.१५७/४॥
न च भार्यासमं किंचिद् विद्यते भिषजां मतम्।
नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि।
अतिहासातिरोषौ च क्रोधस्थानं च वर्जये।
सर्वथा भर्तृरहितं न ममेष्टं कथंचन।
प्रथमं प्रतिबुध्यामि चरमं संविशामि च।
सुखं सुखेनेह न जातु लभ्यं दुःखेन साध्वी लभते सुखानि॥ आदि.२३४/४१॥
भार्याहीनं गृहस्थस्य शून्यमेव गृहं भवेत्॥ शान्ति.१४४/५॥
ग्रुहं तु गृहिणीहीनमरण्यसदृशं मतम्॥ शान्ति.१४४/६॥
यस्य स्यात् तादृशी भार्या धन्यः स पुरुषो भुवि॥ शान्ति.१४४/१०॥
विदेशगमने चास्य सैव विश्वासकारिका॥ शान्ति.१४४/१३॥
भार्या हि परमो ह्यर्थः पुरुषस्येह पठ्यते।
तथा रोगभिभूतस्य नित्यं कृच्छ्रगतस्य च।
नास्ति भार्या समं किंचिन्नरस्यार्तस्य भेषजम्॥ शान्ति.१४४/१५॥
नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः।
नास्ति भार्यासमो लोके सहायो धर्मसंग्रहे॥ शान्ति.१४४/१६॥
यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्॥ शान्ति.१४४/१७॥
न सा स्त्री ह्यभिमन्तव्या यस्यां भर्ता न तुष्यति।
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवता॥ शान्ति.१४५/३॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
यस्मादभावी भावी वा भवेदर्थो नरं प्रति।
सुखं च दुखं च भवाभवौ च लाभालाभौ मरणं जीवितं च।
पर्यायतः सर्वमवाप्नुवन्ति तस्माद् धीरो नैव हृष्येन्न शोचेत्॥ शान्ति.२५/३१॥
पदं यथा न दृश्यन्ते तथा ज्ञानविदां गतिः॥ शान्ति.१८१/१९॥
ॠषींश्च देवांश्च महासुरांश्च त्रैविद्यवृध्दांश्च वने मुनींश्च।
कानापदो नोपनमन्ति लोके परावरज्ञास्तु न सम्भ्रमन्ति॥ शान्ति.२२६/१४॥
न पण्डितः क्रुध्यति नाभिपद्यते न चापि संसीदति न प्रदुष्यति।
न चार्थकृच्छ्रव्यसनेषु शोचते स्थितः प्रकृत्या हिमवानिवाचलः॥ शान्ति.२२६/१५॥
यमर्थसिध्दिः परमा न मोहयेत् तथैव काले व्यसनं न मोहयेत्।
सुखं च दुःखं च तथैव मध्यमं निषेवते यः स धुरंधरो नरः॥ शान्ति.२२६/१६॥
प्रभवत् पृच्छते यो हि सम्मानयति वा पुनः।
नूनं जनमदुष्टात्मा पण्डिताख्यां स गच्छति॥ अनु.१४६/२८॥
प्रवक्तृन् पृच्छते योऽन्यान् स वै नापदमृच्छति॥ अनु.१४६/२९॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
शब्द स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः।
चत्वारोऽप्सु गुणा राजन् गन्धस्तत्र न विद्यते।
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः।
एते पञ्च गुणा राजन् महाभूतेषु पञ्चसु।
तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः।
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्।
न युष्मास्विह मे प्रीति कामलोभानुसारिषु।
तस्मादुसृज्य कामान् वै सत्त्वमेवाश्रयाम्यहम्॥ शान्ति.१७७/३०॥
अमितानां महाशब्दो यान्ति भूतानि सम्भवम्।
चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः।
पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम्॥ शान्ति.१८४/४॥
श्रोत्रं घ्राणं रसः स्पर्शी दृष्टिश्चेन्द्रियसंज्ञिताः॥ शान्ति.१८४/५॥
त्वक् च मांसं तथास्थीनि मज्ज स्नायुश्च पञ्चमम्।
इत्येतदिति संघातं शरीरे पृथिवीमयम्॥ शान्ति.१८४/२०॥
तेजो ह्यग्निस्तथा क्रोधश्चक्षुरूष्मा तथैव च।
अग्निर्जरयते यश्च पञ्चाग्नेयाः शरीरिणः॥ शान्ति.१८४/२१॥
श्रोत्रं घ्राणं तथाऽऽस्यं च हृदयं कोष्ठमेव च।
आकाशात् प्राणिनामेते शरीरे पञ्चधातवः॥ शान्ति.१८४/२२॥
श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च।
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा॥ शान्ति.१८४/२३॥
प्राणात् प्रणीयते प्राणी व्यानाद् व्यायच्छते तथा।
इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम्॥ शान्ति.१८४/२५॥
भूमेर्गन्धगुणान् वेत्ति रसं चाद्भ्यः शरीरवान्।
ज्योतिषा चक्षुषा रूपं स्पर्शं वेत्ति च वाहिना॥ शान्ति.१८४/२६॥
मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिताः॥ शान्ति.१८४/४४॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
अतिक्रान्तं हि यत् कार्यं पश्चाच्चिन्तयते नरः।
यथा नातीतमर्थं वै पश्चात्तापेन युज्यते॥ स्त्री.१/३५॥
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति।
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते॥ स्त्री.२६/४॥
तस्मात् प्रत्यक्षदृष्टोऽपि युक्तो ह्यर्थः परिक्षितुम्।
परीक्ष्य ज्ञापयन्नर्थान्न पश्चात् परितप्यते॥ शान्ति.१११/६७॥
दुर्बलात्मन उत्पन्नं प्रायश्चित्तमिति श्रुतिः॥ शान्ति.२७०/१४॥
यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हते।
तथा तथा शरीरं तु तेनाधर्मेण मुच्यते॥ अनु.११२/५॥
प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति॥ अनु.१६२/५७॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
योहि कश्चिद् द्विजान् हन्याद् गां वा लोकस्य मातरम्।
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः।
लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः॥ शान्ति.२०७/५८॥
पापोदयफलं विद्वान् यो नारभति वर्धते।
धनंजय कृतं पापं कल्याणेनोपहन्यते॥ शान्ति.७/३६॥
ख्यापनेनानुतापेन दानेन तपसापि वा॥ शान्ति.७/३७॥
यो हि पापसमारम्भे कार्ये तद्भावभावितः।
कुर्वन्नपि तथैव स्यात् कृत्वा च निरपत्रपः॥ शान्ति.३३/३५॥
तस्मिंस्तत् कलुषं सर्वं समाप्तमिति शब्दितम्।
प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः॥ शान्ति.३३/३६॥
तपसा कर्मणा चैव प्रदानेन च भारत।
पुनाति पापं पुरुषः पुनश्चेन्न प्रवर्तते॥ शान्ति.३५/१॥
अहिंसो मन्दकोऽजल्पो मुच्यते सर्वकिल्विषैः॥ शान्ति.३५/३७॥
तस्मात् दानेन तपसा कर्मणा च फलं शुभम्।
वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान्॥ शान्ति.३५/४१॥
जानता तु कृतं पापं गुरु सर्वं भवत्युत।
अज्ञानात् स्वल्पको दोषः प्रायश्चित्तं विधीयते॥ शान्ति.३५/४५॥
न मिश्रः स्यात् पापकृद्भिः कथंचित्॥ शान्ति.७३/२३॥
पापस्य लोको निरयोऽप्रकाशो नित्यं दुःखं शोकभूयिष्ठमेव।
तत्रात्मानं शोचति पापकर्मा वन्हीः समाः प्रतपन्नप्रतिष्ठः॥ शान्ति.७३/२७॥
यदि नात्मनि पुत्रेषु न चेत् पौत्रेषु नप्तृषु।
न हि पापं कृतं कर्म सद्यः फलति गौरिव॥ शान्ति.९१/२१॥
अपविध्यन्ति पापनि दान यज्ञ तपोबलः॥ शान्ति.९७/५॥
सह संजात वृध्दस्य तथैव सहभोजिनः।
शरणागतस्य च वधस्त्रिविधं ह्येव पातकम्॥ शान्ति.१३९/१९॥
इच्छयेह कृतं पापं सद्यस्तं चोपसर्पति।
कृतं प्रतिकृतं येषां न नश्यति शुभाशुभ॥ शान्ति.१३९/२१॥
पापं कर्म कृतं किंचिद् यदि तस्मिन् न दृश्यते।
नृपते तस्य पुत्रेषु पौत्रेष्वपि नप्तृषु॥ शान्ति.१३९/२२॥
स्वकर्मकलुषं कृत्वा कृच्छ्रे लोके विधीयते॥ शान्ति.१८१/२॥
अज्ञानाध्दि कृतं पापं तपसैवाभिनिर्णुदेत्॥ शान्ति.२९१/६॥
स कर्म कलुषं कृत्वा क्लेशे महति धीयते॥ शान्ति.३२२/२॥
प्राणातिपातः स्तैन्यं च परदारानथापि च।
अधिकारे यद्नृतं यच्च राजसु पैशुनम्।
कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा।
पश्यन्ति ॠतवश्चापि तथा दिननिशेऽप्युत॥ अनु.४३/७॥
परोपतापजननमत्यन्तं पातकं स्मृतम्॥ अनु.१४५ दा.पा.॥
तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर।
यज्ञेन तपसा चैव दानेन च नराधिप।
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः।
वीर्यवन्तो महात्मानः पौराणां च हिते रताः।
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
पित्रा पुत्रो वयस्थोऽपि सततं वाच्य एव तु।
यथा स्याद् गुणसंयुक्तः प्राप्नुयाच्च महद् यशः॥ आदि.४२/४॥
शरीरकृत् प्राणदाता यस्य चान्नानि भुञ्जते।
क्रमेणैते त्रयोऽप्युक्ताः पितरो धर्मशासने॥ आदि.७२/१५॥
पित्रा मात्रा च पुत्रस्य यद् वै कार्यं परं स्मृतम्॥ सभा.५०/१२॥
एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत।
तपसा ब्रह्मचर्येण सत्येन च तितिक्षया॥ शान्ति.७/१३॥
भृतो वृध्दो यो न बिभर्ति पुत्रःस्वयोनिजः पितरं मातरं च।
तद्वै पापं भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके॥ शान्ति.१०८/३१॥
तपः शौचवता नित्यं सत्यधर्मरतेन च।
पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम्॥ शान्ति.२६६/११॥
पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात्॥ शान्ति.२६६/१२॥
गुरुरग्य्रः परो धर्मः पोषणाध्यापनान्वितः॥ शान्ति.२६६/१८॥
प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता।
शरीरादीनि देयानि पिता त्वेकः प्रयच्छति॥ शान्ति.२६६/१८॥
पिता धर्मः पिता स्वर्गः पिता हि परमं तपः।
पितरि प्रीतिमापन्ने सर्वाः प्रीयन्ति देवताः॥ शान्ति.२६६/२१॥
आशिषस्ता भजन्त्येनं परुषं प्राह यत् पिता।
निष्कृतिः सर्वपापानां पिता यच्चाभिनन्दति॥ शान्ति.२६६/२२॥
मुच्यते बन्धनात् पुष्पं फलं वृक्षात् प्रमुच्यते।
क्लिश्यन्नपि सुतं स्नेहैः पिता पुत्रं न मुञ्चति॥ शान्ति.२६६/२३॥
ये पितुर्भ्रातरो ज्येष्ठा ये च तस्यानुजास्तथा।
पितुः पिता च सर्वे ते पूजनीयाः पिता तथा॥ अनु.१४५ दा.पा.॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
विशेषनियमैः सामान्यनियमाः बाधिताः भवन्ति ।
तन्नाम सामान्यपरिस्थितिषु ये नियमाः अन्विताः भवन्ति
ते विशेषपरिस्थितीषु अन्विताः न भवन्ति ।
<DOC_END>
<DOC_START>
पूर्ववया ब्राह्मणः प्रत्युत्थेय इति पूर्ववयसोऽप्रत्युत्थाने दोषः
उक्तः, प्रत्युत्थाने च गुणः । कथम्
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।
वृद्धः ब्राह्मणः समीपं यदा आयाति तदा उत्थाय सः आदरणीयः । एवम् अकरणं दोषाय ।
एवम् आचरणं गुणाय भवति । कथम् इति चेत् कनीयान् यदा ज्येष्ठम् उपसर्पति तदीयाः
प्राणाः उत्क्रामन्ति (उपरि गच्छन्ति) । सः उत्थाय अभिवादयति तदा प्राणाः पूर्वस्थितौ
पुनः स्थापिताः भवन्ति । अतः अवश्यं प्रत्युत्थाय अभिवादनीयम् ।
<DOC_END>
<DOC_START>
पूज्यव्यक्तेः अग्रासनं प्राप्यते, आद्यावसरः प्राप्यते ।
<DOC_END>
<DOC_START>
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । मुण्डकोपनिषत् ३-१-५
सत्येन तपसा सम्यग्ज्ञानेन नित्यं ब्रह्मचर्येण च एष आत्मा लभ्यः ।
आत्मज्ञानप्राप्त्यै साधनानि च उपनिषत्सु उपदिष्टानि सन्ति । ज्ञानप्राप्त्यै
अन्तः करणशुद्धिः अत्यन्तमुख्या । मनसि शुद्धे सति आत्मज्ञानप्राप्तिमार्गः
अस्तु, चित्तशुद्ध्यर्थं किं कर्तव्यम् इति चेत् । उच्यते । सत्यवचनम्,
इन्द्रियनिग्रहः, विवेकज्ञानम्, ब्रह्मचर्यं च अनुष्ठातव्यम् । सत्यं नाम
अनृतवर्जनम् । अनृतवचनं कष्टमेव, यतः पौर्वापर्यालोचनेनैव विचार्य,
विमृश्य अनृतं वक्तव्यं भवति । एकम् अनृतं वक्तुं, तत्पूर्वभावितया तद्
अनृतवचनं समर्थयितुं, दश अनृतानि चिन्तयित्वा योजनीयानि भवन्ति ।
अनृतवचनानां जनानाम् आत्मज्ञानप्राप्तिर्वा आत्मज्ञानस्य गन्धोऽपि
नास्ति । इन्द्रियनिग्रहः, सद्गुरुसेवा, ब्रह्मचर्यादीनि चित्तशुद्धिसाधनानि
भवन्ति । आत्मज्ञानप्राप्त्यै चित्तशुद्धिः अपेक्ष्यते एव ॥
<DOC_END>
<DOC_START>
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । काठकोपनिषत् २-१-१०
इह परिपूर्णे आत्मनि यः नाना इव पश्यति सः मन्दः मृत्योः उपरि मृत्युम् आप्नोति ।
आत्मा परिशुद्धः परिपूर्णः अद्वितीयः अखंडचिन्मात्रश्च । अस्मिन् आत्मनि कश्चिदपि
विभागो नास्ति, कश्चिदपि भेदो नास्ति । एवंविदेव आत्मज्ञानी । एवंविदः जन्म वा
मरणं वा नास्ति, जन्मान्तरं तु नास्त्येव ॥
एवम् आत्मानम् अजानन्, जाति वर्ण-आश्रम-नामरूप-गोत्रादीन् भेदान् आत्मन्यपि
यः सत्यं पश्यति सः अज्ञः, सः मन्दः । अस्य अज्ञानस्य फलं किम् इति चेत्, मृत्योः
उपरि मृत्युप्राप्तिरेव फलं भवति । पुनः पुनः जन्ममरणसंसारचक्रे गृहीतः दुःखी भवति ।
नाना ‘इव’ पश्यति इति ‘इव’ शब्दं प्रयुङ्क्ते अयं मन्त्रः । ‘इव’ इति सत्यमिव दृश्यते
इत्यर्थः । परमार्थतस्तु अविद्याकालेऽपि आत्मनि भेदो नास्त्येव । अवभासनदशायामपि
भेदो नास्ति इत्यर्थः । भेददर्शनं तु मिथ्यादर्शनमेव । भेददर्शनेन अनर्था जायन्ते ॥
<DOC_END>
<DOC_START>
आत्मा एक एव, नामानि अनेकानि
एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता
विज्ञानात्मा पुरुषः । स परेऽक्षरे आत्मनि सम्प्रतिष्ठते ॥ प्रश्नोपनिषत् ४-९
एष एव एक आत्मा द्रष्टा, स्प्रष्टा, श्रोता, घ्राता, रसयिता, मन्ता,
बोद्धा, कर्ता, विज्ञानात्मा पुरुषः । सः पुरुषः परे अक्षरे आत्मनि सम्प्रतिष्ठते ॥
अद्वितीयः परमात्मा एव उपाधिभेदेन नानारूपेण अवभासते । जीवात्मरूपेण
दृश्यमानोऽपि अयं परमात्मा एव । न हि जीवात्मा परमात्मा इति परमार्थत
एव द्वौ आत्मानौ स्तः । आत्मा एक एव, नामरूपोपाधयस्तु भिन्नविभिन्नाः ।
एक एव आकाशः घटाकाशः, करकाकाशः, महाकाश इव; एक एव कार्पासो
नानाविधवस्त्ररूपेण इव; एकमेव सुवर्णम् अङ्गुलीयकम्, चूडामणिः केयूरम्,
कुण्डलम्, हार इव यथा दृश्यते; एवमेव एक एव आत्मा कर्ता, द्रष्टा, गन्ता,
श्रोता इत्यादिरूपेण अवभासते । उपाधिभेदेनैव आत्मनः नानानामानि नाना
रूपाणि च । परमार्थतस्तु इदं सर्वम् आत्मैव ॥
<DOC_END>
<DOC_START>
आत्मक्रीडः आत्मरतिः क्रियावान् एष ब्रह्मविदां वरिष्ठः । मुण्डकोपनिषत् ३-१-४
आत्मक्रीडः आत्मरतिः आत्मक्रिय एव ब्रह्मविदां वरिष्ठः ॥
ब्रह्मज्ञानी नाम कः सः द्वैतव्यवहारम् अस्मद्वदेव करोति वा न वा
इति अनेके पृच्छन्ति । ईदृशानां प्रश्नानां प्रतिवचनं ददाति अयं मन्त्रः ॥
आत्मक्रीडः आत्मरतिः आत्मक्रियश्च यः असौ एव ज्ञानिपुङ्गवः । एतानि
त्रीण्यपि लक्षणानि स्वानुभवगम्यान्येव । आत्मज्ञानी अपि अज्ञानिवदेव
सर्वव्यवहारान् यद्यपि करोति, तथापि सर्वे ते व्यवहाराः केवलम् आभासमात्रा
एव, नाटकमात्रा एव, चेष्टामात्रा एव भवन्ति । अज्ञानिनां तु सत्या भवन्ति ।
ज्ञानी नाम आत्मक्रीडः आत्मरतिश्च भवति । न हि ज्ञानिनः अनात्मवस्तुषु
आसक्तिर्वा रतिर्वा सम्भवेत् । आनन्दस्वरूपस्यैव सतः आत्मज्ञानिनः सुखाभासे
आसक्तिः भवेद्वा सदा अमृतमेव पिबतः सामुद्रं जलं पातुम् इच्छा भवेद्वा
परमार्थतस्तु आत्मनः भिन्नतया द्वैतप्रपञ्चो नाम ज्ञानिनः नैवास्ति ॥
<DOC_END>
<DOC_START>
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । मुण्डकोपनिषत् ३-२-३
अयम् आत्मा प्रवचनेन न लभ्यः, मेधया न लभ्यः, बहुना श्रुतेनापि न लभ्यः ।
साधकेषु केचित् अधीतशास्त्राः, अपरे प्रवचनपटवः, अन्ये तु केचित् महामेधाविनो
भवन्ति । वयं ज्ञानिनः इति एते मन्यन्ते । एतादृशेभ्यः शुष्कपण्डितेभ्यः अयं मन्त्रः
जागरणसन्देशम् उपदिशति “नैतेन कतमेनापि आत्मा ज्ञातुं शक्यते” इति ॥
प्रवचनं नाम बाहुल्येन वेदशास्त्राध्ययनम् । चतुर्णामपि वेदानाम्, अनेकेषां शास्त्राणाम्,
अष्टादशपुराणानाम् अध्ययनसामर्थ्यं हि प्रवचनं नाम । नैतत् सुलभसाध्यम्
अत्यन्तकष्टकरमेव साधनमेतत् । भवतु नाम, नैतावता केवलेन आत्मज्ञानं लभ्यते ।
अथ मेधासामर्थ्यम् एकदा पठितानां ग्रन्थानाम् अर्थधारणं हि मेधा । इदमपि
अद्भुतमेव । अपि तु नानेनापि आत्मज्ञानोदयः । बहुना श्रुतेनापि, शास्त्रप्रवचनैः
केवलैः श्रूयमाणैरपि आत्मज्ञानं नोदेति । शमदमादिसाधनसम्पन्नैरेव मुमुक्षुभिः
<DOC_END>
<DOC_START>
योऽप्सु तिष्ठन्, योऽग्नौ तिष्ठन्, योऽन्तरिक्षे तिष्ठन्, यो वायौ तिष्ठन्
यो दिवि तिष्ठन्, यः आदित्ये तिष्ठन्, यो दिक्षु तिष्ठन्, यश्चन्द्रमसि
तिष्ठन्, यस्तारके तिष्ठन्, यः आकाशे तिष्ठन्, यस्तमसि तिष्ठन्
यस्तेजसि तिष्ठन्,…..अन्तरो यमयति, एष ते आत्मा अन्तर्यामी अमृतः । बृहदारण्यकोपनिषत् ३-७-४ तः १४
यः अप्सु तिष्ठन्, अग्नौ तिष्ठन्, अन्तरिक्षे तिष्ठन्, यः वायौ तिष्ठन्, दिवि
तिष्ठन्, आदित्ये तिष्ठन्, दिक्षु तिष्ठन्, यः चन्द्रमसि तिष्ठन्, तारके तिष्ठन्,
आकाशे तिष्ठन्, यः तमसि तिष्ठन्, तेजसि तिष्ठन्, अन्तरः सन् सर्वान्
यमयति एषः ते आत्मा अन्तर्यामी अमृतः ॥
अन्तर्यामिस्वरूपस्य आत्मनः लक्षणम् अत्यन्तं सुन्दरतया अयं मन्त्रः उपदिशति ।
योऽसौ आत्मा आकाशादिपञ्चभूतानि, भूरादिसकललोकान्, सूर्यचन्द्रनक्षत्रादीनि च
स्वाधीनानि कुर्वन् स्वसामर्थ्येन यमयन्, तेषामन्तरो वसति, स एव अन्तर्यामी ।
प्रमाणागोचरः आत्मा ह्ययम् । परं ब्रह्मैव अन्तर्यामी इति कथ्यते ॥
<DOC_END>
<DOC_START>
न तत्र सूर्यो भाति न चन्द्रतारकम्
नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तस्य भासा सर्वमिदं विभाति ॥ काठकोपनिषत् २-२-१५
तद् ब्रह्म सूर्यो न भाति, चन्द्रतारकं न भाति, इमाः विद्युतो न
भान्ति, अयम् अग्निस्तु तं कथं भाति स्वयंभान्तं तमेव आत्मानम्
अनुसृत्य सर्वं भाति । तस्यैव भासा इदं सर्वं विभाति ।
प्रभाते सूर्यः, रात्रौ तु चन्द्रनक्षत्रादयः इमं प्रपञ्छं प्रकाशायन्ति इति
खलु वयं सर्वेऽपि जानीमः । नेदं मतं साधु भवति । सूर्यादीनामपि
आत्मत्वेन चैतन्यात्मकः प्रकाशकः अन्यः अस्ति । तम् आत्मानं सूर्यो
वा चन्द्रनक्षत्राण्यादीनि वा नैव प्रकाशयेयुः ॥
आत्मा तु स्वयं चिन्मात्रः, स्वयंप्रकाशः सन् सर्वानपि अवभासयति ।
अग्निना तप्तं हि अयः पिण्डं अन्यान् दहति प्रकाशयति च । न तु
स्वतः अयः पिण्डस्य दहनप्रकाशनसामर्थ्यम् अस्ति । तथैव चिन्मात्रस्वरूप
एव आत्मा सर्वमिदम् अवभासयति ॥
<DOC_END>
<DOC_START>
सलिल एको द्रष्टा अद्वैतो भवति, एष ब्रह्मलोकः सम्राडिति
हैनमनुशशास याज्ञवल्क्यः । बृहदारण्यकोपनिषत् ४-३-३२
सलिलवत् आत्मा द्रष्टा सन् अद्वैतः । हे सम्राट्, एष एव ब्रह्मलोकः,
इति एनं जनकं राजानम् अनुशशास याज्ञवल्क्यः ॥
अस्मिन् मन्त्रे ‘अद्वैत’ शब्दः श्रूयते । ‘अद्वैतः’ इति आत्मनो विशेषणम् ।
अद्वैतस्वरूपो हि आत्मा । न हि अद्वैतं नाम मतं वा सिद्धान्तो वा भवितुमर्हति ।
जलवत् आत्मा एकस्वरूपः । तोयं सर्वत्रापि एकस्वरूपमेव । स्वभावेन शुद्धमेव
सलिलं नाम । आत्मा अपि सलिलवत् अत्यन्तशुद्धं निर्मलश्च । उपाधिसम्बन्धादेव
हि सलिले मलिनता सम्भवति । एवमेव नित्यशुद्धे अद्वैते आत्मनि अविद्यया
अयमात्मा अभयः अमृतः अद्वैतश्च । सुषुप्तात्मनः स्वरूपम् अस्मिन् मन्त्रे
उपदिश्यते । गाढनिद्रायां हि निरुपाधिकं स्वाभाविकं स्वरूपं विद्यते । अयमेव
ब्रह्मलोकः । सुषुप्तिरेव अत्र ब्रह्मलोकः । ब्रह्मैव लोकः ब्रह्मलोकः । अस्मिन्नेवार्थे
सुषुप्तिः ब्रह्मलोको भवति । जनकाय चक्रवर्तिने याज्ञवल्क्यस्य महर्षेः उपदेशोऽयम् ॥
<DOC_END>
<DOC_START>
न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ काठकोपनिषत् २-२-५
प्राणेन वा अपानेन वा न कश्चन प्राणी जीवति । किं तु यस्मिन् एतौ प्राणापानौ
प्रतिष्ठितौ स्तः, तेनैवात्मना सर्वे जीवन्ति ॥
“प्राणापानाभ्यां वयं जीवामः इति, प्राणे निर्गते सति वयं म्रियामहे” इति च सर्वे
जानन्ति । तस्मादेव कारणात् प्राणमेव आत्मानं मन्यन्ते सर्वे ॥
नैषा साध्वी मतिः । यतो हि प्राणापानव्यानोदानसमाना वा इन्द्रियमनोबुद्धयो वा
न स्वतन्त्राः । प्राणादयः सर्वेऽपि शरीरे संहताः सन्तः आत्मने, आत्मार्थं, आत्मनः
सान्निध्ये व्याप्रियन्ते । अयमात्मा तु असंहतः सच्चिदानन्दस्वरूपः पारमार्थिकस्वरूपश्च ।
तेन आत्मना निमित्तभूतेनैव एतेषां प्राणादीनाम् अस्तिता । आत्मनैव प्राणादयो जीवन्ति ।
अयमेव प्रत्यगात्मा । एतमेव आत्मत्वेन यो विजानाति स एव धीरः, एष एव च ब्रह्मवित् ।
अयम् आत्मा अजः, अजरः, अमरः, अमृतः अभयः, अद्वयश्च ॥
<DOC_END>
<DOC_START>
दूरात् सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् । मुण्डकोपनिषत् ३-१-७
ब्रह्म दूरादपि दूरस्थमेव अज्ञानाम्, तथा विवेकिनाम् अन्तिके च ।
सम्यक् पश्यत्सु इहैव गुहायां निहितं ब्रह्म ॥
परमात्मा समीपे अस्ति वा दूरे वा इतिप्रश्नस्य प्रतिवचनं ‘दूरे च
अन्तिके चास्ति’ इति परमात्मानम् आत्मनः भिन्नभूतं कश्चित् पदार्थं
मन्यमानानां परमात्मा नाम ग्रहनक्षत्रादिभ्योऽपि अत्यन्तं दूरस्थ एव ।
अज्ञानादेव अविवेकिनः एवं मन्यन्ते ॥
सम्यक् विजानतां तु ब्रह्म समीपस्थम् एव । न हि समीपे ब्रह्म भवति ।
किन्तु स्वस्मिन्नेव ब्रह्म भवति । नैतदपि साधु, स्वयमेव ब्रह्मस्वरूप एव ।
आकाशः अस्माकं दूरे वा समीपे वा आकाशं कराभ्यां स्प्रष्टुं प्रयत्नं कुर्वतः
आकाशः दूरे भवति, सुदूरे, अतिदूरे, दूरातिदूरे भवति; किन्तु आकाशो नाम
किम् इति विचारे कृते आकाशः समीपतम एव भवति । सर्वव्यापकः निरवयवः
खलु आकाशः आकाशस्यापि कारणभूतः अन्तश्च बहिश्च विद्यमानः आत्मैव ।
<DOC_END>
<DOC_START>
एवमेवायं पुरुषः एतौ उभौ अनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च । बृहदारण्यकोपनिषत् ४-३-१८
यथा महामत्स्यः, एवमेव अयं पुरुषः स्वप्नान्तं च बुद्धान्तं च एतौ
यथा महामत्स्यः नद्याम् पूर्वस्मात् तटात् पश्चिमं, पश्चिमाच्च तटात्
पूर्वं तटं सहजतया निर्भयः सञ्चरति, एवमेव आत्मा अपि आयासं विना
निर्भयः सन् जागरितात् स्वप्नम्, स्वप्नाच्च जागरितं सञ्चरति ।
अवस्थासम्बन्धरहितः असङ्गः आत्मा भवति ॥
जागरितस्वप्नावस्थे परस्परविलक्षणे भवतः । जागरिते सति स्वप्नो नास्ति,
स्वप्ने सति जागरितं नास्ति । जागरितोपाधयः स्वप्ने न सन्ति, स्वप्नस्थाः
पदार्थाः अत्र जागरिते न भवन्ति । आत्मा तु निरायासः जागरितस्वप्नयोः
उभयोरपि अवस्थयोः सञ्चरति । न केनापि स्थानेन सम्बद्धः अवस्थाद्वयप्रकाशकः
स्वयमात्मा असङ्ग एव भवति । जाग्रदवस्थावतः आत्मनः स्वप्नसम्बन्धो
नास्ति, स्वप्नं पश्यतः जागरितावस्थासङ्गश्च नास्ति । आत्मा तु सदा
जागरित स्वप्नोपाधिसबन्धरहित एव असङ्गः परिशुद्ध एव अवतिष्ठते ॥
<DOC_END>
<DOC_START>
तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां सुखं शाश्वतं नेतरेषाम् । काठकोपनिषत् २-२-१२
स्वात्मस्थमेव तम् आत्मानं ये धीराः अनुपश्यन्ति तेषामेव शाश्वतं
सुखम्, न तु इतरेषाम् ॥
सर्वेणापि पुरुषेण नियततया अपेक्ष्यं फलं नाम सुखम् । अपि तु नैकेनापि
पुरुषेण एकान्ततया प्राप्यमाणं फलं नाम सुखमेव । नैकेनापि नरेण
अपेक्ष्यमाणम् अनिष्टफलं नाम दुःख मेव, सर्वेणापि अनुभूयमानं फलं
नाम दुःखमेव । सर्वेषामस्माकं नित्यजीवने प्रतिक्षणमपि दृश्यमानो
अस्तु तर्हि, सुखलाभाय किं कर्तव्यम् इति चेत्, अत्रास्ति मृत्युदेवस्य
दिव्यमङ्गलसन्देशः । स च ‘आत्मानं विज्ञाय शाश्वतः आनन्दः’ इति
एष एव । आत्मा नाम कः देहेन्द्रियादिभ्यः अन्तरतमो ह्यात्मा ।
नाशरहितः परिपूर्णस्वरूपः आत्मैव नः स्वरूपम् ।
अस्य आत्मनः ज्ञानं कथम् शास्त्राचार्योपदेशम् अनुसृत्य, वेदान्तसन्देशान्
अनुसृत्य आत्मनि विज्ञाते स्वयमेव प्रत्यगात्मा इति विज्ञायते । तदा
<DOC_END>
<DOC_START>
अयं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन
वेद नान्तरम् । बृहदारण्यकोपनिषत् ४-३-२१
प्राज्ञेन आत्मना सम्परिष्वक्तः सन् अयं पुरुषः न बाह्यं किञ्चन
वस्तु पश्यति, नान्तरं च किञ्चिदपि पश्यति ॥
सुषुप्तिकाले च अयं जीवात्मा प्राज्ञात्मना सम्पन्नः एकीभवति ।
जागरितोपाधिना वैश्वानरः स्वप्नोपाधिना तैजसः सुषुप्त्युपाधिना
प्राज्ञश्च एक एव आत्मा अवभासते । सुषुप्तस्य आत्मनः प्राज्ञः
इति नामधेयं भवति। प्रकर्षेण जानाति इति प्राज्ञः, प्रज्ञ एव च
प्राज्ञः । चिन्मात्रस्वरूपस्य आत्मनः प्राज्ञः इति नाम भवति ॥
जीवः सुषुप्तौ प्राज्ञेन आत्मना सह एकीभवति । तदा अयं त्यक्तजागरितसम्बन्धः,
त्यक्तस्वप्नसम्बन्धश्च भवति । अत एव तत्र अयमात्मा स्वस्मात् भिन्नं
न किञ्चिदपि जानाति । केवलचिन्मात्रः सन् आत्मा स्वयम् अद्वितीयस्वरूपो
भवति । तत्र इष्टानिष्टे पुण्यपापे अतीत्य प्रत्यगात्मनि सहजस्वरूपे एव वर्तते ।
<DOC_END>
<DOC_START>
अर्थवद्ग्रहणे नानर्थकस्य । पाणिनीय-परिभाषापाठः – १६;
अर्थपूर्णे (अर्थवति) प्रसङगे अनर्थकस्य स्थानं न भविष्यति ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे पाणिनीयपरिभाषापाठे विद्यमानाः सूक्तयः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
दधिभोजनस्य खादनेन अर्थसिद्धिः कार्यसिद्धिः भवति । कार्यसिद्धिः दधिभोजनस्य
समीपे विद्यते । दधि खादत्वा यात्रां प्रति प्रस्थानेन कार्यसिद्धिः भवति इति प्रतीतिः वर्तते ।
<DOC_END>
<DOC_START>
नहि शब्दकृतेन नामार्थेन भवितव्यम् । अर्थकृतेन नाम
कस्यचित् शब्दस्य कृते अर्थः संयोजनीयः नास्ति । प्रत्युत अर्थस्य
आधारेण एव शब्दप्रयोगः क्रियते । अर्थात् शब्दप्रयोगः अर्थानुसारी
भवति, अर्थस्य अवगामनाय एव शब्दप्रयोगः क्रियते । अर्थस्य विषये
अवधानं विना कृतः शब्दप्रयोगः मौल्यहीनः भवति । अर्थहीनः भवति ।
<DOC_END>
<DOC_START>
चारुणा रमते जन्ये को भीतो रसिताशिनि ॥
सुन्दररतैः युक्ते मानवभक्षकराक्षसैः युक्ते रणरङ्गे न कम्पन्ते ।
<DOC_END>
<DOC_START>
सा बलशालिभिः मदगजैः सह उत्साहेन जयघोषं कुर्वद्भिः जनैः सह शत्रूणाम्
सम्पूरयद्भिः जनैः युक्ता सा महती सेना धीरैः युते तस्मिन् रणरङ्गे सहसा क्रोधेन
<DOC_END>
<DOC_START>
एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ काठकोपनिषत् १-३-१२
एष आत्मा सर्वेषु भूतेषु गूढोऽपि न अज्ञानिनां प्रकाशते, अपि तु सूक्ष्मदर्शिभिः
अग्र्यया सूक्ष्मया बुद्ध्या आत्मा गृह्यते ॥
अनेके साधकाः परमात्मदर्शनेच्छया उग्रं तीव्रं तपश्चरन्ति । तपः प्रभावेण च
तेषां संकल्पशक्तिः, वाक्छक्तिः, जनाकर्षण-धनाकर्षणशक्तयश्च सुलभा भवेयुः ।
नैताः सिद्धयः आत्मज्ञानम् उत्पादयन्ति । न चैतत् आत्मदर्शनं भवति । नैते
तपस्विनः आत्मविदः । यतो हि स्वात्मस्थमपि आत्मानं नैते जानीयुः ॥
तर्हि कथमात्मदर्शनम् सूक्ष्मया बुद्ध्या प्रत्यगात्मस्वरूपभूतया, सार्वत्रिकपरिपूर्णानुभवरूपया,
अतीन्द्रियरूपया । शास्त्राचार्याणाम् उपदेशं श्रुत्वा, तस्य अर्थं मत्वा, ततो निदिध्यासनं
कृत्वा ततो मनः सुसंस्कृतं भवति एकाग्रं च भवति । तदा मनसोऽपि साक्षिभूतः
प्रत्यगात्मैव स्वयम् इति निश्चयज्ञानं जायते । इदमेव तु आत्मज्ञानं नाम । अनेनैव
<DOC_END>
<DOC_START>
अन्तः शरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः । मुण्डकोपनिषत् ३-१-५
ज्योतिर्मयः शुभ्रः आत्मा शरीरे अन्तः वर्तते । इममात्मानं क्षीणदोषाः
आप्नोति इति आत्मा, सर्वव्यापकः परिपूर्णः परमात्मा । आत्मशब्दस्य
निर्वचनमेतत् यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य
सन्ततो भावः तस्मादात्मेति कीर्त्यते ॥
सर्वम् आप्नोति इत्यात्मा, सर्वमपि आत्मसामीप्यम् आदत्ते इत्यात्मा,
सर्वान् विषयान् जीवरूपेण अत्ति इति च आत्मा । सर्वस्मिन्नपि वस्तुनि
यः ओतप्रोतत्वेन वसति स एव आत्मा । सर्वव्यापकमपि इमम् आत्मानं
प्रप्रथमं जिज्ञासुः स्वस्मिन्नेव पश्येत् । मनसः साक्षिभूतमात्मानं स्वस्मिन्नेव,
देहे एव विद्यमानोऽप्यात्मा देहदोषविवर्जितः । आत्मा तु नित्यचैतन्यस्वरूप
एव । सर्वव्यापकोऽपि आकाशः असङ्गतया दोषरहित एव । आत्मा अपि
शुद्धस्वरूप एव । ईदृशम् आत्मानं साधकाः यतयः एव सम्यक् पश्येयुः ।
<DOC_END>
<DOC_START>
अयं पुरुषः एतस्मै अन्ताय धावति, यत्र सुप्तो न कञ्चन कामं
कामयते, न क्ञ्चन स्वप्नं पश्यति । बृहदारण्यकोपनिषत् ४-३-१९
यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं पश्यति, एतस्मै
अन्ताय अयं पुरुषो धावति ॥
सुषुप्तिं वर्णयति अयं मन्त्रः । अयं जीवात्मा जागरिते भोगान् भुक्त्वा,
अटित्वा, आयस्तः सन् आयासपरिहारार्थं सुषुप्तस्थानम् आगच्छति ।
अत्र निरायासः स्वस्थः सन् तापत्रयरहितः आनन्दी भवति । सुषुप्तौ
अत्रैकः प्रसिद्धो दृष्टान्तः । पक्षिदृष्टान्तः । खगः आकाशे अटित्वा आयस्तः
आयासपरिहारार्थं स्वनीडमेव रात्रौ प्रविशति खलु एवमेव आत्मा अपि
आत्मनः आनन्दस्वरूपस्थानं सुषुप्तिं प्रविशति । तत्र स्वमूलस्थाने आनन्दी
भवति । जाग्रत्स्वप्नयोः देहाद्युपाध्यध्यासेन सुखदुःखानि अनुभवन्
आयासभारपूर्णो भवति । सुषुप्तौ तु स्वस्वरूपे स्थितः आनन्दी भवति ।
सुषुप्तिर्नाम आत्मनः आयासवर्जितं वासस्थानम् ॥
<DOC_END>
<DOC_START>
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मैतां चतुर्थीम् ।
माहाचमस्यः प्रवेदयते । मह इति । तद् ब्रह्म । स आत्मा ॥ तैत्तिरीयोपनिषत् १-५
भूः, भुवः, सुवः इति एताः तिस्रो व्याहृतयः प्रसिद्धाः । महाचमसस्य पुत्रः
माहाचमस्यः चतुर्थीं “महः” इत्येतां व्याहृतिं दृष्टवान् । सा व्याहृतिरेव
ब्रह्म, स एव च आत्मा ॥
उपनिषत्सु व्याहृत्युपासनानि उपदिष्टानि । भूः भुवः सुवः इति त्रिस्त्रो
व्याहृतयः । भूः इति समस्तोऽपि भूलोकः, भुवः इति अन्तरिक्षलोकः, सुवः
इति स्वर्गलोकः इति उपासीत । यस्मात् भूः भुवः सुवः इत्येताभिः तिसृभिः
व्याहृतिभिः भूर्लोकभुवर्लोक सुवर्लोकाः व्यापृता भवन्ति ॥
एताभ्यः तिसृभ्योऽपि विलक्षणतया चतुर्थीं ‘महः’ इति व्याहृतिं माहाचमस्यः
महर्षिः अपश्यत् । इयं ‘महः’ इति व्याहृतिः एव आदित्यः, अयमेव चन्द्रमाः,
इदमेव च ब्रह्म, अयमेव आत्मा । एवं चतसृणामपि व्याहृतीनामुपासनात्
सकलदेवतानाम् अनुग्रहः एव फलं भवति ॥
<DOC_END>
<DOC_START>
योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः ….ध्यायतीव लेलायतीव । बृहदारण्यकोपनिषत् ४-३-७
यः प्राणेषु विज्ञानमयः, हृदि अन्तर्ज्योतिः पुरुषः, स एव आत्मा । स
ध्यायति ‘इव’ लेलायति ‘इव’ च दृश्यते ॥
‘कोऽसौ आत्मा’ इति जनकराजप्रश्नस्य उत्तरत्वेन याज्ञवल्क्यस्य वचनमिदम् ।
प्राणेषु विज्ञानमय एव आत्मा । सर्वाणि इन्द्रियाणि संव्याप्य, इन्द्रियाणां
चैतन्याधायकः, इन्दियाणां प्रकाशकः, स्वयं तु इन्द्रियविलक्षणः यः स एव
आत्मा । स्वयंज्योतिः अयमात्मा । परंज्योतिरयमात्मा । अस्य आत्मनः
आत्मन एव इन्द्रियाणि जीवन्ति । आत्मा तु हृद्यन्तः चैतन्यस्वरूपः ।
अयमात्मा ब्रह्मैव । परमेव ब्रह्म । अयमात्मा ध्यायति इव, लेलायति इव
च अवभासते । ध्यायति ‘इव’, न तु ध्यायति ‘एव’; लेलायति ‘इव’, न तु
लेलायति ‘एव’ । अयमात्मा जानाति इव, करोति इव च दृश्यते, न तु
परमार्थतः आत्मनि क्रिया वा विक्रिया वा सम्भवति । आत्मनः महिमा खल्वेषः ।
<DOC_END>
<DOC_START>
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ काठकोपनिषत् २-२-७
केचित् देहिनः शरीरत्वाय मनुष्ययोनिं प्रपद्यन्ते । अन्ये देहिनः
यथाकर्म यथाश्रुतं च स्थाणुम् अनुसंयन्ति ॥
अस्माकं भारतीय-वैदिक-संस्कृतौ जन्मान्तरास्तित्वम् अभ्युपगम्यते ।
कर्मानुसारेण जन्म प्रपद्यन्ते जीवाः । केवलेन आत्मज्ञानमात्रेण
जन्मान्तरप्राप्तिपरिहारो भवेत्, नान्यो मार्गः । पुण्यकर्मभिः उत्तमं
जन्म, पापकर्मभिः नीचं जन्म, पुण्यपापमिश्रणात् मनुष्यजन्म च
प्राप्यते । सर्वथा अज्ञानिनां पुनर्जन्म भवत्येव ॥
अस्मिन् जन्मनि कृतपुण्यपापकर्मणां मनुष्याणां तत्फलत्वेन आगामिनि
जन्मन्यपि मनुष्यजन्मैव प्राप्यते । तादृशाः मानवाः मनुष्ययोनिमेव प्रविशन्ति ।
ये तु अस्मिन् जन्मनि पाशवीं वृत्तिम् अनुसरन्तः राक्षसस्वभावाः पापकर्माणो
भवन्ति, तादृशाः मानवाः आगामिनि जन्मनि पशुपक्षिक्रिमिकीटादियोनिं वा
ओषधिवनस्पति वृक्षादियोनिं वा अश्मगिरिपर्वतादियोनिं वा प्रविशन्ति ।
जाग्रत, जाग्रत एवं हि मृत्युदेवतायाः धीरं जागरणवचनम् ॥
<DOC_END>
<DOC_START>
ब्रह्म पश्चात् ब्रह्म दक्षिणतश्चोत्तरेण ।
ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ मुण्डकोपनिषत् २-२-१२
पुरस्तात् इदम् अमृतं ब्रह्मैव, पश्चात् ब्रह्म, दक्षिणतश्च ब्रह्मैव,
उत्तरेण च ब्रह्म, अधश्च ब्रह्मैव प्रसृतम्, ऊर्ध्वं च ब्रह्मैव; इदं विश्वं
समस्तस्यापि वेदान्तदर्शनस्य सारं सरलतया तथा सुन्दरतया उपदिशति
अयं मन्त्रः । “इदं विश्वं सर्वमपि परिपूर्णं ब्रह्मैव” – इत्येतावानेव सर्वेषां
वेदान्तानां सन्देशः । सर्वोपनिषदां सन्देशसारः सर्वः एतावानेव ॥
अस्मत्पुरतः, पश्चाच्च दृश्यमानाः सर्वेऽपि पदार्थाः परब्रह्मैव । न केवलं
पुरतः पश्चाच्च दृश्यमानानि वस्तूनि परब्रह्म इति, किन्तु दक्षिणतः, उत्तरतः
इत्येदपि ब्रह्मैव इत्यर्थः । पुरतः, पश्चात्, दक्षिणतः, उत्तरतः, अधस्तात्,
ऊर्ध्वम्, अन्तः, बहिः इति सर्वं ब्रह्मैव ॥
<DOC_END>
<DOC_START>
अत्र पिता अपिता भवति, माता अमाता, लोका अलोकाः
देवा अदेवाः वेदा अवेदाः । बृहदारण्यकोपनिषत् ४-३-२२
अत्र सुषुप्तौ पिता अपिता भवति, माता अमाता भवति, लोकाः अलोका
भवन्ति, देवा अदेवाः, वेदाश्च अवेदा भवन्ति ॥
केवलं जाग्रतस्वप्नयोरेव सर्वे द्वैतव्यवहारा भवन्ति । भेदसम्बन्धाः सर्वेऽपि
जागरिते तथा स्वप्ने भवन्ति । पिता, पुत्रः, पतिः, पत्नी, वर्णाः, आश्रमाः,
धर्माधर्मै, वेदाः, देवताः, लोकाः इत्येते सर्वेऽपि पदार्थाः केवले जागरिते
सुषुप्तौ तु एते सर्वेऽपि भेदव्यवहाराः तत्र नैव विद्यन्ते । जनकः सुषुप्तौ
न जनको भवति । पुत्रः तत्र न पुत्रो भवति, भार्या तत्र न भार्या भवति, वेदाः
न वेदास्तत्र, देवातास्तत्र न देवताः, शास्त्रं न शास्त्रम्, गुरुस्तत्र न गुरुः
शिष्योऽपि तत्र न शिष्यः । एते जनकादयः सर्वेऽपि भेदाः अविद्याकृता एव ।
उपाधिभिरेव भेदो दृश्येत । उपाध्यभावे भेदाभाव एव । तदा तत्र सर्वं निर्विशेषः
आत्मा एक एव भवति ॥
<DOC_END>
<DOC_START>
अन्योऽप्येवं यो विदध्यात्ममेव । काठकोपनिषत् २-३-१८
इदानीमपि अन्योऽपि मनुष्यः यः कश्चित् नचिकेतोवत् आत्मानं
जानाति चेत्, सोऽपि ब्रह्मप्राप्तः सन् पापविमुक्तो भवति ॥
उपनिषदां सन्देशं तत्रत्यगुरुशिष्यसंवादं च शृण्वतां बहूनां जनानां
मनसि एषः महान् प्रश्नः उद्भवति, यदुत “अस्मादृशानां तादृशं
श्रेष्ठं ब्रह्मज्ञानं वा तादृशो मोक्षो वा लभ्येत किम् दुर्बलानामस्माकं
तादृशी मुक्तिः प्राप्येत वा इति ॥
अस्य प्रश्नस्य प्रतिवचनं वदत्ययं काठकोपनिषन्मन्त्रः । “ज्ञात्वा
सर्वो मुक्तो भवति” इति । नचिकेताः मृत्योः आत्मतत्त्वं विज्ञाय
मुक्तोऽभवत् । तद्वदेव यः कश्चिदपि मुच्येत । आत्मज्ञानं वा
मोक्षो वा न कस्यापि मानवविशेषस्य स्वाम्यम् । सर्वेषामपि स्वरूपं
तत् । मधुरं खाद्यं भक्षितवतः सर्वस्य जिह्वायां माधुर्यं भवति ।
स्पृष्टवन्तं सर्वमपि अग्निः दहत्येव । एवमेव आत्मवित् सर्वोऽपि
मुच्यते एव । स्वात्मानं विज्ञातुं सर्वस्यापि स्वातन्त्र्यमस्त्येव ।
मोक्षो हि नाम सर्वस्यापि पुरुषस्य जन्मसिद्धं स्वाम्यं स्वभावश्च ॥
<DOC_END>
<DOC_START>
उपासते पुरुषं ये ह्यकामाः ते शुक्रमेतत् अतिवर्तन्ति धीराः । मुण्डकोपनिषत् ३-२-१
ये मुमुक्षवः अकामाः सन्तः ब्रह्मज्ञानिनम् उपासते ते धीराः इमं
अस्मिन् प्रपञ्चे भगवतः तथा सद्गुरूणाम् आराधकाः भक्ताः लक्षशः
विद्यन्ते । ईदृशाः भक्ताः सकामाः निष्कामाश्च इति द्वेधा विभज्यन्ते ।
ब्रह्मज्ञानी परमेश्वरवदेव महान् परमपूज्यश्च न हि, न हि । ब्रह्मज्ञानी
सद्गुरुः परमात्मनोऽपि श्रेष्ठ एव इत्युक्तेऽपि दोषाय न भवति ।
ब्रह्मज्ञानिभूतान् सद्गुरून् यदि मुमुक्षुभक्ताः श्रद्धाभक्ति-पुरस्सराः सन्तः
शुद्धमनसा उपासते, तर्हि इमं जन्ममरणसंसारशुक्रमार्गमेव अतिक्रामन्ति ।
शुक्रं नाम “नृबीजं शरीरोपादान कारणम्” – शरीरोत्पत्तिकारणं वीर्यम् ।
इदम् अतिवर्तन्ते, न पुनः योनिं प्रसर्पन्ति, न पुनः जायन्ते इत्यर्थः ।
ब्रह्मनिष्ठसद्गुरूपदेशश्रवणेन आत्मज्ञानं जायते, आत्मज्ञानेन अज्ञानं
बाध्यते, अज्ञाने निवृत्ते सति जन्मान्तरप्राप्तिः नास्ति । तस्मात्
अवश्यमेव मुमुक्षु साधकैः ब्रह्मात्मज्ञानिनः ब्रह्मनिष्ठा गुरवः समुपास्याः ॥
<DOC_END>
<DOC_START>
तत्र न भिन्नं किञ्चन अस्ति
न तु तद्द्वितीयमस्ति ततोऽन्यत् विभक्तं यत् पश्येत् । बृहदारण्यकोपनिषत् ४-३-२३
तत्र सुषुप्तौ आत्मनः भिन्नतया अन्यत् द्वितीयं किञ्चन नास्ति ।
येन, प्रमाणैः तद् दृश्येत ॥
सुषुप्तौ आत्मा चिन्मात्रस्वरूप एव । आत्मा सदा दृक्स्वरूप एव ।
तर्हि किमर्थं तत्र न किञ्चिदपि जानाति आत्मा । दृक्स्वरूपस्य आत्मनः
अज्ञानं न सम्भवेत् खलु इति पृष्टे अयं मन्त्रः प्रतिवचनं ददाति ।
सुषुप्ते द्वैताग्रहणे नाज्ञानम् आत्मनः कारणम् । किन्तु आत्मविभिन्ना
विषया एव तत्र न विद्यन्ते । निद्रायां प्रमाता वा प्रमाणं वा प्रमेया वा
न हि विद्यन्ते । सर्वमप्येतत् तत्र आत्मैव आसीत् । आत्मनो भिन्नतया
विज्ञेयाः पदार्थाः यदि तत्र अभविष्यन् तदा खलु तत्र प्रमाता तान् विषयान्
जानीयात् न तु आत्मभिन्नतया तत्र किञ्चिदप्यस्ति । सुषुप्तौ सर्वम्
आत्मैव आसीत् । प्रमातृप्रमाणप्रमेयाः सर्वेऽपि आत्मन्येव सम्पन्नाः ।
आत्मा तत्र अद्वितीयस्वरूपो भवति । तस्माद् हेतोः तत्र आत्मा न
<DOC_END>
<DOC_START>
तथा विद्वान् नामरूपात् विमुक्तः परात् परं पुरुषमुपैति दिव्यम् । मुण्डकोपनिषत् ३-२-८
तथैव ब्रह्मज्ञानी नामरूपबन्धनात् विमुक्तः सन् परादपि परतरं
नामरूपे एव बन्धनम् । एते नामरूपे च अविद्याकल्पिते । नामरूपे
वस्तुस्वरूपासम्बद्धे उपाधिदोषादेव दृश्येते । आत्मविद्योदये सति
नामरूपे विलीयेते । इयमेव हि मुक्तिः ॥
नामरूपविलयस्य सुन्दरं दृष्टान्तमेकं ददाति अयं मन्त्रः । स एव
नदीसमुद्रदृष्टान्तः । भिन्नभिन्नेषु गिरिपर्वतेषु जाताः गङ्गायमुना
गोदावर्याद्याः नद्यः, समुद्रंगताः सत्यः आत्मनो भिन्नभिन्नानि
नामानि रूपाणि च विहाय समुद्रः इत्येव कथ्यन्ते खलु समुद्रं
प्राप्य, समुद्रे विलीय, एकतां गताः गङ्गायमुनाद्याः सरितः न
स्वतन्त्रतया भवेयुः । एवमेव आत्मज्ञानी आत्मज्ञानबलेन “अहं
निरुपाधिकं ब्रह्मैवास्मि” इति विजानाति । अविद्याकल्पिते
नामरूपे मिथ्याभूते पश्यति । अयं ब्रह्मात्मज्ञानी जीवन्नेव
<DOC_END>
<DOC_START>
स तु तत् पदमाप्नोति यस्माद्भूयो न जायते । काठकोपनिषत् १-३-८
स विवेकी मुमुक्षुः पुनरावृत्तिरहितं वैष्णवं पदं, मोक्षमेव आप्नोति ॥
मानवाय भगवता अनुगृहीता परमश्रेष्ठा सम्पत् नाम मानवजन्म,
मानवशरीरम् । इदं मानवशरीरं हि उत्तमो रथः । अस्य रथस्य
सहायेन मोक्षं प्राप्य मानवः कृतकृत्यो भवेत् । तस्मात् विवेकी
मुमुक्षुः इन्द्रियनिग्रहसम्पन्नो भूत्वा आत्मज्ञानार्थं सद्गुरुकृपया
पुण्यकर्माणि कृत्वा मरणानन्तरं यद्यपि उत्तमां गतिं प्राप्नोति
मानवः, तथापि तस्मात् पुण्यलोकात् पुनरावर्तते एव । पितृलोकः,
गन्धर्वलोकः, स्वर्गलोकः, ब्रह्मलोकः इति सर्वेऽपि लोकाः अनित्या
एव । आत्मज्ञानी भवति चेत् सः मोक्षमश्नुते । अयं मोक्षः नैव
कर्मफलवत् प्राप्यं फलम् । ब्रह्मस्वरूपमेव हि मोक्षः । ब्रह्मैव
मोक्षधाम । ब्रह्मप्राप्तिर्नाम ब्रह्मस्वरूपेणैव अवस्थानम् । ब्रह्मज्ञानी
ब्रह्मस्वरूप एव भवति । इयमेव जीवन्मुक्तिः । जीवन्मुक्तस्य
पुनर्जन्म नास्ति । ब्रह्मैव सम्पन्नोऽयं भवति ॥ ओं तत् सत् ॥
<DOC_END>
<DOC_START>
गन्धवृक्षं विषसर्पाः आवेष्टन्ते चेदपि चन्दनं विषयुतं न भवति ॥
<DOC_END>
<DOC_START>
ऐश्वर्यं जीवनञ्च न हि शाश्वतम् । एवं स्थिते उत्तमकारणाय
एव त्यागः योग्यः भवति ।
<DOC_END>
<DOC_START>
जीमूतवाहनः स्वीयं जीवमेव अयच्छत् । दधीचिमहर्षिः स्व अस्थीनि एव वज्रायुधाय
अददात् । महापुरुषाणाम् अदेयं न किञ्चित् विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे दानविषये सुभाषितानि विद्यन्ते ।
<DOC_END>
<DOC_START>
चाण्डाले च पण्डिताः कमपि भेदं न गणयन्ति ।
<DOC_END>
<DOC_START>
शुष्कवैरं शुष्कतर्कं च कदापि केनापि सह न करणीयम् ।
<DOC_END>
<DOC_START>
विश्वासः स्यात् सः एव स्नेहितः । यत्र जीवनं निरातङ्कं स्यात् सः एव
<DOC_END>
<DOC_START>
पादाभिवन्दनसमये दृष्टम् इत्यतः नूपुरे तु सम्यक् अभिजानामि ।
(सीतायाः आभरणं दृष्टवतः लक्ष्मणस्य वचनमिदम् ।)
<DOC_END>
<DOC_START>
अयं वर्गः भारतविषये विद्यते ।
<DOC_END>
<DOC_START>
स्वस्य निमित्तं योग्यस्य चरित्रस्य (गुणव्यवहारादीनां) शिक्षणं प्राप्नुवन्ति स्म ।
<DOC_END>
<DOC_START>
अन्यः मार्गः न विद्यते ।
<DOC_END>
<DOC_START>
समाजस्य सामर्थ्यमपि क्षीणं भवति ।
<DOC_END>
<DOC_START>
सङ्घटितशक्तिं विना राष्ट्रं कुतः अभ्युदयो वा कुतः ?
<DOC_END>
<DOC_START>
सम्पत्तयः पराधीनाः भवन्ति । विपत्तयः सन्निहिताः एव भवन्ति ।
<DOC_END>
<DOC_START>
भवेत् । तत् लोकतन्त्रं लोकमान्यमपि भवेत् ।
<DOC_END>
<DOC_START>
तत्र तारकमन्त्रः परिहारमार्गः नाम सङ्घधर्मः एव ।
<DOC_END>
<DOC_START>
विविधान् द्वेषान् विनाशयति च ।
<DOC_END>
<DOC_START>
दुष्टाः अहितकारिण्यः वृत्तयः नष्टाः भवन्ति । देवताः अत्र
<DOC_END>
<DOC_START>
लोके जनसङ्घटनम् ईश्वरीयम् आयुधम् अस्ति ।
<DOC_END>
<DOC_START>
अन्ते अतिशयं सुखं यच्छन्ति ।
<DOC_END>
<DOC_START>
अपारेण धनेन, अनेकैः बन्धुभिः च तस्य किमपि प्रयोजनं नास्ति ।
<DOC_END>
<DOC_START>
भवेत् इति सम्यक् विचिन्त्य एव कार्यं करणीयम् अथवा त्यक्तव्यम् ।
<DOC_END>
<DOC_START>
तिष्ठेत् सः सर्वाः सम्पत्तीः प्राप्नोति ।
<DOC_END>
<DOC_START>
किन्तु राज्ञः मन्त्रालोचनस्य क्रमः दुष्टः यदि भवेत् तर्हि तस्मात् न केवलं
राजा अपि च राष्ट्रमेव विनष्टं भविष्यति ।
<DOC_END>
<DOC_START>
अयं वर्गः दुश्शासनविषये विद्यते ।
<DOC_END>
<DOC_START>
उत्तमानाम् अवमानात् एव भयं भवति ।
<DOC_END>
<DOC_START>
अधमांस्तु न सेवेत य इच्छेत् भूतिमात्मनः ॥
मध्यमान् आश्रयेत् । किन्तु कदापि अधमान् जनान् न आश्रयेत् एव ।
<DOC_END>
<DOC_START>
द्वावेव सुखमेधेते दीर्घसूत्री विनश्यति ॥
चिन्तने यः समर्थः स्यात् सः च सुखं प्राप्नोति । यः आलस्येन कालहरणं कुर्यात् सः विनश्यति ।
<DOC_END>
<DOC_START>
सहवासः इदं सर्वमपि अशाश्वतम् । बुद्धिमान् एषु विषयेषु
<DOC_END>
<DOC_START>
जीर्णीकर्तुं शक्नुयात् तावत्, यस्य खादनेन हितमेव परिणामं प्राप्नुयात्
<DOC_END>
<DOC_START>
शक्यते । किन्तु धर्मार्थयोः हानिकारकं सुखं मूढवत् न अनुभवेत् कदापि ।
<DOC_END>
<DOC_START>
तथा पुरुषप्रयत्नेन विना भगवतः अनुग्रहः न प्राप्यते ।
<DOC_END>
<DOC_START>
अधस् सूचिते वर्गे सङ्गृह्यन्तां प्रयत्नपराणि सुभाषितानि।
<DOC_END>
<DOC_START>
अयं वर्गः दैवानुग्रहविषये विद्यते ।
<DOC_END>
<DOC_START>
आवृतः अन्धकारः नश्यति तथा जलकल्याणकार्ये व्यापृतः जनः सर्वेभ्यः
<DOC_END>
<DOC_START>
अयं वर्गः जनकल्याणविषये विद्यते ।
<DOC_END>
<DOC_START>
विविधासु भाषासु विकिसूक्तिः उपलभ्यते -
<DOC_END>
<DOC_START>
स्वस्य सामर्थ्यानुगुणं यः कुप्यति सः कदापि अधोगतिं न प्राप्स्यति ।
<DOC_END>
<DOC_START>
तथा सज्जनाः जनेषु गुणग्रहणे कुशलाः भवन्ति । तादृशान् अहं वन्दे ।
<DOC_END>
<DOC_START>
जयेत् कदर्यं दानेन । जयेत् सत्येन चानृतम् ॥
दानेन, असत्यं सत्येन च जेतव्यम् ।
<DOC_END>
<DOC_START>
अनिग्रहेण चाक्षाणां जायते व्यसनं नृणाम् ॥
अनिग्रहेण च मनुष्याः दुरभ्यासैः युक्ताः भवन्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः व्यसनविषये विद्यते ।
<DOC_END>
<DOC_START>
गुणरुपान्तरं याति तक्रयोगाद्यथा पयः ॥
गुणाः च यथा परिवर्त्यन्ते तथा दुर्जनानाम् अल्पेन सहवासेन
अपि अस्माकम् उत्तमाः गुणाः नष्टाः भवन्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः दुर्जनसहवासविषये विद्यते ।
<DOC_END>
<DOC_START>
यस्य यस्य हि यो भावः तेन तेन हि तं नरम् ।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥
<DOC_END>
<DOC_START>
अयं वर्गः मेधावीनां विषये भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः धर्मात्मनां विषये विद्यते ।
<DOC_END>
<DOC_START>
एव । एवं स्वीये कर्मणि अभिरतः जनः कथं सिद्धिं विन्दति इति श्रूयताम् ।
<DOC_END>
<DOC_START>
भगवते आत्मना क्रियमाणानि सर्वाणि कर्तव्यानि पूजा इति भावेन
समर्पणेन मानवः सिद्धिं प्राप्नोति ।
<DOC_END>
<DOC_START>
कर्मणाऽपि त्यजेत्सदा । वृद्धहारीतस्मृतिः, ९/१५८
धर्माद् विचलितः स्वकात् । याज्ञवल्क्यस्मृतिः, आचाराध्यायः, श्लोकः ३५८
<DOC_END>
<DOC_START>
अस्मिन् वर्गे स्मृतिसूक्तयः भवन्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः वृद्धहारीतस्मृतिविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे विविधाः स्मृतिग्रन्थाः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
विपरीतं न भवति । शार्ङ्गधरपद्धतिः, श्लोकः ३४३८
कस्य न हृदये मुदः पदं दधति । शार्ङ्गधरपद्धतिः, श्लोकः ११४१
सूर्यादृते तदुदेति न चास्तमेति ।
येनोदितेन दिनमस्तमितेन रात्रिः ॥ शार्ङ्गधरपद्धतिः, श्लोकः ७४१
स्तत्र का परिदेवना ॥ शार्ङ्गधरपद्धतिः, श्लोकः ४१३६
माननमवलोकते यस्य ॥ शार्ङ्गधरपद्धतिः, श्लोकः ७६५
६. एकः स एव जीवति
न बिभर्ति दुष्पूरम् ॥ शार्ङ्गधरपद्धतिः, श्लोकः २५८
वन्यैरन्यैर्महीरुहैः ॥ शार्ङ्गधरपद्धतिः, श्लोकः ९८७
वर्धन्ते विधुकान्तिभिः ॥ शार्ङ्गधरपद्धतिः, श्लोकः १५८
९. किं पुष्पैः किं फलैस्तस्य
न कृतः पत्रसङ्ग्रहः ॥ शार्ङ्गधरपद्धतिः, श्लोकः १०४९
यः सोऽम्बुदो गर्जति गर्जतूच्चैः ।
यस्त्वेष कस्यापि न हन्ति तृष्णां
स किं वृथा गर्जति निस्त्रपोऽब्धिः ॥ शार्ङ्गधरपद्धतिः, श्लोकः १०८८
यच्चातकस्य कुरुते न तृषाप्रशान्तिम् ।
स्तं तादृशं च यदुपैति पिपासितोऽपि ॥ शार्ङ्गधरपद्धतिः, श्लोकः ८६५
न लब्धलास्यानि गतानि हंसवत् ।
गुणस्तथाप्यस्ति बके बलव्रतम् ॥ शार्ङ्गधरपद्धतिः, श्लोकः ८९२
९३. न च गन्धवहेन चुम्बिता
न च पीता मधुपेन मल्लिका
परिणामस्य जगाम गोचरम् ॥ शार्ङ्गधरपद्धतिः, श्लोकः१०१०
१४. न तादृक्कर्पूरे न च मलयजे नो मृगमदे
फले वा पुष्पे वा तव मिलति यादृक् परिमलः ।
परं त्वेको दोषस्त्वयि खलु रसाले यदधिकः
पिके वा काके वा लघुगुरुविशेषं न मनुषे ॥ शार्ङगधरपद्धतिः, श्लोकः १०१६
१५. नद्यो नीचगता दुरापपयसः कूपाः पयोराशयः
इत्थं भूतल आकलय्य सकलानम्भो निवेशानिति
त्वां भो मानस संस्मरन्पुनरसौ हंसः समस्यागतः ॥ शार्ङ्गधरपद्धतिः, श्लोकः ८१४
चिरमिति येन कलंकिनं वदन्ति ॥ शार्ङ्गधरपद्धतिः, श्लोकः ७५५
र्न च वाहगुणः क्वचित् ।
स्तथाप्यश्नाति भोजनम् ॥ शार्ङ्धरपद्धतिः, श्लोकः ९६१
हतविधिरिह सुस्थितं कमपि ॥ शार्ङ्गधरपद्धतिः, श्लोकः ७५२
व्रजत्यस्तमसौ रविः ॥ शार्ङ्गधरपद्धतिः, श्लोकः ७४३
काका निः शेषयन्त्यमी ॥ शार्ङ्गधरपद्धतिः श्लोकः १०४०
परेषां गुह्यगुप्तये ॥ शार्ङ्घरपद्धतिः, श्लोकः २९४
मुक्ता भुक्ता भवन्ति यत्रापः ॥ शार्ङ्गधरपद्धतिः, श्लोकः ७८८
मित्रोदये हर्षः ॥ शार्ङ्गधरपद्धतिः श्लोकः ९९
निवसितमिव पारिजातेन ॥ शार्ङ्गधरपद्धतिः, श्लोकः९९०
२५. पिब पयः प्रसर क्षितिपान्तिकं
भषक सम्प्रति केसरिणस्तुलाम् ॥ शार्ङ्गधरपद्धतिः, श्लोकः १२११
२६. पीतं यत्र हिमं पयः कवलिता यस्मिन् मृणालांकुरा
स्तापार्तेन निमज्य यत्र सरसो मध्ये विमुक्तः श्रमः ।
धिक्तस्यैव जलानि पंकिलयतः पाथोजिनीं मथ्नतो
मूलान्युत्खनतः करीन्द्र भवतो लज्जापि नो जायते ॥ शार्ङ्गधरपद्धतिः, श्लोकः ९२१
वद कुत्रोपयुज्यते ॥ शार्ङ्गधरपद्धतिः, श्लोकः ७६८
करीर तव किंकराः ॥ शार्ङ्गधरपद्धतिः, श्लोकः १०४८
२९. फुल्लेषु यः कमलिनी कमलोदरेषु
आम्रेषु यो विलसितः कलिकान्तरस्थः ।
कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति ॥ शार्ङ्गधरपद्धतिः, श्लोकः ८२५
स्वोदरेणापि दुःखितः ॥ शार्ङ्गधरपद्धतिः, श्लोकः १२०९
मूर्ध्नि काकः करोति चेत् ।
यो गजो गज एव सः ॥ शार्ङ्गधरपद्धतिः, श्लोकः १२०७
३२. शुकमुकुलितजिह्वः स्थीयतां किं वचोभिः
तव वचनविनोदे नादरः पामराणाम् । शार्ङ्गधरपद्धतिः, श्लोकः ८७८
<DOC_END>
<DOC_START>
अयं वर्गः शार्ङ्गधरपद्धतिविषयकः भवति ।
<DOC_END>
<DOC_START>
ब्रह्मकर्मेति तत्स्मृतम् । वृद्धगौतमस्मृतिः, ५/७४
अहन्यहनि वर्तते ॥ पराशरस्मृतिः, २/१३
न हिंस्यात्परदारकान् । जयाख्यसंहिता, १६/ ३२६
५. न तु प्राणिवधः स्वर्ग्यः । मनुस्मृतिः, ५/४८
न मद्ये न च मैथुने
निवृत्तिस्तु महाफला ॥ मनुस्मृतिः, ५/५६
७. न हिंस्यात्सर्वभूतानि । वृद्धहारीतस्मृतिः, ८/ १६
८. न हिंस्याद् ब्राह्मणान् गाश्च । मनुस्मृतिः, ४/१६२
स्तस्मान्मांसं विवर्जयेत् ॥ मनुस्मृतिः, ५/४८
हन्तुर्भवति कश्चन । वृद्धहारीतस्मृतिः, ९/३५०
मापद्यपि समाचरेत् । मनुस्मृतिः ५/४३
१२. मोक्षो भवेन्नित्यमहिंसकस्य । आपस्तम्बस्मृतिः, १०/७
प्रेत्य जन्मनि जन्मनि ॥ मनुस्मृतिः, ५/३८
वेदाद् धर्मो हि निर्बभौ ॥ मनुस्मृतिः, ५/४४
सुखमत्यन्तमश्नुते ॥ मनुस्मृतिः, ५/ ४६
१७. वर्जयेन्मधु मांसं च । मनुस्मृतिः, २/१७७
दन्तुरो जायते नरः । शातातपस्मृतिः, २/५०
जायते पक्षघातवान् । शातातपस्मृतिः, ३/२२
नेहासौ सुखमेधते ॥ मनुस्मृतिः, ४/१७०
<DOC_END>
<DOC_START>
अयं वर्गः वृद्धगौतमस्मृतिविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः पराशरस्मृतिविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः जयाख्यसंहिताविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः आपस्तम्बसूक्तविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः मनुस्मृतिविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः शातातपस्मृतिविषयकः भवति ।
<DOC_END>
<DOC_START>
१. अपि देवा न जानन्ति
स्वात्मानं किमुतापरे । नारदपाञ्चरात्रपरिशिष्टम् २/४
कर्मयोगं शरीरिणाम् ॥ मनुस्मृतिः, १२/ ११९
<DOC_END>
<DOC_START>
अयं वर्गः नारदपाञ्चरात्रपरिशिष्टविषयकः भवति ।
<DOC_END>
<DOC_START>
गीतरक्तो यथा मृगाः ॥ शार्ङ्गधरपद्धतिः, श्लोकः ४१८९
<DOC_END>
<DOC_START>
न प्रसज्येत कामतः । मनुस्मृतिः, ४/ १६
विद्वान् यन्तेव वाजिनाम् ॥ मनुस्मृतिः, २/८८
वशे स्थापयितुं प्रजाः ॥ मनुस्मृतिः, ७/४४
येन ह्यात्मा वशीकृता । दक्षस्मृतिः ७/१
<DOC_END>
<DOC_START>
अयं वर्गः दक्षस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
योगियाज्ञवल्क्यस्मृतिः, नित्याचारप्रदीपः, प्रथमभागः, पृ. ६०
<DOC_END>
<DOC_START>
अयं वर्गः याज्ञवल्क्यस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
त्यागो नैव विधीयते । बृहद्योगियाज्ञवल्क्यस्मृतिः ११/ ४७
नास्ति जन्मशतेष्वपि ॥ परमसंहिता, ३/२१
विना प्रारब्ध कर्म यत् । अहिर्बुध्न्यसंहिता, ४५/७
<DOC_END>
<DOC_START>
अयं वर्गः अहिर्बुध्न्यसंहिताविषयकः विद्यते ।
<DOC_END>
<DOC_START>
येषां हृदयानि विघटितानि सन्ति तेषां समागमः अपि विरहवत् दुःखदायकमेव भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः विरहविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः समागमविषयकः विद्यते ।
<DOC_END>
<DOC_START>
धर्मनिष्ठः यदि स्यात् तर्हि सः भवति दीर्घजीवी एव (यतः सः इहलोके
चिरकीर्तिं परलोके शाश्वतं स्वर्गञ्च प्राप्स्यति) ।
<DOC_END>
<DOC_START>
धर्मेण व्यवह्रियते चेत् सर्वमपि प्राप्यते । एवम् इदं जगत्
<DOC_END>
<DOC_START>
कर्तुर्भवति निष्फलः ॥ मनुस्मृतिः ४/ १७३
<DOC_END>
<DOC_START>
सङ्कल्पमूलः कामो वै । मनुस्मृतिः १/१२२
<DOC_END>
<DOC_START>
:अशक्तं मन्यते जनः ॥ आपस्तम्बस्मृतिः १०/५
२. क्षमा गुणो हि जन्तूनाम् । आपस्तम्बस्मृतिः १०/५
३. क्षान्त्या शुद्धयन्ति विद्वांसः । मनुस्मृतिः, ५/१०७
४. क्षमा जयति न क्रोधः । वृद्धगौतमस्मृतिः, ८/ ११८
५. क्षमावान् पुरुषो भवेत् । वृद्धगौतमस्मृतिः ८/ ११८
६. क्षमा दमः क्षमा दानं
:क्षमा सत्यं क्षमा तपः ।
:क्षमा चेन्द्रियनिग्रहः ॥ वृद्धगौतमस्मृतिः २०/२०
<DOC_END>
<DOC_START>
अयं वर्गः आपस्तम्बस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
:गुरुरेव जनार्दनः । स्मृतिभारसंग्रहः पृ. २९६
२ आचार्यो ब्रह्मणो मूर्तिः । मनुस्मृतिः, २/ २२६
:ब्राह्मणः सद्मशाश्वतम् ॥ मनुस्मृतिः, २/ २४४
४ गुरुर्देवाद् विशिष्यते । मार्कण्डेयस्मृतिः, पृ. ४०
:गुरुवद् वृत्तिमाचरेद् । मनुस्मृतिः, २/ २२२
:गुरुवदवृत्तिमाचरेत् । मनुस्मृतिः २/ १८०
<DOC_END>
<DOC_START>
: प्रत्युत्थानेन चाम्बुना ॥ लघुहारीतस्मृतिः ४/ ५६
: स्वर्गस्तस्य इहैव हि ॥ दक्षस्मृतिः ४/५
३. आश्रमेषु तु सर्वेषु प्रवरः सुलभो गृही । मार्कण्डेयस्मृतिः पृ० ११
: गृहस्थोऽश्नाति किल्विषम् ॥ व्यासस्मृतिः, ३/ ४५
: पत्नीमूलं च तत्सुखम् । दक्षस्मृतिः ४/७
: स त्रीनेतान् बिभर्ति हि । मनुस्मृतिः ६/८९
: तस्माच्छ्रेयो गृहाश्रमी ॥ शंखस्मृतिः ५/६
: नास्ति नास्ति पुनः पुनः । व्यासस्मृतिः ४/२
: यदि भार्या वशानुगा । दक्षस्मृतिः ४/१
१०. गोभिर्न तुल्यं धनमस्ति किञ्चित् । बृहत्पराशरस्मृतिः ५/१०
: गृहस्थस्तु विशिष्यते । वशिष्ठस्मृतिः श्लोकः २३१
: क्षयाहे भूरि भोजनात् ।
: त्रिभिः पुत्रस्य पुत्रता ॥ बृहत्पराशरस्मृतिः ६/ १९६
: वृद्धभावे स्वकं पतिम् । दक्षस्मृतिः ४/११
:नाज्ञातिषु न राजनि । व्यवहारप्रकाशः पृ. ५०
: यतिश्च सपरिग्रहः ॥ शार्ङ्गधरपद्धतिः, श्लोकः १५४९
: निर्दोषा यदि सा भवेत् । दक्षस्मृतिः, ४/ १६
: गृहे तिष्ठति सा यावत्
: तावत्तीर्थसमं गृहम् ॥ प्रजापतिस्मृतिः श्लोकः ५५
१८. न गृहेण गृहस्थः स्याद्
: भार्यया कथ्यते गृही । बृहत्पराशरस्मृतिः, ६/७१
: र्वह्नि शुश्रूषया तथा ।
: यथा चातिथिपूजनात् ॥ शंखस्मृतिः ५/१३
२०. न हि भिक्षुकृतान् दोषान्
: वैश्वदेवो व्यपोहति । लघुहारीतस्मृतिः
: नरको नात्र संशयः । दक्षस्मृतिः, ४/५
: द्वितीया रतिवर्धिनी ॥ दक्षस्मृतिः ४/१५
: यत्त्राति नरकार्णवात् । बृहत्पराशरस्मृतिः, ६/ १९०
: यत्र तत्राश्रमे वसन् ॥ बृहद्योगियाज्ञवल्क्यस्मृतिः, ११/४४
२५. ब्रह्मचारी यतिर्भिक्षुर्जीवन्त्येते गृहाश्रमात् । विष्णुस्मृतिः अध्यायः ५९,पृ० ९७
२६. भर्तुः प्रीतिकरा या तु
: भार्या सा चेतरा जरा । दक्षस्मृतिः, ४/ १३
: न च गोभिरलंकृतम् ।
: श्मशानमिव तद्गृहम् । अत्रिसंहिता, श्लोकः ३१३
: सर्वे जीवन्ति जन्तवः ।
: सर्वे जीवन्ति भिक्षवः ॥ वशिष्ठस्मृतिः, श्लोकः २३३
: वर्तन्ते सर्व आश्रमाः ॥ वैदिकमनुस्मृतिः, ३/ ५३
: पुत्रो दासः समाश्रितः ।
: तस्य लोके हि गौरवम् ॥ दक्षस्मृतिः, ४/ १४
३१. सर्वेऽपि पात्रतां यान्ति, भक्तदानाय गेहिनः ।
३२. सा पत्नी या विनीता स्यात्
: चित्तज्ञा वशवर्तिनी । दक्षस्मृतिः, ४/७
: गृहस्थोऽपि हि मुच्यते ॥ बृहद्योगियाज्ञवल्क्यस्मृतिः, ११/४५
: तस्य तीर्थफलं गृहे ॥ व्यासस्मृतिः ४/४
<DOC_END>
<DOC_START>
अयं वर्गः लघुहारीतस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः मार्कण्डेयस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः व्यासस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः शङ्खस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः वसिष्ठस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः व्यवहारप्रकाशविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः प्रजापतिस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः विष्णुस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः अत्रिसंहिताविषयकः विद्यते ।
<DOC_END>
<DOC_START>
:गोमतो न कदाचन । बृहत्पराशरसंहिता, ५/१८७
:सर्वांश्चैव तपस्विनः ॥ मनुस्मृतिः, ४/१६२
:न्नरकान्तेऽस्य निष्कृतिः । शातातपस्मृतिः, श्लोकः ४४
४. गां न हत्यात् कदाचन । वृद्धगौतमस्मृतिः १२/ १२
५. गावो लोकस्य मातरः । वृद्धगौतमस्मृतिः १२/ २२
६. गवां हि तीर्थे वसतीह गंगा । विष्णुस्मृतिः, अध्यायः २४, पृ. ४५३
: दधि तक्रं तथा घृतम् ।
:एते सर्वे पवित्रकाः ॥ आंगिरसस्मृतिः, श्लोकः १५६
८. गौरवत्सा न दोग्धव्या । बृहत्पराशरस्मृतिः ५/१६
:गौभिः श्रीभिरिव स्वयम् ॥ बृहत्पराशरस्मृतिः ५/२९
:कलां नार्हन्ति षोडशीम् ॥ बृहत्पराशरस्मृतिः, ५/ २८
:कुलमेकं द्विधा कृतम् । बृहत्पराशरस्मृतिः ५/३०
:आपो राजा तथाऽष्टमः ॥ नारदस्मृतिः, नित्याचारप्रदीपः प्रथमभागः,पृ.४९१
: विप्रा गावश्च वैष्णवाः । वृद्धहारीतस्मृतिः ११/३१०
:गोरिति पाराशरोऽब्रवीत् ॥ बृहत्पराशरस्मृतिः, ५/ १५
:पूज्या गावः कथं न ताः ॥ बृहत्पराशरस्मृतिः, ५/१३
<DOC_END>
<DOC_START>
अयं वर्गः आङ्गिरसस्मृतिविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः नारदस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः लघुव्याससंहिताविषयकः विद्यते ।
<DOC_END>
<DOC_START>
१. अज्ञं हि बालमित्याहुः । मनुस्मृतिः २/ १२८
२. अज्ञो भवति वै बालः । मनुस्मृतिः २/१२८
: क्षमा तु परमं तीर्थं
: सर्वतीर्थेषु सर्वदा ॥ वृद्धगौतमस्मृतिः, २०/ १८
४. ज्ञानाम्बुना स्नाति च यो हि नित्यं
: किन्तस्य भूयः सलिलेन कृत्यम् ॥ वृद्धगौतमस्मृतिः २०/२४
५. ज्ञानं प्रधानं न तु कर्महीनं
: कर्मप्रधानं न तु बुद्धिहीनम् ।
: तस्माद् द्वयोरेव भवेत् सिद्धि-
: र्न ह्येकपक्षो विहगः प्रयाति ॥ बृहद्योगियाज्ञवल्क्यस्मृतिः ९/२९
: तीर्थं ज्ञानस्य धारणम् ॥ वृद्धगौतमस्मृतिः २०/१३
: विद्यादानं ततोऽधिकम् । मार्कण्डेयस्मृतिः पृ. ११६
: भाजनं पुरुषो भवेत् । मार्कण्डेयस्मृतिः पृ. ११६
९. विद्या चक्षुरनुत्तमम् । मार्कण्डेयस्मृतिः पृ. ११६
१०. वेदः साक्षाद्धरिः प्रोक्तः । लौगाक्षिस्मृतिः ,पृ.३६३
: वेदार्थज्ञानतः परा ॥ लौगाक्षिस्मृतिः, पृ, ३२६
<DOC_END>
<DOC_START>
अयं वर्गः लौगाक्षिस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
धर्मसमं कार्यं न किमपि विद्यते । धर्मसमा देवता कापि नास्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः बन्धुविषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः देवविषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः कुक्कुटविषयकः विद्यते ।
<DOC_END>
<DOC_START>
दशसहस्रेषु जनेषु वक्ता एकः भवति, किन्तु दानी भवति वा न वा न ज्ञायते ।
दशसहस्रेषु जनेषु वक्ता एकः भवति, किन्तु श्रोता भवति वा न वा न ज्ञायते ।
<DOC_END>
<DOC_START>
अयं वर्गः दातुः विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः शूरस्य विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः वक्तुः विषये विद्यते ।
<DOC_END>
<DOC_START>
पदस्थितस्य पद्मस्य मित्रे वरुणभास्करौ ।
पदच्युतस्य तस्यैव क्लेशदाहकरावुभौ ॥ poem>
कमलपुष्पं स्वस्थाने यदा भवेत् तदा वरुणः सूर्यश्च तस्य मित्रे भवतः ।
किन्तु कमलं यदि अधः पतति तर्हि तौ शोषयतः ।
<DOC_END>
<DOC_START>
अयं वर्गः स्वस्थानविषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः कमलविषये विद्यते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे शब्दानुगुणं सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
कुलस्य त्यागः करणीयः, जनपदस्य निमित्तं कदाचित् ग्रामस्य
त्यक्तव्यः, परमात्मनः साक्षात्कारार्थं जगत् एव त्यक्तव्यं भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः पृथिवीविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः जनपदविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः ग्रामविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अपि मेरुपमं प्राज्ञमपि शूरमपि स्थिरम् ।
तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् ॥
<DOC_END>
<DOC_START>
१. दण्डं दण्ड्येषु पातयेत् ।
२. दण्डं धर्मं विदुर्बुधाः ।
३. दण्डः शास्ति प्रजाः सर्वाः ।
४. सभ्या अपि हि दण्ड्या वै
<DOC_END>
<DOC_START>
:काक योनिं व्रजन्ति ते ॥
७. अधमं याच्यमानं स्यात् ।
९. अन्नदानं परो धर्मः ।
:लभेद् दाता न संशयः ।
१२. अन्नदो भवति श्रीमान् ।
:यतो भूतानि तेन वै ।
:मन्नं हि परमं हविः ॥
१९. अर्थिने सततं देयम् ।
२३. इष्टो वा यदि वा मूर्खो
:द्वेष्यः पण्डित एव वा ।
३१. केवलाघो भवति केवलादी ।
:न दानं तु गृहात्परम् ।
४०. दत्तं नैव पुनर्दद्यात् ।
४१. दत्तं पितॄणां किल चाक्षयं स्यात् ।
४३. दाता नहि स्मरेद् दानम् ।
४५. दातारः स्युः श्रियान्विताः ।
५०. दानमेव कलौ युगे ।
:मतिं कृत्वा द्विजाय वै ।
५३. दानं हि विधिना देयं
५८. दानेन लभ्यते विद्या ।
५९. दानेन शत्रून् जयति ।
६१. द्रव्यं गुणवते देयम् ।
६३. धनं फलति दानेन ।
:सह दात्रा स मज्जति ॥
६६. न ददाति द्विजो होत्रे
६७. न दानं परिकीर्तयेत् ।
६८. न दानात् परमो धर्म-
६९. न दानेन विना किञ्चित्
७०. न विद्या न तपो यस्य
:मिह लोके परत्र च ।
७४. नाल्पत्वं वा बहुत्वं वा
७५. नित्यं ददाति यः साधु-
:स्ततो याति परां गतिम् ॥
:तद् दानं राजसं स्मृतम् ।
:न वप्ता लभते फलम् ।
:न दाता लभते फलम् ॥
१००. यद् दानं दीयते भक्त्या
:दीपो हि निर्वापयति प्रदीप्तः ।
१०४. यथा त्वचं स्वां भुजगो विहाय
:विराजते वै कपिला प्रदानात् ॥
१०५. यथैव दृष्ट्वा भुजगाः सुपर्ण्ं
:नश्यन्ति पापानि नरस्य शीघ्रम् ॥
:पापं निहन्त्याशु नरस्य सर्वम् ॥
११०. यथा भस्म तथा मूर्खो
:जुहुयात् को नु भस्मनि ॥
१११. यथा हि क्षुधिता बाला
११४. यस्य वित्तं न दानाय
११६. येन येन तु भावेन
:यद् यद् दानं प्रयच्छति ।
११९. वदन्ति दानं मुनयः प्रधानं
:कलौ युगे नान्यदिहास्ति किंचित् ।
१२३. विद्या कामदुधा धेनुः ।
:दाता भवति वा न वा ॥
१३९. समर्थो यस्य यस्तु स्या-
१४९. सुक्षेत्रे च सुपात्रे च
:ह्युप्तं दत्तं न नश्यति ।
<DOC_END>
<DOC_START>
अयं वर्गः यमस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
१. कृत्वा पापं न गूहेत
२. कृत्वा पापं हि संतप्य
:अति पापाद् भवन्ति हि ।
शातातपस्मृतिः, अध्यायः १, श्लोकः १०
<DOC_END>
<DOC_START>
१. अपुत्रस्य वृथा जन्म ।
:स्वर्गो नैव च नैव च ।
:यो न विद्वान्न धार्मिकः ।
१०. पुत्रेणा लोकान् जयति ।
१२. पुनन्ति साधवः पुत्राः ।
१६. भवन्ति पुत्राः शुभवंशवृद्धयै ।
१७. यः पिता स तु पुत्रः स्यात्
:स परं ब्रह्म विदन्ति ॥
<DOC_END>
<DOC_START>
:विना दैवं न सिध्यति ॥
<DOC_END>
<DOC_START>
अयं वर्गः शङ्खलिखितस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
२. केषां प्रभुत्वं बहुजीवितं च ।
४. नैकेन चक्रेणा रथः प्रयाति
:एवं हि दैवेन न केवलेन
५. प्राप्नोति नैव विधिना स पराङ्मुखेन
:सर्वं हि मंजु क्षयमेति दैवात् ॥
<DOC_END>
<DOC_START>
अयं वर्गः स्मृतिचन्द्रिकाविषयकः विद्यते ।
<DOC_END>
<DOC_START>
१. अक्षरं त्वक्षरं ज्ञेयम् ।
३. एक एव हि विज्ञेयः
:तस्य जन्म न विद्यते ।
:न प्ररोहन्ति वै पुनः ॥
:स न पापेन लिप्यते ।
:न भूतं न भविष्यति ।
:दिवि चेह च पावनम् ।
१६. न जपं प्रसभं कुर्यात् ।
१७. प्रणवं हि परं ब्रह्म
:न भयं विद्यते क्वचित् ।
२१. मन्त्रदाता गुरुः प्रोक्तः ।
२२. यथा पत्रं फलं पुष्पं
२३. यथा वै शंकुना पर्णं
२४. यथा हि गौर्वत्सकृतं निशम्य
२७. स्वर्गो मोक्षः सर्वमात्मन्यधीनम् ।
<DOC_END>
<DOC_START>
अयं वर्गः गौतमस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः स्मृतिसारसंग्रहविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः शंखस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः संवर्तस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः नित्याचारप्रदीपविषयकः विद्यते ।
<DOC_END>
<DOC_START>
योऽनूचानः स नो महान् ।
<DOC_END>
<DOC_START>
७. तपो हि दुरतिक्रमम् ।
१३. प्रायो नाम तपः प्रोक्तं
१५. भैक्षेणा व्रतिनो वृत्तिः ।
१६. यद् दुस्तरं यद् दुरापं
:यद् दुर्गं यच्च दुष्करम् ।
:दिवं यान्ति तपो बलात् ।
२१. स्वयं वेद्यं च तद् ब्रह्म
<DOC_END>
<DOC_START>
१. दुष्टस्य दण्डः सुजनस्य पूजा
:न्यायेन कोशस्य च समप्रवृद्धिः ।
:पञ्चैव यज्ञाः कथिता नृपाणाम् ॥
<DOC_END>
<DOC_START>
अकारो वै सर्वा वाक् ।
<DOC_END>
<DOC_START>
लघुव्यासस्मृतिः नित्याचारप्रदीपः भागः २, पृ. ५४
<DOC_END>
<DOC_START>
१. यत्र यत्र हतः शूरः
:यदि क्लीबं न भाषते ॥
<DOC_END>
<DOC_START>
वशिष्ठस्मृतिः नित्याचारप्रदीपः भागः २, पृ.११
वशिष्ठस्मृतिः नित्याचारप्रदीपः भागः २, पृ.११
३. नास्ति वेदात्परं शास्त्रम् ।
४. यथा जातबलो बह्नि –
५. वेदप्रदानाचार्यं पितरं परिचक्षते ।
<DOC_END>
<DOC_START>
१. ॠणं लेख्यकृतं देयम् ।
२. कर्त्तव्यं वचनं सर्वैः ।
<DOC_END>
<DOC_START>
१. अति कुपिता अपि सुजना
४. देवत्वं सात्त्विका यान्ति ।
<DOC_END>
<DOC_START>
:यस्य सत्ये स्थिता मतिः ।
४. सत्यं जयति नानृतम् ।
५. धर्मो वृथा यत्र न सत्यमस्ति
:सत्यं न तद्यन्न हृदानुविद्धम् ।
<DOC_END>
<DOC_START>
:तीर्थप्रतिपादनफलश्च । दशकुमारचरितम्, उत्तरपीठिका उ २
२. अलीकाभिमानोन्मदकारीणि धनानि । कादम्बरी, पूर्वभागः
३. अविश्वास्यता हि जन्मभूमिरलक्ष्म्याः । दशकुमारचरितम्, उत्तर ० उ ८
४. कष्टमनञ्जनवर्ति साध्यमपरमैश्वर्यतिमिरान्धत्वम् । कादम्बरी, पूर्वभागः
:विषयोपभोगगृध्नवो हि धनान्युपाददते ॥ तिलकमन्ञ्जरी, पृ० २६
६. धनोष्मणा म्लायति अलं लतेव मनस्विता । हर्षचरितम् उ ३
७. ये च सर्वप्राणिसाधारणमाहारमपि शरीरवृत्तये गृह्णन्ति, शरीरमपि
:धर्मसाधनमिति धारयन्ति, धर्ममपि मुक्तिकारणमिति बहु मन्यते, मुक्तिमपि
:गृह्णन्ति । तिलकमन्ञ्जरी, पृ० २६
८. सत्यं सम्पत् सम्पदमनुबध्नाति । कृष्णचरितम् पृ० २३
<DOC_END>
<DOC_START>
अयं वर्गः गद्यकाव्यसूक्तिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः कादम्बरीविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः गद्यकाव्यविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः दशकुमारचरितविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः हर्षचरितविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः कृष्णचरितविषयकः विद्यते ।
<DOC_END>
<DOC_START>
१. आशया हि किमिव न क्रियन्ते । कादम्बरी, पूर्वभागः
२ . आशा हि नाम प्रायेण नावलम्बितमेवाभीष्टं फलति । लावण्यमयी, परि० ३
३. इन्द्रजालपिच्छिकेवासम्भाव्यमपि प्रत्याशा पुरः स्थापयति । कादम्बरी, पूर्वभागः
४ सुहृद्दुःखखेदिते हि मनसि कैव सुखाशा, कैव निर्वृत्तिः । कादम्बरी, पूर्वभागः
<DOC_END>
<DOC_START>
अयं वर्गः कार्यसिद्धिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः लावण्यमयीविषयकः विद्यते ।
<DOC_END>
<DOC_START>
१ अनेकविधाः कर्मणां शक्तयः । कादम्बरी, पूर्वभागः
२ . आत्मकृतानां हि दोषाणां नियतमनुभवितव्यं फलमात्मनैव । कादम्बरी, पूर्वभागः पृष्ठम्, ४११
३. इह जगति हि न निरीहं देहिनं श्रियः संश्रयन्ते । दशकुमारचरितम्-उत्तरपीठिका, उच्छ्वासः
४. इह किल कर्मणामविच्छेदेन प्रतीयमाने संसारे जीवानां सुखदुःखान्यतरभोगाय
५. का नाम तत्र चिन्ता प्रभवति पुरुषस्य पौरुषं ।
:वाङ्मनसयोरविषये विधौ च चिन्तान्तरं किमिह ॥ नलचम्पू ७/७
६. कर्तव्यं नाम यो यथाऽवबुध्यति । विसर्ग: पृ ० २०
:फलमात्रं च मोहस्य उग्रभूमिः ।
:साफल्यमात्रम् अन्धाहङ्कारः । विसर्ग: पृ ० ३३
८. जन्मान्तरकृतं हि कर्म फलमपनयति पुरुषस्येह जन्मनि । कादम्बरी पूर्वभागः
९. दुरुत्खेयः परिणामः संस्काराणाम् । सिन्धुकन्या-परि ० ६ पृष्ठम् १४३
१०. न खलु वैदिकानामवैदिकानां वा कर्मणामसाध्यं नाम किञ्चित् । कादम्बरी-उत्तरभागः
११. मनुष्यभिन्नाः सर्वॆ प्राणीनः पूर्वॊपार्जितकर्मसन्तानोपनीतसुखाद्यनुभवमात्र-
१२. मनुष्याणां तु प्राग्भावीयकर्मभोगो विधिनिषेधाधिकारश्च । मन्दारमञ्जरी-पूर्वभागः पृ० ८०
१३. यथा यथाधिकायासः पुण्यवृद्धिस्तथा तथा । कथामुक्तावली कथा-६
१४. विचित्र एव प्रतिभाति कर्मविपाकः । राङ्गडा-३
१५. श्रेयांसि सकलान्यलसानां हस्ते नित्यसांनिध्यानि । दशकुमारचरितम्, उ० पी० उ०७
१६. स्वयमनुष्ठितो हि उद्यमो यथा प्राणान्तिकेष्वपि सङ्कटेषूपकरोति न तथा परापेक्षः । सिन्धुकन्या परि ०२पृ०२५
<DOC_END>
<DOC_START>
अयं वर्गः मन्दारमञ्जरीविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः नलचम्पूविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः विसर्गविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः सिन्धुकन्याविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः कथामुक्तावलीविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः राङ्गडाविषयकः विद्यते ।
<DOC_END>
<DOC_START>
१ उत्फुल्लगल्लैरालापाः क्रियन्ते दुर्मुखैः सुखम् ।
:जानाति हि पुनः सम्यक् कविरेव कवेः श्रमम् ॥ नलचम्पू १/२३
२ उत्पादका न बहवः कवयः शरभा इव । हर्षचरितम् उ० १. २लॊ०६
३ किं कवेस्तेन काव्येन किं काण्डेन धनुष्मतः ।
:परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ नलचम्पू १/५
४ किं कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी ।
:कथेव भारती यस्य न व्याप्नोति जगत्रयम् ॥ हर्षचरितम् १/९
५. कुर्वतः कविताम्भोदौ प्रबन्धेन विजृम्भणम् ।
:कवेः प्रौढस्य कस्यास्ति जलमानुषतो भयम् ॥ - उदयसुन्दरीकथा उच्छवासः १
६. प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः ।
:भवन्ति कस्यचित् पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ नलचम्पू १/४
७. प्रायः कुकवयो लोके रागाधिष्ठितवृत्तयः ।
:कोकिला इव जायन्ते वाचालाः कामचारिणः ॥ हर्षचरितम् १/४
८. विबुधानामन्तःकरणस्य काव्यमयी वृत्तिः अमला । मन्दारमञ्चरी पूर्वभागः
९. विशकलितैः परकीयैः पदार्थजातैः ।
:याचितमण्डनैरिव न भवति शोभा विजातीया ॥ - मन्दारमञ्जरी प्रस्तावना पृ० १९
१०. विषमदृशः उग्रनिसर्गाः कुकवयः उदित्वा अपि विबुधानां चिदिष्टौ
:दुर्वर्णमुदीरयन्ति । - मन्दारमञ्चरी पूर्वभागः
:नीचेष्विव भवन्त्यर्थाः प्रायो वैरस्य हेतवः । तिलकमञ्जरी-श्लो ० १८
<DOC_END>
<DOC_START>
विकिसूक्तिः नाम उल्लेखनार्हाणाम् उक्तीनां शुद्धत्वेन रचितः सम्पूर्णः सङ्ग्रहः स्याद् इत्यस्माकं उद्दिष्टम् अस्ति।
सम्पूर्णः इति विकिसूक्तौ बहूनां बहुप्रकारकानां च जनानां भणितयः, साहित्यिककृतिभ्यः चलच्चित्रेभ्यः स्मारकेभ्यश्च उक्तयः भवितुम् अर्हन्ति।
उल्लेखनार्हाणाम् इति अत्र केवला उल्लेखनार्हाः उक्तयः भवितुमर्हन्ति। उक्तिस्तु उल्लेखनार्हा यदि सा स्वयमेव प्रसिद्धा, अथवा उल्लेखनार्हेण जनेन उक्ता, उल्लेखनार्हे वा ग्रन्थे आगता।
उक्तीनाम् इति विकिसूक्तिः इति उक्तीनां सङ्ग्रहः। यद्यपि सम्पूर्णतनिमित्ते लेखेषु विषयस्य, स्रोतसः वा सङ्क्षिप्तः परिचयः भवितुम् अर्हति। परन्तु प्रमुखम् उद्दिष्टं तु उक्तीनां सङ्ग्रहः एव।
<DOC_END>
<DOC_START>
अयं वर्गः उदयसुन्दरीकथाविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः मन्दारमञ्जरीविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः तिलकमञ्चरीविषयकः भवति ।
<DOC_END>
<DOC_START>
१ . अयमप्रतीकारदारुणो दुर्विषहवेगः कष्टः कुसुमायुधः, यदनेनाभिभूता
:महान्तोऽप्येवमनपेक्षितकालक्रमाः समुत्सारितधैर्याः सद्यो जीवितं जहति । कादम्बरी पूर्वभागः
२ . आकल्पसारो हि रूपाजीवाजनः। दशकुमारचरितम् उ०पी०उ०२
३ . आदौ विनयदिकं कुसुमेषुश राः खण्डयन्ति पश्चान्मर्माणि । कादम्बरी पूर्वभागः
४ . इन्द्रियहरिणहारणी च सततदुरन्तेयमुपभोगमृगतृष्णिका । कादम्बरी पूर्वभागः
५ . उद्दामप्रसृतेन्द्रियाश्वसमुत्थापितं हि रजः कलुषयति दृष्टिमनक्षजिताम् । हर्षचरितम् उ ०१
६. कामस्तु विषयातिसक्तचेतसोः स्त्रीपुंसोर्निरतिशयसुखस्पर्शविशेषः । दशकुमारचरितम् उ०पी०उ०२
७. कुसुमशरशरप्रहारजर्जरिते हि हृदि जलमिव गलत्युपदिष्टम् । कादम्बरी पूर्वभागः
८. तपावरणशून्ये च हृदि प्रविश्य पदं कुर्वन् केन वा निवारितो दुर्वारः
:सर्वाविनयहेतुः कुसुमधन्वा । - कादम्बरी-उत्तरभागः
९. नाशयति च दिङ्मोह इवोन्मार्गप्रवर्तकः पुरुषमत्यासङ्गो विषयेषु । कादम्बरी-पूर्वभागः
१०. नास्ति खल्वसाध्यं नाम भगवतो मनोभुवः । कादम्बरी-पूर्वभागः
११. नित्यमस्नानशौचवध्यौ रागमलावलेपः । कादम्बरी-पूर्वभागः
१२. प्रायेण प्रथमं मदनानलो लज्जां दहति, ततो हृदयम् । कादम्बरी-पूर्वभागः
१३. वज्रसारकठिनहृदयैरपि दुर्विषहाः स्मरेषवः । - कादम्बरी-उत्तरभागः
१४. विलसति च कुसुम-मार्गणे केन कार्येण छिद्रसहस्राणि न भवन्ति यैः
१५. वीतरागाणामपि हि रमणीये पुरोवर्तिनि विषये समुदेति दिदृक्षा । मन्दारमञ्जरी-पूर्वभागः
१६. सततममूलमन्त्रगम्यो विषमो विषयविषास्वादमोहः । कादम्बरी-पूर्वभागः
१८. सर्वथा न हि किञ्चिदस्य दुर्घटं दुष्करमनायत्तमकर्त्तव्यं वा जगति । कादम्बरी-पूर्वभागः
१९. स्खलिते चेतसि तल्लग्ना पतत्येव लज्जा । कादम्बरी-उत्तरभागः
<DOC_END>
<DOC_START>
१ . क्षणमपि क्षममाणाः गलन्त्यायुष्कलाकलनकुशला निलये निलये कालनालिका: । हर्षचरितम् उ०८
२ . छिदुरा जीवनपाशतन्त्रीतन्तवः । हर्षचरितम् उ०८
३ . जगति सर्वजन्तु-जीवितोपहारघातिनी सञ्चरति झटिति चण्डिका यमाज्ञा । हर्षचरितम् उ०८
४. तृप्तिमशिक्षिता च भगवतः सर्वभूतभुजो बुभुक्षां मृत्योः । हर्षचरितम् उ०८
५. न सदा समानो व्यत्योति कालः । शिवराजविजयम् ३/१६
६. पातयति महापुरुषान् सममेव बहूननादरेणैव ।
:परिवर्तमान एकः कालः शैलानिवानन्तः ।। - हर्षचरितम् उ०५/२
७. रटन्त्यनवरतमखिल-प्राणिप्रयाण-प्रकटनपटवः प्रेतपतिपटहाः । हर्षचरितम् उ०८
८. विलक्षणोऽयं सकल-कला-कलाप-कलनः सकल-कालनः करालः कालः । शिवराजविजयम्-विरामः-१ निःस्वास-१
: चिताङ्गारकाली कालरात्रिजिह्वा जीवितानि जीवितानाम् । हर्षचरितम्, उ० ८
१०. संसारन्त्यो नक्तिन्दिवं द्राघीयस्यो जन्म-जरा-मरण-घटन-घटीयन्त्र-राजि-रञ्जवः
:सर्वपञ्चजनानाम् । हर्षचरितम्, उ० ८
<DOC_END>
<DOC_START>
अयं वर्गः शिवराजविजयविषयकः विद्यते ।
<DOC_END>
<DOC_START>
१ . अतिरोषणश्चक्षुष्मानन्ध एव जनः । हर्षचरितम्, उ० १
२ . न हि कोपकलुषिता विमृशति मतिः कर्तव्यमकर्तव्यं वा । हर्षचरितम् उच्छ्वासः उ० ८
३ . निसर्गविरोधिनी चेयं पयः पावकयोरिव धर्मक्रोधयोरेकत्र वृत्तिः । हर्षचरितम्, उ० १
<DOC_END>
<DOC_START>
१ . केवलं कृपाकृतिविशेषः सुदूरेण तनयस्नेहादतिरिच्यते दुहितृस्नेहः । हर्षचरितम् उच्छवासः ४
२ . को हि नाम सहेत सचेतनो विरहमपत्यानाम् । हर्षचरितम्-४
३ . गृहस्थः सर्वेषां प्राणिनां पिता भवति । द्वासुपर्णा उत्तरभागः
४ . गार्हस्थ्यं हि निखिलाश्रमजीवनभूतम् । शृङ्गारमञ्जरी पृ० ८४
५. गृहिणः प्रियहिथाय दारगुणाः । दशकुमारचरितम् उत्तरपीठिका उ०६
६. प्रायेणासत्स्वप्यन्येषु वरगुणेष्वभिजनमेवानुरुध्यन्ते धीमन्तः । हर्षचरितम् उ० ४
७. यौवनारम्भ एव च कन्यकानामिन्धनी भवन्ति पितरः सन्तापानलस्य । हर्षचरितम् उ० ४
८. संवर्धनमात्रोपयोगिन्यो धात्रीनिर्विशेषा भवन्ति खलु मातरः कन्यकानाम् । हर्षचरितम् उ० ४
<DOC_END>
<DOC_START>
अयं वर्गः द्वासुपर्णाविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः द्वासुपर्णाविषयकः विद्यते ।
<DOC_END>
<DOC_START>
पुण्यस्य लोके मधुमान् घृतार्चिर्हिरण्यज्योतिरमृतस्य नाभिः।
तत्र प्रेत्य मोदते ब्रह्मचारी न तत्र मृत्युर्न जरा नोत दुःखम्॥ शान्ति. ७३/२६॥
पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात्॥ शान्ति. २८७/३८॥
तथा पश्यामहे स्पर्शमुभयोः पापपुण्ययोः॥ शान्ति. २८७/३९॥
आयुर्न सुलभं लब्ध्वा नावकर्षेद् विशाम्यते।
उत्कार्षार्थं प्रयतेत नरः पुण्येन कर्मणा॥ शान्ति. २९१/३॥
पदं यथा न दृश्यन्ते तथा पुण्य कृतां गतिः॥ शान्ति. ३२२/१९॥
यज्ञदानतपः शीला नरा वै पुण्यकर्मिणः।
येऽभिदुह्यन्ति भूतानि ते वै पापकृतो जनाः॥ अनु. १२०/२५॥
रूपेण सप्तधा भूत्वा मानुष्यं फलति ध्रुवम्॥ अनु. १४५ दा. पा.॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
पुन्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः।
तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा॥ आदि. ७४/३९॥
गती रूपं च् चेष्टा च आवर्ता लक्षणानि च॥
पितॄणां यानि दृश्यन्ते पुत्राणां सन्ति तानि च।
ह्लादते जनिता प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत्॥ आदि. ७४/४९॥
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्॥ आदि. ९५/३१॥
पितुराश्लिष्यतेऽङ्गानि किमस्त्यभ्यधिकं ततः॥ आदि. ७४/५३॥
शिशोरालिङ्ग्यमानस्य चन्दनादधिकं भवेत्॥ आदि. ७४/दा.पा. ५५-५६॥
सरसीवामलेऽऽत्मानं द्वितीयं पश्य वै सुतम्॥ आदि. ७४/६५॥
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः॥ आदि. ८५/२४॥
स पुत्रः पुत्रवद् यश्च वर्तते पितृमातृषु॥ आदि. ८५/२५॥
यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा।
सर्वमर्हति कल्याणं कनीयानपि सत्तमः॥ आदि. ८५/३०॥
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे॥ आदि. १०४/३१॥
तेषां पिता यथा स्वामी तथा माता न संशयः॥ आदि. १०४/३२॥
पौनर्भवश्च कानीनः भगिन्यां यश्च जायते॥ आदि. ११९/३३॥
इह वा तारयेद् दुर्गादुत वा प्रेत्य भारत।
सर्वथा तारयेत् पुत्रः पुत्र इत्युच्यते बुधैः॥ आदि. १५८/५॥
सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते।
ते पुत्रशोकमप्राप्य विचरन्ति यथासुखम्॥ वन. १३७/१६॥
आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते।
प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च॥ उद्योग. ६०/६॥
न हि पुत्रेण हैडिम्बे पिता न्याय्यः प्रबाधितुम्॥ द्रोण. १५६/९४॥
इच्छन्ति पुरुषाः पुत्रं लोके नान्यं कथंचन॥ द्रोण. १९४/५॥
तपसा दैवतेज्याभिर्वन्दनेन तितिक्षया॥ शान्ति. १५०/१४॥
लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः।
यजमाना यथाऽत्मानमृत्विजश्च तथा प्रजाः॥ शान्ति. २६३/१०॥
शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च॥ शान्ति. २६६/१४॥
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा।
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत्॥ अनुशासन. ४५/११॥
मातुश्च यौतुकं यत् स्यात् कुमारीभाग एव सः।
दौहित्र एव तद् रिक्थमपुत्रस्य पितुर्हरेत्॥ अनुशासन. ४५/१२॥
ददाति हि स पिण्डान् वै पितुर्मातामहस्य च।
पुत्रदौहित्रयोरेव विशेषो नास्ति धर्मतः॥ अनुशासन. ४५/१३॥
अन्यत्रा जामया सार्धं प्रजानां पुत्र ईहते।
दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते॥ अनुशासन. ४५/१४॥
दौहित्रकेण धर्मेण नात्र पश्यामि कारणम्।
विक्रीतासु हि ये पुत्रा भवन्ति पितुरेव ते॥ अनुशासन. ४५/१५॥
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत्।
अल्पो वा बहु वा राजन् विक्रयस्तावदेव सः॥ अनुशासन. ४५/२०॥
निदेशवर्ती च पितुः पुत्रो भवति धर्मतः॥ आश्रमवास. ४/८॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
आत्मा पुत्रः सखा भार्या कृच्छं तु दुहिता किल॥ आदि. १५८/११॥
नराणां मृदुसत्त्वानां कुले कन्याप्ररोहणम्॥ उद्योग. ९१/१५॥
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते।
कुलत्रयं संशयितं कुरुते कन्यका सताम्॥ उद्योग. ९७/१६॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
१ . गर्भॆश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्वं चेति महतीयं
२ . जानन्ति हि गुणान् वक्तुं तद्विधा एव तादृशाम् । नलचम्पू १/१८
३ . ददात्येव हृदयेऽवकाशमत्युदारता । कादम्बरी उत्तरभागः
४. न हि परात्मसमवायिनो गुणाः परसमवेतप्रत्यक्षेण गोचरीक्रियन्ते । मन्दारमञ्जरी-पूर्वभागः
५. प्रथितगुणस्थानस्थितस्यासतोऽपि हि माहात्म्यमाविर्भवति । तिलकमञ्जरी पृ० २१३
६. शीलं हि मदोन्मादयोरमार्गेणाप्युचितकर्मस्वेव प्रवर्तनम् । दशकुमारचरितम् उ०पी०उ०२
<DOC_END>
<DOC_START>
अस्थिरत्वं च संचिन्त्य पुरुषार्थस्य नित्यदा।
तस्योदये व्यये चापि न चिन्तयितुमर्हसि॥ वन. ७९/१२॥
अनिर्वेदः श्रियो मूलं लाभस्य च शुभस्य च।
महान् भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते॥ उद्योग. ३९/५७॥
लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः।
एवं बुद्धि प्रवर्तेत फलं स्यादुभयान्वये॥ उद्योग. ७७/११॥
दैवं हि मानुषोपेतं भृशं सिद्ध्यति पार्थिव॥ उद्योग. १९१/१५॥
हीनं पुरुषकारेण कर्म त्विह न सिद्ध्यति।। सौत्पिक. २/२०॥
पौरुषं हि परं मन्ये दैवं निश्चितमुच्यते॥ शान्ति. ५६/१५॥
उत्थानवीरः पुरुषो वाग्वीरानधितिष्ठति॥ शान्ति. ५८/१५॥
विद्या तपो वा विपुलं धनं वा सर्वं ह्येतद् व्यवसायेन शक्यम्।
बुद्ध्यायत्तं तन्निवसेद् देहवत्सु तस्माद् विद्याद् व्यवसायं प्रभूतम्॥ शा. १२०/४५॥
उदाराणां तु सत्कर्म दैवं क्लीबा उपासते॥ शान्ति. १३९/८२॥
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम्।
कृती सर्वत्र लभते प्रतिष्ठां भाग्यसंयुताम्।
न याचेत् परान् धीरः स्वबाहुबलमाश्रयेत्॥ अनु. १४५ दा.पा.
केवलं फलनिष्पत्तिरेकेन तु न शक्यते।
पौरुषेणैव दैवेन युगपद् ग्रथितं प्रिये॥ अनु. १४५ दा.पा.
तथा पुरुषकारे तु दैवसम्पत् समाहिता॥ अनु. १४५ दा.पा.
तस्मात् सर्वसमारम्भो दैवमानुषनिर्मितम्॥ अनु. १४५ दा.पा.
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
अयं वर्गः तिलकमञ्जरीविषयकः विद्यते ।
<DOC_END>
<DOC_START>
आचार्या वै कारुणिका प्राज्ञाश्च पापदर्शिनः।
नैते महाभये प्राप्ते सम्प्रष्टव्याः कथंचन॥ विराट. ४७/२८॥
कथा विचित्राः कुर्वाणाः पण्डितास्तत्रशोभनाः॥ विराट. ४७/२९॥
इज्यास्त्रे चोपसंधाने पण्डितास्तत्र शोभनाः॥ विराट. ४७/३०॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ॥ आश्व. ३९/२३॥
सदसच्चैव तत् सर्वमव्यक्तं त्रिगुणं स्मृतम्।
ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः॥ आश्व. ३९/२४॥
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च॥ आश्व. ४४/१७॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
विपरीतमतो विद्यात् क्षेत्रज्ञस्य स्वलक्षणम्॥ शान्ति. २१७/९॥
संयोग लक्षणोत्पत्तिः कर्मणा गृह्यते यथा।
करणैः कर्मनिर्वृत्तिः कर्ता यद् यद् विचेष्टते॥
कीर्त्यते शब्दसंज्ञाभिः कोऽहमेषो ऽप्यसाविति॥ शान्ति. २१७/११॥
संवृत्तोऽयं तथा देही सत्त्वराजसतामसैः॥ शान्ति. २१७/१२॥
न चैनं ते प्रजानन्ति स तु जानाति तानपि॥ शान्ति. २४६/१॥
सुदान्तैरिव संयन्ता दृढैः परमवाजिभिः॥ शान्ति. २४६/२॥
इन्द्रियेभ्यः परे ह्यर्थाः अर्थेभ्यः परं मनः।
मनसस्तु परा बुद्धिर्बुद्धिरात्मा महान् परः॥ शान्ति. २४६/३॥
अमृतान्न परं किंचित् सा काष्ठा सा परा गतिः॥ शान्ति. २४६/४॥
एवं सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते।
दृश्यते त्वग्य्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः॥ शान्ति. २४६/५॥
अन्तरात्मनि संलीय मनः षष्ठानि मेधया।
अनीश्वरः प्रशान्तात्मा ततोऽर्च्छत्यमृतं पदम्॥ शान्ति. २४६/७॥
इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः।
आत्मनः सम्प्रदानेन मर्त्यो मृत्युमुपाश्नुते॥ शान्ति. २४६/८॥
आहत्य सर्वसंकल्पान् सत्त्वे चित्तं निवेशयेत्।
सत्त्वे चित्तं समावेश्य ततः कालंजरो भवेत्॥ शान्ति. २४६/९॥
प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमत्यन्तमश्नुते॥ शान्ति. २४६/१०॥
लक्षणं तु प्रसादस्य यथा स्वप्ने सुखं स्वपेत्।
निवाते वा यथा दीपो दीप्यमानो न कम्पते॥ शान्ति. २४६/११॥
लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि॥ शान्ति. २४६/१२॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते॥ वन. २१३/३॥
भूतं भव्यं भविष्यं च सर्वं प्राणे प्रतिष्ठितम्।
श्रेष्ठं तदेव भूतानां ब्रह्मयोनिमुपास्महे॥ वन. २१३/४॥
प्रयत्ने कर्मणि बले स एष त्रिषु वर्तते।
उदानमिति तं प्राहुरध्यात्म विदुषो जनाः॥ वन. २१३/८॥
संधौ संधौ संनिविष्टः सर्वेष्वपि तथानिलः।
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते॥ वन. २१३/९॥
प्राणानां संनिपातात् तु संनिपातः प्रजायते।
ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम्॥ वन. २१३/११॥
समर्थितस्त्वधिष्ठानं सम्यक् पचति पावकः॥ वन. २१३/१२॥
स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम्॥ वन. २१३/१३॥
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः॥ वन. २१३/१५॥
वहन्त्यन्नरसान् नाड्यो दशप्राणप्रचोदिताः॥ वन. २१३/१६॥
पूर्वरात्रे परे चैव युञ्जानः सततं मनः।
लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि॥ वन. २१३/२६॥
दृष्ट्वाऽऽत्मानं निरात्मानं स तदा विप्रमुच्यते॥ वन. २१३/२७॥
सुखप्रिये सेवमानोऽतिवेलं योगाभ्यासे यो न करोति कर्म।
प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः।
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम्॥ शान्ति. १०/६॥
प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत्॥ शान्ति. १५/२२॥
यस्य वाङ्मनसी स्यातां सम्यक् प्रणिहिते सदा।
तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात्॥ शान्ति. १७५/३४॥
प्राणिनां सर्वतो वायुश्चेष्टां वर्तयते पृथक्।
प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते॥ शान्ति. ३२८/३५॥
दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम्॥ अनु. ११७/१६॥
सर्वत्र निरतो जीव इतश्चापि सुखं मम।
चिन्तयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम्॥ अनु. ११७/१७॥
इहापि विषयः सर्वो यथादेहं प्रवर्तितः।
मानुषाः स्थैर्यजाश्चैव पृथग्भोगा विशेषतः॥ अनु. ११७/१८॥
न हि प्राणैः प्रियतरं लोके किंचन विद्यते।
तस्मात् प्राणिदया कार्या यथाऽऽत्मनि तथापरे॥ अनु. १४५ दा. पा. अ. XI॥
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम्॥ आश्व. ९०/५९॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
स्थावरं जङ्गमं चेति जगत् द्विविधिमुच्यते।
चतस्रो योनयस्तत्र प्रजानां क्रमशो यथा॥ अनु. १४५ दा. पा. अ. IX॥
दशंयूकादयश्चान्ये स्वेदजाः कृमिजातयः॥ अनु. १४५ दा. पा. अ. IX॥
मृगव्याल मनुष्यांश्च विद्धि तेषां जरायुजान्॥ अनु. १४५ दा. पा. अ. IX॥
तथा भूम्यम्बु संयोगाद् भवन्त्युद्भिजाः प्रिये।
शीतोष्णयोस्तु संयोगाज्जायन्ते स्वेदजाः प्रिये॥ अनु. १४५ दा. पा. अ. IX॥
जरायुजानां सर्वेषां मानुषं पदमुत्तमम्॥ अनु. १४५ दा. पा. अ. IX॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
आहूताध्यायी गुरुकर्मस्वचोद्यः पूर्वोत्थायी चरमं चोपशायी।
मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्यायशीलः सिध्यति ब्रह्मचारी॥ आदि. ९१/२॥
नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथंचन।
आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते॥ शान्ति. ३४/२६॥
एकस्मिन्नेव चाचार्ये शुश्रूषुर्मलपङ्कवान्॥ शान्ति. ६१/१८॥
ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी।
परिचार्य तथा वेदं कृत्यं कुर्वन् वसेत् सदा॥ शान्ति. ६१/१९॥
यदिदं ब्रह्मणो रूपं ब्रह्मचर्यमिति स्मृतम्।
परं तत् सर्वधर्मेभ्यस्तेन यान्ति परां गतिम्॥ शान्ति. २१४/७॥
सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे श्रृणु।
सम्प्रदीप्तमुदीर्णं च निगृह्णीयात् द्विजो रजः॥ शान्ति. २१४/११॥
योषितां न कथा श्राव्या न निरीक्ष्या निरम्बराः।
कथञ्चिद् दर्शनादासां दुर्बलानां विशेद्रजः॥ शान्ति. २१४/१२॥
मग्नः स्वप्ने च मनसा त्रिर्जपेदघमर्षणम्॥ शान्ति. २१४/१३॥
ज्ञानयुक्तेन मनसा संततेन विचक्षणः॥ शान्ति. २१४/१४॥
मध्ये च हृदयस्यैका शिरा तत्र मनोवहा।
शुक्रं संकल्पजं नृणां सर्वगात्रैर्विमुञ्चति॥ शान्ति. २१४/१९॥
शुक्रं संकल्पजं देहात् सृजत्यस्य मनोवहा॥ शान्ति. २१४/२२॥
रजस्तमश्च हित्वेह यथेष्टां गतिमाप्नुयात्॥ शान्ति. २१४/२७॥
भार्यां गच्छन् ब्रह्मचारी ॠतौ भवति वै द्विजः।
ॠतवादी भवेन्नित्यं ज्ञाननित्यश्च यो नरः॥ शान्ति. २२१/११॥
ब्रह्मचर्येण वै लोकान् जयन्ति परमर्षयः।
आत्मनश्च ततः श्रेयांस्यन्विच्छन् मनसाऽऽत्मनि॥ शान्ति. २४२/६॥
गन्धान् रसान् नानुरुन्ध्यात् सुखं वा नालंकारांश्चाप्नुयात् तस्य तस्य।
मानं च कीर्तिं च यशश्च नेच्छेत् स वै प्रचारः पश्यतो ब्राह्मणस्य॥ शान्ति. २५१/१॥
आसादति शुद्धात्मा मोक्षं वै प्रथमाश्रमे॥ शान्ति. ३२६/२६॥
धनं लभते दानेन मौनेनाज्ञां विशाम्पते।
उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम्॥ अनुशासन. ७/१४॥
अग्निकार्यं तथा धर्मो गुरुकार्यप्रसाधनम्॥ अनु. १४१/३५॥
नित्यं स्वाध्यायिता धर्मो ब्रह्मचर्याश्रमस्तथा॥ अनु. १४१/३६॥
ब्रह्मचर्यं परं शौचं ब्रह्मचर्यं परं तपः।
केवलं ब्रह्मसर्येण प्राप्यते परमं पदम्॥ अनु. १४५ दा. पा. अ. XI॥
देवता धर्म कार्येषु ब्रह्मचर्यव्रतं चरेत्॥ अनु. १४५ दा. पा. अ. XI॥
ब्रह्मचर्य व्रतफलं लभेद् दाराव्रती सदा।
शौचमायुस्तथाऽऽरोग्यं लभ्यते ब्रह्मचारिभिः॥ अनु. १४५ दा. पा. अ. XI॥
ब्रह्मचारी सदैवैष य इन्द्रियजये रतः॥ आश्व. २६/१५॥
अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः।
ब्रह्मभूतश्चरंल्लोके ब्रह्मचारी भवत्ययम्॥ आश्व. २६/१६॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्॥ आदि. १७४/४५॥
शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः॥ शान्ति. २४५/११॥
यत्र क्वचनशायी च तं देवा ब्राह्मणं विदुः॥ शान्ति. २४५/१२॥
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः॥ शान्ति. २४५/१३॥
न क्रुद्ध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः।
सर्वभूतेष्वभयदस्तं देवा ब्राह्मण विदुः॥ शान्ति. २४५/१४॥
अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः॥ शान्ति. २४५/२२॥
जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च।
अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः॥ शान्ति. २४५/२३॥
निर्मुक्तं बन्धनैः सर्वैस्तं देवा ब्राह्मणं विदुः॥ शान्ति. २४५/२४॥
प्रादेशमात्रे हृदि निःसृतं यत् तस्मिन् प्राणानात्मयाजी जुहोति।
तस्याग्निहोत्रं हुतमात्मसंस्थं सर्वेषु लोकेषु सदेवकेषु॥ शान्ति. २४५/२८॥
अगर्हणीय न च गर्हतेऽन्यान् स वै विप्रः परमात्मनमीक्षेत्।
विनीतमोहो व्यपनीतकल्मषो न चेह नामुत्र च सोऽऽन्नमृच्छति॥ शान्ति. २४५/३५॥
नाकामो म्रियते जातु न तेन न च वै द्विजः॥ शान्ति. २५१/३॥
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति। शान्ति. ३२६/३३॥
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा॥ शान्ति. २५१/५॥
यदा न कुरुते भावं सर्वभूतेषु पापकम्। शान्ति. ३२६/३४॥
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥ शान्ति. २५१/६॥
कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते॥ शान्ति. २५१/७॥
विरजाः कालमाकाङ्क्षन् धीरो धैर्येण वर्तते॥ शान्ति. २५१/८॥
स कामकान्तो न हि कामकामः।
स वै कामात् स्वर्गमुपैति देही॥ शान्ति. २५१/१०॥
दमस्योपनिषद् दानं दानस्योपनिषत् तपः॥ शान्ति. २५१/११॥
सुखस्योपनिषत् सवर्गः स्वर्गस्योपनिषच्छमः॥ शान्ति. २५१/१२॥
क्लेदनं शोकमनसो संतापं तृष्णया सह।
विशोको निर्ममः शान्तः प्रसन्नात्मा विमत्सरः।
षड्भिर्लक्षणवानेतैः समग्रः पुनरेष्यति॥ शान्ति. २५१/१४॥
ये विदुः प्रेत्य चात्मानमिहस्थं तं गुणं विदुः॥ शान्ति. २५१/१५॥
अध्यात्मं सुकृतं प्राप्तः सुखमव्ययमश्नुते॥ शान्ति. २५१/१६॥
निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वशः।
यामयं लभते तुष्टिं सा न शक्याऽऽत्मनोऽन्यथा॥ शान्ति. २५१/१७॥
येनास्नेहो बलं धत्ते यस्तं वेद स वेदवित्॥ शान्ति. २५१/१८॥
यो ह्यास्ते ब्राह्मणः शिष्टः स आत्मरतिरुच्यते॥ शान्ति. २५१/१९॥
सर्वतः सुखमन्वेति वपुश्चान्द्रमसं यथा॥ शान्ति. २५१/२०॥
अविशेषाणि भूतानि गुणांश्च जहतो मुनेः।
सुखेनापोह्यते दुःखं भास्करेण तमो यथा॥ शान्ति. २५१/२१॥
ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः॥ शान्ति. २५१/२२॥
स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते।
कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम्।
पुनरावर्तनं नास्ति सम्प्राप्तस्य परं पदम्॥ शान्ति. २५१/२४॥
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा शमस्तथा॥ शान्ति. २७०/३९॥
पन्थानो ब्रह्मणस्त्वेते एतैः प्राप्नोति यप्तरम्॥ शान्ति. २७०/४०॥
वेदांश्च वेदितव्यं च विदित्वा च यथास्थितिम्।
एवं वेदविदित्याहुरतोऽन्यो वातरेचकः॥ शान्ति. २७०/४२॥
सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम्।
वेदे हि निष्ठा सर्वस्य यद् यदस्ति च नास्ति च॥ शान्ति. २७०/४३॥
एतदन्तं च मध्यं च सच्चासच्च विजानतः॥ शान्ति. २७०/४४॥
न वृत्तं मन्यते तस्य मन्यते न च पातकम्।
तथा स्वकर्म विर्वृत्तं न पुण्यं न च पापकम्॥ अनु. १२०/२४॥
एकधा बहुधा चैव विकुर्वाणस्ततस्ततः॥ आश्व. ४२/६०॥
ध्रुवं पश्यति रूपाणि दीपाद् दीपशतं यथा।
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
१ . गुरवो हि दैवतं बालानाम् । कादम्बरी उत्तरभागाः
२ . गुरूपदेशः प्रशमहेतुर्वयः परिणाम इव पलितरूपेण
:शिरसिजजालममलीकुर्वन् गुणरूपेण तदेव परिणमयति । कादम्बरी पूर्वभागः
३ . गुरूपदेशश्च नाम पुरुषाणामखिलमलप्रक्षालनक्षममजलं स्नानम् । कादम्बरी पूर्वभागः
४. माननीयं च गुरवन्नोल्लङ्घनमर्हति गुरोरासनम् । हर्षचरितम् ऊ० ३
५. यथैवाशिषो गुरुजनवितीर्णा वरतामापद्यन्ते तथैवाक्रोशाः शापताम् । कादम्बरी उत्तरभागाः
६. स्वप्नायमानानामपि यद् गुरूणां मुखेभ्यो निष्क्रमाति शुभमशुभं वा
:शिशुषु तदवश्यं फलति । कादम्बरी उत्तरभागाः
७. हरति मलिनान्धकारमिव दोषजातं प्रदोषसमयनिशाकर इव गुरूपदेशः । कादम्बरी पूर्वभागाः
<DOC_END>
<DOC_START>
१ . अनुमीयन्ते जन्मान्तरावस्थितानि सुकृतानि हृदयोत्सवैः । हर्षचरितम् उ०८
२ . चित्तवृत्तेः शोधनमेव प्रथममलङ्करणम् । द्वासुपर्णा-उत्तरभागः
३ . नलिनीदलनिपतितजललवतरलं प्रकृत्यैव मनः । शृङ्गारमञ्जरी पृ १९
४. स्वकीयेच्छान्वय-व्यतिरेकानुविधायिनिकार्ये को वा दौर्मनस्यावसरः । मन्दारमञ्जरी-पूर्वभागः
<DOC_END>
<DOC_START>
१. आश्चर्यातिशययुक्ताश्च तपः सिद्धयः । कादम्बरी पूर्वभागः
२ . जातस्य हि रूपगुणविहीनस्यापि जन्मोपनतानि जीवलोकसुखान्यनुभूय
:शोभते परत्र सम्बन्धी तपश्चरणपरिक्लेशः किं पुनराकृतिमतो जनस्य । कादम्बरी उत्तरभागः
३ . तपसो हि सम्यक् कृतस्य नास्त्यसाध्यं नाम किञ्चित् । कादम्बरी उत्तरभागः
४. नास्ति खल्वसाध्यं नाम तपसाम् । कादम्बरी पूर्वभागः
५. शरणागतपरित्राणं हि तपस्विनामपि धर्म एव । कादम्बरी उत्तरभागः
६. तपः कदापि समृद्धिशालिभिः न साध्यम् । द्वासुपर्णा पूर्वभागः
<DOC_END>
<DOC_START>
जनस्य कृते अल्पा अपि पीडा असहनीया भवति इत्यस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
सरलसूत्ररूपा, वाक्यरूपा पदात्मिका वा अनुभवकथनानि एव न्यायाः । तेषां अकारादि क्रमेण संग्रहणम् अत्र कृतमस्ति।
<DOC_END>
<DOC_START>
नेत्रे स्थापनीयम् औषधम् अन्यस्मिन् स्थाने स्थापितं चेत् किं भवेत् तस्य औषधस्य
कोऽपि उपयोगः न भवति । तत् औषधं व्यर्थं भवति । नेत्रयोः वर्तमानं तारकं कियदपि वा
सूक्ष्मं भवतु तथापि तस्य अतिसूक्ष्मस्य वस्तुनः ग्रहणं कारयितुं सामर्थ्यम् अस्ति ।
<DOC_END>
<DOC_START>
अन्धकारः दूरीकरणीयः चेत् महान् प्रयासः करणीयः न भवति । लघुदीपः अपि केनापि अंशेन अन्धकारं दूरीकर्त्तु शक्नोति । सः दीपः अङ्गुलिप्रमाणः भवति चेदपि कः प्रत्यवायः गाढम् अन्धकारं दूरीकर्तु दीपशिखायाः अपि उपयोगः क्रियते तया कियान् अन्धकारः कियन्तं कालं यावत् अपसारितः भवेत् संपूर्णस्य अन्धकारस्य निवारणं तु अशक्यम् एव । महत्तः परिणामस्य कृते लघोः दीपसमानस्य साधनस्य उपयोगः पर्याप्तः । तदर्थ महत्याः दीपशिखायाः आवश्यकता नास्ति । एतस्मिन् अर्थे अस्य न्यायस्य उपयोगः भवति ।
<DOC_END>
<DOC_START>
कस्मिंश्चिद् विषये उपाय एव न भवति चेत् अल्पस्य महतः वा मार्गस्य आधारेण तरणोपायः
मार्गणीयः भवति । तदा आश्रयरूपेण स्वीकृतः कियानपि क्षुल्लकः भवतु साधनस्य अपेक्षया
समयस्य एव महत्त्वम् अधिकं भवति ।
<DOC_END>
<DOC_START>
प्रवाससमये वृक्षाः चलन्तः दृश्श्यन्ते, चलन्ती नौका प्रायः स्थिरा इव भान्ति, वेगेन भ्रमन् वस्तुविशेषः स्थिरः इव भाति । अत्यन्तवेगेन भ्रमतः व्यजनस्य पत्राणि न दृशश्यन्ते । एतत् सर्वं भ्रान्तिवशात् । तथा एकस्य वस्तुनः चलनं स्थिरत्वं वा द्योतयितुम् अस्य न्यायस्य उपयोगः क्रियते ।
<DOC_END>
<DOC_START>
पूजायाः कृते आवश्यकानि जलादीनि वस्तूनि शीघ्रम् उपलब्धानि भवन्तु इति एकः ब्राह्मणः एकं कुम्भं
जलेन पूरयित्वा तस्मिन् एव कुम्भे अग्निम् अपि स्थापितवान् रात्रौ । प्रातः काले जलम् अग्निः तथा इतराणि
वस्तूनि शीघ्रम् एव एकत्र लभ्यन्ते इति आशया सः धावित्वा आगतः परं सः किं पश्यति अग्नेः ज्वलदङ्गाराः
शान्ताः अभवन् तथा कुम्भे वर्तमानं जलम् अपि मलिनम् अभवत् ।
येषां प्रपञ्चज्ञानं न भवति तादृशानां मन्दबुद्धीनां जनानां विषये अस्य न्यायस्य उपयोगः भवति ।
<DOC_END>
<DOC_START>
शलभः अर्थात् पतङ्गः अग्निज्वालां दृष्ट्वा तदुपरि उत्पतति तया च ज्वालया दग्धः भवति ।
तथैव बहवः जनाः उद्विग्नाः सन्तः तात्कालिकेन आकर्षणेन साधकबाधकविचारम् अकृत्वा
सुखदुःखयोः, लाभनष्टयोः च विचारम् अपि अकृत्वा फलप्राप्त्यर्थं लोभेन सहसा कार्याणि
कर्तुम् इच्छन्ति । तेषां विषये अस्य न्यायस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
अचः नाम स्वराः । हलः नाम व्यञ्जनानि । उच्चारणस्य कृते एतेषां द्विविधवर्णानाम् आवश्यकता भवति । हल्वर्णस्य साहाय्यं विना स्वरस्य उच्चारणं सरलं नास्ति परन्तु अतीव कठिनम् अपि नास्ति । परं केवलस्य हलवर्णस्य उच्चारणं तावत् कठिनम् एव । अतः अचः ससत्त्वाः हलः निस्सत्त्वाः भवन्ति । हलः निस्सत्त्वाः यतः स्वराणाम् एव आधारेण तेषाम् उच्चारणं भवति । (समर्थाः एकाकिनः अपि स्वरा इव राजन्ते असमर्थाः तु व्यञ्जनानि इव न राजन्ते इति भावः)
एकाकिनोऽपि राजन्ते सारसत्त्वाः स्वरा इव ।
व्यञ्जनानीव निः सत्त्वाः परेषामनुगामिनः ॥ सा. १३४
<DOC_END>
<DOC_START>
अजगरस्य शरीरं स्थूलतमं दीर्घ च भवति तेन कारणेन अजगरः शीघ्रं चलनादिकं कर्तु समर्थः न भवति । अतः कोऽपि प्राणी स्वसमीपम् आयातः चेत् सः तं निगिलति । तथैव निश्चलः इति भासमानः बकः अपि स्वसमीपम् आगतं मत्स्यं निगिलति । एतम् एव बकवृत्तिन्याय इति अपि कथयन्ति (सा.९५७,९५८)
<DOC_END>
<DOC_START>
परार्थाभिधानं वृत्तिः । कस्यापि शब्दस्य अर्थ अन्येन शब्देन कथयन्ति चेत् ‘वृत्तिः’ इति कथ्यते । यस्यां वृत्तौ उपसर्जनीभूतानि अर्थात् गौणानि पदानि स्वयं मूलम् अर्थ त्यजन्ति सा वृत्तिः ‘जहत्स्वार्था भवति । स्वकार्यं कुर्वाणः तक्षकः राज्ञः कर्मणि संप्राप्ते स्वीयं कर्म स्थगयति (राज्ञः एव कर्म आदौ करोति) । समर्थः पदविधिः इत्यस्य सूत्रस्य भाष्ये पतञ्जलिमहर्षिणा अयं विषयः स्पष्टीकृतः । जहत्स्वार्था वृत्तिः लक्षणायाम् अन्तर्भवति । यदा वाच्यस्य अर्थस्य अन्वयः सरलतया न भवति अन्यस्य च अर्थस्य अन्वयः भवति तदा लक्षणा-वृत्तेः अवलम्बनं भवति । यथा-शोणो धावति इत्यत्र शोणवर्णः अश्वः धावति इति अर्थस्य अन्वयः क्रियते तदा अस्य न्यायस्य आधारेण अर्थग्रहणं भवति । अस्मिन् मूलविषयस्य त्यागः न भवति लाक्षणिकः अर्थः एव परिवर्तते । (सा. ४३५)
<DOC_END>
<DOC_START>
अजायाः कृपाणस्य (खड्गस्य) च सम्पर्कः अकस्मादिव जातः चेदपि अजा मृता भवति एव । यदा काचिद् घटना अनपेक्षितरीत्या घटते तदा तस्याः निर्देशं कर्तुम् अयं न्यायः उपयुज्यते । अकस्मात्, सहसा जायमानानां घटनानां कृते अस्य उपयोगः । अयम् एव अर्थः काकतालीयन्यायेन खल्वाटबिल्वीयन्यायेन च बोध्यते । अन्यस्मिन् न्याये इष्टलाभः अनिष्टलाभः वा सूच्यते परन्तु अनेन न्यायेन अनिष्टप्राप्तेः एव सूचना भवति ।
अजाकृपाणपदाभ्यां तदागमनपतने लक्ष्येते । अजागमनमिव कृपाणपतनमिव अजाकृपाणं, ततः अजाकृपाणमिव अजाकृपाणीयमिति । एवमागच्छन्त्याः अजायाः कृपाणपतनाद्यथा वधः, तत्सदृशं मरणमिति फलितोर्थः अपि विव्रियते ।
अधः टिप्पण्याम् एवम् उल्लिखितमस्ति कण्डूयनार्थं स्तम्भादौ शुथिलबन्धखड्गे छागी ग्रीवां प्रसारयति यदृच्छया च ग्रीवा छिद्यते तथाभूतोऽजाकृपाणीन्यायः काकतालीयन्यायसमः ।
वर्धमानः स्वीये गणरत्नमहोदधिव्याख्यायाम् अन्यविधं लिखति यथाजय भूमिं खनन्त्यात्मवधाय कृपाणो दर्शितस्तत्तुल्यं वृत्तं केनचिदात्मविनाशाय कृतमजाकृपाणीयम् ॥
<DOC_END>
<DOC_START>
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥
ब्रह्माण्डपुराणे अ. १५० सा. ५८२
<DOC_END>
<DOC_START>
अजायाः कति अण्डकोशाः भवन्ति ते च कथं भवन्ति इत्यादिव्यर्थचर्चायाः द्योतनार्थम् अस्य न्यायस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
अग्नेः शिखा ऊर्ध्वं गच्छति इति स्वाभाविकम् । तथैव आत्मनः अपि ऊर्ध्वगमनम् अस्ति इति केषाञ्चन जैनदार्शनिकानां मतम् । सर्वदर्शनसंग्रहनामके ग्रन्थे एतादृश्याः ऊर्ध्वगतेः विषये चतुर्णां न्यायानाम् उल्लेखः उपलभ्यते । एते न्यायाः सर्वे अपि स्वाभाविकतायाः उदाहरणरुपाः ।
<DOC_END>
<DOC_START>
अग्निम् आहर इति कोऽपि वदति चेत् कस्मिन् अपि पात्रे अग्निम् आहर इति वक्तव्यं न भवति । यः अग्निम् आनयति सः योग्यं पात्रम् अन्विष्य तस्मिन् अग्निं स्थापयित्वा एव आनयति । एषा अपेक्षा आदेशस्य दातुः पालयितुः च भवति । एवम् आधारं विना आधेयं स्थातुं न प्रभवति इति द्योतयितुम् अस्य न्यायस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
अङ्कोलवृक्षस्य बीजानि अधः पतितानि मृगनक्षत्रस्य मेघगर्जनकाले पुनः गत्वा वृक्षेण लग्नानि भवन्ति । अनुकूला परिस्थितिः प्राप्ता चेत् कोऽपि जनः किंवा किमपि वस्तु मूलावस्थां प्राप्तुं शक्नोति । तस्य अधः पतने जाते अपि पूर्वावस्था प्राप्तुं शक्या इत्यभिप्रायेणा अस्य न्यायस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
अङ्गारः उष्णः यदा भवति तदा हस्ते गृहीतः चेत् हस्तं दहति स एव यदा शीतलः भवति तदा स्पृष्टः चेत् हस्तं मलिनं करोति । एवं कस्याम् अपि दशायां तस्य स्पर्शः दोषजनकः एव । तथा एव दुर्जनस्य संगतिः अपि हानिम् एव करोति इति द्योतयितुम् अस्य न्यायस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
अपत्यस्य जन्मनः पूर्वमेव तस्य गुणानां स्तुतिः किंवा तस्य तस्य अपत्यस्य नामकरणम् इत्यादिकं क्वचित् त्वरावशात् केचन कुर्वन्ति । एतादृशस्य व्यर्थकर्मणः निर्देशार्थम् अस्य न्यायस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
अण्डं प्रथमं जातं वा कुक्कुटी प्रथमं जाता वा इति अद्ययावत् न निश्चितम् । अण्डं विना कुक्कुट्याः निर्माणं न भवति तां विना अण्डस्य निर्माणं न भवति । तथैव अङ्कुरः आदौ जातः वा तस्य बीजम् आदौ जातं वा इत्यत्र अपि ‘पूर्व- अपर’ संबन्धः नास्ति परस्परकार्यकारणसंबन्धः अस्ति । अयं बीज- अङ्कुरप्रवाहः अनादिः अनन्तः वर्तते । सामवेद २१७,२१८)
<DOC_END>
<DOC_START>
कस्मिन् अपि निष्कारणम् एव विश्वासं कृत्वा सहसा किञ्चित् क्रियते किंवा आत्मानं कुत्रचित् अधिकप्रवणं करोति चेत् तादृशस्य कर्मणः निर्देशार्थम् अस्य न्यायस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
तद्वत्करणम् अतिदेशः । केनापि किमपि स्थानम् संप्राप्तं चेत् तस्मिन् स्थाने योग्यानां धर्माणाम् आरोपः अपि क्रियते अथवा समानविषयपर्यन्तं कस्यापि धर्मस्य विस्तारः कृतः इत्यस्मिन् अर्थे अस्य न्यायस्य प्रयोगः क्रियते ।
एतस्य कानिचिद् लक्षणानि इत्थं सन्ति -
:१) एकत्र श्रुतस्य अन्यत्र संबन्धः । अन्यधर्मस्य अन्यत्र आरोपणम् । (सर्वतन्त्रसिद्धान्तपदार्थलक्षणसंग्रहः-९) अलङ्कारशास्त्रे अपि अतिदेशन्यायस्य अतिरिशयुक्तेः वा उपयोगः उपलभ्यते । विशिष्टं गुणं कमपि लक्षयित्वा लेखकेन न कथितेषु बहुषु विषयेषु ते गुणाः अतिदेशपद्धत्या अन्विताः भवन्ति ।
:३) एकत्र श्रुतस्य अन्यत्र संबन्धः । अन्यधर्मस्य अन्यत्र आरोपणम् । (सा. ६१५) ।
एकस्य गुणधर्माणाम् अन्यत्र अन्वयः ।
इतराः अपि व्याख्याः एवं सन्ति -
:२) अतिदेशस्तु यत् किञ्चित् अर्थजातम् उदीर्य च ।एवमन्यत् अपि ज्ञेयम् इति स्थापनम् उक्तिभिः । इत्यतिदेशः । (तन्त्रयुक्तिविचारः-पृ.१४)
:३) अतिदेशस्तु पूर्वोक्तन्यायस्य अनुषङ्गितः (तन्त्रयुक्तिविचारः-पृ.८)
:४) अतिदेशस्तु पूर्वोक्तन्यायस्य अन्यानुषङ्गिता (तत्रैव-पृ८७)
:५) अतिदेशो नाम यकिञ्चिदेव प्रकाश्यार्थम् अनुक्तार्थसाधनायैव एवमन्यदपि प्रत्येतव्यमिति परिभाष्यते । (चरकसंहिता-१ पृ. १०३)
<DOC_END>
<DOC_START>
कमपि एकं विशिष्टं विषयम् अननुसृत्य प्रवर्तमानं विधानं यदा क्रियते तदा अस्य न्यायस्य प्रयोगः भवति । एतादृशानां सर्वेषामपि विधीनां प्रकृत्यर्थेन सह अन्वयः भवति । तैत्तिरीयसंहितायां (३-५-७-२) यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं कृणॊति’ इति एकं वाक्यं वर्तते । जुहूः (चमसः) पर्णमयी (पलाशावृक्षकाष्ठेन) भवति चेत् तस्मात् एकम् अपूर्वम् उत्पद्यते इति मीमांसकानां सिद्धान्तः । वाक्यम् इदं कस्मिन् अपि दर्शपूर्णयागाख्ये प्रकृतियागे विकृतियागे वा न संबध्यते । पूर्वः कोऽपि सम्बन्धः न वर्तत इति कारणेन ‘अनारभ्याधीतम्’ इति कथ्यते ।
<DOC_END>
<DOC_START>
न्यायः अयम् अनिश्चिततायाः सूचकः । जैनदर्शने वस्तूनां स्थितिम् अधिकृत्य अस्ति नास्ति, अस्ति नास्ति च’ इत्यादयः सप्त प्रकाशः कथिताः । दैवम् अस्ति, दैवं नास्ति इत्येतादृशस्य अनिश्चितवादस्य कृते अपि अस्य न्यायस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
बहूनां दुर्बलानाम् आश्रयणस्य अपेक्षया एकस्य समर्थस्य आश्रयणम् एव श्रेयस्करम् इत्यर्थे अस्य न्यायस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
अतिपरिचयेन प्रेमापेक्षया अपमान एव भवति इत्यस्य न्यायस्य अर्थः । यथा-चन्दन इति अत्यन्तं मूल्यवान् सुगन्धी वृक्षः मलयपर्वते अधिकप्रमाणेन उपलभ्यते । अधिकप्रमाणेन लभ्यते इति कारणेन तत्रस्थाः भिल्लमहिलाः तस्य वृक्षस्य मूल्यम् अज्ञात्वा तम् इन्धनरुपेण विनियुञ्जते ।
::अतिपरिचयाद् अवज्ञा सन्ततगमनाद् अनादरो भवति ।
::मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥ (शार्ङ्गधरपद्धतिः ८३)
<DOC_END>
<DOC_START>
अन्तरङ्गं नाम समीपे वर्तमानम् । बहिरङ्गं नाम दूरे वर्तमानम् । अन्तरङ्गं बहिरङ्गस्य अपेक्षया बलवद् भवति । अस्य न्यायस्य प्रयोगः व्याकरणशास्त्रे मीमांसाशास्त्रे च भवति । यथा -ये धर्मा अपूर्वार्थास्ते साक्षाद्पूर्वेण असंबध्यमानास्तदङ्गेषु प्रवर्तमाना अन्तरङ्गे तावत् आपतन्ति । ततो व्यवहिते बहिरङ्गं यत्र च पूर्वम् अपतति तत्रैव तिष्ठति । तदतिक्रमे कारणाभावात् (जैमिनिसूत्रं १२-२-११ शाबरभाष्ये) । (पाणिनिसूत्रं १-१-४,१-१५) महाभाष्ये ।
<DOC_END>
<DOC_START>
एकस्य गृहस्थस्य समीपे एका महिषी आसीत् । सः तस्याम् अतीव स्निह्यति स्म । कालेन सः गृहस्थः गृहस्थाश्रमात् वानप्रस्थाश्रमं प्रविष्टः । वानप्रस्थाश्रमे सर्वे अपि बन्धाः त्यक्तव्याः भवन्ति । परन्तु अस्य गृहस्थस्य मनसि महिषीं प्रति वर्तमानः उत्कटः स्नेहः न गतः । प्राचीनाः बन्धाः शाश्वताः भवन्ति । वयं तं बन्धं शीघ्रं विस्मर्तु न शक्नुमः इति अनेन न्यायेन बोध्यते ।
<DOC_END>
<DOC_START>
गृहे स्थापितस्य दीपस्य अल्पोऽपि वा प्रकाशः सर्वत्र भवति । एकस्मिन् प्रदेशे वर्तमानस्य जनस्य वस्तुनः वा कारणेन बहूनि कार्याणि भवन्ति चेत् तद द्योतयितुम् अस्य न्यायस्य प्रयोगः भवति । अस्यैव नामान्तरं देहलीदीपन्यायः इति उच्यते ।
यथा सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन बह्मचर्येण नित्यम् इति मुण्डकोपनिषदि वर्तमानस्य मन्त्रस्य शाङ्करभाष्ये नित्यं सदा, नित्यं तपसा नित्यं सम्यग्ज्ञानेन इति रीत्या नित्यशब्दस्य अन्तर्दीपिकान्यायेन त्रिभिरपि अर्थैः सह संबन्धः दर्शितः । (सा.६५९)
<DOC_END>
<DOC_START>
अयं वर्गः अकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
अग्निः अदग्धं वस्तु दग्धुं शक्नोति परन्तु स एव अग्निः पूर्वमेव दग्धं वस्तु दग्धुं न शक्नोति इत्यर्थे अस्य न्यायस्य प्रयोगः भवति । ‘इको झल्’ (१-२-९) इत्यस्य पाणिनि-सूत्रस्य भाष्ये पतञ्जलिमुनिना अस्य प्रयोगः कृतः ।
<DOC_END>
<DOC_START>
एकस्मिन् अधिकरणे विषयः, विशयः (संशयः पूर्वपक्षः, उत्तरपक्षः निर्णयः च इति पञ्चानाम् अङानां साहाय्येन कस्यचन विषिष्टस्य सिद्धान्तस्य स्थापनं भवति ।
:‘अधिकरणं नाम यमर्थम्धिकृत्य प्रवर्तते कर्ता ।’ (चरकसंहिता पृ१०२९)
तस्य सिद्धान्तस्य अवगमनाय यदा अपरः सिद्धान्तः आवश्यकः भवति तत् सूचयितुम् अस्य न्यायस्य प्रयोगः भवति । यस्य विषये किमपि कथितं भवति तत् अधिकरणम् ।
:‘यमर्थमधिकृत्य उच्यते तत् अधिकरणम्’ (कौटिलीय- अर्थशास्त्रम् पृ.४५७)
<DOC_END>
<DOC_START>
यज्ञकर्तुः के गुणाः आवश्यकाः तस्य कीदृशी योग्यता अपेक्षिता इत्यादि-विषये केचन नियमाः शास्त्रे कथिताः । अधिकारस्य
अर्थात् योग्यतायाः विषये नियमाः यत्र कथिताः तत्र अस्य न्यायस्य प्रयोगः भवति । मीमांसाशास्त्रे अस्य विवेचनम् उपलभ्यते यथा -
किञ्चित्तु पुरुषविशेषणत्वेन अश्रुतमपि अधिकारिविशेषणं भवति ।
यथाध्ययनसिद्धा विद्या अग्निसाध्येषु कर्मसु आधानसिद्धाग्निमत्त्वं सामर्थ्य च । मीमांसान्यायप्रकाशः
<DOC_END>
<DOC_START>
अध्यारोपः नाम एकस्मिन् वस्तुनि अन्यस्य वस्तुनः आरोपणम् । यदा तत् आरोपणं दूरीभूय वस्तुनः यथार्थज्ञानं भवति तदा तं वेदान्ते अपवादं भणन्ति । यथार्थज्ञानेन भ्रमः अपगच्छति । ब्रह्मपदस्य विवेचनसमये वेदान्ते अस्य न्यायस्य उपयोगः क्रियते
यथा -वस्तुन्यवस्त्वारोपः अध्यारोपः । यथा असर्पभूतायां रज्जौ सर्पारोपः । अपवादो नाम रज्जुविवर्तस्य सर्पस्य रज्जुमात्रत्ववद् वस्तुविवर्तस्य अवस्तुनः अज्ञानादेः प्रपञ्चस्य वस्तुमात्रत्वम् इति । ताभ्याम् अध्यारोपापवादाभ्यां निष्प्रपञ्चं सच्चिदानन्दानन्ताद्वयं ब्रह्म प्रपञ्च्यते विस्तीर्यते इति भावः । अयमेव सर्परज्जुन्यायः ।
<DOC_END>
<DOC_START>
अनवस्थाप्रसंगः इत्यपि प्रयोगः रुढः वर्तते । यदा उपपाद्यविषयस्य उपपादकविषयस्य च मध्ये वर्तमानस्य संबन्धस्य अन्तः एव न भवेत् तथा अव्यवस्थितानां युक्तिपरम्पराणां कारणेन कस्यापि एकस्य तत्त्वस्य सिद्धिः न भवेत् तेन कारणेन अनिष्टम् एव संभवेत् तस्मिन् प्रसंगे अस्य न्यायस्य प्रयोगः भवति ।
:तस्मादर्थान्तरसमवायमभ्युपगच्छतः प्रसज्येत एव अनवस्था । (ब्रह्मसूत्रशाङ्करभाष्यं २-३-१३)
<DOC_END>
<DOC_START>
अन्धस्य हस्ते दीपः स्थापितः चेदपि तस्य अन्धस्य कृते तस्य दीपस्य किमपि प्रयोजनं न भवति । कस्यापि वस्तुनः उपयोगं कर्तु स्वयं योग्यता नास्ति चेत् तस्य जनस्य कृते तस्य वस्तुनः गुणानां द्वारा किमपि प्रयोजनं न भवति । एतस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
अयं न्यायः काकतालीयन्यायवद् अवितर्किते इष्टलाभे अनिष्टलाभे च अवतरति । यथा कश्चिदन्धकः पुमान् करतलेन करं ताडयन्वर्तते, तस्य हस्तद्वयमध्ये वर्तिका पक्षिविशेषो दैवात्समायाति, स तु दुर्लभः, तथा मानुषजन्मनि सत्तां सङ्गोऽतिदुर्लभः ।
अत एवोक्तम् यशस्तिलकचम्पूः ii १५३
संसारसागरमिमं भ्रमता नितान्तं जीवेन मानवभवः समवापि दैवात् ।
तत्रापि यद् भुवनमान्यकुले प्रसूतिः सत्सङ्गतिश्च तदिहान्धकर्तकीयम् ॥ सा.६५५) इति ।
किञ्च वर्धमानः वदति गणरत्नमहोदधि iii, १९५ – अन्धकश्च वर्तका च अन्धकवर्तकम् । अन्धकस्य वर्तकाया उपर्यतर्कितः पादन्यास उच्यते । तत्तुल्यमन्धकवर्तकीयम् ॥ यथान्धकस्य पुंसः पादन्यासोऽतर्कितो वर्तिकाख्यविहगोपरि पतेत्, तथा तत्सदृशमन्धकवर्तकीयमिति । इत्यादयः प्रायेणान्योन्यं मिलन्तीति ।
अन्ध एव अन्धकः । स्वार्थे कः । नेत्रविहीन इत्यर्थः । वर्तिका पक्षिविशेषः । वनवटका इति प्रसिद्धा । देशभाषायां तु बटेरा इति प्रसिद्धा । "वर्तका शकुनौ प्राचाम्" उदीचां तु वर्तिकेति स्त्रीप्रत्यये सि. कौ. गणसूत्रादित्वविकल्पः । अन्धकश्च वर्तिका च अनयोः समाहारः अन्धकवर्तकम् "स नपुंसकम्" २।४।१७ इति नपुंसकत्वम् । अन्धकवर्तकमिव अन्धकवर्तकीयम् समासाच्च तद्विषयात्" ५।३।१० इति सूत्रेण छप्रत्ययः । छस्येयः ।
<DOC_END>
<DOC_START>
एकदा केचन अन्धाः अन्यं जनम् उद्दिश्य अवदन् अस्मान् गजं दर्शय' इति । सः गजशालां प्रति तान् नीतवान् । तत्र एकैकः अपि गजस्य एकैकम् अवयवम् अस्पृशत् । ततः ते गजं वर्णयितुम् आरब्धवन्तः कर्णभागं यः स्पृष्टवान् सः अवदत् 'गजः शूर्पसदृशः अस्ति' इति । तथा महासर्पसदृशः इति शुण्डग्राही, स्तम्भतुल्यः इति जङ्घाग्राहिता, पुच्छग्राहकः तु स्थूलरज्जुसमः गजः इति अवदन् । तेषां दृष्टिः नासीत् इति कारणेन तस्य गजस्य साकल्येन वर्णन कर्तु ते अस्मर्थाः अभवन् । तथैव कस्यापि वस्तुनः पूर्णज्ञानं यस्य नास्ति सः तस्य आंशिकज्ञानस्य आधारेण तस्य वस्तुनः वर्णनं कुर्वन् एतत् पूर्णतः एतादृशमेव वस्तु भवेत् इति चिन्तयति ।(सा. ७६) । तथा परमेश्वरविषये श्रुतिवाक्यादीनां विषये वा भवतु मूलतत्त्वम् अजानन्तः स्वस्वाभीष्टप्रदानीव पश्यन्तः परस्परं कलहं कुर्वन्ति । यत्र तत्त्वम् अज्ञातवतां मूर्खाणां परस्परकलहः तदवसरे अस्य न्यायस्य उल्लेखः क्रियते ।
अन्धैः निर्धारितः गजः अन्धगजः तस्य न्यायः इति मध्यमपदलोपगर्भः षष्ठीतत्पुरुषः ।
अस्य न्यायस्य उल्लेखः सुरेश्वरस्य महावार्तिके(४. ४. ५६६) दृश्यते एकमेवैकरूपं सद्वस्त्वज्ञातं निरञ्जनम् । जात्यन्धगजदृष्ट्यैव कोटिशः कल्प्यते मृषा ।
नैष्कर्मसिद्धिग्रन्थे (ii ९३ तदेतदद्वयं ब्रह्म निर्विकारं कुबुद्धिभिः । जात्यन्धगजदृष्ट्येव कोटिशः परिकल्प्यते।
<DOC_END>
<DOC_START>
यदि चाज्ञ्स्य सतो मुमुक्षोः अचेतनम् अनात्मानम् आत्मेति उपदिशेत् ।
प्रमाणभूतं शास्त्रं स श्रददधानतया अन्धगोलाङ्गूलन्यायेन
तदाऽत्मदश्ष्टिं न परित्यजेत् तद् व्यतिरिक्तं चात्मानं न प्रतिपद्येत् ।
<DOC_END>
<DOC_START>
अन्धाय दर्पणः दर्शितः चेदपि तस्य किं प्रयोजनम्? यस्य वस्तुनः उपयोगं यः कर्तु न शक्नोति तस्मै तद् वस्तु दत्त्वा किं प्रयोजनम् संपाद्यते वस्तुनः उपयोगः नास्ति अतः दानस्य पुण्यम् अपि नास्ति । अन्धस्य दीपेन किम् इत्येतद् वाक्यम् अपि एतम् एव अर्थ बोधयति ।
<DOC_END>
<DOC_START>
:आ. शाङ्करभाष्यम् (भामतीटीका- २५०, २५४)
<DOC_END>
<DOC_START>
:द्रष्टव्यम् अनादित्वेऽपि अन्धपरम्परान्यायेन अप्रतिष्ठैव अनवस्था व्यवहारलोपिनी स्यात् नाभिप्रायसिद्धिः ॥ (सा.२४)
आ. यदा कापि दशा स्थिरा न भवति, दशाम् अनुसृत्य दशा भवति । तर्हि काचित् अनन्ता परम्परा जायते । एतम् अनवस्थाप्रसङ्गं वदन्ति । एतादृशपरिस्थितौ अपि अस्य न्यायस्य प्रयोगः भवति । अयम् अनवस्थान्याय इति पूर्वम् उल्लिखितः ।
<DOC_END>
<DOC_START>
अपराह्णतः अर्थात् मध्याह्नात् सन्ध्यासमयं यावत् छाया क्रमेण वर्धते । दुष्टैः सह मैत्री कृता चेत् सा आदौ अतीव घना भवति परं क्रमेण सा न्यूना भवति । सज्जनैः तु कृता मैत्री आरम्भे लघ्वी भवति चेदपि क्रमेण वर्धते । अस्य न्यायस्य अयमभिप्रायः द्रष्टव्यम् -
आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्ध-परार्ध भिन्ना छायेव मैत्री खलसज्जनानाम् ॥
<DOC_END>
<DOC_START>
भूतले वर्तमानम् अग्निम् अन्यत्र स्थापयामः चेत् पूर्वस्थले कञ्चित् कालं यावत् उष्णता भवत्येव । तथैव कोऽपि मनुष्यः स्वस्थानात् अन्यत् स्थानं प्रति नीतः तथापि तस्य गुणानां कश्चन प्रभावः पूर्वस्थाने भवत्येव ।
<DOC_END>
<DOC_START>
अन्धः नेत्रे उन्मीलयति निमीलयति चेदपि किं तेन निष्प्रयोजनम् एव खलु । कस्याम् अपि अवस्थायां किमपि न दृश्येत । तस्य शारीरिकानां क्रियाणां परिणामः न भवति । एतस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
न पृष्टं चेदपि यदि उत्तरं दीयते तत् अविवेकस्य लक्षणम् इति अयं न्यायः सूचयति ।
<DOC_END>
<DOC_START>
एकस्य वाक्यस्य वाक्यान्तरेण सह संबन्धः भवति चेत् तत्र निषेधस्य शक्यता भवति । यदि कोऽपि संबन्ध एव नास्ति तर्हि निषेधः अशक्यः भवति इति अनेन न्यायेन सूच्यते ।
यथा- पुष्पाणि प्रातः काले विकसन्ति सन्ध्यासमये न । अयं प्रसक्तस्य निषेधः । यतः पुष्पाणां विकासः इत्ययं प्रसक्तः विषयः वर्तते । अन्धकारस्य वर्णः शुभ्रः न भवति इति अप्रसक्तनिषेधः ।
<DOC_END>
<DOC_START>
अन्धस्य नेत्रे कियदपि अञ्जनं स्थापयामः तस्य अञ्जनस्य उपयोगः न भवति । तत् प्रयोजनशून्यं कार्य भवति ।
<DOC_END>
<DOC_START>
अन्धः आनन्दं प्राप्नोति इति द्योतयितुम् अस्य प्रयोगः भवति । अयम् आनन्दः द्विविधः भवति -
अनेन न्यायेन द्विविधस्य न्यायस्य द्योतनं भवति ।
<DOC_END>
<DOC_START>
समुद्रः फेनं च इति अस्य न्यायस्य उपयोगः अद्वैतवेदान्तस्य ग्रन्थेषु दृश्यते । समुद्रे फेनं, तरङाः इत्यादयः दृश्यन्ते चेदपि तेषां स्वतन्त्रम् अस्तित्वं न भवति । समुद्रात् ते भिन्नाः इति आभासः भवति । समुद्रे या विक्षेपरुपेण माया भवति तस्याः कारणेन द्रष्टुः तरङ्गादिकस्य आभासः भवति । तथैव ब्रह्मणः या विक्षेपशक्तिसहिता माया भवति तस्याः कारणेन जगतः तस्मिन् वर्तमानानां विभिन्नानां पदार्थानां च आभासः भवति । अयम् आभासात्मकः विवर्तः । एतस्मात् जगत् उत्पन्नम् इव भाति । अयम् एव नामरुपात्मकः विस्तारः । शङ्कराचार्याः एतम् एव दृग्दृश्यविवेक इति कथयन्ति । (सा.६३६)
<DOC_END>
<DOC_START>
जलस्य अपानम् इति क्रिया द्विविधा भवति-
: अ) भोजनात् अनन्तरं जलस्य अपानम्
: आ) जलस्यापि पानस्य अभावः अनेन न्यायेन इतरभक्षणमपि निषिद्धं भवति ।
<DOC_END>
<DOC_START>
केनापि कारणेन अन्धस्य अन्धत्वे नष्टे दृष्टिः प्राप्ता इति द्योतयितुम् अस्य न्यायस्य प्रयोगः क्रियते । अज्ञानस्य नाशेन ज्ञानं प्राप्तम् इति सूचयितुम् अपि अस्य प्रयोगः क्रियते । परमेश्वरस्य प्राप्तिः नाम अन्धत्वस्य नाश इत्यपि अर्थः भवितुम् अर्हति । अस्मिन् अर्थे उपनिषत्सु एकं वाक्यम् अस्ति -
<DOC_END>
<DOC_START>
यदा प्रयत्नं कृत्वापि मनुष्यः किमपि कार्य साधयितुं न शक्नोति तदा सः आत्मानं समाश्र्वासयन् वदति ‘साधु जातं, ममापि तस्य वस्तुनः आवश्यकता कुत्र आसीत् न प्राप्तमिति साधु जातम्’ इति । एवम् आत्मानं समाश्वासयतः मनुष्यस्य वर्णनं कर्तुम् एतस्य न्यायस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
अभ्यर्हितस्य अर्थात् अत्यन्तम् इष्टस्य प्रियस्य वा निर्देशः प्रथमं कर्तव्य इति अनेन न्यायेन बोध्यते । अभ्यर्हितं पूर्वमिति न्यायमाश्रित्य तन्त्रप्रसङ्गप्रतिपादकयोः एकादशद्वादशाध्याययोः पूर्वोत्तरभावः उपपादितः । जैमिनीयन्यायंमालाविस्तरः -१२)
<DOC_END>
<DOC_START>
नैतद् ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छन्नतिहृष्यतीव।
बुद्धौ विलीने मनसि प्रचिन्त्या विद्या हि सा ब्रह्मचर्येण लभ्या॥ उद्योग. ४४/२॥
अव्यक्तविद्यामभिधास्ये पुराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम्।
यां प्राप्यैनां मर्त्यलोकं त्यजन्ति या वै विद्या गुरुवृद्धेषु नित्या॥ उद्योग. ४४/४॥
अस्मींल्लोके वै जयन्तीह कामान् ब्राह्मी स्थितिं ह्यनुतितिक्षमाणाः।
त आत्मानं निर्हरन्तीह देहान्मुञ्जादिषीकामिव सत्त्वसंस्थाः॥ उद्योग. ४४/७॥
कालेन पादं तथार्थं ततश्च पादं गुरुयोगतश्च।
उत्साहयोगेन च पादमृच्छेच्छास्त्रेण पादं च ततोऽभियाति॥ उद्योग. ४४/१६॥
सा प्रतिष्ठा तदमृतं लोकास्तद् ब्रह्म तद् यशः।
भूतानि जज्ञिरे तस्मात् प्रलयं यान्ति तत्र हि॥ उद्योग. ४४/३०॥
एष एकायनः पन्था येन यान्ति मनीषिणः।
तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जति॥ उद्योग. ६९/१५॥
अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम्॥ उद्योग. ६९/१८॥
एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः॥ उद्योग. ६९/२०॥
आगमाधिगमाद् योगाद् वशी तत्त्वे प्रसीदति॥ उद्योग. ६९/२१॥
यदा चायं न विभेति यदा चास्मान्न बिभ्यति।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा॥ शान्ति. २६/१४॥
यदा न भावं कुरुते सर्वभूतेषु पापकम्।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥ शान्ति. २६/१५॥
नानाविधे कर्मपथे सुखार्थी नरः प्रवृत्तो न परं प्रयाति॥ शान्ति. २०१/१२॥
एभिर्विमुक्तः परमाविवेश एतत् कृते कर्म विधिः प्रवृत्तः॥ शान्ति. २०१/१३॥
आत्मादिभिः कर्मभिरिन्ध्यमानो धर्मे प्रवृत्तो द्युतिमान् सुखार्थी।
परं हि तत् कर्मपथादपेतं निराशिषं ब्रह्मपरं ह्यवैति॥ शान्ति. २०१/१४॥
प्रजाः सृष्टा मनसा कर्मणा च द्वावेवैतौ सत्यपथौ लोकजुष्टौ।
दृष्टं कर्म शाश्वतं चान्तवच्च मनस्त्यागः कारणं नान्यदस्ति॥ शान्ति. २०१/१५॥
स्वेनात्मना चक्षुरिव प्रणेता निशात्यये तमसा संवृतात्मा।
ज्ञानं तु विज्ञानगुणेन युक्तं कर्माशुभं पश्यति वर्जनीयम्॥ शान्ति. २०१/१६॥
यद् यच्छरीरेण करोति कर्म शरीरयुक्तः समुपाश्नुते तत्।
शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम्॥ शान्ति. २०१/२१॥
वाचा तु यत् कर्म करोति किंचिद् वाचैव सर्वं समुपाश्नुते तत्।
मनस्तु यत् कर्म करोति किंचिन्मनःस्थ एवायमुपाश्नुते तत्॥ शान्ति. २०१/२२॥
यथा यथा कर्मगुणं फलार्थी करोत्ययं कर्मफले निविष्टः।
तथा तथायं गुणसम्प्रयुक्तः शुभाशुभं कर्मफलं भुनक्ति॥ शान्ति. २०१/२३॥
मत्स्यो यथास्रोत इवाभिपाती तथा कृतं पूर्वमुपैति कर्म।
शुभे त्वसौ तुष्यति दुष्कृते तु न तुष्यति वै परमः शरीरी॥ शान्ति. २०१/२४॥
निवर्तयित्वा रसनां रसेभ्यो घ्राणं च गन्धाच्छ्रवणौ च शब्दात्।
स्पर्शात् त्वचं रूपगुणात् तु चक्षुस्ततः परं पश्यति स्वं स्वभावम्॥ शा. २०२/५॥
यथा प्रदीप्तः पुरतः प्रदीपः प्रकाशमन्यस्य करोति दीप्यन्।
तथेह पञ्चेन्द्रियदीपवृक्षा ज्ञानप्रदीप्ताः परवन्त एव॥ शान्ति. २०२/९॥
यथार्चिषोऽग्नेः पवनस्य वेगो मरीचयोऽर्कस्य नदीषु चापः।
गच्छन्ति चायान्ति च संचरन्त्यस्तद्वच्छरीराणि शरीरिणां तु॥ शान्ति. २०२/११॥
यथा च कश्चित् परशुं गृहीत्वा धूमं न पश्येज्ज्वलनं च काष्ठे।
तद्वच्छरीरोदरपाणिपादं छित्त्वा न पश्यन्ति ततो यदन्यत्॥ शान्ति. २०२/१२॥
तान्येव काष्ठानि यथा विमथ्य धूमं च पश्येज्ज्वलनं च योगात्।
तद्वत् सबुद्धिः सममिन्द्रियात्मा बुधःपरं पश्यति तं स्वभावम्॥ शान्ति. २०२/१३॥
उत्पत्तिर्वृद्धिव्यय संनिपातैर्न युज्यतेऽसौ परमः शरीरी।
अनेन लिङ्गेन तु लिङ्गमन्यद् गच्छत्यदृष्टः फलसंनियोगात्॥ शान्ति. २०२/१५॥
यथा समीपे ज्वलतोऽनलस्य संतापजं रूपमुपैति कश्चित्।
न चान्तरं रूपगुणं बिभर्ति तथैव तद् दृश्यति रूपमस्य॥ शान्ति. २०२/१७॥
तथा मनुष्यः परिमुच्य कायमदृश्यमन्यद् विशते शरीरम्।
विसृज्य भूतेषु महत्सु देहं तदाश्रयं चैव बिभर्ति रूपम्॥ शान्ति. २०२/१८॥
महत्सु भूतेषु वसन्ति पञ्च पञ्चेन्द्रियार्थाश्च तथेन्द्रियाणि।
सर्वाणि चैतानि मनोऽनुगानि बुद्धिं मनोऽन्वेति मतिः स्वभावम्॥ शान्ति. २०२/२१॥
यदिन्द्रियैस्तूपहितं पुरस्तात् प्राप्तान् गुणान् संस्मरते चिराय।
तेष्विन्द्रियेषूपहतेषु पश्चात् स बुद्धिरूपः परमः स्वभावः॥ शान्ति. २०३/१॥
श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना।
सर्वज्ञः सर्वदर्शी च सर्वज्ञस्तानि पश्यति॥ शान्ति. २०३/५॥
यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम्।
ज्ञानमिन्द्रियसंयुक्तं तद्वत् प्रेत्य भवाभवौ॥ शान्ति. २०४/१॥
यथाम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा।
तद्वत्प्रसन्नेन्द्रियत्वाज्ञेयं ज्ञानेन पश्यति॥ शान्ति. २०४/२॥
दुष्टस्य मनसः पञ्च सम्प्रदुष्यन्ति मानसाः॥ शान्ति. २०४/४॥
अदृष्टवच्च भूतात्मा विषयेभ्यो निवर्तते॥ शान्ति. २०४/५॥
तर्षच्छेदो न भवति पुरुषस्येह कल्मषात्।
निवर्तते तदा तर्षः पापमन्तगतं यदा॥ शान्ति. २०४/६॥
विषयेषु तु संसर्गाच्छाश्वतस्य तु संश्रयात्।
मनसा चान्यथा काङ्क्षन् परं न प्रतिपद्यते॥ शान्ति. २०४/७॥
ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः।
यथाऽऽदर्शतले प्रख्ये पश्यत्यात्मानमात्मनि॥ शान्ति. २०४/८॥
इन्द्रियेभ्यो मनः पूर्वं बुद्धि परतरा ततः।
बुद्धेः परतरं ज्ञानं ज्ञानात् परतरं महत्॥ शान्ति. २०४/१०॥
अव्यक्तात् प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः।
मनः श्रोत्रादिभिर्युक्तं शब्दादीन् साधु पश्यति॥ शान्ति. २०४/११॥
विमुञ्चेत् प्राकृतान्ग्रामांस्तान् मुक्त्वामृतमश्नुते॥ शान्ति. २०४/१२॥
उद्यन् हि सविता यद्वत्सृजते रश्मिमण्डलम्।
स एवास्तमपागच्छंस्तदेवात्मनि यच्छति॥ शान्ति. २०४/१३॥
प्राप्येन्द्रियगुणान् पञ्च सोऽस्तमावृत्यगच्छति॥ शान्ति. २०४/१४॥
बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते।
तदा सम्पद्यते ब्रह्म तत्रैव प्रलयं गतम्॥ शान्ति. २०४/१७॥
अघ्राणमवितर्कं च सत्त्वं प्रविशते परम्॥ शान्ति. २०४/१८॥
मतिस्त्वभिगता ज्ञानं ज्ञानं चाभिगतं परम्॥ शान्ति. २०४/१९॥
नेन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुद्ध्यते मनः।
न बुद्धिर्बुद्ध्यतेऽव्यक्तं सूक्ष्मं त्वेतानि पश्यति॥ शान्ति. २०४/२०॥
दुःखमर्था हि युज्यन्ते पालने न च ते सुखम्।
दुःखेन चाघिगम्यन्ते नाशमेषां न चिन्तयेत्॥ शान्ति. २०५/८॥
ज्ञानं ज्ञेयाभिनिर्वृत्तं विद्धि ज्ञानगुणं मनः।
प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते॥ शान्ति. २०५/९॥
अपरादभिनिःसृत्य गिरेः श्रृङ्गादिवोदकम्॥ शान्ति. २०५/११॥
यदा निर्गुणमप्नोति ध्यानं मनसि पूर्वजम्।
तदा प्रज्ञायते ब्रह्म निकषं निकषे यथा॥ शान्ति. २०५/१२॥
न समक्षगुणापेक्षि निर्गुणस्य निदर्शकम्॥ शान्ति. २०५/१३॥
सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः।
मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते॥ शान्ति. २०५/१४॥
यथा महान्ति भूतानि निवर्तन्ते गुणक्षये।
तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते॥ शान्ति. २०५/१५॥
व्यवसायगुणोपेता तदा सम्पद्यते मनः॥ शान्ति. २०५/१६॥
तदा सर्वान् गुणान् हित्वा निर्गुणं प्रतिपद्यते॥ शान्ति. २०५/१७॥
अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम्।
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात्॥ शान्ति. २०५/१८॥
तपसा चानुमानेन गुणैर्जात्या श्रुतेन च।
निनीषेत् परमं ब्रह्म विशुद्धेनान्तरात्मना॥ शान्ति. २०५/१९॥
गुणहीनो हि तं मार्गं बहिः समनुवर्तते।
गुणाभावात् प्रकृत्या वा निस्तर्क्यं ज्ञेयसम्मितम्॥ शान्ति. २०५/२०॥
गुणप्रचारिणी बुद्धिर्हुताशन इवेन्धने॥ शान्ति. २०५/२१॥
यथा पञ्च विमुक्तानि इन्द्रियाणि स्वकर्मभिः।
तथा हि परमं ब्रह्म विमुक्तं प्रकृते परम्॥ शान्ति. २०५/२२॥
अहंकरोऽभिमानश्च समूहो भूतसंज्ञकः॥ शान्ति. २०५/२४॥
रागवान् प्रकृतिं ह्येति विरक्तो ज्ञानवान् भवेत्॥ शान्ति. २०५/२६॥
यदा तैः पञ्चभिः पञ्च युक्तानि मनसा सह।
अथ तद् रक्ष्यते ब्रह्म मणौ सूत्रमिवार्पितम्॥ शान्ति. २०६/१॥
तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः।
मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा॥ शान्ति. २०६/२॥
तद्वत् कीटपतङ्गेषु प्रसक्तात्मा स्वकर्मभिः॥ शान्ति. २०६/३॥
येन येन शरीरेण यद्यत्कर्म करोत्ययम्।
तेन तेन शरीरेण तत् तत् फलमुपाश्नुते॥ शान्ति. २०६/४॥
तथा कर्मानुगा बुद्धिरन्तरात्मानुदर्शिनी॥ शान्ति. २०६/५॥
अभिसंधिपूर्वकं कर्म कर्ममूलं ततः फलम्॥ शान्ति. २०६/७॥
अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते॥ शान्ति. २०६/१३॥
तद् ब्रह्म परमं प्रोक्तं तद्धाम परमं पदम्।
तद् गत्वा कालविषयाद् विमुक्ता मोक्षमाश्रिताः॥ शान्ति. २०६/१४॥
गुणेष्वेते प्रकाशन्ते निर्गुणत्वात् ततः परम्।
निवृत्तिलक्षणो धर्मस्तथाऽऽनन्त्याय कल्पते॥ शान्ति. २०६/१५॥
न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत् पदम्॥ शान्ति. २०६/२०॥
विषयेषु च संसार्गाच्छाश्वतस्य च दर्शनात्।
मनसा चान्यदाकाङ्क्षन् परं न प्रतिपद्यते॥ शान्ति. २०६/२१॥
गुणान् यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः।
परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद् गुणार्थिनः॥ शान्ति. २०६/२२॥
गुणैर्यस्त्ववरैर्युक्तः कथं विद्यात् परान् गुणान्।
अनुमानाद्धि गन्तव्यं गुणैरवयवैः परम्॥ शान्ति. २०६/२३॥
सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः।
मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम्॥ शान्ति. २०६/२४॥
ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या मनस्तथा।
मनसा चेन्द्रियग्राममक्षरं प्रतिपद्यते॥ शान्ति. २०६/२५॥
बुद्धि प्रवीणो मनसा समृद्धो निराशिषं निर्गुणमभ्युपैति।
परं त्यजन्तीह विलोड्यमाना हुताशनं वायुरिवेन्धस्थम्॥ शान्ति. २०६/२६॥
अव्यक्तात्मा पुरुषो व्यक्तकर्मा सोऽव्यक्तत्वं गच्छति ह्यन्तकाले।
तैरेवायं चेन्द्रियैर्वर्धमानैर्ग्लायद्भिर्वाऽऽवर्तते कामरूपः॥ शान्ति. २०६/२८॥
सर्वैरयं चेन्द्रियैः सम्प्रयुक्तो देहं प्राप्तः पञ्चभूताश्रयः स्यात्।
नासामर्थ्याद् गच्छति कर्मणेह हीनस्तेन परमेणाव्ययेन॥ शान्ति. २०६/२९॥
दिवाकरो गुणमुपलभ्य निर्गुणो यथा भवेदपगतरश्मिमण्डलः।
तथा ह्यसौ मुनिरिह निर्विशेषवान् स निर्गुणं प्रविशति ब्रह्म चाव्ययम्॥ शा.२०६/३१॥
अनागतं सुकृतवतां परां गतिं स्वयम्भुवं प्रभवनिधानमव्ययम्।
सनातनं यदमृतमव्ययं ध्रुवं निचाय्य तत् परममृतत्वमश्नुते॥ शान्ति. २०६/३२॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
अन्तर्गतं वाक्यम् अथवा प्रभावि निगमनम् इति अस्य अर्थः । सहसा केनापि असत्यम् अथवा प्रत्यक्षविरुद्धं विधानं कृतं चेत् तस्य वर्णनाय अस्य न्यायस्य प्रयोगः क्रियते । यथा-अम्बुनि मज्जन्ति अलाबूनि, ग्रावाणः प्लवन्ते इत्यादि ।
<DOC_END>
<DOC_START>
मेघान् दृष्ट्वा मयूराः नृत्यन्ति । मेघैः सह मयूराणां कः संबन्धः इति न ज्ञायते । परन्तु वर्षर्तोः आरम्भे मेघान् दृष्ट्वा ते नृत्यन्ति इति सत्यम् एव । तथैव कमपि जनं किञ्चिद् वस्तु वा दृष्ट्वा कस्यचिद् मनुष्यस्य महान् आनन्दः भवति । तादृशस्य आनन्दस्य वर्णनम् अनेन न्यायेन क्रियते । महाकविः कालिदासः एतेषां मयूराणां हर्षस्य वर्णनम् एवं कृतवान् -
सदा मनोज्ञं स्तनदुत्सवोत्सुकं विकीर्णविस्तीर्ण कलापशोभितम् ।
ससंभ्रमालिङ्गनचुम्बनाकुलं प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥
<DOC_END>
<DOC_START>
अयस्कान्तमणिर्नाम लोहचुम्बकः मणिः । एषः मणिः स्वस्थाने एव भूत्वा अयसः शकलान् आकर्षति । सः स्वयं किमपि न करोति । सांख्यदर्शनानुसारं पुरुषतत्त्वं निष्क्रयं भवति । तत् स्वसमीपे वर्तमानायाः प्रकृतेः द्वारा जगत्- निर्माणम् इत्यादिकं करोति । यः स्वतः निष्क्रियः भूत्वा अन्येषां द्वारा कार्याणि संपादयति तादृशस्य पुरुषस्य कृते अस्य न्यायस्य प्रयोगः क्रियते । यथा अयस्कान्तवद् रुपादिवच्च प्रवृत्तिरहितादपि प्रवर्तको भवति । ब्रह्मसूत्रशाङ्करभाष्यं २-१-२२)
<DOC_END>
<DOC_START>
विना प्रार्थनां किमपि वस्तु प्राप्तं चेत् तत् अयाचितम् इति कथ्यते । मण्डनं नाम अलङ्कारः (ईश्वरस्य भक्ताः स्वयं निर्धनाः अपि भक्तेः बलेन धनस्य सर्वफलानि प्राप्त्नुवन्ति । यथा- कैयटेन अस्य प्रयोगः कृतः ईश्वरस्य सुहृदः स्वयं निर्धना अपि तदीयेन धनेन धनफलभाजः तद्वत् ।
(महाभाष्यटीका) सा .४६२ । (कस्यापि धनिकस्य मित्राणि स्वयं धनहीनाः सन्ति चेदपि तस्य धनस्य फलं स्वयमपि प्राप्नुवन्ति -इति अर्थः भवितुम् अर्हति )
<DOC_END>
<DOC_START>
अरण्ये कियती अपि शुभ्रा ज्योत्स्ना प्रसृता चेदपि तस्याः आस्वादनं न भवति इति कारणेन तत्सर्वं व्यर्थं भवति । भोक्तुः अभावे भोग्यस्य वस्तुनः किं प्रयोजनम् इति अस्य न्यायस्य अभिप्रायः । सौन्दर्यविषये कालिदासेन कथितं यत् सौन्दर्यस्य फलं प्रियजने एव अनुषक्तं भवति इति -
निनिन्दरुपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता । (कुमारसंभवे ५-१ सा-९५९)
तथा स्त्रीणां प्रियालोकफलो हि वेषः (सुभाषितम्) ।
<DOC_END>
<DOC_START>
अरण्ये एकम् आमलकफलम् उत्पन्नम् । कुतश्चित् दूरात् समुद्रात् आनीतं लवणम् । द्वयोः मेलनेन कृतः अवलेहः । तथैव कुत्रचित् जातः पुरुषः अन्यत्र कुत्रचित् जाता स्त्री । तयोः मेलनं भवति सः च संसारः बहुकालं यावत् सम्यग्रीत्या प्रवर्तते । एतादृशस्य संदर्भस्य वर्णनम् अनेन न्यायेन क्रियते ।
<DOC_END>
<DOC_START>
यः कृमिः जुगुप्सावहे स्थले उत्पद्यते तस्य आहारः अपि तादृशः जुगुप्साकरः भवति । दुष्टे वातावरणे उत्पन्नः दुष्टाभिः भावनाभिः पोषितः भवति इत्यर्थे अस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
अयं मीमांसाशास्त्रस्य न्यायः । अर्थैकत्वे द्रव्यगुणयोः ऐककर्म्यात् नियमः स्यात् इति मीमांसासूत्रे अयं न्यायः सम्प्राप्तः । अरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणाति (तैत्तिरीयसंहिता ६-१-१-६-७) इत्यस्य वाक्यस्य महती चर्चा शबरस्वामिना भाष्ये कृता । यदा बहूनां गुणानां संबन्धः एकेन द्रव्येण सह दर्शितः भवति एक एव विधिः (क्रिया वा) उदिदष्ट भवति तदा सर्वे गुणाः एकमेव द्रव्यं पदार्थ वा दर्शयन्ति इति मीमांसाशास्त्रस्य नियमः । अयं न्यायः तं नियमम् आधारीकृत्य प्रवर्तते । द्रष्टव्यम्- जैमिनिसूत्रं ३-२-१२, याज्ञवल्क्यटीका ३-२०५ ।
<DOC_END>
<DOC_START>
अरुन्धती-नक्षत्रदर्शनेन सह अस्य न्यायस्य संबन्धः विद्यते । विवाहस्य समये वधूवराभ्यां वसिष्ठतारा दर्शनं कारयन्ति । तत्पूर्वम् अरुन्धती- नक्षत्रस्य दर्शनं कारयन्ति (वसिष्ठः अरुन्धती च दम्पती) लौकिकदम्पतीभ्याम् अलौकिकदम्पत्योः दर्शनम् एवं कार्यते । उपदेशसमये अन्तिमलक्ष्यस्य अवान्तरलक्ष्याणाम् अपि उपदेशः क्रियते इति न्यायेन क्रमशः उपदेशः भवतीति अर्थः व्यज्यते । अरुन्धती नक्षत्रस्य दर्श्नसमये अपि अन्यस्य नक्षत्रस्य दर्शनं पूर्व कार्यते । द्रष्टव्यम् यथा अरुन्धतीं दिदर्शयिषुः तत्समीपस्थां स्थूलां ताराम् अमुख्यां प्रथमम् अरुन्धती इति ग्राहयित्वा तां प्रत्याख्याय पश्चाद् अरुन्धतीम् एव ग्राहयति तद्वत् ब्राह्मणम् आत्मेति भूयात् ।
<DOC_END>
<DOC_START>
वाचि वीर्यं च ब्राह्मणस्य विशेषतः॥ सभा. २१/४६॥
ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह।
उदीर्णे दहतः शत्रून् वनानीवाग्नि मारुतौ॥ वन. २६/१०॥
तौ यदा चरतः सार्धं तदा लोकः प्रसीदति॥ वन. २६/१६॥
यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः॥ वन. १५०/३४॥
याजनाध्यापनं विप्रे धर्मश्चैव प्रतिग्रहः॥ वन. १५०/३५॥
तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम्॥ वन. १५०/५१॥
सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा।
दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः॥ वन. १८०/२१॥
यदि ते वृत्ततो राजन् ब्राह्मणः प्रसमीक्षितः।
वृथा जातिस्तदाऽऽयुष्मान् कृतिर्यावन्नविद्यते॥ वन. १८०/३०॥
कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते।
संकरस्त्वत्र नातेन्द्र बलवान् प्रसमीक्षितः॥ वन. १८०/३६॥
तं ब्राह्मणमहं पूर्वमुक्तवान् भुजगोत्तम॥ वन. १८०/३७॥
मन्युप्रहरणा विप्रा न विप्राः शस्त्रयोधिनः। वन. २००/७८॥
यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः।
यो वदेदिह सत्यानि गुरुं संतोषयेत च॥ वन. २०६/३३॥
हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः॥ वन. २०६/३४॥
काम क्रोध वशौ यस्य तं देवा ब्राह्मणं विदुः॥ वन. २०६/३५॥
ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा॥ वन. २०७/२५॥
स्वाध्याय एषां देवत्वं तप एषां सतामिव।
मरणं मानुषो भावः परिवादोऽसतामिव॥ वन. ३१३/५०॥
अधीत्य ब्राह्मणो वेदान् याजयेत यजेत् वा॥ विराट. ५०/५॥
भूतानां प्राणिनः श्रेष्ठाः पाणिनां बुद्धिजीविनः।
बुद्धिमत्सु नराः श्रेष्ठा नरेश्वपि द्विजातयः॥ उद्योग. ६/१॥
अधीयीत ब्राह्मणो वै यजेत दद्यादीयात् तीर्थमुख्यानि चैव।
अध्यापयेद् याजयेच्चापि याज्यान् प्रतिग्रहान् वा विहितान् प्रतीच्छेत्॥ उ. २९/२३॥
वेदैः पश्यन्ति ब्राह्मणाः॥ उद्योग. ३४/३४॥
शिष्टो न शिष्टवत् स स्यात् ब्राह्मणो ब्रह्मवित् कविः॥ उद्योग. ४२/३८॥
अनाढ्या मानुषे वित्ते आढ्या दैवे तथा क्रतौ।
ते दुर्धर्षा दुष्प्रकम्प्यास्ता विद्याद् ब्रह्मणस्तनुम्॥ उद्योग. ४२/३९॥
य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया॥ उद्योग. ४३/४९॥
सत्ये वै ब्राह्मणस्तिष्ठंस्तद् विद्वान् सर्वविद् भवेत्॥ उद्योग. ४३/६२॥
स्वाध्यायो व्रतचर्याथ ब्राह्मणानां परं धनम्॥ उद्योग. १८५/११॥
वाग्भिः शूरा द्विजातयः॥ द्रोण. १५८/२३॥
सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जया जयौ॥ कर्ण. १६/२८॥
बलं तु वाचि द्विजसत्तमानाम्॥ कर्ण. ७०/१२॥
ध्यानमेकान्तशीलत्वं तुष्टिर्ज्ञानं च शक्तितः॥ शान्ति. २३/८॥
ब्राह्मणानां महाराज चेष्टा संसिद्धिकारिका॥ शान्ति. २३/९॥
ॠषीणां समयं शश्वद् ये रक्षन्ति धनंजय।
आश्रिताः सर्वधर्मज्ञा देवास्तान् ब्राह्मणान् विदुः॥ शान्ति. २६/४॥
यथा दारुमयो हस्ती यथा चर्ममयो मृगः।
ब्राह्मणश्चानधीयानस्त्रयस्ते नाम बिभ्रति॥ शान्ति. ३६/४६॥
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला।
शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा॥ शान्ति. ३६/४७॥
एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः॥ शान्ति. ३९/२॥
नित्यव्रती सत्यप्रियः स वै ब्राह्मण उच्यते॥ शान्ति. १८९/३॥
सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते।
पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रदर्शिनः॥ शान्ति. २१४/२॥
तपसा वा सुमहता विद्यानां पारणेन च।
ईज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः॥ शान्ति. २३४/९॥
याज्यतः शिष्यतो वापि कन्याया वा धनं महत्।
यदाऽऽगच्छेत् यजेद् दद्यान्नैकोऽश्नीयान् कथंचन॥ शान्ति. २३४/१२॥
असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः।
सद्भ्य आगत विज्ञानः शिष्टः शास्त्रविचक्षणः॥ शान्ति. २३५/४॥
धूतपाप्मा च मेधावी लघ्वाहारो जितेन्द्रियः॥ शान्ति. २३५/८॥
कामक्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम्।
अग्नींश्च ब्राह्मणांश्चार्चेद् देवताः प्रणमेत् च॥ शान्ति. २३५/९॥
वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति॥ शान्ति. २३५/२९॥
बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः॥ शान्ति. २६९/३०॥
द्वन्द्वारामेषु सर्वेषु य एको रमते मुनिः।
परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः॥ शान्ति. २६९/३१॥
येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या।
गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः॥ शान्ति. २६९/३२॥
सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः॥ शान्ति. २६९/३३॥
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः॥ शान्ति. २९६/२५॥
तपः श्रुतं च योनिश्चाप्येतद् ब्राह्मण्यकारणम्।
त्रिभिर्गुणैः समुदितस्ततो भवति वै द्विजः॥ अनु.१२१/७॥
अन्धं स्यात् तम एवेदं न प्रज्ञायेत किंचन।
चातुर्वर्ण्यं न वर्तेत धर्माधर्मावृतानृते॥ अनु. १२१/९॥
मुखतो ब्राह्मणाः सृष्टास्तस्मात् ते वाग्विशारदाः॥ अनु. १४१/२९-३० दा. पा.॥
स्वाध्यायो यजनं दानं तस्य धर्म इति स्थितिः।
कर्माण्यध्यापनं चैव याजनम् च प्रतिग्रहः।
सत्यं शान्तिस्तपः शौचं तस्य धर्मः सनातनः॥ अनु. १४१/२९-३० दा. पा.॥
विक्रयो रस धान्यानां ब्राह्मणस्य विगर्हितः॥ अनु. १४१/२९-३० दा. पा.॥
उपवासः सदा धर्मो ब्राह्मणस्य न संशयः। अनु.१४१/३१॥
तस्य धर्मक्रिया देवि ब्रह्मचर्या च न्यायतः।
व्रतोपनयनं चैव द्विजो येनोपपद्यते॥ अनु.१४१/३२॥
त्रैविद्यो ब्राह्मणो विद्वान् न चाध्ययन जीवकः।
त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः॥ अनु.१४१/६६॥
कर्मणा दुष्कृतेनेह स्थानाद् भ्रश्यति वै द्विजः॥ अनु.१४३/७॥
न योनिर्नापि संस्कारो न श्रुतं न च संततिः।
कारणानि द्विजत्वस्य वृत्तमेव तु कारणम्॥ अनु.१४३/५०॥
सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते।
वृत्ते स्थितस्तु शूद्रोऽपि ब्राह्मणत्वं नियच्छति॥ अनु.१४३/५१॥
ब्राह्मः स्वभावः सुश्रोणि समः सर्वत्र मे मतिः।
निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः॥ अनु.१४३/५२॥
संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना।
नित्यं स्वाध्यायिना भाव्यं न चाध्ययनजीविना॥ अनु.१४३/५६॥
तपो येषां धनं नित्यं वाक् चैव विपुलं बलम्।
प्रभवश्चैव धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः॥ अनु.१५१/६॥
आशीविष विषं तीक्ष्णं ततस्तीक्ष्णतरो द्विजः।
वैणवीं धारयेद् यष्टिं सोदकं कमण्डलुम्॥ आश्व. ४५/२०॥
त्रीणि कर्माणि जानीत ब्राह्मणानां तु जीविका।
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः॥ आश्व. ४५/२२॥
अथ शेषाणि चान्यानि त्रीणि कर्माणि यानि तु।
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम्।
एतत् त्रयं हि पुरुषं निर्दहेदवमानितम्॥ आश्व. ९२ दा. पा. अ. III॥
मन्युं नोत्पादयेत् तेषां न चारिष्टं समाचरेत्।
मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः॥ आश्व. ९२ दा. पा. अ. III॥
धर्मो जयति नाधर्मः सत्यं जयति नानृतम्।
क्षमा जयति न क्रोधः क्षमावान् ब्राह्मणो भवेत्॥ आश्व. ९२ दा. पा. अ. III॥
क्षान्तं दान्तं जितक्रोधं जितात्मानं जितेन्द्रियम्।
तमग्य्रं ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः॥ आश्व. ९२ दा. पा. अ. III॥
उपवासरतान् दान्तांस्तान् देवा ब्राह्मणा विदुः।
न जात्या पूजितो राजन् गुणाः कल्याणकारकाः॥ आश्व. ९२ दा. पा. अ. III॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
अर्कः इत्यस्य कार्पासवृक्षः इति अर्थः । यदि समीपवर्तिनि अर्कवृक्षे मधु प्राप्तुं शक्यते चेत् पर्वतं गत्वा मधोः अन्वेषणस्य कोलाहलः किमर्थ करणीयः यत् अल्पेन परिश्रमेण किमपि साधयितुं शक्यते चेत् तदर्थ निष्कारणमेव महान् परिश्रयः न करणीयः इति अनेन न्यायेन सूच्यते ।
अर्के चेन्मधु विन्देत किमर्थ पर्वतं व्रजेत् ।
<DOC_END>
<DOC_START>
कस्यापि मांसविक्रेतुः मनसि विचारः एवम् आगतः यत् कुक्कुट्याः अर्धभागः भोक्तुं मारणीयः अपरः भागः अण्डानां कृते रक्षणीयः इति । अयं विचारः तस्य मूर्खत्वस्य सूचकः नास्ति किम् तुल्यन्यायः अर्धवैशसन्यायः ।
<DOC_END>
<DOC_START>
जरायां बहवो दोषाः पानभोजनकारिताः॥ आदि. ८४/५॥
वलीसंगत गात्रस्तु दुर्दर्शो दुर्बलः कृशः॥ आदि. ८४/६॥
अशक्तः कार्यकरणे परिभूतः स यौवतैः।
सहोपजीविभिश्चैव तां जरां नाभिकामये॥ आदि. ८४/७॥
बलरूपान्तकरणीं बुद्धि प्राण प्रणाशिनीम्॥ आदि. ८४/१२॥
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम्।
वाक्सङ्गश्चास्य भवति तां जरां नाभिकामये॥ आदि. ८४/१९॥
न जुहोति च कालेऽग्निं तां जरां नाभिकामये॥ आदि. ८४/२४॥
व्यक्तं हि जीर्यमाणोऽपि बुद्धिं जरयते नरः॥ द्रोण. १४३/१६॥
न क्श्चिज्जात्वतिक्रामेज्जरामृत्यू हि मानवः॥ शान्ति. २८/१५॥
जरामृत्यू हि भूतानां खादितारौ वृकाविव।
बलिनां दुर्बलानां च ह्रस्वानां महतामपि॥ शान्ति. २८/१४॥
जरामृत्युमहाग्राहे न कश्चिदवबुध्यते॥ शान्ति. २८/४४॥
पुरा जरा कलेवरं विजर्जरीकरोति ते।
बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम्॥ शान्ति. ३२१/४१॥
सर्वलोकेषु जानीहि मोक्षादन्यत्र भामिनी॥ अनु. १४५ दा. पा. अ. XIV॥
न धनेन न राज्येन नाग्य्रेण तपसापि वा।
मरणं नातितरते विना मुक्त्या शरीरिणः॥ अनु. १४५ दा. पा. अ. XIV॥
रसायनप्रयोगो वा न तरन्ति जरान्तकौ॥ अनु. १४५ दा. पा. अ. XIV॥
मरणं हि शरीरस्य नियतं ध्रुवमेव च।
तिष्ठन्नपि क्षणं सर्वः कालस्यैति वशं पुनः॥ अनु. १४५ दा. पा. अ. XIV॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥ भी. ४२/३०॥
यया धर्ममधर्मं च कार्यं चाकार्यमेव च।
अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी॥ भीष्म. ४२/३१॥
अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता।
सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी॥ भीष्म. ४२/३२॥
अन्यथा यौवने मर्त्यो बुद्ध्या भवति मोहितः।
मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम्॥ सौप्तिक. ३/११॥
अज्ञातानां च विज्ञानात् सम्बोधाद् बुद्धिरुच्यते॥ सौप्तिक. १७/२१॥
बुद्धिर्दीप्ता बलवन्तं हिनस्ति बलं बुद्ध्या पाल्यते वर्धमानम्।
शत्रुर्बुद्ध्या सीदते वर्धमानो बुद्धेः पश्चात् कर्म यत्तत् प्रशस्तम्॥ शा.१२०/४२॥
जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपत्स्यति॥ शान्ति. १५१/११॥
न हि बुद्ध्या समं किंचिद् विद्यते पुरुषे नृप।
तथा बलेन राजेन्द्र न समोऽस्तीह कश्चन॥ १५७/१२॥
प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः।
प्रज्ञा निःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम्॥ शान्ति. १८०/२॥
शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः॥ शान्ति. २२७/३२॥
राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः॥ शान्ति. २३७/९॥
यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति।
एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति॥ शान्ति. २४७/१४॥
मनः षष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः॥ शान्ति. २४७/१६॥
हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना॥ शान्ति. २४८/३॥
यदा विकुरुते भावं तदा भवति सा मनः॥ शान्ति. २४८/३॥
श्रृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते॥ शान्ति. २४८/४॥
तिष्ठति पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते॥ शान्ति. २४८/६॥
सरितां सागरो भर्ता महावेलामिवोर्मिमान्॥ शान्ति. २४८/८॥
यदा प्रार्थयते किंचित् तदा भवति सा मनः॥ शान्ति. २४८/९॥
सत्त्वमात्मा प्रसरति गुणान् वापि कदाचन।
न गुणा विदुरात्मानं गुणान् वेद स सर्वदा॥ शान्ति. २४८/२०॥
परिद्रष्टा गुणानां च परिस्रष्टा यथातथम्।
सत्त्वक्षेत्रयोरेतदन्तरं विद्धि सूक्ष्मयोः॥ शान्ति. २४८/२१॥
संशयः प्रतिपत्तिश्च बुद्धेः पञ्च गुणान् विदुः॥ शान्ति. २५५/१०॥
तस्माद् बुद्धेर्हि रक्षार्थं सद्भिः पानं विवर्जितम्॥ अनु. १४५ दा. पा. XI॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
वैशसं नाम हिंसा । कुक्कुट्याः अर्धभागं मारयित्वा तस्य भोजनार्थम् उपयोगः करणीयः अपरः भागः अण्डानां कृते रक्षणीयः इति कोऽपि चिन्तयति चेत् मूर्खत्वमेव खलु । कुक्कुटी भोजनार्थ पूर्णतः मारणीया किंवा अण्डानां कृते रक्षणीया इति एकतरस्य एव ग्रहणं करणीयम् । अर्धभागः मारणीयः अर्धभागः रक्षणीय इति तु अत्यन्तम् असंभवि ।
तुल्यन्यायौ- अर्धजरतीयन्यायः, अर्धकुक्कुटीन्यायः यथा -
:विधिना कृतमर्धवैशसं ननु मां कामवधे विमुञ्चता ।
:अनपायिनि संशयद्रुमे गजभग्ने पतनाय वल्लरी ॥
<DOC_END>
<DOC_START>
एकस्य ज्वलतः काष्ठस्य भ्रमणं क्रियते चेत् तदा काचित् विचित्रा वलयाकृतयः दृश्यन्ते । ताः दृष्ट्वा केचन पिशाचाः भूताः इति भ्रमन्ति । तथापि तादृशः पिशाचस्तु न दृष्टः । एतादृशीं स्थितिम् अयं न्यायः सूचयति ।
<DOC_END>
<DOC_START>
यदिकदाचित् शिलामये प्रदेशे कूष्माण्डः लब्धः सोऽपि शिला इव कठिन एव भवति । सांगत्यकारणेन गुणदोषाः भवन्ति इति अयं न्यायः सूचयति ।
<DOC_END>
<DOC_START>
अवटः नाम कूपः । एकस्मिन् एव कूपे बहुकालं यावत् वर्तमानः कच्छपः तम् एव कूपं सर्व जगत् इति मन्यते । परिस्थितेः कारणेन मनुष्यः संकुचितबुद्धिः विशालबुद्धिः वा भवति । तुल्यः न्यायः कूपमण्डूकन्यायः
<DOC_END>
<DOC_START>
धर्ममर्थं च कामं च त्रीनेतान् योऽनुपश्यति॥ आदि. १०४/२०॥
कामं कामानुबन्धं च विपरीतान् पृथक् पृथक्॥ आदि. १०४/२१॥
यो विचिन्त्य धिया धीरो व्यवस्यति स बुद्धिमान्॥ आदि. १०४/२२॥
स कृच्छ्रकालं सम्प्राप्य व्यथां नैवेति कर्हिचित्॥ आदि. २३१/१॥
स कृच्छ्रकाले व्यथितो न श्रेयो विन्दते महत्॥ आदि. २३१/२॥
सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ॥ सभा. १३/३४॥
विमृश्य सम्यक् च धिया कुर्वन् प्राज्ञो न सीदति॥ आदि. १३/३५॥
न तेन स्थविरो भवति येनास्य पलितं शिरः।
बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः॥ वन. १३३/११॥
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः।
ॠषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्॥ वन. १३३/१२॥
अनर्थकेषु को भावः पुरुषस्य विजानतः॥ वन. १४९/३९॥
प्राज्ञास्तात न मुह्यन्ति कालेनापि प्रपीडिताः॥ वन. १९१/२८॥
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद् राष्ट्रं सराजकम्॥ उद्योग. ३४/४३॥
प्रज्ञाशरेणाभिहतस्य जन्तोश्चिकित्सकाः सन्ति न चौषधानि।
न होममन्त्रा न च मङ्गलानि नाथर्वणा नाप्यगदाः सुसिद्धाः॥ उद्योग. ३७/५८॥
दीर्घो बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः॥ उद्योग. ३८/८॥
प्रयोजनेषु ये सक्ता न विशेषेषु भारत।
तानहं पण्डितं मन्ये विशेषा हि प्रसङ्गिनः॥ उद्योग. ३८/४४॥
अतीते कार्यशेषज्ञोः नरोऽर्थैर्न प्रहीयते॥ उद्योग. ३९/५४॥
तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुस्तरिष्यति॥ उद्योग. ७२/३४॥
न हि बुद्ध्यान्वितः प्राज्ञो नीतिशास्त्रविशारदः।
निमज्जत्यापदं प्राप्य महतीं दारुणामपि॥ शान्ति. १३८/४०॥
सर्वत्र रमते प्राज्ञः सर्वत्र च विराजते।
न विभीषयते कश्चिद् भीषितो न बिभेति च॥ शान्ति. १३९/८७॥
दाक्ष्येण कुर्वतः कर्म संयमात् प्रतितिष्ठति॥ शान्ति. १३९/८८॥
ये तु बुद्ध्या बलिनस्ते भवन्ति बलीयसाः॥ शान्ति. १५६/१२॥
बुद्धिर्बुद्धिमतो याति तृणेष्विव हुताशनः॥ शान्ति. १५७/११॥
सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम्।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः॥ शान्ति. १७४/३९॥
किं नैवं जातु पुरुषः परेषां प्रेष्यतामियात्॥ शान्ति. १७७/२१॥
प्राज्ञस्य कर्माणि दुरन्वयानि न वै प्राज्ञो मुह्यति मोहकाले॥ शान्ति. २२६/१९॥
दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति॥ शान्ति. २३५/१९॥
संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः।
प्राज्ञस्यानन्तरासिद्धिरिहलोके परत्र च॥ शान्ति. २३५/२४॥
धर्माधर्मविशेषज्ञः सर्वं तरति दुस्तरम्॥ शान्ति. २३५/२८॥
मनोरथरथं प्राप्य इन्द्रियाख्य हयं नरः।
रश्मिभिर्ज्ञानसम्भूतैर्यो गच्छति स बुद्धिमान्॥ शान्ति. २९१/१॥
प्राज्ञ एको रमते ब्राह्माणानां प्राज्ञश्चैको बहुभिर्जोषमास्ते।
प्राज्ञ एको बलवान् दुर्बलोऽपि प्राज्ञ एषां कलहं नान्ववैति॥ शान्ति. २९९/४२॥
तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम॥ आश्व. ३३/४॥
बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते।
आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम्॥ आश्व. ३३/७॥
तपः श्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः॥ आश्व. ३४/३॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
न हि कल्याणकृत कश्चिद् दुर्गतिं तात गच्छति॥ भीष्म. ३०/४०; गीता.६/४०॥
न मे भक्तः प्रणश्यति॥ भीष्म. ३३/३१; गीता.९/३१॥
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च।
निर्ममो निरहंकारः समदुःखसुखः क्षमी॥ भीष्म. ३६/१३; गीता.१२/१३॥
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः॥ भीष्म. ३६/१४; गीता.१२/१४॥
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः॥ भीष्म. ३६/१५; गीता.१२/१५॥
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः॥ भीष्म. ३६/१६; गीता.१२/१६॥
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।
शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः॥ भीष्म. ३६/१७; गीता.१२/१७॥
समः शत्रौ च मित्रे च तथा मानापमानयोः।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः॥ भीष्म. ३६/१८; गीता.१२/१८॥
अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः॥ भीष्म. ३६/१९; गीता.१२/१९॥
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥ भीष्म. ३६/२०; गीता.२/२०॥
सेवाऽऽश्रितेन मनसा वृत्तिहीनस्य शस्यते॥ शान्ति. २९१/२॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
अभियुक्तोऽप्रमत्तश्च प्राग्भयाद् भीतवच्चरेत्॥ शान्ति. १३८/२०९॥
भीतवत् संनिधिः कार्यः प्रतिसन्धिस्तथैव च॥ शान्ति. १३८/२०९॥
न भयं विद्यते राजन् भीतस्यानागते भये॥ शान्ति. १३८/२१०॥
अभीतस्य च विश्रम्भात् सुमहज्जायते भयम्।
अभीश्चरति यो नित्यं मन्त्रोऽदेयः कथंचन॥ शान्ति. १३८/२११॥
न तत्सदः सत्परिषद् सभा च सा प्राप्य यां न कुरुते सदा भयम्।
धर्मतत्त्वमवगाह्य बुद्धिमान् योऽभ्युपैति स धुरंधरः पुमान्॥ शान्ति. २२६/१८॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
ज्येष्ठस्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः॥ आदि. २३१/४॥
न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम्।
गुरोर्हि दीर्घदर्शित्वं यत् तच्छिष्यस्य भारत॥ अनु. १०५/३॥
परिहारेण तद् ब्रूयाद् यस्तेषां व्यतिक्रमः॥ अनु. १०५/४॥
प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः।
श्रियाभितप्ताः कौन्तेय भेदकामांस्तथारयः॥ अनु. १०५/५॥
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः।
हन्ति सर्वमपि ज्येष्ठः कुलं यत्रावजायते॥ अनु. १०५/६॥
अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः।
अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः॥ अनु. १०५/७॥
सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः।
नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतुकम्॥ अनु. १०५/१०॥
स्वयमीहितलब्धं तु नाकामो दातुमर्हति॥ अनु. १०५/११॥
न पुत्रभागं विषमं पिता दद्यात् कदाचन॥ अनु. १०५/१२॥
न ज्येष्ठो वावमन्येत दुष्कृतः सुकृतोऽपि वा।
यदि स्त्री यद्यवरजः श्रेयश्चेत् तत् तदाचरेत्॥ अनु. १०५/१३॥
ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत॥ अनु. १०५/१६॥
स ह्येषां वृत्तिदाता स्यात् स चैतान् प्रतिपालयेत्।
कनिष्ठास्तं नमस्येरन् सर्वे छन्दानुवर्तिनः॥ अनु. १०५/१७॥
तमेव चोपजीवेरन् यथैव पितरं तथा।
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
सुखं हि जन्तुर्यदि वापि दुःखं दैवाधीनं विन्दते नात्मशक्त्या।
तस्माद् दिष्टं बलवन्मन्यमानो न संज्वरेन्नापि हृष्येत् कथंचित्॥ आदि. ८९/८॥
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः।
विधिपर्यागतानर्थान् प्राज्ञो न प्रतिपद्यते॥ आदि. ११७/१०॥
दैवे पुरुषकारे च लोकोऽयं सम्प्रतिष्ठितः।
तत्र दैवं तु विधिना कालयुक्तेन लभ्यते॥ आदि. १२२/२१॥
दिष्टस्य ग्रन्थिरनिवर्तनीया स्वकर्मणा विहितं नेह किंचित्॥ आदि. १९७/२॥
दैवं च परमं मन्ये पौरुषं चाप्यनर्थकम्॥ आदि. १९९/१२; सभा. ४७/३६॥
विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम्॥ आदि. २०३/१५॥
धात्रा तु दिष्टस्य वशे किलेदं सर्वं जगच्चेष्टति न स्वतन्त्रम्॥ सभा. ५७/४, १४॥
दैवं हि प्रज्ञां मुष्णाति चक्षुस्तेज इवापतत्।
धातुश्च वशमन्वेति पाशौरिव नरः सितः॥ सभा. ५८/१८॥
धातुर्नियोगाद् भूतानि प्राप्नुवन्ति शुभाशुभम्॥ सभा. ७६/३॥
यस्मादभावी भावी च मनुष्यः सुखदुःखयोः।
आगमे यदि वापाये न तत्र ग्लयपेन्मनः॥ वन. १७९/२६॥
दैवमेव परं मन्ये पुरुषार्थो निरर्थकः॥ वन. १७९/२७॥
नापदामस्ति मर्यादा न निमित्तं न कारणम्।
धर्मस्तु विभजत्यर्थमुभयोः पापपुण्ययोः॥ वन. ३१२/१॥
अनित्या किल मर्त्यानामर्थसिद्धिर्जयाजयौ॥ विराट. २०/३॥
चक्रवत्परिवर्तन्ते ह्यर्थाश्च व्यसनानि च॥ विराट. २०/४॥
न दैवस्यतिभारोऽस्ति न चैवास्यातिवर्तनम्॥ विराट. २०/७॥
अप्राज्ञो वा पण्डव युध्यमानोऽधर्मज्ञो वा भूतिमथोऽभ्युपैति।
मन्ये परं कर्म दैवं मनुष्यात्॥ उद्योग. ३२/१३॥
यावत् परः कामयतेऽतिवेलं तावन्नरोऽयं लभते प्रशंसाम्॥ उद्योग. ३२/१४॥
न संशयो नास्ति मनुष्यकारः॥ उद्योग. ३२/२३॥
कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते॥ उद्योग. ७७/८॥
सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः॥ उद्योग. १७५/३३॥
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत्॥ उद्योग. १८६/१८॥
सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः॥ द्रोण. २४/२॥
युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः।
स तथाऽऽकृष्यते तेन न यथा स्वयमिच्छति॥ द्रोण. २४/५॥
दैवोपसृष्टः पुरुषो यत् कर्म कुरुते क्वचित्।
कृतं कृतं हि तत्कर्म दैवेन विनिपात्यते॥ द्रोण. १५२/२६॥
यत् कर्तव्यं मनुष्येण व्यवसायवता सदा।
तत् कार्यमविशंकेन सिद्धिर्दैवे प्रतिष्ठिता॥ द्रोण. १५२/२७॥
दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा।
अनन्यकर्म दैवं हि जागर्ति स्वपतामपि॥ द्रोण. १५२/३२॥
यस्मादभावी भावी वा भवेदर्थो नरं प्रति।
अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद् व्यथते बुधः॥ कर्ण. २/२५॥
दैवमेव परं मन्ये धिक् पौरुषमनर्थकम्॥ कर्ण. ९/३॥
अन्यथा चिन्तितं कार्यमन्यथा तत् तु जायते॥ कर्ण. ९/२०॥
अहो नु बलवद् दैवं कालश्च दुरतिक्रमः॥ कर्ण. ९/२१॥
दिष्टं न शक्यं व्यतिवर्तितुं वै॥ कर्ण. ३७/२५॥
विधिश्च बलवानत्र पौरुषं तु निरर्थकम्॥ शल्य. १/१७॥
भागधेय समायुक्तो ध्रुवमुत्पद्यते नरः॥ शल्य. २/४६॥
न च दैवकृतो मार्गः शक्यो भूतेन केनचित्।
घटतामपि चिरं कालं नियन्तुमिति मे पतिः॥ स्त्री.८/१९॥
अनतिक्रमणीयो हि विधी राजन् कथंचन॥ स्त्री. ८/४३॥
अप्रियैः सह संयोगो विप्रयोगश्च सुप्रियैः।
अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते॥ शान्ति. २८/१८॥
न दिष्टमप्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा॥ आश्व. ५३/१६॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
अतीतपात्रसंचारे भिक्षां लिप्सेत वै मुनिः॥ शा. २७८/९॥
अलाभे न विहन्येत लाभश्चैनं न हर्षयेत्॥ शा. २७८/१०॥
न चान्नदोषान् निन्देत न गुणानभिपूज्येत्॥ शा. २७८/१२॥
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः॥ आश्व. ४६/२१॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
श्रुत्वैव शब्दं हि वृकोदारस्य मुञ्चन्ति सैन्यानि शकृत् समूत्रम्।। वन. ११९/१४॥
न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः।
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः॥ वन. १६०/३४॥
अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः॥ उद्योग. ५१/५॥
महेश्वरसमं क्रोधे को हन्याद् भीममाहवे॥ उद्योग. ५१/१४॥
निष्ठुरो रोषणोऽर्त्थं भज्येतापि न संनमेत्।
तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद् वृकोदरः॥ उद्योग. ५१/१८॥
प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात्॥ उद्योग. ५१/१९॥
अव्यक्तजल्पी मध्वक्षः मध्यमः पाण्डवो बली॥ उद्योग. ५१/२०॥
महेश्वरसमः क्रोधेः भीमः प्रहरतां वरः॥ उद्योग. ९०/२४॥
युगान्ते चान्तको राजन् जामदग्न्यश्च वीर्यवान्।
रथस्थो भीमसेनश्च कथ्यन्ते सदृशस्त्रयः॥ द्रोण. ३४/४॥
प्रतिज्ञातं तेनोग्रं भज्येतापि न संनमेत॥ शान्ति. ५/१४॥
युद्धे क्षत्रियधर्मे च निरतोऽयं वृकोदरः॥ आश्रमवास. १३/८॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
क्षुत् स्वादुतां जनयति सा चाढ्येषु दुर्लभा॥ उद्योग. ३४/५०॥
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते।
जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते॥ उद्योग. ३४/५१॥
क्षुधितः कलुषं यातो नास्ति ह्रीरशनार्थिनः॥ शान्ति. १४१/५१॥
बालानां क्षुद् बलवती॥ आश्व. ८०/६१॥
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह।
बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवं॥ आश्व. ९०/९१॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
भूमौ च जायते सर्वं भूमौ सर्वं विनश्यति।
भूमि प्रतिष्ठा भूतानां भूमिरेव परायणम्॥ भीष्म. ४/२०॥
यस्य भूमिस्तस्य सर्वं जगत् स्थावरजङ्गमम्।
तत्रातिगृद्धा राजानो विनिघ्नन्तीतरेतरम्॥ भीष्म. ४/२१॥
दुह्येत धेनुः कामधुग् भूमिः सम्यगनुष्ठिता॥ भीष्म. ९/७१॥
पिता भ्राता च पुत्राश्च एवं द्यौश्च नरपुङ्गव।
भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शना॥ भीष्म. ९/७६॥
पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः।
पुमान् प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः॥ शान्ति. १९०/१५॥
भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च।
चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः॥ अनु. ६२/४९॥
एषा माता पिता चैव जगतः पृथिवीपते।
नानया सदृशं भूतं किंचिदस्ति जनाधिप॥ अनु. ६२/५०॥
नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः।
नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः॥ अनु. ६२/९२॥
न हि भूमिप्रदानाद् वै दानमन्यद् विशिष्यते।
न चापि भूमिहरणात् पापमन्यद् विशिष्यते॥ आश्व. ९२ दा.पा.अ. VII॥
प्रत्यक् प्रागपि राजेन्द्र तत् तथा दक्षिणोत्तरम्।
गोकर्णं तद्विदः प्राहुः प्रमाणं धरणेर्नृप॥ आश्व. ९२ दा.पा.अ. VII॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत॥ भीष्म. २६/१४; गीता. २/१४॥
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते॥ भीष्म. २६/१५; गीता. २/१५॥
सङ्गात् संजायते कामः कामात् क्रोधोऽभिजायते॥ भीष्म. २६/६२; गीता. २/६२॥
क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः।
स्मृतिभंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति॥ भीष्म. २६/६३; गीता. २/६३॥
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः॥ भीष्म. २९/२२; गीता. ५/२२॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
यन्तुं नात्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः॥ वन. ३४/६॥
अनित्यं किल मर्त्यस्य पार्थ चित्तं चलाचलम्॥ उद्योग. ७५/१९॥
यतो यतो मनो दुःखात् सुखाद् वा विप्रमुच्यते।
ततस्ततो नियम्यैतच्छान्तिं विन्देत वै बुधः॥ स्त्री. ३/३॥
कल्याणगोचरं कृत्वां मनस्तृष्णां निगृह्य च।
कर्मसंततिमुत्सृज्य स्यान्निरालम्बनः सुखी॥ शान्ति. १९/२०॥
सदसच्चाशुता चैव मनसो नव वै गुणाः॥ शान्ति. २५५/९॥
यथा भावावसन्ना हि नौर्महम्भसि तन्तुना।
तथा मनोभियोगाद् वै शरीरं प्रचिकीर्षति॥ शान्ति. २९८/३३॥
मनोदोषविहीनानां न दोषः स्यात् तथा तव।
अन्यथाऽऽलिङ्ग्यते कान्ता स्नेहेन दुहितान्यथा॥ अनु. ४३ दा. पा.॥
अगाधे विमले शुद्धे सत्यतोये धृति ह्रदे।
स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम्॥ अनु. १०८/३॥
अहिंसा सर्वभूतानामानृशंस्यं दमः शमः॥ अनु. १०८/४॥
मनसा च प्रदीप्तेन ब्रह्मज्ञानजलेन च।
स्नाति यो मानसे तीर्थे तत्स्नानं तत्त्वदर्शिनः॥ अनु. १०८/१३॥
केवलं गुणसम्पन्नः शुचिरेव नरः सदा॥ अनु. १०८/१४॥
मनः पूर्वागमा धर्मा अधर्माश्च न संशयः।
मनसा बद्ध्यते चापि मुच्यते चापि मानवः॥
निगृहीते भवेत् स्वर्गो विसृष्टे नरको ध्रुवः॥ अनु. १४५ दा.पा.अ. XI॥
मनः पूर्वं तु वा कर्म वर्तते वाङ्मय ततः।
जायते वै क्रियायोगमनु चेष्टाक्रमः प्रिये॥ अनु. १४५ दा.पा.अ. XI॥
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः॥ आश्व. ३०/५॥
यदिदं चापलात् कर्म सर्वान् मर्त्योश्चिकीर्षति॥ आश्व. ३०/६॥
मनसश्च गुणश्चिन्ता प्रज्ञया स तु गृह्यते।
हृदिस्थश्चेतनो धातुर्मनोज्ञाने विधीयते॥ आश्व. ४३/३४॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
न प्रमत्ताय भीताय विरथाय प्रयाचते।
व्यसने वर्तमानाय प्रहरन्ति मनस्विनः॥ द्रोण. १४३/८॥
धर्मज्ञश्च कृतज्ञश्च त्वद्विधः शरणं भवेत्॥ शान्ति. १०४/६॥
न हि दुःखेषु शोचन्ते न प्रहृष्यन्ति चर्धिषु।
कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः॥ शान्ति. २२३/२९॥
निन्दत्सु च समा नित्यं प्रशंसत्सु च देवल।
निह्नवन्ति च ये तेषां समयं सुकृतं च यत्॥ शान्ति. २२९/८॥
उक्ताश्च न वदिष्यन्ति वक्तारमहिते हितम्।
प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः॥ शान्ति. २२९/९॥
न चातीतानि शोचन्ति न चैव प्रतिजानत॥ शान्ति. २२९/१०॥
मनसा कर्मणा वाचा नापराध्यन्ति कर्हिचित्॥ शान्ति. २२९/१२॥
निन्दा प्रशंसे चात्यर्थं न वदन्ति परस्य ये।
न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन॥ शान्ति. २२९/१४॥
प्रभवन् योऽनहंवादी स वै पुरुष उच्यते॥ अनु. १४६/१५॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
देशकाल विधानज्ञान् भर्तृकार्यहितैषिणः॥ शान्ति. ८३/८॥
नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः।
येषां वैनयिकी बुद्धिः प्रकृतिश्चैव शोभना।
तेजो धैर्यं क्षमा शौचमनुरागः स्थितिर्धृतिः॥ शान्ति. ८३/२१॥
परीक्ष्य च गुणान् नित्यं प्रौढभावान् धुरन्धरान्।
पञ्चोपधाव्यतीतांश्र्च कुर्याद् राजार्थकारिणः॥ शान्ति. ८३/२२॥
मन्त्रिणां च भवेत् क्रोधो विस्फूर्जितमिवाशनेः॥ शान्ति. ८३/३३॥
कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः।
सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति॥ शान्ति. ८३/४१॥
सर्वलोकमिमं शक्तः सान्त्वेन कुरुते वशे।
तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप॥ शान्ति. ८३/४५॥
स्वासु प्रकृतिषुच्छिद्रं लक्षयेरन् परस्य च।
मन्त्रिणां मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते॥ शान्ति. ८३/४८॥
अनतीतोपधान् प्राज्ञान् हिते युक्तान् मनस्विनः।
पूजयेथा महाभाग यथाऽऽचार्यान् यथा पितॄन्॥ शान्ति. १११/२४॥
मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः।
नृपतेर्मतिदा सन्तः सम्बन्धज्ञानकोविदाः॥ शान्ति. ११५/१६॥
अतिक्रान्तमशोचन्तः स राज्यफलमश्नुते॥ शान्ति. ११५/१७॥
दान्तान् कर्मसु पुण्यांश्च पुण्यान् सर्वेषु योजयेः॥ आश्र. ५/१४॥
मन्त्रिणश्चैव कुर्वीथा द्विजान् विद्याविशारदान्॥ आश्र. ५/२०॥
तैः सार्धं मन्त्रयेयास्त्वं नात्यर्थं बहुभिः सह॥ आश्र. ५/२१॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
१ . अतिक्रान्तान्यपि हि संकीर्त्यमानानि प्रियजनविश्वासवचनान्यनुभवसमां
:वेदनामुपजनयान्ति । - कादम्बरी पूर्वभागः
२ . अतिसुकुमारं च जनं सन्तापपरमाणवः मालतीकुसुममिव म्लानिमानयन्ति । हर्षचरितम् उ० १
३ . अनवरतनयनजलसिच्यमानश्च तरुरिव विपल्लवोऽपि सहस्रधा प्ररोहति । हर्षचरितम् उ० १
४. अहो दुर्निवारता व्यसनोपनिपातानाम्, यदीदृशीमप्याकृतिमनभिभवनीमात्मीयां
५. दुःखदग्धानां च भूतिरमङ्गला चाप्रशस्ता च निरुपयोगा च भवति । हर्षचरितम् उ० ५
६. प्रायेण च निसर्गत एवानायतस्वभाव-भङ्गुराणि सुखानि, आगतस्वभावानि
:च दुःखानि । - कदम्बरी पूर्वभागः
७. यं च किल शोकः समभिभवति तं कापुरुषमाचक्षते शास्त्रविदः । हर्षचरितम् उ० ६
८. सङ्क्रामति हि स्वच्छतरे दर्पणे बिम्बमिव प्रतिबिम्बरूपेण सहृदयानां
:न्यूनातिरिक्तेन स्वरूपेण परात्मसमवेतमपि दुःखम् । मन्दारमञ्जरी, पूर्वभागः
९. सर्वथा न कञ्चन स्पृशन्ति शरीरधर्माणमुपतापाः । कादम्बरी पूर्वभागः
१०. स्वार्थ एव प्राणपरित्यागोऽयमसह्यशोकवॆदनाप्रतीकारत्वादत्मनः । कादम्बरी पूर्वभागः
<DOC_END>
<DOC_START>
अर्धवृद्धायाः महिलायाः दृष्टान्तेन अयं न्यायः प्रवर्तते । वृद्धा कीदृशी वा भवतु तस्याः पतिः तां तस्याः संपूर्णशरीरेणा सह स्वकीयां मन्यते । तस्याः मुखपर्यन्तम् एव स्वकीयमिति इतरत् शरीरं स्वीयं नास्तीति सः न तिरस्करोति । केषाञ्चन अङ्गानां स्वस्य अनुकूलतायाः अनुसारेण स्वीकरणम् अन्येषां निराकरणमितिम् न शक्यते । कोऽपि विषयः पूर्णतया त्यक्तव्यः किंवा पूर्णरुपेण स्वीकर्तव्यः । आगमप्रमाणेन ईश्वरस्य सिद्धिः भवति परन्तु बुद्धस्य वचनेन तस्य सिद्धिः न भवति इति उभयमपि स्वीकर्तु न शक्यते । किमपि एकमेव मतं स्वीकरणीयं भवति । (सा. २५५)
द्रष्टव्यम्- विकारार्थे मयटप्रवाहे सति आनन्दस्य एवाकस्माद् अर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं वा आश्रीयत इति । (ब्रह्मसूत्रशाङ्करभाष्यम् १-१-१९,१-२-८)
<DOC_END>
<DOC_START>
१ अकारणाविष्कृतवैरदारुणादसज्जनात् कस्य भयं न जायते । कादम्बरी स्लॊकः ५
२ अकारणं च भवति दुष्प्रकृतेन्वयः श्रुतं चाविनयस्य । कादम्बरी-पूर्वभागः
३ . अतिमलिने कर्तव्ये भवति खलानामतिनिपुणा धीः । - कादम्बरी पूर्वभागः
४. अनिष्टोद्भावनरसोत्तरं हि खलहृदयं को नामास्य तत्वविरूपणे समर्थः । वासवदत्ता
५. अभिजादेव जायन्तेऽकाण्डादेव प्ररोहन्ति, खलव्यसनाङ्कुरा दुरुच्छेदा भवन्ति । वासवदत्ता
६. असतां हृदि प्रविष्टो दोषलवः करालायते । वासवदत्ता
७. असद्गुणाख्यापनं हि दोषाय । शृङ्गारमञ्जरी कथापीतिका
८. अतिसन्धानपरायणाः शठाः । राङ्गडा-कथा ४
९. अदूरव्यापिनः फल्गुचेतसामलसानां मनोरथः । हर्षचरितम् उच्छवास- ३
१० असन्तस्तु भीमस्वभावा अपि न धर्मोद्भवमपेक्षन्ते । मन्दारमञ्जरी पूर्वभागः
११. उद्दामदर्पाश्च पृथुस्थगित-श्रवणविवराश्चोपदिश्यमानमपि न शृण्वन्ति । कादम्बरी पूर्वभागः
१२. कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव । कादम्बरी श्लोकः ६
१३. केवलमध्याससम्बद्धः खलप्रपञ्चो न निरूपयितुं शक्यः । मन्दारमञ्जरी
१४. किमिव हि दुष्करमकरुणानाम् । कादम्बरी, कथामुखम्
१५ खलहृदयदर्पणतले मालिन्यं जायते विजातीयम् ।
:गुणसङ्क्रमणविरुद्धं दोषोद्ग्राहानुकूलं च ॥ मन्दारमञ्जरी-प्रस्तावना-पृ० २०
१६. खलाः पुनस्तदनिष्टमनुचितमेवावधारयन्ति । वासवदत्ता पृ० ८१
१७. (खलः) तालफलरस इवापातमधुरः परिणामे विरसस्तिक्तश्च । वासवदत्ता पृ० ८३
१८. दैवानुग्रहेण यदि कश्चिद् भाजनं भवति विभूतेस्तमकस्मादुच्चावचैरुपप्रलोभनैः
:कदर्थयन्तः स्वार्थं साधयन्ति धूर्ताः । दशकुमारचरितम्, उ०पि०उ०८
१९. नैसर्गिकी खलस्य ब्रह्मण इव दुर्गमात्मनो माया । मन्दारमञ्जरी पूर्वभागः
२०. (खलः) पादपराग इवावधूतोऽपि मूर्द्धानं कषाययति । वासवदत्ता पृ० ८४
२१. पिशाचानामिव नीचात्मनां चरितानि छिद्रप्रहारीणि प्रायशो भवन्ति । हर्षचरितम् उ०६
२२. पीड्यमाना धूर्तास्तथा किञ्चिदपकुर्वन्ति यथा वक्तुमपि न पार्यते । शृङ्गारमञ्जरी-पृ० ७७
२३. विस्रब्धघातदोषः स्ववधाय खलस्य वीरकोपकरः । हर्षचरितम् उ०६
२४. विध्वस्तंपरगुणानां भवति खलानामतीव मलिनत्वम् । वासवदत्ता, प्रतावना पृ०९
२५. विषधरतोऽप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः ।
:यदयं न कुलद्वेषी स कुलद्वेषी पुनः पिशुनः । वासवदत्ता, श्लोक-६
२६. सत्पणिकामपि प्राप्य तुलेव लघुप्रकृतिरुन्नतिमायाति । हर्षचरितम् उ०३
२७. सुभाषितं हारि विशत्यधो गलान् न दुर्जनस्यार्करिपोरिवामृतम् । कादम्बरी, श्लोकः-९
२८. हस्त इव भूतिमलिनो यथा यथा लङ्घयति खलः सुजनम् दर्पणमिव
:तं कुरुते तथा तथा निर्मलच्छायम् । वासवदत्ता, श्लोकः-९
२९. (खलः) सर्षपस्नेह इव करयुगलालितोऽपि शिरसा धृतोऽपि न काटवं जहाति । वासवदत्ता पृ० ८३
<DOC_END>
<DOC_START>
१ . अमुष्यासारपरिकरस्य संसारस्य सारो धर्म एव ।
:धर्मः च सारभूता प्राणिषु दया ।
:दया दानस्य च सारमार्तपरित्राणं नाम । उदयसुन्दरीकथा, उच्छ्वासः १
२ तदनपेक्ष एव धर्मो निवृत्तिसुखप्रसूतिहेतुरात्मसमाधानमात्रसाध्यश्च । दशकुमारचरितम्, उत्तरपीठिका उ०२
३ . धर्मपूते च मनसि नभसीव न जातु रजोऽनुरज्यते । दशकुमारचरितम्, उत्तरपीठिका उ०२
४ . धर्मो हि सर्वथा रक्षणीयः ।
:सतीत्वध्वंसनमन्दिरावपातादिरूपो घोरतरो दूराचारः सर्वथा प्रतिरोद्धव्यः ॥
:आततायिनश्चावश्यमेव दण्डनीयाः । शिवराजविजयम् २/६
५. धार्मिकजनानुवृत्त्यभिमुखानि हि भवन्ति सर्वदा धर्मतत्त्ववेदिनां हृदयानि । तिलकमञ्जरी पृ० २५
६. ननु धर्मादृतेऽर्थकामयोरनुत्पत्तिरेव । दशकुमारचरितम्, उत्तरपीठिका उ०२
७. न धर्मस्तत्त्वदर्शिनां विषयोपभोगेनोपरुध्यते । दशकुमारचरितम्, उत्तरपीठिका उ०२
८. मूढः खलु लोको यत् सह धर्मेणार्थकामावपि गणयति । दशकुमारचरितम् उत्तरपीठिका उ०२
९. महान्तो हि धर्मस्य कृते लुण्ठ्यन्ते, पात्यन्ते हन्यन्ते, न धर्मं त्यजन्ति । शिवराजविजयम्-१/२
१० . यदि सत्येन धर्मरक्षा न भवति, तत् किमसत्येन सम्बोभवीति शिवराजविजयम्-३/९
११ स एव धर्मो यो न केवलं व्यक्तेः अपितु समष्टेरपि सन्धारणाय अभ्युदयाय
:च सर्वान् प्राणिनः सर्वाणि भूतानि सर्वाश्च शक्तीः सञ्चारयति । द्वासुपर्णा उ० भा०
१२. समन्तादार्तपरित्राणं नाम धर्मः सतां, विशेषतः क्षितिपालनेष्वधिकारिणां
:क्षत्रियाणाम् । उदयसुन्दरीकथा, उच्छ्वासः ५
<DOC_END>
<DOC_START>
गर्दभस्य अश्वायाः संगमेन यत् अपत्यं भवति तत् ‘अश्वतरी’ भवति । तस्याः गर्भः तस्याः एव नाशस्य कारणं भवति । तथैव दुष्टेन सह इष्टस्य संयोगं कर्तु यः प्रयत्नं करोति स एव नाशं प्राप्नोति ।
सकृद् दृष्टमपीष्टं यः पुनः सन्धातुमिच्छति ।
स मृत्युमुपगृहणाति गर्भमश्वतरी यथा ॥
<DOC_END>
<DOC_START>
अश्वत्थवृक्षस्य पत्राणां बन्धनस्य न्यायः । वायुः भवेद् वा न वा अश्वत्थस्य पत्राणि चलन्ति एव भवन्ति । तथैव यस्य यद् व्यसनं भवति तत् आजीवनं तेन सह भवति ।
<DOC_END>
<DOC_START>
अयम् अश्वः कस्य तस्य, यस्य अयं सेवकः । अयम् कस्य सेवकः तस्य, यस्य अयम् अश्वः । इतिरीत्या अन्योन्याश्रयेण कोऽपि निर्णयः न संभवति इति बोधयितुं न्यायः अयं प्रवर्तते ।
<DOC_END>
<DOC_START>
असत्यपि विरोधे विरोधस्य भावना अनेन न्यायेन सूच्यते ।
<DOC_END>
<DOC_START>
खड्गस्य अग्रभाग इव कठोरं व्रतम् ।
:अ) एकस्य पर्यङ्कस्य उपरि सुप्तौ स्त्री-पुरुषौ ब्रह्मचर्य पालयेताम् अनासक्तिं वा दर्शयेतां तत् कार्य खङ्गस्य अग्रभागे चलनम् इव कठोरं व्रतम् ।
:आ) मध्ये खङ्गं स्थापयित्वा स्त्रीपुरुषौ एकत्र एव यदि शयनं कुर्यातां तदपि अतीव कठिनम् ।
:इ) खङ्गस्य अग्रे चलनम् इव अत्यन्तकठिनं कार्य कर्तु व्रतधारणं नाम असिंधाराव्रतम् इति । तादृशप्रसङ्गे अस्य न्यायस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
एकम् अस्त्रम् निरुपयोगं कर्तुम् अन्यस्य अस्त्रस्य प्रयोगः करणीयः वर्तते नन्वमस्त्रम् अस्त्रेण शाम्यति इति न्यायेन काम्यैः काम्यानां निषिद्धैः निषिद्धानां निवृत्तिरस्ति ।
<DOC_END>
<DOC_START>
मुष्टिभिः आकाशस्य प्रहारं कुर्वन्ति चेत् व्यर्थं भवति खलु तथा निष्फलं प्रयत्नं सूचयितुम् अस्य न्यायस्य प्रयोगः भवति ।
पटं कर्तुं समीहते स हन्याद् व्योम मुष्टिभिः ॥
<DOC_END>
<DOC_START>
शुष्केण नीरसेन वा भावेन स्थितिः । यस्य दीपस्य तैलम् एव नास्ति सः दीपः गतप्रायः, तस्य दीप इति केवलं नामधेयम् । एतत् द्योतयितुम् अस्य न्यायस्य प्रयोगः क्रियते ।
दश स्थित्वा शशामासावात्मनि अस्नेहदीपवत् ॥
<DOC_END>
<DOC_START>
नागदन्ते स्थापितम् अन्नभाण्डं कोऽपि मूषकः अधः पातयितुं शक्नोति । परन्तु अधः पतितं भाण्डं पुनः नागदन्ते स्थापयितुं न शक्नोति । एवं दुष्टः अपि किमपि विध्वंसकं कार्यं कर्तुं शक्नोति परं विध्वस्तं कार्यं सुधारयितुं न शक्नोति ।
: द्रष्ट्व्यम्- अशक्ता गृहनिर्माणे शक्तास्तु गृहभञ्जने ।
<DOC_END>
<DOC_START>
१ . अहो प्रगाढः प्रतापो वज्रसङ्कल्पानाम् । सिन्धुकन्या-पर्रि०६पृ०१४५
२ . एकोऽपि प्रतिसंख्यानक्षण आधारीभवति धृतेः । हर्षचरितम् उ०८
३ . धीरत्वं नम विकारहेतौ सत्यविकारित्वमेव । - द्वासुपर्णा-उत्तरभागः
<DOC_END>
<DOC_START>
१ . परत्र फलदायी परमार्थः । कादम्बरी, उत्तरभागः
२ . बालविद्याः खलु महतामुपकृतयः । हर्षचरितम् उ०८
३ . वीराणां त्वपुनरुक्ताः परोपकाराः । हर्षचरितम् उ०३
४. स्वार्थालसाः परोपकारदक्षाश्च प्रकृतयो भवन्ति भव्यानाम् । हर्षचरितम् उ०३
<DOC_END>
<DOC_START>
१ . क्षुत्पिपासार्दितानां हि पशुपक्षिणां
:निर्विचारचित्तवृत्तीनामुपनतेष्वाहारेष्वनुपयोगो न सम्भवत्येव । कादम्बरी उत्तरभागः
२ . खेचरा हि बाहुल्येन सदाऽपि भ्रमन्तो वियति विदन्त्येव भूलोकविषयिणः
३ . तिमिरे हि कौशिकानां रूपं प्रतिपद्यते चक्षुः । वासवदत्ता
४ . प्रायेण हि पक्षिणः पशवश्च भयाहार-मैथुननिद्रासंज्ञामात्रवेदिनो भवन्ति । - कादम्बरी कथामुखम्
<DOC_END>
<DOC_START>
अयं वर्गः वासवदत्ताविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः आकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
१ . कः किल न रोदित्यभीष्टविरहेण घट्यमानहृदयशल्यः
:प्रेमपरिलङ्घितो जन्तुः । उदयसुन्दरीकथा उच्छ्वासः
२ . कालो हि गुणाश्च दुर्निवारतामारोपयन्ति मदनस्य सर्वथा । कादम्बरी पूर्वभागः
३ . कथमप्येकस्मिन् जन्मनि समागमः,
:जन्मान्तरसहस्राणि च विरहः प्राणिनाम् । कादम्बरी पूर्वभागः
४ . कः सचेतनः स्त्रियमभिकामयमानां नाभिनन्दति । दशकुमारचरितम् उ०पी०उ०३
५. क्लेशभीरुरकृतज्ञः लोकः निष्फलेनाश्रुपातमात्रेण स्नेहमुपदर्शयन् रोदिति । - कादम्बरी पूर्वभागः
६. जीवितफलं हि प्रियतममुखावलोकनम् । कादन्बरी उत्तरभागः
७. दारयति दारुणः क्रकचपात इव हृदयं संस्तुतजनविरहः । हर्षचरितम् उ०२
८. दुर्निवारा हि नैसर्गिकी प्रीतिः । लावण्यमयी परि ०३
९. धीरस्यापि धार्ष्ट्यमारोपयति हृदयम् लङघितलघिमातिवल्लभत्वम् । हर्षचरितम् उ०२
१०. प्रणयदानदुर्ललिता दुर्लभमपि मनोरथमतिप्रीतिरभिलषति । हर्षचरितम् उ०२
११. प्रणयवञ्चितः पुरुषः स्त्री वा न जीवितुं शक्नोति । इक्षुगन्धा कथा-४
१२. प्रेम प्रेम्णोत्तीर्यते । इक्षुगन्धा कथा-२
१३. प्रेमैव हृदयानि बध्नाति । इक्षुगन्धा कथा-५
१५. बलवती खलु वल्लभजनसङ्गमाशा । कादम्बरी उत्तरभागः
१६. भवति हृदयहारी क्वापि कस्यापि कश्चिन्न खलु गुणविशेषः प्रेमबन्धप्रयोगे । नलचम्पू ७/४७
१७ . लोके हि लोहेभ्यः कठिनतराः खलु स्नेहमया बन्धनपाशाः
:यदाकृष्टिस्त्रिर्यञ्चोऽपि एवमाचरन्ति । हर्षचरितम्, उ०५
१८. विनानुरागं हि प्रणयिनः प्रमदाया जिवनं व्यर्थमेव खलु । कथामुक्तावली-कथा-७
:मलयानिलः । - दशकुमारचरितम्, पूर्वपीठिका,उ० ५
२०. सत्यमेव गरीयः खलु जीवितालम्बनमिदं विनोदश्च वियोगिनीनां
:यदुत सङ्कल्पमयः प्रियः । कादम्बरी उत्तरभागः
२१. स्वय्मारोपितेषु तरुषु तावदुत्पद्यते स्नेहः किं पुनरङ्गसम्भवेष्वपत्येषु । कादम्बरी उत्तरभागः
२२. सर्वथा लूतातन्तुच्छटाच्छिदुरास्तुच्छाः प्रीतयः प्राणिनाम् । - हर्षचरितम् उ०६
२३. कुलटायाः कुमित्रस्य कुप्रभोः कितवस्य च ।
:विद्युल्लेखासमा प्रीतिः सद्योजाता विलीयते ॥ पुरुषपरीक्षा ४/४०
<DOC_END>
<DOC_START>
अयं वर्गः पुरुषपरीक्षाविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः इक्षुगन्धाविषयकः विद्यते ।
<DOC_END>
<DOC_START>
१ . अतिपिशुनानि चास्यैकान्तनिष्ठुरस्य दैवहतकस्य विलसितानि । कादम्बरी पूर्वभागः पृष्ठम्-५८२
२ . अनुकूलविधिविहितसहायकस्य साहसिकस्य सर्वदा शस्यसम्पदि
: वा नीतिरनीतिरपि फलति । - तिलकमञ्जरी
३ . अभिमते वस्तुनि दैवं प्रमाणीकृत्य सर्वात्मना प्रवर्तितव्यम् । तिलकमञ्जई पृ० १५५
४. अव्याहता गतिः सर्वत्र भवितव्यतायाः । तिलकमञ्जई पृ० ३४३
५. अनतिक्रमणीयान्यवश्यमेव भाव्यानि । शृङ्गारमञ्जरी पृ० ६०
६. अनतिलङ्घनीयं हि दौरात्म्यदुर्विलसितं दुष्टविधेः । मन्दारवती, परि०५
७. अहो दुर्लङ्घ्या हतविधिविलसितानां गतिः । शृङ्गारमञ्जरी पृ० ६०
८. ईश्वरेच्छा बलीयसी । दैवनियोगमुल्लङ्घयितुं कः पारयेत् । कथामुक्तावली कथा-२
९. किं तदस्ति नाम रमणीयमद्भुतं वा जगति यन्न दर्शयतीन्द्रजालिक
:इव मायाप्रगल्भः शुभकर्मणामासादितोदयः परिणामः । तिलकमञ्जरी, पृष्ठ-२९८
१०. गुणवत्यपि जने दुर्जनवन्निर्दाक्षिण्याः क्षणभङ्गिन्यो ।
:दुरतिक्रमणीया, न रमणीया, देवस्य वामा वृत्तयः ॥ - हर्षचरितम्, उच्छ्वासः १
११. जीवितविषयान् मृत्युं मृत्युमुखाज्जीवितं च नियमेन ।
:जनमानयति नयत्यपि विरमति न काऽप्यसौ नियतिः ॥ उदयसुन्दरीकथा उच्छ्वासः-९
१२. देवस्य वामा वृत्तयः । हर्षचरितम् उच्छ्वासः ४
१३. दैव्याः शक्तेः पुरो न बलवती मानवी शक्तिः । दशकुमारचरितम्-उत्तरपीठिका
१४. न किञ्चिदगोचरो भवितव्यानाम् । वासवदत्ता पृ० ३२६
१५. निपतति किल दुर्बलेषु दैवं तदवितथम् । नलचम्पू, ६/२०
१६. न ह्यलमतिनिपुणोऽपि पुरुषो नियतिलिखितां लेखमतिक्रामितुम् । दशकुमारचरितम्, उत्तरपीठिका उच्छ्वासः २
१७. न क्षमते (दैवं) दीर्घकालमव्याजरमणीयं प्रेम । कादम्बरी पूर्वभागः
१८. न हि शक्यं दैवमन्यथाकर्तुमभियुक्तेनापि । कादम्बरी पूर्वभागः
१९. निरवधिप्रचारो विधिः नास्त्यगोचरः पुराकृतकर्मणाम् । तिलकमञ्जरी पृ० ३४५
२०. प्रभवति हि भगवान् विधिः, बलवती च नियतिः । कादम्बरी पूर्वभागः
२१. भवितव्यं भवत्येव नारिकेलफलाम्बुवत् । शिवराजविजयम्, ३/९
२२. भागधेयं मनुजस्यात्मन एवाधीनं खलु । कथामुक्तावली कथा-३
२३. विधिर्नामापरः कोऽप्यत्रास्ते, यत् तस्मै रोचते तत् करोति । कादम्बरी उत्तरभागः
<DOC_END>
<DOC_START>
अयं वर्गः मन्दारवतीविषयकः भवति ।
<DOC_END>
<DOC_START>
१ . अतिदूरप्रवृद्धेन मधुना जगति को वा न विक्रियते । वासवदत्ता पृ० १६२
२ . मनुष्यजन्मनि कल्याणवतामखिलसुखोपभोग एव पर्यवसायो व्यापारः । उदयसुन्दरीकथा उ०३
३ . जीवसृष्टिप्रवाहेषु मानव इव परप्रातारकाः स्वार्थसाधनपराः मायाविनः,
:कपटव्यवहारकुशलाः, नीचस्वभावाः, हिंसानिरता जीवा न विद्यन्ते ॥ प्रबन्धमञ्जरी पृ० ५८
४ . मनुष्यजन्मानः किल प्रतिक्षणं स्वार्थसाधनाय सर्वात्मना प्रवर्तन्ते । प्रबन्धमञ्जरी पृष्ठम् ५९
५. मनुष्याणां हिंसावृत्तिस्तु निरवधिः पशुहत्या तु तेषामाक्रीडनम् । प्रबन्धमञ्जरी पृष्ठम् ५९
६. मानवा नाम सर्वासु सृष्टिधारासु निकृष्टतमा सृष्टिः । - प्रबन्धमञ्जरी पृष्ठम् ५९
७. मनवो हि स्वभावेन दुराचारानुकूलः । केवलं दण्डनीत्यैव विहायात्मनः
:स्वाभाविकप्रवृत्तिं सदाचारपथमनुसरति । प्रतिज्ञापूर्तिः परि ०५
<DOC_END>
<DOC_START>
अयं वर्गः प्रबन्धमञ्जरीविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः प्रबन्धमञ्जरीविषयकः विद्यते ।
<DOC_END>
<DOC_START>
१ . अपण्डिताः पुनरर्जयन्त एव ध्वंसन्ते ।
:नार्जीतस्य वस्तुनो लवणमप्यास्वादयितुमीहन्ते । दशकुमारचरितम्, उत्तरपीठिका उ०८
२ . अतत्त्वदर्शिन्यो हि भवन्त्यविदग्धानां धियः । हर्षचरितम्, उच्छ्वासः-७
३ . छत्रच्छायान्तरितरवयो विस्मरन्त्यन्यं तेजस्विनं जडधियः । हर्षचरितम्, उच्छ्वासः-६
४. सलीलानीव गतानुगतिकानि लोलानि खलु भवन्त्यविवेकिनां मनांसि । हर्षचरितम्, उच्छ्वासः-२
<DOC_END>
<DOC_START>
१ . अखिलमनोज्वरप्रशमनकारणं हि भगवती प्रव्रज्या । हर्षचरितम्, उच्छ्वासः-८
२ . अतिदृतवाहिनी चानित्यता नदी । हर्षचरितम्, उच्छ्वासः-८
३ . जीवहृदयस्य पुनः साऽनुच्छेत्तव्या (माया) तत्त्वधिया । मन्दारमञ्जरी, पूर्वभागः
४ . ब्रह्मनिष्ठानां परमानन्दोऽनुपमेयोऽसीमश्च वर्तते । द्वासुपर्णा, पूर्वभागः
५. सर्वसत्त्वानुकम्पिनी प्रायः प्रव्रज्या । हर्षचरितम्, उच्छवासः-८
६. सर्वभोगैश्वर्योपभोगानन्तरमेव प्रशमः श्रेयान् । कौमुदीकथाकल्लोलिनी कल्लोलः ४
<DOC_END>
<DOC_START>
अयं वर्गः कौमुदीकथाकल्लोलिनीविषयकः विद्यते ।
<DOC_END>
<DOC_START>
१ . अनिज्झितधवलतापि सरागैव भवति यूनां दृष्टिः । कादम्बरी, पूर्वभागः
२ . अपहरति च वात्येव शुष्कपत्रं समुद्भूतरजोभ्रान्तिरतिदूरमात्मेच्छया
:यौवनसमये पुरुषं प्रकृतिः । कादम्बरी, पूर्वभागः
३ . अपरिभवनीयो हि कुमारिकाजनो यूनाम् । कादम्बरी, पूर्वभागः
४ . कान्तोपदेशास्तु सरसताप्रवृत्तत्वाद् ग्राह्यो भवति युवकानाम् । द्वासुपर्णा-उत्तरभागः
५. जीवितं हि नाम जन्मवतां चतुः पञ्चाप्यहानि ।
:तत्रापि भोगयोग्यमल्पाल्पं वयःखण्डम् ॥ दशकुमारचरितम्, उत्तरपीठिका उ ०८
६. तिमिरोपहतेव यूनां दृष्टिरल्पमपि कालुष्यं महत् पश्यति । कादम्बरी पूर्वभागः
७. नवयौवनकषायितात्मनश्च सलिलानीव तान्येव विषयस्वरूपाण्यास्वाद्यमानानि
:मधुरतराण्यापतन्ति मनसः । - कादम्बरी पूर्वभागः
८. निपुणमदनगृहीता चित्रवर्तिकेव तरुणचित्तवृत्तिर्नकिञ्चिन्नालिखति । कादम्बरी पूर्वभागः
९. निसर्गत एवाभानुभेद्यमरत्नालोकोच्छेद्यमप्रदीपप्रभावनेयमति गहनं तमो
१०. येन केनचिदपह्रियन्त एव रसिकहृदयाः परिणामधीरमतयोऽपि किं पुनः
कुतूहलास्पदे प्रथमे वयसि वर्तमानः । कादम्बरी उत्तरभागः
११. यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालनिर्मलापि कलुष्यमुपयाति बुद्धिः । कादम्बरी पूर्वभागः
१२. यौवनावतारे हि शैशवेनैव सह गलति गुरुजनस्नेहः । कादम्बरी उत्तरभागः
१३. यौवनोदयो हि बहुरागपल्लवोऽशोकतरुरिव मलिनानि फलानि
:पृसूते । मन्दारमञ्जरी, पूर्वभागः पृ०१५५
१४. स्वप्नानुभूतभावा द्रढयति न प्रत्ययं युवतिः । वासवदत्ता पृ० २०५
१५. स्नेहलवोऽपि वारिणेव यौवनमदेन दूरं विस्तीर्यते । कादम्बरी पूर्वभागः
१६. स्वयमुत्पादितानेकचिन्ताशताकुला कविमतिरिव तरलता न किञ्चिन्नोत्प्रेक्षते । कादम्बरी पूर्वभागः
१७. सुलभोत्साहसम्पत् खलु यौवनम् । अजातशत्रुः परि०५
<DOC_END>
<DOC_START>
अयं वर्गः अजातशत्रुविषयकः विद्यते ।
<DOC_END>
<DOC_START>
१ . अजस्रमक्षपावसानप्रबोधा घोरा च राज्यसुखसंनिपातनिद्रा । कादम्बरी, पूर्वभागः
२ . अतिक्रान्तशासनाश्च प्रजा यत्किञ्चनवादिन्यो यथाकथञ्चिद्वर्तिन्यः
: सर्वाः स्थितीः सङ्किरेयुः । दशकुमारचरितम्-उत्तरपीठिका उ०८
३ . अतिगम्भीरे भूपे कूप इव जनस्य निरवतारस्य ।
:दधति समीहितसिद्धिं गुणवन्तः पार्थिवाः घटकाः । हर्षचरितम् २/१
४ . अनुचरश्चेत् स्वसमर्पितकार्यातिरेकेण स्वामिनमनुचरेत्, तत् स
:एवाधमर्णं विदधाति धनिनम् । शिवराजविजयम्३/१२
५. अन्यथावृत्तश्च कर्मसु प्रतिहन्यमानः स्वैः परैश्च परिभूयते । दशकुमारचरितम्, उत्तरपीठिका उ०८
६. अर्थमूला हि दण्डविशिष्टकर्मारम्भाः ।
:न चन्यदस्ति पापिष्ठं तत्र दौर्बल्यात् । दशकुमारचरितम्, उत्तरपीठिका उ०८
७. अहङ्कारदाहज्वरमूर्च्छान्धकारिता विह्वला हि राजप्रकृतिः । कादम्बरी, पूर्वभागः
८. आगमदीपदृष्टेन खल्वध्वना सुखेन वर्तते लोकयात्रा । दशकुमारचरितम्, उत्तरपीठिका उ०८
९. आदरो दुर्लभो राज्ञां वस्तुन्यल्पगुणेऽपि च ।
:प्रगुणेऽपि सुखप्राप्ते भवेन्ना नमनादरः ॥ पुरुषपरीक्षा परि० १
१०. आन्वीक्षिकी चतुरमतिस्तु शासकः पर्यालोच्य विविच्य च
:कर्तव्याकर्तव्ये विनिश्चयन् संसिद्धिं लभते । प्रतिज्ञापूर्तिः परि० ५
११. आरूढप्रतापो राजा त्रैलोक्यदर्शीव सिद्धादेशो भवति । कादम्बरी, पूर्वभागः
१२. उत्साहबलाद्वा प्रभुत्वदर्पाद्वा मन्त्रमविगणय्य प्रवर्तमानस्य राज्ञो न हि
:सिद्धिर्वशंवदा प्रायेण । मन्दारवती, परि० १
१३. उत्शाहवत्ता प्रभुता मन्त्रवत्तेति त्रिशक्त्यात्मिकामामनन्ति हि
:बुधास्सर्वारम्भेषु राज्ञां साधनसम्पत्तिम् । मन्दारवती, परि० १
१४. उत्साहशक्तिः प्रौढपराक्रमचेष्टारूपा, कोशदण्डजा प्रभुशक्तिः,
:सन्धिविग्रहादिप्रयोगकुशलता मन्त्रशक्तिरिति । मन्दारवती, परि० १
१५. उपदिशन्ति हि विनयमनुरूपप्रतिपत्त्युपपादनेन वाचा विनापि भर्तव्यानां
१६. ऋतेऽनुचरेभ्यो राजकार्यं न सिद्ध्यतीति न तद्रक्षा राज्ञां निरभिसन्धिरनुग्रहः। शिवराजविजयम् ३/१२
१७. एक एव धर्मो राज्ञां यत् स्वीयानां प्रतिपालनं सम्माननं सदा कुशलचिन्तनञ्च । शिवराजविजयम् ३/११
१८. कार्याकार्यविवेकोपदेशिनीयमान्वीक्षिकी नाम शासकानां दैवं चक्षुः । प्रतिज्ञापूर्तिः परि०५
१९. केवलं स्वोद्दिष्टपूर्तये यानि-यानि खलु साधनानि नितान्तमपेक्षितानि तेषां
:सर्वॆषां संग्रहं विधाय स्वोद्दिष्टं साधयेद् धीमान्-इति राजनीतेः प्रथमः सिद्धान्तः । प्रतिज्ञापूर्तिः परि०५
२०. काणेन चक्षुषा जन्तुर्यथा किञ्चिन्न पश्यति ।
:न पश्यति तथा राजा चारेणानृतभाषिणा ॥ - पुरुषपरीक्षा-परि०५
२१. क्रीडारसेन नर्तयन्तो मयूरतां नयन्ति बालिशाः । हर्षचरितम् उ०४
२२. गीतनृत्यहसितैरुन्मत्ततामावहन्त्युपेक्षितविकारा इव वातिकाः । हर्षचरितम् उ०४
२३. चित्तज्ञानानुवर्तिनोऽनर्थ्या अपि प्रियाः स्युः ।
:दक्षिणा अपि तद्भाववहिष्कृता द्वेष्या भवेयुः ॥ दशकुमारचरितम्, उत्तरपीठिका उ०८
२४. चिरयुद्धहतोत्साहाः प्रजा भटाश्च हतोत्साहा भवन्ति इतीदृशेष्वेवावसरेषु
:सन्धी राजधर्मः । शिवराजविजयम् ३/९
२५. दर्पणमिवानुप्रविश्यात्मीयां प्रकृतिं सङ्कामयन्ति पल्लविकाः । हर्षचरितम् उ०४
२६. न केवलं राज्यसुव्यवस्था प्रजानां समृद्धौ स्वास्थ्ये प्रगतौ वा करणम् अपितु
:राज्ञः सुव्यवस्थाऽपि । प्रतिज्ञापूर्तिः परि०५
२७. न चावज्ञातस्याज्ञा प्रभवति प्रजानां योगक्षेमाराधनाय । दशकुमारचरितम्, उत्तरपीठिका उ०८
२८. ननु चतस्रो राजविद्याः, त्रयी वार्ताऽन्वीक्षिकी दण्डनीतिरिति । दशकुमारचरितम्, उत्तरपीठिका उ०८
२९. न ह्यात्मानमुपेक्ष्य परेषामुपकुरुते लोकतन्त्रनिष्णातो विदग्धो जनः । मन्दारवती, परि०५
३०. न हि कुलिनानामपत्यानि प्रभुमपवदन्ति तानि हि देहं पातयन्ति, न तु
:प्रभुभक्तिम्, प्राणांस्त्यजन्ति न च स्वामिचरणे अनुरागम् । शिवराजविजयम् ३/११
३१. न हि मुनिरिव नरपतिरुपशमरतिरभिभवितुमरिकुलमलम्,
:अवलम्बितुं च लोकतन्त्रम् । दशकुमारचरितम्, उत्तरपीठिका उ०८
:सुकाला इव जायन्ते प्रजापुण्येन भूभुजः ॥ हर्षचरितम् उ० ३ श्लोकः १
३३. निर्मर्यादश्च लोको लोकादितोऽमुतश्च स्वामिनमात्मानं च भ्रंशयते । दशकुमारचरितम्, उत्तरपीठिका उ०८
३४. निर्विचारं समपक्षपातमन्यायपूर्वकं वा धारितो दण्डः शासकं सपक्षं हिनस्ति । प्रतिज्ञापूर्तिः, पस्रि० ५
३५. पङ्कनिमग्ने बलाढ्यो गज इव दुराचारिसमावृतो राजा, अवश इव,
संमोहित इव, तेषां मार्गमनुसरति । प्रतिज्ञापूर्तिः, परि० ३
३६. पशुवत् केवलमिन्द्रियसाक्षात्कारमेव प्रमाणिकुर्वन् स्वस्य सारासारविवेकबुद्धिं
:योजयितुमसमर्थो नरः पशुकल्प एव राजनीतौ चात्यन्तमयशस्वी दृष्टः । प्रतिज्ञापूर्तिः, परि० ५
३७. प्रजापतिनिधयो हि मन्त्रिणो राज्ञामक्षुण्णं चक्षूः । मन्दारवती परि० १
३८. प्रजाभिस्तु बन्धुमन्तो राजानो न ज्ञातिभिः । हर्षचरितम् उ०४
३९. प्रतिशब्दक इव राजवचनमनुगच्छति जनो भयात् । कादम्बरी, पूर्वभागः
४०. प्रथमं राज्याङ्गं दुर्लभाः सद्भृत्याः । हर्षचरितम् उ०४
४१. प्रायेण परमाणव इव समवायेष्वनुगुणीभूय द्रव्यं कुर्वन्ति पार्थिवं क्षुद्राः । हर्षचरितम् उ०४
४२. बुद्धिशून्यो हि भूभृदत्युछ्रितोऽपि परैरध्यारुह्यमाणमात्मानं न चेतयते । दशकुमारचरितम्, उत्तरपीठिका उ०८
४३. भर्तृचिन्तानुवर्तिन्यश्चानुजीविनां प्रकृतयः । हर्षचरितम् उ०३
४४. भृत्या अपि त एव ये सम्पत्तेर्विपत्तौ सविशेषं सेवन्ते । कादम्बरी उत्तरभागः
४५. भृत्या हि – वक्षो घ्नतीं मातरम् रोदसी रोदयन्ती पत्नीम् पटान्तमाकर्षतः
:पृथुकांश्च तृणवद् विहाय स्वामिकार्यं साधयितुं स्वदेहमर्पयन्ति । शिवराजविजयम् ३/११
:विचारपूर्वकञ्च नियतं फलदायी भवति । प्रतिज्ञापूर्तिः परि०५
४७. मन्त्रनिष्णाततया ह्येते मन्त्रिण इति व्यवह्रियन्ते ।
:मन्त्रिभिर्मन्त्रयित्वैव प्रारभमाणस्य न हि कार्यजातानि न फलन्ति । मन्दारवती परि०१
४८. मानसे मीनमिव स्फुरन्तमेवाभिप्रायं गृह्णन्ति जालिकाः । हर्षचरितम् उ०४
४९. यो हि शासकः स्वयं यतेच्छाचारी प्रजाजनान् तत्कर्तव्यमुपदिशति,
:न तदुपदेशं तस्य प्रजाः समनुतिष्ठन्ति । प्रतिज्ञापूर्तिः परि०५
५०. रजानीतौ तु साध्यपरिपूतं साधनमुपदिश्यते । प्रतिज्ञापूर्तिः परि०२०
५१. राजनीतौ हि कदाचित् सोदरोऽपि विप्रतीपकारी हन्तव्यो भवति । प्रतिज्ञापूर्तिः परि०६
५२. राज्यं हि न नाम निरमात्यमसूत्रधारं नाटकमिव पार्यते प्रवर्तयितुम् । उदयसुन्दरीकथा पृ०८ उच्छ्वासः १
५३. लोकव्यवहारो सर्वप्रमाणमूलमपि राजनीतौ निकृष्टमेव स्थानं लभते प्रस्यक्षम् । प्रतिज्ञापूर्तिः परि०३
५४. वाक्पारुष्यं दण्डो दारुणो दूषणानि चार्थानामेव यथावकाशमौपकारिकाणि । दशकुमारचरितम्,उत्तरपीठिका उ०८
५५. वाच्यमानं पुस्तकमिव प्रतिक्षणमवहीयन्ते सकल जनसाधारणानामी
५६. विनाशपथपथिकमपि स्वस्वामिनं कटुकेनापि परिणामसुखेन
:हितोपदेशेन निर्भीकेण प्रकृतिस्थं विधातुं न प्रयतन्ते राजकोपभीताः । प्रतिज्ञापूर्तिः, हसूरकर, परि०३
५७. शत्रुरपि संहितो मित्रं भवति । शिवराजविजयम् ३/१०
५८. शल्यं हृदये निक्षिपन्त्यतिमार्गणाः । हर्षचरितम् उ०४
५९. शास्त्रज्ञसमाज्ञातो हि यद् ददाति, यन्मानयति यतप्रियं
:ब्रवीति, तत्सर्वमति सन्धातु-मित्यविश्वासः । दशकुमारचरितम्, उत्तरपीठिका उ०८
६०. सङ्ग्रहं नाकुलीनस्य सर्पस्येव करोति यः ।
:स एव श्लाध्यते मन्त्री सम्यग् गारुडिको यथा ॥ हर्षचरितम् उ०४
६१. सति च शासके न्याय्यवर्तने स्वकर्तव्यपालननिष्ठुरे तदधीनाः सर्वेऽपि
:राजपुरुषाः प्रधाना अप्रधाना वा स्वकर्तव्ये दत्तचित्ता भवन्ति । प्रतिज्ञापूर्तिः परि०५
६२. सत्ये एव च स्वस्वकार्यकरणक्षमे शासनयन्त्रे समाजस्याभ्युन्नतिः कर्तुं शक्या । प्रतिज्ञापूर्तिः परि०५
६३. सस्मुद्यतदण्डो धर्मशास्त्रानुज्ञातमेव मार्गमनुसरन् प्रजापालनदक्षः शासकः
:संस्कृतेः सभ्यतायाः कलानां शास्त्राणां विविधानामुद्यमानाञ्चोत्कर्षे निमित्ती भवति । प्रतिज्ञापूर्तिः परि०५
:संवर्धनमपि यूनां कृते अत्यावश्यकम् । प्रतिज्ञापूर्तिः परि०३
६५. स्वयमसद्वृत्तो हि शासकः प्रजानुरागं स्वसम्मानं शासनाधिकारञ्च
:युगपदेव जहाति । प्रतिज्ञापूर्तिः परि०५
६६. स्वप्ना इव मिथ्यादर्शनैरसद्बुद्धिं जनयन्ति विप्रलम्भकाः । हर्षचरितम् उ०४
<DOC_END>
<DOC_START>
अयं वर्गः यशस्तिलकचम्पूविषयकः विद्यते ।
<DOC_END>
<DOC_START>
१ . अनया (लक्ष्म्या) दुराचारया कथमपि दैववशेन परिगृहीता विक्लवा भवन्ति
:राजानः सर्वविनयाधिष्ठानतां च गच्छन्ति । कादम्बरी पूर्वभागः
२ . अपरिणामोपशमो दारुणो लक्ष्मीमदः । कादम्बरी पूर्वभागः
३ . जलबुद्बुदसमाना विराजमाना सम्पत् तडिल्लतेव
:सहसैवोदेति नश्यति च । दशकुमरचरितम्, पूर्व्वपीठिका उ०१
४. दृढगुणा-सन्दान-निस्पन्दीकृतापि नश्यति (लक्ष्मीः) । कादम्बरी पूर्वभागः
५. न ह्येवंविधमपरिचितमिह जगति किञ्चिदस्ति यथेयमनार्या (लक्ष्मी । कादम्बरी पूर्वभागः
६. पाणिपरिगृहीता भुजङ्गीव सकृदेव मोक्तुमश्क्या चेयं राजलक्ष्मीः । यशस्तिलकचम्पू, आश्वासः ४
७. यथा यथा चेयं चपला (लक्ष्मीः) दीप्यते तथा तथा दीपशिखेव
:कज्जलमलिनमेव कर्म केवलमुद्वमति । कादम्बरी पूर्वभागः
८. राजविषविकारतन्द्राप्रदा राजलक्ष्मीः । कादम्बरी पूर्वभागः
९. लब्धापि (लक्ष्मीः) खलु दुःखेन परिपाल्यते । कादम्बरी पूर्वभागः
१०. विद्वांसमपि सचेतनमपि महासत्त्वमप्यभिजातमपि धीरमपि
:प्रयत्नवन्तमपि पुरुषमियं दुर्विनीता खलीकरोति लक्ष्मीः । कादम्बरी पूर्वभागः पृष्ठम् ३७४
११. श्रियो हि दोषा अन्धतादयो कामला विकारः । हर्षचरितम्, उच्छ्वासः ६
१२. सम्पदो हि चलप्रायाः कालक्रमेणाविर्भवन्ति तिरोभवन्ति च । मन्दारमञ्जरी, पूर्वभागः
<DOC_END>
<DOC_START>
१ . अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः । दशकुमारचरितम्, पूर्वपीठिका उ०३
२ . अतिकष्टासु दशास्वपि जीवितनिरपेक्षा न भवन्ति खलु प्राणिनां वृत्तयः । कादम्बरी कथामुखल्
३ . अत्र तावदनेकभवसुकृतशतसहस्राधिगम्यं मानुष्यमेव दुर्लभम् । कादम्बरी उत्तरभागः
४. अदुर्लभं हि मरणमध्यासितम् । कादम्बरी पूर्वभागः
५. अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति
६. अपरिगतानि दैवतान्यप्यनुचित-परिभवभाञ्जि भवन्ति । कादम्बरी पूर्वभागः
७. अपुत्राणां किल न सन्ति लोकाः शुभाः । कादम्बरी पूर्वभागः
८. अवितथफला हि प्रायो निशावसानसमयदृष्टा भवन्ति स्वप्नाः । कादम्बरी पूर्वभागः
९. अविमृश्यकारिणां हि नियतमनेकाः पतन्त्यनुशयपरम्पराः । - दशकुमारचरितम्, पूर्वपीठिका उ०६
१०. आत्मानं हि सदा गोपयतः सिद्धयः सान्निध्यं भजन्ते । प्रतिज्ञापूर्तिः, परि०३
११. आवेदयन्ति हि प्रत्यासन्नमानन्दमग्रेपातीनि शुभानि निमित्तानि । कादम्बरी पूर्वभागः
१२. इह हि संसारसद्मनि समासादितावतारः स्वभावविमलोऽपि जन्तुरेकत्रैव
:जन्मानि दशावशेन दीपङ्कुर इवानेकानि रूपान्तराण्यनुभवति । तिलकमञ्जरी-पृ०३४६
१३. उत्तरोत्कर्षग्रस्ता हि संसारे सर्वोत्कर्षाः । मन्दारमञ्जरी पूर्वभागः
१४. उपनयन्ति हि हृदयमदृष्टमपि जनं शीतलसंवादाः । हर्षचरितम् उ०३
१५. कस्यचित् प्राणिनोऽनादरस्तु भगवतोऽनादर एव । हर्षचरितम् उ०३
१६. कामना हि सर्वगुणापहारिणी । द्वासुपर्णा, पूर्वभगः
१७. किं तेन जातु जातेन मातुर्यौवनहारिणा ।
:आरोहति न यः स्वस्य वंशस्याग्रे ध्वजोयथा ॥ नलचम्पू ४/१९
१८. किं नाम नावलोक्यते जीवद्भिरद्भुतम् । हर्षचरितम् उ०८
१९. क्षुद्रोऽप्यहिरिवारातिर्निहन्तव्य इति नीतिविदः कथयन्ति । कृष्णचरितम्-पृ०५८
२०. गुणिनामपि स्वरूपप्रतिपत्तिः परत एव सम्भवति । वासवद्त्ता प्रस्तावना पद्यम् १२
२१. चातका इव तृष्णावन्तो न शक्यन्ते ग्रहीतुमकुलीनाः । हर्षचरितम् उ०४
२२. जगति जन्तूनामसमर्थोपनतान्यापतन्ति वृत्तान्तान्तराणि । - कादम्बरी, पूर्वभागः
:मृतस्तु नोभयस्यापि । कादम्बरी, पूर्वभागः
२४. दुर्दमनीया खलु प्राणिनां जिजीविषा । सिन्धुकन्य-परिच्छेदः-८ पृ०१५९
२५. धनं तृष्णावतः प्राणाः वह्रेः प्राणास्तथेन्धनम् ।
:कामुकस्य स्त्रियः प्राणाः मानः प्राणा मनस्विनः ॥ पुरुषपरीक्षा परि०१
२६. न खल्वपराधमनवबोध्यैव प्रभवः प्रभवन्ति परिजनानुपालब्धुम् । पारिजातहरणचम्पू उ०३
२७. न तादृशी भवति याचमानानां यादृशी ददतां लज्जा । कादम्बरी, पूर्वभागः
२८. नन्वियं सा त्रिभुवननिन्दनीया निरनुरोधा निष्परिचया दुर्ग्रहा प्रकृतिर्मर्त्यानां
:येषामकाण्डविसंवादिन्यः प्रीतयो न गन्णयन्ति निष्कारणवत्सलताम् । कादम्बरी, पूर्वभागः
२९. न हि लुष्ठकेषु कस्यापि प्रीतिर्भवति । शिवराजविजयम् २/५
३०. नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम् । - कादम्बरी, कथामुखम्
३१. नौकाकी निर्णयं कुर्योदिष्टे कृत्यविधौ क्वचित् ।
: सम्भवन्ति बुधस्यापि दोषा वै विभ्रमादयः । - पुरुषपरीक्षा-विद्यापति परिच्छेद-१
३२. प्रबलैः सह विरोधो न भवत्येव सुखकरः । - शिवराजविजयम् ३/९
३३. प्राकृतसुतजन्मलाभादनुपमानमातत्मानं मन्यन्ते जगति जन्तवः । - कृष्णचरितम् पृ०१६
३४. फलाभिलाषिणा पुरुषेण नैकान्तो नीतिनिष्ठेन भव्यम् । - तिलकमञ्जरी पृ०१५५
३५. फलोत्पत्तिस्तु सामग्रीसमवधानाधीना । - मन्दारमञ्जरी पूर्वभागः
३६. बलवती हि द्वन्द्वानां प्रवृत्तिः । - कादम्बरी पूर्वभागः
३७. बहुप्रकारश्च संसारवृत्तयः । - कादम्बरी पूर्वभागः
३८. बहुभाषिणे न श्रद्दधाति लोकः । - कादम्बरी पूर्वभागः
३९. महासत्त्वता हि प्रथममवलम्बनं लोकस्य पश्चाद्राजबीजिता । - हर्षचरितम् उ ०५
: क्षुद्रदृष्टिरेषा, अतिप्रमादोऽयं मौर्ख्यस्खलितमिदम्, यदुपरते
: पितरि, भ्रातरि, सुहृदि, भर्तरि वा प्राणाः परित्यज्यन्ते । - कादम्बरी पूर्वभागः
४१. येदतदनुमरणं नाम तदतिनिष्फलम्, अविद्वज्जनाचरति एव मार्गः । - कादम्बरी पूर्वभागः
४२. यादृशाद् वै जायते तादृगेव भवति । - कादम्बरी उत्तरभागः
४३. युक्तायुक्तविचारशून्यत्वाच्च शालीनमपि शिक्षयन्ति स्वार्थतृष्णाः प्रागल्भ्यम् । - हर्षचरितम् उ०८
४४. येषां च भक्ष्याभक्ष्यनियमोऽस्ति तेषामप्यापत्काले प्राणानां
:सन्धारणमभक्ष्योपयोगेनापि तावद् विहितम् । - कादम्बरी उत्तरभागः
४५. रटन्त्यनवरतमखिलप्राणि-प्रयाण-प्रकटनपटवः प्रेतपतिपटहाः । - हर्षरचरितम् ऊ०८
४६. लोकयात्रामात्रनिबन्धना बान्धवता । - हर्षचरितम् उ०६
४७. लोकसेवासमृद्ध्यर्थं सर्वशो यतनीयम् । - द्वासुपर्णा उत्तभागः
४८. लोकेऽपि च कारणगुणभाञ्ज्येव कार्याणि दृश्यन्ते । - कादम्बरी उत्तरभागः
४९. शक्याश्क्यपरिसंख्यानशून्याः प्रायेण स्वार्थतृषः । - हर्षचरितम् उ०३
५०. शुभमशुभमथापि वा नृणां कथयति पूर्वनिदर्शनोदयः । - हर्षचरितम् उ०४
५१. शुभागमो निमित्तेन स्पष्टमाख्यायते लोके । - हर्षचरितम् उ०४
५२. सभ्यतमा हि जना बहिः शुभदर्शना अपि अन्तरत्यन्तमलशालिनो भवन्ति । - प्रबन्धमञ्जरी पृ० ११६
५३. सर्व एव हि जगति जन्मनो वयस आकृतेर्वा सदृशमाचरन् न वचनीयतामेति । - कादम्बरी उत्तरभागः
५४. सर्वमात्मनोऽनीशवरं विश्वे नश्वरम् । - हर्षचरितम् उ०८
५५. साधनहीनस्य पुरुषस्य बुद्धिमतोऽप्यन्ततो गत्वा विनिपातोऽवश्यम्भावी । - प्रतिज्ञापूर्तिः, परि०५
५६. सुधीरेऽपि हि मनसि यशांसि कुर्वन्ति विवरम् । - हर्षचरितम् उ०३
५७. स्वैरिणो विचित्राश्च लोकस्य स्वभावाः प्रवादाश्च । - हर्षचरितम् उ०२
<DOC_END>
<DOC_START>
१ . अनपाचीनचित्तवृत्तिग्राहिण्यो भवन्ति प्रज्ञावतां प्रकृतयः । - हर्षचरितम् उ०२
२ . दिव्यं हि चषुर्भूतभवद्भविष्यत्सु व्यवहितविप्रकृष्टादिषु च
: विषयेषु शास्त्रं नामाप्रतिहतवृत्तिः । - दशकुमारचरितम् उ०पी०उ०८
३ . मानवं हि विद्यैव केवला तत्कर्तव्यं समुपदिशन्ती, इतरपशुभ्यो विशेषयति । प्रतिज्ञापूर्तिः परि०५
४ . यथार्थविद्यासंस्कारहीनो मानवसमाजो भयानकवन्यपशुभ्योऽप्यधिकं भयप्रदः । प्रतिज्ञापूर्तिः परि०५
: कस्य न सुखाय भवति महारत्नताभक्ष्यस्य ॥ - हर्षचरितम् उ० २
६. विशुद्धया हि धिया पश्यन्ति कृतबुद्धयः सर्वानर्थनसतः सतो वा । - हर्षचरितम् उ०१
<DOC_END>
<DOC_START>
१ . अङ्गनवेदी वसुधा जलधिः कुल्या स्थली च पातालम् ।
: वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य वीरस्य । - हर्षचरितम् उ०७/१
२ . अपरिमितयशःप्रकरप्रवर्षी भवति विकासी वीररसः । - हर्षचरितम् उ०६
३ . जलेऽपि ज्वलन्ति ताडितास्तेजस्विनः । - हर्षचरितम् उ०६
४ . न स्पृशत्येवातितेजस्विनं शोकः । - हर्षचरितम् उ०६
५. पुरः प्रवृत्तप्रतापप्रहताः पन्थानः पौरुषस्य । - हर्षचरितम् उ०६
६. प्रतापसहाया हि सत्त्ववन्तः । - हर्षचरितम् उ०६
७. सङ्कल्पान्तरितो विजयस्तरस्विनाम् । - हर्षचरितम् उ०८
८. स्थायिनि यशसीव शरीरधीर्वीराणाम् । - हर्षचरितम् उ०६
<DOC_END>
<DOC_START>
१ . आत्महननमिह चामुत्र च दुःखप्रायमामनन्ति बुधाः । - मन्दारवती, परि०५
: प्रवर्तायितुम् । - उदयसुन्दरीकथा पृ०८ उ०१
३ . केन शक्यते तडिद्दण्डस्य विस्पुरणलाघवं मन्दतां नेतुम् । - उदयसुन्दरीकथा पृ०८ उ०१
४ . को नाम भगवन्तमम्बरतलावगामिनं मरीचिमालिनमवनिपथेन
: प्रचारयितुमलम् । - उदयसुन्दरीकथा पृ०८ उ०१
५. को हि कल्पान्तविस्तृताम्भोधि-जल-महाप्लवेन प्लाव्यमानां
: प्रस्खलितुमिह क्षयः क्षोणीम् । - उदयसुन्दरीकथा उ०१
६. इयं हि सभ्यता महामोहमयी पिशाचीव दुस्तरे मोहगर्ते निपातयति । प्रबन्धमञ्जरी पृ० ११४
७. जागरे हि एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकं भवति । शिवराजविजयम् ३/२
८. ताराभिर्न विराजति शून्या चन्द्रेण गगनश्रीः । - उदयसुन्दरीकथा पृ०८ उ०१
९. दिव्या हि मूर्तयो भाजनं दिव्याभरणानाम् । - तिलकमञ्जरी पृ० ४६
: शापवचनोपनीतान्येतानि शरीरान्तराण्यध्यासत एव । - कादम्बरी पूर्वभागः
११. न खलु सर्वः सर्वं कार्यमेव करोत्यसारे संसारे । - वासवदत्ता पृ० १६२
१२. नगरधूलिः महामुनीनामपि साधुत्वमपाकरोति । - द्वासुपर्णा-उत्तरभागः
१३. परदोषदर्शनदक्षा दृष्टिर्नात्मदोषं पश्यति । - हर्षचरितम् उ०१
१४. प्राणरक्षणाच्च न परं पुण्यजातं जगति गीयते जनेन । - हर्षचरितम् उ०८
१५. भार्या भूमिभूषणञ्च भवनं भार्गवी तथा ।
: बलहीनं त्यजन्त्याशु भजन्ते बलवत्तरम् ।। - ललितकथा कल्पलता कथा-३
१६. यदा विषविन्दुः अम्रृतपात्रे निक्षिप्यते तदा समग्रमपि पात्रं विषमयं भवति ।
: यदा अमृतबिन्दुः विषपात्रे निक्षिप्यते तदा विषपात्रम् अमृतमयं न भवति ।। - उदयसुन्दरीकथा-उ०१
१७. सहजस्नेहपाशग्रन्थिबन्धनाश्च बान्धवभूताः दुस्त्यजा जन्मभूमयः । - हर्षचरितम् उ०१
१८. धूमदर्शनतो वह्निं नावगच्छति कः पुमान् ।
: शीते वाते समायते कः समीमे जलस्थितिम् ॥ - जीवन्धरचम्पू लम्भ २ स्लो०१२
१९. सर्व एव ह्यविनयप्रावृत्तोऽनुतापाद् विना न निवर्तते । - कादम्बरी उत्तरभागः
२०. सुखदुःखे च जीवतो नरस्य परस्परमनुबध्यन्ते विभावरीवासराविव । मन्दारवती, परि०५
२१. स्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते । - वासवदत्ता
<DOC_END>
<DOC_START>
अयं वर्गः जीवन्धरचम्पूविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः ललितकथा-कल्पलताविषयकः विद्यते ।
<DOC_END>
<DOC_START>
महान् अपि गजः दर्पणे प्रतिबिम्बरुपेण लघुः दृश्यते परं । लघुनि वस्तुनि महद् वस्तु प्रतिबिम्बरुपेण पर्याप्नोति इति सूच्यते । हितोपदेशः विग्रह-१२
<DOC_END>
<DOC_START>
अयं वर्गः पारिजातहरणचम्पूविषयकः विद्यते ।
<DOC_END>
<DOC_START>
घूलेः मृत्तिकायाः वा कारणेन दर्पणस्य उपरि मालिन्यम् अधिकं भाति । यावती अस्वच्छता तावत् अधिकं मालिन्यम् इति अस्य न्यायस्य अर्थः ।
<DOC_END>
<DOC_START>
‘एवं किल उच्यते’ इति उक्त्वा स्वस्य वचनस्य समर्थकरुपेण लोके प्रसिद्धम् उदाहरणं लोकोक्तिं वा जनाः दर्शयन्ति । कस्यापि आभाणकस्य उपयोगः अनेन न्यायेन सूच्यते ।
<DOC_END>
<DOC_START>
यत्र सुगन्धः भवति तत्र तस्य पुष्पस्य आस्वादार्थं भृङ्गाः कुतश्चित् आयान्ति । अर्थात् यत्र गुणाः भवन्ति तत्र तेषां गुणानां रसग्राहकाः समागच्छन्ति । ‘गुणाः पूजास्थानम्’ इति सर्वत्र संगतं भवति ।
:गर्भस्थकेतकीपुष्पमामोदेनैव षट्पदाः ॥ सु. भांडागार (१५८/२३३) सा-७८१
<DOC_END>
<DOC_START>
वने भिन्नप्रकाराः वृक्षाः भवन्ति । यस्मिन् वने आम्रवृक्षाः भवन्ति तत् आम्रवनम् इति प्रसिद्धं भवति । प्राधान्येन व्यपदेशः भवति ।
<DOC_END>
<DOC_START>
आम्रवृक्षस्य मूले पितृतर्पणं क्रियते चेत् तत् जलं आम्रवृक्षः प्राप्नोति । अर्थात् जलाञ्जलेः फलद्वयम् अस्ति -पितृतर्पणं भवति आम्रवृक्षस्य कृते जलमपि लभ्यते । एकया एव क्रियया फलद्वयं लभ्यत इति अनेन न्यायेन सूच्यते ।
: आम्राश्च सिक्ताः पितरश्च तृप्ताः । एका क्रिया द्वयर्थकरी प्रसिद्धा ॥
: द्रष्टव्यम् -आम्राश्च सिक्ताः पितरश्च प्रीणिता महाभाष्ये १-१-१
<DOC_END>
<DOC_START>
एकः अपरं ‘अत्र आम्रवृक्षाः कुत्र सन्ति’ इति पृष्टवान् । अपरः आम्रवृक्षाणां विषये किमपि अनुक्त्वा कोविदारवृक्षाणां विषये विवरणं दत्तवान् । एतादृशसन्दर्भे वक्तुः वचने विश्वासः करणीयः वा न वा इति शङ्का भवति । असंबद्धम् उत्तरं यः ददाति तस्य विषये अस्य न्यायस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
आरघट्टः नाम कूपात् जलम् उद्धर्तुम् उपयुज्यमानं पात्रम् । रज्ज्वाः अन्ते भाण्डम् एकं बद्ध्वा तत् कूपे शनैः त्यक्त्वा कूपात् जलम् उद्धरन्ति । भाण्डात् जलं रिक्तीकृत्य पुनः भाण्डं कूपे पातयन्ति । एवं स्वैरं जलस्य उद्धरणं क्रियते ।
शरीरे श्वासरुपेण सञ्चरन् वायुः आरघट्ट- घटीयन्त्रन्यायेन प्रत्येकं नाड्यां संचरति । पुनः पुनः क्रियमाणम् एकं विषयं सूचयितुम् अस्य न्यायस्य प्रयोगः भवति ।
: सार्धं घटीद्वयं नाडीरेकैकार्कोदया वहेत् ।
: आरघट्टघटी भ्रान्तिन्यायो नाडयोः पुनः पुनः ॥
<DOC_END>
<DOC_START>
योगशास्त्रे अस्य न्यायस्य उल्लेखः अस्ति । शरीरे षट्चक्रेषु मूलाधारचक्रतः आरभ्य ब्रह्मरन्ध्रपर्यन्तं वायोः सञ्चारः आरोहस्य अवरोहस्य च क्रमेण भवति । सः वायुः पूरणसमये आज्ञाचक्रे प्रवेशनीय इति योगशास्त्रे कथितम् अस्ति ।
<DOC_END>
<DOC_START>
आशारुपिणः मोदकान् खादित्वा अतीव आनन्दः प्राप्तः इति काल्पनिकेन आनन्देन मानवः आशया जीवति । अग्रे मधुरं लभ्येत अनुकूलाः दिवसाः भविष्यन्ति संकटस्य दिनानि शाश्वतानि न भवन्ति इति अनया आशया सः जीवति । सः मधुरे स्वप्नमये भाविकाले विहरति । एतादृशस्य मनुष्यस्य वर्णनम् अनेन न्यायेन क्रियते ।
:रसवीर्यविपाकादितुल्यं तेषां प्रसज्यते ॥ न्यायकन्दली
<DOC_END>
<DOC_START>
इक्षोः पर्वणि आमूलाग्रं रसः पूर्णः भवति । सज्जनैः कृता मैत्री अपि एवं क्रमशः वर्धते तस्यां च एकरसता भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः इकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
क्ष्वेडः नाम विषम् । इन्दुः नाम चन्द्रः । शिवः स्वमूर्धनि चन्द्रं धारयति । तथा अङ्गानाम् उपरि विषधारिणः सर्पान् धारयति । चन्द्रं मूर्धनि विषं कण्ठे च धारयति । बुद्धिमान् मनुष्यः गुणान् दोषान् च स्वीकरोति । सः अन्येषां गुणान् प्रशंसति दोषान् आच्छादयति अर्थात् तस्य उपरि आच्छादकं स्थापयति इव । शिवः अपि विषं कण्ठे नियच्छति आच्छाद्य स्थापयति । (सा. ३२२)
<DOC_END>
<DOC_START>
इन्द्रजालम् नाम इन्द्रेण विशिष्टयोगपद्धत्या निर्मितं जालम् । तेन एकं वस्तु अपरमिव भासते । इन्द्रजालम् नाम माया ।मायिकः (मायावी) विशिष्टेन कौशलेन मायया वा एकं वस्तु अपरम् इव दर्शयति । गर्भधारणं, अपत्यजननं, अपत्यवृद्धिः एतत् सर्वम् अगम्यम् अतर्क्यम् अस्ति अर्थात् इन्द्रजालम् अस्ति ।
एतस्मात् किमितीन्द्रजालनपरं यद् गर्भवासस्थितम् ।
पश्यत्यत्ति शृणोति जिघ्रति तथाऽगच्छत्यथो गच्छति ॥
<DOC_END>
<DOC_START>
बाणानां निर्माणं यः करोति सः स्वकर्मणि एतावान् व्यग्रः भवति यत् परितः किं चलति इति भानं तस्य न भवति । एतादृशी श्रेष्ठा एकाग्रता या भवति तस्याः वर्णनम् अनेन न्यायेन भवति ।
<DOC_END>
<DOC_START>
धानुष्कः वेगेन बाणान् मुञ्चति सः वेगः क्रमेण न्यूनः भवति । तथा मनुष्यः आरम्भे बलेन कार्यं करोति ततः प्रतिदिनं उत्साहः न्यूनः भवति । आरम्भस्य बलं किं वा उत्साहः शनैः न्यूनः भवति ।
<DOC_END>
<DOC_START>
विषदन्तानाम् उत्पाटनात् अनन्तरं सर्पः दष्टुं न शक्नोति । दशति चेदपि तस्य प्रभावः न भवति । तथैव कस्मिन् अपि अवयवे अंशे वा मनुष्यस्य शक्तिः भवति सः यदि केनापि कारणेन निष्क्रियः जातः तर्हि तस्य शक्तिस्थानं नष्टम् इति कारणेन सः मनुष्यः दंष्ट्रारहितः सर्पः इव शक्तिहीनः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः उकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
जलपानेन मनुष्यस्य पिपासा शाम्यति । परं तत् यावत् आवश्यकं तावदेव पिबेत् चेत् । अधिकं जलम् अस्ति इति कूपे वा तडागे वा यदि सः उन्मज्जेत् तर्हि तस्य दुःखस्य अन्तः न भवति । कस्यापि वस्तुनः योग्येन आस्वादनेन मनुजस्य आनन्दः भवति । अतिमात्रेण भोगेन अन्ते दुःखम् एव भवति इति अनेन सूच्यते ।
<DOC_END>
<DOC_START>
उदके क्षिप्त इति । अग्नेः अनेकाः उपयोगाः सन्ति । परन्तु अयम् अग्निः जले क्षिप्तः चेत् शान्तः भवति । जलम् अग्निः इति द्वयम् अपि स्वतन्त्ररीत्या तावत् उपकारं करोति । द्वयम् एकत्र आगतं चेत् द्वयोः अपि शक्तिः नष्टा भवति । निष्फलस्य कर्मणः सूचनाय अस्य न्यायस्य प्रयोगः भवति । जीवन्मुक्तानां संसारः अपि एवंविधः भवति ।
<DOC_END>
<DOC_START>
कथञ्चिदपि सीता अन्वेषणीया रावणस्य वधं कृत्वा प्रजाः सुखिन्यः करणीयाः इति रामेण निश्चयः कृतः । तस्य
उदात्तं धर्माधिष्ठितं निश्चयं ज्ञात्वा देवताः, ऋषयः वानराः सर्वे तस्य साहाय्यं कर्तुं निश्चितवन्तः । योग्यं कार्यं
कर्तुं यदि कश्चित् उपक्रमेत् तर्हि सर्वे तस्य साहाय्यं कुर्वन्ति । दुष्टशिक्षणं सज्जनरक्षणं -इति हेतुना श्रीरामस्य
उद्यमे सर्वे अपि साहाय्यं कृतवन्त इति अयं न्यायः सूचयति ।
<DOC_END>
<DOC_START>
संस्कृतभाषायां बहवः उपसर्गाः सन्ति । ते धातुभ्यः अनन्तरं योज्यन्ते । प्रायः उपसर्गाणां प्रयोगेण धातूनाम् अर्थाः परिवर्तन्ते यथा- गमधातोः अधि-उपसर्गे योजिते ‘अधि+गम्’ इति भूत्वा ‘प्राप्नोति’ इति तस्य अर्थः भवति । संस्कृते एतद्विषये एषा कारिका प्रसिद्धा -
: उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।
: प्रहार- आहार- संहार -विहार -परिहारवत् ॥
यत्र एकस्यैव वस्तुनः अनेकत्वस्य विवक्षा भवति तत्र अस्य न्यायस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
१ . अचिन्त्यो हि महात्मनां प्रभावः । - कादम्बरी पूर्वभागः
२ . अप्रतिपाद्या हि परस्वता सज्जनविभवानाम् । - कादम्बरी पूर्वभागः
३ . अयस्कान्तमणय इव लोहानि नीरसनिष्ठुराणि क्षुल्लकानामप्याकर्षन्ति
: मनांसि महतां गुणाः । - हर्षचरितम्-उच्छ्वासः ३
४. अक्षीणः खलु दाक्षिण्यकोषो महताम् । - हर्षचरितम्-उच्छ्वासः-१
५. अनपेक्षितगुणदोषः परोपकारः सतां व्यसनम् । - हर्षचरितम्-उच्छ्वासः-२
६. अपत्यत्वे समानेऽपि जातायां दुहतरि दूयन्ते सन्तः । - हर्षचरितम्-उच्छ्वासः-४
७. अलोहः खलु संयमनपाशः सौजन्यमभिजातानाम् । - हर्षचरितम्-उच्छ्वासः-८
८. अर्थिजने च किमिव नातिसृजन्ति महान्तः । - हर्षचरितम्-उच्छ्वासः-८
९. अनुरक्तेष्वपि शरीरादिषु साधूनां स्वामिनः एव प्रणयिनः । - हर्षचरितम्-उच्छ्वासः-३
१०. अभ्यर्थनाया जलनिधय इव रक्षन्ति मर्यादामार्याः । - हर्षचरितम्-उच्छ्वासः८
११. अहो पावनः प्रभावः पुण्यात्मनाम् । - सिन्धुकस्न्य-परिच्छेदः-६
१२. अलसः खलु लोको यदेवं सुलभसौहार्दानि येन केनचिन्न क्रीणाति
: महतां मनांसि । - हर्षचरितम्-उच्छ्वासः ३
१३. आत्मार्पणं हि महताममूलमन्त्रमयं वशीकरणम् । - हर्षचरितम्-उच्छ्वासः९
१४. औदार्यातिशयः कोऽपि महात्मनामितरजनदुर्लभो येनोपकरणीकुर्वन्ति
१५. कुलीनाः प्राणानगणयन्तो धर्मं रक्षन्ति । - शिवराजविजयम् ३/९
१६. जनयन्ति हि पश्चाद् वैलक्ष्यमभूमिपातिता व्यर्थाः प्रसादामृतदृष्टयो महताम् । कादम्बरी पूर्वभागः
: तेनैष ध्रियते लोकैर्मस्तकोपरि सज्जनः ॥ - उदयसुन्दरीकथा-उ०१
१८. दुःखितमपि जनं रमयन्ति सज्जनसमागमाः । - कादम्बरी, पूर्वभागः
१९. दुर्लभो हि दाक्षिण्यपरवशो निर्निमित्तमित्रमकृत्रिमहृदयो विदग्धजनः । कादम्बरी, पूर्वभागः
२०. धर्मपरायणानां हि समीपसञ्चारिण्यः कल्याणसम्पदो भवन्ति । - कादम्बरी, पूर्वभागः
२१. धैर्यधना हि साधवः । - कादम्बरी, कथा-मुखम्
२२. धीरा हि तरन्त्यापदम् । - कादम्बरी, पूरव्भागः
२३. न च सचेतना विसदृशमुपदिशन्ति । - वासवदत्ता पृ०९३
२४. निष्कारणा निराकणकापि च कलुषयति मनस्विनोऽपि
: मानसमसदृशजनादापतन्ती । - हर्षचरितम्-उच्छ्वासः १
२५. निसर्गस्वैरिणी स्वरुच्यनुरोधिनी च भवति महतां मतिः । - हर्षचरितम्-उच्छ्वासः ३
२६. पुण्यानि हि नामग्रहणान्यपि महामुनीनां किं पुनर्दर्शनानि । - कादम्बरी, पूर्वभागः
२७. परं हि दैवतमृषयः । - कादम्बरी, पूर्वभागः
२८. प्रथमदर्शने चोपायनमिवोपनयति सज्जनः प्रणयम् । - हर्षचरितम्-उच्छ्वासः ३
२९. प्रायेणाकारणमित्राण्यतिकरुणार्द्राणि च सदा खलु भवन्ति सतां चेतांसि । कादम्बरी, कथामुखम्
३०. प्रणयिजनप्रत्याख्यानपराङ्मुखि च दाक्षिण्यपरवति महत्ता सताम् । - कादम्बरी, पूर्वभागः
३१. प्रत्युपकारदुष्प्रवेशास्तु भवन्ति धीराणां हृदयावष्टम्भाः । - हर्षचरितम्-उच्छ्वासः ३
३२. प्रतिज्ञाविरुद्धाचरणं महतां कार्यं वा ? - शिवराजविजयम्-२/६
३३. भवति सुभगत्वमधिकं विस्तारितपरगुणस्य सुजनस्य । - वसवदत्त प्रस्तावना पृ०५
३४. मनस्तु साधुध्वनिभिः पदे पदे, हरन्ति सन्तो मणिनूपुरा इव । कादम्बरी, कथामुखम्-श्लोकः ६
३५. महद्भिस्तु यथार्थदर्शिभिर्भवितव्यम् । - हर्षचरितम् उच्छ्वासः २
३६. महात्मनो जनानपहाय कस्य वा परस्य समुदेति परदुःखहेतुजिज्ञासा । मरमञ्जरी-पूरवभागः
३७. महात्मनां जीवने आधिभौतिकसुखानां प्रमुखस्थानं न विद्यते । - द्वासुपर्णा-उत्तरभागः
३८. महात्मनां चोपरि निपतन्नणुरपि सृणिरिव करिणां क्लेशः कदर्थनाय अलम् । हर्षचरितम् उच्छ्वासः १
३९. भोगं नेच्छन्ति स्वप्नेऽपि कुर्वते न करग्रहम् ।
:महान्तः नाममात्रेण भवन्ति पतयो भुवः ॥ - हर्षचरितम् उच्छ्वासः १
४०. यत्तुं स्वभावेनानिष्टजनकं तत्रैव महतामादरोपनिबन्ध उचितः । - मन्दारमञ्जरी, पूर्वभागः
४१. विवेकः सह सम्पत्त्या विनयो विद्यया सह ।
:प्रभुत्वं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम् ॥ - नलचम्पू ३/१३
४२. सतां तु भुवि विस्तारवत्यः स्वभावेनोपकृतयः । - हर्षचरितम् उ०३
४३. साधवो मृगा इव विनोदबिन्दोः श्रवणवशगा न भवन्ति, शरत्समया इव
:मित्रस्य हृदयं हरन्ति । - वासवदत्त पृ०९२
४४. साधवो हि कलिकालतमः पटलपिहितेऽस्मिन् जगति क्व नाम दृश्यते । - उदयसुन्दरीकथा- उ०१
४५. साधवो हि दिङ्मोहादुत्पथप्रवृत्ता अपि पुनर्गृहीतसत्पथा भवन्ति । - वासवदत्ता पृ०९२
४६. साधुजनश्च सिद्धक्षेत्रमार्तवचसाम् । - हर्षचरितम् ३/२
४७. साधूनामुपकर्तुं लक्ष्मीं दृष्टुं विहायसा गन्तुम् ।
: न कुतूहलि कस्य मनश्चरितं महात्मनां श्रोतुम् । - हर्षचरितम् ३/२
<DOC_END>
<DOC_START>
१ . को नाम कथयितुमिह शक्नोति यद् दुःखसम्भिन्नमेव भवति सुखम् ।
: किं वा दुःखाभाव एव सुखशब्देन व्यवह्रियते । ललितकथा कल्पलता कथा-१
२ . यदा कदाचन दुःखेऽपि सुखच्छाया प्रतीयते, निराशायामप्याशा
: समुजृम्भते, अन्धकारेऽपि प्रकाशस्याऽऽविर्भवति । - ललितकथा कल्पलता कथा-१
<DOC_END>
<DOC_START>
१ . अबलानां हि प्रायशः पतिरपत्यं वावलम्बनम् । - हर्षचरितम् उ ० ८
२ . अविषह्यं हि योषितामनङ्गशरीर-निषङ्गीभूतचेतसामनिष्टजनसंवासयन्त्रणादुःखम् । - दशकुमारचरितम् उ०पी०उ०३
३ . ईश्वरः सर्वत्र वर्तते इति मनसि कृत्वा ।
: सर्वेषां चराचराणां कल्याणं विधातव्यम् । - द्वासुपर्णा-पूर्वभागः
४ . गृहलक्ष्म्य एव भवन्ति गेहस्थाः सद्गृहस्थरमण्यः । - ललितकथा-कल्पलता कथा-१
५. चमत्कारिषु चित्रेषु भूषणेष्वम्बरेषु च ।
: लोभो भवति नारीणां फलेषु कुसुमेषु च ॥ - पुरुषपरीक्षा ४/४१
६. दुग्धदग्धो जनस्तक्रमपि व्यजनैर्वीजयित्वा पिबति । - शिवराजविजयम् ३/१२
७. दौर्भाग्यं नाम जीवन्मरणमेवाङ्गनानां, विशेषतश्च कुलवधूनाम् । - दशकुमारचरितम्, उ०पी०उ३०३
८. न सुमेरुवप्रप्रणयप्रगल्भा वा दिक्करिणः परिणमन्त्यणीयसि वल्मीके । - हर्षचरितम् उ०६
९. न हि कुलशैलनिवहवाहिनो वायवः संनह्यन्त्यतितरले तूलराशौ । - हर्षचरितम् उ०६
१०. परिणामेऽपि पुण्यवतां केषाञ्चिदेव केशैः
: सहधवलिमानमापद्यन्ते चरितानि । - कादम्बरी-उत्तरार्घः
११. पुरुषेष्वत्यन्तानुरक्तास्त्रिय आत्मानमर्थांश्च समूलकाषं कषन्ति । दशकुमारचरितम्, उ०पी०उ३०३
१२. पतिरेव दैवतं वनितानां विषेषतश्च कुलजानाम् । - दशकुमारचरितम्, उ०पी०उ३०३
१३. पुरुषस्तु योषिदनुपातेन स्वल्पमेव सन्मार्गम् उच्चरते । कौमुदीकथा कलोलिनी पश्चार्धभागः
१४. प्रत्यक्षदृष्टभावाप्यस्थिरहृदया हि कामिनि भवति । - वासवदत्त पू०२०५
१५. प्रमाणाभासशरणा अपि प्राणिनः प्रावेषु स्पृह्यं प्रतिपद्यन्ते । - मन्दारमञ्जरी-पूर्वभागः
१६. प्रसिद्धिरत्नायशसे यशसे वा दोषगुणाश्रया वा फलवती । - कादम्बरी-उत्तरभागः
१७. प्रायः प्राणिनामीशः शम्भुरेव शुभाशुभं कर्मालोक्य तुलाधर इव
: तुलितं फलमुपकल्पयति । - नलचम्पू उ०-३
१८. भोगः कर्मणः पृष्ठभूः । त्यागः कर्मणः परिपाकता । भोगः त्यागश्च इति
मार्गद्वयं संसारस्य । - विसर्गः-पृ० १४
१९. मृदलस्वभावमपि जलमिव मुक्ताफलतामपगतं कठिनीभवत्युत्कण्ठितं
: हृदयमबलाजनस्य । - कादम्बरी-उत्तरभागः
२०. यत्र च चिरं युद्धानि भवन्ति, तत्रैव प्रायशो रोगा आपतन्ति तत्रैव दरिद्रता
: पदमादधाति, तत्रैव च सर्वां महार्घतामाप्नुवद् भयानकं दुर्भिक्षं जनयति । शिवराजविजयम् ३/९
२१. यदि प्राणदानैरपि स्वदेशो दुराचारां त्रातुं न शक्यते, अथच्छलेन शक्ष्यते शिवराजविजयम् ३/९
२२. यस्यामेष वेलायं चित्तवृत्तिः सैव वेला सर्वकार्येषु । - कादम्बरी-उत्तरभागः
२३. युज्यत एव रमणीये जने सहृदयानां हृदायाभिनिवेशः । मन्दारमञ्जरी-पूर्वभागः
२४. रमणीयरूपं रमणीमन्याम् ईर्ष्याकषायित-हृदयां कथं मोदयति । - इक्षुगन्धा, कथा-६
२५. रूपसम्पन्नमग्राम्यं प्रेमप्रायं प्रियंवदम् ।
: कुलीनमनुकूलं च कलत्रं कुत्र लभ्यते । - नलचम्पू २/२२
२६. लोककल्याणवृत्तिर्हि भगवतः श्रेष्ठाराधना । - द्वासुपर्णा-पूर्वभागः
२७. विकाराणां च कारणं प्रायः सरसता ।
: सा च सर्वमेव जलप्रायं कुर्वाणा वर्षातिवृद्धयैवोपजायते । - कादम्बरी-उत्तरभागः
२८. विवाहो नाम ऐकात्म्यं खलु । - विसर्गः पृ०८
२९. व्याविद्धकण्टको न कण्टकाऽऽकुलेन पथा पौनः पुन्येन प्रचलति । शिवराजविजयम् ३/१२
३०. सञ्जातरूपाभिमाना कुलटेवात्मसम्भावना न किञ्चिन्नात्मानमर्षयति । कादम्बरी, पूर्वभागः
३१. सम्मोहनस्य अभिलेखरूपेण नारी अत्र पुष्पायते ।
: तदीयभाग्यलिपिषु फलायते तु यन्त्रणानानार्थकोशः ॥ - हर्षचरितम्, १/२१
३२. सर्वस्याप्रार्थितोऽपि प्रभवत्यतिवेलं चक्षुष्यो जनः । - हर्षचरितम् उ०२
३३. सहजलज्जाधनस्य प्रमदाजनस्य प्रथमाभिभाषाणमशालीनता । - दशकुमारचरितम्,उ०पी०उ०३
३४. सर्व एव ह्यविनयप्रवृत्तोऽनुतापाद् विना न निवर्तते । - कादम्बरी, उत्तरभाग:
३५. स्स्त्रियो हि विषयः शुचाम् । - हर्षचरितम् उच्छ्वासः ६
३६. स्त्रियो हि नाम त्रिवर्गैकसाधनं सुखैकायतनं यशसोऽर्थस्य सन्ततेश्च भूताः । - शृङ्गारमञ्जरी, कथा १३, पृ०८४
३७. स्वकीयदुर्वृतिदुराग्रहग्रहिला महिला निसर्गेणैव शठा भवन्ति । कौमुदीकथाकल्लोलिनि-कल्लोलः ९
३८. स्वप्न इवाननुभूतमपि मनोरथो दर्शयति । - कादम्बरी, पूर्वभागः
३९. स्वप्नेषु विगलितवेदनाः स्फुटं प्राणिनः । - कादम्बरी, उत्तरभागः
<DOC_END>
<DOC_START>
१. अकामतश्चरेद् धर्मम् । वृद्धहारीतस्मृतिः, ९/२४५
२. अक्षरं दुष्करं ज्ञेयम् मनुस्मृतिः, २/५९
:दुःखयोगं शरीरिणाम् । मनुस्मृतिः, ६/६४
:धर्मज्ञानं विधीयते । मनुस्मृतिः, १/१३२
५. अयं तु परमो धर्मो
:यद् योगेनात्मदर्शनम् । बृहद्योगियाज्ञवल्क्यस्मृतिः, ११/३४
६. अविरोधी तु यो धर्मः
:स धर्मः सद्भिरुच्यते । व्यासस्मृतिः,प्रथमखण्डः,पृ.१७
:धर्ममप्याचरेन्न तु । मनुस्मृतिपरिशिष्टम्, श्लोकः १२३
:कार्यं श्रेयोऽनुशासनम् । मनुस्मृतिः, २/१३४
:नविद्वान्सो नराधमाः ॥ मनुस्मृतिः, १२/५२
१०. एक एव सुहृद् धर्मो
:निधनेऽप्यनुयाति यः । मनुस्मृतिः, ८/१७
:कुलान्यकुलतां यान्ति । ब्रह्मोक्तयाज्ञवल्क्यस्ंहिता, ८/१८५
१२. क्रियाहीने न धर्मः स्यात् । दक्षस्मृतिः,३/२३
:प्रजानामेव पालनम् । मनुस्मृतिः, ७/१४४
:विनिपातो न विद्यते । मनुस्मृतिः,४/१४६
:स धर्मो वसिष्ठस्मृतिः, श्लोकः १५
:सत्येन च दमेन च ।
:ते नराः स्वर्गगामिनः॥ वृद्धगौतमस्मृतिः, १०/९९
:धर्मः प्रापयते नरम् । वृद्धगौतमस्मृतिः, १/३२
१८. धर्मः श्रुतो वा दृष्टो वा
:कृतो वा कथितोऽपि वा ।
:पुनाति ह नरं सदा ॥ वृद्धगौतमस्मृतिः, १/२९
१९. धर्म एकोऽनुयात्येनम् । विष्णुस्मृतिः, अध्यायः २०, पृ. ४४१
२१. धर्मः पिता च माता च
:धर्मः स्वामी परन्तप ॥ वृद्धगौतमस्मृतिः, १/३०
:तृतीयं लोकसङ्ग्रहः ॥ वृद्धगौतमस्मृतिः, १४/४३
२३. धर्म एव हतो हन्ति
:मा नो धर्मो हतोऽवधीत् ॥ मनुस्मृतिः,८/९५
२४. धर्मं यो बाधते धर्मो
:न स धर्मः कथञ्चन । व्यासस्मृतिः, प्रथमखण्डः, पृ.१७
:यो वः सह स्थास्यति ॥ कात्यायनस्मृतिः, २२/४
:प्रमाणं परमं श्रुतिः । मनुस्मृतिः, १/१३२
२७. धर्मो जयति नाधर्मः । वृद्धगौतमस्मृतिः, ८/११८
२९. धर्मः सत्येन वर्धते । मनुस्मृतिः८/८३
:निःश्रेयस्करं परम् । मनुस्मृतिः, १२/८३
३१. धर्मस्य कर्त्ता भोक्ता च
:परमात्मा सनातनः । वृद्धहारीतस्मृतिः, ९/ १५८
३२. धर्महीने कुतः सुखम् । दक्षस्मृतिः,३/२३
:तमस्तरति दुस्तरम् । मनुस्मृतिः, ४/ २४२
३४. धर्मेण लब्धुमीहेत । याज्ञवल्क्यस्मृतिः, आचाराध्यायः श्लोकः ३१७
:दशकं धर्मलक्षणम् ॥ मनुस्मृतिः, ६/९२
३६. धनं तु वै सदा सर्वं
:विज्ञेयं धर्मसाधनम् । मनुस्मृतिपरिशिष्टम्, श्लोकः २५३
३७. धर्माद् विचलिता दण्ड्याः । मनुस्मृतिपरिशिष्टम्, श्लोकः ६४
३८. धर्मो वृथा यत्र न सत्यमस्ति । वृहत्पराशरस्मृतिः, ८/ ७३
:व्यवहारः प्रवर्तते । मनुस्मृतिप्रिशिष्टम् ,श्लोकः ५७
:धर्मो लोकत्रयेऽस्ति वै । मार्कण्डेयस्मृतिः,पृ.४
४१. न कामतश्चरेद् धर्मम् । वृद्धहारीतस्मृतिः, ९/२२६
४२. न धर्मः क्षुद्रमानसे । व्याघ्रपादस्मृतिः,श्लोकः ३७१
:मनोऽधर्मे निवेशयेत् । मनुस्मृतिः, ४/ १७१
४५. नायं लोकोऽस्त्ययज्ञस्य । वृद्धहारीतस्मृतिः, १०/१९
४६. न लिङ्गं धर्मकारणम् । मनुस्मृतिः, ६/६६
:पिता माता च तिष्ठतः ।
:न पुत्र दारा न ज्ञाति
:र्धर्मस्तिष्ठति केवलः ॥ मनुस्मृतिः ४/२३९
:यौ स्यातां धर्मवर्जितौ । मनुस्मृतिः, ४/१७६
:सर्वदा धर्ममाचरेत् ॥ वृद्धगौतमस्मृतिः, १२/४
५१. भूतं भव्यं भविष्यं च
:सर्वं वेदे प्रतिष्ठितम् । बृहद्योगियाज्ञवल्क्यस्मृतिः १२/४१
५२. भूतं भव्यं भविष्यं च
:सर्वं वेदात्प्रसिध्यति । मनुस्मृतिः, १२/९७
:नान्या शुद्धिर्विधीयते ॥ यमस्मृतिः, श्लोकः ३५
५४. मृतं धर्मस्तमनुगच्छति ॥ मनुस्मृतिः, ४/ २४१
:सर्वज्ञानमयो हि सः ॥ मनुस्मृतिः, २/७
तदेषां कर्मबन्धनम् । बृद्धहारीतस्मृतिः, १०/१३
तस्य भुङ्क्ते हरिः स्वयम् । वृद्धहारीतस्मृतिः, ८/८९
५९. यत्र सत्यं स धर्मः स्यात्
छलं यत्र न विद्यते । बृहत्पराशरस्मृतिः, ८/७२
स धर्मं वेद नेतरः । मनुस्मृतिः, १२/१०६
६१. यो यस्य विहितो धर्म-
स्तेन धर्मेण कारयेत् । व्याघ्रपादस्मृतिः, श्लोकः ३०
६२. यं शिष्टा ब्राह्मणा ब्रूयुः
स धर्मः स्यादशङ्कितः । वैदिकमनुस्मृतिः,११/५१
न पारक्यः स्वनुष्ठितः । मनुस्मृतिः, १०/९७
६५. विद्वान् स्वयं तु यो ब्रूयात्
स धर्मः परमो मतः ॥ व्याघ्रपादस्मृतिः, श्लोकः ३९५
६६. वेदाद् धर्मो हि निर्बभौ । मनुस्मृतिः, ५/४४
६७. वेदाः प्राणा । वृद्धहारीतस्मृतिः, ११/ १७६
६८. वेदोऽखिलो धर्ममूलम् । मनुस्मृतिः, १/१२५
६९. वेदो धर्ममूलं तद्विदाम् । गौतमस्मृतिः, प्रथमोऽद्यायः
:कारणं केवलं स्मृतम् । मार्कण्डेयस्मृतिः,पृ. ३७
:रक्षणीयं प्रयत्नतः । शंखस्मृतिः, १७/६५
: प्राप्नोतीह फलं नरः । वुद्धगौतमस्मृतिः, ८/२
७४. श्रुति स्मृति विरोधे तु
: श्रुतिरेव गरीयसी । स्मृतिचन्द्रिका, प्रथमखण्ड्ः,पृ,१६
: धर्मशास्त्रं तु वै स्मृतिः ।
: ताभ्यां धर्मो हि निर्बभौ । बृहदयोगियाज्ञवल्क्यस्मृतिः, १२/२८
:प्रेत्य चानुत्तमं सुखम् ॥ मनुस्मृतिः, १/ १२८
७७. स जीवति य एवैको
७८. सत्त्वस्य लक्षणं धर्मः । मनुस्मृतिः, १२/३८
७९. सत्यं ब्रूयात् प्रियं ब्रूयात्
:प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ मनुस्मृतिः, ४/१३८
:सत्यसन्धानमेव च । ब्रह्मोक्तयाज्ञवल्क्यसंहिता, ८/२८
:मात्मशुद्धयै द्विजातिभिः ॥ बृहत्पराशरस्मृतिः, ८/ ३३८
:यस्तु धर्मपराङ्मुखः । पराशरस्मृतिः, ४/२१
८३. स विद्वद्भिः बहिः कार्यो
:नास्तिको वेदनिन्दकः । बृहद्योगियाज्ञवल्क्यस्मृतिः, १२/२९
:वेदश्चक्षुः सनातनः । औशनसस्मृतिः, श्लोकः १४९
:कारणं प्रणवः स्मृतिः । वृद्धहारीतस्मृतिः, ६/३
:पापघ्नानि सदा नृणाम् । शंखस्मृतिः, ७/ १३
:योगधर्मं समाचरेत् । बृहद्योगियाज्ञवल्क्यस्मृतिः, ११/१
:परं धर्मं विजानते । नारदपाञ्चरात्रम्, श्लोकः ५/४
:ते यान्ति परमां गतिम् । हारीतस्मृतिः, ७/१५
:स्वधर्मं निन्दिता क्रिया । नारदपाञ्चरात्रम्, ५/८५
९२. हुतेन शाम्यते पापम् । बोधायनस्मृतिः,२/३/६९
९३. शीलवृत्तफलं श्रुतम् । वृद्धगौतमस्मृतिः,१४/४५
<DOC_END>
<DOC_START>
क्षत्रियस्य मलं भैक्ष्यं ब्राह्मणस्याश्रुतं मलम्।
मलं पृथिव्यां वाहिकाः स्त्रीणां मद्रस्त्रियो मलम्॥ कर्ण. ४५/२३॥
मानुषाणां मलं म्लेच्छा म्लेच्छानां शौण्डिका मलम्।
शौण्डिकानां मलं षण्ढाः षण्ढानां राजयाजकाः॥ कर्ण. ४५/२५॥
मलं पृथिव्या वाहिकाः स्त्रीणां कौतूहलं मलम्॥ शान्ति. ३२८/२०॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
आदिर्गुणानां सर्वेषां प्रथमः सर्व उच्यते॥ आश्व. ४०/१॥
अहंकारात् प्रसृतानि महाभूतानि पञ्च वै।
पृथिवी वायुराकाशमपो ज्योतिश्च पञ्चमम्॥ आश्व. ४०/९॥
तेषु भूतानि युज्यन्ते महाभूतेषु पञ्चसु।
ते शब्दस्पर्शरूपेषु रसगन्धक्रियासु च॥ आश्व. ४०/१०॥
सर्वप्राणभृतां धीरा महदुत्पद्यते भयम्॥ आश्व. ४०/११॥
य उत्पन्नो महान् पूर्वमहंकारः स उच्यते।
अहमित्येव सम्भूतो द्वितीयः सर्ग उच्यते॥ आश्व. ४१/१॥
तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः॥ आश्व. ४१/२॥
देवानां प्रभवो देवो मनसश्च त्रिलोककृत्।
अहमित्येव तत्सर्वमभिमन्ता स उच्यते॥ आश्व. ४१/३॥
अहंकारेणाहरतो गुणानिमान् भूतादिरेवं सृजते स भूतकृत्।
वैकारिकः सर्वमिदं विचेष्टते स्वतेजसा रञ्जयते जगत् तथा॥ आश्व. ४१/५॥
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः।
क्रियाः करणनित्याः स्युरनित्या मोहसंज्ञिताः॥ आश्व. ४२/६॥
आकाशमुत्तमं भूतमहंकारस्ततः परः॥ आश्व. ५०/५४॥
अहंकारात् परा बुद्धिर्बुद्धेरात्मा ततः परः।
तस्मात् तु परमव्यक्तमव्यक्तात् पुरुषः परः॥ आश्व. ५०/५५॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
गुरूणां चैव सर्वेषां माता परमको गुरुः॥ आदि. १९५/१६॥
दुष्करं कुरुते माता विवर्धयति या प्रजाः॥ वन. २०५/१७॥
लभन्ते मातरो गर्भान् मासान् दशच विभ्रति॥ शान्ति. ७/१४॥
मातापित्रोर्गुरूणां च पूजा बहुमता मम।
इह युक्तो नरो लोकान् यशश्च महदश्नुते॥ शान्ति. १०८/३॥
यच्च तेऽभ्यनुजानीयुः कर्म तात सुपूजिताः।
धर्माधर्मविरुद्धं वा तत् कर्तव्यं युधिष्ठिर॥ शान्ति. १०८/४॥
यं च तेऽभ्यनुजानीयुः स धर्म इति निश्चयः॥ शान्ति. १०८/५॥
एत एव त्रयो लोका एत एवाश्रमस्त्रयः।
एत एव त्रयो वेदा एत एव त्रयोऽग्नयः॥ शान्ति. १०८/६॥
नैतानतिशयेज्जातु नात्यश्नीयान्न दूषयेत्॥ शान्ति. १०८/१०॥
पितॄन् दश तु मातैका सर्वा वा पृथिवीमपि॥ शान्ति. १०८/१७॥
अवध्या हि सदा माता पिता चाप्यपकारिणौ॥ शान्ति. १०८/२०॥
न संदुष्यन्ति तत् कृत्वा न च ते दूषयन्ति तम्।
धर्माय यतमानानां विदुर्देवा महर्षिभिः॥ शान्ति. १०८/२१॥
स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत्॥ शान्ति. २६६/१२॥
यो ह्ययं मयि संघातो मर्त्यत्वे पाञ्चभौतिकः।
अस्य मे जननी हेतुः पावकस्य यथारणिः॥ शान्ति. २६६/२५॥
माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृत्तिः।
मातृलाभे सनाथत्वमनाथत्वं विपर्यये॥ शान्ति. २६६/२६॥
न च शोचति नाप्येनं स्थाविर्यमपकर्षति।
श्रिया हीनोऽपि यो गेहमम्बेति प्रतिपद्यते॥ शान्ति. २६६/२७॥
अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत्॥ शान्ति. २६६/२८॥
समर्थं वासमर्थं वा कृशं वाप्यकृशं तथा।
रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः॥ शान्ति. २६६/२९॥
तदा स वृद्धो भवति तदा भवति दुःखितः।
तदा शून्यं जगत् तस्य यदा मात्रा वियुज्यते॥ शान्ति. २६६/३०॥
नास्ति मातृसमा छाया नास्ति मातृसमा गतिः।
नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रिया॥ शान्ति. २६६/३१॥
अङ्गानां वर्धनादम्बा वीरसूत्वेन बीरसूः॥ शान्ति. २६६/३२॥
माता जानाति यद्गोत्रं माता जानाति यस्य सः।
मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः॥ शान्ति. २६६/३५॥
दशाचार्यानुपाध्याय उपाध्यायान् पिता दश॥ अनु. १०५/१४॥
दश चैव पितॄन् माता सर्वां वा पृथिवीमपि।
गौरवेणाभिभवति नास्ति मातृसमो गुरुः॥ अनु. १०५/१५॥
माता गरीयसी यच्च तेनैतां मन्यते जनः॥ अनु. १०५/१६॥
ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ॥ अनु. १०५/१९॥
भ्रातुर्भार्या च तद्वत् स्याद् यस्या बाल्ये स्तनं पिबेत्॥ अनु. १०५/२०॥
मातामही च धात्री च सर्वास्ता मातरः स्मृताः॥ अनु. १४५ दा. पा.॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
अयः पिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्॥ वन. २/२५॥
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च।
शोकहर्षौ तथाऽऽयासः सर्वं स्नेहात् प्रवर्तते॥ वन. २/२८॥
विप्रयोगे न तु त्यागी दोषदर्शी समागमे।
विरागं भजते जन्तु र्निवैरो निरवग्रहः॥ वन. २/३१॥
तस्मात् स्नेहं न लिप्सेत मित्रेभ्यो धनसंचयात्।
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत्॥ वन. २/३२॥
इच्छा संजायते तस्य ततस्तृष्णा विवर्धते॥ वन. २/३४॥
संतापाद् भ्रश्यते रूपं संतापाद् भ्रश्यते बलम्।
संतापाद् भ्रश्यते ज्ञानं संतापाद् व्याधि मृच्छति॥ उद्योग. ३६/४४॥
अनवाप्यं च शोकेन शरीरं चोपतप्यते।
अमित्राश्च प्रहृष्यन्ति मास्म शोके मनः कृथाः॥ उद्योग. ३६/४५॥
शीतोष्णे चैव वायुश्च गुणा राजन् शरीरजाः।
तेषां गुणानां साम्यं चेत् तदाहुः स्वस्थलक्षणम्॥ आश्व. १२/३॥
सत्त्वं रजस्तमश्चेति त्रय आत्मगुणाः स्मृताः॥ आश्व. १२/४॥
तेषां गुणानां साम्यं चेत् तदाहुः स्वस्थलक्षणम्।
यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः।
आत्मनैकेन योद्धव्यं तत् ते युद्धमुपस्थितम्॥ आश्व. १२/१४॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
सौहृदं ये त्वया ह्यासीत् पूर्वं सामर्थ्यबन्धनम्॥ आदि. १३०/६॥
न सख्यमजरं लोके हृदि तिष्ठति कस्यचित्।
कालो ह्येनं विहरति क्रोधो वैनं हरत्युत॥ आदि. १३०/७॥
न दरिद्रो वसुमतो नाविद्वान् विदुषः सखा।
ययोरेव समं वित्तं ययोरेव समं श्रुतम्।
तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः॥ आदि. १३०/१९॥
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा।
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते॥ आदि. १३०/११; ७१॥
साम्याद्धि सख्यं भवति वैषम्यान्नोपपद्यते॥ आदि. १३०/६७॥
सतां साप्तपदं मैत्रमाहुः सन्तः कुलोचिताः॥ वन. २६०/३५॥
सौहृदात् सर्वभूतानां विश्वासो नाम जायते॥ वन. २९७/४३॥
सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः।
आतुरस्य भिषङ् मित्रं दानं मित्रं मरिष्यतः॥ वन. ३१३/६४॥
बहुमित्रकरः सुखं वसते॥ वन. ३१३/११३॥
न तन्मित्रं यस्य कोपाद् बिभेति यद् व मित्रं शंकितेनोपचर्यम्।
यस्मिन् मित्रे पितरीवाश्वसीत तद्वै मित्रं संगतानीतराणि॥ उद्योग. ३६/३७॥
स एव बन्धुस्तन्मित्रं सा गतिस्तत् परायणम्॥ उद्योग. ३६/३८॥
मात्या परीक्ष्य मेधावी बुद्ध्या सम्पाद्य चासकृत्।
श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञै र्मैत्रीं समाचरेत्॥ उद्योग. ३९/४१॥
मित्रवन्तं सुवाक्यं च सुहृदं परिपालयेत्॥ उद्योग. ३९/४५॥
ययोश्चित्तेन वा चित्तं निभृतं निभृतेन वा।
समेति प्रज्ञया प्रज्ञा तयो र्मैत्री न जीर्यते॥ उद्योग. ३९/४७॥
विवर्जयीत मेधावी तस्मिन् मैत्री प्रणश्यति॥ उद्योग. २९/४८॥
तथैवापेत धर्मेषु न मैत्रीमाचरेद् बुधः॥ उद्योग. ३९/४९॥
जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते॥ उद्योग. ३९/५०॥
व्यसने क्लिश्यमानं हि यो मित्रं नाभिपद्यते।
अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः॥ उद्योग. ९३/१०॥
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते।
सर्वयत्नेन माध्यस्थं न तन्मित्रं विदुर्बुधाः॥ उद्योग. ९३/१५॥
दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत्।
तिष्ठते हि सुहृद् यत्र न बन्धुस्तत्र तिष्ठते॥ उद्योग. १०६/५॥
भग्ने सैन्ये यः समेयात् स मित्रम्॥ द्रोण. २/१९॥
यौनात् सम्बन्धकाल्लोके विशिष्टं संगतं सताम्।
सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः॥ द्रोण. ४/१३॥
आपद्नतं कश्चन यो विमोक्षेत् स बान्धवः स्नेहयुक्तः सुहृच्च॥ कर्ण. ६८/२४॥
वदन्ति मित्रं सहजं विचक्षणास्तथैव साम्ना च धनेन चार्जितम्।
प्रतापतश्चोपनतं चतुर्विधं तदस्ति सर्वं तव पाण्डवेषु॥ कर्ण. ८८/२८॥
यस्तु वृद्ध्या न तृप्येत क्षये दीनतरो भवेत्।
दुःखेन श्लिष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते।
भिन्ना श्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते॥ शान्ति.१११/८५॥
न कश्चित् कस्सचिन्मित्रं न कश्चित् कस्यचिद् रिपुः।
अर्थतस्तु निबद्ध्यन्ते मित्राणि रिपवस्तथा॥ शान्ति.१३८/११०॥
अर्थैरर्था निबद्ध्यन्ते गजैर्वनगजा इव। शान्ति.१३८/१११॥
कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति।
न स मित्राणि लभते कृच्छ्रास्वापत्सु द्रुर्मतिः॥ शान्ति.१३८/१२८॥
शत्रुरूपा हि सुहृदो मित्ररूपाश्च शत्रवः।
संधितास्ते न बुद्ध्यन्ते कामक्रोधवशं गताः॥ शान्ति.१३८/१३८॥
यो यस्मिन् जीवति स्वार्थं पश्येत् पीडां न जीवति।
स तस्य मित्रं तावत् स्याद् यावन्न स्याद् विपर्ययः॥ शान्ति.१३८/१४०॥
मित्रं हि शत्रुतामेति कस्मिंश्चित् कालपर्यये।
शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः॥ शान्ति.१३८/१४२॥
कालेन रिपुणा सन्धिः काले मित्रेण विग्रहः॥ शान्ति.१३८/२८७॥
न कृतस्य न कर्तुश्च सख्यं संधीयते पुनः।
हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च॥ शान्ति.१३९/३६॥
न हि तत्र धनं स्फीतं न च सम्बन्धिबान्धवाः।
तिष्ठन्ति यत्र सुहृदस्तिष्ठन्ति मतिर्मम॥ शान्ति.१६८/३॥
महत् पापं ब्रह्महत्या समं तत्॥ आश्व. १०/६॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
अयं वर्गः बोधायनस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्॥ शान्ति. ८४/३॥
यो हि नाभाषते किंचित् सर्वदा भ्रुकुटीमुखः।
द्वेष्यो भवति भूतानां सान्त्वमिह नाचरन्॥ शान्ति.८४/५॥
स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति॥ शान्ति.८४/६॥
न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम्॥ शान्ति.८४/७॥
सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च।
सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते॥ शान्ति.८४/१०॥
परितापोपघातश्च पारुष्यं चात्र गर्हितम्॥ शान्ति.१९१/१४॥
अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद् व्याहृतं तद् द्वितीयम्।
वदेद् व्याहृतं तत् तृतीयं प्रियं धर्मं वदेद् व्याहृतं तच्चतुर्थम्॥ शान्ति.२९९/३८॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
अयं वर्गः हारीतस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः औशनसस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः व्याघ्रपादस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
क्षुत्पिपासादयो भावा जिता यस्येह देहिनः।
क्रोधो लोभस्तथा मोहः सत्त्ववान् मुक्त एव सः॥ शान्ति.२८८/२५॥
द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः।
न प्रमाद्यति सम्मोहात् सततं मुक्त एव सः॥ शान्ति.२८८/२६॥
आत्मभावं तथा स्त्रीषु मुक्तमेव पुनः पुनः।
यः पश्यति सदा युक्तो यथावन्मुक्त एव सः॥ शान्ति.२८८/२८॥
सम्भवं च विनाशं च भूतानां चेष्टितं तथा।
यस्तत्त्वतो विजानाति लोकेऽस्मिन् मुक्त एव सः॥ शान्ति.२८८/२९॥
प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु।
प्रासादे मञ्चकं स्थानं यः पश्यति स मुच्यते॥ शान्ति.२८८/३०॥
अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते॥ शान्ति.२८८/३१॥
यः पश्यति स संतुष्टो न पश्यंश्च विहन्यते।
यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन् मुक्त एव सः॥ शान्ति.२८८/३२॥
न च संस्पृष्यते भावैरद्भुतैर्मुक्त एव सः॥ शान्ति.२८८/३३॥
पर्यङ्कशय्या भूमिश्च समाने यस्य देहिनः।
शालयश्च कदन्नं च यस्य स्यान्मुक्त एव सः॥ शान्ति.२८८/३४॥
क्षौमं च कुशचीरं च कौशेयं वल्कलानि च।
आविकं चर्म च समं यस्य स्यान्मुक्त एव सः॥ शान्ति.२८८/३५॥
तथा च वर्तते दृष्ट्वा लोकेऽस्मिन् मुक्त एव सः॥ शान्ति.२८८/३६॥
सुखदुःखे समे यस्य लाभालाभौ जयाजयौ।
इच्छद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः॥ शान्ति.२८८/३७॥
शरीरं दोषबहुलं दृष्ट्वा चैव विमुच्यते॥ शान्ति.२८८/३८॥
कुब्जभावं च जरया यः पश्यति स मुच्यते॥ शान्ति.२८८/३९॥
बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते॥ शान्ति.२८८/४०॥
लोकादस्मात् परं लोकं यः पश्यति स मुच्यते॥ शान्ति.२८८/४१॥
ये गताः पृथिवीं त्यक्तत्वा इति ज्ञात्वा विमुच्यते॥ शान्ति.२८८/४३॥
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते॥ शान्ति.२८८/४३॥
अपत्यानां च वैगुण्यं जनं विगुणमेव च।
पश्यन् भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत्॥ शान्ति.२८८/४४॥
शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः।
असारमिव मानुष्यं सर्वथा मुक्त एव सः॥ शान्ति.२८८/४५॥
असज्जमानः शान्तात्मा निर्विकारः समाहितः॥ शान्ति.३२९/१५॥
आत्मभूतैरतद्भूतः सह चैव विनैव च।
स विमुक्तः परं श्रेयो नचिरेणाधितिष्ठति॥ शान्ति.३२९/१६॥
यस्य भूतैः सह मुने स श्रेयो विन्दते परम्॥ शान्ति.३२९/१७॥
विद्या कर्म च शौचं च ज्ञानं च बहुविस्तरम्।
हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम्।
उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः॥ शान्ति.३५१/११॥
पूर्वं पूर्वं परित्यज्य स तीर्णो बन्धनाद् भवेत्॥ आश्व. १९/१॥
सर्वमित्रः सर्वसहः शमे रक्तो जितेन्द्रियः।
व्यपेतभयमन्युश्च आत्मवान् मुच्यते नरः॥ आश्व. १९/२॥
अमानी निरभीमानः सर्वतो मुक्त एव सः॥ आश्व. १९/३॥
जीवितं मरणं चोभे सुखदुःखे तथैव च।
लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते॥ आश्व. १९/४॥
न कस्यचित् स्पृहयते नावजानाति किंचन।
निर्द्वन्द्वो वीतरागात्मा सर्वथा मुक्त एव सः॥ आश्व. १९/५॥
त्यक्तधर्मार्थकामश्च निराकाङ्क्षी च मुच्यते॥ आश्व. १९/६॥
धातुक्षयप्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते॥ आश्व. १९/७॥
अश्वत्थसदृशं नित्यं जन्ममृत्युजरायुतम्॥ आश्व. १९/८॥
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव॥ आश्व. १९/९॥
अरूपमनभिज्ञेयं दृष्ट्वाऽऽत्मानं विमुच्यते॥ आश्व. १९/१०॥
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते॥ आश्व. १९/११॥
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः॥ आश्व. १९/१२॥
ज्ञानं त्वेवं परं विद्मः संन्यासं तप उत्तमम्।
यस्तु वेद निराबाधं ज्ञानतत्त्वं विनिश्चयात्।
सर्वभूतस्थमात्मानं स सर्वगतिरिष्यते॥ आश्व. ३५/१६॥
यो न कामयते किञ्चिन्न किंचिद्भिमन्यते।
इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते॥ आश्व. ३५/१८॥
सर्वभूतसुहृन्मित्रो ब्रह्मभूयाय कल्पते॥ आश्व. ४२/४७॥
यदा पश्यति भूतानि प्रसन्नात्माऽऽत्मनो हृदि।
स्वयंज्योतिस्तदा सूक्ष्मात् सूक्ष्मं प्राप्नोत्यनुत्तमम्॥ आश्व. ४२/५०॥
यो विद्वान् सहवासं च विवासं चैव पश्यति। आश्व. ३५/१७॥
तथैवैकत्वनानात्वे स दुःखात् प्रतिमुच्यते॥ आश्व. ४७/७॥
यो न कामयते किंचिन्न किंचिदवमन्यते।
इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते॥ आश्व. ४७/८॥
निर्ममो निरहंकारो मुच्यते नात्र संशयः॥ आश्व. ४७/९॥
हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम्।
उभे सत्यानृते हित्वा मुच्यते नात्र संशयः॥ आश्व. ४७/११॥
निर्ममो निरहंकारो मुच्यते नात्र संशयः॥ आश्व. ४५/१५॥
उच्छ्वासामात्रमपि चेद् योऽन्तकाले समो भवेत्।
आत्मानमुपसङ्गम्य सोऽमृतत्वाय कल्पते॥ आश्व. ४८/२॥
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम्॥ आश्व. ४८/३॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
यः सौहृदे पुरुषं स्थापयित्वा पश्चादेनं दूषयते स बालः॥ सभा. ६४/१३॥
ध्रुवं न रोचेद् भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः॥ सभा. ६४/१४॥
शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे चेतराय च।
न वै वृद्धो बालमतिर्भवेद् राजन् कथंचन॥ सभा. ७५/७॥
असन्तोषपरा मूढा सन्तोषं यान्ति पण्डिताः॥ वन. २/४५॥
मूर्खान् सर्वत्र वर्जयेत्॥ वन. १५०/४५॥
मृदुं वै मन्यते पापो भाषमाणमशक्तिकम्।
जितमर्थं विजानीयादबुधो मार्दवे सति॥ उद्योग. ४/६॥
धनाभिजात वृद्धांश्च नित्यं मूढोऽवमन्यते॥ उद्योग. ३८/३४॥
अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा॥ उद्योग. ३८/३५॥
वृद्धानपृष्ट्वा सन्देहं महच्छ्वभ्रमिवार्हति॥ कर्ण. ६९/५३॥
शास्त्रदृष्टानविद्वान् यः समतीत्य जिघांसति। सौत्पिक. ६/२०॥
स पथः प्रच्युतो धर्मात् कुपथे प्रतिहन्यते। सौत्पिक. ६/२१॥
दह्यमानो मनस्तापं भजते न स पण्डितः॥ स्त्री. १/३९॥
कुस्त्री खादति मांसानि माघमां सेगवा इव॥ शान्ति. १३९/८९॥
गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे।
इत्येवमवसीदन्ति नरा बुद्धिविपर्यये॥ शान्ति. १३९/९०॥
प्रमाणमप्रमाणं वै यः कुर्यादबुधो जनः।
न स प्रमाणतामर्हो विवादजननो हि सः॥ अनु. १६२/२५॥
सहस्रेणापि दुर्मेधा न बुद्धिमधिगच्छति॥ आश्व. ५०/१७॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
न स्म मृत्युं वयं विद्म रात्रौ वा यदि वा दिवा।
न चापि कंचिदमरमयुद्धेनानुशुश्रुम॥ सभा. १७/२॥
न व्याधयो नापि यमः प्राप्तुं श्रेयं प्रतीक्षते।
यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत्॥ सभा. ५६/१०॥
सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत्॥ वन. ३५/३॥
शरीरिणां हि मरणं शरीरे नित्यमाश्रितम्॥ वन. ३५/६॥
न मृतो जयते शत्रूञ्जीवन् भद्राणि पश्यति॥ वन. २५२/३९॥
अन्यो धनं प्रेतगतस्य भूङ्क्ते वयांसि चाग्निश्च शरीरधातून्।
द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः॥ उद्योग. ४०/१६॥
उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः।
अपुष्पानफलान् वृक्षान् यथा तात पतत्रिणः॥ उद्योग. ४०/१७॥
अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतम्।
तस्मात् तु पुरुषो यत्नाद् धर्मं संचिनुयाच्छनैः॥ उद्योग. ४०/१८॥
उभे सत्ये क्षत्रियैतस्य विद्धि मोहान्मृत्युः सम्मतोऽयं कवीनाम्।
प्रमादं वै मृत्युरहं ब्रवीमि तथाप्रमादममृतत्वं ब्रवीमि॥ उद्योग. ४२/४॥
प्रमादाद् वै असुराः पराभवन्न प्रमादाद् ब्रह्मभूताः सुराश्च।
नैव मृत्युर्व्याघ्र इवात्ति जन्तून् न ह्यस्य रूपमुपलभ्यते हि॥ उद्योग. ४२/५॥
पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम्॥ उद्योग. ४२/६॥
अस्यादेशान्निसरते नराणां क्रोधः प्रमादः लोभरूपश्च मृत्युः।
अहंगतेनैव चरन् विमार्गान् च चात्मनो योगमुपैति कश्चित्॥ उद्योग. ४२/७॥
ते मोहितास्तद्वशे वर्तमाना इतः प्रेतास्तत्र पुनः पतन्ति।
ततस्तान् देवा अनुविप्लवन्ते अतो मृत्युर्मरणाख्यामुपैति॥ उद्योग. ४२/८॥
नैनं मृत्युरिवात्ति भूत्वा एवं विद्वान् यो विनिहन्ति कामान्॥ उद्योग. ४२/१२॥
न चास्त्रेण न शौर्येण तपसा मेधया न च।
न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद् विमुच्यते॥ भीष्म. १४/६०॥
न क्रियाभिर्न चास्त्रेण मृत्योः कश्चिन्निवार्यते॥ द्रोणा. ११/४५॥
पक्वानां हि वधे सूत वज्रायन्ते तृणान्युत॥ द्रोण. ११/४८॥
देवदानवगन्धर्वान् मृत्युर्हरति भारत॥ द्रोण. ५२/११॥
लोभः क्रोधोऽभ्यसूयेर्ष्या द्रोहो मोहश्च देहिनाम्॥ द्रोण. ५४/३८॥
अह्नीश्चान्योन्यपरुषा देहं भिन्द्युः पृथग्विधाः॥ द्रोण. ५४/३९॥
सर्वे देवाः प्राणिभिः प्रायणान्ते गत्वा वृत्ताः संनिवृत्तास्तथैव॥ द्रोण. ५४/४६॥
न नूनं देहभेदोऽस्ति काले राजननागते॥ द्रोण. १८७/४२॥
प्राज्ञस्य मूढस्य च जीवितान्ते नास्ति प्रमोक्षोऽन्तकसत्कृतस्य॥ कर्ण. ३७/२५॥
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथंचन॥ शल्य. ६५/१६॥
विनाशः सर्वभूतानां कालपर्यायमागतः॥ शल्य. ६५/२३॥
दुर्मरं पुनरप्राप्ते काले भवति केनचित्॥ स्त्री. २०/२४॥
नौषधानि न मन्त्राश्च न होमा न पुनर्जपाः।
त्रायन्ते मृत्युनोपेतं जरया चापि मानवम्॥ शान्ति. २८/३५॥
सर्वः कालवशं याति शुभाशुभसमन्वितः॥ शान्ति. १५३/४३॥
सर्वानाविशते मृत्युरेवंभूतमिदं जगत्॥ शान्ति. १५३/४५॥
तपसापि हि संयुक्ता धनवन्तो महाधियः।
सर्वे मृत्युवशं यान्ति तदिदं प्रेतपत्तनम्॥ शान्ति. १५३/७२॥
अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे॥ शान्ति. १७५/९॥
अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम्॥ शान्ति. १७५/१२॥
वृकीवोरणमासाद्य मृत्युरादाय गच्छति॥ शान्ति. १७५/१३॥
अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति॥ शान्ति. १७५/१४॥
सुप्तं व्याघ्रो मृगमिव मृत्युरादाय गच्छति॥ शान्ति. १७५/१८॥
व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति॥ शान्ति. १७५/१९॥
एवमीहासुखासक्तं कृतान्तः कुरुते वशे॥ शान्ति. १७५/२०॥
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति॥ शान्ति. १७५/२१॥
मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम्।
अनुषक्तं यदा देहे किं स्वस्थ्य इव तिष्ठसि॥ शान्ति. १७५/२३॥
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः॥ शान्ति. १७५/२४॥
अहोरात्राः पतन्तीमे तच्च कस्मान्न बुध्यसे॥ शान्ति. २७७/९॥
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा॥ शान्ति. २७७/११॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्।
न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम्॥ शान्ति. २७७/१३॥
दुर्बलं बलवन्तं च प्राज्ञं शूरं जडं कविम्। शान्ति. १७५/२२॥
अप्राप्तसर्वकामार्थं मृत्युरादाय गच्छति॥ शान्ति. २७७/२२॥
न मृत्युसेनामायान्तीं जातु कश्चित् प्रबाधते।
बलात् सत्यमृते त्वेकं सत्ये ह्यमृतमाश्रितम्॥ शान्ति. २७७/२५॥
सत्यकामः समो दान्तः सत्येनैवान्तकं जयेत्॥ शान्ति. २७७/२९॥
मृत्युरापद्यते मोहात् सत्येनापद्यतेऽमृतम्॥ शान्ति. २७७/३०॥
न मातृपुत्रबान्धवा न संस्तुतः प्रियो जनः।
अनुव्रजन्ति संकटे व्रजन्तमेकपातिनम्॥ शान्ति. ३२१/५०॥
यदेव कर्म केवलं पुरा कृतं शुभाशुभम्।
तदेव पुत्र सार्थिकं भवत्यमुत्र गच्छतः॥ शान्ति. ३२१/५१॥
न तस्य देहसंक्षये भवन्ति कार्यसाधकाः॥ शान्ति. ३२१/५२॥
न साक्षि आत्मा समो नृणामिहास्ति कश्चन॥ शान्ति. ३२१/५३॥
किं ते धनेन किं बन्धुभिस्ते किं ते पुत्रैः पुत्रक यो मरिष्यसि।
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताश्च सर्वे॥ शान्ति. ३२१/७२॥
अनुगम्य विनाशान्ते निवर्तन्ते ह बान्धवाः।
अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा॥ शान्ति. ३२१/७४॥
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम्।
तथाऽऽत्मानं समादध्याद् भ्रश्यते न पुनर्यथा॥ शान्ति. ३२१/८०॥
अनागतान्यतीतानि कस्य ते कस्य वा वयम्॥ शान्ति. ३२१/८५॥
अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित्।
नतं पश्यामि यस्याहं तन्न पश्यामि यो मम॥ शान्ति. ३२१/८६॥
न तेषां भवता कार्यं न कार्यं तव तैरपि।
स्वकृतैस्तानि यातानि भवांश्चैव गमिष्यति॥ शान्ति. ३२१/८७॥
युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम्। शान्ति. २७७/१५॥
फलानामिव पक्वानां सदा हि पतनाद् भयम्॥ अनु. १४५ दा. पा. XIV॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्वे चापराह्विकम्।
कोऽपि तद् वेद यत्रासौ मृत्युना नाभिवीक्षितः॥ अनु. १४५ दा. पा. XIV॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
अनादिनिधनो ह्यात्मा तं बुद्ध्वा विचरेन्नरः।
अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः॥ शान्ति. २४९/५॥
अनित्यं सुखमासीत अशोचंश्छिन्न संशयः॥ शान्ति. २४९/६॥
एवं बुद्ध्वा नरः सर्वं भूतानामागतिं गतिम्।
समवेक्ष्य च वैषम्यं लभते शममुत्तमम्॥ शान्ति. २४९/९॥
एतद् वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः।
आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम्॥ शान्ति. २४९/१०॥
तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते॥ शान्ति. २५०/४॥
तानि सर्वाणि संधाय मनः षष्ठानि मेधया।
आत्मतृप्त इवासीत बहुचिन्त्यमचिन्तयन्॥ शान्ति. २५०/५॥
गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि।
तदा त्वमात्मनाऽऽत्मानं परं द्रक्ष्यसि शाश्वतम्॥ शान्ति. २५०/६॥
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः॥ शान्ति. २५०/७॥
दृष्ट्वा त्वमात्मनाऽऽत्मानं निरात्मा भव सर्ववित्॥ शान्ति. २५०/१०॥
परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः॥ शान्ति. २५०/११॥
करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सा मता।
एवं धर्माभ्युपायेषु नान्यधर्मेषु कारणम्॥ शान्ति. २७४/३॥
सत्त्वसंसेवनाद् धीरो निद्रां च च्छेत्तुमर्हति॥ शान्ति. २७४/५॥
इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत्॥ शान्ति. २७४/६॥
निद्रां च प्रतिभां चैव ज्ञानाभ्पासेन तत्त्ववित्॥ शान्ति. २७४/७॥
लोभः मोहं च सन्तोषाद् विषयांस्तत्वदर्शनात्॥ शान्ति. २७४/८॥
आयत्या च जयेदाशामर्थं संगविवर्जनात्॥ शान्ति. २७४/९॥
अनित्यत्वेन च स्नेहं क्षुधां योगेन पण्डितः।
कारुण्येनात्मनो मानं तृष्णां च परितोषतः॥ शान्ति. २७४/१०॥
उत्थानेन जयेत् तन्द्रीं वितर्कं निश्चयाज्जयेत्।
मौनेन बहुभाष्यं च शौर्येण भयं त्यजेत्॥ शान्ति. २७४/११॥
यच्छेद् वाङ्मनसी बुद्ध्या तां यच्छेञ्ज्ञानचक्षुषा।
योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः॥ शान्ति. २७४/१३॥
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्।
परित्यज्य निषेवेत यतवाग् योगसाधनान्॥ शान्ति. २७४/१४॥
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा।
शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः॥ शान्ति. २७४/१५॥
सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते॥ शान्ति. २७४/१६॥
धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः।
कामक्रोधौ वशे कृत्वा निनीषेद् ब्राह्मणः पदम्॥ शान्ति. २७४/१७॥
एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः।
तथा वाक्कायमनसां नियमः कामतोऽन्यथा॥ शान्ति. २७४/१९॥
प्राप्नोति परमं स्थानं यत् परं प्रकृतेर्ध्रुवम्॥ शान्ति. २७८/२॥
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत्॥ शान्ति. २७८/३॥
न चक्षुषा न मनसा न वाचा दूषयेदपि।
न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत् क्वचित्॥ शान्ति. २७८/४॥
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्॥ शान्ति. २७८/५॥
क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत्॥ शान्ति. २७८/६॥
अभिपूजितलाभं हि जुगुप्सेतैव तादृशः॥ शान्ति. २७८/११॥
न चान्नदोषान् निन्देत न गुणानभिपूजयेत्।
शय्यासने विविक्ते च नित्यमेवाभिपूजयेत्॥ शान्ति. २७८/१२॥
अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत्॥ शान्ति. २७८/१३॥
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणा॥ शान्ति. २७८/१४॥
विभीर्जप्यपरो मौनी वैराग्यं समुपाश्रितः॥ शान्ति. २७८/१५॥
अभ्यस्तं भौतिकं पश्यन् भूतानामागतिं गतिम्।
निःस्पृहः समदर्शी च पक्वापक्वेन वर्तयन्।
आत्मना यः प्रशान्तात्मा लघ्वाहारो जितेन्द्रियः॥ शान्ति. २७८/१६॥
एतान् वेगान् विषहेद् वै तपस्वी निन्दा चास्य हृदयं नोपहन्यात्॥ शान्ति. २७८/१७॥
मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः।
एतत् पवित्रं परमं परिव्राजक आश्रमे॥ शान्ति. २७८/१८॥
अपूर्वचारकः सौम्यो अनिकेतः समाहितः॥ शान्ति. २७८/१९॥
अज्ञातलिप्सं लिप्सेत न चैनं हर्ष आविशेत्॥ शान्ति. २७८/२०॥
विजानतां मोक्ष एष श्रमः स्यादविजानताम्॥ शान्ति. २७८/२१॥
वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः।
ज्ञानादेव वैराग्यं जायते येन मुच्यते॥ शान्ति. ३२०/२९॥
आकिंचन्ये न मोक्षोऽस्ति किंचन्ये नास्ति बन्धनम्।
किंचन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते॥ शान्ति. ३२०/५०॥
आशापाशविमोक्षश्च शस्यते मोक्षंकाङ्क्षिणाम्॥ अनु. १४१/८१॥
न कुट्यां नोदके सङ्गो न वाससि न चासने।
न त्रिदण्डे न शयने नाग्नौ न शरणलये॥ अनु. १४१/८२॥
युक्तो योगं प्रति सदा प्रतिसंख्यानमेव च॥ अनु. १४१/८३॥
नदी पुलिनशायी च नदीतीररतिश्च यः॥ अनु. १४१/८४॥
विमुक्तः सर्वसंगेषु स्नेहबन्धेषु च द्विजः।
आत्मन्येवात्मनो भावं समासज्जेत वै द्विजः॥ अनु. १४१/८५॥
परिव्रजेति यो युक्तस्तस्य धर्मः सनातनः॥ अनु. १४१/८६॥
न चैकत्र समासक्तो न चैकग्रामगोचरः।
मुक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः॥ अनु. १४१/८७॥
द्वयक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्। आश्व. ५१/२९॥
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम्॥ आश्व. १३/३॥
अदृश्यमानौ भूतानि योधयेतामसंशयम्॥ आश्व. १३/४॥
लब्ध्वा हि पृथ्वीं कृत्स्नां सह स्थावरजङ्गमाम्।
ममत्वं यस्य नैव स्यात् किं तया स करिष्यति॥ आश्व. १३/६॥
अथवा वसतः पार्थ वने वन्येन जीवतः।
ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते॥ आश्व. १३/७॥
कामात्मानं न प्रशंसन्ति लोके नेहाकामा काचिदस्ति प्रवृत्तिः।
सर्वे कामा मनसोऽङ्गभूता यान् पण्डितः संहरते विचिन्त्य॥ आश्व. १३/९॥
भूयो भूयो जन्मनोऽभ्यासयोगाद् योगी योगं सारमार्गं विचिन्त्य।
दानं च वेदाध्ययनं तपश्च काम्यानि कर्माणि च वैदिकानि॥ आश्व. १३/१०॥
व्रतं यज्ञान् नियमान् ध्यानयोगान् कामेन यो नारभते विदित्वा।
यद् यच्चायं कामयते स धर्मो न यो धर्मो नियमस्तस्य मूलम्॥ आश्व. १३/११॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
तूष्णीं धारयते लोकान् वसुधा सचराचरान्॥ विराट. ५०/३॥
मौने ज्ञानफलावाप्तिर्दानेन च यशो महत्।
वाग्मित्वं सत्यवाक्येन परत्र च महीयते॥ शान्ति. ३६/१०॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर॥ भीष्म. २७/९; गीता. ३/९॥
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्॥ भीष्म. २७/१०; गीता. ३/१०॥
देवान् भावयतानेन ते देवा भावयन्तु वः।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ॥ भीष्म. २७/११; गीता. ३/११॥
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः।
तैर्दत्तानप्रदायेभ्यो यो भुङ्क्ते स्तेन एव सः॥ भीष्म. २७/१२; गीता. ३/१२॥
भुञ्जते ते त्वघं पापाः ये पचन्त्यात्मकारणात्॥ भीष्म. २७/१२; गीता. ३/१३॥
यज्ञाद् भवन्ति पर्जन्यो यज्ञः कर्मसमुद्भवः॥
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर समुद्भवम्।
तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्॥ भीष्म. २७/१५॥
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति॥ भीष्म. २७/१६; गीता. ३/१६॥
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः॥ भीष्म. ४१/११; गीता. १७/११॥
अभिसंधाय तु फलं दम्भार्थमपि चैव यत्।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥ भीष्म. ४१/१२; गीता. १७/१२॥
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते॥ भीष्म. ४१/१३; गीता. १७/१३॥
न हि यज्ञसमं किञ्चित् त्रिषु लोकेषु विद्यते॥ शान्ति. ६०/४५॥
नैव कन्या न युवतिर्नामन्त्रज्ञो न बालिशः॥ शान्ति. १६५/२१॥
हुतेन शाम्यते पापं स्वाध्यायैः शान्तिरुत्तमा।
दानेन भोगानित्याहुस्तपसा स्वर्गमाप्नुयात्॥ शान्ति. १९१/२॥
आज्येन पयसा दध्ना शकृताऽऽभिक्षया त्वचा।
बालैः श्रृङ्गेण पादेन सम्भवत्येव गौर्मखम्॥ शान्ति. २६८/२८॥
ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च।
अनुयज्ञं जगत् सर्वं यज्ञश्चानुजगत् सदा॥ शान्ति. २६८/३४॥
नायं लोकिऽस्त्ययज्ञानां परश्चेति विनिश्चयः॥ शान्ति. २६८/४०॥
बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः।
अजसंज्ञानि बीजानि च्छागं नो हन्तुमर्हथ॥ शान्ति. ३३७/४॥
नैष धर्मः सतां देवा यत्र वध्येत वै पशुः।
इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः॥ शान्ति. ३३७/५॥
इदं तु सकलं द्रव्यं दिवि वा भुवि वा प्रिये।
यज्ञार्थं विद्धि तत् सृष्टं लोकानां हितकाम्यया॥ अनु. १४५ दा. पा. XI॥
शुद्धैर्द्रव्योपकरणैर्यष्टव्यमिति निश्चयः॥ अनु. १४५ दा. पा. XI॥
देवाः संतोषिता यज्ञैर्लोकान् संवर्धयन्त्युत॥ अनु. १४५ दा. पा. XI॥
नास्ति यज्ञसमं दानं नास्ति यज्ञसमो निधिः।
सर्वधर्मसमुद्देशो देवि यज्ञे समाहितः॥ अनु. १४५ दा. पा. XI॥
प्रयतन्ते महात्मानस्तस्माद् यज्ञः परायणम्॥ आश्व. ३/६॥
ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन्॥ आश्व. ३/७॥
तपो दमश्च सत्यं च प्रदानं चेति सम्मितम्॥ आश्व. ९०/१२०॥
यज्ञे सक्ता नृपतयस्तपः सक्ता महर्षयः।
शान्तिव्यवस्थिता विप्राः शमे दम इति प्रभो॥ आश्व. ९१/१॥
न हि यज्ञे पशुगणा विधिदृष्टा पुरंदर॥ आश्व. ९१/१३॥
नायं धर्मकृतो यज्ञो न हिंसा धर्म उच्यते॥ आश्व. ९१/१४॥
तर्पणं ॠभुयज्ञः स्यात् स्वाध्यायो ब्रह्मयज्ञकः।
यस्माद् वै त्रायते दुःखाद् यजमानं हुतोऽनलः।
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
नष्टकीर्तेमनुष्यस्य जीवितं ह्यफलं स्मृतम्॥ आदि. २०२/१०॥
युक्तं हि यशसा युक्तं मरणं लोकसम्मतम्॥ वन. ३००/२८॥
कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति॥ वन. ३००/३१॥
कीर्तिर्हि पुरुषं लोके संजीवयति मातृवत्।
अकीर्तिर्जीवितं हन्ति जीवतोऽपि शरीरिणः॥ वन. ३००/३२॥
कीर्तिरायु नरस्य ह॥ वन. ३००/३३॥
पुरुषस्य परे लोके कीर्तिरेव परायणम्।
इह लोके विशुद्धा च कीर्तिरायुर्विवर्द्धनी॥ वन. ३००/३४॥
कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत्॥ वन. ३०१/१३॥
धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप॥ शल्य. ३२/१६॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
काष्ठा निमेषा दश पञ्चचैव त्रिंशस्तु काष्ठा गणयेत् कलां ताम्।
त्रिंशत्कलश्चापि भवेन्मुहूर्तो भागः कलाया दशमश्च यः स्यात्॥ शा. २३१/१२॥
त्रिंशन्मुहूर्त्तं तु भवेदहश्च रात्रिश्च संख्या मुनिभिः प्रणीता।
मासः स्मृतो रात्र्यहनी च त्रिंशत् संवत्सरो द्वादश मास उक्तः॥ शा. २३१/१३॥
संवत्सरं द्वे त्वयने वदन्ति संख्याविदो दक्षिणमुत्तरं च॥ शा. २३१/१४॥
अहोरात्रे विभजते सूर्यो मानुष लौकिके।
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः॥ शा. २३१/१५॥
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः।
शुक्लोऽहः कर्मचेष्टायां कृष्णः स्वप्नाय शर्वरी॥ शा. २३१/१६॥
दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः।
अहस्तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम्॥ शा. २३१/१७॥
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्।
तस्य तावच्छती संध्या संध्यांशश्च तथाविधः॥ शा. २३१/२०॥
एक पादेन ह्रीयन्ते सहस्राणि शतानि च॥ शा. २३१/२१॥
चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे।
नाधर्मेणागमः कश्चित् परस्तस्य प्रवर्तते॥ शा. २३१/२३॥
कृते त्रेतायुगे त्वेषां पादशो ह्रसते वयः॥ शा. २३१/२५॥
तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम्।
द्वापरे यज्ञमेबाहुर्दानमेकं कलौ युगे॥ शा. २३१/२८॥
एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः।
सहस्रपरिवर्तं तत् ब्राह्मं दिवसमुच्यते॥ शा. २३१/२९॥
त्रेतायां द्वापरे चैव कलिजाश्च ससंशयाः।
तपस्विनः प्रशान्ताश्च सत्त्वस्थाश्च कृते युगे॥ शा. २३८/७॥
अपृथग्दर्शनाः सर्वे ॠक्सामसु यजःषु च।
कामद्वेषौ पृथक् कृत्वा तपः कृत उपासते॥ शा. २३८/८॥
त्रेतादौ केवला वेदा यज्ञा वर्णाश्रमास्तथा।
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे॥ शा. २३८/१४॥
द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा।
दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः किल॥ शा. २३८/१५॥
गवां भूमेश्च ये चापामोषधीनां च ये रसाः॥ शा. २३८/१६॥
विक्रियन्ते स्वधर्मस्थाः स्थावराणि चराणि च॥ शा. २३८/१७॥
यथा सर्वाणि भूतानि वृष्टिर्भौमानि वर्षति।
सृजते सर्वतोऽङ्गानि तथा वेदा युगे युगे॥ शा. २३८/१८॥
पादोनेनापि धर्मेण गच्छेत् त्रेतायुगे तथा।
द्वापरे तु द्विपादेन पादेन त्वधरे युगे॥ शा. २६७/३३॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
सम्प्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ।
अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम्॥ विराट. ५२/१३॥
युद्धेऽनयो भविता नेह सोऽर्थः॥ उद्योग. २/१४॥
सर्वक्षयो दृश्यते यत्र कृत्स्नः पापोदयो निरयोऽभावसंस्थः।
कस्तत् कुर्याज्जातु कर्म प्रजानन् पराजयो यत्र समो जयश्च॥ उद्योग. २५/७॥
युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम्॥ उद्योग. ५३/१४॥
नैकान्तसिद्धिर्वक्तव्या शत्रुभिः सह संयुगेः। उद्योग. ७७/१३॥
न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम्।
न चापि विजयो नित्यं मा युद्धे चेत् आधिथाः॥ उद्योग. १२९/४०॥
युद्धमेकायनं मत्वा पतोल्मुक इवारिषु॥ उद्योग. १३४/२९॥
न वधः पूज्यते वेदे हितं नैव कथंचन॥ भीष्म. ३/५४॥
जघन्य एष विजयो यो युद्धेन विशाम्यते॥ भीष्म. ३/८१॥
महादोषः संनिपातस्तस्याद्यः क्षय उच्यते॥ भीष्म. ३/८२॥
न बाहुल्येन सेनाया जयो भवति नित्यशः।
अध्रुवो हि जयो नाम दैवं चात्र परायणम्।
जयवन्तो हि संग्रामे कृतकृत्या भवन्ति हि॥ भीष्म. ३/८५॥
संहतान् योधयेदल्पान् कामं विस्तारयेद् बहून्॥ भीष्म. १९/४॥
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह॥ भीष्म. १९/५॥
कोऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये॥ द्रोण. १२२/१३॥
पराजयो वा मृत्युर्वा श्रेयान् मृत्युर्न निर्जयः॥ द्रोण. २००/२९॥
यदाशूरं च भीरुं च मारयत्यन्तकः सदा।
को नु मूढो न युध्येत पुरुषः क्षत्रियो ध्रुवम्॥ शल्य. १९/६२॥
सुखः सांग्रामिको मृत्युः क्षत्रधर्मेन युध्यताम्॥ शल्य. १९/६३॥
भेतव्यमरिशेषाणामेकायनगता हि ते॥ शल्य. ५८/१५॥
हतोऽपि लभते स्वर्गं हत्वा च लभते यशः।
उभयं नो बहुगुणं नास्ति निष्फलता रणे॥ स्त्री. २/१४॥
स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः॥ स्त्री. २/१५॥
न युद्धादधिकम् किंचित् क्षत्रियस्येह विद्यते॥ स्त्री. २/१८॥
संनिपातो न मन्तव्यः शक्ये सति कथंचन।
विषयो व्यथते राजन् सर्वः सस्थाणुजङ्गमः।
अस्य प्रताप तप्तानां मज्जा सीदति देहिनाम्॥ शान्ति. १०२/२५॥
बालैरासेवितं ह्येतद् यद्मर्षो यदक्षमा॥ शान्ति. १०३/७॥
न सन्निपातः कर्त्तव्यः सामान्ये विजये सति॥ शान्ति. १०३/१३॥
एकः प्राप्नोति विजयमेकश्चैव पराजयम्॥ शान्ति. २२७/२४॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
न मे वागनृतं प्राह नाधर्मे धीयते मतिः॥ आदि. १९४/३०, १९५/१३॥
यस्मिन् धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः।
नित्यानि पाण्डवे ज्येष्ठे स जीयेत रणे कथम्॥ आदि. २०४/१९॥
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम्।
मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत्॥ सभा. १६/२॥
अद्विषन्तं कथं द्विष्यात् त्वादृशो भरतर्षभ॥ सभा. ५४/२॥
आहूतोऽहं न निवर्ते कदाचित् तदाहितं शाश्वतं वै व्रतं मे॥ सभा. ५८/१६॥
निकृत्या कामये नाहं सुखान्युत धनानि वा॥ सभा. ५९/१३॥
आनृशंस्यमनुक्रोशो धृतिः शीलं दमः शमः।
पाण्डवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम्॥ सभा. ७९/३१ दा. पा.॥
न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः॥ सभा. ८०/१०॥
सत्येन धर्मेण यथार्हवृत्त्या ह्रिया तथा सर्वभूतान्यतीत्य।
यशश्च तेजश्च तवापि दीप्तं विभावसोर्भास्करस्येव पार्थ॥ वन. २५/१७॥
मम प्रतिज्ञां च निबोध सत्यां वृणे धर्मममृताज्जीविताच्च॥ वन. ३४/२२॥
अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात्॥ वन. ३३/७७॥
अनृतं नोत्सहे वक्तुं न ह्येतन्मम विद्यते॥ वन. ५२/३८॥
वासवः स्मरते यस्य को नामाभ्यधिकस्ततः॥ वन. ९२/१४-१५॥
स्वाभ्यां भुजाभ्यामर्जितां तु भूमिं नेच्छेत् कुरूणामृषभः कथंचित्॥ वन. १२०/२३॥
न ह्येष कामान्न भयान्न लोभाद् युधिष्ठिरो जातु जह्यात् स्वधर्मम्॥ वन. १२०/२४॥
सत्यं तु मे रक्ष्यतमं न राज्यम्॥ वन. १२०/२७॥
सत्यार्जवाभ्यां चरता स्वधर्मं जितस्त्वयायं च परश्च लोकः॥ वन. १८३/१६॥
कामान्न किंचित् कुरुषे नरेन्द्र न चार्थलोभात् प्रजहासि धर्मम्॥ वन. १८३/१८॥
दानं च सत्यं च तपश्च राजन् श्रद्धा च बुद्धिश्च क्षमा धृतिश्च।
अवाप्य राष्ट्राणि वसूनि भोगानेषा परा पार्थ सदा रतिस्ते॥ वन. १८३/१९॥
भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर।
प्रसक्तानि च वैराणि कुलधर्मो न नश्यति॥ वन. २४३/२॥
परैः परिभवे प्राप्ते वयं पञ्चोत्तरं शतम्।
परस्पर विरोधे तु वयं पञ्च शतं तु ते॥ वन. २४३/४॥
अधर्मयुक्तं न च कामयेत राज्यं सुराणामपि धर्मराजः॥ उद्योग. १/१४॥
धर्मार्थयुक्तं महीपतित्वं ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत्॥ उद्योग. १/१५॥
क्षमा दमश्च सत्यं च अहिंसा च युधिष्ठिर।
अद्भुतश्च पुनर्लोकस्त्वयि राजन् प्रतिष्ठितः॥ उद्योग. ८/३५॥
धर्मास्ते विदिता राजन् बहवो लोकसाक्षिकाः॥ उद्योग. ८/३६॥
महातपा ब्रह्मचर्येण युक्तः संकल्पोऽयं मानसस्तस्य सिद्ध्येत्॥ उद्योग. २२/३५॥
उद्भासते ह्यञ्जनबिन्दुवत् तच्छुभ्रे वस्त्रे यद् भवेत् किल्विषं वः॥ उद्योग. २५/६॥
युधिष्ठिरो धर्ममयो महादुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः।
माद्रीपुत्रौ पुष्पफले समृद्धे मूलं त्वहं ब्रह्म च ब्राह्मणाश्च॥ उद्योग. २९/५३॥
परो धर्मात् पाण्डवस्यानृशंस्यं धर्मः परो वित्तचयान्मतोऽस्य।
सुखप्रिये धर्महीनेऽनपायेर्थेऽनुरुध्यते भारत तस्य बुद्धिः॥ उद्योग. ३२/१२॥
युधिष्ठिरो धृतिमति सत्यसत्त्वान्॥ द्रोण. २/१६॥
कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते॥ उद्योग. ९०/१८॥
स सत्यसंधः स तथाप्रमत्तः शास्त्रे स्थितो बन्धुजनस्य साधुः।
प्रियः प्रजानां सुहृदानुकम्पी जितेन्द्रियः साधुजनस्य भर्ता॥ उद्योग. १४९/३३॥
क्षमा तितिक्षा दम आर्जवं च सत्यव्रतत्वं श्रुतमप्रमादः।
भूतानुकम्पा ह्यनुशासनं च युधिष्ठिरे राजगुणाः समस्ताः॥ उद्योग. १४९/३४॥
नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः॥ द्रोण. १५८/३६॥
धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः॥ द्रोण. १५८/३७॥
धर्मस्यांश प्रसूतोऽसि धर्मिष्ठोऽसि स्वभावतः॥ शान्ति. १९८/२॥
धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि।
सत्यं धर्मो मतिश्चाग्य्रा स्थितिश्च सततं स्थिरा॥ आश्व. १५/२४॥
दीर्घदर्शी मृदुर्दान्तः सदा वैश्रवणो यथा॥ आश्रमवास. १०/४२॥
आनृशंस्या हि मे मतिः॥ महाप्रस्थान. ३/८॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥ भीष्म. २६/४८, गीता.२/४८॥
योगः कर्मसु कौशलम्॥ भीष्म. २६/५०, गीता.२/५०॥
एकं सांख्यं च योगं च यः पश्यति स पश्यति॥ भीष्म. २९/५, गीता.५/५॥
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः॥ भीष्म. २९/१९, गीता.५/१९॥
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥ भीष्म. ३३/२२, गीता.९/२२॥
तं पूर्वापररात्रेषु युञ्जानः सततं बुधः।
लघ्वाहारो विशुद्धात्मा पश्यत्यामानमात्मनि॥ शान्ति. १८७/२९॥
तस्मात् समाहितं बुद्ध्या मनो भूतेषु धारयेत्।
नापध्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत्॥ शान्ति. २१५/८॥
वाचामोघप्रयासेन मनोज्ञं तत् प्रवर्तते॥ शान्ति. २१५/९॥
मनो बुद्ध्या निगृह्नीयाद् विषयान्मनसाऽऽत्मनः॥ शान्ति. २१५/१८॥
आहारनियमं चैव देशे काले च सात्त्विकम्।
तत् परीक्ष्यानुवर्तेत तत्प्रवृत्त्यनुपूर्वकम्॥ शान्ति. २१५/२३॥
ज्ञानान्वितं तथा ज्ञानमर्कवत् सम्प्रकाशते॥ शान्ति. २१५/२४॥
प्रत्याहारेण वा शक्यमक्षरं ब्रह्म वेदितुम्॥ शान्ति. २१६/२०॥
यच्छेद् वाङ्मनसी बुद्ध्या य इच्छेज्ज्ञानमुत्तमम्॥ शान्ति. २३६/४॥
ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः॥ शान्ति. २३६/५॥
शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः॥ शान्ति. २३६/१७॥
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः॥ शान्ति. २४०/२॥
योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः॥ शान्ति. २४०/४॥
कामं क्रोधं च लोभं च भयं स्पप्नं च पञ्चमम्।
क्रोधं शमेन जयति कामं संकल्पवर्जनात्॥ शान्ति. २४०/५॥
धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा॥ शान्ति. २४०/६॥
चक्षुः श्रोत्रे च मनसा मनोवाचं च कर्मणा।
अप्रमादाद् भयं जह्याद् दम्भं प्राज्ञोपसेवनात्॥ शान्ति. २४०/७॥
वर्जयेदुशतीं वाचं हिंसायुक्तां मनोनुदाम्॥ शान्ति. २४०/९॥
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा॥ शान्ति. २४०/१०॥
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति॥ शान्ति. २४०/११॥
धूतपाम्पा तु तेजस्वी लघ्वाहरो जितेन्द्रियः।
कामक्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम्॥ शान्ति. २४०/१३॥
पूर्वरात्रापरार्धं च धारयेन्मन आत्मनि॥ शान्ति. २४०/१४॥
ततोऽस्य स्रवते प्रज्ञा दृतेः पादादिवोदकम्॥ शान्ति. २४०/१५॥
ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित्॥ शान्ति. २४०/१६॥
तत एतानि संयम्य मनसि स्थापयेद् यतिः।
तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत्॥ शान्ति. २४०/१७॥
विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान्॥ शान्ति. २४०/१९॥
प्रमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने।
अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः॥ शान्ति. २४०/२३॥
तांस्तत्वविदनादृत्य आत्मन्येव निवर्तयेत्॥ शान्ति. २४०/२४॥
येनोपायेन शक्येत संनियन्तुं चलं मनः।
तं च युक्तो निषेवेत न चैव विचलेत् ततः॥ शान्ति. २४०/२७॥
नाभिष्वजेत् परं वाचा कर्मणा मनसापि वा।
उपेक्षको यताहारो लब्धालब्धे समो भवेत्॥ शान्ति. २४०/२९॥
अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणि।
तावप्येतेन मार्गेण गच्छेतां परमां गतिम्॥ शान्ति. २४०/३४॥
निरापद्धर्म आचारो ह्यप्रमादोऽपराभवः॥ शान्ति. २६९/३६॥
प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः॥ शान्ति. २६९/४०॥
तथाद्या प्रकृतिर्योगादभिसंश्रियते सदा॥ शान्ति. २९८/३४॥
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम्।
योगाच्छित्त्वा ततो दोषान् पञ्चैतान् प्राप्नुवन्ति तत्॥ शान्ति. ३००/११॥
अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः।
युक्तः सम्यक् तथा योगी मोक्षं प्राप्नोत्यसंशयम्॥ शान्ति. ३००/३१॥
धारणासु तु योगस्य दुःस्थेयमकृतात्मभिः॥ शान्ति. ३००/५४॥
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते।
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम्॥ शान्ति. ३०१/५५॥
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात्।
सत्त्वसंसेवनान्निद्रामप्रमादाद् भयं तथा॥ शान्ति. ३०१/५६॥
छिन्दति पञ्चमं श्वासमल्पहारतया नृप॥ शान्ति. ३०१/५७॥
इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन।
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः॥ शान्ति. ३०१/८८॥
ज्योतिरात्मनि नान्यत्र सर्वजन्तुषु तत् समम्।
स्वयं च शक्यते द्रष्टुं सुसमाहितचेतसा॥ शान्ति. ३२६/३२॥
त्यक्त्वा कामं च मोहं च तदा ब्रह्मत्वमश्नुते॥ शान्ति. ३२६/३५॥
यदा श्राव्ये च दृश्ये च सर्वभूतेषु चाप्ययम्।
समो भवति निर्द्वन्द्वो ब्रह्म सम्पद्यते तदा॥ शान्ति. ३२६/३६॥
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः।
तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा॥ शान्ति. ३२६/३९॥
तमः परिगतं वेश्च यथा दीपेन दृश्यते।
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम्॥ शान्ति. ३२६/४०॥
न चायुक्तेन शक्योऽयं द्रष्टुं देहे महेश्वरः।
युक्तस्तु पश्यते बुद्ध्या संनिवेश्य मनो हृदि॥ अनु. ९६ दा. पा.॥
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत्।
तीव्रं तप्त्वा तपः पूर्वं मोक्षयोगं समाचरेत्॥ आश्व. १९/१७॥
यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति।
तथा रूपमिवात्मानं साधु युक्तः प्रपश्यति॥ आश्व. १९/२१॥
इषीकां च यथा मुञ्जात् कश्चिन्निष्कृष्य दर्शयेत्।
योगी निष्कृष्य चात्मानं तथा पश्यति देहतः॥ आश्व. १९/२२॥
विनिवृत्य जरां मृत्युं न शोचति न हृष्यति॥ आश्व. १९/२५॥
न विचाल्यति युक्तात्मा निःस्पृहः शान्तमानसः॥ आश्व. १९/२८॥
विनिवृत्तजरादुःखः सुखं स्वपिति चापि सः॥ आश्व. १९/३०॥
तदैव न स्पृहयते साक्षादपि शतक्रतोः॥ आश्व. १९/३२॥
समानव्यानयो र्मध्ये प्राणापानौ विचेरतुः॥ आश्व. २०/१५॥
तस्मिंल्लीने प्रलीयेत समानो व्यान एव च।
अपान प्राणयोर्मध्ये उदानो व्याप्य तिष्ठति।
तस्माच्छयानं पुरुषं प्राणापानौ च मुञ्चतः॥ आश्व. २०/१६॥
अग्निर्वैश्वानरो मध्ये सप्तधा दीव्यतेऽन्तरा॥ आश्व. २०/१७॥
घ्राणं जिह्वा च चक्षुश्च त्वक् च श्रोत्रं च पञ्चमम्।
मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः॥ आश्व. २०/१९॥
घ्रेयं दृश्यं च पेयं च स्पृश्यं श्रव्यं तथैव च।
मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम॥ आश्व. २०/२०॥
योगान्नास्ति परं सुखम्॥ आश्व. ३०/३१॥
यच्चित्तं तन्मयो वश्यं गुह्यमेतत् सनातनम्॥ आश्व. ५१/२७॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
दयावान् सर्वभूतेषु हितो रक्तोऽनसूयकः॥ वन. १९१/२३॥
सत्यवादी मृदुर्दान्तः प्रजानां रक्षणे रतः।
चर धर्मं त्यजाधर्मं पितॄन् देवांश्च पूजय॥ वन. १९१/२४॥
अलं ते मानमाश्रित्य सततं परवान् भव॥ वन. १९१/२५॥
क्षमया क्रूरकर्माणमसाधुं साधुना जयेत्॥ वन. १९४/६॥
नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः॥ वन. २४९/३९॥
तूष्णीं त्वेनमुपासीत काले समभिपूजयेत्॥ विराट. ४/१६॥
नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कदाचन।
अन्तःपुर चरा ये च द्वेष्टि यानहिताश्च ये॥ विराट. ४/१८॥
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि।
एवं विचरतो राज्ञो न क्षतिर्जायते क्वचित्॥ विराट. ४/१९॥
न हि पुत्रं न नप्तारं न भ्रातरमरिंदमाः।
समतिक्रान्तमर्यादं पूजयन्ति नराधिपाः॥ विराट. ४/२१॥
अनृतेनोपचीर्णो हि हन्यादेव न संशयः॥ विराट. ४/२२॥
यद् यद् भर्तानुयुञ्जीत तत् तदेवानुवर्तयेत्।
प्रमादमवलेपं च कोपं च परिवर्जयेत्॥ विराट. ४/२३॥
शूरोऽस्मि न दृप्तःस्याद् बुद्धिमानिति वा पुनः।
प्रियमेवाचरन् राज्ञः प्रियो भवति भोगवान्॥ विराट. ४/३२॥
न चोष्ठौ न भुजौ जानू न च वाक्यं समाक्षिपेत्।
सदा वातं च वाचं च ष्ठीवनं चाचरैच्छनैः॥ विराट. ४/३५॥
न निर्वदति राजानं लभते सम्पदं पुनः॥ विराट. ४/४०॥
समवेषं न कुर्वीत नोच्चै संनिहितो वसेत्।
न मन्त्रं बहुधा कुर्यादेवं राज्ञः प्रियो भवेत्॥ विराट. ४/४८॥
न कर्माणि नियुक्तःसन् धनं किञ्चिदपि स्पृशेत्।
प्राप्नोति हि हरन् द्रव्यं बन्धनं यदि वा वधम्॥ विराट. ४/४९॥
ब्राह्मणस्यैव धर्मः स्यान्न राज्ञो राजसत्तम॥ शान्ति. १४/१५॥
असतां प्रतिषेधश्च सतां च परिपालनम्।
एष राज्ञां परो धर्मः समरे चापलायनम्॥ शान्ति. १४/१६॥
यस्मिन् क्षमा च क्रोधश्च दानादाने भयाभये।
निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते॥ शान्ति. १४/१७॥
राज्यं हि सुमहत् तन्त्रं धार्यते नाकृतात्मभिः।
न शक्यं मृदुना वोढुमायासस्थानमुत्तमम्॥ शान्ति. ५८/२१॥
राज्यं सर्वामिषं नित्यमार्जवेनेह धार्यते॥ शान्ति. ५८/२२॥
सर्वे धर्माः सोपधर्मास्त्रयाणां राज्ञो धर्मादिति वेदाच्छृणोमि॥ शान्ति. ६३/२४॥
यथा राजन् हस्तिपदे पदानि संलीयन्ते सर्वसत्त्वोद्भवानि।
एवं धर्मान् राजधर्मेषु सर्वान् सर्वावस्थान् सम्प्रलीनान् निबोध॥ शान्ति. ६३/२५॥
अल्पाश्रयानल्पफलान् वदन्ति धर्मानन्यान् धर्मविदो मनुष्याः।
महाश्रयं बहुकल्याणरूपं क्षात्रं धर्मं नेतरं प्राहुरार्याः॥ शान्ति. ६३/२६॥
सर्वे धर्मा राजधर्मप्रधानाः सर्वे वर्णाः पाल्यमाना भवन्ति।
सर्वस्त्यागो राजधर्मेषु राजंस्त्यागं धर्मं चाहुरग्य्रं पुराणम्॥ शान्ति. ६३/२७॥
मज्जेत् त्रयी दण्डनीतौ हतायां सर्वे धर्माः प्रक्षयेयुर्विबुद्धाः।
सर्वे धर्माश्चाश्रमाणां हताः स्युः क्षात्रे त्यक्ते राजधर्मे पुराणे॥ शान्ति. ६३/२८॥
सर्वे त्यागा राजधर्मेषु दुष्टाः सर्वा दीक्षा राजाधर्मेषु चोक्ताः।
सर्वा विद्या राजधर्मेषु युक्ताः सर्वे लोका राजधर्मे प्रविष्टाः॥ शान्ति. ६३/२९॥
सम्प्रमुह्यन्ति भूतानि राजदौरात्म्यतोऽनघ॥ शान्ति. ६५/२४॥
त्यागवाताध्वगा शीघ्रा नौस्तं संतारयिष्यति॥ शान्ति. ६६/३७॥
अगतीकगतिर्ह्येषा पापा राजोपसेविनाम्॥ शान्ति. ८२/२४॥
अग्निं दीप्तमिवासीदेद् राजानमुपशिक्षितः॥ शान्ति. ८२/२८॥
दुरासिताद् दुर्व्रजितादिङ्गितादङ्ग चेष्टितात्॥ शान्ति. ८२/३०॥
देवतेव सर्वार्थान् कुर्याद् राजा प्रसादितः।
वैश्वानर इव क्रुद्ध समूलमपि निर्दहेत्॥ शान्ति. ८२/३१॥
अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते।
राजदुर्गावतरणे नोपायं पण्डिता विदुः॥ शान्ति. ८२/४१॥
राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते।
स्वामिनं त्वनुवर्तन्ते वृत्त्यर्थमिह मन्त्रिणः॥ शान्ति. ८३/५१॥
यदा राजा शास्ति नरानशिष्टां स्तदा राज्यं वर्धते भूमिपस्य॥ शान्ति. ९१/२८॥
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते॥ शान्ति. ९१/३१॥
त्रायते हि यदा सर्वं वाचा कायेन कर्मणा।
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते॥ शान्ति. ९१/३२॥
पापमाचरतो यत्र कर्मणा व्याहृतेन च।
प्रियस्यापि न मृष्येत स राज्ञो धर्म उच्यते॥ शान्ति. ९१/३५॥
यदा शारणिकान् राजा पुत्रवत् परिरक्षति।
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते॥ शान्ति. ९१/३६॥
हर्षं संजनयन् नृणां स राज्ञो धर्म उच्यते॥ शान्ति. ९१/३८॥
सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते॥ शान्ति. ९१/३९॥
सत्यं पालयति प्रित्या नित्यं भूमिं प्रयच्छति।
पूजयेदतिथीन् भृत्यान् स राज्ञो धर्म उच्यते॥ शान्ति. ९१/४०॥
संग्रहः सर्वभूतानां दानं च मधुरं वचः।
पौरजानपदाश्चैव गोप्तव्यास्ते यथासुखम्॥ शान्ति. ९१/४७॥
हृतं कृपणवित्तं हि राष्ट्रं हन्ति नृपश्रियम्।
दद्याच्च महतो भोगान् क्षुद्भयं प्रणुदेत् सताम्॥ अनुशासन. ६१/२६॥
यानि स्वादूनि भोज्यानि समवेक्ष्यन्ति बालकाः।
नाश्नन्ति विधिवत् तानि किं नु पापतरं ततः॥ अनुशासन. ६१/२७॥
धिक् तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति।
द्विजोऽन्यो वा मनुष्योऽपि शिविराह वचो यथा॥ अनु. ६१/२७॥
क्रोशन्त्यो यस्य वै राष्ट्रादिध्रयन्ते तरसा स्त्रियः।
क्रोशतां पतिपुत्राणां मृतोऽसौ न च जीवति॥ अनुशासन. ६१/३१॥
तं वै राजकलिं हन्युः प्रजाः सन्नह्य निर्घृणम्॥ अनुशासन. ६१/३२॥
राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम्॥ अनुशासन. ६२/४०॥
क्षुणुयास्ते च यद् ब्रूय्रुः कुर्याश्चैवाविचारयन्॥ आश्रमवास. ५/१०॥
इन्द्रियाणि च सर्वाणि वाजिवत् परिपालय।
हितायैव भविष्यन्ति रक्षितं द्रविणं यथा॥ आश्रमवास. ५/१३॥
चक्रवत् तात कार्याणां पर्यायो दृश्यते सदा।
कोशस्य निचये यत्नं कुर्वीथा न्यायतः सदा॥ आश्रमवास. ५/३६॥
दुर्बलाश्चैव सततं नान्वेष्टव्या बलीयसा॥ आश्रमवास. ६/१७॥
प्रेत्य चेह च कर्तव्यमात्मनिः श्रेयसं परम्॥ आश्रमवास. ७/१८॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
अच्छिद्रश्छिद्रदर्शी स्यात् परेषां विवरानुगः॥ आदि. १३९/६॥
वधमेव प्रशंसन्ति शत्रूणामपकारिणाम्॥ आदि. १३९/१०॥
नावज्ञेयो रिपुस्तात दुर्बलोऽपि कथंचन॥ आदि. १३९/११॥
वहेदमित्रं स्कन्धेन यावत् कालस्य पर्ययः॥ आदि. १३९/२१॥
भयेन भेदयेद् भीरुं शूरमञ्जलिकर्मणा॥ आदि. १३९/५०॥
लुब्धमर्थप्रदानेन समं न्यूनं तथौजसा॥ आदि. १३९/५१॥
पुत्रः सखा वा भ्राता व पिता वा यदि वा गुरुः।
रिपुस्थानेषु वर्तन्तो हन्तव्या भूतिमिच्छता॥ आदि. १३९/५२॥
न चाप्यन्यमपध्वंसेत् कदाचित् कोपसंयुतः॥ आदि. १३९/५५॥
विश्वासाद् भयमुत्पन्नं मूलान्यपि निकृन्तति॥ आदि. १३९/६२॥
अञ्जलिः शपथः सान्त्वं शिरसा पादवन्दनम्।
आशाकरणमित्येवं कर्तव्यं भूतिमिच्छता॥ आदि. १३९/६७॥
सुपुष्पितः स्यादफलः फलवान् स्याद् दुरारुहः।
आमः स्यात् पक्वसंकाशो न च जीर्येत् कर्हिचित्॥ आदि. १३९/६८॥
अवेक्षितार्थः शुद्धात्मा मन्त्रयीत द्विजैः सह॥ आदि. १३९/७१॥
न संशयमनारुह्य नरो भद्राणि पश्यति।
संशयं पुनरारुह्य यदि जीवति पश्यति॥ आदि. १३९/७३॥
योऽरिणा सह संधाय शयीत कृतकृत्यवत्।
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते॥ आदि. १३९/७५॥
तस्मात् सर्वाणि साध्यानि सावशेषाणि कारयेत्॥ आदि. १३९/७९॥
नास्य कृत्यानि बुध्येरन् मित्राणि रिपवस्तथा।
आरब्धान्येव पश्येरन् सुपर्यवसितान्यपि॥ आदि. १३९/८१॥
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत्॥ आदि. १३९/८२॥
स मृत्युमुपगृह्णीयाद् गर्भमश्वतरी यथा॥ आदि. १३९/८३॥
अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम्।
न तु बुद्धिक्षयात् किंचिदतिक्रामेत् प्रयोजनम्॥ आदि. १३९/८४॥
तालवत् कुरुते मूलं बालः शत्रुरुपेक्षितः।
गहनेऽग्निरिवोत्सृष्टः क्षिप्रं संजायते महान्॥ आदि. १३९/८६॥
आशां कालवतीं कुर्यात् कालं विध्नेन योजयेत्।
विघ्नं निमित्ततो ब्रूयान्निमित्तं वापि हेतुतः॥ आदि. १३९/८८॥
तस्माद् राज्ञाप्रमत्तेन स्वार्थश्चिन्त्यः सदैव हि॥ सभा. ५५/६॥
प्रच्छन्नो वा प्रकाशो वा योगो योऽरिं प्रबाधते।
तद् वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम्॥ सभा. ५५/९॥
शत्रुश्चैव हि मित्रं च न लेख्यं न च मातृका।
योवै संतापयति यं स शत्रुः प्रोच्यते नृप॥ सभा. ५५/१०॥
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्॥ सभा. ५५/१४॥
राज्ञां हि चित्तानि परिप्लुतानि सान्त्वं दत्वा मुसलैर्घातयन्ति॥ सभा. ६४/१२॥
क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः क्षमां कुर्वन् कालमुपासते यः।
संवर्धयन् स्तोकमिवाग्निमात्मवान् स वै भुङ्क्ते पृथिवीमेक एव॥ वन. ५/१९॥
सत्यं श्रेष्ठं पाण्डव विप्रलापं तुल्यं चान्नं सह भोज्यं सहायैः।
आत्मा चैषामग्रतो न स्म पूज्य एवं वृत्ति र्वर्धते भूमिपालः॥ वन. ५/२१॥
मृदुना दारुणं हन्ति मृदुना हन्त्यदारुणम्।
नासाध्यं मृदुना किंचित् तस्मात् तीव्रतरं मृदु॥ वन. २८/३१॥
स्त्रीषु क्लीबान् नियुञ्जीत क्रूरान् क्रूरेषु कर्मसु॥ वन. १५०/४६॥
मन्त्रभेदस्य षट् प्राज्ञो द्वाराणीमानि लक्षयेत्।
अर्थसंततिकामश्च रक्षेदेतानि नित्यशः॥ उद्योग. ३९/३६॥
दुष्टामात्येषु विश्रम्भं दूताच्चाकुशलादपि॥ उद्योग. ३९/३७॥
हीयमानेन वै सन्धिः पर्येष्टव्यः समेन वा।
विग्रहो वर्धमानेन मतिरेषा बृहस्पतेः॥ शल्य. ४/४३॥
न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते।
स क्षिप्रं भ्रश्यते राज्यान्न श्रेयोऽनुविन्दते॥ शल्य. ४/४५॥
परिश्रान्ते विदीर्णे वा भुञ्जाने वापि शत्रुभिः॥ सौप्तिक. १/५३॥
प्रस्थाने वा प्रवेशे वा प्रहर्तव्यं रिपोर्बलम्।
निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम्॥ सौप्तिक. १/५४॥
भिन्नयोधं बलं यच्च द्विधा युक्तं च यद् भवेत्।
सर्वं तापयते देशमपि राज्ञः समृद्धिनः॥ शान्ति. ५८/१८॥
यथार्हप्रतिपूजा च शस्त्रमेतदनायसम्॥ सौप्तिक. ८१/२१॥
न जातु बलवान् भूत्वा दुर्बले विश्वसेत् क्वचित्।
भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः॥ शान्ति. ९३/३७॥
बलिना विग्रहो राजन् न कदाचित् प्रशस्यते।
बलिना विग्रहो यस्य कुतो राज्यं कुतः सुखम्॥ शान्ति. १३९/१११॥
आपदास्पदकाले तु कुर्वीत न विचारयेत्॥ शान्ति. १४०/१२॥
प्राप्तकालं तु विज्ञाय भिन्द्याद् घटमिवाश्मनि॥ शान्ति. १४०/१८॥
कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः।
नटस्य भक्ति मित्रस्य यच्छ्रेयस्तत् समाचरेत्॥ शान्ति. १४०/२१॥
नात्मछिद्रं रिपुर्विद्याद् विद्याच्छिद्रं परस्य तु।
गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरमात्मनः॥ शान्ति. १४०/२४॥
वृकवच्चावलुम्पेत शरवच्च विनिष्पतेत्॥ शान्ति. १४०/२५॥
कुर्यात् तृणमयं चापं शयीत मृगशायिकाम्।
अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत्॥ शान्ति. १४०/२६॥
देशकालव्यतीतो हि विक्रमो निष्फलो भवेत्॥ शान्ति. १४०/२८॥
दण्डेनोपनतं शत्रुं यो राजा न नियच्छति।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा॥ शान्ति. १४०/३०॥
आशां कालवतीं कुर्यात् तां च विघ्नेन योजयेत्।
विघ्नं निमित्ततो ब्रुयान्निमित्तं चापि हेतुतः॥ शान्ति. १४०/३२॥
पुनर्वृद्धिभयात् किंचिदनिवृतं निशामयेत्॥ शान्ति. १४०/३५॥
अनागतसुखाशा च नैव बुद्धिमतां नयः॥ शान्ति. १४०/३६॥
कर्मणा येन तेनैव मृदुना दारुणेन च।
उद्धरेद् दीनमात्मानं समर्थो धर्ममाचरेत्॥ शान्ति. १४०/३८॥
आत्मनश्चापि बोद्धव्याश्चारा विनिहताः परैः॥ शान्ति. १४०/३९॥
पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत्।
अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिमिच्छता॥ शान्ति. १४०/४७॥
नाच्छित्वा परमर्माणि नाकृत्वा कर्म दारुणम्।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम्॥ शान्ति. १४०/५०॥
नास्ति जात्या रिपुर्नाम मित्रं वापि न विद्यते।
सामर्थ्य योगाज्जायन्ते मित्राणि रिपवस्तथा॥ शान्ति. १४०/५१॥
अमित्रं नैव मुञ्चेत वदन्तं करुणान्यपि।
दुःखं तत्र न कर्तव्यं हन्यात् पूर्वापकारिणम्॥ शान्ति. १४०/५२॥
निग्रहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता॥ शान्ति. १४०/५३॥
लोकाराधनमित्येतत् कर्तव्यं भूतिमिच्छता॥ शान्ति. १४०/५५॥
न शुष्कवैरं कुर्वीत बाहुभ्यां न नदीं तरेत्।
दन्ताश्च परिमृज्यन्ते रसश्चापि न लभ्यते॥ शान्ति. १४०/५६॥
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न धारयेत्॥ शान्ति. १४०/५८॥
नासम्यक् कृतकारी स्याद्प्रमत्तः सदा भवेत्।
कण्टकोऽपि हि दुश्छिन्नो विकारं कुरुते चिरम्॥ शान्ति. १४०/६०॥
अनुद्विग्नः काकशङ्की भुजङ्गचरितं चरेत्॥ शान्ति. १४०/६२॥
लुब्धमर्थप्रदानेन समं तुल्येन विग्रहः॥ शान्ति. १४०/६३॥
तीक्ष्णकाले भवेत् तीक्ष्णो मृदुकाले मृदुर्भवेत्॥ शान्ति. १४०/६५॥
मृदुनैव मृदुं हन्ति मृदुना हन्ति दारुणम्।
नासाध्यं मृदुना किंचित् तस्मात् तीक्ष्णतरो मृदुः॥ शान्ति. १४०/६६॥
पण्डितेन विरुद्धः सन् दूरोऽस्मीति नाश्वासेत्।
दीर्घो बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः॥ शान्ति. १४०/६८॥
न तत् तरेद् यस्य न पारमुत्तरेन्न तद्धरेत् यत् पुनराहरेत् परः।
न तत् खनेद् यस्य न मूलमुद्धरेन्न हन्याद् यस्य शिरो न पातयेत॥ शा. १४०/६९॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
:न्मूलादग्रं प्ररोहति ॥ शंखलिखितस्मृतिः, श्लोकः २२
:मृत्युर्विप्रान् जिघांसति ॥ मनुस्मृतिः ५/४
:सर्वेषां च तपस्विनाम् । अहिर्बुध्न्यसंहिता, ३३/ ६१
४. अब्रह्मण्यं हतं क्षात्रम् । वशिष्ठस्मृतिः, १/१२
:ब्राह्मणो दैवतं महत् । मनुस्मृतिः, ९/ ३१७
६. असत्पथेन विप्रस्य गमनं हि विरुध्यते । वृहद्योगियाज्ञवल्क्यस्मृतिः, १२/४३
:प्रायश्चित्तीयते न च ॥ वृद्धगौतमस्मृतिः १४/४
९. कलिधर्म परो न स्याद्
:ब्राह्मणो वैदिकोत्तमः । लौगाक्षिस्मृतिः,पृ. ३६४
:शौचमूला द्विजातयः । बृहत्पराशरस्मृतिः, ६/२१२
:ज्ञानेनैव न चान्यतः । - मार्कण्डेयस्मृतिः, पृ. १८
१२. गावो भूमिः कलत्रं च
:तमाहुर्ब्रह्मघातकम् ॥ शंखलिखितस्मृतिः, श्लोकः २४
:अमन्त्रो ब्राह्मणस्तथा ॥ पराशरस्मृतिः, ८/२४
: संस्काराद् द्विज उच्यते । अत्रिसंहिता, श्लोकः १४०
: शुध्यन्ति मलिना जनाः । शातातपस्मृतिः, श्लोकः ३०
: विज्ञेयं ब्राह्मणो मुखम् । मनुस्मृतिः २/८१
: सूर्यो दहति रश्मिना ।
: विप्रो दहति मन्युना ॥ शंखलिखितस्मृतिः,श्लोकः ३०
: स धर्मः परमो मतः ॥ बोधायनस्मृतिः १/१/१४
:यास्यामः परमां गतिम् ॥ लौगाक्षिस्मृतिः,पृ,३६५
: र्देवरूपा हि ते द्विजाः । वृद्धगौतमस्मृतिः, ४/३९
: तपसा वापि पात्रता ।
: स्तपो विद्या समन्वितः ॥ वृद्धहारीतस्मृतिः, ४/ २२१
: दण्डो भवति कर्हिचित् । व्यवहारनिर्णयः पृ. ४९५
: नाक्षत्रं ब्रह्म वर्धते ।
: ब्रह्म क्षत्रं च सम्पृक्त-
: मिह चामुत्र वर्धते ॥ मनुस्मृतिः, ९/ ३२२
२४. नास्ति विप्रात् परं तीर्थं
: न पुण्यं ब्राह्मणात्परम् ॥ वृद्धगौतमस्मृतिः, ३/७८
: समलोष्टाश्म कांचनः । शंखस्मृतिः १४/८
: यो विप्रस्तस्य सिध्यन्ति ।
: विना यत्नैरपि क्रियाः ॥ बोधायनस्मृतिः, ४/७/१
: गवे राज्ञे ह्यचक्षुषे ।
: गर्भिण्यै दुर्बलाय च । बोधायनस्मृतिः,२/३/५७
: ब्राह्मणान् ब्रह्मवादितः ॥ मार्कण्डेयस्मृतिः, पृ. ५९ क्
२९. ब्रह्म चैव धनं येषां
: को हिंस्यात्तान् जिजीविषुः । मनुस्मृतिः, ९/ ३१६
: ॠग्यजुः सामनामकाः । लौगाक्षिस्मृतिः,पृ.३६४
: दैवे कर्मणि धर्मवित् । शंखस्मृतिः १४/१
: यस्तु प्राणान् परित्यजेत् ।
: र्गोप्ता गोब्राह्मणस्य च ॥ पराशरस्मृतिः, ८/४२
: क्षत्रियेण कदाचन । मनुस्मृतिः,११/८
: नरेषु ब्राह्मणाः स्मृताः ॥ मनुस्मृतिः, १/९६
: विज्ञेयो नान्यवर्त्मना । मार्कण्डेयस्मृतिः,पृ.६०
: संयुक्तं स्वादुतां व्रजेत् ।
: र्ब्राह्मणः पात्रतां व्रजेत् ॥ बृहद्योगियाज्ञवल्क्यस्मृतिः, ११/ २४
: यथा चर्ममयो मृगः ।
: स्त्रयस्ते नामधारकाः ॥ पराशरस्मृतिः,८/ २४
: पावको दैवतं महत् ।
: ब्राह्मणो दैवतं महत् ॥ वृद्धगौतमस्मृतिः ३/६७
: देवस्वं तद्विदुर्बुधाः । मनुस्मृतिः ११/२०
: पुनः सेवेत मैथुनम् ।
: विष्ठायां जायते कृमिः ॥ लघुशातातपस्मृतिः,श्लोकः ६०
४१. युगे युगे तु ये धर्मा-
: स्तेषु तेषु च ये द्विजाः ।
: तेषां निन्दा न कर्त्तव्या
: युगरूपा हि ते द्विजाः ॥ पराशरस्मृतिः ११/५२
: ये च केचिदनग्नयः ।
: न कुलं श्रोत्रियं येषां
: सर्वे ते शूद्रधर्मिणः ॥ लघुशातातपस्मृतिः, श्लोकः ५१
: मन्यत्र कुरुते श्रमम् ।
: माशु गच्छति सान्वयः ॥ मनुस्मृतिः, २/ १४३
: दैवतं तारणं महत् । वृद्धगौतमस्मृतिः, ७/ १३३
: दमो दानं दयाऽपि च । अत्रिसंहिता, श्लोकः ३३
: ब्राह्मणस्यैव लक्षणम् । मार्कण्डेयस्मृतिः,पृ.१४२
: पात्रभूतो द्विजोत्तमः । बृहद्यमस्मृतिः, श्लोकः ३/४२
४८. विप्राणां ज्ञानतो ज्येष्ठ्यम् - मनुस्मृतिः, २/१३०
५२. शौचमूलो द्विजः स्मृतः । दक्षस्मृतिः, ५/२
५३. श्रोत्रिया न पराधीनाः । व्यासस्मृतिः, तृतीयखण्डः,पृ. १७४
:न्मृतः श्वा चैव जायते ॥ दक्षस्मृतिः, २/२२
:कथं ते ब्राह्मणाः स्मृताः । बोधायनस्मृतिः, २/४/१९
:मुद्विजेत विषादिव । मनुस्मृतिः २/ १३७
५७. सर्वं वै ब्राह्मणोऽर्हति । मनुस्मृतिः १/१००
:वेदविद् द्विज एव हि । लघ्वाश्वलायनस्मृतिः, २२/२
:स्वं वस्ते स्वं ददाति च । मनुस्मृतिः, १/१०१
:ब्राह्मणाः सततं सदा । मार्कण्डेयस्मृतिः,पृ.२२
६१. चक्रात् तीक्ष्णतरो मन्युः । शंखलिखितस्मृतिः, श्लोकः ३१
६२. दुर्लभो ब्राह्मणोत्तमः । मार्कण्डेयस्मृतिः,पृ.१४४
६३. न विप्राः शस्त्रपाणयः । वृद्धगौतमस्मृतिः, ३/६९
६४. नास्ति विप्रात् परा गतिः । वृद्धगौतमस्मृतिः ३/७८
६५. प्राणसंकटे ब्राह्मणोऽपि शस्त्रमाददीत । गौतमस्मृतिः, सप्तमोऽध्यायः
६६. मनो दाम्यं सदा द्विजैः । बृहत्पराशरस्मृतिः, ६/२५३
६७. राजा सर्वस्येष्टे ब्राह्मणवर्जम् । गौतमस्मृतिः, अध्यायः ११
६८. वयसा लघवोऽपि स्युर्वृद्धा धर्मविदो जनाः । वृहत्पराशरस्मृतिः, ८/ ७१
<DOC_END>
<DOC_START>
एका एव रज्जुः उभयकोटिं बध्नाति चेत् ततः मोक्षः न भवति । एवम् अग्रे कूपः पृष्ठे गर्तः इति वत् यदा सर्वथा अगतिः भवति तदा तस्याः वर्णनं कर्तुम् अस्य न्यायस्य प्रयोगः क्रियते ।
:अ) यद्यपि न बोधस्तथापि विकल्पस्तावत् प्राप्नोति । न हि तुल्यार्थानां क्वचित् समुच्चयो दृष्टः । सेयमुभयतस्पाशा रज्जुः ॥ सर्वदर्शनसंग्रहे बौद्धदर्शनम् (२८२)
<DOC_END>
<DOC_START>
२. अभयस्य हि यो दाता
:स पूज्यः सततं नृपः । वैदिकमनुस्मृतिः ८/१८२
:यशोघ्नं कीर्तिनाशनम् । व्यवहारनिर्णयः,पृ. ५२६
:नरकं चैव गच्छति ॥ मनुस्मृतिः,८/१२८
:र्जानाति च ददाति च ॥ शार्ङ्गधरपद्धतिः, श्लोकः १२४२
:श्चक्षुर्भ्यामितरे जनाः ॥ शार्ङ्गधरसंहिता, श्लोकः १४४८
७. दण्ड्येषु दण्डं विदधाति भूभृत्
:साम्यं स विदधाति पुरन्दरस्य । बृहत्पराशरस्मृतिः,१२/८४
:सर्वेषां पार्थिवो गतिः ॥ शंखलिखितस्मृतिः, श्लोकः २५
:पालयेत् पृथिवीमिमाम् । वृद्धहारीतस्मृतिः, ४/२६०
१०. न राजानमराजा हन्यात् । याज्ञवल्क्यस्मृतिः, मिताक्षरा, आचाराध्यायः श्लोकः ३२६
:न च यज्ञैः पृथग्विधैः ।
:प्राप्नोति परिपालनात् ॥ शंखस्मृतिः, ५/९
:यः स्वधर्मे न तिष्ठति । वैदिकमनुस्मृतिः, ८/२०४
:दीयते नृपसत्तमैः । वृद्धहारीतस्मृतिः, ४/२१९
:पूज्यः स्याद् विगुणोऽपि सन् ॥ बृहत्पराशरस्मृतिः १२/७
:भेदमूलं यतस्त्वमी ॥ बृहत्पराशरस्मृतिः १२/३१
:राजा साहसिकं नरम् । वैदिकमनुस्मृतिः ८/२०९
:बालस्य रुदितं बलम् ॥ शंखलिखितस्मृतिः श्लोकः २८
:कायस्थैश्च विशेषतः । याज्ञवल्क्यस्मृतिः, आचाराध्यायः, श्लोकः ३३६
:न राजा श्रोत्रियात्करम् । मनुस्मृतिः ७/१३३
:मचिरेणैव सीदति ॥ मनुस्मृतिः ७/१३४
२१. यस्य मन्त्रं न जानन्ति
:कोशहीनोऽपि पार्थिवः ॥ मनुस्मृतिः ७/१४८
:धर्मस्तु विनियच्छतः ॥ मनुस्मृतिः ९/२४९
:प्रत्यादेशाय पार्थिवः ॥ मनुस्मृतिः ८/३३४
२४. राजा पिता च माता च
:राजा च परमो गुरुः ।
: राजा च सर्वभूतानां परित्राता गुरुर्मतः ॥ शंखलिखितस्मृतिः, श्लोकः २६
२५. राजा हि युगमुच्यते । वैदिकमनुस्मृतिः, ९/१३७
२६. राजा सर्वस्येष्टे ब्राह्मणवर्जम् । गौतमस्मृतिः एकादश अध्यायः
:क्षीयन्ते राष्ट्रकर्षणात् ॥ मनुस्मृतिः, ७/११२
:नृपेण विजिगीषुणा । बृहत्पराशरस्मृतिः १२/६५
:भवत्यस्य ह्यरक्षतः ॥ मनुस्मृतिः ८/३०४
३०. सन्धिं छित्त्वा तु ये चौर्यं
:तीक्ष्णे शूले निवेशयेत् ॥ मनुस्मृतिः, ९/२७६
:विपरीतांस्तु घातयेत् । याज्ञवल्क्यस्मृतिः आचाराध्यायः, श्लोकः ३३८
३२. दुष्टस्य दण्डः सुजनस्य पूजा
:न्यायेन कोषस्य च सम्प्रवृद्धिः ।
:पञ्चैव यज्ञाः कथिताः नृपाणाम् ॥ अत्रिसंहिता, श्लोकः २८
:स्तं पापं विनयेन्नृपः ॥ नारदस्मृतिः,१/६७
३४. राजा दण्डधरः स्मृतः । नारदस्मृतिः १/२
<DOC_END>
<DOC_START>
अयं वर्गः व्यवहारनिर्णयविषयकः विद्यते ।
<DOC_END>
<DOC_START>
:गीतरक्तो यथा मृगः ॥ शार्ङ्गधरपद्धतिः श्लोकः ४१८९
:ममृतत्वाय कल्पते ॥ शार्ङ्गधरपद्धतिः, श्लोकः ३१८
:कदा कस्य भविष्यति । व्यासस्मृतिः, ४/२३
५. इन्द्रियाणां जये शूरः । व्यासस्मृतिः ४/६०
:दोषमृच्छत्यसंशयम् । मनुस्मृतिः, २/ ६८
:निःस्पृहस्य तृणं जगत् ॥ शार्ङ्गधरपद्धतिः श्लोकः ३८९
:संहरणं सकलदुरितजालस्य । शार्ङ्गधरपद्धतिः श्लोकः ९२
९. एकाकी विचरेन्नित्यम् । विष्णुस्मृतिः, ४/१०
:यान्ति कः केन शोच्यते ॥ शार्ङ्गधरपद्धतिः श्लोकः ४१३७
११. एता यः प्रेक्षसे लक्ष्मी-
:दिनानि त्रीणि पंच वा ॥ शार्ङ्गधरपद्धतिः श्लोकः ४११९
१२. कः प्रार्थ्यते मदनविह्वलया युवत्या । शार्ङ्गधरपद्धतिः श्लोकः ५५५
:मृत्युं प्रियमिवातिथिम् । वृद्धगौतमस्मृतिः ८/६
:बाल्ये वास्य कुतः सुखम् ।
:र्यन्त्रितस्येव पक्षिणः ॥ ईशानशिवगुरुदेवपद्धतिः प्रथमपटलम्, योगपादः, श्लोकः ३३
१५. च्युता दन्ताः सिताः केशाः
:तृष्णा साध्वी न मुञ्चति ॥ शार्ङ्गधरपद्धतिः, श्लोकः ४२३
१७. जितेन्द्रियस्य किं शौचैः । बृहत्पराशरस्मृतिः, ६/२१८
:तृष्णैका निरुपद्रवाः ॥ ईशानशिवगुरुदेवपद्धतिः प्रथमपटलम्, योगपादः, पृ.६०९
:चात्मार्थे को न जीवति ॥ व्यासस्मृतिः ४/२१
२०. त्यागाच्छान्तिरनुत्तमा । बृहद्योगियाज्ञवल्क्यस्मृतिः, ९/१९८
:प्राप्तुं शक्यं मनीषिभिः । ईशानशिवगुरुदेवपद्धतिः योगपादः प्रथमपटलम्, पृ.६१०
:किं मुधा परिमुह्यसि ॥ श्रुतिसिद्धान्तसारसंग्रहः साधनप्रकरणं, श्लोकः ९३
:तस्मात्तृष्णां परित्यजेत् ॥ व्यासस्मृतिः स्मृतिचन्द्रिका द्वितीयखण्डः,पृ. ४५९
:प्रीयते नरकेऽपि सः । ईशानशिवगुरुदेवपद्धतिः, प्रथमपटलः योगपादम्, श्लोकः २४
:चिन्तयन्नेव तच्चरेत् ॥ पूर्वांगिरसस्मृतिः, श्लोकः ३१५
:कर्तव्यो धर्मसंग्रहः । व्यासस्मृतिः, ४/१९
२७. पतनान्ता समुच्छ्रयाः । कात्यायनस्मृतिः २२/८
:भावहीनो न कामयेत् ॥ बृहत्पराशरस्मृतिः, १२/३५२
:बलिना चिरजीविना ॥ व्यासस्मृतिः, ४/२२
३०. फलं हि मोक्षो योगस्य । ईशानशिवगुरुदेवपद्धतिः, योगपादः तृतीयपटलम्, श्लोकः ९४
:कोऽर्थवान् को दरिद्रः । शार्ङ्गधरपद्धतिः श्लोकः ३०८
३३. मरणान्तं हि जीवितम् । कात्यायनस्मृतिः, २२/८
:तां गतिं याति मानवः । बृहत्पराशरस्मृतिः, १२/३५४
:साङ्गः साध्यो विपश्चिता । ईशानशिवगुरुदेवपद्धतिः,पृ,६१०
:न वेत्ति दुःखमण्वपि ॥ ईशानशिवगुरुदेवपद्धतिः योगपादः प्रथमपटलम्, श्लोकः ४४
:स्तां तृष्णां दूरतस्त्यजेत् ॥ ईशानशिवगुरुदेवपद्धतिः योगपादः, प्रथमपटलम्,पृ,६०९
:तेषां तेषूपजायते ॥ मनुस्मृतिः, १२/७३
:प्रेत्य चेह च शाश्वतम् ॥ मनुस्मृतिः ६/ ८०
४१. यदि नाम न धर्माय
:न कामाय न कीर्तये ।
:तद्धनं किं न दीयते ॥ व्यासस्मृतिः ४/२०
४२. यद् यद् गृहे तन्मनसि
:क्व परिग्रहवतां सुखम् ॥ ईशानशिवगुरुदेवपद्धतिः योगपादः, प्रथमपटलम्, श्लोकः ४३
:हृदये शोकशङ्कवः ॥ ईशानशिवगुरुदेवपद्धतिः योगपादः प्रथमपटलम्, श्लोकः ४२
:कुतः सौख्यं शरीरिणः ॥ ईशानशिवगुरुदेवपद्धतिः प्रथमपटलम् योगपादः, श्लोकः ३४
:नैनः स्पर्शी स कर्हिचित् । बृहत्पराशरस्मृतिः, ६/९०
:सम्बन्धः कस्य केन वा । शार्ङ्गधरपद्धतिः, श्लोकः ४१२६
:एक जन्महरं विषम् ॥ श्रुतिसिद्धान्तसारसंग्रहः साधनप्रकरणं, श्लोकः १२५
:देही मोक्षं कथं व्रजेत् । ईशानशिवगुरुदेवपद्धतिः योगपादः प्रथमपटलम् ,श्लोकः ४७
:सर्वे सङ्कल्पजाः स्मृताः । मनुस्मृतिः २/३
५१. व्रणादेस्तु यथा पूय –
:तत्तुल्यं सुरते सुखम् ॥ ईशानशिवगुरुदेवपद्धतिः प्रथमपटलम् योगपादः, श्लोकः २७
५२. संयोगा विप्रयोगान्ताः । कात्यायनस्मृतिः २२/८
:किं देहस्योच्यते शुभम् । बृहत्पराशरस्मृतिः, १२/१८५
:संकटान्यवगाहते । व्यासस्मृतिः स्मृतिचन्द्रिका द्वितीयखण्ड, पृ. ४५९
५५. सर्वे क्षयान्ता निचयाः । कात्यायनस्मृतिः २२/८
:कतरत्स्यान्मनोहरम् । ईशानशिवगुरुदेवपद्धतिः, प्रथमपटलम् योगपादम्, श्लोकः २९
५७. हा कष्टं पुरुषस्य् जीर्णवयसः
:पुत्रोऽप्यमित्रायते । शार्ङ्गधरपद्धतिः, श्लोकः ४१६१
५८. हृदि सर्वं प्रतिष्ठितम् । शंखस्मृतिः, ७/१५
५९. हृदिस्था देवताः सर्वाः । शंखस्मृतिः
<DOC_END>
<DOC_START>
अयं वर्गः ईशानशिवगुरुदेवपद्धतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः श्रुतिसिद्धान्तसारसंग्रहविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः कात्यायनस्मृतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
एकदा उलूखलः मुसलं प्रति गत्वा एकम् आक्षेपं कृतवान् । ‘सर्वे जनाः मां सर्वदा मारयन्ति प्रहरन्ति एव’ इति । तत् श्रुत्वा मुसलः प्रत्युत्तरं दत्तवान् -‘त्वाम् एकस्मिन् एव पार्श्वे प्रहरन्ति मां तु सर्वे उभययोः पार्श्वयोः प्रहरन्ति’ इति । एतम् काल्पनिकं संवादम् आश्रित्य अयं न्यायः प्रवृत्तः । दुःखं सर्वेषाम् अपि भवति । सर्वोऽपि मम एव दुःखम् असह्यम् इति चिन्तयति । परन्तु अपरस्य दुःखं ततः अपि अधिकं भवेत् । सर्वस्य अपि किमपि दुःखं भवति एव ।
<DOC_END>
<DOC_START>
व्यसनाद् विषयाक्रान्तं न भजन्ति नृपं प्रजाः॥ वन. २५१/५॥
अकामात्मा समवृत्तिः प्रजासु नाधार्मिकाननुरुध्येत कामान्॥ उद्योग. २९/२७॥
यदा गृध्येत् परभूतौ नृशंसो विधिप्रकोपाद् बलमाददानः।
ततो राज्ञामभवद् युद्धमेतत् तत्र जात वर्म शस्त्रं धनुश्च॥ उद्योग. २९/२९॥
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः॥ उद्योग. ३४/२१॥
सुपुष्पितः स्यादफलः फलितः स्याद् दुरारुहः।
अपक्वः पक्वसंकाशो न तु शीर्येत कर्हिचित्॥ उद्योग. ३४/२४॥
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्।
प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति॥ उद्योग. ३४/२५॥
यस्मात् त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव।
सागरान्तामपि महीं लब्ध्वा स परिहीयते॥ उद्योग. ३४/२६॥
पितृपैतामहं राज्यं प्राप्तवान् स्वेन कर्मणा।
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः॥ उद्योग. ३४/२७॥
वसुधा वसुसम्पूर्णा वर्धते भूतवर्धिनी॥ उद्योग. ३४/२८॥
स एव यत्नः क्रियते परराष्ट्रविमर्दने।
स एव यत्नः कर्त्तव्यः स्वराष्ट्रपरिपालने॥ उद्योग. ३४/३०॥
धर्मेण राज्यं विन्देत धर्मेण परिपालयेत्।
धर्ममूलां श्रियं प्राप्य न जहाति न हीयते॥ उद्योग. ३४/३१॥
इन्द्राय स प्रणमते नमते यो बलीयसे॥ उद्योग. ३४/३७॥
कालो वा कारणं राज्ञो राजा वा कालकारणम्।
इति ते संशयो मा भूद् राजा कालस्य कारणम्॥ उद्योग. १३२/१६॥
दानेनान्यं बलेनान्यं तथा सूनृतया परम्।
सर्वतः प्रतिगृह्णीयाद् राज्यं प्राप्येह धार्मिकः॥ उद्योग. १३२/२९॥
कुनृपस्य द्राव्यते राष्ट्रं दुर्भिक्ष व्याधितस्करैः॥ द्रोण. ९५/२५॥
सर्वत्र सन्ति राजानः स्वं स्वं धर्ममनुव्रताः।
दुर्मनुष्यान् निगृह्णन्ति सन्ति सर्वत्र धार्मिकाः॥ कर्ण. ४५/४५॥
यादृशो जायते राजा तादृशोऽस्य जनो भवेत्॥ स्त्री. ८/३२॥
अधर्मो धर्मतां याति स्वामी चेद् धार्मिको भवेत्।
स्वामिनो गुणदोषाभ्यां भृत्याः स्युर्नात्र संशयः॥ स्त्री. ८/३३॥
राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते।
देशकालविभागं च परं श्रेयः स विन्दति॥ स्त्री. १३/६॥
अशरण्यः प्रजानां यः स राजा कलिरुच्यते॥ शान्ति. १२/२९॥
यो हि राज्ये स्थितः शश्वद् वशी तुल्यप्रियाप्रियः॥ शान्ति. २१/१३॥
असाधुनिग्रहरतः साधूनां प्रग्रहे रतः॥ शान्ति. २१/१४॥
धर्मवर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मतः।
पुत्रसंक्रामितश्रीश्च वने वन्येन वर्तयन्॥ शान्ति. २१/१५॥
शास्त्राजां बुद्धिमास्थाय युज्यते नैनसा हि सः॥ शान्ति. २४/१४॥
तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः।
पापैः सह न संद्ध्याद् राज्यं पण्यं न कारयेत्॥ शान्ति. २४/१६॥
गोमिनो धनिनश्चैव परिपाल्या विशेषतः॥ शान्ति. २४/१७॥
सुदर्शः स्थूललक्ष्यश्च न भ्रश्यते सदा श्रियः॥ शान्ति. ५६/१९॥
सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम्॥ शान्ति. ५७/११॥
राज्ञः परैः परिभवः सर्वेषामसुखावहः॥ शान्ति. ६७/३६॥
राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते।
प्रजा राजभयादेव न खादन्ति परस्परम्॥ शान्ति. ६८/८॥
यदा ह्यासीदतः पापान् दहत्युग्रेण तेजसा।
मिथ्योपचरितो राजा तदा भवति पावकः॥ शान्ति. ६८/४२॥
यदा पश्यति चारेण सर्वभूतानि भूमिपः।
क्षेमं च कृत्वा व्रजति तदा भवति भास्करः॥ शान्ति. ६८/४३॥
अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान्।
सपुत्रपौत्रान् सामात्यांस्तदा भवति सोऽन्तकः॥ शान्ति. ६८/४४॥
धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा॥ शान्ति. ६८/४५॥
आच्छिनत्ति च रत्नानि विविधान्यपकारिणाम्॥ शान्ति. ६८/४६॥
तदा वैश्रवणो राजा लोके भवति भूमिपः॥ शान्ति. ६८/४७॥
न हि राज्ञः प्रतीपानि कुर्वन् सुखमवाप्नुयात्।
पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत्॥ शान्ति. ६८/४९॥
राजन् प्रतिग्रहो राज्ञां मध्वासादो विषोपमः॥ अनु. ९३/३१॥
न तु राजाभिपन्नस्य शेषं क्वचन विद्यते॥ शान्ति. ६८/५०॥
मेधावी स्मृतिमान् दक्षः संश्रये महीपतिम्॥ शान्ति. ६८/५५॥
आर्जवेन च सम्पन्नो धृत्या बुद्ध्या च भारत।
यथार्थं प्रतिगृह्णीयात् कामक्रोधौ च वर्जयेत्॥ शान्ति. ७१/६॥
मालाकारोपमो राजन् भव माऽऽङ्गारिकोपमः॥ शान्ति. ७१/२०॥
एष एव परो धर्मो यद् राजा रक्षति प्रजाः॥ शान्ति. ७१/२६॥
इन्द्रो राजा यमो राजा धर्मो राजा तथैव च।
राजा विभर्ति रूपाणि राज्ञा सर्वमिदं धृतम्॥ शान्ति. ७२/२५॥
दानशीलो भवेद् राजा यज्ञशीलश्च भारत।
उपवास तपः शीलः प्रजानां पालने रतः॥ शान्ति. ७५/२॥
राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते।
यद् यदाचरते राजा तत् प्रजानां स्म रोचते॥ शान्ति. ७५/४॥
न हि कामत्मना राज्ञा सततं कामबुद्धिना।
नृशंसेनातिलुब्धेन शक्यं पालयितुं प्रजाः॥ शान्ति. ७५/१४॥
यः कश्चिज्जनयेदर्थं राज्ञा रक्ष्यः सदा नरः॥ शान्ति. ८२/१॥
राजैव कर्ता भूतानां राजैव च विनाशकः।
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः॥ शान्ति. ९१/९॥
नापत्रपेत प्रश्नेषु नाविभाव्यां गिरं सृजेत्।
न त्वरेत न चासूयेत् तथा संगृह्यते परः॥ शान्ति. ९३/१०॥
यस्तु निःश्रेयसं श्रुत्वा ज्ञानं तत् प्रतिपद्यते।
आत्मने मतमुत्सृज्य तं लोकोऽनुविधीयते॥ शान्ति. ९३/२८॥
यत् कल्याणमभिध्यायेत् तत्रात्मानं नियोजयेत्॥ शान्ति. ९४/१०॥
निग्रहेण च पापानां साधूनां संग्रहेण च।
यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः॥ शान्ति. ९७/३॥
यो भूतानि धनाक्रान्त्या वधात् क्लेशाच्च रक्षति।
दस्युभ्यः प्राणदानात् स धनदः सुखदो विराट्॥ शान्ति. ९७/८॥
यस्य नार्तो जनपदः सन्निकर्षगतः सदा।
अक्षुद्रः सत्पथालम्बी स राजा राज्यभाग्भवेत्॥ शान्ति. ११५/१९॥
आलस्यं चैव निद्रा च व्यसनान्यतिहासिता।
यस्यैतानि न विद्यन्ते तस्यैव सुचिरं मही॥ शान्ति. ११८/२६-२७ दा. पा.॥
वृद्धसेवी महोत्साहो वर्णानां चैव रक्षिता।
धर्मचर्या सदा यस तस्येयं सुचिरं मही॥ शान्ति. ११८/२६-२७ दा. पा.॥
आत्मप्रत्ययकोशस्य वसुदैव वसुन्धरा॥ शान्ति. १२०/३०॥
संचयान्न विसर्गी स्याद् राजा शास्त्रविदात्मवान्॥ शान्ति. १२०/३५॥
राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम्।
तन्मूलं सर्व धर्माणां धर्ममूलाः पुनः प्रजाः॥ शान्ति. १३०/३५॥
श्रियो हि कारणाद् राजा सत्क्रियां लभते पराम्।
सास्य गूहति पापानि वासो गुह्यमिव स्त्रियाः॥ शान्ति. १३३/७॥
धर्माधर्मफले जातु ददर्शेह न कश्चन।
बुभूषेद् बलमेवैतत् सर्वं बलवतो वशे॥ शान्ति. १३४/३॥
यत्र नास्ति बलात्कारः स राजा तीव्रशासनः।
भीरेव नास्ति सम्बन्धो दरिद्रं यो बुभूषते॥ शान्ति. १३९/९७॥
एते सर्वे गुणवति धर्मनेत्रे महीपतौ॥ शान्ति. १३९/९८॥
अधर्मज्ञस्य विलयं प्रजा गच्छन्ति निग्रहात्॥ शान्ति. १३९/९९॥
न रक्षति प्रजाः सम्यग् यः स पार्थिव तस्करः॥ शान्ति. १३९/१००॥
माता पिता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः।
सप्त राज्ञो गुणानेतान् मनुराह प्रजापतिः॥ शान्ति. १३९/१०३॥
पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पनः।
तस्मिन् मिथ्याविनीतो हि तिर्यग् गच्छति मानवः॥ शान्ति. १३९/१०४॥
दहत्यग्निरिवानिष्टान् यमेयन्नसतो यमः॥ शान्ति. १३९/१०५॥
इष्टेषु विसृजन्नर्थान् कुबेर इव कामदः।
गुरुर्धर्मोपदेशेन गोप्ता च परिपालयन्॥ शान्ति. १३९/१०६॥
यस्तु रञ्जयते राजा पौरजानपदान् गुणैः।
न तस्य भ्रमते राज्यं स्वयं धर्मानुपालनात्॥ शान्ति. १३९/१०७॥
अनर्थै र्विप्रलुप्यन्ते स गच्छति पराभवम्॥ शान्ति. १३९/१०९॥
प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम्।
स सर्वफलभाग् राजा स्वर्गलोके महीयते॥ शान्ति. १३९/११०॥
अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः॥ शान्ति. १४०/७॥
वाङ्मात्रेण विनीतः स्याद् हृदयेन यथा क्षुरः।
श्र्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत्॥ शान्ति. १४०/१३॥
सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः॥ शान्ति. २६७/२५॥
सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः॥ शान्ति. २६७/२६॥
विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम्॥ शान्ति. २६७/२७॥
दण्डयेच्च महादण्डैरपि बन्धूननन्तरान्॥ शान्ति. २६७/२९॥
राजायत्तं हि यत् सर्वे लोकवृत्तं शुभाशुभम्।
महतस्तपसो देवि फलं राज्यमिति स्मृतम्॥ अनु. १४५ दा. पा. I॥
अनुभृत्यान् प्रजाः पश्चादित्येष विनयक्रमः॥ अनु. १४५ दा. पा. I॥
पञ्चैव स्ववशे कृत्वा तदर्थान् पञ्च शोषयेत्।
षडुत्सृज्य यथायोगं ज्ञानेन विनयेन च।
शास्त्रचक्षुर्नयपरो भूत्वा भृत्यान् समाहरेत्॥ अनु. १४५ दा. पा. I॥
प्रजाकार्यं तु तत्कार्यं प्रजासौख्यं तु तत्सुखम्।
प्रजाप्रियं प्रियं तस्य स्वहितं तु प्रजा हितम्।
प्रजार्थं तस्य सर्वस्वमात्मार्थं न विधीयते॥ अनु. १४५ दा. पा. I॥
राजा राष्ट्रहितापेक्षं सत्यधर्माणि कारयेत्॥ अनु. १४५ दा. पा. I॥
अनाथान् व्याधितान् वृद्धान् स्वदेशे पोषयेन्नृपः॥ अनु. १४५ दा. पा. I॥
व्यसनेभ्यो बलं रक्षेन्नयतो व्ययतोऽपि वा।
प्रायशो वर्जयेद् युद्धं प्राणरक्षणकारणात्॥ अनु. १४५ दा. पा. I॥
अनुनीय तथा सर्वान् प्रजानां हितकारणात्॥ अनु. १४५ दा. पा. I॥
क्षुद्राः पृथिव्यां बहवो राज्ञां बहुविनाशकाः।
तस्मात् प्रमादं सुश्रोणि न कुर्यात् पण्डितो नृपः॥ अनु. १४५ दा. पा. II॥
सम्प्रहासश्च भृत्येषु न कर्तव्यो नराधिपैः।
लघुत्वं चैव प्राप्नोति आज्ञा चास्य निवार्यते॥ अनु. १४५ दा. पा. III॥
प्रमादाद्धन्यते राजा लोभेन च वशीकृतः।
तस्मात् प्रमादं लोभं च न कुर्यान्न विश्वसेत्॥ अनु. १४५ दा. पा. III॥
अशिष्टशासनं धर्मः शिष्टानां परिपालनम्॥ अनु. १४५ दा. पा. III॥
अवध्या ब्राह्मणा गावो दूताश्चैव पिता तथा।
विद्यां ग्राहयते यश्च ये च पूर्वोपकारिणः
स्त्रियश्चैव न हन्तव्या यश्च सर्वातिथिनरः॥ अनु. १४५ दा. पा. III॥
पूजार्हा हि नराधिपाः॥ आश्व. ८६/२॥
फलभाजो हि राजानः कल्याणस्येतरस्य वा॥ आश्रमवास. ३/४०॥
एष एव परो धर्मः राजर्षीणां युधिष्ठिर।
समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम्॥ आश्रमवास. ४/१२॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
विधवा यस्य विषये नानाथाः काश्चनाभवन्।
सदैवासीत् पितृसमो रामो राज्यं यदन्वशात्॥ शान्ति. २९/५२॥
कालवर्षी च पर्जन्यः सस्यानि समपादयत्।
नित्यं सुभिक्षमेवासीद् रामे राज्यं प्रशासति॥ शान्ति. ५९/५३॥
प्राणिनो नाप्सु मज्जन्ति नान्यथा पावकोऽदहत्।
रुजाभयं न तत्रासीद् रामे राज्यं प्रशासति॥ शान्ति. २९/५४॥
अरोगाः सर्वसिद्धार्था रामे राज्यं प्रशासति॥ शान्ति. २९/५५॥
नान्योऽन्येन विवादोऽभूत् स्त्रीणामपि कुतो नृणाम्।
धर्मनित्याः प्रजाश्चासन् रामे राज्यं प्रशासति॥ शान्ति. २९/५६॥
नराः सत्यव्रताश्चासन् रामे राज्यं प्रशासति॥ शान्ति. २९/५७॥
सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति॥ शान्ति. २९/५८॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः॥ वन. २०९/१४॥
प्रज्ञया मनसं दुःखं हन्याच्छारीरमौषधैः॥ वन. २१६/१७॥
न मनुष्ये गुणः कश्चिद् राजन् सधनतामृते।
अनातुरत्वाद् भद्रं ते मृतकल्पा हि रोहिणः॥ उद्योग. ३६/६७॥
रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्वम्।
दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान् न सौख्यम्॥ उद्योग. ३६/६९॥
कष्टो भवेद् व्याधिरिवाक्रियावान्॥ कर्ण. १७/२०॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
अध्रुवा सर्वमर्त्येषु श्रीरुपालक्ष्यते भृशम्॥ शल्य. ६५/२०॥
स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति॥ शान्ति. २२४/५८॥
मां च लोला परित्यज्य त्वामागाद् विवुधाधिप॥ शान्ति. २२४/५९॥
आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः॥ शान्ति. २२५/७॥
भूतिर्लक्ष्मीति मामाहुः श्रीरित्येव च वासव।
सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि।
पराक्रमे च धर्मे च पराचीनस्ततो बलिः॥ शान्ति. २२५/१२॥
नैव देवो न गन्धर्वो नासुरो न च राक्षसः।
यो मामेको विषहितुं शक्तः कश्चित् पुरन्दर॥ शान्ति. २२५/१७॥
नेयं तव न चास्माकं न चान्येषां स्थिरा सदा॥ शान्ति. २२७/४५॥
कंचित् कालमियं स्थित्वा त्वयि वासव चञ्चला॥ शान्ति. २२७/४६॥
प्रश्रिते दानशीले च सदैव निवसाम्यहम्॥ शान्ति. २२८/२६॥
स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्यहम्॥ शान्ति. २२८/२९॥
अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम्।
न श्रीः संत्यज्यते नित्यमादित्यमिव रश्मयः॥ शान्ति. २९८/४३॥
वसामि नित्यं सुभगे प्रगल्भे दक्षे नरे कर्मणि वर्तमाने।
अक्रोधने दैवपरे कृतज्ञे जितेन्द्रिये नित्यमुदीर्णसत्वे॥ अनुशासन. ११/६॥
नाहं शरीरेण वसामि देवि नैवं मया शक्यमिहाभिधातुम्।
भावेन यस्मिन् निवसामि पुंसि स वर्धते धर्मयशोऽर्थकामैः॥ अनु. ११/२१॥
नित्यं निवसते लक्ष्मी कन्यकासु प्रतिष्ठिता।
शोभना शुभयोग्या च पूज्या मङ्गलकर्मषु॥ अनु. २२ दा. पा.॥
एवं कन्या परा लक्ष्मी रतिस्तोषश्च देहिनाम्।
महाकुलानां चारित्रं वृत्तेन निकषोपलम्॥ अनु. २२ दा. पा.॥
श्रिया ह्यभीक्ष्णं संवासो दर्पयेत् सम्प्रमोहयेत्॥ अनु. ६१/२०॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
धृतराष्ट्र विमुञ्चेच्छां न कथञ्चिन्न जीव्यते॥ उद्योग. ३९/८३॥
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः।
नालमेकस्य तत् सर्वमिति पश्यन् न मुह्यति॥ उद्योग. ३९/८४॥
कुले जातस्य वृद्धस्य परवित्तेषु गृद्ध्यतः।
लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियम्॥ उद्योग. ७२/१८॥
ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम्।
श्रीर्हता पुरुषं हन्ति पुरुषस्याधनं वधः॥ उद्योग. ७२/१९॥
न लुब्धो बुध्यते दोषांल्लोभान्मोहात् प्रवर्तते॥ द्रोण. ५१/११॥
एको निवारयामास लोभः सर्वगुणानिव॥ द्रोण. ९९/५६॥
लुब्धं हन्यात् सम्प्रदानेन नित्यं लुब्धस्तृप्तिं परवित्तस्य नैति।
सर्वो लुब्धः कर्मगुणोपभोगे योऽर्थैर्हीनो धर्मकामौ जहाति॥ शान्ति.१२०/४७॥
धनं भोगं पुत्रदारं समृद्धिं सर्वं लुब्धः प्रार्थयते परेषाम्।
लुब्धे दोषाः सम्भवन्तीह सर्वे तस्माद् राजा न प्रगृह्णीत लुब्धम्॥ शान्ति.१२०/४८॥
एको लोभो महाग्राहो लोभात् पापं प्रवर्तते॥ शान्ति.१५८/२॥
निकृत्या मूलमेतद्धि येन पापकृतो जनाः॥ शान्ति.१५८/३॥
लोभात् क्रोधः प्रभवति लोभात् कामः प्रवर्तते।
लोभान्मोहश्च माया च मानः स्तम्भः परासुता॥ शान्ति.१५८/४॥
अभिध्या प्रख्यता चैव सर्वं लोभात् प्रवर्तते॥ शान्ति.१५८/५॥
अत्यागश्चातितर्षश्च विकर्मसु च याः क्रियाः।
वाग्वेगो मनसो वेगो निन्दावेगस्तथैव च॥ शान्ति.१५८/८॥
ईर्ष्या वेगश्च बलवान् मिथ्यावेगश्च दुर्जयः॥ शान्ति.१५८/९॥
कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता॥ शान्ति.१५८/१०॥
जातौ बाल्ये च कौमारे यौवने चापि मानवाः।
न संत्यजन्त्यात्मकर्म यो न जीर्यति जीर्यतः॥ शान्ति.१५८/११॥
यो न पूरयितुं शक्यो लोभः प्राप्त्या कुरूद्वह।
न प्रहृष्यति यो लाभैः कामैर्यश्च न तृप्यति॥ शान्ति.१५८/१३॥
यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः।
ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा॥ शान्ति.१५८/१४॥
दम्भो द्रोहश्च निन्दा च पैशुन्यं मत्सरस्तथा॥ शान्ति.१५८/१५॥
सुमहान्त्यपि शास्त्राणि धारयन्ति बहुश्रुताः॥ शान्ति.१५८/१६॥
द्वेष क्रोध प्रसक्ताश्च शिष्टाचार बहिष्कृताः॥ शान्ति.१५८/१७॥
धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत्॥ शान्ति.१५८/१८॥
या या विक्रियते संस्था ततः सापि प्रपद्यते॥ शान्ति.१५८/२०॥
दर्पः क्रोधो मदः स्वप्नो हर्षः शोकोऽतिमानिता।
एत एव हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु॥ शान्ति.१५८/२१॥
अज्ञान प्रभवो लोभो भूतानां दृश्यते सदा।
अस्थिरत्वं च भोगानां दृष्ट्वा ज्ञात्वा निवर्तते॥ शान्ति.१६३/२१॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
कर्मभिः सज्जनाचीर्णैर्विज्ञेया योनिशुद्धता॥ अनु. ४८/४०॥
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम्॥ अनु. ४८/४१॥
पित्र्यं वा भजते शीलं मातृजं वा तथोभयम्।
न कथंचन संकीर्णः प्रकृतिं स्वां नियच्छति॥ अनु. ४८/४२॥
कुले स्रोतसि संच्छन्ने यस्य स्याद् योनिसंकरः।
संश्रयत्येव तच्छीलं नरोऽल्यमथवा बहु॥ अनु. ४८/४४॥
जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते॥ अनु. ४८/४६॥
शरीरमिह सत्त्वेन न तस्य परिकृष्यते।
ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते॥ अनु. ४८/४७॥
ज्यायांसमपि शीलेन विहीनं नैव पूजयेत्।
अपि शूद्रं च धर्मज्ञं सद्वृत्तमभिपूजयेत्॥ अनु. ४८/४८॥
आत्मानमाख्याति हि कर्मभिर्नरः सुशीलचारित्रकुलैः शुभाशुभैः।
प्रणष्टमप्याशु कुलं तथा नरः पुनः प्रकाशं कुरुते स्वकर्मतः॥ अनु. ४८/४९॥
सहैव देवि वर्णानि चत्वारि विहितान्यतः॥ अनु. १४१/२९-३० दा. पा.॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः॥ वन. ९३/२१॥
मनो ह्यदुष्टं शौचाय पर्याप्तं वै नराधिप।
मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि द्रक्ष्यथ॥ वन. ९३/२२॥
त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम्।
न दुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत्॥ अनु. १२०/१०॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
तेषां पुष्पफलव्यक्तिर्नित्यं समुपपद्यते॥ शान्ति. १८४/१०॥
ऊष्मतो म्लायते पर्णं त्वक् फलं पुष्पमेव च।
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते॥ शान्ति. १८४/११॥
श्रोत्रेन गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः॥ शान्ति. १८४/१२॥
वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति।
न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात् पश्यन्ति पादपाः॥ शान्ति. १८४/१३॥
अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः॥ शान्ति. १८४/१४॥
पादैः सलिलपानाच्च व्याधीनां चापि दर्शनात्।
व्याधिप्रतिक्रियात्वाच्च विद्यते रसनं द्रुमे॥ शान्ति. १८४/१५॥
तथा पवनसंयुक्तः पादैः पिबति पादपः॥ शान्ति. १८४/१६॥
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते॥ शान्ति. १८४/१७॥
आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते॥ शान्ति. १८४/१८॥
स्थावराणां च भूतानां जातयः षट् प्रकीर्तिताः।
अतीतानागते चोभे पितृवंशं च भारत।
तारयेद् वृक्षरोपी च तस्माद् वृक्षांश्च रोपयेत्॥ अनु. ५८/२६॥
तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः।
परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान्॥ अनु. ५८/२७॥
पुष्पैः सुरगणान् वृक्षाः फलैश्चापि तथा पितॄन्।
छायया चातिथिं तात पूजयन्ति महीरुहाः॥ अनु. ५८/२८॥
तथा ॠषिगणाश्चैव संश्रयन्ति महीरुहान्॥ अनु. ५८/२९॥
वृक्षदं पुत्रवद् वृक्षास्तारयन्ति परत्र तु॥ अनु. ५८/३०॥
तस्मात् तडागे सद्वृक्षा रोप्याः श्रेयोऽर्थिना सदा।
पुत्रवत् परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः॥ अनु. ५८/३१॥
वेणुक्रमुकत्वक्साराः सस्यानि तृणजातयः॥ अनु. ९६ दा. पा. अ. III॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
आपृच्छति च यच्छ्रेयः करोति च हितं वचः॥ सौत्पिक. २/२२॥
वृद्धानां सम्यगीहा पुनरियं यो वृद्धानुपसेवते॥ सौत्पिक. २/२१॥
वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत्॥ सौत्पिक. २/२३॥
उत्थानस्य फलं सम्यक् तदा स लभतेऽचिरात्॥ सौत्पिक. २/२४॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
इन्द्रियैर्गृह्यते यद् यत् तत्तद् व्यक्तमिति स्थितिः।
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्॥ शान्ति. १८९/१५॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी।
तादृङ्मुनिः सिद्धिमुपैति मुख्यां वसन्नरण्ये नियताहारचेष्टः॥ आदि. ९१/४॥
अपत्यस्यैव चापत्यं वनमेव तदा श्रयेत्॥ शान्ति. २४४/४॥
तदग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः॥ शान्ति. २४४/६॥
देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः॥ शान्ति. २७७/२६॥
वन्यैरेव सदाहारैवर्तयेदिति च स्थितिः॥ अनु. १४१ दा. पा.॥
अग्निहोत्रं त्रिषवणं तस्य नित्यं विधीयते।
ब्रह्मचर्यं क्षमा शौचं तस्य धर्मः सनातनः॥ अनु. १४१ दा. पा.॥
निर्द्वन्द्वो वा सदारो वा वनवासाय स व्रजेत्॥ अनु. १४२/५-६ दा. पा.॥
वनं गुरुमिवासाद्य वस्तव्यं वनजीविभिः॥ अनु. १४२/१३॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
न हि वायोर्बलेनास्ति भूतं तुल्यबलं क्वचित्॥ शान्ति. १५५/९॥
यच्च किंचिदिह प्राणी चेष्टते शाल्मले भुवि।
सर्वत्र भगवान् वायुश्चेष्टाप्राणकरः प्रभुः॥ शान्ति. १५५/११॥
एष चेष्टयते सम्यक् प्राणिनः सम्यगायतः।
असम्यगायतो भूयश्चेष्टते विकृतं नृषु॥ शान्ति. १५५/१२॥
प्रथमः प्रथमे मार्गे प्रवहो नाम योऽनिलः॥ शान्ति. ३२८/३६॥
आवहो नाम संवाति द्वितीयः श्वसनो नदन्॥ शान्ति. ३२८/३७॥
उदयं ज्योतिषां शाश्वत् सोमादीनां करोति यः।
अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः॥ शान्ति. ३२८/३८॥
उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः॥ शान्ति. ३२८/३९॥
योऽद्भिः संयोज्य जीमूतान् पर्जन्याय प्रयच्छति।
उद्वहो नाम वंहिष्ठस्तृतीयः स सदागतिः॥ शान्ति. ३२८/४०॥
समूह्यमाना बहुधा येन नीताः पृथग् धनाः।
वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः॥ शान्ति. ३२८/४१॥
संहता येन चाविद्धा भवन्ति नदतां नदाः।
रक्षणार्थाय सम्भूता मेघत्वमुपयान्ति च॥ शान्ति. ३२८/४२॥
योऽसौ वहति भूतानां विमानानि विहायसा।
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः॥ शान्ति. ३२८/४३॥
येन वेगवता रुग्णा रूक्षेण रुवता नगान्।
वायुना सहिता मेघास्ते भवन्ति बलाहकाः॥ शान्ति. ३२८/४४॥
पञ्चमः स महावेगो विवहो नाम मारुतः॥ शान्ति. ३२८/४५॥
यस्मिन् परिप्लवा दिव्या वहन्त्यापो विहायसा।
पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति॥ शान्ति. ३२८/४६॥
योनिरंशुसहस्रस्य येन भाति वसुन्धरा॥ शान्ति. ३२८/४७॥
षष्ठः परिवहो नाम स वायुर्जयतां वरः॥ शान्ति. ३२८/४८॥
यस्य वर्त्मानुवर्तेते मृत्यु र्वैवस्वतावुभौ॥ शान्ति. ३२८/४९॥
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते॥ शान्ति. ३२८/५०॥
यं समासाद्य वेगेन दिशोऽन्तं प्रतिपेदिरे।
दक्षस्य दशपुत्राणां सहस्राणि प्रजापतेः॥ शान्ति. ३२८/५१॥
येन स्पृष्टः पराभूतो यात्येव न निवर्तते।
परावहो नाम परो वायुः स दुरतिक्रमः॥ शान्ति. ३२८/५२॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः।
महाबुद्धिर्महायोगी महात्मा सुमहामनाः॥ आश्रमवास. २८/१२॥
बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु च।
न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः॥ आश्रमवास. २८/१३॥
नियोगाद् ब्रह्मणः पूर्वं मया स्वेन बलेन च।
वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः॥ आश्रमवास. २८/१५॥
भ्राता तव महाराज देवदेवः सनातनः।
धारणान्मनसा ध्यानाद् यं धर्मं कवयो विदुः॥ आश्रमवास. २८/१६॥
धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना॥ आश्रमवास. २८/१८॥
यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः।
स एष राजन् दृश्यस्ते पाण्डवः प्रेष्यवत् स्थितः॥ आश्रमवास. २८/२१॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः॥ उद्योग. ४०/४॥
आलस्यं मदमोहौ च चापलं गोष्ठिरेव च।
एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः॥ उद्योग. ४०/५॥
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्।
सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेत् सुखम्॥ उद्योग. ४०/६॥
श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात्।
नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः॥ शान्ति. ३२९/६॥
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्॥ शान्ति. १७४/३५॥
विद्यया तात सृष्टानां विद्यैवेह परा गतिः॥ शान्ति. २३७/१०॥
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं फलम्॥ शान्ति. २७७/३५॥
यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्पराः।
न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा॥ शान्ति. ३०५/१३॥
विद्या धर्मार्थ फलिनी तद्विदो वृद्धसंज्ञिताः॥ अनु. १४५ दा. पा. I॥
कार्याकार्यं विजानन्ति विद्यया देवि नान्यथा॥ अनु. १४५ दा. पा. I॥
विद्यया स्फीयते ज्ञानं ज्ञानात् तत्त्वविदर्शनम्।
दृष्टतत्त्वो विनीतात्मा सर्वार्थस्य च भाजनम्॥ अनु. १४५ दा. पा. V॥
शक्यं विद्याविनीतेन लोके संजीवनं शुभम्॥ अनु. १४५ दा. पा. V॥
विद्यादानं तथा देवि पात्रभूताय वै ददत्।
प्रेत्यभावे लभेन्मर्त्यो मेधां वृद्धिं धृतिं स्मृतिम्॥ अनु. १४५ दा. पा. XI॥
स्वयं दत्तेन तुल्यं स्यादिति विद्धि शुभानने॥ अनु. १४५ दा. पा. XI॥
धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश॥ अनु. ९२ दा. पा. XX॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः।
प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम्॥ आदि. १५७/१२॥
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परां गतिम्।
सर्वापि विधवा नारी बहुपुत्रापि शोचते॥ शान्ति. १४८/२॥
शोच्या भवति बन्धूनां पतिहीना तपस्विनी॥ शान्ति. १४८/३॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
असम्भवे हेममयस्य जन्तो स्तथापि रामो लुलुभे मृगाय।
प्रायः समासन्नपराभवाणां धियो विपर्यस्ततरा भवन्ति॥ सभा. ७६/५॥
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्॥ उद्योग. ३४/८१॥
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति॥ सभा. ८१/८॥
बुद्धौ कलुषभूतायां विनाशे समुपस्थिते॥ उद्योग. ३४/८२॥
अनयो नय संकाशो हृदयान्नापसर्पति॥ सभा. ८१/९॥
उत्तिष्ठन्ति विनाशाय नूनं तच्चास्य रोचते॥ सभा. ८१/१०॥
सुहृदां हितकामानां वाक्यं यो न श्रृणोति ह।
स महद् व्यसनं प्राप्य शोचते वै यथा भवान्॥ द्रोण. ११४/४९॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
अहमात्मा गुडाकेश सर्वभूताशयस्थितः॥ भीष्म. ३४/२०; गीता. १०/२०॥
वेदानां सामवेदोऽस्मि॥ भीष्म. ३४/२२; गीता. १०/२२॥
यज्ञानां जप यज्ञोऽस्मि स्थावराणां हिमालयः॥ भीष्म. ३४/२५; गीता. १०/२५॥
अश्वत्थः सर्व वृक्षाणां देवर्षीणां च नारदः॥ भीष्म. ३४/२६; गीता. १०/२६॥
कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा॥
तेजस्तेजस्विनामहम्॥ भीष्म. ३४/३६; गीता. १०/३६॥
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्॥ भीष्म. ३४/३८; गीता. १०/३८॥
न तदस्ति विना यत् स्यान्मया भूतं चराचरम्॥ भीष्म. ३४/३९; गीता. १०/१९॥
यद् यद् विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा।
तत् तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्॥ भीष्म. ३४/४१; गीता. १०/४१॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
सर्वे क्षयान्ताः निचयाः पतनान्ताः समुच्छ्रयाः।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्॥ स्त्री. २/३॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ।
समेत्य च व्यपेयातां तद्वद् भूतसमागमः॥ शान्ति. २८/३६; शान्ति.१७४/१५॥
नैवास्य कश्चिद् भविता नायं भवति कस्यचित्।
पथि संगतमेवदं दारबन्धुसुहृज्जनैः॥ शान्ति. २८/३९॥
पथि संगतमेवैतद् भ्राता माता पिता सखा॥ शान्ति. २८/४१॥
अपि स्वेन शरीरेण किमुतान्येन केनचित्॥ शान्ति. २८/५२॥
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽनघ॥ शान्ति. २८/५३॥
संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते॥ शान्ति. १५३/९॥
एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा।
तेषां स्नेहो न कर्तव्यो विप्रयोगो ध्रुवो हि तैः॥ शान्ति. १७४/१६॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
मनोवाग्बुद्धिसम्भाषा दत्ता चोदकपूर्वकम्॥ द्रोण. ५५/१५॥
न त्वेषा निश्चिता निष्ठा निष्ठा सप्तपदी स्मृता॥ द्रोण. ५५/१६॥
शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च।
ब्राह्मणानां सतामेष ब्राह्मो धर्म युधिष्ठिर।
आवाह्यमावहेदेवं यो दद्यादनुकूलतः॥ अनुशासन. ४४/४॥
शिष्टानां क्षत्रियाणां च धर्म एष सनातनः।
आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यः॥ अनु. ४४/५॥
अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर।
गान्धर्वमिति तं धर्मं प्राहुर्वेदविदो जनाः॥ अनुशासन. ४४/६॥
धनेन बहुधा क्रीत्वा सम्प्रलोभ्य च बान्धवान्।
असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः॥ अनुशासन. ४४/७॥
हत्वा छित्वा च शीर्षाणि रुदतां रुदतीं गृहात्।
प्रसह्य हरणं तात राक्षसो विधिरुच्यते॥ अनुशासन. ४४/८॥
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर।
पैशाचश्चासुरश्चैव न कर्तव्यो कथंचन॥ अनुशासन. ४४/९॥
तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु।
वैश्यः स्वजात्यां विन्देत तास्वापत्यं समं भवेत्॥ अनुशासन. ४४/११॥
त्रीणि वर्षाण्युदीक्षेत कन्या ॠतुमती सती।
चतुर्थे त्वथ सम्प्राप्ते स्वयं भर्तारमर्जयेत्॥ अनुशासन. ४४/१६॥
परिक्रम्य यथान्यायं भार्यां विन्देद् द्विजोत्तमः॥ अनुशासन. ४४/५६॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
येषां शास्त्रानुगा बुद्धि र्न ते मुह्यन्ति भारत॥ आदि. १/२४४॥
आत्मानं च परांश्चैव त्रायते महतो भयात्।
क्रुध्यन्तमप्रतिक्रुध्यन् द्वयोरेष चिकित्सकः॥ वन. २९/९॥
प्रक्षीयते धनोद्रेको जनानामविजानताम्॥ वन. १९२/२८॥
यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति।
स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि॥ वन. २५१/४॥
कामश्च राजन् क्रोधश्च तौ प्रज्ञानं विलुम्पतः॥ उद्योग. ३४/६६॥
क्वासे क्व च गमिष्यामि को न्वहं किमिहास्थितः।
कस्मात् किमनुशोचेयमित्येवं स्थापयेन्मनः॥ शान्ति. २८/४०॥
ये च बुद्धिसुखं प्राप्ता द्वन्द्वातीता विमत्सराः।
तान् नैवार्था न चानर्था व्यथयन्ति कदाचन॥ शान्ति. १७४/३५॥
उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये।
प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यति॥ शान्ति. १७४/५३॥
ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च॥ शान्ति. २२७/१०४॥
चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत्।
चिरेण हि कृतं मित्रं चिरं धारणमर्हति॥ शान्ति. २६६/६९॥
रागे दर्पे च माने च द्रोहे पापे च कर्मणि।
अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते॥ शान्ति. २६६/७०॥
बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च।
अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते॥ शान्ति. २६६/७१॥
एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः।
चिरेण निश्चयं कृत्वा चिरं न परितप्यते॥ शान्ति. २६६/७३॥
चिरं धारयते रोषं चिरं कर्म नियच्छति।
पश्चात्तापकरं कर्म न किंचिदुपपद्यते॥ शान्ति. २६६/७४॥
चिरं धर्म निषेवेत कुर्याच्चान्वेषणं चिरम्॥ शान्ति. २६६/७५॥
चिरमन्वास्य विदुषश्चिरं शिष्टान् निषेव्य च।
चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम्॥ शान्ति. २६६/७६॥
चिरं पृष्टोऽपि च ब्रूयाच्चिरं न परितप्यते॥ शान्ति. २६६/७७॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥ आदि. ७५/५०॥ ८५/१२॥
पृथिवी रत्नसम्पूर्णा हिरण्यं पशवः स्त्रियः।
नालमेकस्य तत् सर्वमिति मत्वा शमं व्रजेत्॥ आदि. ७५/५१॥ ८५/१३॥
कामाभिध्या स्वशरीरं दुनोति यया प्रमुक्तो न करोति दुःखम्।
यथेध्यमानस्य समिद्धतेजसो भूयो बलं वर्धते पावकस्य॥ उद्योग. २६/५॥
कामार्थलाभेन तथैव भूयो न तृप्यते सर्पिषेवाग्निरिद्धः॥ उद्योग. २६/६॥
कामा मनुष्यं प्रसजन्त एते धर्मस्य ये विघ्नमूलं नरेन्द्र।
पूवं नरस्तान् मतिमान् प्रणिघ्नल्लोके प्रशंसां लभतेऽनवद्याम्॥ उद्योग. २७/४॥
तद् वै महामोहनमिन्द्रियाणां मिथ्यार्थयोगस्य गतिर्हि नित्या।
मिथ्यार्थयोगाभिहतान्तरात्मा स्मरन्नुपास्ते विषयान् समन्तात्॥ उद्योग. ४२/१०॥
कामान् व्युदस्य धुनुते यत् किंचित् पुरुषो रजः॥ उद्योग. ४२/१३॥
शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः॥ उद्योग. ७२/२३॥
तेषु भोगेषु सर्वेषु न भीतो लभते सुखम्।
नावगच्छन्त्यविज्ञानादात्मानं पार्थिवं गुणम्॥ शान्ति. २१२/१०॥
ये त्वसक्ता महात्मानस्ते यान्ति परमां गतिम्॥ शान्ति. २१५/१॥
इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता।
रसने दर्शने घ्राणे श्रवणे च विशाम्पते॥ शान्ति. २९५/३२॥
मनुष्यमसुखं प्राप्य यः सज्जति स मुह्यति।
नालं स दुःखमोक्षाय संयोगो दुःखलक्षण्म्॥ शान्ति. ३२९/८॥
मोहजालावृतो दुःखमिह चामुत्र सोऽनुश्ते॥ शान्ति. ३२९/९॥
परित्यज्यामिषं सौम्य दुःखतापाद् विमोक्ष्यसे॥ शान्ति. ३२९/२१॥
अजितं जेतु कामेन भाव्यं सङ्गेष्वसङ्गिना॥ शान्ति. ३२९/२२॥
ब्राह्मणो नचिरादेव सुखमायात्यनुत्तमम्॥ शान्ति. ३२९/२३॥
द्वन्द्वारामेषु भूतेषु य एको रमते मुनिः।
विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति॥ शान्ति. ३२९/२४॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
भोगेष्वायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति॥ उद्योग. ३७/५७॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्॥ शान्ति. १३८/१४४॥
विश्वासाद् भयमुत्पन्नं मूलान्यपि निकृन्तति॥ उद्योग. ३८/९॥
चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके॥ उद्योग. ३९/७३॥
गुणयुक्तेऽपि नैकस्मिन् विश्वसेत विचक्षणः॥ शान्ति. २४/१८॥
अनित्यचित्तः पुरुषस्तस्मिन् को जातु विश्वसेत्॥ शान्ति. ८०/९॥
एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः।
अविश्वासश्च सर्वत्र मृत्युना च विशिष्यते॥ शान्ति. ८०/१०॥
यस्मिन् करोति विश्वासमिच्छतस्तस्य जीवति॥ शान्ति. ८०/११॥
तस्मात् विश्वसितव्यं च शङ्कितव्यं च केषुचित्॥ शान्ति. ८०/१२॥
विश्वासयेत् परांश्चैव विश्वसेच्च न कस्यचित्।
पुत्रेष्वपि राजेन्द्र विश्वासो न प्रशस्यते॥ शान्ति. ८५/३३॥
नित्यं विश्वासयेदन्यान् परेषां तु न विश्वसेत्॥ शान्ति. १३८/१९५॥
निश्चयः स्वार्थशास्त्रेषु विश्वासश्चासुखोदयः॥ शान्ति. १३९/७०॥
नापरीक्ष्य च विश्वसेद्॥ शान्ति. १४०/४३॥
द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित्॥ वन. १५७/२१॥
को वा समयभेत्तारं बुधः सम्मन्तुमर्हति॥ शल्य. ६४/१४॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंहर॥ उद्योग. १३३/७॥
अपि वा संशयं प्राप्य जीवितेऽपि पराक्रमः॥ उद्योग. १३३/१०॥
मुहूर्त्तं ज्वलितं श्रेयो न च धूमायितं चिरम्॥ उद्योग. १३३/१५॥
उद्भावयस्व वीर्यं वा तां वा गच्छ गतिं ध्रुवाम्॥ उद्योग. १३३/१८॥
कुरु सत्त्वं च मानं च विद्धि पौरुषमात्मनः॥ उद्योग. १३३/२१॥
मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान्।
ज्वल मूर्धन्यमित्राणां मुहूर्त्तमपि वा क्षणम्॥ उद्योग. १३३/३१॥
सन्तोषो वै श्रियं हन्ति तथानुक्रोश एव च।
अनुत्थानभये चोभे निरीहो नाश्नुते महत्॥ उद्योग. १३३/३३॥
आयसं हृदयं कृत्वा मृगयस्व पुनः स्वयम्॥ उद्योग. १३३/३४॥
परं विषहते यस्मात् तस्मात् पुरुष उच्यते॥
तमाहुर्व्यर्थ नामानं स्त्रीवद् य इह जीवति॥ उद्योग. १३३/३५॥
स लोके लभते कीर्त्तिं परत्र च शुभां गतिम्॥ उद्योग. १३३/४५॥
एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम्॥ उद्योग. १३४/२३॥
भविष्यतीत्येव मनः कृत्वा सततमव्यथैः॥ उद्योग. १३५/२९॥
स हि वीरोन्नतः शूरो यो भग्नेषु निवर्तते॥ द्रोण. २२/३॥
अनुक्त्वा विक्रमेद् यस्तु वै सत्पुरुषव्रतम्॥ द्रोण. १५८/१९॥
अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः॥ कर्ण. २४/७॥
शूरबाहुषु लोकोऽयं लम्बते पुत्रवत् सदा।
तस्मात् सर्वास्ववस्थासु शूरः सम्मानमर्हति॥ शान्ति. ९९/१७॥
न हि शौर्यात् परं किंचित् त्रिषु लोकेषु विद्यते।
शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम्॥ शान्ति. ९९/१८॥
अपि पञ्चाशतं शूरा निघ्नन्ति परवाहिनीम्॥ शान्ति. १०२/२०॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
तानि वेदानि पुरस्कृत्य प्रवृत्तानि यथाक्रमम्॥ अनु. १२२/४॥
चरतस्तु समुद्भूता वेदाः साङ्गाः सहोत्तराः।
तांल्लब्ध्वा मुमुदे ब्रह्मा लोकानां हितकाम्यया।
देहजं तत् तमो घोरं वेदैरेव विनाशितम्॥ अनु. १४५ दा. पा. अ. IX॥
यदि चेन्न भवेल्लोके श्रुतं चारित्रदैशिकम्॥
पशुभिर्निविशेषं तु चेष्टन्ते मानुषा अपि॥ अनु. १४५ दा. पा. अ. IX॥
यज्ञस्य फलयोगेन देवलोकः समृद्ध्यते॥ अनु. १४५ दा. पा. अ. IX॥
एवं नित्यं प्रवर्धेते रोदसी च परस्परम्॥ अनु. १४५ दा. पा. अ. IX॥
ज्ञानाद् विशिष्टं जन्तूनां नास्ति लोकत्रयेऽपि॥ अनु. १४५ दा. पा. अ. IX॥
सम्प्रगृह्य श्रुतं सर्वं कृतकृत्यो भवत्युत।
उपर्युपरि मर्त्यानां देववत् सम्प्रकाशते॥ अनु. १४५ दा. पा. अ. IX॥
कामं क्रोधं भयं दर्पमज्ञानं चैव बुद्धिजम्।
तच्छुतं नुदति क्षिप्रं यथा बायुर्बलाहकान्॥ अनु. १४५ दा. पा. अ. IX॥
भारतं मानवो धर्मो वेदाः साङ्गाश्चिकित्सितम्।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः॥ आश्व. ९२ दा. पा. अ. III॥
तस्मात् तु सर्ववेदानां सावित्री प्राण उच्यते।
धर्मं विज्ञासमानानां प्रमाणं परमं श्रुतिः।
द्वितीयं धर्मशास्त्राणि तृतीयं लोकसंग्रहः॥ आश्व. ९२ दा. पा. अ. XV॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
उष्ट्रः कण्टकितस्य वृक्षस्य पत्राणि खादति । कण्टकानां चिन्ताम् अकृत्वा पत्राणि यदा खादति तदा तस्य महान् आनन्दः भवति । यथार्थतः किमपि वस्तु स्वभावेन आनन्ददायकं दुःखदायकं वा न भवति उष्ट्रः कण्टकान् खादति इति कण्टकभक्षणं सर्वेभ्यः रोचते इति तु न भवति । स्वभाव एव अत्र प्रमुखविषय इति तु सत्यम् ।
कर्णामृतं सूक्तिरसं विमुच्य दोषेषु यत्नः सुमहान् खलस्य ।
: अवेक्षते केलिवनं प्रविश्य क्रमेलकः कण्टकजालमेव ॥(विक्रम१-२९)
उपवनं गतः अपि उष्ट्रः प्रमादवशात् अपि तत्रस्थान् सुन्दरान् वृक्षान् न पश्यति । स्वभावकारणेन सः कण्टकितान् वृक्षान् अन्विष्य तान् एव खादेत् । समाजे दोषाणां दर्शने एव दुष्टानां महान् आनन्दः ते गुणान् द्रष्टुं न शक्नुवन्ति दोषान् एव पश्यन्ति इति अनेन न्यायेन सूच्यते ।
<DOC_END>
<DOC_START>
उष्ट्रस्य पृष्ठभागे वस्तूनि स्थापयित्वा ये प्रवासं कुर्वन्ति ते तैः वस्तुभिः सह एकं लगुडं (दण्डम्) अपि तस्य पृष्ठभागे स्थापयित्वा नयन्ति । सः उष्ट्रः वस्तुभिः साकं तं दण्डम् अपि वहति । परन्तु समये प्राप्ते ते जनाः तम् उष्ट्रं ताडयितुं तस्य दण्डस्य उपयोगं कुर्वन्ति । वादेषु प्रतिपक्षिणा कथितया युक्त्या तस्य एव निरासः कृतः चेत् उष्ट्रलगुडन्याय इति वदन्ति ।
अयं हि स्वमते परेण उद्भाव्यमानानां दूषणानां तन्मते पातने अवतरति ।
<DOC_END>
<DOC_START>
कालस्य वेदनार्थं तु ज्योतिर्ज्ञानं पुरानघ॥ आश्व. ९२ दा. पा. अ. XVI॥
ॠग्यजुः साम मन्त्राणां श्लोकतत्वार्थ चिन्तनात्।
प्रत्यापत्ति विकल्पानां छन्दोज्ञानं प्रकल्पितम्॥ आश्व. ९२ दा. पा. अ. XVI॥
नामधातु विवेककार्यं पुरा व्याकरणं स्मृतम्॥ आश्व. ९२ दा. पा. अ. XVI॥
यूपवेद्यध्वरार्थं तु प्रोक्षण श्रपणाय तु।
यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम्॥ आश्व. ९२ दा. पा. अ. XVI॥
सर्वयज्ञविकल्पाय पुरा कल्पं प्रकीर्तितम्॥ आश्व. ९२ दा. पा. अ. XVI॥
सर्ववेदनिरुक्तानां निरुक्तमृषिभिः कृतम्॥ आश्व. ९२ दा. पा. अ. XVI॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
वैरं विकारं सृजति तद् वै शस्त्रमनायसम्॥ सभा. ५६/११॥
स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते।
न स्त्रीषु राजन् रतिमाप्नुवन्ति न मागधैः स्तूयमाना न सूतैः॥ उद्योग. ३६/५५॥
न वै भिन्ना जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भिन्नाः।
न वै भिन्ना गौरवं प्राप्नुवन्ति न वै भिन्नाः प्रशमं रोचयन्ति॥ उद्योग. ३६/५६॥
न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नैव तेषाम्।
भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किंचिदन्यद् विनाशात्॥ उद्योग. ३६/५७॥
तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत्॥ उद्योग. ३७/५६॥
वैरसंदीपनावेतौ लोभामर्षौ नराधिप॥ शान्ति. १०७/१०॥
न तद् बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम्॥ शान्ति. १३९/२५॥
सान्त्वे प्रयुक्ते सततं कृतवैरे न विश्वसेत्।
क्षिप्रं स वध्यते मूढो न हि वैरं प्रशाम्यति॥ शान्ति. १३९/२६॥
सर्वेषां कृतवैराणामविश्वासः सुखोदय॥ शान्ति. १३९/२८॥
अन्योन्यकृतवैराणां न सन्धिरुपपद्यते॥ शान्ति. १३९/३१॥
विश्वासद् बध्यते लोके तस्माच्छ्रेयोऽप्यदर्शनम्॥ शान्ति. १३९/३८॥
नैव तिष्ठति तद् वैरं पुष्करस्थमिवोदकम्॥ शान्ति. १३९/४१॥
वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः।
स्त्रीकृतं वास्तुजं वाग्जं ससापत्नापराधजम्॥ शान्ति. १३९/४२॥
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि।
छन्नं संतिष्ठते वैरं गूढोऽग्निरिव दारुषु॥ शान्ति. १३९/४४॥
न हि वैराग्निरुद्भूतः कर्म चाप्यपराधजम्।
शाम्यत्यदग्ध्वा नृपते विना ह्येकतर क्षयात्॥ शान्ति. १३९/४६॥
मृन्मयस्येव भग्नस्य यथा सन्धिर्न विद्यते॥ शान्ति. १३९/६९॥
न हि वैराणि शाम्यन्ति कुले दुःखगतानि च।
आख्यातारश्च विद्यन्ते कुले वै ध्रियते पुमान्॥ शान्ति. १३९/७२॥
उपगृह्य तु वैराणि सान्त्वयन्ति नराधिप।
अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि॥ शान्ति. १३९/७३॥
गुरूणां वैर निर्बन्धो न कर्तव्यः कथंचन॥ अनु. १४५ दा. पा. अ. XI॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
उष्ट्रस्य उदरे पीडा भवति चेत् औषधं किम् औषधम् आसक्तिजनकम् अस्ति । एकः शूलः उष्णीकृत्य तस्य शरीरस्य उपरि स्थापनीयः । मनुष्यस्य अपि एवमेव । लघुपीडायाः कारणेन दुःखं वदति तर्हि महती पीडा सहनीया भवति ।
<DOC_END>
<DOC_START>
त्यागवांश्च पुनः पापं नालंकर्तुमिति श्रुतिः।
त्यागवाञ्जन्म मरणे नाप्नोति श्रुतिर्यदा॥ शान्ति. ७/३८॥
स धनंजय निर्द्वन्द्वो मुनिर्ज्ञानसमन्वितः॥ शान्ति. ७/३९॥
त्यक्त्वा प्रीतिं च शोकं च लब्ध्वा बुद्धिमयं वसु॥ शान्ति. १०४/७॥
अनागतं यन्न ममेति विद्यादतिक्रान्तं यन्न ममेति विद्यात्।
दिष्टं बलीय इति मन्यमानास्ते पण्डितास्तत्सतां स्थानमाहुः॥ शान्ति. १०४/२२॥
नानुशोचेत कौसल्य सर्वार्थेषु तथा भव॥ शान्ति. १०४/२७॥
श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः।
योगधर्मविदो धीरा स्वयमेव त्यजन्त्युत॥ शान्ति. १०४/३४॥
धनं वा पुरुषो राजन् पुरुषं वा पुनर्धनम्।
अवश्यं संजहात्येव विद्वान् तद् कोऽनुसंज्वरेत्॥ शान्ति. १०४/४५॥
यो वै न पापे निरतो न पुण्ये नार्थे न धर्मे मनुजो न कामे।
विमुक्तदोषः समलोष्टकाञ्चनो विमुच्यते दुःखसुखार्थसिद्धेः॥ शान्ति. १६७/४४॥
स्नेहेन युक्तस्य न चास्ति मुक्तिरिति स्वयम्भूर्भगवानुवाच।
बुधाश्च निर्वाणपरा भवन्ति तस्मान्न कुर्यात् प्रियमप्रियं च॥ शान्ति. १६७/४६॥
यथा यथा च पर्येति लोकतन्त्रमसारवत्।
तथा तथा विरागोऽत्र जायते नात्र संशयः॥ शान्ति. १७४/४॥
आत्मापि चायं न मम सर्वा वा पृथिवी मम।
यथा मम तथाऽन्येषमिति चिन्त्य न मे व्यथा।
एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे॥ शान्ति. १७४/१४॥
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च॥ शान्ति. १७५/३८॥
सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने॥ शान्ति. १७७/१४॥
निवर्तस्व विधित्साभ्यः शाम्य निर्विद्य कामुक।
असकृच्चासि निकृतो न च निर्विद्यसे ततः॥ शान्ति. १७७/१८॥
निर्वेदादेव निर्वाणं न च किञ्चिद् विचिन्तयेत्।
सुखं वै ब्राह्मणो ब्रह्म निर्वेदेनाधिगच्छति॥ शान्ति. १८९/१७॥
विज्ञानार्थे हि पञ्चानामिच्छा पूर्वं प्रवर्तते।
प्राप्यैकं जायते कामो द्वेषो वा भरतर्षभ॥ शान्ति. २७३/३॥
ततस्तदर्थं यतते कर्म चारभते महत्।
इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति॥ शान्ति. २७३/४॥
ततो रागः प्रभवति द्वेषश्च तदनन्तरम्।
ततो लोभः प्रभवति मोहश्च तदनन्तरम्॥ शान्ति. २७३/५॥
न धर्मे जायते बुद्धिर्व्याजाद् धर्मं करोति च॥ शान्ति. २७३/६॥
व्याजेन चरते धर्ममर्थं व्याजेन रोचते।
व्याजेन सिद्ध्यमानेषु धनेषु कुरुनन्दन॥ शान्ति. २७३/७॥
तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति।
सुहृद्भिर्वार्यमाणोऽपि पण्डितैश्चापि भारत॥ शान्ति. २७३/८॥
य एतान् प्रज्ञया दोषान् पूर्वमेवानुपश्यति॥ शान्ति. २७३/१३॥
तस्य साधुसमाचारादभ्यासाच्चैव वर्धते॥ शान्ति. २७३/१४॥
प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति।
सोऽथ धर्मादवाप्तेषु धनेषु कुरुते मनः॥ शान्ति. २७३/१५॥
तस्यैव सिञ्चते मूलं गुणान् पश्यति तत्र वै।
धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम्॥ शान्ति. २७३/१६॥
स मित्रधनलाभात् तु प्रेत्य चेह च नन्दति।
शब्दे स्पर्शे रसे रूपे तथा गन्धे च भारत॥ शान्ति. २७३/१७॥
प्रभुत्वं लभते जन्तुर्धर्मस्यैत् फलं विदुः॥ शान्ति. २७३/१८॥
प्रज्ञाचक्षुर्यदा कामे रसे गन्धे न रज्यते॥ शान्ति. २७३/१९॥
शब्दे स्पर्शे तथा रूपे न च भावयते मनः।
विमुच्यते तदा कामान्न च धर्मं विमुञ्चति॥ शान्ति. २७३/२०॥
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम्।
ततो मोक्षाय यतते नानुपायादुपायतः॥ शान्ति. २७३/२१॥
शनैर्निर्वेदमादत्ते पापं कर्म जहाति च।
धर्मात्मा चैव भवति मोक्षं च लभते परम्॥ शान्ति. २७३/२२॥
शरीरं गृहसंज्ञस्य शौच तीर्थस्य देहिनः।
बुद्धिमार्ग प्रयातस्य सुखं त्विह परत्र च॥ शान्ति. २९८/३६॥
येन सर्वं परित्यक्तं स विद्वान् स च पण्डितः॥ शान्ति. ३२९/१४॥
न संवेगोऽस्ति चेत् पुंसः काष्ठलोष्ठसमो हि सः॥ अनु. १४५ दा. पा. अ. XIV॥
दोषदर्शी भवेत् तत्र यत्र रागः प्रवर्तते।
अनिष्टवर्धितं पश्येत् तदा क्षिप्रं विरज्यते॥ शान्ति. ३३०/६॥
उद्वेगो जायते शीघ्रं निर्वाणस्य परस्परम्॥
तेनोद्वेगेन चाप्यस्य विमर्शो जायते पुनः।
विमर्शो नाम वैराग्यं सर्वद्रव्येषु जायते॥
वैराग्येण परां शान्तिं लभन्ते मानवाः शुभे।
मोक्षस्योपनिषद् दिव्यं वैराग्यमिति निश्चितम्॥ अनु. १४५ दा. पा. अ. XIV॥
चेतनावत्सु चैतन्यं समं भूतेषु पश्यति॥
निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम्। आश्व. १८/३३॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
रक्षणं समुपात्तानामेतद् वैभव लक्षणम्॥ सभा. ५४/७॥
प्रध्वंसिनी क्रूरसमाहिता श्रीर्मृदुप्रौढा गच्छति पुत्रपौत्रान्॥ सभा. ७५/१०॥
वर्तमानः सुखे सर्वो मुह्यतीति मतिर्मम॥ वन. १८१/३०॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
वैश्योऽधिगम्य वित्तानि ब्रह्मकर्माणि कारयेत्॥ विराट. ५०/६॥
वैश्योऽधीत्य कृषिगोरक्षपण्यैर्वित्तं चिन्वन् पालयन्नप्रमत्तः॥ उद्योग. २९/२५॥
दानातिथ्य क्रियाधर्मै यान्ति वैश्याश्च सद्गतिम्॥ वन. १५०/५१॥
कृषिश्च पाशुपाल्यं च विशां दानं च धर्मतः॥ कर्ण. ३२/४७॥
अदक्षो निन्द्यते वैश्यः॥ सौप्तिक. ३/२०॥
स्वधर्मान् नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः॥ शान्ति. १८८/१२॥
वणिज्या पशुरक्षा च कृष्यादानरतिः शुचिः।
वेदाध्ययनसम्पन्नः स वैश्य इति संज्ञितः॥ शान्ति. १८९/६॥
तथैव देवि वैश्याश्च लोकयात्राहिताः स्मृताः।
अन्ये तानुपजीवन्ति प्रत्यक्षफलदा हि ते॥ अनु. १४१ दा. पा.॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
वीर्यश्रेष्ठाश्च राजानो बलं धर्मोऽनुवर्तते॥ आदि. १३५/१९॥
शूराणां च नदीनां च दुर्विदाः प्रभवाः किल॥ आदि. १३६/११॥
स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ॥ आदि. २०१/१८॥
अनारम्भपरो राजा वल्मीक इव सीदति।
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति॥ सभा. १५/११॥
कृतवीर्य कुले जातो निर्वीर्यः किं करिष्यति।
नीर्वीर्ये तु कुले जातो वीर्यवांस्तु विशिष्यते॥ सभा. १६/९॥
दैन्यं यथा बलवति तथा मोहो बलान्विते।
तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना॥ सभा. १६/१४॥
राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम्।
रूपयौवन सौभाग्यं स्त्रीणां बलमनुत्तमम्॥ शान्ति. ३२०/७३॥
सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि।
सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम्॥ आश्रमवास. ३०/२४॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
शम एव यतीनां हि क्षमिणां सिद्धिकारकः।
क्षमावतामयं लोकः परश्चैव क्षमावताम्॥ आदि. ४२/९॥
शममेव परं मन्ये शमात् क्षेमं भवेन्मम॥ सभा. १५/५॥
प्रजानां सन्धिमूलं हि शमम्॥ वन. २९/२९॥
वाचो वेगं मनसः क्रोधवेगं विधित्सावेगमुदरोपस्थवेगम्।
एतान् वेगान् यो विषहेदुदीर्णांस्तं मन्येऽहं ब्राह्मणं वै मुनिं च॥ शान्ति. २९९/१४॥
अक्रोधनः क्रुध्यतां वै विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः।
अमानुषान्मानुषो वै विशिष्टस्तथाज्ञानाज्ज्ञानविद् वै विशिष्टः॥ शान्ति. २९९/१५॥
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा॥ अनु. १०८/१०॥
शमस्तू परमो धर्मः प्रवृत्तः सत्सु नित्यशः।
गृहस्थानां विशुद्धानां धर्मस्य निचयो महान्॥ अनु. १४१/७०॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
न तस्य बीजं रोहति रोहकाले न तस्य वर्षं वर्षति वर्षकाले।
भीतं प्रपन्नं प्रददाति शत्रवे न स त्रातारं लभते त्राणमिच्छन्॥ उद्योग. १२/१९॥
मोघमन्नं विन्दति चाप्यचेताः स्वर्गाल्लोकाद् भ्रश्यति नष्टचेष्टः।
भीतं प्रपन्नं प्रददाति यो वै न तस्य हव्यं प्रतिगृह्णन्ति देवाः॥ उद्योग. १२/२०॥
प्रमीयते चास्य प्रजा ह्यकाले सदा विवासं पितरोऽस्य कुर्वते।
भीतं प्रपन्नं प्रददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम्॥ उद्योग. १२/२१॥
शरणागतस्य कर्त्तव्यमातिथ्यं हि प्रयत्नतः॥ शान्ति. १४६/६॥
न निष्कृतिर्भवेत् तस्य यो हन्याच्छरणागतम्॥ शान्ति. १४९/१९॥
भवेत् स गुरुतल्पी च ब्रह्महा च स वै भवेत्।
सुरापानं स कुर्याच्च यो हन्याच्छरणागतम्॥ अनुशासन. ९६/११॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
तत्त्वबुद्धेः शरीरस्थं मनो नामार्थचिन्तकम्॥ शान्ति. २५४/९॥
इन्द्रियाणि मनः पौरास्तदर्थं तु पराकृतिः।
तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा।
तदर्थमुपजीवन्ति पौराः सह पुरेश्वरैः॥ शान्ति. २५४/१०॥
एक प्रसूयते राजन्नेक एव विनश्यति॥ अनु. १११/११॥
असहायः पिता माता तथा भ्राता सुतो गुरुः॥ अनु. १११/१२॥
मृतं शरीरमुत्सृज्य काष्ठलोष्ठसमं जनाः॥ अनु. १११/१३॥
मुहूर्तमिव रोदित्वा ततो यान्ति पराङ्मुखाः।
तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति॥ अनु. १११/१४॥
तस्माद् धर्मः सहायश्च सेवितव्यः सदा नृभिः।
प्राणी धर्म समायुक्तो गच्छेत् स्वर्ग गतिं पराम्॥ अनु. १११/१५॥
तस्मान्न्यायगतैरर्थैर्धर्मं सेवेत पण्डितः॥ अनु. १११/१६॥
धर्म एको मनुष्याणां सहायः पारलौकिकः।
लोभान्मोहादनुक्रोशाद् भयाद् वाप्यबहुश्रुतः॥ अनु. १११/१७॥
पृथिवी वायुराकाशमापो ज्योतिर्मनोऽन्तकः॥ अनु. १११/२१॥
बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा।
प्राणिनामिह सर्वेषां साक्षिभूता निशानिशम्।। अनु. १११/२२॥
एतैश्च सह धर्मोऽपि तं जीवमनुगच्छति।
यदि धर्मं यथाशक्ति जन्म प्रभृति सेवते।
ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम्॥ अनु. १११/३८॥
अधर्मेण समायुक्तो यमस्य विषयं गतः।
महद् दुःखं समासाद्य तिर्यग्योनौ प्रजायते॥ अनु. १११/४४॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
शत्रुश्चैव हि मित्रं च न लेख्यं न च मातृका।
यो वै संतापयति यं स शत्रुः प्रोच्यते नृप॥ सभा. ५५/१०॥
नास्ति वै जातितः शत्रुः पुरुषस्य विशाम्पते।
येन सधारणी वृत्तिः स शत्रुर्नेतरो जनः॥ सभा. ५५/१५॥
शत्रुपक्षं समृध्यन्तं यो मोहात् समुपेक्षते।
व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः॥ सभा. ५५/१६॥
वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात्॥ सभा. ५५/१७॥
सर्वोपायै र्निहन्तव्याः शत्रवः शत्रुसूदन॥ सभा. ७४/८॥
सर्वैः पराक्रमै र्वीर वध्यः शत्रुरमित्रहन्।
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा॥ वन. २२/२३॥
न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः।
न्यग्भूत्वा पर्युपासीत वध्यं हन्याद् बले सति।
अहताद्धि भयं तस्माज्जायते नचिरादिव॥ उद्योग. ३८/२९॥
द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः।
प्रिये शुभानि कार्याणि द्वेष्ये पापानि चैव ह॥ उद्योग. ३९/४॥
प्राग्विरुद्धैः शमं सद्भिः काथं वा क्रियते पुनः॥ उद्योग. ४९/३२॥
न लब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः॥ उद्योग. १३४/२८॥
पीडाकरममित्राणां यत् स्यात् कर्तव्यमेव तत्॥ द्रोण. १४३/६८॥
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा।
अल्पोऽपि दहत्यग्निर्विषमल्पं हिनस्ति च॥ शान्ति. ५८/१७॥
अरोर्हि दुर्हृदाद् भेयं भग्नपुच्छादिवोरगात्॥ शान्ति. ८२/५७॥
अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति।
सामर्थ्यं योगात् कार्याणामनित्या वै सदा गतिः॥ शान्ति. १३८/१३॥
श्रेष्ठो हि पण्डितः शत्रुर्न च मित्रमपण्डितः॥ शान्ति. १३८/४६॥
न ह्यमित्रे वशं यान्ति प्राज्ञा निष्कारणं सखे॥ शान्ति. १३८/१९२॥
विश्वासयित्वा द्वेष्टारमवलुम्पेद् यथा वृकः॥ शान्ति. १४०/४६॥
दुःखं सपत्नेषु समृद्धिभावः॥ आश्व. ९/६॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते॥ उद्योग. ३८/१॥
पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ।
सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां ततो दद्यान्नमवेक्ष्य धीरः॥ उद्योग. ३८/२॥
चिकित्सकः शल्यकर्तावकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च।
सेनाजीवी श्रुतिविक्रायकश्च भृशं प्रियोऽप्यतिथिर्नोदकार्हः॥ उद्योग. ३८/४॥
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम्॥ उद्योग. ३९/७४॥
शिष्टाचारश्च शिष्टश्च धर्मो धर्मभृतां वर।
सेवितव्यो नरव्याघ्र प्रेत्येह च सुखेप्सुना॥ शान्ति. ३५/४८॥
पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः।
व्याधितानां च सर्वेषामायुषमभिनन्दनम्॥ अनु. १६२/५१॥
न पाणिपादचपलो न नेत्रचपलो मुनिः।
न च वागङ्गचपल इति शिष्टस्य गोचरः॥ आश्व. ४५/१८॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
पुत्रादनन्तरं शिष्य इति धर्मविदो विदुः।
एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः॥ विराट. ५०/२१॥
मानं न कुर्यान्नादधीत रोषमेष प्रथमो ब्रह्मचर्यस्य पादः॥ उद्योग. ४४/१०॥
आचार्यस्य प्रियं कुर्यात् प्राणैरपि धनैरपि।
आचार्येणात्मकृतं विजानन् ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन।
यन्मन्यते तं प्रति हृष्टबुद्धिः स वै तृतीयो ब्रह्मचर्यस्य पादः॥ उद्योग. ४४/१४॥
नाचार्यस्यानपाकृत्य प्रवासं प्राज्ञः कुर्वीत नैतदहं करोमि।
इतीव मन्येत न भाषयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः॥ उद्योग. ४४/१५॥
आचार्यानुगतो मार्गः शिष्यैरन्वास्यते सदा॥ द्रोण. ११३/३३॥
नाशिष्ये सम्प्रदातव्यो नाव्रते नाकृतात्मनि॥ शान्ति. ३२७/४५॥
यथा हि कनकं शुद्धं तापच्छेदनिकर्षणैः॥ शान्ति. ३२७/४६॥
न नियोज्याश्च वः शिष्या अनियोगे महाभये॥ शान्ति. ३२७/४७॥
यथामति यथापाठं तथा विद्या फलिष्यति।
भृत्यानां स्वामिवचनं राज्ञो लोकानुपालनम्॥ शान्ति. ३५९/५॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
शूद्रः शुश्रूषणं कुर्यात् त्रिषु वर्णॆषु नित्यशः।
वन्दना योगविधिभिर्वैतसीं वृत्तिमास्थितः॥ विराट. ५०/६॥
ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः॥ कर्ण. ३२/४७॥
अभ्यनुज्ञातराज्ञस्य शूद्रस्य जगतीपते॥ शान्ति. ६३/१२॥
आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम्॥ शान्ति. ६३/१३॥
न हि यज्ञेषु शूद्रस्य किञ्चिदस्ति परिग्रहः॥ शान्ति. १६५/८॥
कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः॥ शान्ति. १८८/१३॥
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः॥ शान्ति. १८९/७॥
शूद्रधर्मः परो नित्यं शुश्रूषा च द्विजातिषु॥ अनु. १४१/५७॥
वार्ता च कारुकर्माणि शिल्पं नाट्यं तथैव च॥ अनु. १४१ दा. पा.॥
शूद्रोऽप्यागमसम्पन्नो द्विजो भवति संस्कृतः॥ अनु. १४३/४६॥
शूद्रोऽपि द्विजवत् सेव्य इति ब्रह्माब्रवीत् स्वयम्॥ अनु. १४३/४८॥
स्वभावः कर्म च शुभं यत्र शूद्रेऽपि तिष्ठति।
विशिष्टः स द्विजातेर्वै विज्ञेय इति मे मतिः॥ अनु. १४३/४९॥
वृत्ते स्थितस्तु शूद्रोऽपि ब्राह्मणत्वं नियच्छति॥ अनु. १४३/५१॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
न शोच्यं विदुषांश्रेष्ठ शोकः कार्यविनाशनः॥ द्रोण. ८०/७॥
यत् तु कार्यं भवेत् कार्यं कर्मणा तत् समाचर।
हीनचेष्टस्य यः शोकः स हि शत्रुर्धनंजय॥ द्रोण. ८०/८॥
शोचन् नन्दयते शत्रून् कर्शयत्यपि बान्धवान्।
क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि॥ द्रोण. ८०/९॥
अर्थान्न शोचन् प्राप्नोति न शोचन् विन्दते फलम्।
न शोचञ्छ्रियमाप्नोति न शोचन् विन्दते परम्॥ स्री. १/३८॥
न शोचन् मृतमन्वेति न शोचन् म्रियते नरः।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि॥ स्री. २/७॥
शोकस्थानसहस्रणि भयस्थानशतानि च॥ शान्ति. १७४/४०॥
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥ स्री. २/२२॥
शोकपङ्कार्णवे मग्ना जीर्णा वन गजा इव॥ शान्ति. १७४/६॥
प्रीत्या शोकः प्रभवति वियोगात् तस्य देहिनः।
यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति॥ शान्ति. १६३/१३॥
दैवायत्तमिदं सर्वं सुख दुःखे भवाभवे॥ शान्ति. १७४/२७॥
दान्तं जितेन्द्रियं चापि शोको न स्पृशति नरम्॥ शान्ति. १७४/४१॥
एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेतद् बुधः।
उदयास्तमयज्ञं हि न शोकः स्प्रष्टुमर्हति॥ शान्ति. १७४/४२॥
किंचिदेव ममत्वेन यदा भवति कल्पितम्।
तदेव परितापार्थं सर्वं सम्पद्यते तथा॥ शान्ति. १७४/४४॥
अमित्राश्च प्रहृष्यन्ति शोके नास्ति सहायता॥ शान्ति. २२६/४॥
संतापाद् भ्रश्यते रूपं संतापाद् भ्रश्यते श्रियः॥ शान्ति. २२६/५॥
नार्थो न धर्मो न यशो योऽतीतमनुशोचति।
अप्यभावेन युज्येत तच्चास्य न निवर्तते॥ शान्ति. ३३०/७॥
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च।
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते॥ शान्ति. ३३०/८॥
यस्मिन् न शक्यते कर्त्तुं यत्नस्तन्नानुचिन्तयेत्॥ शान्ति. ३३०/११॥
भैषज्यमेतद् दुःखस्य यदेतन्नानुचिन्तयेत्॥ स्री. २/२७॥
चिन्त्यमानं न व्येति भूयश्चापि प्रवर्धते॥ शा. ३३०/१२॥
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः॥ स्री. २/३१॥
एतद् विज्ञानसामर्थं न बालैः समतामियात्॥ शान्ति. ३३०/१३॥
मानुषा मानसैर्दुःखैः संयुज्यन्तेऽल्पबुद्धयः॥ अनु. १४५ दा. पा.॥
स्नेहस्तत्र न कर्तव्यो विप्रयोगो हि तैर्ध्रुवः॥ अनु. १४५ दा. पा.XIV॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
मानसं सुकृतं यत् तच्छौचमाभ्यन्तरं स्मृतम्॥ अनु. १४५ दा. पा. अ. XI॥
बाह्यशौचं भवेदेतत् तथैवाचमनादिना॥ अनु. १४५ दा. पा. अ. XI॥
शकृता भूमिशुद्धिः स्याल्लौहानां भस्मना स्मृतम्।
तक्षणं घर्षणं चैव दारवाणां विशोधनम्॥ अनु. १४५ दा. पा. अ. XI॥
दहनं मृण्मयानां च मर्त्यानां कृच्छ्रधारणम्।
शेषाणां देवि सर्वेषामातपेन जलेन च॥ अनु. १४५ दा. पा. अ. XI॥
मर्यादायां स्थितिश्चैव शमः शौचस्य लक्षणम्॥ अनु. ९२ दा. पा. अ. XIII॥
मनश्शौचं कर्मशौचं कुलशौचं च भारत।
शरीरशौचं वाक्छौचं शौचं पञ्चविधं स्मृतम्॥ अनु. ९२ दा. पा. अ. XX॥
पञ्चस्वेतेषु हृदि शौचं विशिष्यते॥ अनु. ९२ दा. पा. अ. XX॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
श्रद्धा वैवस्वती सेयं सूर्यस्य दुहिता द्विज।
सावित्री प्रसवित्री च बहिर्वाङ्मनसी ततः॥ शान्ति. २६४/८॥
वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च भारत।
श्रद्धावृद्धं वाड्मनसी न कर्म त्रातुमर्हति॥ शान्ति. २६४/९॥
भोज्यमन्नं वदान्यस्य कदर्यस्य न वार्धुषेः॥ शान्ति. २६४/१३॥
अश्रद्धा परमं पापं श्रद्धा पापप्रमोचिनी।
जहाति पापं श्रद्धावान् सर्पो जीर्णमिव त्वचम्॥ शान्ति. २६४/१५॥
ज्यायसी या पवित्राणां निवृत्तिः श्रद्ध्या सह।
निवृत्तशीलदोषो यः श्रद्धावान् पूत एव सः॥ शान्ति. २६४/१६॥
किं तस्य तपसा कार्यं किं वृत्तेन किमात्मना।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥ शान्ति. २६४/१७॥
दैवगुह्येषु चान्येषु हेतुर्देवि निरर्थकः॥ अनु. १४५ दा. पा. अ. IX॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
अनुग्रहं च मित्राणाममित्राणां च निग्रहम्।
संग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः॥ शान्ति. २८७/१६॥
निवृत्तिः कर्मणः पापात् सततं पुण्यशीलता।
सद्भिश्च समुदाचारः श्रेय एतदसंशयम्॥ शान्ति. २८७/१७॥
वाक् चैव मधुरा प्रोक्ता श्रेय एतदसंशयम्॥ शान्ति. २८७/१८॥
असंत्यागश्च भृत्यानां श्रेय एतदसंशयम्॥ शान्ति. २८७/१९॥
अहंकारस्य च त्यागः प्रमादस्य च निग्रहः।
संतोषश्चैकचर्या च कूटस्थं श्रेय उच्यते॥ शान्ति. २८७/२१॥
धर्मेण वेदाध्ययनं वेदान्तानां तथैव च।
ज्ञानार्थानां च जिज्ञासा श्रेय एतदसंशयम्॥ शान्ति. २८७/२२॥
नात्यर्थमुपसेवेत श्रेयसोऽर्थी कथंचन॥ शान्ति. २८७/२३॥
अतियोगमयोगं च श्रेयसोऽर्थी परित्यजेत्॥ शान्ति. २८७/२४॥
आत्मोत्कर्षं न मार्गेत परेषां परिनिन्दया।
स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात्॥ शान्ति. २८७/२५॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
अनार्यकर्म त्वार्येण सुदुष्करतमं भुवि॥ द्रोण. १४३/१०॥
आत्मोपमस्तु भूतेषु यो वै भवति मानवः।
न्यस्तदण्डो जितक्रोधः प्रेत्येह लभते सुखम्॥ शान्ति. ६६/३६॥
यदा निवृत्तः सर्वस्मात् कामो योऽस्य हृदि स्थितः।
तदा भवति सत्वस्थस्ततो ब्रह्म समश्नुते॥ शान्ति. ६६/३८॥
शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम्॥ शान्ति. ८३/१६॥
न हि वैरं महात्मनो विवृण्वन्त्यपकारिषु।
शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम्॥ शान्ति. १५७/१०॥
येष्वावृत्ति भयं नास्ति परलोक भयं न च।
नामिषेषु प्रसंगोऽस्ति न प्रियेष्वप्रियेषु च॥ शान्ति. १५८/२३॥
शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः।
सुखं दुःखं समं येषां सत्यं येषां परायणम्॥ शान्ति. १५८/२४॥
दातारो न ग्रहीतारो दयावन्तस्तथैव च।
पितृदेवातिथिदेवाश्च नित्योद्युक्तास्तथैव च॥ शान्ति. १५८/२५॥
सर्वभूतहिताश्चैव सर्वदेयाश्च भारत॥ शान्ति. १५८/२६॥
न ते चालयितुं शक्या धर्मव्यापारकारिणः।
न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम्॥ शान्ति. १५८/२७॥
न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः।
ते सेव्याः साधुभिर्नित्यं येष्वहिंसा प्रतिष्ठिता॥ शान्ति. १५८/२८॥
सुव्रताः स्थिरमर्यादास्तानुपास्व च पृच्छ च॥ शान्ति. १५८/२९॥
न धनार्थं यशोऽर्थं वा धर्मस्तेषां युधिष्ठिर।
अवश्यं कार्यं इत्येव शरीरस्य क्रियास्तथा॥ शान्ति. १५८/३०॥
न भयं क्रोध चापल्ये न शोकस्तेषु विद्यते।
येष्वलोभस्तथामोहो ये च सत्यार्जवे स्थिताः।
तेषु कौन्तेय रज्येथा येषां न भ्रश्यते पुनः॥ शान्ति. १५८/३२॥
ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च।
निर्ममा निरहंकाराः सत्त्वस्थाः समदर्शिनः॥ शान्ति. १५८/३३॥
लाभालाभौ सुखदुःखे च तात प्रियाप्रिये मरणं जीवितं च।
समानि येषां स्थिरविक्रमाणां बुभुत्सतां सत्त्वपथे स्थितानाम्॥ शान्ति. १५८/३४॥
दैवात् सर्वे गुणवन्तो भवन्ति शुभाशुभे वाक्प्रलापास्तथान्ये॥ शान्ति. १५८/३५॥
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा।
अनुग्रहश्च दानं च सतां धर्मः सनातनः॥ शान्ति. १६२/२१॥
मधु प्रयाताय सुखाय सन्तः॥ शान्ति. २२२/२५॥
ॠषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्॥ शान्ति. ३२३/६॥
निवृत्ताः कामभोगेषु तान् नमस्यामि मातले॥ अनु. ९६ दा. पा. अ. II॥
धनं विद्यास्तथैश्वर्यं येषां न चलयेन्मतिम्।
चलितां ये निगृह्णन्ति तान् नित्यं पूजयाम्यहम्॥ अनु. ९६ दा. पा. अ. II॥
परैः कीर्तितशौचानां मातले तान् नमाम्यहम्॥ अनु. ९६ दा. पा. अ. II॥
शुचयस्तीर्थ भूतास्ते ये भैक्ष्यमुपभुञ्जते॥ अनु. १०८/५॥
प्रजार्थमपि लोकार्थं महद्भिः क्रियते तपः॥ अनु. १४२/३३-३४ दा. पा.॥
महात्मनां तु तपसा सत्येन च शुचिस्मिते।
क्षमया च महाभागे भूतानां संस्थितिं विदुः॥ अनु. १४२/३३-३४ दा. पा.॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः॥ सभा. ३८/१७॥
वैश्यानां धान्यधनवाञ्छूद्राणामेव जन्मतः॥ सभा. ३८/१८॥
अग्निहोत्रमुखा वेदा गायत्री छन्दसां मुखम्।
राजा मुखं मनुष्याणां नदीनां सागरो मुखम्॥ सभा. ३८/२७॥
नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम्।
पर्वतानां मुखं मेरुर्गरुडः पततां मुखम्॥ सभा. ३८/२८॥
बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः।
धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाधिकाः॥ उद्योग. १६८/१७॥
मनुष्या जगति श्रेष्ठाः पक्षिणां पतगेश्वरः।
सरितां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्॥ भीष्म. १२१/३४॥
आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान् वरः।
जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम्॥ भीष्म. १२१/३५॥
चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम्।
शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरम्॥ शान्ति. ११/११॥
मनुष्याणां तु राजन्यः क्षत्रियो मध्यमः गुणः।
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम्॥ आश्व. ४३/१॥
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च॥ आश्व. ४३/२॥
शिंशपा मेषश्रृङ्गश्च तथा कीचकवेणवः॥ आश्व. ४३/३॥
एते दुमाणां राजानो लोकेऽस्मिन् नात्र संशयः।
हिमवान् पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान्॥ आश्व. ४३/४॥
श्वेतो नीलश्च भासश्च कोष्ठवांश्चैव पर्वतः।
गुरुस्कन्धो महेन्द्रश्च माल्यवान् पर्वतस्तथा॥ आश्व. ४३/५॥
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमा॥ आश्व. ४३/६॥
अम्भसां वरुणो राजा मरुतामिन्द्र उच्यते॥ आश्व. ४३/७॥
अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः॥ आश्व. ४३/८॥
ऒषधीनां पतिः सोमो विष्णुर्बलवतां वरः।
त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः॥ आश्व. ४३/९॥
दीक्षितानां तथा यज्ञो दैवानां मघवा तथा।
दिशामुदीची विप्राणां सोमो राजा प्रतापवान्॥ आश्व. ४३/१०॥
एष भूताधिपः सर्गः प्रजानां च प्रजापतिः॥ आश्व. ४३/११॥
सावित्री सर्वविद्यानां देवतानां प्रजापतिः॥ आश्व. ४४/५॥
ऒङ्कारः सर्ववेदानां वचसां प्राण एव च।
यदस्मिन् नियतं लोके सर्वं सावित्रीरुच्यते॥ आश्व. ४४/६॥
द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः॥ आश्व. ४४/१०॥
तथा सरोदपानानां सर्वेषां सागरोऽग्रजः॥ आश्व. ४३/१४॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
भाविन्यर्थे हि सत्स्त्रीणां वैकृतं नोपजायते॥ सभा. ७९/७॥
आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः॥ वन. ७०/८॥
रहिता भर्तृभिश्चैव न कुप्यन्ति कदाचन।
प्राणांश्चारित्रकवचान् धारयन्ति वरस्त्रियः॥ वन. ९०/९॥
स्त्रीणां वृत्तं पूज्यते देहरक्षा॥ वन. ३०६/२३॥
स्त्रियः श्रियो गृहस्योक्तास्तस्माद् रक्ष्या विशेषतः॥ उद्योग. ३८/११॥
पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनी॥ उद्योग. १७६/७॥
गतिः पतिः समस्थाया विषमे च पिता गतिः।
प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः॥ उद्योग. १७६/८॥
अदूष्या हि स्त्रियो रत्नमाप इत्येव धर्मतः॥ शान्ति. १६५/३२॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
न नूनं विद्यते सत्यं मानुषे किंचिदेव हि॥ शल्य. ६५/१३॥
अपारमिव चास्वस्थं संसारं त्यजतः सुखम्॥ शान्ति. ९/३३॥
इष्टबन्धुवियोगश्च तथेहाल्पं च जीवितम्॥ शान्ति. १५३/८४॥
नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम्।
नरके दुःखमेवाहुः सुखं तत्परमं पदम्॥ शान्ति. १९०/१४॥
पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम्॥ शान्ति. २३५/११॥
स्वभावस्त्रोतसा वृत्तमुह्यते सततं जगत्॥ शान्ति. २३५/१३॥
मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च॥ शान्ति. २३५/१४॥
कामग्राहेण घोरेण वेदयज्ञप्लवेन च॥ शान्ति. २३५/१५॥
धात्रा सृष्टानि भूतानि कृष्यन्ति यमसादनम्॥ शान्ति. २३५/१७॥
प्लवैरप्लवन्तो हि किं करिष्यन्त्यचेतसः॥ शान्ति. २३५/१८॥
कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति॥ शान्ति. २९८/१६॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
सत्यं हि सन्तः प्रतिपूजयन्ति॥ आदि. ९३/३५॥
नार्याः म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत॥ सभा. ५९/११॥
न चैवोक्ता न चानुक्ताः हीनतः परुषा गिरः।
भारत प्रतिजल्पन्ति सदा तूत्तमपूरुषाः॥ सभा. ७२/८॥
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि।
सन्तः प्रतिविजानन्तो लब्धसम्भावनाः स्वयम्॥ सभा. ७२/९॥
विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः॥ सभा. ७३/६॥
सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम्॥ सभा. ७३/७॥
न चोक्ता नैव चानुक्तास्त्वहिताः परुषा गिरः।
प्रतिजल्पन्ति वै धीरः सदा तूत्तमपूरुषाः॥ सभा. ७३/९॥
असम्भिन्नार्यमर्यादाः साधवाः प्रियदर्शनाः॥ सभा. ७३/११॥
नैवं वाचा व्यवसितं भीम विज्ञायते सताम्॥ सभा. ७७/३०॥
तृणानि भूमिरुदकं वाक् चतुर्थी च सुनृता।
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन॥ वन. २/५४॥
बालेषु पुत्रेषु कृपणं वदत्सु तथा वाचमवचिन्वन्ति सन्तः॥ वन. १३४/२७॥
साधुश्चासाधवे साधु साधवे नाप्नुयात् कथम्॥ वन. १९४/४॥
कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम्।
धर्ममित्येव सन्तुष्टास्ते शिष्टाः शिष्टसम्मताः॥ वन. २०७/६३॥
आचारपालनं चैव द्वितीयं शिष्टलक्षणम्॥ वन. २०७/६४॥
दमस्योपनिषत् त्यागः शिष्टाचारेषु नित्यदा॥ वन. २०७/६७॥
आचारश्च सतां धर्मः सन्तश्चाचारलक्षणाः॥ वन. २०७/७५॥
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा।
अनुग्रहश्च दानं च सतां धर्मः सनातनः॥ वन. २९७/३५॥
आत्मन्यपि न विश्वास्तथा भवति सत्सु यः।
तस्मात् सत्सु विशेषेण सर्वः प्रणयमिच्छति॥ वन. २९७/४२॥
सतां सदा शाश्वत धर्मवृत्तिः सन्तो न सीदन्ति न च व्यथन्ति।
सतां सद्भिर्नाफलः संगमोऽस्ति सद्भ्यो भयं नानुवर्तन्ति सन्तः॥ वन. २९७/४७॥
सन्तो हि सत्येन नयन्ति सूर्यं सन्तो भूमिं तपसा धारयन्ति।
सन्तो गतिर्भूतभव्यस्य राजन् सतां मध्ये नावसीदन्ति सन्तः॥ वन. २९७/४८॥
न च प्रसादः सत्पुरुषेषु मोघो न चाप्यर्थो नश्यति नापि मानः।
यस्मादेतन्नियतं सत्सु नित्यं तस्मात् सन्तो रक्षितारो भवन्ति॥ वन. २९७/५०॥
पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदनम्॥ उद्योग. ४/९॥
दुःखानि वै महात्मानः प्राप्नुवन्ति युधिष्ठिर॥ उद्योग. ८/५३॥
दृढं सतां संगतं चापि नित्यं ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीरः।
महार्थवत् सत्पुरुषेण संगतं तस्मात् सन्तं न जिघांसेत धीरः॥ उद्योग. १०/२४॥
मदा एतेऽवलिप्तानामेत एव सतां दमाः॥ उद्योग. ३४/४४॥
गतिरात्मवतां सन्तः सन्त एव सतां गतिः।
असतां च गतिः सन्तो न त्वसन्तः सतां गतिः॥ उद्योग. ३४/४६॥
अशक्तं मन्यमानास्तु धर्षयन्ति कुबुद्धयः॥ उद्योग. ३९/६२॥
अलं प्रसन्ना हि सुखाय सन्तः॥ उद्योग. ४०/१॥
अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः।
स वै परिणतप्रज्ञः प्रख्यातो मनुजोत्तमः॥ उद्योग. ६३/१९॥
एवं प्रज्ञान तृप्तस्य मुनेर्वर्त्म न विद्यते॥ उद्योग. ६३/२३॥
आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथंचन॥ द्रोण. ३३/९॥
गुणानामेव वक्तारः सन्तः सत्सु नराधिप॥ शान्ति. १३२/१३॥
असाधुभ्योऽस्य न भयं न चौरेभ्यो न राजतः।
अकिंचित् कस्यचित् कुर्वन् निर्भयः शुचिरावसेत्॥ शान्ति. २५९/१५॥
मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा।
न हि दुश्चरितं किंचिदात्मनोऽन्येषु पश्यति॥ शान्ति. २५९/१७॥
सदाचारो मतो धर्मः सन्तस्त्वाचार लक्षणाः॥ शान्ति. २६०/५॥
धर्मात्मनः सर्वदा सज्जना हि॥ अनु. १/२६॥
अध्यात्मं नैष्ठिकं सद्भि र्धर्मकामै र्निषेव्यते॥ अनु. १४३/१६॥
तदेव तावत् पर्याप्तं सज्जनस्य निदर्शनम्॥ अनु. १४८/४२॥
असम्भिन्नार्य मर्यादाः साधवाः पुरुषोत्तमाः॥ आश्रमवास. १२/२॥
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
वन्दे, अहम्, देवम्, तम्, श्रीतम्
रन्तारम्, कालम्, भासा, यः ।
लीलाम्, आर, अयोध्ये, वासे ॥
यः यः रामः, रामाधीः रामायां (सीतायां) धीः (न्यस्तचित्तः आप्यागः आप्यः अगः प्राप्तुं योग्याः मलयसह्याद्रिपर्वताः,
अयोध्ये वासे अयोध्यायाः प्रासादे, लीलाम् क्रीडाम्, आर प्राप्तवान् (ऋ-गतौ लिट्) । भासा कान्त्या, कालम् समयम्,
रन्तारम् क्रीडया यापयन्तम्, श्रीतम् श्रिया (लक्ष्म्या) इतम् (सर्वदा युक्तम् तं देवम् देवं श्रीरामम्, अहम्, वन्दे नमामि
(वदि अभिवादनस्तुत्योः लिट् उत्तमपुरुषः एकवचनम्) ।
देवाधिदेवः श्रीरामः सीतादेवीम् अन्विष्यन् सह्याद्रिमलयादिषु पर्वतेषु समचरत् । अनन्तरं सीतादेवीं प्राप्य अयोध्यां प्रत्यागत्य देव्या सह
लीलारसम् अनुभूतवान् (श्रीरामः लङ्कां गत्वा रावणं संहृत्य सीतादेवीं प्राप्य सुखेन अजीवत् इति भावः) । कान्तियुक्तः सन् सीतादेव्या
सह रममाणः कालं यापितवन्तं तं देवदेवं श्रीरामम् अहं नमस्करोमि ।
तं श्रीतं वन्देऽहं देवम् ॥
तम्, श्रीतम्, वन्दे, अहम्, देवम् ॥
मारामोराः मा, आराम, उराः लक्ष्मीदेव्याः कृते विहारस्थानमिव विद्यमानेन वक्षस्थलेन युक्तः, सेवाध्येयः यज्ञतपआदिभिः सेवाभिः
एव ध्यानं कर्तुं योग्यः, रामालाली रुक्मिणी इत्यादीः अष्ट पट्टमहिषीः सन्तोषयन् लालयन् श्रीकृष्णः, गोप्याराधी गोपी-आराधी
राधादीः गोपीः सन्तोषयन्, अभूत् जातः । साभालङ्कारं कान्त्या युक्तम् अलङ्कारम् कौस्तुभादिभिः भूषितः, श्रीतम् लक्ष्म्या युक्तं
हितम्, तं देवम् वासुदेवम्, तारम् उच्चस्वरेण, वन्दे नमामि ।
श्रीदेव्याः आरामः-विहारस्थानमिव विद्यते श्रीकृष्णस्य वक्षस्थलम् । अतः एव महाकविः मुरारिः 'समस्तलोकविजय श्री पूर्यमाणोरसम्' इति
प्रयुङ्क्ते । सः कृष्णः सेवा, तपः, यज्ञः इत्यादिभिः एव ध्यातुं योग्यः । सः रुक्मिणी, सत्यभामादीः अष्ट पट्टमहिषीः लालयन् सन्तोषयति ।
अपि च राधादीः गोपीः अपि आराधयति । कान्तियुक्तैः कौस्तुभादिभिः भूषणादिभिः अलङ्कृतः सन् लक्ष्मीदेव्या अनवरतं युक्तं तं वासुदेवं
<DOC_END>
<DOC_START>
अयं वर्गः श्रीराघवयादवीयविषयकः वर्तते ।
<DOC_END>
<DOC_START>
अयं वर्गः चित्रकाव्यग्रन्थविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः चित्रकाव्यप्रभेदविषयकः विद्यते ।
<DOC_END>
<DOC_START>
नांशा न चांशी पृथगस्ति । - युक्त्यानुशासनम् ५०
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनसूक्तिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः युक्त्यानुशासनविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनग्रन्थविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः योगशास्त्रविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः पाण्डवपुराणविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः आदिपुराणविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः यशस्तिलकचम्पूविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः पद्मपुराणविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः नीतिवाक्यामृतविषयकः विद्यते ।
<DOC_END>
<DOC_START>
बहिस्तुष्यति मूढात्मा पिहितज्योतिरन्तरे । - समाधिशतकम् ६०
<DOC_END>
<DOC_START>
अयं वर्गः समाधिशतकविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः दयोदयचम्पूविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः रत्नकरण्डश्रावकाचारविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनसूक्तिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अश्वमेधसहस्त्रं च सत्यं च तुलया धृतम् । शान्ति १६२/२६
अश्वमेधसहस्त्राद्धि सत्यमेव विश्ष्यते ॥ आदि ७४/१०३
सत्यं च वचनं राजन् समं वा स्यात्र व समम् ॥ आधि ७४/१०४
नास्ति सत्यसमो धर्मोन सत्याद् विद्यते परम् ।
न हि तीव्रतरं क्ंचिदनृतादिह विद्यते ॥ आधि ७४/१०५
राजन् सत्यं परं ब्रह्म सत्यं च समयः परः ।
मा त्याक्षीः समयं राजन् सत्यं संगतमस्तु ते ॥ आधि ७४/१०६
यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् ।
यथा चायुध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ॥ आदि १०३/४
सत्यं राजसु शोभते ॥ सभा २१/४४
सत्यं श्रेष्ठं पाण्दव विप्रलापम् वन ५/२१
सत्यं चानृततः श्रेयो नृशंस्याच्चानृशंसता ॥ वन २९/१५
राज्यं च पुत्राश्च यशो धनं च सर्वं न सत्यस्य कलामुपैति ॥ वन ३४/२२
सत्यं तथा व्याहरतां नानृते रमते मनः ॥ वन २०६/३९
सत्ये कृतवा प्रतिष्ठां तु प्रवर्तन्ते प्रवृतयः ॥ वन २०७/७४
प्राणान्तिके विवाहे च वक्तव्यमनृतं भवेत् ।
अनृतेन भवेत् सत्यं सत्येनैवानृतं भवेत् ॥ वन २०९/३
यद् भूतहितमत्यन्तं तत् सत्यमिति धारणा। वन २०९/४
सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् । शन्ति ३२९/१३
यद् भूतहितमत्यन्तं तद् वै सत्यं परं मतम् ॥ वन २१३/३१
सत्यं सत्येन दृश्यते ॥ उद्योग १३/२७
अक्रोधेन जयेत् क्रोधमशाधुं साधना जयेत् ।
जयेत् कदर्यं दानेन जयेत् सत्येन चानृतम् ॥ उद्योग ३९/७२
सत्ये ह्ममृतमाहितम् ॥ उद्योग ४३/३७
सत्यमेव सतां व्रतम् ॥ उद्योग ४३/३८
सत्यस्य वचनं साधु न सत्याद् विद्यते परम् ।
तत्वेनैव सुदुर्ज्ञेयं पश्य सत्यमनुष्ठितम् ॥ कर्ण ६९/३१
भवेत् सत्यमवक्तव्यम् वक्तव्यमनृतं भवेत् ।
यत्रानृतं भवेत् सत्यं सत्यं चाप्यनृतं भवेत् ॥ कर्ण ६२/३२
विवाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहारे ।
विप्रस्य चार्थे ह्यनृतं वदेत पञ्चानृतान्याहुरपातकानि ।। कर्ण ६९/३३
योऽन्यायेन जिहीर्षन्तो धर्ममिच्छन्ति कर्हिचित् ।
अकूजनेन मोक्षं वा नानुकूजेत् कथंचन ॥ कन ६९/५९
अवश्यं कूजितव्ये वा शंकेरन्नप्यकूजतः ।
श्रेयस्तत्रानृतं वक्तु< तत् सत्यमविचरितम् ॥ कर्ण ६९/६०
न हि सत्यादृते किंचित् राज्ञां वै सिद्धिकारकम् ॥ शन्ति ५६/१७
सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः ।
सत्यमेव नमस्येत सत्यं हि परमा गतिः ॥ शन्ति १६२/४
सत्यं धर्मस्तपो योगः सत्यं ब्र्ह्म सनातनम् ।
सत्यम् यज्ञः परः प्रोक्तः सर्वं सत्ये प्रतिष्ठितम् ॥ शान्ति १६२/५
नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् ।
स्थितिर्हि सत्यं धर्मस्य तस्मात् सत्यं न लोपयेत् ॥ शान्ति १६२/२४
तुलामारोपितो धर्मः सत्यम् चैवेति न: श्रुतम् ।
समक्षां तुलतो यतः सत्यं ततोऽधिकम् ॥ शान्ति १९९/६९
न मृत्युसेनामायान्तीं जातु कशित् प्रबाधते ।
ऋत्से सत्यमसत् त्याज्यं सत्ये ह्यमृतमाश्रितम् ॥ शान्ति १७५/२८
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ।
मृत्युमापद्यते मोहात् सत्येनापद्यतेऽमृतम् ॥ शान्ति १७५ /३०
सत्यम् ब्रह्म तपः सत्यं सत्यं विसृजते प्रजाः ।
सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति ॥ शान्ति १९०/१
न यज्ञात्ध्ययने दानो नियमास्तारयन्ति हि ।
यथा सत्यं परे लोके तथेह पुरुषर्षभ ॥ शान्ति १९९/६२
तपांसि यानि चीर्णानि चरिष्यन्ति च यत् तपः ।
शतैः सतसहस्स्त्रैश्च तैः सत्यान्न विशिष्यते ॥ शान्ति १९९/६३
सत्यमेकाक्षरं ब्र्ह्म सत्यमेकाक्षरं तपः ।
सत्यमेकाक्षरो यज्ञः सत्यमेकाक्षरं श्रुतम् ॥ शान्ति १९९/६४
न सत्यात् विद्यते परम् ॥ शान्ति ३२९/१२
सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् ।
सत्यात् धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम् ॥ शान्ति १९९/६५
सत्यं वेदास्तथाङ्गानि सत्यं विद्यास्तथा विधिः ।
रतचर्या तथा सत्यमोङ्कारः सस्त्यमेव च ॥ शान्ति १९९/६६
प्राणिनां जननं सत्यं सत्यं संततिरेव च ।
सत्येन वायुरभ्येति सत्येन तपते रविः ॥ शान्ति १९९/६७
सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः ।
सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्रः सरस्वती ॥ शान्ति १९९/६८
यतो धर्मस्ततः सस्त्यं सर्वं सत्येन वर्धते ॥ शान्ति १९९/ ७०
विवक्षता च सद्वाक्यं धर्मं सूक्ष्ममवेक्षता ।
सत्यं वाचमहिंस्त्रां च वेददनपवादिनीम् ॥ शान्ति २१५/१०
ईदृगल्पं च वक्तव्यमविक्षिप्तेन चेतसा ॥ शान्ति २१५/११
तस्मान्मनोवाक्शरीरै राचरेद् धैर्यमात्मनः ॥ शान्ति २१५/१३
वाक्प्रबद्धो हि संसारो विरागाद् व्याहरेद् यदि ।
बुद्ध्याप्यनुगृहीतेन मनसा कर्म तामसम् ॥ शान्ति २१५/१२
सत्यस्य वचनं साधु न सत्स्याद् विद्यते परम् ।
सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम् ॥ शान्ति २५९/१०
सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् ।
यद् भूतिहितमत्यन्तमेतत् सत्यं ब्रवीम्यहम् ॥ शान्ति २८९/२०
सत्येन शील्न सुखं नरेन्द्र ॥ शान्ति २९१/२३
न पावन तमं किंचित् सत्याद्ध्यगमं क्वचित् । शान्ति २९९/३०
सस्त्यं स्वर्गस्य सोपानं पारवारस्य नौरिव ॥ शान्ति २९९/३१
सत्येन सूर्यस्तपति सत्येनाग्निनः प्रदीप्यते ।
सस्त्येन मरुतो वान्ति सर्वं सत्ये प्रतिष्ठितम् ॥ अनुशासन् ७५/३०
सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा ।
सस्त्यमाहुः परो धर्मस्तमात् सत्यं न लङ्घयेत् ॥ अनु ७५/३१
मुनयः सस्त्यनिरता मुनयः सत्यविक्रमाः ।
मुनयः सत्यशापथास्तसमात् सत्यं विशिष्यते ॥ अनु ७५/३२
सत्यं वदत मासत्यं सत्यं धर्मः सनातनः ।
हरिश्चन्द्रश्चरति वै दिवि सत्येन चन्द्रवत् ॥ अनु ११५/६२
नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् ॥ अनु १४१/१६०-६१ दा० पा०
नास्ति सत्यात् परं दानं नास्ति सत्यात् परं तपः ॥ अनु १४५ दा० पा० अ० XI
यथा शृतं यथा दुष्टमात्मना यद् यथा कृतम् ।
तथा तस्याविकारेण वचनं सत्य लक्षणम् ॥ अनु १४५ दा० पा० अ० XI
दीर्घायुश्च भवेत् सत्यात् कुलसन्तानपालिकः ।
लोकसंस्थितिपालश्च भवेत् सत्येन मानवः ॥ अनु १४५ दा० पा० अ० XI
सत्यात् भूतानि जतानि स्थावराणि चराणि च ।’
तपसा तानि जीवन्ति इति तद् वित्त सुव्रतः ।
स्वां योनिं समतिक्रम्य वर्तन्ते स्वेन कर्मणा ॥ आश्व ३५/३२
ब्रह्म सत्यम् तपः सत्यं सत्यं चैव प्रजापतिः ।
सस्त्याद् भूतानि जातानि सत्यं भूतमयं जगत् ॥ आश्व ३५/३४
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
अन्तो नास्ति पिपासायाः संतोषः परमं सुखं । शान्ति ३३०/२१
तस्मात् संतोषमेवह् परं पश्यन्ति पण्डिताः ॥ वन २/ ४६
अनित्यं यौवनं रूपं जीवितं रलसंचयः ।
ऎश्वर्यं प्रियसंवासो गृध्येत् तत्र न पण्डितः ॥ वन २/४७
फलशाकमपि श्रेयो भॊक्तुं ह्यकृपणं गृहे । वन १९३/३०
यो दत्तवातिथिभूतेभ्यः पितृभ्यश्च द्विजोत्तमः ।
शिष्टान्यन्नानियो भुङ्क्ते किं वै सुखतरं ततः ॥ वन १७३/३२
असन्तोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् ॥ वन २१६/२३
तोष परो हि लाभः ॥ उद्योग ४०/१३
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत् सर्वमिति मत्वा शमं व्रजेत् ॥ द्रोण ६३/९
सन्तोषो वै स्वर्गतमः सस्तोषः परमं सुखम् । शान्ति २६/११
तुष्टेर्न किंचित् परतः सा सम्यक् प्रतितिष्ठति ॥ शान्ति २१/२
तुष्टेर्न किंचित् परमं सा सम्यक् प्रतितिष्ठ्ति ।
विनीत क्रोधहर्षस्य सततं सिद्धिरुत्तमा ॥ शान्ति २६/१२
नृपेणाहूयमानस्य यत् तिष्ठति भयं ह्यदि ।
न तत् तिष्ठति तुष्टानां वने मूलफलासिनाम् ॥ शान्ति १११/३१
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च ।
न शीलेन न वृत्तेन द्तथ नैवार्थसम्पदा ।
अलभ्यं लभते मत्यस्त्र का परिदेवना ॥ शान्ति २२६/२०
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति ।
प्राप्तव्यान्येव चाप्नोति दुःखानि च सुखानि च ॥ शान्ति २२६/२२
एतद् विदित्वा कात्स्न्र्येन यो न मुह्यति मानवः ।
कुशली सस्र्वदुःखेषु स वै सस्र्वधनो नरः ॥ शान्ति २२६/२३
अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम् ।
तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम् ॥ शान्ति ३५६/२
एषितस्यात्मनः काले वृद्धस्यैव सुतो यथा ॥ शान्ति ३५६/३
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
१. आत्मानमात्मन्यात्मना संधत्ते इत्यध्यात्मं तपनम् । - नियमसार-तात्पर्यवृत्तिः १२३
३. मैत्र्यादिसारमत्यन्तमध्यात्मं तद्विदो विदुः । - योगबिन्दुः ३५८
<DOC_END>
<DOC_START>
अन्तो नास्ति पिपासायाः संतोषः परमं सुखं । शान्ति ३३०/२१
तस्मात् संतोषमेवह् परं पश्यन्ति पण्डिताः ॥ वन २/ ४६
अनित्यं यौवनं रूपं जीवितं रलसंचयः ।
ऎश्वर्यं प्रियसंवासो गृध्येत् तत्र न पण्डितः ॥ वन २/४७
फलशाकमपि श्रेयो भॊक्तुं ह्यकृपणं गृहे । वन १९३/३०
यो दत्तवातिथिभूतेभ्यः पितृभ्यश्च द्विजोत्तमः ।
शिष्टान्यन्नानियो भुङ्क्ते किं वै सुखतरं ततः ॥ वन १७३/३२
असन्तोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् ॥ वन २१६/२३
तोष परो हि लाभः ॥ उद्योग ४०/१३
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत् सर्वमिति मत्वा शमं व्रजेत् ॥ द्रोण ६३/९
सन्तोषो वै स्वर्गतमः सस्तोषः परमं सुखम् । शान्ति २६/११
तुष्टेर्न किंचित् परतः सा सम्यक् प्रतितिष्ठति ॥ शान्ति २१/२
तुष्टेर्न किंचित् परमं सा सम्यक् प्रतितिष्ठ्ति ।
विनीत क्रोधहर्षस्य सततं सिद्धिरुत्तमा ॥ शान्ति २६/१२
नृपेणाहूयमानस्य यत् तिष्ठति भयं ह्यदि ।
न तत् तिष्ठति तुष्टानां वने मूलफलासिनाम् ॥ शान्ति १११/३१
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च ।
न शीलेन न वृत्तेन द्तथ नैवार्थसम्पदा ।
अलभ्यं लभते मत्यस्त्र का परिदेवना ॥ शान्ति २२६/२०
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति ।
प्राप्तव्यान्येव चाप्नोति दुःखानि च सुखानि च ॥ शान्ति २२६/२२
एतद् विदित्वा कात्स्न्र्येन यो न मुह्यति मानवः ।
कुशली सस्र्वदुःखेषु स वै सस्र्वधनो नरः ॥ शान्ति २२६/२३
अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम् ।
तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम् ॥ शान्ति ३५६/२
एषितस्यात्मनः काले वृद्धस्यैव सुतो यथा ॥ शान्ति ३५६/३
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
अयं वर्गः नियमसार-तात्पर्यवृत्तिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः अध्यात्मसारविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः योगबिन्दुविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः उत्तरपुराणविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः श्रावकधर्मप्रदीपविषयकः विद्यते ।
<DOC_END>
<DOC_START>
वस्त्रमापस्तिलान् भूमिं वासयते यथा ।
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥ वन १/२४
मोहजालस्य योनिर्हि मूढैरेव समागमः ।
येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च ।
ते सेव्यास्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी ॥ वन १/२७
असतां दर्शनात् स्पर्शात् संजल्पाश्च सहासनात् ।
धर्मचाराः प्रहीयन्ते सिद्धयन्ति च न मानवः ॥ वन १/२९
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् ।
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ।। वन १/३०
तस्य साधुसमारम्भाद् बुद्धिर्धर्मेषु राजते ॥ वन २१०/१२
असंत्यागात् पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात् ।
शुक्षेणार्द्रं दह्यते मिश्रभावात् तसमात् पापैः सह सन्धि न कुर्यात् ॥ उद्योग ३४/७०
कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते ।
तदेवापहरत्येनं तस्मात् कल्याणमाचरेत् ॥ उद्योग ३९/५५
येषु येषु नरव्याघ्र यत्र यत्र च वर्तते ।
अशु तच्छीलतामेति तदिदं त्वयि दृश्यते । द्रोण १४३/११
अन्योन्यस्य च विश्वासः स्वपचेन शुनो यथा ॥ शान्ति १३९/४०
अशाधुश्चैव परुषो लभते शीलमेकदा ।
साधोश्चापि ह्यसाधुभ्यः शोभना जायते प्रजा ॥ शान्ति २६७/११
यादृगिच्छेच्च भवितुं तादृग् भवति पूरुषः ॥ शान्ति २९९/३२
यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वास्स्तेनमेव ।
वासो यथा रंगवशं प्रायति तथा स तेषां वशमभ्युपैति ॥ शान्ति २९९/३३
अज्ञानेनावृतो लोको मात्सर्यान्त प्रकाशते ।
ल्भात् त्यजति मित्राणि संगात् स्वर्गं न गच्चति ॥ शान्ति २९९/४०
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
५. साधनात्साध्यविज्ञानमनुमानम् । - न्यायदीपिका ३, पृ० ६५
<DOC_END>
<DOC_START>
नैवाहमेतद् यशसे ददानि न चार्थहेतोर्न च भोगतृष्णया ।
पापैरनासेवित एष मार्ग इत्येवमेतत् सकलं करोमि ॥ वन १९८/२६
सद्भिः सदाध्यासितं तु प्रशस्तं तस्मात् प्रशस्तं श्रय्ते मतिर्मे ॥ वन १९८/२७
न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः ।
आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता ॥ शान्ति २८/४२
न चैव पुरुषो द्रष्टा स्वर्गस्य नरकस्य च ।
आगस्मतु सतां चक्षुर्नृपते तमिहाचर ॥ शान्ति २८/५४
सत्संनिकर्षे परिवर्तितव्यं विद्याधिकाश्चापि निषेवितव्याः ॥ अनु ९६ दा० पा०
ब्राह्मे मुहूर्त्ते बुध्येत धर्मार्थै चानुचिन्तयेत् ।
उत्थायाचम्य तिष्टेत पूर्वां सन्ध्यां कृताञ्जलिः ॥ अनु १०४/१६
एवमेवापरां सन्ध्यां समुपासित वाग्यतः ।
नेख्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन ॥ अनुशासन १०४/१७
न हिदृशमनायुष्यं लोके किंचन विद्यते ।
याद्रुशं पुरुषस्येह परदारोपसेवनम् ॥ अनुशासन १०४/२१
प्रसाधनं च केशानामञ्जनं दन्तधावनम् ।
पूर्वाह्व एव कार्याणि देवतानां च पूजनम् ॥ अनुशासन १०४/२३
नातिकल्यं नातिसायं नं च मध्यन्दिने स्थिते ॥
नाज्ञातैः सह गच्छते नैको न वृषलैः सह । अनुशासन १०४/२४
पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च ।
वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥ अनुशासन १०४/२५
मध्यन्दिने निशा काले अर्धरात्रे च सर्वदा।
चतुष्पथं न सेवेत उभे संध्ये तथैव च ॥ अनुशासन १०४/२७
उपानहौ च वस्त्रं च धृतमन्यैर्न धारयेत् । अनुशासन १०४/२८
रूपद्रविणहीनांश्च सत्तवाहीनांश्च नाक्षिपेत् ॥ अनुशासन १०४/ ३५
नास्तिक्यं वेदानिन्दां च देवतानां च कुत्सनम् ।
द्वेषस्तम्भोऽभिमानं च तैक्ष्यं च परिवर्जयेत् ॥ अनुशासन १०४/३६
परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपयातयेत् ।
अन्यत्र पुत्राच्छिष्याच्च शिक्षार्थं ताडनं समृतं ॥ अनुशासन १०४/३७
कृत्व मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः ।
पादप्रक्षालनं कुर्यात् स्वाध्याये भोजने तथा ॥ अनुशासन १०४/३९
इतिहासपुराणानि दानं वेदं चा नित्यशः ।
गायत्री मननं नित्यं कुर्यात् संध्यां समाहितः ॥ अनुशासन १०४/दा० पा०
न संध्यायां स्वपेन्नित्यं स्नायाच्छुद्धः सदा भवेत् ।
न चाभ्युदितशायी स्यात् प्रायश्चित्ती तथा भवेत् ।
आचार्यमथवाप्यन्यं तथायुर्विन्दते महत् ॥ अनुशासन १०४/४३
उदङ्मुखश्च सततं शौचं कुर्यात् समाहितः ।
अकृत्वा देवपूजां च नाचरेद् दन्तधावनम् ॥ अनुशासन १०४/४५
अवलोक्यो ना चादर्शो मिलिनो बुद्धिमत्तरैः ।
न चाज्ञातां स्त्रियं गच्छेद् गर्भिणी वा कदाचन ॥ अनुशासन १०४/४७
दारसंग्रहणात् पूर्वं नाचरेन्मैथुनं बुधः ।
अन्यथा त्वकीर्णः स्यात् प्रायश्चित्तं समाचारेत् ॥
नोदीक्षेत् परदारांश्च रहस्येकासनो भवेत् ।
इन्द्रियाणि सदा यच्छेत् स्वप्ने शुद्धमना भवेत् ॥ अनुशासन १०४/दा० पा०
उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च ।
प्राक्शिरास्तु स्वपेद् विद्धानथवा दक्षिणाशिराः ॥ अनुशासन १०४/४८
न भग्ने नावशीर्णे च शयने प्रस्वपित ।
नान्तर्धाने न संयुक्ते न च तिर्यक् कदाचन ॥ अनुशासन १०४/४९
न चानुलिम्पेदस्नात्वा स्नात्वा वासो न निर्धुनेत् ।
न चैवार्द्राणि वासांसि नित्यं सेवेत् मानवः ॥ अनुशासन १०४/५२
उभे मूत्रपुरीषॆ तु नाप्सु कुर्यात् कदाअचन ॥ ‘ अनुशासन १०४/५४
प्राङ्मुखो नित्यमश्नियाद् वाग्यतोऽन्नमुक्त्सयन् ॥ अनुशासन १०४/५६
निषण्णश्चापि खादेत न तु गच्छन् कदाचन ॥ अनुशासन १०४/६०
मूत्रं नोतिष्टता कार्यं न भस्मनि न गोव्रजे ।
आर्द्रपादस्तु भुञ्जित नार्द्रपादस्तु संविशेत् ॥ अनुशासन १०४/६१
आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम् ।। अनुशासन १०४/६२
स्वप्तव्यं नैव नग्नेन न चोच्छिड्ष्टोऽपि संविशेत्
उच्छिष्टो न स्पृच्छीर्षं सर्वे प्राणास्तदाश्रयाः ॥ अनुशासन १०४/६७
तिलसृष्टं न चाश्नीयात् तथास्यायुर्न रिष्यते ॥ अनुशासन १०४/७०
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ।
दक्षिणाभिमुखो रत्रौ तथा ह्यायुर्न रिष्यते ॥ अनुशासन १०४/७६
त्रीन् कृशान् नावजानीयाद् दीर्घमायुर्जिहीविषुः ।
ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशिइविषास्त्रयः ॥ अनुशासन १०४/७७
गुरुणा चैव निर्बन्धो न कर्त्तव्यः कदाचन ।
अनुमान्यः प्रासाद्यश्च गुरुः कुद्धो युधिष्ठिर ॥ अनुशासन १०४/८०
गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः ॥ अनुशासन १०४/८१
न पाणौलवणं विद्वान् प्राश्नीयान्न च रात्रिषु ।
दधिसक्तून् न भुञ्जित वृथा मांसं च वर्जयेत् ॥ अनुशासन १०४/९३
सायंप्रातश्च भुञ्जित नान्तराले समाहितः ॥ अनुशासन १०४/९४
दधि चाप्यनुपानं वै कर्तव्यं भवार्थिना ॥ अनुशासन १०४/९९
परापवादं न ब्रूयान्नाप्रियं च कदाचन ।
न मन्यु कश्चिदुत्पाद्यः पुरुषेण भवार्थिना ॥ अनुशासन १०४/१०५
न दिवा मैथुनं गच्छेन्न कन्यां न बन्धकीम् ।
न चास्नातां स्त्रियं गच्छेत् तथायुर्विन्दते महत् ॥ अनुशासन १०४/१०७
संध्यायां न स्वपदे राजन् विद्यां न च समाचरेत् ।
न भुञ्जित च मेधावी तथायुर्विन्दते महत् ॥ अनुशासन १०४/११८
सौहित्यं न च कर्तव्यं रात्रौ न च समाचरेत् ।
द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् ॥ अनुशासन १०४/१२१
महाकुले प्रसूतां च प्रशस्तां लक्षणैस्तथा ।
वयः स्थां च माहाप्राज्ञः कन्यामावोढुमर्हति ॥ अनुशासन १०४/१२२
संध्यायां च न भुञ्जित न स्नायेन्न तथ पठेत् ।
प्रयतश्च भवेत् तस्यां न च किंचित् समाचरेत् ॥ अनुशासन १०४/१४०
अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत दर्शकः ।
अनर्चिते ह्यनायुष्यं गमनं त्र भारत ॥ अनुशासन १०४/१४२
न चैकेन परिव्रजुयं न गन्तव्यं तथा निशि ।
अनागतायां संध्यायां पश्चिमायां गृहं वसेत् ॥ अनुशासन १०४/१४३
मतुः पितुर्गुरूणां च कार्यमेवानुशासनम् ।
हितं चाप्यहितं चापि न विचार्यं नरर्षभ ॥ अनुशासन १०४/१४४
सर्वं जिह्यं मृत्युपदमार्जवं ब्रह्मणः पदम् ।
एतावान् ज्ञानविषयः किं प्रलापः करिष्यति ॥ आश्व ११/४
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् ॥ उद्योग् ३९/१७
स पुत्र पशुभिवृद्धिं श्रेयश्चात्मानश्नुते ।
ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः सुखम् ॥ उद्योग् ३९/१८
विगुणा ह्यापि संरक्ष्या ज्ञातयो भरतर्षभ ॥ ऊद्योग् ३९/२०
ज्ञातिभिर्विग्रहस्तात न कर्तव्यः शुभार्थिना ।
सुखानि सह भोजयानि ज्ञातिभिर्भरतषभ ॥ ऊद्योग् ३९/२३
सम्भोजनं संकथनं सम्प्रीतिश्च परस्परम् ।
ज्ञातिभिः सह कार्याणि न विरोधः कदाचन ॥ ऊद्योग् ३९/२४
ज्ञातयस्तारयन्तिह ज्ञातयो मज्जयन्ति च ।
सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च ॥ ऊद्योग् ३९/२५
क्षुद्रं जातिवधं प्राहुः ॥ भीष्म ३/५३
संसारेश्वनुभूतानि कस्य ते कस्य वा वयम् ॥ शान्ति २८/३८
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
यमप्रयतमानं तु मानयन्ति स मानितः ।
न मान्यमानो मन्येत मन्यमाभिसंज्वरेत् ॥ ऊद्योग् ४२/४१
न वै मानं च मौनं च सहतौ वसतः सदा ।
अयं लोको मानस्य असौ मौनस्य तद् विदुः ॥ ऊद्योग् ४२/४४
पिता रजा च वृद्धश्च सर्वथा मानमर्हति ॥ ऊद्योग् ७२/७१
यदा मानं लभते माननार्हस्तदास वै जीवति जीवलोके ।
यदावमानं लभते महान्तं तदा जीवन्मृत इत्युच्यते सः ॥ कर्ण ६७/८१
अग्निरात्मा च माता चा पिता जनयिता तथा ।
गुरुश्च नरशार्दूल परिचयां यथातथम् ॥ शान्ति २९२/२२
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
यः परोषां नरो नित्यमतिवादां स्तितिक्षते ।
देवयानि विजानीह तेन सर्वमिदं जितम् ॥ आधि ७९/१
सदा सुचेतः सहते नरस्येहाल्यमेधसः ॥ शान्ति ११४/२
टिट्टिभं विपरीतं स आचष्टे वृत्तचेष्टया ।
मयूर इव कौपीनं नृत्यं संदर्शयन्निव ॥ शान्ति ११४/१०
यस्यावाच्यं न लोकेऽस्ति नाकार्यं चापि किंचन ।
वाचं तेन न संदध्याच्छुचिः संशिलष्टकर्मणा ॥ शान्ति ११४/११
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
पञ्चविंशति तत्त्वानि तुल्यान्युभयतः समम् ॥ शान्ति २३६/२९
षोडशक्स्तुविकारो न प्रकृतिर्नविकृतिः पुरुषः ॥ सांख्यकारिका ३
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ योग सूत्र साधनपाद १९
प्रक्तं तद् व्यक्तमित्येव जायते वर्धते च यत् ।
जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम् ॥ शान्ति २३६/२०
विपरीतमतो यत् तु तदव्यक्तमुदाहृतम् ।
द्वावात्मनौ च विदेषुसिद्धान्तेष्वप्युदाहृतौ ॥ शान्ति २३६/२१
ज्ञानेनैव विमुक्तस्ते सांख्याः संन्यासकोविदाः ।
शरीरं तु तपो घोरं सांख्याः प्राहुर्निरथकम् ॥ अनु १४५दा०पा०अ०XV
इन्द्रियाणि दशैकं च तन्मात्रेभ्यो भवन्त्युत ।
तेभ्यो भूतानि पञ्चभ्यः शरीरं वै प्रवर्तते ॥
इति क्षेत्रस्य संक्षेपः चतुर्विशतिरिष्यते ।
पञ्चविंशतिरित्याहुः पुरुषेणह संख्यया ॥ अनु १४५ दा० पा० अ० XV
सत्वं रजस्तमश्चेति गुणाः प्रकृतिसम्भवाः ।
तैः सृजत्यखिलं लोकं प्रकृति स्त्वात्मजैर्गुणैः ॥
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
विकाराः प्रकृतेश्चैते वेदितव्या मनिषिभिः ॥ अनु १४५ दा० पा० अ० XV
अव्यक्तं प्रकृतिर्मूलं प्रधानं योनिरव्ययम् ।
अव्यक्तस्यैव नामानि शब्दैः पर्यायवाचकैः ॥ अनु १४५ दा० पा० अ० XV
तत् सूक्ष्मत्वादनिर्देश्यं तत् सदित्यभिधीयते ।
तन्मूलं च जगत् सरवं तन्मूला सृष्टिरिष्यते ॥ अनु १४५ दा० पा० अ० XV
सुखं तुष्टिः प्रकाशश्च त्रयस्ते सात्त्विका गुणाः ।
रगद्वेषौ सुखं दुःखं स्तम्भश्स्च रजसो गुणाः ॥ अनु १४५ दा० पा० अ० XV
अप्रकाशो भयं मोहस्तन्द्री च तमसो गुणाः ॥ अनु १४५ दा० पा० अ० XV
श्रद्धा प्रहर्षो विज्ञानमसम्मोहो दया दृतिः ।
सत्तवे प्रवृद्धे वर्धन्ते विपरीते विपर्ययः ॥ अनु १४५ दा० पा० अ० XV
कामक्रॊधौ मनस्तापो लोभो मोहस्तथा मृषा ।
प्रवृद्धे परिवर्धन्त्ते रजस्येतानि सर्वशः ।
विषादः संशयो मोहस्तन्द्री निद्रा भयं तथा ।
तमस्येतानि वर्धन्ते प्रवृद्धे हेत्वहेतुकम् ॥ अनु १४५ दा० पा० अ० XV
समासात् सात्त्विको समासाद् राजसं धनं ।
समासात् तामसः कामास्त्रिवर्गे त्रिगुणाः क्रमात् ॥
राजसी मानुषी सृष्टिः तिर्यग्योनिस्तु तामसी ॥ अनु १४५ दा० पा० अ० XV
विज्ञानं च विवेकश्च महतोलक्षणं भवेत् ॥ अनु १४५ दा० पा० अ० XV
महान् बुद्धिर्मतिः प्रज्ञा नामानि महतो विदुः ॥ अनु १४५ दा० पा० अ० XV
अहंकारेण भूतानां सर्गो नानादिधो भवत् ।
अहंकारनिवृत्तिर्हि निर्वाणायोपपद्यते ॥ अनु १४५ दा० पा० अ० XV
खं वायुर्ग्निः सलिलं पृथिवी चेति पञ्चमी ।
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥ अनु १४५ दा० पा० अ० XV
शब्दः श्रोत्रं तथा खानि त्रयमाकाशसम्भवम् ।
स्पर्शवत् प्राणिनां चेष्टा पवनस्य गुणाः स्मृताः ॥ अनु १४५ दा० पा० अ० XV
रूपं पाकोऽक्षिणी ज्योतिश्चवारस्स्तेजसो गुणाः ।
रसः स्नेहस्तथा जिह्वा शैत्यं च जलजा गुणाः ॥ अनु १४५ दा० पा० अ० XV
गन्धो घ्राणं शरीरं च पृथिव्यास्ते ग्रुणास्त्रयः । अनु १४५ दा० पा० अ० XV
प्राणापानश्रेयो वायुः खेष्वाकाशः शरीरिणाम् ।
केशास्थि नख दन्तत्वक्पाणिपादशिरांसि च ।
पृष्ठोदरकटिग्रीवः सर्वं भूम्यात्मकं स्मृतं ॥ अनु १४५ दा० पा० अ० XV
यत् किंचिदपि कायेऽस्मिन् धातुदोषमलाश्रितम् ।
तत् सर्वं भौतिकं विद्धि देहैरेवास्य स्वामिकम् ॥ अनु १४५ दा० पा० अ० XV
कर्मेन्द्रियाणि वाक्पाणिपादौ मेढ्ं गुदस्तथा ॥ अनु १४५ दा० पा० अ० XV
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
बुद्धिन्द्रियार्थान् जानीयाद् भूतेभ्यस्त्वभिनिः सृतान् ॥ अनु १४५ दा० पा० अ० XV
वाक्यं क्रिया गतिः प्रतिरुत्सर्गश्चेति पञ्चधा ।
कामेन्द्रियार्थान् जानीयात् ते च भूतोद्भवाः ॥ अनु १४५ दा० पा० अ० XV
इन्द्रियाणां तु सर्वेषामीश्वरं मन उच्यते ।
प्रार्थनालक्षणं तच्च इन्द्रियं तु मनः स्मृतम् ॥ अनु १४५ दा० पा० अ० XV
नियुङ्क्ते च सदा तानि भूतानि मनासा सह ।
नियमे च विसर्गे च मनसः कारणं प्रभुः ॥ अनु १४५ दा० पा० अ० XV
भूताभूतविकारश्च शरीरमति संस्थितम् ॥ अनु १४५ दा० पा० अ० XV
शरीराश्च परो देही शरीरं च व्यापाश्रितः ॥ अनु १४५ दा० पा० अ० XV
रसः स्पर्शश्च गन्धश्च रूपं शब्दविवर्जितम् ।
अशरीरं शरीरेषु दिदृक्षेत निरिन्द्रियम् ॥ अनु १४५ दा० पा० अ० XV
यः पश्येत् परमात्मानं बन्धनैः स विमुच्यते । अनु १४५ दा० पा० अ० XV
इन्द्रियैरिह बुद्ध्या वा न दृश्यते कदाचन ॥ अनु १४५ दा० पा० अ० XV
क्षेत्रज्ञमेकतः कृत्वा सर्वं क्षेत्रमथैकतः ।
एवं संविमृशोज्ज्ञानी संयतः सततं ह्यदि ॥ अनु १४५ दा० पा० अ० XV
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।
अकर्तालोपको नित्यो मध्यस्थो सर्वकर्मणाम् ॥ अनु १४५ दा० पा० अ० XV
ऋषिभिश्चापि देवैश्च व्यक्तमेष न दृश्यते ।
दृष्ट्वा तु तं महात्मानं पुनस्तन्न निर्वर्तते ॥ अनु १४५ दा० पा० अ० XV
ज्ञानं सर्वस्य योग्सस्य मूलमित्यवधारय ।
व्रतोपवासनियमैः तत् सर्वं चापि बृंहयेत् ॥ अनु १४५ दा० पा० अ० XV
एकाग्य्रं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ।
आत्मनोऽव्ययिनः प्राज्ञॆ जानमेतत् तु योगिनाम् ॥ अनु १४५ दा० पा० अ० XV
दानमध्ययनं श्रद्धा व्रतानि नियमास्तथा ।
एतैश्च वर्धते तेजः पापं चाप्यवधूयते ॥ अनु १४५ दा० पा० अ० XV
मनोऽवस्थापनं देवि योगस्योपनिषद् भवेत् ।
तस्मात् सर्वप्रयत्नेन मनोऽवस्थापयेत् सदा ।।
त्वक्छोत्रं च ततो जिह्वां घ्राणं चक्षुश्च संहरेत् ।
पञ्चेन्द्रियाणि संधाय मनसि स्थापयेद् बुधः ॥ अनु १४५ दा० पा० अ० XV
सर्वं चापोह्य संकल्पमात्मनि स्थापयेन्मनः ।
यदैतान्यवतिष्ठन्ते मनः षष्ठानि चात्मनि ॥
प्राणापानौ तदा तस्य युगपत् तिष्ठतो वशे ।
प्राणे हि वशमापन्ने योगसिद्धिध्रुर्वा भवेत् ॥ अनु १४५ दा० पा० अ० XV
वस्तिमूलं गुदं चैव पावकं समाश्रितः ।
अथ प्रवृर्थिर्देहेषु पर्मापानस्य सम्मतम् ।
उदीरयन् सर्वधातून् अत ऊर्द्वं प्रवर्तते
उदान इति तं विद्युरध्यात्मकुशला जनाः ॥ अनु १४५ दा० पा० अ० XV
संधौ संधौ स निर्विष्टः सर्वचेष्टाप्रवर्तकः ।
शरीरेषु मनुष्याणां व्यान् इत्युपदिश्यते ॥
धातुष्वग्नौ च विततः समानोऽग्निः समीरणः ।
स एव सर्वचेष्टानामन्तकाले निर्वतकः ॥ अनु १४५ दा० पा० अ० XV
प्राणानां संनिपातेषु संसर्गाद् यः प्रजायते ।
ऊष्मा सोऽग्निरिति ज्ञेयः सोऽन्नं पचति देहिनाम् ॥ अनु १४५ दा० पा० अ० XV
समन्वितः समानेन सम्यक् पचति पवकः ॥ अनु १४५ दा० पा० अ० XV
शरीरमध्ये नाभिः स्यान्नाभ्यामग्निः प्रतिष्ठितः ।
अग्नौ प्राणाश्च संयुक्त प्राणेष्वात्मा व्यवस्थित अनु १४५ दा० पा० अ० XV
नाभिर्मध्ये शरीरस्य सर्वप्राणाश्च संश्रिताः ॥ अनु १४५ दा० पा० अ० XV
स्थिताः प्राणादयः सर्वे तिर्यगूर्ध्वमधश्चराः ।
वहन्त्यन्नरसान् नाड्यो दशप्राणाग्निचोदिताः ॥ अनु १४५ दा० पा० अ० XV
संनिरुध्य ततः प्राणानात्मानं चिन्तयेत् परम् ॥
प्राणे त्वपानं युञ्जीत प्राणांश्चापानकर्मणि ।
प्राणापानगति रुद्धवा प्राणायामपरो भवेत् ॥ अनु १४५ दा० पा० अ० XV
एवमन्तः प्रयुञ्जीत पञ्च प्राणान् परस्परम् ।
विजने सम्मिताहारो मुनिस्तूष्णीं निरुच्छवसन् ॥
अश्रान्तश्चिन्तयेद् योगी उत्थाय च पुनः पुनः ।
तिष्ठन् गच्छन् स्वपन् वापि युञ्जितैवमतन्द्रितः ॥ अनु १४५ दा० पा० अ० XV
एवं नियुञ्जतस्तस्य योगिनो युक्तचेतसः ।
प्रसीदति मनः क्षिप्रं प्रसण्णे दृश्यते परम् ॥
विधूम इव दीप्तोऽग्निरादित्य इव रश्मिमान् ।
वैद्युतोऽग्निरिवाकाशे पुरुषॊ दृश्यतेऽव्ययः ॥ अनु १४५ दा० पा० अ० XV
दृष्ट्व तदा मनो ज्योतिरैश्वर्याष्टगुणैर्युतः ।
प्राप्नोति परमं स्थानं स्पृहणीयं सुरैरपि ॥ अनु १४५ दा० पा० अ० XV
कामः क्रोधो भयं स्वप्नः स्नेहमत्यशनं तथा ।
वैचित्त्यं व्याधिरालस्यं लोभश्च दशमः स्मृतः ॥ अनु १४५ दा० पा० अ० XV
अनेनैव विधानेन सायुज्यं तत् प्रकल्पते ॥ अनु १४५ दा० पा० अ० XV
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
साम्ना जितोऽर्थोऽर्थकरो भवेत् ॥ उद्योग् २/१४
तरसा ये न शक्यते शस्त्रैः सुनिशितैरपि ।
साम्ना तेऽपि निगृह्यन्ते गज इव करेणुभिः ॥ शान्ति १३९/३९
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
प्राचेतस्य वचनं कीर्तयन्ति पुराविदः ।
यस्याः किंचिन्नाददते ज्ञातयो न स विक्रयः ॥ अनुशासन ४६/१
अर्हणं तत्कुमारीणामानृशंस्यतमं च तत् ।
सर्व च प्रतिदेयं स्यात् कन्यायै तदशेषतः ॥ अनुशासन ४६/२
पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः ॥ अनुशासन ४६/३
यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।
अप्रमोदात् पुनः पुंसः प्रजनो ब प्रवर्धते ॥ अनुशासन ४६/४
स्त्रियो यत्र च पूज्यन्ते रमन्ते तत्र देवता ॥
अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः ॥ अनुशासन ४६/१
तदा चेतत् कुलं नास्ति यदा शोचन्ति जामयः ॥ अनुशासन ४६/६
जामीशप्तानि गेहानि निकृत्तनीव कृत्यया ।
नै व भान्ति अ वर्धन्ते श्रिया हीनानि पार्थिव ॥ अनुशासन ४६/७
स्त्रियः पुंसां परिददे मनुर्जिगमिषुर्दिवम् ।
अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः ॥ अनुशासन ४६/८
ईषवो मानकामाश्च चण्डाश्च सुहृदोऽबुधाः ।
स्त्रियस्तु मानमर्हन्ति ता मानयत मानवाः ॥ अनुशासन ४६/९
स्त्रियस्तु हि वै धर्मो रतिभोगाश्च केवलाः ।
परिचर्या नमस्कारास्तदायत्ता भवन्तु वः ॥ अनुशासन ४६/१०
प्रीत्यर्थं लोकयात्रायाः पश्यत स्त्रीनिबन्धनम् ॥
सम्मान्यमानास्चैता हि सर्वकार्याण्यवापवाप्यस्यथ । अनुशासन ४६/११
धर्मः स्वभर्तृशुश्रूषा तया स्वर्गं जयन्त्युत ॥ अनुशासन ४६/१३
श्रियः एताः स्त्रियो नाम सत्कार्यां भूतिमिच्छिता ।
पलिता निगृहीता च श्रीः स्त्री भवति भारत ॥ अनुशासन ४६/१५
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
ईप्सितश्च गुणः स्त्रीणामोकस्या बहुभर्तृता ॥ आदि २०१/८
न हि भार्येऽति विश्वासः कार्यः पुंसः कथंचन ।
न हि कार्यमनुध्याति नारी पुत्रवति सति ॥ आदि २३२/३१
सुसान्त्विता ह्यासति स्त्री जहाति ॥ सभा ६४/११
स्त्रीस्वाभावश्चलो लोके । वन ७१/६
को जातु परभावं हि नारीं व्यालिमिव स्थिताम् ।
वासयेत् गृहे जानन् स्त्रीणां दोषो महात्ययः ॥ उद्योग् १७८/४५
स्त्रियस्स्त्वाशङ्किताः पापा नोपगम्या विजानता ।
रजसा ता विशुश्यन्ते भस्मना भाजनं यथा ॥ शान्ति ३५/३०
संसारतन्त्रवाहिन्यस्तर बुद्ध्येत योषितः ॥ शान्ति २१३/७
प्रकृत्या क्षेर भूतास्ता नराः क्षेत्रज्ञलक्षणाः ।
तसमदेवाविशेषेण नरोऽतियाद् विशेषतः ॥ शान्ति २१३/८
कृत्या ह्योता घोररूपा मोहयन्त्याविचक्षणान् ।
रजस्यन्तर्हिता मूर्तिन्द्रियाणां सनातनानी ॥ शान्ति २१३/९
मृदुत्वं च तनुत्वं च विकलत्वं तथैव च ।
स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्वार्थदर्शिभिः ॥ अनुशासन् १२/१४
नातः परं हि नारीणां विद्यते च कदाचन ।
यथा पुरुषसंसर्गः परमेतद्धि नः फलम् ॥ अनुशासन् १९/८६
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ।
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ॥ अनुशासन् १९/८७
प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः ।
सहस्त्रे किल नारीणां प्राप्येतैका कदाचन ॥ अनुशासन् १९/९२
तथा सतसहस्त्रेषु यदि काचित् पतिव्रता ।
नैता जानन्ति पितरं न कुलं न च मातरं ॥ अनुशासन् १९/९३
न भ्रातृन् न च भर्तारं न च पुत्रान् न देवरान् ।
लीलायन्त्यः कुलं ध्नन्ति कुलानीव सरिद्वारः ॥ अनुशासन् १९/९४
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्राश्च स्थाविरे काले नास्ति स्त्रीणां स्वतन्त्रता ॥ अनुशासन् २०/२१; ४६/१४
द्यावापृथिव्योर्यत्रौषा काम्या ब्रह्मणसत्तम् ॥ अनुशासन् २१/३
स्थविराणमपि स्त्रीणां बाधते मैतुनज्वरः ॥ अनुशासन् २१/५
कुलिना रूपवत्यश्च नथावत्यश्च योषितः ।
मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद ॥ अनुशासन् ३८/११
समाज्ञातानृद्धिमतः प्रतिरूपान् वशे स्थितान् ।
पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितम् ॥ अनुशासन् ३८/१२
स्त्रियं हि यः प्रार्थयते संनिकर्षं च गच्छति ।
ईषच्च कुरुते सेवां तमेवच्छन्ति योषितः ।। अनुशासन् ३८/१५
यदि पुंसां गतिब्रह्मन् कथंचिन्नोपपद्यते ।
अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु ॥ अनुशासन् ३८/२२
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ अनुशासन् ३८/२५
न कामभोगान् विपुलान् नालंकारान् न संश्रयान् ।
तथैव बहु मन्यते यथा रत्यामनुग्रहम् ॥ अनुशासन् ३८/२८
अन्तकः पवनो मृत्युः पातालं वडवामुखम् ।
क्षुरधारा विषं सपो वह्रिरित्येकतः स्त्रियः ॥ अनुशासन् ३८/२९
यतश्च भूतानि महान्ति पञ्च यतश्च लोका विहिता विधात्रा ।
यतः पुमांसः प्रमदाश्च निर्मितास्तदैव दोषाः प्र्मदासु नारद ॥ अनुशासन् ३८/३०
एता हि रममाणास्तु वञ्चयन्तीह मानवान् ।
न चासां मुच्यते कश्चित् पुरुषो हस्तमागतः ॥ अनुशासन् ३९/५
गावो नवतृणानीव गृह्णन्त्येता नवं नवम् ॥ अनुशासन् ३९/६
हसन्तं प्र्हसन्त्येता रुदन्तं प्ररुदन्ति च ।
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः ॥ अनुशासन् ३९/७
अविद्वासंमलं लोके विद्वांसमपि वा पुनः ।
नयन्ति ह्यपथं नार्यः कामक्रोधवशानुगम् ॥ अनुशासन् ४८/३७
स्वाभावश्चैव नारीणां नराणामिह दूषणम् ।
अत्यर्थं न प्रसज्जन्ते प्रमदासु विपशितः ॥ अनुशासन् ४८/३८
स्त्रियश्चैव विशेषण स्त्रीजनस्य गतिः परा ॥ अनुशासन् १४६/१०
प्रमोदोक्तं तु यत् किंचित् तत् स्त्रीषु बहु मन्यते ॥ अनुशासन् १४६/११-१२ दा०पा०
स्त्री च भूतेश सततं स्त्रियमेवानुधावति ॥ अनुशासन् १४६/१६
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
ऊर्णनाभिः (जालनिर्माणकुशलः कृमिः) स्वस्य शरीरात् निर्गच्छता एकेन स्निग्धेन द्रव्येण जालं निर्माति । तयैव रीत्या जालस्य नाशं करोति । तथैव ईश्वरः स्वस्मात् जगतः निर्माणं करोति संहारम् अपि करोति । एकः एव ईश्वरः जगतः उपादानं निमित्तं च कारणम् इति सूचयितुम् अस्य न्यायस्य प्रयोगः भवति । अव्यक्तं ब्रह्म एव जगत् वयति ।
<DOC_END>
<DOC_START>
ऊषर इति निःसारं क्षेत्रम् । तस्मिन् क्षेत्रे बीजानि उप्तानि उत्तमा वृष्टिः च जाता चेदपि तानि न रोहन्ति । बीजानां प्ररोहणे सारभूमेः आवश्यकता भवति । तथैव संस्कारहीने पुरुषे उत्तमाः परिणामाः न संभवन्ति ।
<DOC_END>
<DOC_START>
अयं वर्गः लघीयस्त्रयविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः न्यायदीपिकाविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः प्रमाप्रमेयविषयकः भवति ।
<DOC_END>
<DOC_START>
विधीयते किमपि तदनृतम् । - पुरुषार्थसिद्धयुपायः ९१,पृ० २३७
<DOC_END>
<DOC_START>
विरोधमथनमनेकान्तः । पुरुषार्थसिद्ध्युपायः २,पृ० ७
<DOC_END>
<DOC_START>
अयं वर्गः पुरुषार्थसिद्ध्युपायविषयकः विद्यते ।
<DOC_END>
<DOC_START>
हेतुतयाऽयते गच्छतीत्यन्तरायः । उत्तराध्ययनटीका ६४१
<DOC_END>
<DOC_START>
अयं वर्गः उत्तराध्ययनटीकाविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः तत्वार्थसारविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः ऊकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
त्वेनार्थात् जनं करोतीत्यन्धकारः । - उत्तराध्ययनटीका पृ० ५१०
<DOC_END>
<DOC_START>
अयं वर्गः धवलाविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अकीर्तिः परमल्पापि याति वृद्धिमुपेक्षिता । पद्मपुराणम् ९७-१६
<DOC_END>
<DOC_START>
आजीता (आजिः-इता) आजि अजपुत्रेण दशरथेन, इता प्राप्ता, अदेवाद्याविश्वासः देवगन्धर्वादिभिः असाध्या, अग्र्या
प्रथमा, सावाशारावा (सव-अश-आरावा) सव यज्ञयागादीन्, अश भुज्यमानदेवताः, सावशा देवतासम्बद्धम्, आरावा
कोलाहलयुक्तम्, आर्याधारा अपेक्षितवस्तूनां दातॄणां वैश्यानाम् आधारभूतम्, साकेताख्या साकेतनामकम्, पूः नगरम्,
विप्र ब्राह्मणैः, आदीप्ता सर्वदिक्षु प्रकाशमानम्, आसीत् ।
दशरथस्य पिता अजः । तेन अयोध्या शास्यते स्म । तत् नगरं देवताः मनसा अपि आक्रान्तुम् अशक्ताः आसन् । 'अयोध्या
मथुरा माया इत्येतस्याम् उक्तौ कथ्यमानासु सप्त पुण्यनगरीषु अयोध्या प्रथमत्वेन परिगण्यते । अत्यन्तं श्रेष्ठा इत्यर्थः ।
यज्ञयागादिषु हविषः स्वीकाराय उपस्थितानां देवतानां कोलाहलध्वनिना पूर्णमासीत् तत् नगरम् । प्रजानां कृते अपेक्षितानां
वस्तूनां प्रापकाः सन्ति वैश्याः । ते आर्याः इति कोशेषु उल्लिख्यते । तेषाम् आर्याणाम् आश्रयस्थानम् आसीत् इदं नगरम् ।
'साकेत'नाम्ना इदं नगरं प्रसिद्धम् आसीत् । वेदविद्याव्रतस्नातैः ब्राह्मणैः सर्वासु दिक्षु इदं नगरं प्रकाशते स्म । इदं नगरं भूमौ
विद्यासीमा, या, ज्याख्याता, के, सा ॥
अग्र्या उत्तमा, साश्वा अश्वगजादिभिः युक्ता, विद्यावादे तर्कशास्त्रादिषु, इताजीरा प्राप्ता, वादप्रवीणानां पण्डितानाम्,
इरा आश्रयभूता, राधार्याप्ता राधायाः पत्या (आर्य) श्रीकृष्णेन युक्ता, दीप्रा प्रकाशमाना, विद्यासीमा दहरादीनां
ब्रह्मविद्यानां सिद्धिक्षेत्ररूपा, पूः द्वारकानगरम्, ज्या भूमौ, ख्याता प्रसिद्धा, वाराशौ समुद्रस्य जले, आस आसीत् ।
भूमौ द्वारकाख्या प्रसिद्धा नगरी समुद्रजले आसीत् । सा अश्वगजादिभिः युक्ता आसीत् । वादविद्या इति ख्याते तर्कशास्त्रे प्रवीणानां
पण्डितानां भूमिः आसीत् । अपि च राधारमणस्य श्रीकृष्णस्य वासस्थानम् आसीत् । प्रकाशमानानां दहरादीनां ब्रह्मविद्यानां सिद्धिक्षेत्रम्
आसीत् । इयं नगरी समुद्रजले सुशोभते स्म ।
<DOC_END>
<DOC_START>
रत्नं मौलौ निधीयते । - उपासकाध्ययनम् ९१
<DOC_END>
<DOC_START>
अयं वर्गः उपासकाध्ययनविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः क्षत्रचूडामणिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः पद्मनन्दिपञ्चविंशतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः वीरवर्धमानचरितविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः हरिवंशपुराणविषयकः विद्यते ।
<DOC_END>
<DOC_START>
येन लोकाङ्गमेव स्वं पुनरप्यभिमन्यते । समाधिशतकम् १२
<DOC_END>
<DOC_START>
४. निजे पाणौ दीपे लसति
५. विपाके हि सतां वाक्यम्
<DOC_END>
<DOC_START>
अयं वर्गः पार्श्वनाथचरितविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अशिल्पजीवी गुणवांश्चैव नित्यं जितेन्द्रियः सर्वतो विप्रयुक्तः ।
अनोकशायि लघुरल्पप्रचारश्चरन् देशानेकचरः सस् भिक्षुः ॥ आदि ९१/५
कौपीनाच्छदनं यावत् तावदिच्छेच्च चीवरम् ॥ आदि ९१/१२
तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥ आदि ९१/१३
यस्तु कामान् परित्यज्य त्यक्तकर्मा जितेन्द्रियः ।
आतिष्ठेच्च मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ॥ आदि ९१/१४
घौतदन्तं कृत्तनखं सदा स्नातमलंकृतम् ।
असितं सितकर्माणं कस्तमर्हति नार्चितुम् ॥ आदि ९१/१५
साधु क्षमा दमः शौचं वैराग्यं चाप्यमत्सरः ।
अहिंसा सत्यवचनं नित्यानि वनचारिणाम् । शान्ति ७/६
आपत्काले हि सन्यासः कर्तव्य इति शिष्यते ।
जरयाभिपरीतेन शत्रुभिर्व्यंसितेन वा ॥ शान्ति १०/१७
संन्यासः परमं तपः । शान्ति १६१/९
एक एव चरेद् धर्म्ं सिद्ध्यर्थमसहायवान् ॥ शान्ति २४५/ ४
एकश्चरति यः पश्यन् न जहाति न हीयते ।
अनग्निरनिकेतश्च ग्राममन्नर्थमाश्रयेत् ॥ शान्ति २४५/५
लध्वाशी नियताहारः सकृदन्ननिषेविता ॥ शान्ति २४५/६
उपेक्षा सर्वभूतानामेतावद् भिक्षुलक्षणम् ॥ शान्ति २४५/७
तूष्णिमासीत निन्दायां कुर्वन् भैषज्यमात्मनः ॥ शान्ति २४५/१०
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालमेव प्रतीक्षते निर्देशं भृतको यथा । शान्ति २४५/१५
निर्मुक्तिः सर्वपापेभ्यो निरमित्रस्य किं भयम् ॥ शान्ति २४५/१६
अहिसंकः समः सत्यो धृतिमान् नियतेन्द्रियः ।
शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् ॥ शान्ति २४५/२०
एवं प्रज्ञानतृप्तस्य निर्भयस्य निराशिषः ।
न मृत्युरतिगो भावः स मृत्युमधिगच्छति ॥ शान्ति २४५/२१
अपवर्गमतिर्नित्यो यति धर्मः सनातनः ॥ शान्ति २७०/३१
मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः ।
एतत् पवित्रं परमं परिव्रजाक आश्रमे ॥ शान्ति २७८/१८
वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् ।
अज्ञातलिप्सं लिप्सेत न चैनं हर्षं आविशेत् ॥ शान्ति २७८/२०
विजानतां मोक्ष एषा श्रमः स्यादाविजाजताम् । शान्ति २७८/२१
अभयं सर्वभूतेभ्यो दत्तवा यः प्रव्रजेद् गृहात् ।
लोकास्तेजोमयास्तस्य तथाऽऽनन्त्याय कल्पते ॥- शान्ति २७८/२२
काषायधारणं मौण्ड्यं त्रिविष्टब्धं कमणडलुम् ।
लिङ्गायुप्थभूतानि न मोक्षायेतिमे मतिः ॥ - शान्ति ३२०/४७
यदि सत्यापि लिङ्गेऽस्मिन् जानमेवत्र कारणम् ।
निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम् ॥ शान्ति ३२०/४८
यति धर्मास्तथा देवि गृहांस्त्यक्त्वा यस्ततः ।
सर्वत्र भौक्षचर्यां च सर्वत्रैव विवासनम् ।
सदा ध्यानपरत्वं च दोषशुद्धिः क्षमा दया ।
तत्वानुगतबुद्धित्वं तस्य शर्मविधिर्भवेत् ॥ अनुशासन् १४१ दा० पा०
हंसः परमहंसश्च यो यः पश्चात् स उत्तमः ॥ अनुशासन् १४१/८९
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ भीष्म ४२/३७
परिणामे विषमिव तत् सुखं राजसं स्मृतं ॥ भीष्म ४२/३८
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ भीष्म ४२/३९
न ध्रुवं सुखमस्तीति कुतो राष्ट्रं कुतो यशः ॥ शल्य ५/३१
सुखमेव हि दुःखान्तं कदाचित् दुःखतः सुखं ।
तस्मादेतद् द्वयं जह्याद् य इच्छेच्छाश्वतं सुखम् ॥ शान्ति २५/२४
सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम् ।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥ शान्ति २५/२६
ये च मूढतमा लोके ये च बुद्धेः परं गताः । शान्ति १७४/३३
त एव सुखमेधन्ते मध्यमः क्लिश्यते जनः ॥ शान्ति २५/२८
नालं सुखाय सुहृदो नालं दुःखाय शत्रवः । शान्ति १७४/२९
न च प्रजालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम् ॥ शान्ति २७/३२
छायायामप्सु वायौ च सुखमुष्णोऽधिगच्छति ।
अग्नौ वाससि सूर्ये च सुखं शीतोऽधिगच्छति ॥ शान्ति ७२/२२
पानीयं व निरायासं स्वाद्वत्रं वभयोत्तरम् ।
विचार्य खलु पश्यामि तत्सुखं यत्र निवृत्तिः ॥ शान्ति ११/३२
सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः ।
दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम् । शान्ति १३९/६२
जात्यैवेके सुखितराः सन्त्यन्ये भृशटुःखिताः ।
नैकान्तं सुखमेवह क्वचित्पश्यामि कस्यचित् ॥ शान्ति १८०/२३
तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः ।
सुखं ह्यनित्यं भूतानामिहलोके प्रत्र च ॥ शान्ति १९०/७
परित्यजति यो दुखं सुखं वाप्युभयं नरः ।
अभ्येति ब्र्ह्मा सोऽत्यन्तं न तं शोचन्ति पण्डिताः ॥ शान्ति ३३०/१७
शब्दे स्पर्शे च रूपे च गन्धॆषु च रसेषु च ।
नोपभोगात् परं किंचिद् धनिनो वाधनस्य च ॥ शान्ति ३३०/२६
प्रणयं प्रतिसंहृत्य संस्तुतेष्वितरेषु च ।
विचरेदसमुन्नद्धः स सुखी स च पण्डितः ॥ शान्ति ३३०/२९
आत्मनैव सहायेन यश्चरेत् स सुखिई भवेत् ॥ शान्ति ३३०/३०
विद्वान् सुशीलः पुरुषः सुखमश्नुते ॥ अनुशासन २१/१५-१६ दा० पा०
सुखादेव परं दुःखं दुःखादप्यपरं सुखं ।
दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः ॥ अनुशासन् १२०/२२
एश्वर्यं स्वस्तथा चेति न मुह्यते तत्र पण्डितः ॥ अनुशासन् १४५ दा० पा० अ० XI
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
आव्यक्त इति विख्यातः शास्वतोऽथाक्षयोऽव्ययः ।
यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च ॥ शान्ति १८२/१२
सोऽसृजत् प्रथमं देवो महान्तं नाम नामतः ।
महान् ससर्जाहंकारं स चापि भगवानथ ॥ शान्ति १८२/१३
अकाशमिति विखयातं सर्वभूतधरः प्रभुः ।
आकाशाद्बवत् वारि सलिलाद्ग्निमारुतौ ॥ शान्ति १८२/१४
ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा ।
तस्मात् पद्मात् समभवत् ब्र्ह्मा वेदमयोनिधिः ॥--शान्ति १८२/१५
अहंकार इति ख्यातः सर्वभूतात्मभूतकृत् ।
ब्रह्मा वै स महातेजा य एते पञ्च धातवः ॥ शान्ति १८२/१६
शैलास्तस्यास्थिसंज्ञास्तु मेदो मांसं च मेदिनि ।
मुद्रास्तस्य रुधिरमाकाशमुद्रं तथा ॥ शान्ति १८२/७
अग्नीषॊमौ तु चन्द्रार्कौ नयने तस्य विश्रुते ॥ शान्ति १८२/१८
नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ भुजौ दिशः ।
दुर्विज्ञेयो ह्यचिन्त्यात्मा सिद्धैरपि न संशयः ॥ शान्ति १८२/१९
मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता ।
तस्यासनविधानार्थं पृथिवि पद्ममुच्यते ॥ शान्ति १८२/३७
प्रजाविसर्गं विविधं मानसो मनसासृजत् ।
संरक्षणार्थं भूतानां सृष्टं प्रतमतो जलम् ॥ शान्ति १८३/२
यत् प्राणः सर्वभूतानां वर्धन्ते येन च प्रजाः ।
परित्यक्ताश्च नश्यन्ति तेनदं सर्वमावृतम् ॥ शान्ति १८३/३
पिथिवी पर्वथा मेघा मूर्तिमन्तश्च ये परे ।
सर्वं तद् वारुणं ज्ञेयमापस्तस्तम्भिरे यतः ॥ शान्ति १८३/४
नष्टचन्द्रार्कपवनं प्रसुप्तमिव सम्बभौ ॥ शान्ति १८३/१०
तथा सलिलसंरुद्धे नभसोऽन्ते निरन्तरे ।
भित्तवार्णवतलं वायुः समुपतति घोषवान् ॥ शान्ति १८३/१२
स एष चरते वायुर्णवोत्पीडसम्भवः ।
आकाशस्थानमासाद्य प्रशान्तिं निधिगच्छति ॥ शान्ति १८३/१३
तस्मिन् वाय्वम्बुसंघ्र्षे दीप्ततेजा महाबलः ।
प्रदूरभूदूर्ध्वशिखः कृत्वा निस्तमिरं नभः ॥ शान्ति १८३/१४
अग्निः पवनसंयुक्तः खं समाक्षिप्ते जलम् ।
सोऽग्निमारुतसंयोगाद् घनत्वमुपपद्यते ॥ शान्ति १८३/१६
रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा ।
भुमिर्योनिरिह ज्ञॆया यस्यां सर्वं प्रसूयते ॥ शान्ति १८३/१७
निष्पन्नो दृश्यते व्यक्तमव्यक्तात् सम्भवस्तथा ॥ शान्ति २११/२
स्वभावहेतुजा भावा यद्वदन्यदपीदृशम् ॥ शान्ति २११/३
क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् ॥ शान्ति २११/८
स्निग्धत्वात् तिलवत् सर्वं चक्रेऽस्मिन् पीड्यते जगत् ।
तिलपीडैरिवाक्र्कम्य भोगैरज्ञानसम्भवैः ॥ शान्ति २११/९
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
अल्पायां वा महत्यां वा सेनायमिति निश्चयः ।
हर्षो योधगणस्यैको जयलक्षणमुच्यते ॥ भीष्म ३/७५
एको दीर्णो दारयति सेनां समुहतीमपी ।
तां दीर्णामनुदीर्यन्ते योधा शूरतरा अपि ॥ भीष्म ३/७६
दुर्निवर्त्या तदा चव प्रभग्ना महती चमूः ।
अपामिव महावेगास्त्रस्ता मृगगणा इव ॥ भीष्म ३/७७
जघन्य एष विजयो यो य्द्धेन विशाम्पते ॥ भीष्म् ३/८१
न बाहुल्येन सेनाया जयो भवति नित्यशः ।
अधुवो हि जयो नाम दैवं चात्र परायणम् ॥ भीष्म ३/८५
संहातान् योधयेदल्पान् आमं विस्तारयेद् बहून् ॥ भीष्म १९/४
न विना नायकं सेना मुहूर्तमपि तिष्ठति ।
आहवेष्वाहवश्रेष्ठ नेतृहीनवे नौर्जले ॥ द्रोण ५/८
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
यस्तात् न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य ।
तस्मिन् भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति ॥ उद्योग ३७/२२
न भृत्यानां वृत्तिसंरोधनेन राज्यं धनं संजिघृक्षेदपूर्वम् ।
त्यजन्ति ह्योनं वञ्चिता वै विरुद्धा ह्यमात्या परिहीनभोगाः ॥ उद्योग ३७/२३
अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्री ।
वक्त हितनामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥ उद्योग ३७/२५
वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः ।
प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक् त्वरयैव भृत्यः ॥ उद्योग ३७/२६
भृत्येभ्यो विसृजेदर्थान् नैकः सर्वहरो भवेत् ॥ उद्योग ३८/२७
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
इन्द्रियाणाम् श्रमात् स्वप्नमाहुः सर्वगतं बुधाः ।
मनसस्त्वप्रलीनत्वात् तत् तदाहुर्निदर्शनम् ॥ शान्ति २१६/६
मनस्यन्तर्हितं सर्वं स वेदोत्तमपूरुषः ॥ शान्ति २१६/८
प्रसन्नैरिन्द्रियैर्यद् यत् संकल्पयति मानसम् ।
तत् तत् स्वप्नेऽप्युपगते मनोहृष्यन्निरीक्षते ॥ शान्ति २१६/१२
व्यापकं सर्वभूतेषु वर्ततेऽप्रतिघं मनः ।
आत्मप्रभावात् विद्यात् सर्वा ह्यात्मनि देवताः ॥ शान्ति २१६/१३
इन्द्रियाणां व्युपरमे मनोऽव्युपरतं यदि ।
सेवते विषयानेव तं विद्यात् स्वप्नदर्शनम् ॥ शान्ति २७५/२४
सुप्तानां हि मनश्चेष्टा स्वप्न इत्यभिधीयते ।
अनागतमतिक्रान्तं पश्यते संचरमनः ॥ अनु १४५ दा० पा० अ० IX
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
श्रूयते तन्महाराज नामृतस्यापसर्पति ॥ वन ८/११
यादृशः पुरुष्स्यात्मा तादृशं सम्प्रभाषते ॥ उद्योग ३/१
सम्पन्नं गोषु सम्भाव्यं ब्राह्मणे तपः ।
सम्भाव्यं चापलं स्त्रीषु सम्भाव्यं ज्ञातितो भ्यम् ॥ उद्योग ३६/५८
सर्वे विमृशते जन्तुः कृच्छ्रस्थो धर्मदर्शनम् ।
पदस्थः पिहितं द्वारं परलोकस्य पश्यति ॥ शल्य ३२/५९
श्रेयसः श्रेयसोऽप्येवं वृत्तं लोकोऽनुवर्तते ।
सदैव हि गुरोवृत्त्मनुवर्तन्ति मानवाः ॥ शान्ति २६७/२६
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
ऊहः नाम तर्कः । अपोहः नाम तस्य तर्कस्य निराकरणम् । कस्मिन् अपि वादविवादप्रसंगे तर्कः तर्कनिराकरणम् इति रीत्या वाद-विवादौ प्रचलतः । ऊहापोहः नाम वादविवादौ इति अर्थः रुढः पूर्णचर्चा इति अस्य न्यायस्य अर्थः ।
<DOC_END>
<DOC_START>
यदा कन्या ऋतुमती भवति तस्याः विवाहकालः संप्राप्त इति ज्ञात्वा विवाहस्य सिद्धता भवति स्म । सा विवाहयोग्या जाता इति सर्वे भावयन्ति स्म । विवाहानन्तरं सा कन्या मातापितृभ्यां दूरं गता शनैः शनैः पूर्णतया पत्युः अधीना भवति स्म । एवं कस्यचित् जनस्य कालान्तरे एकः दीर्घकालिकः आधारः प्राप्यते चेत् तां स्थितिं दर्शयितुम् अस्य न्यायस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
त्यक्तहिंसासमाचारास्ते नराः स्वर्गगामिनः ।।अनुशासन् १४४/९
परस्वे निर्ममो नित्यं परदारविवर्जकाः ।
धर्मलब्धान्नभोक्तरस्ते नराः स्व्सर्गगामिनः ॥अनुशासन् १४४/१०
मातृवत् स्वसृवच्चैव नित्यं दुहितृवच्च ये ।
परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ॥ अनुशासन् १४४/११
स्तैन्यान्निवृत्ताः सततं सन्तुष्टाः स्वधनेन च ।
स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिन्ः ॥अनुशासन् १४४/१२
वृत्यर्थं धर्महेतोर्वा सेवितच्यः सदा नरैः ।
स्व्सस्र्गवासमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ॥अनुशासन् १४४/१७
आत्महेतोः परार्थे वा नर्म हास्याश्रयात् तथा ।
ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥अनुशासन् १४४/१९
श्लक्षणां वार्णीं निराबाधां मधुरां पापवर्जिताम् ।
स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥अनुशासन् १४४/२०
सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥ अनुशासन् १४४/२५
न कोपाद् व्याहरन्ते ये वाचं हृदयदारणीम् ।
सान्त्वं वदन्ति क्रुद्धाऽपि ते नराः स्वर्गगामिनः ॥अनुशासन् १४४/२६
ग्रामे गृहे वा ये द्रव्यं पारक्यं विजने स्थितम् ।
नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः ॥अनुशासन् १४४/३२
तथैव परदारान् ये कामवृत्तान् रहोगतान् ।
मनसापि न्न हिंसानि ते नराः स्व्सरगामिनः ॥ अनुशासन् १४४/३३
धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ॥अनुशासन् १४४/३७
न्यायोपेता गुणोपेता देवद्विजपराः सदा ।
समुत्थानमनुप्राप्तास्ते नराः स्वर्गगामिनः ॥अनुशासन् १४४/३९
निरयं याति हिंसात्मा याति स्वर्गमहिंसकः ॥ अनुशासन् १४४/५३
स्वर्ग द्वारं सुसूक्ष्मं हि नरैर्मोहात्र दृश्यते ॥ आश्व ९०/९४
स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम् ।
तं तु पश्यन्ति पुरुषा जितक्रॊधा जितेन्द्रियः ॥आश्व ९०/९५
क्रोधाद् दानफलं हन्ति लोभात् स्वर्गं न गच्छति ।
न्यायवृत्तिर्हि तपसा दानवीत् स्वर्गमश्नुते ॥ आश्व ९०/१०२
दानेन तपसा चव सत्येन च दमेन च ।
ये धर्ममनुवर्तते ते नराः स्वर्गगामिनः ॥ आश्व९२ दा० पा० अ XI
ये प्रतिग्रहनिस्नेहास्ते नराः स्वर्गगामिनः ॥आश्व ९२ दा० पा० अ XI
मधुमांसासवेभ्यस्तु निवृत्ता व्रतिनस्तु ये ।
परदारनिवृत्त ये ते नराः स्वर्गगामिनः ॥ आश्व ९२ दा० पा० अ XI
मातर्ं पितरं चव शुश्रूषन्तिन्च ये नरा ।
भ्रातृणामपि सस्नेहास्ते नराः स्वर्गगामिनः ॥ आश्व ९२ दा० पा० अ XI
वैवाहिकं तु कन्यानां दरिद्राणां च ये नराः ।
कारयन्ति च कुर्वन्ति ते नराः स्वर्गगामिनः ॥आस्व ९२ दा० पा० अ XI
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
अयं वर्गः ऋकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
ऋतूनां लिङ्गानां (चिह्नानां) विषये कश्चन श्लोकः बहुषु स्थलेषु लभ्यते -
: दृश्यन्ते तानि तान्येव तथा भावा युगादिषु।। महाभारतम् -शान्तिपर्व-12-212-27
<DOC_END>
<DOC_START>
कस्यापि प्राणिनः शरीरस्य कश्चन भागः खण्डितः नष्टः वा भवति चेदपि सः प्राणी स एव भवति न अन्यः । तस्य मूलरुपे परिवर्तनं न भवति । कस्यापि शुनकस्य कर्णः छिन्नः लाङ्गूलं वा छिन्नं तथापि सः शुनकः एव भवति अश्वः वा गर्दभः वा न भवति ।
एकदेशविकृतम् अनन्यवत् इति व्याकरणपरिभाषा वर्तते छिन्ने अपि पुच्छे श्वा श्वा एव भवति न गर्दभः इति । परिभाषेन्दुशेखरे ३७) । (सा ३५०)
<DOC_END>
<DOC_START>
स्वार्थो हि बलवत्तरः ॥ शान्ति १३८/१४२
अर्थयुक्त्या हि जायन्ते पिता माता सुतस्तथा ।
मातुला भागिनेयाश्च तथा सम्बन्धिबान्धवाः ॥शान्ति १३८/१४५
पुत्रं हि मातापितरौ त्यजतः पिततं प्रियम् ।
लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम् ॥शान्ति १३८/१४६
कारणात् प्रियतामेति द्वेष्यो भवति कारणात् ॥ शान्ति १३८/१५१
अर्थार्थी जीवलोकोऽयं न कश्चित् कस्यचित् प्रियः ।
कस्यचिन्नाभिजानामि प्रीतिं निष्कारणमिह ॥शान्ति १३८/१५३
प्रियो भवति दानेन प्रियवादेन चापरः ।
मन्त्र होमजपैरन्यः कार्यार्थं प्रियते जन ॥शान्ति १३८/१५४
कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते ॥ शान्ति १३८/१५७
संकल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः ।
भार्या पुत्रश्च दासश्च स्वमर्थमनुयुज्यते ॥ शान्ति २९८/३८
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
अयं वर्गः ऋकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै ।
न पाणिलाभादधिको लाभः कश्चन विद्यते ॥ शान्ति १८०/१२
अथ येषां पुनः पाणीदेवदत्तौ दशाङ्गुली ।
उद्धरन्ति कृमीनङ्गाद् दशतो निकषन्ति च ॥ शान्ति १८०/१४
वर्षाहिमातपानां च परित्राणानि कुर्वते ।
चैलमन्नं सुखं शय्यां निवातं चोपमुञ्जते ॥ शान्ति १८०/१५
अधिष्ठाय च च गां लोके मुञ्जते वाहयन्ति च ।
उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते ॥ शान्ति १८०/१६
ये खल्वजिह्वाः कृपणा अल्प्राणा अपाणयः ।
सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने ॥ शान्ति १८०/१७
पाणिमन्तो बलवन्तो धनवन्तोन शंशयः ।
मनुष्या मनुषैर्रेव दासत्वमुपादिताः ॥ शान्ति १८०/३४
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
अयं वर्गः एकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
दुर्गुणवतां शतपुत्राणाम् अपेक्षया सुगुणः एकः एव पुत्रः वरम् । संख्यामात्रेण कस्यापि स्वीकार्यता निश्चिता न भवति । गुणानाम् एव महत्त्वं भवति । तथा गुणवन्तः अल्पसंख्यया भवन्ति चेदपि न हानिः । एतस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति ।
१) वरमेको गुणी पुत्रो न च मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ॥
२) एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् ।
सहैव दशभिः पुत्रैर्भारं वहति रासभी ॥
<DOC_END>
<DOC_START>
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम् ।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥ शान्ति १५/१४
न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया ।
सत्त्वैः सत्त्वा हि जीवन्ति दुर्बलैर्बलवत्तराः ॥ शान्ति १५/२०
नकुलो मूषिकानत्ति बिडालो नकुलं तथा ।
बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा ॥ शान्ति १५/२१
उदके बहवः प्राणाः पृथिव्यां च फलेषु च ।
न च कश्चिन्न तान् हन्ति किमन्यत् प्राणयापनात् ॥ शान्ति १५/२५
सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् ।
पक्षमणोऽपि निपातेन येषां स्यात् स्कन्धपर्ययः ॥ शान्ति १५/२६
अन्यत्र राजन् हिंसाय वृत्तिर्नेहास्ति कस्यचित् ।
अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः ॥ शान्ति १३०/२८
परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते । शान्ति १६३/९
दयया सर्वभूतानां निर्वेदात् सानिवर्तते ।
अवद्यदर्शनादेति तत्त्व ज्ञानाच्च धीमताम् ॥ शान्ति १६३/१०
संशयात्मभिरव्यक्तैर्हिंसा सम्नुवर्णिता ॥ शान्ति २६५/४
न हिंसयात् सर्वभूतानि मैत्रायणगतश्चरेत् ।
नेदं जन्म समासाद्य वैरं कुर्वीत केनचित् ॥शान्ति ३२९/१८
अहिंसाकानि भूतानि दण्डेन विनिहन्ति यः ।
आत्मनः सुखमन्विच्छन् स प्रत्य न सुखी भवेत् ॥अनुशासन् ११३/५
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
नारदः प्राह धर्मात्मा नियतं सोऽवसीदति ॥ अनुशासन् ११५/१२
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
एकस्मिन् वृन्ते एव फलद्वयं भवति इति न्यायः । कस्मिन्नपि वृन्ते फलद्वयमस्ति चेत् वृन्तस्य त्रोटनेन फलद्वयं लभ्यते अन्यथा एकम् एव फलं लभ्येत । एकेनैव प्रयत्नेन कार्यद्वयस्य सिद्धिः अनेन न्यायेन सूच्यते । एकेनैव शिलाखण्डेन पक्षिद्वयं मारितम् इति मराठीभाषायां कश्चन वाक्प्रचारः वर्तते । यदा एकस्य शब्दस्य अर्थद्वयम् एकत्र एव अन्वितं भवति तदा कश्चन विशिष्टः श्लेषालङ्कारः भवति । श्लेषालङ्कारे एकस्मात् पदात् अर्थद्वयं किंवा अधिकाः अर्थाः गृहीताः भवन्ति । श्लेषालङ्कारस्य विवेचनसमये जगन्नाथपण्डितेन अस्य न्यायस्य उल्लेखः कृतः ।
पश्यन्तु -इह हि सभंगश्लेषस्य शब्दद्वयवृत्तित्वं जतुकाष्ठन्यायेन अभंगस्य च अर्थद्वयवृत्तित्वम् एकवृन्तगतफलद्वयवच्च स्फुटमेव ॥(पृष्ठम् ५३६)
<DOC_END>
<DOC_START>
एरण्डवृक्षस्य बीजं वृक्षात् च्युतं चेत् तत् उपरि उड्डयमानं भूत्वा दूरं गच्छति इति वदन्ति । तथैव मनुष्योऽपि यदा विभिन्नेभ्यः बन्धनेभ्यः मुक्तः भवति तदा सः उपरि गच्छति अर्थात् तस्य प्रगतिः भवति इत्यस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति । (सा.७०५)
<DOC_END>
<DOC_START>
लभ्यते खलु पापीयान् नरो नु प्रियवागिह ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता चदुर्लभः ॥ सभा ६४/१६
यस्तु धर्मपरश्च स्याद्धित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ सभा ६४/१७
शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियं ।
अपृष्टस्तस्य तद् ब्रूयाद् यस्य नेच्छेत् पराभवम् ॥ उद्योग ३४/४
सुव्याहृतानि सूक्तानि सुकृतानि ततस्ततः ।
सोचिन्वन् धीर आसीत शिलाहारी शिलं यथा ॥ उद्योग ३४/३३
सुलभाः पुरुषा राजन् सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥उद्योग ३७/१५
यो हि धर्म समाश्रित्य हित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्याह पश्यानि तेन राजा सहायवान् ॥उद्योग ३७/१६
संनियच्छति यो वेगमुत्थितं क्रोध हर्षयोः ।
स श्र्यो भाजनं राजन् यश्चापस्त्सु न मुह्यति ॥ उद्योग ३७/५१
सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत ।
नावज्ञॆया मनुष्येण स्सस्र्वे ह्योतेऽतितेजसः ॥उद्योग ३७/५७
श्लक्षणो मधुरवाक् स्त्रीणां ना चासां वशगो भवेत् ॥ उद्योग ३८/१०
न वृद्धिर्बहु मन्तव्स्यो य वृद्धिः क्ष्यमावहेत् ।
क्षयोऽपि बहुमन्तव्यो यः क्षयो वृद्धिमावहेत् ॥ उद्योग ३९/६
येन खट्वां समारूढः परितप्येत कर्मणा ।
आदावेव न तत् कुर्यादधुवे जीविते ॥ उद्योग ३३९/२९
सुख्याहृतानि धीराणां फलतः परिचिन्त्य यः ।
अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ उद्योग ३९/३३
प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं विद्यावृद्धं वयसा चापिवृद्धम् ।
कार्याकार्ये पूजायित्वा प्रस्सद्य यः सम्पृच्छेन्न स मुह्येत् कदाचित् ॥ उद्योग ४०/२३
धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा ।
च्क्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ॥उद्योग ४०/२४
यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन ।
न तत्र प्रलपेत् प्राज्जो बधिरेष्विव गायनः ॥उद्योग ९२/१३
न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः ॥उद्योग १०६/६
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः ।
न स कालं न वा देव्वानेनसा गन्तुमर्हति ॥ उद्योग १५९/९
यो तथा वर्तते यस्मिंस्तस्मिन्नेव प्रवर्तयन् ।
नधर्मं समवाप्नोति न चाश्रेयश्च विन्दति ॥ उद्योग १७८/५३
य आत्मनो दुश्चरिताद्शुभं प्राप्नुयान्नरः ।
एनसा तेन नान्यं स उपाशङ्कितुमर्हति ॥ भीष्म १५/२
योऽवमन्य वचः पथ्यं सुहृदामाप्तकारिणाम् ।
मारितोदकवेगेन ये नमन्त्युन्नमन्ति च ।
ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् ॥ शान्ति ११३/११
एवमेव यदा विद्वान् मन्यतेऽतिबलं रिपुं ।
संश्रयेद् वैतसीं वृत्तिमेतत् प्रज्ञान् लक्षणम् ॥ शान्ति ११३/१४
मता पिता बान्धवानां वरिष्ठौ भार्या जरा बीजमात्रं तु पुत्रः ।
भ्राता शत्रुः क्लिन्नपाणिर्वयस्यः आत्मा ह्योकः सुखदुःखस्य भोक्ता ॥ शान्ति १३९/३०
आशा बलवतई राजन् नैराश्यं परमं सुखम् ।
आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला ॥ शान्ति १७८/८
सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः ।
आमिषस्य परित्यागात् कुररः सुखमेधते ॥ शान्ति १७८/९
गृहारम्भो हि दुःखाय कदाचन ।
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ शान्ति १७८/१०
सुखं जीवन्ति मुनयो भैष्यवृत्तिं समाश्रिताः ।
अद्रोहेणैव भूतानां सारङगा इव पक्षिणः ॥ शान्ति १७८/११
इषुकारो नरः कश्चिदिष्वासत्त मानसः ।
समीपेनापि गन्च्छन्तं राजानं नावबुद्धवान् ॥शान्ति १७८/१२
बहूनां कलहो नित्यं द्वयोः संकथनं ध्रुवं ।
एकाकई विचरिष्यामि कुमारि शंसको यथा ॥ शान्ति १७८/१३
पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः ॥ शान्ति १८०/३३
पेशलं चानुरूपं च कर्तव्यंहितमात्मनः ॥ शान्ति १८१/२०
शौचमावश्यकं कृत्वा देवतानां च तर्पणाम् ।
धर्ममाहुर्मनुष्याणामुपसपृश्य नदीं तरेत् ॥ शान्ति १९३/४
सूर्यं सदोपतिष्ठेत न च सूर्योदये स्वपेत् ॥
सायं प्रातर्जपेत् सन्ध्यां तिष्ठन् पूर्वां तथेतराम् ॥ शान्ति१९३/५
पञ्चार्द्रो भोजनं भुञ्जयात् प्रङ्मुखॊ मौनमास्थितः ।
न निद्यादन्नभक्ष्यां स्वाद्वस्वादु च भक्षयेत् ॥ शान्ति १९३/६
आर्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि ॥ शान्ति १९३/७
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च ।
सामान्यं भोजनं भृतैः पुरुषस्य प्रशस्यते ॥ शान्ति १९३/९
नान्तरा भोजनं दृष्टमुपवासी तथा भवेत् ॥ शान्ति १९३/१०
होमकालए तथा जुह्वनृतुकाले तथा व्रजन् ।
अनन्यस्त्री प्राज्ञो ब्रह्मचारी तथा भवेत् ॥ शान्ति १९३/११
नित्योच्छिटः शंकुशुको नेहायुर्विन्दते महत् ॥ शान्ति १९३/१३
गुरुभ्य आसनं देयं कर्त्तव्यं चाभिवादनम् ।
गुरुनभ्यर्च्य युज्यन्ते आयुषा यशासा श्रिया ॥ शान्ति १८९३/१६
नेक्षातादित्यमुद्यन्तं न अच नग्नां परस्त्रियं ।
मैथुनं सततं धर्म्यं गृहे चैव समाचरेत् ॥ शान्ति १९३/१७
दर्शने दर्शने नित्यं सुखप्रश्नमुदाहरेत् ।
सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम् ॥ शान्ति १९३/१८
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥ शान्ति १९३/१९
प्रत्यादित्यं न मेहेत पश्येदात्मनः शकृत् ।
सह स्त्रियाथ शयनं सह भोज्यं च वर्जयेत् ॥ शान्ति १९३/२४
त्वं कारं नामधेयं च ज्येष्टानां परिवर्जयेत् ।
अवराणां समानानामुभयेषां न दुष्यति ॥ शान्ति १९३/२५
हृदयं पापवृत्तानां पापमाख्याति वैकृतम् ।
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ॥ शान्ति १९३/२६
नैनं मनुष्याः पश्यन्ति पश्यन्त्येव दिवौकसः ॥ शान्ति १९३/२७
पापं कृतं न स्मरतीह मूढो विवर्तमानस्य तदेति कर्तुः ।
राहुर्यथा चन्द्रमुपैति चापि तथाबुधं पापमुपैति कर्म ॥ शान्ति १९३/२९
आशया संचितं द्रव्यं दुःखेनैवोपमुज्यते ।
तद् बुधा न प्रशंसन्ति मरणं प्रतीक्षते ॥ शान्ति १९३/३०
तस्मात् सर्वेषु भूतेषु मनसा शिवमाचरेत् ॥ शान्ति १९३/३१
एक एव चरेद् धर्मं नास्ति धर्मे सहायता ।
केवलं विधिमासाद्य सहायः किं करिष्यति ॥ शान्ति १९३/३२
धर्मो योनिर्मनुष्याणां देवानाममृतं दिवि ।
प्रेत्यभावे सुखं धर्माच्छश्वत्तैरुपभुज्यते ॥ शान्ति १९३/३३
नापृष्टः कस्यचिद् ब्रूयान्नाप्यन्यायेन पृच्छतः ॥ शान्ति २८७/३५
ततो वासं परीक्षेत धर्मनित्येषु साधुषु ।
मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च ॥ शान्ति २८७/३६
[[वर्गः:महाभारतसूक्तयः (भागः ६ अवशिष्टाः विषयाः
<DOC_END>
<DOC_START>
को हि ततैव भुक्त्वान्नं भाजनं भेत्तुमर्हति ।
मन्यमानः कुले जातामात्मानं पुरुषः ॥ आदि २१९/२७
कथं हि सिरसो मध्ये कृतं तेन पदं मम ।
मर्षयिष्यामि गोविन्द पादस्पर्शमिवओरगः ॥ आदि २१९/३०
सुबद्धस्यापि भारस्य पूर्वबन्धः श्लयायते ॥ आदि २२०/१७
समाकुलेषु ज्ञानेषु न बुद्धिक्रुतमेव तत् ॥ आदि २२०/१२
प्राज्ञः शूरो बहूनां हि भवत्येको न शंशयः ॥ आदि २३१/३
विजयो मन्त्रमूलो हि राज्ञो भवति भारत ॥ सभा ५/२७
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्रेयसं परम् ॥ सभा ५३५
ष्डनार्था महाराज कच्चित् ते पृष्ठ्तः कृता ।
निद्राऽऽलस्यं भयं क्रोधोऽमार्दं दीर्घसूत्रता ॥ सभा ५/१२६
कृष्णे नयो मयि बलं जयः पार्थे धनज्जये ॥ सभा १५/१३
नयो जयो बलं चैव त्रिक्रमे सिद्धिमेष्यति ॥ सभा २०/२०
किं वोद्य प्रसमीक्षितम् ॥ सभा २१/४६
अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहान् ।
प्रव्सिश्यन्ति नरा धीरा द्वाराण्येतानि धर्मतः ॥ सभा २१/५३
सतां समय एष हि ॥ सभा २२/२
उअस्यां यस्यामवस्थायां यद् यत् कर्म करोति यः ।
तस्यां तस्यामवस्थायां तत् फलं समवाप्नुयात् ॥ सभा २२/१३
अहिंस्यां प्रमदामाहुः सर्वधर्मेषु पार्थिव ॥ सभा २२/३६ दा० पा०
श्रेयसा निर्जितं वरम् ॥ सभा २३/७
अर्धमश्च परो राजन् पारुष्यं च निरर्थकं ॥ सभा ३८/२
कर्मणां गहनां गतिम् ॥ सभा ३८/२९ दा० पा०
स्त्रीषु गोषु न शस्त्राणि पातयेद् ब्राह्मणेषु च ।
यस्य चाननानि भुञ्जीत यत्र च स्यात् प्रतिश्रयः ॥ सभा ४१/१३
न गाथागाथिनां शास्ति बहु चेदपि गीयते ॥ सभा ४१/१८
आत्मनिन्दाऽऽत्मपूजा च परनिन्दा परस्तवः ।
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥ सभा ४४/२४
भेदमूलो हि विग्रः ॥ सभा ४६/२८
स्सन्तोषो वै श्रियं हन्ति ह्यभिमानं च भारत ।
अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् ॥ सभा ८९/१४
द्वेष्टा ह्यासुखमादत्ते यथैव निधनं तथा ॥ सस्भा ५४/१
अनार्यचरितं तात परस्वस्पृहणं भृशम् ।
स्वसन्तुष्टः स्स्वधर्मस्थो यः स वै सुखमेधते ॥ सभा ५४/६
विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान् नरः ।
अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति ॥ सभा ५४/८
यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः ।
स न जानाति शास्त्राथं दर्वी सूपरसानिव ॥ सभा ५५/१
परनेयोऽग्रणीर्यस्य स मार्गान् प्रति मुह्यति ।
पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः ॥ सभा ५५/४
वृद्धिर्हि विक्रमः ॥ सभा ५५/१९
मतिसाम्यं द्वोर्नास्ति कार्येषु कुरुनन्दन ॥ सभा ५६/८
यश्चितमन्वेति परस्य राजन् वीरः कविः स्वामवमन्य दृष्टिम् ।
नाषण् समुद्रे इव बालनेत्रामारुह्य घोरे व्यसने निर्मज्जेत् ॥ सभा ६३/४
यो बालादनुशास्तीह सोऽमित्रं तेन विन्दति ॥ सभा ६४/९
सुसान्त्विता ह्यस्यती स्त्री जहाति ॥ सभा ६४/११
न धर्मपर एव स्यात्र चार्थपरमो नरः ।
न कामपरमो वा स्यात् सर्वान् सेवेत सर्वदा ॥ वन ३३/३९
धर्म पूर्वं धनं मध्ये जघन्ये काममाचरेत् ।
अहन्यनुचरेदेवमेष शात्रकृतो विधिः ॥ वन ३३/४०
कामं पुर्वे धनं मध्ये जघन्ये धर्ममाचरेत् ।
वयस्यनुचरेदेवमेष शास्त्रकृतो मतः ॥ वन ३३/४१
विशिष्टया विशिष्टेन संगमो गुणवान् भवेत् ॥ वन ५३/३१
सर्वः सर्वं न जानाति स्सर्वज्ञॊ नास्ति कश्चन् ।
नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ॥ वन ७२/८
ये नाथवन्तोऽद्य भवन्ति लोके ते नात्मना कर्म समारभन्ते ॥ वन १२०/२
उताबलस्य बलवानुत बालस्य पण्डितः ।
उत वाविदुषॊ विद्ध्वान् पुत्रो जनक जायते ॥ वन १३४/३४
प्रियाः प्राणा हि देहिनाम् ॥ वन १७९/१०
ध्रुवं दिनादौ रजनी प्रणाशस्तथा क्षपादौ च दिन प्रणाशः ॥ वन २३६/२५
न हि साहसकर्तारः सुखमेधान्ति भारत ॥ वन २४६/२२
न शोकः शोचमानस्य विनिवर्तते कर्हिचित् ॥ वन २४९/३७
जीवन् भद्राणि पश्यति ॥ वन २५२/३९
सुखदुःखे हि पुरुषः पर्यायेणॊपसेवते ॥ वन २५९/१३
सुखमापतितं सेवेद् दुःखमापतितं वहेत् ॥ वन २५९/१५
अप्रदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः ।
मृते भ्र्तरि पुत्रश्च वाच्यो मातुररक्षितः ॥ स्वन २९३/३५
सकृदंशो निपतति सकृत् कन्या प्रदीयते ।
सकृदाह ददानीति त्रीण्येतानि सकृत् ॥ वन २९४/२६
मनसा निश्चयं कृत्वा ततो वाचभिधीयते ।
क्रियते कर्मणा प्रमाणं मे मनस्ततः ॥ वन २९४/२८
सुखं च दुःखं च भवाभवात्कम् ॥ वन २९५/१०
न शक्यते जीवितुमप्यकर्मणा ॥ विराट १०/६
अशक्तस्तु पुमाञ्छैलं न लङ्घयितुमर्हति ॥ विराट १४/५० दा० पा०
एकस्तु कुरुते पापं स्वजातिस्तेन हन्यते ॥ विराट १५/३
न तु केनचिदत्यन्तं कस्यचिध्दृयं क्वक्चित् ।
वेदितुं शक्यते नूनं तेन मां नावबुध्यसे ॥ विराट २४/२५
सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः ॥ विरट २६/२
न तु नीतिः सुनितस्य शक्यतेऽन्वेषितुं परैः ॥ विरट २९/९
पतन्त्यरूपेषु यथा चक्षूंषि न कदाचन ॥ विराट ५५/२६
परवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः ॥ उद्योग ७/१७
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् ।
तस्माद् व्याघ्रो वनं रक्षेद् वनं व्याघ्रं च पालयेत् ॥ उद्योग २९/५५
प्रियाप्रिये सुखदुःखे च राजन् निन्दा प्रसंसे च भजन्त एव ।
परस्त्वेनं गर्हयतेऽपराधे प्रशंसते साधुवृत्तं तमेव ॥ उद्योग ३२/२७
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
लभते बुद्ध्यवज्ञानमवमानं च भारत ॥ उद्योग ३९/२
प्रियो भवति दानेन प्रियवादेन चापरः ।
मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः ॥ उद्योग ३९/३
अकीर्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः ।
हन्ति नित्यं क्षमा क्रोधमाचरो हन्त्यलक्षणं ॥ उद्योग ३९/४२
परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया ।
परीक्षेत् कुलं राजन् भोजनाच्छादनेन च ॥ उद्योग ३९/४३
यत् सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते ।
कामं तदुपसेवेत न मूढव्रतमाचरेत् ॥ उद्योग ३९/६०
दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च ।
न श्रीर्वसत्यदान्तेषु ये चोत्साह विवर्जिताः ॥ उद्योग ३९/६१
अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥ उद्योग् ३९/७०
अविद्यः पुरुषः शोच्यः शोच्यं मैथुनमप्रजम् ।
निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् ॥ उद्योग् ३९/७६
अध्वा जरा देहवतां पर्वतानां जलं जरा ।
असम्भोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा ॥ उद्योग ३९/७७
मलं पृथिव्या बाह्लीकाः पुरुषस्यानृतं मलम् ।
कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः ॥ उद्योग ३९/७९
न स्वप्नेन जयोन्निद्रां न कामेन जयेत् स्त्रियः ।
नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ॥ उद्योग ३९/८१
यस्य दानजितं मित्रं शत्रोवो युधि निर्जिताः ।
अन्नपानजिता दाराः सफलं तस्य जीवितंम् ॥ उद्योग ३९/८२
अनृते च समुत्कर्षो राजगामि च पैशुनम् ।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ उद्योग ४०/३
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ उद्योग ४०/७
आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः कदर्यता ।
अपालनं हन्ति पशूंश्च रजन्नेकः क्रुद्धो ब्राह्मणॊ हन्ति राष्ट्रम् ॥ उद्योग ४०/८
आत्मा नदी भरत पुण्यतीर्थां सत्योदका धृतिकूला दयोर्मिः ।
तस्यां स्नातः पूयते पुण्यकर्मा पुण्योह्यात्मा नित्यमालोभ एव ॥ उद्योग ४०/२१
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥ उद्योग ४०/२२
विषमं न हि मन्यते प्राप्तं मधुदर्शिनः ॥ उद्योग ५१/२६
अनित्यमतयो लोके नराः पुरुषसत्तम् ॥ उद्योग ८०/६
श्रोता चार्थस्य विदुरस्त्वं च वक्त जनार्दन ।
कमिवार्थं निवर्तन्तं स्थापयेतां न वर्त्मनि ॥ उद्योग ८०/१८
परश्रया वासुदेव या जीवति धिगस्तु ताम् ॥ उद्योग ९०/७४
काले हि समनुप्राप्ते त्यक्तव्यमपि जीवनम् ॥ उद्योग ८९/७७
नहि जातु द्वयोबुद्धिः समा भवति कर्हिचित् ॥ उद्योग १५६/३
दूताः किमपराध्यन्ते यथोक्तस्यानुभाषिणः ॥ उद्योग १६२/३९
तैर्दत्तनप्रदायेभ्यो यो भुङ्क्ते स्तेन एव सः । भीष्म २७/१२; गीता ३/१२
भुञ्जते ते त्वधं पापा ये पचन्त्यात्मकारणात् ॥ भीष्म २७/१३; गीता ३/१३
प्रकृतिं यान्ति भूतानि निग्रः किं करिष्यति ॥ भीष्म २७/३३; गीता ३/३३
स्वधर्मे निधनं श्रेयः परधर्मो भयावह्ः ॥ भीष्म २७/३५; गीता ३/३५
निमित्तमात्रं भव सव्यसाचिन् ॥ भीष्म ३५/३३; गीता ११/३३
तपोऽभ्युदीर्णां तपसैव बाध्यते बलं बलेनैव तथा मनस्विभिः ॥ द्रोण २/१८
आशा बलवती राजन् ॥ द्रोण १०१/१२; कर्ण १०/३८
पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम् ॥ कर्ण ९/१९
सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जयाजयौ ॥ कर्ण १६/२८
ब्राह्मणा ब्राह्मणाः सृष्टा मुखात् क्षत्रं च बाहुतः ॥ कर्ण ३२/४३
उरुभ्यामसृजत् वैश्याञ्शूद्रान् पद्मयामिति श्रुतिः ॥ कर्ण ३२/४४
संहता हि महाबलाः ॥ कर्ण ३४/७
सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः ।
वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः ॥ कर्ण ५४/४२
न कर्ण देशसामान्यात् सर्वः पापं निषेवते ।
यादृशः स्वस्वभावेन देवा अपि ना दृशाः ॥ कर्ण ४५/४६
घिगस्तु खलु मानुष्यं मानुषेषु परिग्रहे ।
यतो मूलानि दुःखानि सम्भवन्ति मुहुर्मुहुः ॥ स्त्री ८/६
तपोर्थीयं ब्राह्मणी धत्त गर्भं गौर्वोढारं धावितारं तुरङ्गी ।
तपसा महदाप्नोति बुद्ध्या वै विन्दते महत् ।
त्यागेन सुखमाप्नोति सदा कौन्तेय तत्ववित् ॥ शान्ति १९/२६
एकं हत्वा यदि कुले शिष्टानां स्यादनामयम् ।
कुलं हत्वा च राष्ट्र्ं च न तद् वृत्तोपघातकम् ॥ शान्ति ३३/३१
असंख्याता भविष्यन्ति भिक्षवो लिन्ङ्गनस्तथा ।
आश्रमाणां विकल्पाश्च निवृत्तेऽस्मिन् कृते युगे ॥ शान्ति ६५/२५
अशृण्वाणाः पुराणां धर्माणां पस्रमा गतिः ।
उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः ॥ शान्ति ६५/२६
पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि ॥ शान्ति १४१/८२
छेतुमप्यागते छायां नोपसंहरते दुमः ।
अज्ञानप्रभवो मोहः पापाभ्यासात् प्रवर्तते ।
यदा प्राज्ञेषु रमते तदा सद्यः प्रणश्यति ॥ शान्ति १६३/११
विरुद्धानि हि शास्त्राणि ये पश्यन्ति कुरुद्वह ।
विधित्सा जायते तेषां तत्वज्ञान्निवर्तते ॥ शान्ति १६३/१२
कुलाञ्ज्ञानात् तथैश्वर्यान्मदो भवति देहिनाम् ।
एभिरेव तु विज्ञातैः स च सद्यः प्रणश्यति ॥ शान्ति १६३/१६
प्रतिकर्तुं न शक्ताये बलस्थायापकारिणे ।
असूया जायते तीव्रा कारुण्याद् विनिवर्तते ॥ शान्ति १६३/१९
कृपाणान् सततं दृष्ट्वा ततः संजायते कृपा ।
ध्र्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा ॥ शान्ति १६३/२०
धनैर्वाइश्यश्च् शूद्रश्च मन्त्रैर्होमैश्च वै द्विजः ॥ शान्ति १६५/२०
व्यवसायं समाश्रित्य सहायान् योऽधिगच्छति ।
न तस्य कश्चिदारम्भः कदाचिद्वसीदति ॥ शान्ति २९८/४२
संशयात्मा विनश्यति ॥ भीष्म २८/४० गीता ४/४०
एता हि मनुजव्यघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः ।
नासामस्ति प्रियो नाम मथुने सङ्गमेति यः ॥ अनु ४३/२३
नान्यः शक्ति स्त्रीलोकेऽस्मिन् रक्षितुं नृपयोषितां ॥ अनु ४३/२७
न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै ।
बलान्यतिबलं प्राप्य दुर्बलानि भवन्ति वै ॥ अनु ८५/१५
राजन् प्रतिग्रहो राज्ञां मध्वासादो विषोपमः ॥ अनु ९३/३१
अमृतं मनसः प्रीतिं सद्यस्तृप्तिं ददाति च ।
मनो ग्लापयते तीव्रं विषं गन्धेन सर्वशः ॥ अनु ९८/१८
ओषध्यो ह्यमृतं सर्वा विषं तेजोऽग्निसम्भवम् ॥ अनु ९८/१९
बुद्धिव्यावर्तते चास्य विनाशे प्रत्युपस्थिते ॥ आश्व १७/७
बलवन्तो ह्यानियमा नियमा दुर्बलीयसाम् ॥ आश्व २२/२३
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
स्वस्य गवां संरक्षणं न भवतीति एकः गोपालकः लक्षितवान् । तासां संरक्षणार्थं सः एकं रक्षणवलयं निर्माय गाः तत्र स्थापितवान् । एकदा अग्निस्फोटकारणेन सर्वाः गावः भस्मसात् अभवन् । एतेन ज्ञायते यत् वयं कस्यापि रक्षणस्य कृते उपायं कर्तुं शक्नुमः परन्तु तस्य संपूर्णं संरक्षणं तावत् दैवाधीनम् एव इति । संरक्षणस्य सर्वविधां व्यवस्थां कृत्वाऽपि वयं तस्य संरक्षणं कर्तुं न शक्नुमः दैवेन तस्य नाशः भवेत् एव इति अस्य न्यायस्य तात्पर्यं भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः ककारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
कण्टक इत्यस्य शब्दस्य अधमपक्षेण ‘तीक्ष्णाग्रकाष्ठखण्डः शत्रुः’ इति अर्थद्वयं विद्यते । पादे कण्टकः लग्नः चेत् अपरेण कण्टकेन वयं पूर्वं कण्टकं निष्कासयामः । तदनन्तरं कण्टकद्वकारणात् अपि दुःखं मा भूत् इति वयं तद्द्वयमपि दूरीकुर्मः । तथैव आवश्यकताम् अनुसृत्य एकस्य शत्रोः साहाय्येन अपरस्य शत्रोः नाशः क्रियते तदनन्तरं पूर्वस्यापि शत्रोः नाशः क्रियते । अयं न्यायः राजनीतिविधानं प्रकाशयति ।
<DOC_END>
<DOC_START>
पश्यन्तु- प्रत्यगात्मतया तस्य प्राप्तत्वेऽपि च सर्वदा ।
<DOC_END>
<DOC_START>
‘कतक’ इत्यस्य फलस्य किञ्चिद् वैशिष्ट्यम् अस्ति तत् फलं कलुषिते जले स्थापितं चेत् तस्य जलस्य कालुष्यं नष्टं भवति जलं शुद्धं भवति । जलं शुद्धं कर्तुं सामर्थ्यं तस्मिन् फले विद्यते । तथा कश्चन स्वस्य संसर्गेण किंवा संपर्केण अन्येषां दुर्गुणान् दूरीकर्तुं शक्नोति इति अनेन न्यायेन बोध्यते ।
<DOC_END>
<DOC_START>
कदम्बवृक्षस्य एकदैव कलिकाः भवन्ति तथैव व्यवहारे काश्चन घटनाः सकृदेव भवन्ति । एवं एकवारमेव घटमानानां विषये अस्य न्यायस्य प्रयोगो भवति ।
यथा १. पित्रा स्वपाणिपद्मेन स्पृश्यमानोऽवनिं प्रति
ध्वनेः उत्पत्तिविषयेऽपि अस्य प्रयोगः क्रियते इति केषाञ्चन पण्डितानां मतम्-
२. वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता ।
कदम्बकोरकन्यायादुत्पत्तिः कस्यचिन्मते ॥ (जयन्तन्यायमञ्जरी २१४,२२८)
<DOC_END>
<DOC_START>
कश्चन कण्टकः कदलीपत्रे लगति चेत् किंवा कदलीपत्रम् एव कण्टकाग्रे पतति चेत् -परिणामस्तु एक एव । हानिस्तु कदलीपत्रस्य एव न तु कण्टकस्य । तथैव सज्जनस्य सङ्गः दुष्टेन भवति चेत् हानिः सज्जनस्य एव दुष्टस्य न इत्यर्थे न्यायः अयं प्रयुज्यते ।
<DOC_END>
<DOC_START>
सुवर्णं सुवर्णस्य आभूषणानि च नाम्ना रुपेण च भिन्नानि भवन्ति चेदपि सुवर्णस्य दृष्ट्या तानि एकरुपाणि एव । तेषां पूर्णतः साम्यं भवति । तथा कार्यस्य कारणस्य च मध्ये तादात्म्यम् अस्ति इति अयं न्यायःबोधयति । एतत् जगत् एकं कार्यं, ब्रह्म च एतस्य कारणं तथा द्वयोः अपि अभेदः एव इति अनेन न्यायेन सूच्यते ।
यथा -वाचारम्भणं विकारो नामधेयं सुवर्णमित्येव सत्यम् । सुवर्ण- अलङ्काराणाम् उदाहरणद्वारा श्रीगुलाबरावमहाराजः अनध्यस्तविवर्तनामकं सिद्धान्तं प्रतिपादितवान् ।
<DOC_END>
<DOC_START>
कियता अपि बलेन कन्दुकम् अधः दमयामः चेत् अपि कन्दुकः उपरि एव वेगेन आगच्छति । सः तस्य स्वभावः । तथैव सज्जनानां कियदपि दमनं कृतं चेदपि, तेषां नाशार्थं प्रयत्नः कृतः चेदपि तेषां दमनं न भवति । ते स्वकौशलेन प्रतिभया च यशः एव प्राप्नुवन्ति इति अस्य अर्थः । (सा.९९०)
<DOC_END>
<DOC_START>
ब्राह्मणग्रन्थेषु ‘कपिञ्जलानालभेत्’ इति विधिः कश्चन दृश्यते । कपिञ्जलपक्षिणां बलिः अनेन विधिवाक्येन बोध्यते । परन्तु कति पक्षिणः बलिरुपेण समर्पणीया इति स्पष्टं न कथितम् । मूलवाक्ये बहुवचनप्रत्ययस्य कारणेन इयं शङ्का भवति । तस्याः समाधानम् एवं भवति यत्-बहुवचनकारणेन न्यूनतमपक्षे त्रयाणां कपिञ्जलपक्षिणां बलिः अभिप्रेतः इति सयुक्तिकः अर्थः । व्याकरणादि-विशिष्ट- संकेतेभ्यः वाक्यार्थः प्राप्तव्य इति बोधयितुम् अस्य न्यायस्य प्रयोगः क्रियते । (जैमिनिसूत्रम् ११-१-३८-४६)
<DOC_END>
<DOC_START>
कपित्थफलस्य भङ्गः नाम कपित्थं वर्तुलाकारं भवति तद् यदा भज्यते तदा अन्तः प्रायः रिक्तम् एव भवति अतः कपित्थभङ्गस्य अधिकं प्रयोजनं नास्ति इति । निराशा एव भवति इति कारणेन तत् तथा एव स्थापनीयम् यस्य विश्लेषणेन प्रयोजनं न भवति इत्यस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति । यथा मृच्छकटिके -
जानन्नपि खलु जातिं तव न जानामि शीलविभवेन ।
तिष्ठतु ममैव मनसि किं कपित्थेन भग्नेन ॥६-२८
राजसेवकः चनरकः अपरं राजसेवकं वदति तव जातिः का इति अहं जानामि परन्तु व्यर्थमेव तव अपमानः किमर्थम्? कपित्थभङ्गेन किम् तव नीचजातिः तथैव गुप्ता भवतु ।
<DOC_END>
<DOC_START>
कफोणिभागे गुडं स्थापयित्वा ‘तत् लेढि’ इति कथ्यते चेत् तत् तु अशक्यमेव ।
२. कफोणिभागे गुडं नास्ति चेदपि तद् अस्तीति मत्वा तस्य लेहनं इति इदम् अर्थद्वयं अनेन न्यायेन बोध्यते । (सा. ४९५)
<DOC_END>
<DOC_START>
कमठ्याः दुग्धस्य पानम् इति अशक्यमेव । किमपि नास्तीति कस्यापि अशक्यत्वकथने न्यायस्य अस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
एकदैव (एकस्मिन् एव काले कार्यद्वयस्य सिद्धिः इत्यस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति । कम्बलप्रक्षालनसमये तेन हस्तपादयोः अपि प्रक्षालनं भवति ।
पश्यन्तु- निर्णेजनं ह्युभयं करोति कम्बलशुद्धिं पादयोश्च निर्मलताम् ।
<DOC_END>
<DOC_START>
१. कङ्कणम् इत्यस्य अर्थः एव ‘करस्य आभूषणाम्’ इति । तदा कर इति शब्दः व्यर्थः भवति ।
२. करस्य कङ्कणाय दर्पणस्य आवश्यकता न भवति ।
कङ्कण इत्यस्मिन् शब्दे करकङ्कणमिति अर्थः अन्तर्भूतः भवति । कङ्कणं करभूषणम् इति कोशः । तदा पुनः कर इति पदं पुनरुक्तं भवति । परन्तु क्वचित् ‘करे वर्तमानं कङ्कणं न निष्कासितम्’ इत्यर्थेऽपि प्रयोगं कृत्वा पुनरुक्तिदोषः निराक्रियते ।
<DOC_END>
<DOC_START>
करटस्य (काकस्य) कति दन्ताः सन्ति इत्यस्य संशोधनं नाम निरर्थकं खलु । एवं निरर्थके कर्मणि समययापनम् इत्यस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
अस्माकं हस्ते दीपः भवति चेत् तेन अस्माकम् अन्येषां च उपयोगः भवति इति अस्य न्यायस्य अर्थः ।
<DOC_END>
<DOC_START>
हस्ते स्थितम् बदरफलम् इव स्पष्टं दृश्यते इति सूचयितुम् अस्य प्रयोगो भवति ।
तुल्यार्थाः- करस्थविस्वन्यायः, करकपित्थन्यायः, हस्तामलकन्यायः । स्पर्शेणैव तत् फलं किमिति ज्ञातुं शक्यते तथा कश्चन विषयः अतीव स्पष्टः संशयातीतः इति बोधयितुम् अस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
दुग्धस्य कृते गृहे गौः अस्ति चेत् गर्दभ्याः उष्ट्रयाः वा दुग्धस्य कृते किमर्थं परिश्रमः तथा कस्मिन्नपि समर्थे उपाये सति लघुसाधनस्य कृते परिश्रमः किमर्थम् इत्यर्थे अस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
उष्ट्रस्य पृष्ठभागे बहूनि वस्तूनि स्थाप्यन्ते अन्यानि यानि तथा स्थापयितुं न शक्यन्ते तानि तस्य कण्ठे बध्यन्ते । भारवहनम् इति भाग्ये लिखितं चेत् तत् कथमपि परिहृतं न भवति इत्यस्मिन् अर्थे अस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
करी नाम गजः । कलभः नाम गजशिशुः । कलभ इत्यनेन एव शब्देन गजशावकः इति अर्थः भवति तथापि करिकलभ इति कथनस्य किमपि प्रयोजनं नास्ति तथापि तादृशप्रयोगाः भाषायां दृश्यन्ते । क्वचित् पुनरुक्तपदानां किञ्चित् प्रयोजनं भवितुमर्हति ।
<DOC_END>
<DOC_START>
काम-भा-स्थल-सार-श्री-सौधा, काम मन्मथस्य, भा तेजसः, स्थल स्थानं सत्, सारश्री श्रेष्ठसम्पत्त्या युक्तम्,
सौधा अट्टयुतैः गृहैः युक्तम्, घनवापिका असङ्ख्यैः सरोवरैः युक्तम्, सारस-आरव-पीना सारसपक्षिणां ध्वनिना युक्तम्,
असौ साकेताख्यं नगरम्, सरागाकार-सुभूरि-भूः सरागाकार रक्तवर्णस्य आकारयुक्तम्, सुभूरि सुन्दरवर्णयुक्तम्,
भूः भूमिः, आसीत् । अत्र 'भूरि' इत्यस्य 'विश्व'कोशस्य विवरणम् एवमस्ति भूरिप्राज्यसुवर्ण योः' इत्यतः सुन्दरवर्णः इति
इदम् अयोध्या साकेतनगरी अत्यन्तं सुन्दरम् आसीत् । कामोद्दीपकाः बहवः सन्निवेशाः अत्र आसन् । श्रेष्ठेन ऐश्वर्येण युक्ता
आसीत् । तत्र तत्र बहवः लघुसरोवराः आसन् । अतः एव सारसपक्षिभिः युक्ता सती आकर्षिका आसीत् । भूमिः रक्तवर्णीया सती
का, अपि, वा, अनघसौधा, असौ
भूरि अधिक, भूसुरक ब्राह्मणैः युक्तम्, अगार गृहस्य, आसना वितर्दियुक्तम्, पीवरम्, सारसा कमलैः युक्तम्,
अनघसौधा न्यूनतारहितैः अट्टगृहैः युक्तम्, काऽपि शब्दैः, वर्णयितुम् असाध्यम्, असौ द्वारकानगरम्, श्री रसालस्थभामका -
फलैः युक्तानाम् आम्रवृक्षाणाम् उपरि विद्यमानेन सूर्येण युक्तम् आसीत् । (श्री फलैः युक्तम्, रसाल आम्रवृक्षे विद्यमन, भामका -
द्वारकानगरं सुन्दरैः भवनैः युक्तम् आसीत् । तत्र वेदिकारूपेण विद्यमानाः वितर्दयः सर्वदा वेदवेदान्तनिष्णातैः ब्राह्मणैः पूर्णाः
भवन्ति स्म । स्थूलानि बृहदाकारकाणि कमलानि प्रासादेषु भवन्ति स्म । तेषु भवनेषु न कापि न्यूनता परिलक्ष्यते स्म । तस्य
नगरस्य आम्रवृक्षाः फलयुक्ताः सन्तः मनोहराः आसन् । तेषां वृक्षाणाम् उपरि सूर्यः भवति स्म । तन्नाम ते वृक्षाः गगनस्पर्शिनः
आसन् । तस्य नगरस्य सौन्दर्यं वर्णनातीतम् आसीत् ।
<DOC_END>
<DOC_START>
१. न कोऽपि शरणं जातु
<DOC_END>
<DOC_START>
अयं वर्गः स्वरादिविषयाणां महाभारतसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
मत्तगजः स्वैरं विहरति तस्य नियन्त्रणं कठिनमेव कार्यम् । परन्तु सः गजः मत्तः इति कारणेन जनाः तस्मात् दूरे भवन्तु इति सूचयितुं तस्य गजस्य कण्ठे घण्टा बध्यते । यदा शारीरकबलस्य अपेक्षया बुद्धिः गरीयसी इति सूचनीयं भवति तदा अस्य न्यायस्य प्रयोगः भवति ।
मतिरेव बलाद् गरीयसी यदभावे करिणामियं दशा ।
इति घोषयतीव डिण्डिमः करिणो ह्स्तिपकाहतः क्वणन् ॥
<DOC_END>
<DOC_START>
वराह्याः एकया प्रसूत्या बहवः शिशवः भवन्ति परन्तु हस्तिन्याः एकया प्रसूत्या एकः एव शिशुः भवति । हस्तिन्याः एकः शावकः वरह्याः अनेकशिशूनाम् अपेक्षया सर्वथा श्रेष्ठः इति अस्य अर्थः ।
<DOC_END>
<DOC_START>
बृंहितं नाम गजेन कृतः शब्दः । तदा ‘करि’ इति शब्दप्रयोगस्य आवश्यकता नास्ति परन्तु किमपि विशिष्टं प्रयोजनं द्योतयितुमपि क्वचित् तथा क्रियते । एवं पुनरुक्तवद् भासमानानाम् अपि क्वचित् विशिष्टं प्रयोजनं भवति ।
समानार्थकन्यायः गजघण्टान्यायः, नीलेन्दीवरन्यायः, पर्वताधित्यकन्यायः वाजिमन्दुरान्यायः, मश्गवागुरान्यायः पश्यन्तु -विशिष्टवाचकानामपि पदानां सति पृथग्विशेषण वाचकपदसमवधाने विशेष्यमात्रपरतायां करिबृंहितन्यायः प्रवर्तते ॥ (लौकिकन्यासाहस्त्रीतः रघुनाथः)
<DOC_END>
<DOC_START>
कर्कटीफलेन सह अन्यानि फलानि यदा भवन्ति तदा मूलं कर्कटीफलं नष्टं भवति इति कश्चन विशेषो भवति । एवम् अवान्तरविषयाणां महत्त्वेन मूलः विषयः नष्ट इति अर्थ द्योतयितुम् अस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
अहं कुन्तीपुत्र इति यावत्पर्यन्तं कर्णः न जानाति स्म तावत् सः आत्मानं राधापुत्रं मन्यते स्म । कुन्त्या नदीप्रवाहे परित्यक्तः कर्णः राधानामिकया सूतस्त्रिया पालितः । यदा सत्यं ज्ञातं तदा सः आत्मानं कुन्तीपुत्रं भावयति स्म । एवम् कालान्तरे यः विषयः स्पष्टः भवेत् तस्य बोधार्थम अस्य न्यायस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
बहूनां कर्मणां क्रमः निर्दिष्टः भवति । सृष्टिक्रमोऽपि एतादृशः । आदौ कारणं पश्चात् कार्यम् इत्ययं क्रमः सर्वविदितः । परन्तु क्वचित् केनापि कारणेन क्रमे अस्मिन् विपर्ययो जातः चेत् तं द्योतयितुम् अस्य न्यायस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
एकस्मिन् घटे कलविङ्कपक्षी स्थापितः चेत् यावत्पर्यन्तं सः घटः पिनद्धः तावत्पर्यन्तं सः पक्षी घटस्य अन्तर्भागे एव भवति । यदा घटस्य मुखभागः अनाच्छादितः भवति तदा सः पक्षी उड्डीय गच्छति । तथैव अस्मिन् शरीरे आत्मा बध्दः भवति बन्धकारणं तावत् पुरातनं कर्म । तत् कर्म यदा नष्टं भवति तदा आत्मा शरीरं परित्यज्य लोकान्तरं गच्छति । कर्मबन्धनात् मुक्तो भवति । वेदन्तिनः इव जैना अपि एतस्य न्यायस्य प्रयोगं कृतवन्तः । योगवासिष्ठेऽपि अस्य उल्लेखः वर्तते । कैश्चित् म्लेच्छैरपि कल्पना इयं स्वीकृता ।
कलविङ्कघटन्यायो धर्म इत्यपि तद्विदाम् ।
तथात्मसिद्धे म्लेच्छानां तददेशेषु न दुष्यति ॥ योगवासिष्ठं ९७-१
<DOC_END>
<DOC_START>
अयं वर्गः कवर्गादिविषयाणां महाभारतसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः चवर्गादिविषयाणां महाभारतसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः तवर्गादिविषयाणां महाभारतसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
यदा काचिद् घटना अनपेक्षितरीत्या घटते (जायते) तदा तस्याः सूचनार्थम् अस्य न्यायस्य प्रयोगः क्रियते । काकः उपविष्टः तालफलं च पतितम् इति एकस्मिन् काले अनपेक्षितरीत्या जातं चेत् तयोः कारण-कार्य संबन्धः न भवति । आप्टेमहाशयस्य कोशे अस्य न्यायस्य पञ्च विवरणानि दत्तानि यथा –
तालवृक्षस्य अधः काकः उपविष्टः अकस्मात् तस्य शिरसि तालफलं पतितम् –इति यादृच्छिकं घटनाद्वयम् ।
काकः तालवृक्षस्य शाखाग्रे उपविशति । तदा शाखाग्रेण सह सः वृक्षः पतितः चेत् काकस्य भारेण एव वृक्षः पतितः इति कथनं सर्वथा अयोग्यम् एव । तालपतनं काकस्य उपवेशनम् इति द्वयमपि यादृच्छिकमेव ।
काकस्य उपवेशनं तालपतनमिति घटनाद्वयं एकस्मिन् समये वेगेन अलक्षितक्रमेण जातम् ।
काकः यदा तालवृक्षस्य समीपं गतः तदैव तालफलं तदुपरि पतितम् तेन काकः प्रहारं प्राप्तवान् ।
कश्चन मनुजः वेगेन करतल- ताडनं कुर्वन् अस्ति तदा कश्चन काकः तस्य हस्तयोर्मध्ये गतः प्रहारं प्राप्तवान्-इति सूच्यते । उदाहरणार्थं तालः नाम करतलयोः शब्दजनकः संयोगः । तस्मिन् क्रियमाणे दैवात् कश्चन काकः उत्पतन् तत्र तालाभ्याम् आक्रान्तः अभवत् । तदेतत् काकतालीयमुच्यते ।
<DOC_END>
<DOC_START>
काकः स्वस्यैव चञ्चुं बिम्बफलं मन्यते । तथा स्वस्यैव विषये वर्तमानम् अज्ञानं बोधयितुम् अस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
काकस्य दन्ताः कति इति गणना व्यर्था एव खलु । तादृशस्य व्यर्थकार्यस्य विषये अस्य प्रयोगः भवति । यथा-
नचिकेता मरणसंबन्धं प्रश्नं प्रेत्यास्तीति नास्तीति ।
काकदन्तपरीक्षारुपं मानुप्राक्षीः मैवं वक्तुमर्हसि । कठोपनिषदः शाङ्करभाष्ये १-२५
:१. तथा- ध्वन्यालोकस्य अभिनवगुप्तव्याख्याने ३-१९
:जयन्तकृतन्यायमञ्जर्याम् पृष्ठक्रमः ७ । अयमेव वायसदन्तन्याय इत्यपि कथ्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः पवर्गादिविषयाणां महाभारतसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
यः प्रवृत्तां श्रुतिं सम्यक्छास्त्रं वा मुनिभि कृतम्।
दूषयन्त्यनभिज्ञाय तमाहुर्ब्रह्मघातकम्॥ आश्व. ९२ दा. पा. अ. XII॥
आश्रमे वाऽऽलये वापि ग्रामे वा नगरेऽपि वा।
अग्निं यः प्रक्षिपेत् क्रुद्धस्तमाहुर्ब्रह्मघातकम्॥ आश्व. ९२ दा. पा. अ. XII॥
चक्षुषा वापि हीनस्य पङ्गोर्वापि जडस्य वा।
हरेद्वै यस्तु सर्वस्वं तमाहुर्ब्रह्मघातकम्॥ आश्व. ९२ दा. पा. अ. XII॥
[[वर्गः:महाभारतसूक्तयः (भागः ५ पवर्गादयः विषयाः
<DOC_END>
<DOC_START>
अयं वर्गः अवर्गीयव्यञ्जनादिविषयाणां महाभारतसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
कश्चन मनुष्यः केनापि कार्येण बहिः गच्छति स्म अन्यः गृहस्य अन्तरेव वर्तते स्म । “गृहे वर्तमानं” दधि
काकेभ्यः रक्ष्यताम्” इति तेन बहिः गच्छता अन्यः कथितः । किञ्चित्कालानन्तरं कश्चन शुनकः आगत्य
सर्वमपि दधि खादितवान् । काकेभ्यः एव दधि रक्षणीयम् इति चिन्तयता तेन मन्दमतिना दधिरक्षणस्य
महत्त्वं न ज्ञातम् । एवं उपलक्षणम् अज्ञात्वा ये वाच्यार्थमेव आश्रयन्ति तेषां विषये अस्य प्रयोगः
<DOC_END>
<DOC_START>
काकः पिकश्च वर्णेन कृष्णौ परन्तु गुणे महान् भेदो भवति । बाह्यं सादृश्यं मोहकं भवति इति द्योतयितुम्
अस्य प्रयोगः क्रियते । काकस्य पिकस्य च यथार्थभेदः वसन्तकाले ज्ञायते ।
यथा –काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥
<DOC_END>
<DOC_START>
क्वचित् कश्चन प्रियः तस्य प्रेयसी च गाढं निद्रामग्नौ आस्ताम् । तदा प्रातः काले काकस्य ‘काविति’
रुतस्य कठोरध्वनिना प्रेयसी भीता निद्रायामेव प्रियं गाढम् आलिङ्तिवती । सा भीरुर्वा तथाचेत् सा
महिला रात्रौ नदीं तीर्त्वा प्रियसमीपं कथम् आगतवती एवं यत् किमपि पूर्णश्रद्धया साधनीयं चेत्
तत्समये किमपि भयं न भवति तदनन्तरं तु स्वभावः प्रकटितो भवति इति सूचयितुं अस्य न्यायस्य प्रयोगो
<DOC_END>
<DOC_START>
काक्याः अण्डानि नष्टानि एव भवन्ति यतः तेभ्यः अण्डेभ्यः शिशुजननं न भवति । कोकिला स्वस्याः
अण्डानि काकीनीडे स्थापयति सा च काकी तेभ्यः शिशून् जनयति इति । एवं यस्याः स्त्रियाः शिशवः
जन्मनैव मृताः भवन्ति तामुद्दिश्य काकवन्ध्या इति प्रयोगो भवति ।
<DOC_END>
<DOC_START>
काकः एकेन चक्षुषा पश्यतीति वदन्ति । यत्र द्र्ष्टव्यं तत्र एकमेव चक्षुः भ्रामयति काकः । तथा एकेनैव
अमरकोशे एकस्मिन् संदर्भे अस्य प्रयोगः कृतः । “ ईत्पोऽस्त्रियाम् अन्तरीयम्” इत्यस्याः
अमरकोशपङ्क्तेः विवरणे दृश्यते यत् द्वीपशब्दः पुल्लिङ्गः नपुंसकलिङ्गश्च दृश्यते अतः अस्त्रियाम् इति
द्वयोः कृते प्रयुक्तं पदमिति ।
1) बलिनोर्द्विषतोर्मध्ये वाचाऽत्मानं समर्पयन् ।
काकस्य नेत्रम् उभयत्र गोलकद्वये भ्रमितुं शक्नोति ।
2) अनिरोधिसुखे बुद्धिः स्वानन्दे च गमागमौ ।
एकैक दृष्टिः काकस्य वामदक्षिणनेत्रयोः ।
<DOC_END>
<DOC_START>
देवदत्तस्य गृहं कुत्र वर्तते इति एकेन पृष्टे सति अन्येन उक्तं यत्र काकाः तिष्ठन्ति तद् देवदत्तस्य गृहम्
इति । काकस्य उपवेशनम् इति गृहस्य स्थिरं लक्षणं न भवितुमर्हति । तथा कस्यचिदेव अंशस्य विवरणं
कृतमिति बोधयितुमस्य प्रयोगो भवति । तात्कालिकं लक्षणमित्यपि अस्य अर्थः ।
<DOC_END>
<DOC_START>
काकिणी नाम द्रव्यम् । धनस्य कारणेन कलहो भवति मैत्री नश्यति इति बोधयितुं न्यायस्य अस्य
<DOC_END>
<DOC_START>
दिवसे काकः द्रष्टुं शक्नोति परम् उलूकस्य कृते अयमेव समयः रात्रिः भवति यतः उलूकः दिवसे
किमपि द्रष्टुं न शक्नोति । द्वयोरपि दर्शनसमयः भिन्नः तत्र कोऽपि किमपि कर्तु न शक्नोति ।
यथा –पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम् ।
नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् ॥
सृष्टौ एतादृश्यः आश्चर्यकारिण्यः घटनाः बह्वयः सन्ति । अयं न्यायः तादृशघटनाम् आश्रित्य प्रवर्तितः
<DOC_END>
<DOC_START>
काचेन रक्षितः दीपः कियताऽपि वायुना निर्वापितो न भवति । तथा योग्यरक्षणं भवति चेत् दुर्बलस्यापि
काऽपि हानिर्नभवति इति न्यायस्य भावः ।
<DOC_END>
<DOC_START>
काचखण्डस्य मणेश्च सादृश्यम् अस्ति । परन्तु योग्यरीत्या परीक्षा कृता चेत् द्वयोः भेदः स्पष्टो भवति
। स्वस्य गुणैः एव स्वस्य श्रेष्ठत्वम् अथवा नीचत्वं निर्धार्यते केवलबाह्यदर्शनं तस्मिन् प्रमाणं नास्ति
इति न्यायस्य अस्य भावः ।
यथा- मणिर्लुठति पादेषु काचः शिरसि धार्यते ।
क्रयविक्रयवेलायां काचः काचो मणिर्मणिः ॥
<DOC_END>
<DOC_START>
कयोश्चित् द्वयोः स्वतन्त्ररीत्या प्रवासः आरब्धः । प्रवासकाले मध्ये कश्चन अरण्यभागः प्राप्तः ।
द्वयोरपि भयं भवति अतः परस्परं मैत्रीं कल्पयित्वा अरण्ये मार्गम् अन्विष्यतः । अरण्यभागे अतिक्रान्ते
पुनः द्वयोरपि पृथक् पृथगेव प्रवासो भवति । एवं केनापि निमित्तेन मैत्री घटिता चेत् निमित्तानन्तरं सा
<DOC_END>
<DOC_START>
जले प्लवनसमये निमज्जनभीत्या मनुष्यः कोऽपि आधारः लभ्यते वेति आतुरो भवति । सः आधारः
काशकुशसदश्शः ;अघुरुपो वा भवतु तस्य आधारेण प्रवाहात् बहिः आगन्तुं सः मनुष्यः प्रयत्नं करोति । तथा
अल्पस्यापि साहाय्येन महत् कार्य सम्पादयितुं क्रियमाणं निष्फलं प्रयासं द्योतयति अयं न्यायः ।
पश्यन्तु- १. सर्वदर्शनसंग्रहे आर्हतदर्शने २१ पृष्ठे
2. नैष्कर्म्यसिद्धौ १-७६, ३. तन्त्रवार्तिके १-३-८
<DOC_END>
<DOC_START>
कांस्यपात्रे भोजनमिति न्यायस्य भावः । कश्चन शिष्यः कदाचित् एकं नियमं कृतवान् – अहं
गुरुणा परित्यक्तेन आहारेण मम भोजनं करिष्यामि इति । तदपि कांस्यपात्रे भवतु इति तस्य नियमः । गुरुः
शिष्यस्य नियमभङ्गः मा भूत् इति कांस्यपात्रे भोजनम् आरब्धवान् । वस्तुतः नियमः गुरुणा न कृतः तथापि
शिष्यस्य कृते कांस्यपात्रे भोजनम् अङ्गीकृतवान् गुरुः । एतेन शिष्यस्य धर्मलोपस्तु न भवेदिति तस्य
आशयः । तथा अमुख्यस्यापि ग्रहणं अन्यस्य कृते क्रियते इति बोधयितुम् अयं न्यायः ।
यथा – शिष्यस्य कांस्यपात्रभोजित्वनियमः उपाध्यायस्य न नियमः । यदि तयोरेकस्मिन् पात्रे
भोजनमापद्यते अमुख्यस्यापि शिष्यस्य धर्मो नियम्येत मा भूद् धर्मलोप इति । (शाबरभाष्यतः १२-२-
<DOC_END>
<DOC_START>
प्रवाहे निमज्जन्तं कीटविशेषं कोऽपि उद्धृत्य बहिः स्थापयति चेदपि सः कीटः झटिति समीपे वर्तमानं
कमपि अपरम् आधारं प्राप्य स्वात्मानं रक्षितुं स्वयं प्रयत्नं करोति । तथा कथञ्चिदपि स्वप्राणान्
रक्षितुं प्रयतमानस्य विषये अयं न्यायः प्रवर्तते ।
<DOC_END>
<DOC_START>
यथा कीलद्वयम् एकमेव चक्रं दृढं धारयति तथा बहुभिः प्रयत्नैः बह्वीभिः उपपत्तिभिः च एकमेव तत्त्वं
सुदृढं गृहीतं चेत् अथवा एकस्य सिद्धान्तस्य कृते बहूनि प्रमाणानि दत्तानि चेत् कीलप्रतिकूलन्यायः भवति
<DOC_END>
<DOC_START>
कुक्कुटस्य ध्वनिः आदौ मन्दः भवति परन्तु अग्रे सः एव तारः भवति तथा क्रमेण वर्धमानस्य कस्यचिद्
विषये अयं न्यायः प्रवर्तते ।
<DOC_END>
<DOC_START>
कश्चन मनुष्यः कुण्डधारनामकस्य कस्यचिद् यक्षस्य सेवां कृतवान् । एकदा सः ‘मह्यं’ कञ्चन श्रेष्ठं
वरं देहि’ इति यक्षं प्रार्थितवान् । वस्तुतः सः यक्षः वरं दातुं समर्थः एव नासीत् । परन्तु स्वभक्तस्य
प्रार्थनामनुसरन् सः स्वयम् एकस्य दैवतस्य प्रार्थनां कृत्वा ततः स्वभक्ताय वरं दापितवान् । स्वतः
अशक्ताः चेदपि सज्जनाः अन्येषाम् उपकाराय यतन्ते इति अस्मात् न्यायाद् बोध्यते ।
<DOC_END>
<DOC_START>
एकदा विवाहार्थ काञ्चन कन्यां द्र्ष्टुं केचन तस्याः गृहम् आगताः । तदा सा कन्या स्वगृहे
धान्यं नास्ति इति ज्ञातवती । तथापि सा केषाञ्चन धान्यकणानां कुट्ट्नं कृत्वा पिष्टखाद्यं संपादयितुं
निश्चितवती । परन्तु कुट्टनध्वनिः शृतश्चेत बहिः वर्तमानाः जनाः किं चिन्तयेयुः इति सा शनैः
हस्तगतानि कङ्कणानि निष्कास्य स्थापितवती । अन्ते तस्याः प्रत्येकस्मिन् करे एकम् एव कङ्कणम्
अवशिष्टम् आसीत् । अयमाशयः यत् अनेकेषां कङ्कणानां कारणेन महान् ध्वनिः (क्वणनं) भवति । एकेन
तथा एक एव भवति चेत् शान्तो भवतीति अस्य न्यायस्य भावः ।
<DOC_END>
<DOC_START>
सामान्यतः मनुष्यः अनेकैः सह संभन्धं स्थापयितुम् इच्छति परन्तु तस्य केनापि सह उत्तमसंबन्धः न
भवति । शनैः शनैः तस्य कलहः भवति । अतः अन्ते सः एकाकी वासं कर्तुम् इच्छति । कन्यायाः हस्ते एकं
कङ्कणं भवति चेत् तस्य कङ्कणस्य ध्वनिरेव न भवति । तथा एकः एव भवति चेत् कलह एव न भवति इति
द्योतयितुं न्यायस्य अस्य प्रयोगः भवति ।
बहूनां कलहो नित्यं द्वाभ्यां संघर्षणं तथा ।
<DOC_END>
<DOC_START>
कुम्भे स्थापितस्य दीपस्य ज्ञानं बहिः न जायते । तथापि सः दीपः कुम्भस्य अन्तः प्रकाशमान एव
भवति । एवं तेजस्वी स्वाभिमानी वा पुरुषः बहिः न प्रकाशते चेदपि अन्तः प्रकाशमान एव भवतीति अनेन
<DOC_END>
<DOC_START>
‘कुम्भी’ इति एकः पात्रविशेषः यस्मिन् धान्यं सुरक्षितं स्थाप्यते । ‘कुम्भी-पात्रे’ धान्यं स्थापयते
ब्राह्मणाय इमां गां ददातु’ इति निर्दिष्टं चेत् अस्मिन् निर्दिष्टवाक्ये कुम्भीशब्दस्य किमपि प्रयोजनं
नास्ति यतः धान्यं तावत् कुम्भी-पात्रे एव स्थाप्यते । परन्तु यस्य सविधे कुम्भीपात्रे एव स्थापयितुं
पर्याप्तम् अल्पमेव धान्यम् अस्ति तस्य विषये अयं न्यायः प्रवर्तते ।
<DOC_END>
<DOC_START>
रुपवती गुणवती शीलवती च काऽपि कन्या भवति चेत् यथार्थतः तस्य कारणं तस्याः मातृगृहमेव । श्वशुरगृहे
व्यर्थमेव यशो गच्छति । प्रत्युत तया कन्यकया अपि भूरि कार्यं करणीयं भवति । एवं कुतश्चित्
प्राप्तानां गुणानां यशः कुत्रचित् गतं भवति चेत् अयं न्यायः प्रवर्तते । (सा. ७१७)
सत्यं सन्ति गृहे गृहे सुकवयो येषां वचश्चातुरी ।
स्वे हर्म्ये कुलकन्यकेन लभते जातैर्गुणैर्गौरवम् ॥
<DOC_END>
<DOC_START>
कुलालः हस्ताभ्यां दण्डेन च चक्रं भ्रामयति । तेषु निमित्तेषु विरतव्यापारेषु अपि पूर्वगतिकारणेन तत्
चक्रं भ्रमत्येव । तथा पूर्वसंस्काराः बलेन अधिकदिनानि यावत् तिष्ठन्ति इति अयं न्यायः बोधयति । (सा.
<DOC_END>
<DOC_START>
भ्रमतः कुलालचक्रस्य उपरि वर्तमानः कश्चन कीटविशेषः तस्य चक्रस्य भ्रमणस्य विपरीतदिशायां
भ्रमतीव भाति । तथा विपरीतां स्थितिं बोधयितुम् अस्य न्यायस्य प्रयोगो भवति । भागवते एतस्य
यथा कुलालचक्रेणा भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेषु अपि
उपलभ्यमानत्वात् एवं नक्षत्रराशिभिः उपलक्षितेन कलाचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह
परिधावमानानां तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे च
<DOC_END>
<DOC_START>
नदीतः क्षेत्रे जलं प्रवहतु इति धिया एका कुल्या निर्मीयते चेत् तया कुल्यया क्षेत्रस्य एव प्रयोजनं
भवति इति नास्ति, अपराणि अपि प्रयोजनानि भवन्ति । तथा एकया क्रियया अनेकप्रयोजनानि साध्यन्ते
इति अनेन न्यायेन बोध्यते ।
<DOC_END>
<DOC_START>
कुशः, काशः इति तृणविशेषस्य नाम । आपत्काले तादृशस्य अल्पस्य आधारस्य साहाय्येन आपत्तितः
आत्मानं रक्षितुं यदि कोऽपि इच्छेत् तर्हि तत् निष्फलं भवति इति बोधयितुमस्य न्यायस्य प्रयोगो भवति
द्रष्टव्यम् – जैमिनिसूत्रव्याख्याने तन्त्र वार्तिके १-३-२४ (पृष्ठे २६८) । ब्रह्मसूत्रभाष्यकारैः अपि
स्वसंप्रदायस्य सरर्थनार्थं प्रयत्नाः कृताः । क्वचित् मूलग्रन्थे वर्तमानं वाक्यमपि विपरिणमय्य
स्वाभिप्रेतः अर्थःदर्शितः । तादृशः प्रयत्नः कुशकाशावलम्बनं भवति इति उच्यते ।
<DOC_END>
<DOC_START>
पुष्पस्तबकस्य सामान्यतः वृत्तिद्वयं दृश्यते । देवतामूर्तेः उपरि, मनुष्याणां शरीरस्य उपरि किंवा शवस्य
उपरि अथवा एवमेव कुत्रचित् नाशः । स्वाभिमानिनः पुरुषा एवंविधा भवन्ति सर्वेषां मूर्ध्नि ते विराजन्ते
अथवा अज्ञाताः एव नश्यन्ति ।
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥(सा. ९८५) नीतिशतकं ३३
<DOC_END>
<DOC_START>
यथा धान्यस्य कुसूलः धान्येन पूर्णो भवति तथा किमपि एकम् अपरेण पूर्णम् अथवा व्याप्तम् इति
वक्तुमस्य न्यायस्य प्रयोगो भवति ।
यथा-विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् । इत्यस्य गीतावाक्यस्य विवरणे नीलकण्ठाचार्यैः
अस्य न्यायस्य प्रयोगः कृतः ।
<DOC_END>
<DOC_START>
कूट इति कृत्रिमस्य द्रव्यस्य नाम । कार्षापणमिति नाणकम् । केनापि कूटानां नाणकानां विनिमयेन
द्रव्यमर्जितं तर्हि तत् गर्हणीयं भवति । सहसैव तत् परिहरणीयं भवति । तथैव यदि काचित् स्मृतिः
श्रुतिविरुद्धं किमपि प्रतिपादयेत् तर्हि तत् सहसैव त्याज्यम् इति न्यायेन बोध्यते ।
पश्यन्तु-शब्दापभ्रंशवदेव गौणाभ्रान्त्यादिप्रयोगनिमित्ता अर्थापभ्रंशा भवन्ति ते
शास्त्रस्थैरेव अविप्लुतार्थ क्रियानिमित्तपुण्यर्षिभिः शक्यन्ते, साध्वसाधुकार्षापणमध्यादिव
<DOC_END>
<DOC_START>
१. कूपे वर्तमानः कूर्मः कूपमेव विश्वं मन्यते । तथा संकुचितमानसाः जनाः स्वक्षेत्रमेव विश्वं मन्यन्ते
ततः तेषां प्रवृत्तिरपि संकुचिता भवति इति न्यायेनानेन बोध्यते ।
2 यस्मिन् कूपे जन्म जातं तत्रैव निःशेषं जन्म यापयति कूर्मः । अन्यत्र गन्तव्यमित्यपि सः न
भावयति । संकुचितवृत्तेः जनस्य वर्णनाय अस्य न्यायस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
गृहे दह्यमाने यः अग्निं शमयितुं जलम् आवश्यकमिति कूपं खनितुम् उपक्रान्तो भवति चेत् बुद्धिमान् भवति
किम् तथा कस्यापि विषयस्य कृते पूर्वमेव सिद्धताम् अकृत्वा संकटे आपतिते उपायम् अन्विषतः विषये
अस्याशयस्य सुभाषितमेकं प्रसिद्धम् अस्ति –
यावत् स्वस्थमिदं शरीरमरुतं यावज्जरा दूरतो
यावच्चेन्द्रियशक्तिरप्रतिहता यावत् क्षयो नायुषः ।
आभिश्रेयसि तावदेव विदुषां कार्यः प्रयत्नो महान्
सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ नीतिशतके १३८
<DOC_END>
<DOC_START>
कूपखननसमये कूपखानकस्य शरीरस्य उपरि धूलिः कर्दमश्च लगत्येव । परन्तु किञ्चित्कालानन्तरं कूपे
यदा जलं जायेत् तदा तेनैव जलेन सः आत्मानं स्वच्छं कर्तुं शक्नोति । वेदान्तेऽपि अस्य न्यायस्य प्रयोगः
एवं भवति यत् भेदबुद्ध्या उत्पन्नानां दोषाणां निराकरणं क्रमेण उत्पन्नया अभेदबुद्ध्या भवति इति ।
(पतञ्जलिमहाभाष्यस्य प्रथमाहिनके न्यायस्य अस्य प्रयोगः सुन्दररीत्या कृतः । साधुशब्दानां
ज्ञानेन धर्मः, असाधुशब्दानां ज्ञानेन च अधर्मः भवति इत्युक्ते आदौ असाधुशब्दाः ज्ञेयाः भवन्ति तेन
च अधर्मः एव भवेत् किल इति शङ्कां निरस्यता महर्षिणा कथितं –कूपखानकन्यायेन अग्रे साधुशब्दानां
ज्ञानं यदा भवेत् तदा पूर्वोत्पन्नः अधर्मः तेन धर्मबलेन नष्टः भवेत् इति)
<DOC_END>
<DOC_START>
कूपे वर्तमानः मण्डूकः चिन्तयति अयमेव कूपः सर्व विश्वम् इति । तथैव संकुचिते वातावरणे जीवतः
मनुजस्य विश्वमपि अल्पं संकुचितं च भवति । तादृशस्य मनुजस्य विषये अस्य न्यायस्य प्रयोगः भवति ।
कमपि विषयं सत्यत्वेन कस्मिन्नपि विदुषि प्रतिपादयति सति कश्चन अल्पज्ञः तत् सत्यत्वेन न
स्वीकरोति । तादृशप्रसङ्गम् उदिदश्य अस्य न्यायस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
कूपात् जलम् उद्धर्तुम् उपयुज्यमानं कूपयन्त्रं घटीभिः सहितं भवति । यदा चक्रं भ्रमति तदा एका घटी
जलेन पूर्णा भूत्वा उपरि आगच्छति अपरा च घटी जले मग्ना भवति । पुनः घटी रिक्ता भूत्वा पुनः जले
मग्ना भवति । अनया रीत्या अधस्तनाः घटाः उपरि आगच्छन्ति उपरितनाश्च अधोगच्छन्ति । तथैव
अस्माकं जीवने कानिचन दिनानि अनुकूलानि भवन्ति कानिचन च प्रतिकूलानि । एवं जीवनस्य रीतिं
कथयितुम् अस्य न्यायस्य प्रयोगः क्रियते ।
यथा कांश्चित्तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नतिं
कांश्चित्पातविधौ करोति च पुनः कांश्चिन्नयत्याकुलान् ।
क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ मृच्छकटिके १०-५९
<DOC_END>
<DOC_START>
मूलतः कूर्मा विस्मरणशीला भवति यत् स्वकीयानि अण्डानि कुत्र स्थापितानि इत्यपि सा न स्मरति ।
सहसा यदा तत् स्मृतिपथम् आयाति तदा सा शीघ्रं तत्र गत्वा अपत्यानि उत्पादयति । विस्मरणशीलस्य
मनुजस्य विषये अस्य न्यायस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
कूर्मः आवश्यकतानुसारं स्वानि अङ्गानि सङ्कोचयति । अयम् एकः स्वरक्षणोपायः । सामान्यतः कूर्मस्य
अङ्गानि बहिः द्र्ष्टुं शक्यन्ते । संकुचितानि च तानि अङ्गानि बहिः न दृश्यन्ते । सर्वेषां पदार्थानां
मूलद्रव्यं किमपि भवति तदेव कालान्तरे कार्यद्रव्यरुपेण परिवर्तते । तदा कारणात् कार्यम् उत्पन्नम्
इति जनाः भावयन्ति । यदा एकः पदार्थः नष्टः भवति तदा कार्यरुपेण वर्तमानः सः पदार्थः कारणरुपेणा
अवस्थितं भवति । वस्तुतः कस्यापि आत्यन्तिकः नाशो न भवति । तथैव कदापि यद् वस्तु विद्यमानमेव
नास्ति तत् कथमपि न उत्पद्यते ।
यथा- १. वाचस्पतिमिश्र – सांख्यतत्त्वकौमुदी -९-१८
२. मुण्डकोपनिषद् -३,३. भगवद्गीता -२-६८ स्थितप्रज्ञस्य लक्षणेषु) यदा संहरते चायं
इन्द्रियाणि इन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥ भगवद्गीता २-५८ यः मनुष्यः स्वस्य
चक्षुरादीनि इन्द्रियाणि रुपादिविषयेभ्यः आत्मनि प्रत्याहरति तस्य बुद्धिः स्थिरा भवतीति बोधयितुम्
<DOC_END>
<DOC_START>
क्षौरात् पूर्वं शुभनक्षत्रं द्रष्टव्यमिति पूर्वं काचन रीतिः आसीत् । संप्रति यज्ञोपवीतधारणे
शुभनक्षत्रं पश्यन्ति जनाः । परन्तु शुभनक्षत्रस्य परीक्षा क्षौरात् पूर्वमेव करणीया क्षौरात्
अनन्तरं न । एवं क्षौरकर्मणः अनन्तरं नक्षत्रपरीक्षा कृता चेत् सा निरर्था भवति । एवं विवाहात्
पूर्वमेव वरस्य गुणदोषाणां विवेचनं करणीयं भवति, विवाहानन्तरं तादृशं विवेचनं व्यर्थमेव । पश्यन्तु –
मुण्डितशिरोनक्षत्रान्वेषणेन कृते कार्ये किं मुहूर्तप्रश्नेन । न हि विवाहानन्तरं वरपरीक्षा ।
<DOC_END>
<DOC_START>
कृतप्रणाशो नाम कृतस्य नाशः । अकृताभ्यागमो नाम अकृतानां अगत्या स्वीकारः (क्वचित्
सिद्धान्तप्रतिपादनसमये अपसिद्धान्तस्य कारणेन स्वसिद्धान्तहानिः अस्वीकार्यस्य कस्यचित्
स्वीकारः आपतति इति अनेन न्यायेन बोध्यते) ।
<DOC_END>
<DOC_START>
कृपणस्य समीपे प्रभूतं धनं भवति चेदपि सः कस्मै अपि तद् धनं न ददाति स्वयमपि न भुङ्क्ते इति
कारणेन तत् सर्वं तस्य नेत्रयोः पुरतः एव नश्यति । एवं कस्यापि स्वयम् उपभोगः नास्ति अन्येषां कृते
उपकारो नास्ति इति सूचयितुमस्य न्यायस्य प्रयोगो भवति ।
यथा – कृपणेन समो दाता न भूतो न भविष्यति ।
अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छाति ॥
दानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥)
<DOC_END>
<DOC_START>
तिर्यक- दृष्टेः पुरुषस्य दृष्टिः एकत्र भवति चेदपि सः अन्यत्र पश्यतीव भाति । तथा वञ्चनां
कर्तुमुद्युक्तानां विषये अयं न्यायः प्रवर्तते ।
<DOC_END>
<DOC_START>
केतकीकुसुमानाम् अतिशयसुगन्धकारणेन सर्वेषां मनः आकृष्टं भवति । परन्तु तत्र वर्तमानानां कण्टकानां
कारणेन तेषां समीपं गन्तुं भयमपि भवति । तथैव केषाञ्चन विषये मनसि सपद्येव आकर्षणं भीतिरपि
भवतीति सूचयितुम् अस्य न्यायस्य प्रयोगो भवति ।
महाकविना कालिदासेन अस्य न्यायस्य सुन्दरः प्रयोगः रघुवंशमहाकाव्ये कृतः यथा –
भीमकान्तैर्नृप गुणैः स बभूवोपजीविनाम् ।
स्वकीयैः भयजनकैः गुणैः अधृष्यः कमनीयगुणैः च अभिगम्यः अभवत् राजा दिलीपः । समुद्रः तत्र
वर्तमानानां जलचराणां कारणेन भयङ्करो भवति परन्तु रत्नादिमूल्यवद्वस्तूनां कारणेन आकर्षणीयः अपि
<DOC_END>
<DOC_START>
कैदारिको नाम कृषकः । यथा कृषकः स्वस्य केदारे जलप्रवाहः पर्याप्तो भवतु इति चिन्तनेन योग्यां
व्यवस्थां कल्पयति तया च जलं क्षेत्रे पर्याप्तं प्रवहति यत्र अनावश्यकं ततः परावर्त्य कृषकः
जलम् आवश्यके स्थले प्रवाहयति तथा साधकः स्वकीयां चित्तवृत्तिम् अनावश्यकविषयेभ्यः परावर्त्य
आवश्यकेषु निदध्यात् इति अनेन न्यायेन बोध्यते । द्रष्टव्यम् –नीलकण्ठी ६-३५
<DOC_END>
<DOC_START>
‘किमुत’ इति अस्य अव्ययस्य “किं वक्तव्यं” “अधिकमभवत्” इत्याद्यर्थेषु प्रयोगो भवति । महतामेव
जनानां यत्र प्रभावो न भवति तत्र अल्पवीर्याणां कोऽपि प्रभावो न भवतीति किं वक्तव्यम् इति
सूचयितुम् अस्य न्यायस्य प्रयोगो भवति । अलङ्कारशास्त्रे अस्यैव काव्यार्थापत्तिरिति व्यपदेशः ।
स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम् ॥
रघुवंशमहाकाव्ये द्वितीयसर्गे सिंहः राजानम् वदति- परमर्षाणां प्रभावेण यमोऽपि मयि प्रहारं कर्तुं न
ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तु किमुतान्यहिंस्राः ॥ (रघुवंशे २-४०)
<DOC_END>
<DOC_START>
पुरा कस्यचन अपराधस्य दण्डरुपेण किंवा अपराधिनः परीक्षार्थं विषप्राशनं भवति स्म । तदा संदिग्धेन
अपराधिना अपि विषं प्राश्यते स्म इति अनेन न्यायेन बोध्यते । विषप्राशनस्य दिव्यमिति नाम ।
<DOC_END>
<DOC_START>
१. अशान्तादेस्तथा शुद्धं नानुष्ठानं कदाचन । - योगबिन्दुः १८८
<DOC_END>
<DOC_START>
ताराभाः, तु, न वेद, या ॥
या या अयोध्यानगरी, ताराभाः सूर्यादीन् नक्षत्राणि च, न वेद न ज्ञातम्, नामहाम् नित्यमहोत्सवयुक्ताम्
(अमहः अनुत्सवम्, न अमहः अनुत्सवरहितम् तन्नाम उत्सवयुतम् इति भवति) । ताम् ताम् अयोध्याम्,
अक्षररसम् क्षरं नाम नाशः अविनाशि-आनन्दयुतम्, आगोरोधनम् आगः पापानि, रोधनम् नाशकम्,
समानेनम् सूर्यसमानम्, रामधाम श्रीरामाख्यं दिव्यतेजः, आस परिगृहीतम् ।
गगनस्पर्शिभिः वृक्षैः युक्तानि उपवनानि तस्यां नगर्याम् आसन् । तत्र वसतां निवासभूतानि महाभवनानि अपि
आकाशस्पर्शिनः आसन् । तस्मात् जनाः सूर्यं नक्षत्राणि वा द्रष्टुं न शक्नुवन्ति स्म । अतः कविः अतिशयोक्त्या
वदति अयोध्यया नक्षत्राणि एव न जातानि इति । सा नगरी नित्योत्सवयुक्ता आसीत् । नित्यानन्दयुतः,
अस्माकं सर्वपापनिवारकः, सूर्यसमतेजः श्रीरामः अयोध्यायाः स्वामी आसीत् ।
नेमः अवधिः इति निर्दिशति 'विश्व'कोशः । अतः अनेमः कालातीतम् असमम् असादृश्यम्, धामराः तेजसा
ऐश्वर्येण युक्तम्, गोमान् गोसम्पदा युक्तः गोपालः, मानधरः महामनाः तन्नाम परमोदारः, भा कान्तिं तेजः,
राता दाता (रा-दाने इत्येषः धातुः सः यादवेनः सः प्रसिद्धः यादवस्वामी श्रीकृष्णः, ताम् तां द्वारकां,
सं ररक्ष रक्षितवान् (रक्ष पालने धातुः सम् उपसर्गः लिट् रूपम्) ।
(श्रीकृष्णस्य वर्णनम्) द्वारकानगरी श्रीकृष्णेन पाल्यते स्म । सः महानुभावः कालातीतेन असादृश्येन तेजसा ऐश्वर्येण
च विराजते स्म । सः गोसम्पदाम् अधिपतिः सन् गोपालः आसीत् । परमोदारः सन् महामनाः इति प्रसिद्धः आसीत् ।
सकलविधकान्तेः मूलः सन् तस्याः दाता आसीत् । सः यादवानां स्वामी सन् तां नगरीं पालयति स्म ।
<DOC_END>
<DOC_START>
प्रादुःषन्ति न के दोषाः कुपथ्याद्
<DOC_END>
<DOC_START>
शम्पानिभा सम्पदिदं शरीरं चलं प्रभुत्वं
<DOC_END>
<DOC_START>
कालत्रयगतानर्थान्गमयन्नागमः स्मृतः । - उपासकाध्ययनम्
<DOC_END>
<DOC_START>
अयं वर्गः परीक्षामुखविषयकः अस्ति ।
<DOC_END>
<DOC_START>
कश्चन मद्यपः स्वस्य मद्यपानविषये कथयति – ‘अहं मम प्रकोष्ठे एव मद्यपानं करोमि । मां कोऽपि न
पश्यति’ इति । तथा गुप्तरुपेणा क्रियमाणस्य पापकार्यस्य विषये अस्य न्यायस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
कर्णः कुन्त्याः पुत्रः आसीत् परन्तु सः तत् न जानाति स्म । अतः स्वस्य पालयित्र्याः राधायाः पुत्रः
अस्मीति सः मन्यते स्म । परन्तु यदा सः सत्यं ज्ञातवान् तदा सः कौन्तेयः अभवत् । तथैव शरीरमेव
आत्मा इति आरम्भे भावना भवति अग्रे गुरुपदेशेन शरीरात् आत्मा भिन्न इति पृथकत्वज्ञानं भवति इति
सूचयितुम् अस्य न्यायस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
यदा महापुरुषः किञ्चन कार्यं करोति तस्य कार्यस्य अपराणि प्रयोजनानि च भवन्ति । तस्य पुरुषस्य
शुभकर्मफलरुपेण तस्य मोक्षः भवत्येव परं तेन सह तस्य कर्मणः फलं समाजेऽपि दृश्यते ।
यथा –मुमुक्षुणा श्रोत्रियेण क्रियमाणं कर्म सत्त्वशुद्धिद्वारा स्वस्य मोक्षहेतुर्भवति
वृष्ट्यादिद्वारा जगत्स्थितिहेतुश्च भवति । अत उभयथाऽपि कर्म कर्तव्यमिति ॥ (लै.न्या. सा. ५२९)
(महाभाष्यगतमेकं वाक्यम् अमुमेव न्यायं सूचयति – आम्राश्च सिक्ताः पितरश्च तृप्ताः एका क्रिया
द्वयर्थकरीति । अर्थात् जलदानरुपेण एकेन कर्मणा आम्रवृक्षस्य सेको भवति पितृतर्पणमपि कृतमिव
भवति इति एकैव क्रिया प्रयोजनद्वयं संपादयति । एवं एकस्याः क्रियायाः प्रयोजनद्वयं भवतीति अनेन
<DOC_END>
<DOC_START>
यदा शरीरं व्रणितं भवति तदा तस्य व्रणितस्य भागस्य स्थले रक्तमांसादिकं बहिः दृश्यते । वेदना भवति
। परन्तु तस्य मनुष्यस्य वेदनामपि अगणयित्वा मक्षिकाः तस्य व्रणस्य उपरि तिष्ठन्ति तस्य वेदनां
वर्धयन्ति च । एषा वृत्तिः नीचानामेव भवति । अपरस्य दुःखम् अगणयित्वा तस्य दुःखं वर्धयन्त्येव
नीचाः । एवं नीचस्वभावानां छिद्रान्वेषिणां प्रवृत्तिं बोधयितुमस्य न्यायस्य प्रयोगो भवति । (सा. ७५२)
<DOC_END>
<DOC_START>
क्षतस्य उपरि क्षारः स्थापितश्चेत् वेदना अधिका भवति खलु । एवं पूर्वमेव दुः खितस्य दुःखं कोऽपि
वर्धयति चेत् क्षते क्षार इत्युच्यते ।
<DOC_END>
<DOC_START>
अत्युष्णं दुग्धं पिबति चेत् मनुष्यस्य जिह्वा दग्धा भवति तेन सः एवं भीतो भवति यत् दुग्धसादृश्येन
तक्रात् अपि बिभेति दुग्धेन जिह्वा दग्धा इति कारणेन तक्रमपि फूत्कृत्य पिबति । एवं एकेन सङ्कटेन
पीडितः मनुष्यः सर्वेष्वपि संदर्भेषु अनावश्यकरीत्या सावधानतां दर्शयति इति अनेन न्यायेन सूच्यते ।
<DOC_END>
<DOC_START>
निम्बवृक्षः क्षीरेण सिक्तः चेदपि तस्य कटुत्वं न नश्यति । एवं बाह्यैः उपचारैः कस्यापि निजगुणः न
परिवर्तितो भवतीति अनेन न्यायेन सूच्यते ।
<DOC_END>
<DOC_START>
क्षीरं नीरञ्च परस्परमेव सुयुक्ते भवतः यत् एकस्मात् अपरं पृथक् कर्तुं न शक्यते । एवं ययोः द्वयोः मध्ये
एकरुपता वा अविछेद्यसंबन्धो वा भवेत् तर्हि क्षीरनीरे इव तौ संयुक्तौ इति कथ्यते । नीरक्षीरन्यायोऽपि
अलङ्कारशास्त्रे संकरनामकस्य अलङ्कारस्य स्पष्टीकरणार्थम् अस्य न्यायस्य प्रयोगः क्रियते ।
यथा नीरं क्षीरञ्च परस्परम् अतीव एकरुपतां प्राप्ते तथा अलङ्कारद्वयमपि परस्परं संमिश्रितं चेत्
संकरालङ्कारो भवति । एवं समवायसंबन्धेन अलङ्कारद्वयस्य मिश्रणं सङ्कर इति,पृथक्करणयोग्यरुपेण
मिश्रणं संसृष्टिः इति च अलङ्कारशास्त्रे कथ्यते ।
यथा हंसः नीरमिश्रितात् दुग्धात् नीरं पृथक् कृत्य क्षीरमेव स्वीकरोति तथा जीवने दुः
खसंमिश्रितात् सुखात् दुःखं पृथक्कृत्य हितकारकमेव मनुजः गृहणीयात् इति अनेन न्यायेन सूच्यते ।
केचन आलङ्कारिकाः अत्र नरसिंहन्यायस्य उल्लेखं कुर्वन्ति । क्षीरोदसंपृक्तन्यायस्यापि अयमेव
अर्थः । व्याकरणशास्त्रानुसारं प्रकृतिप्रत्यययोः मिश्रणं संकर एव ।
यथा –हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥ अभिज्ञानशाकुन्तले ६-२८
<DOC_END>
<DOC_START>
महाविष्णुः क्षीरसागरे वसति । तस्य दुग्धस्य का न्यूनता तथापि दुग्धस्य अन्वेषणं तेन करणीयं भवति
चेत् किं वक्तव्यम् तथैव किमपि वस्तु अतीव सुलभं चेदपि पुनः शोधनीयं भवेत् चेत् तं प्रसङ्गं सूचयितुम
अस्य न्यायस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
यदा खड्गस्य प्रयोगस्य अवसरो न भवति तदा स खड्गः कोशे एव भवति । एवं यदि कश्चन मनुष्यः
कोषमेव दृष्ट्वा तदन्तः खड्गेन भाव्यमिति मत्वा भीतः पलायनं करोति चेत् सः कियान् भीरुः भवेत् ?
स्वकल्पनाकारणेन मनुष्यः भीतो भवतीति बोधयितुम् अस्य न्यायस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
वृक्षस्य शाखा त्रुटिता भवति चेत् कालान्तरे पुनः तस्मात् एव भागात् शाखा प्ररोहति । तथा महतो जनस्य
काऽपि विपत्तिः भवति चेदपि विपत्तेः निराकरणेन तस्य श्रेयः प्राप्तिः दूरे न भवतीति अनेन न्यायेन
<DOC_END>
<DOC_START>
आकाशस्य पुष्पाणि इति असंभवस्य पराकाष्ठा । आकाशे पुष्पाणि न विकसन्ति तथा अत्यन्तम् असंभवस्य
वर्णनं कर्तुमस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
खरो नाम गर्दभः । अश्वः गर्दभश्च भिन्नजातीयौ । यदाकदाचित् अश्वस्थ स्थाने गर्दभः, गर्दभस्य
स्थाने अश्वः जातश्चेत् कियत् आश्चर्य भवेत् । एवम् असंभवां घटनां सूचयितुम् अस्य न्यायस्य प्रयोगः
<DOC_END>
<DOC_START>
खरी नाम पाषाणस्य काष्ठस्य वा पात्रम् । अयं न्याय्ः काञ्चन कथाम् आश्रित्य प्रवर्तितः । पुरा एकः
गोपालकः एकस्य काष्ठदण्डस्य पार्श्वद्वये अपि दुग्धपूर्ण पात्रद्वयं बद्ध्वा ग्रामे दुग्धस्य विक्रयणं
करोति स्म । यदा एकं दुग्धपात्रं रिक्तं जातं तदा सः एकपार्श्वे भारम् अनुभूय पार्श्वद्वये अपि समानः
भारः भवतु इति रिक्तपात्रे एकं पाषाणखण्डं स्थापयित्वा नयति स्म । जनाः यदा कारणं पृष्टवन्तः तदा
तेन उक्तम् पार्श्वद्वयेऽपि समानः भारः भवतु इति मया एवं क्रियते । अनेन मम भारवहनसामर्थ्यमपि
एवं यस्य कस्यापि जीवने प्राप्तस्य दुर्भाग्यस्य समर्थनं सः करोति चेत् तं संदर्भं वर्णयितुम्
अस्य न्यायस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
गर्दभ्याः विषाणे न भवतः । एवम् अत्यन्तम् असंभाव्यं किमपि वर्णयितुम् अस्य न्यायस्य प्रयोगः
<DOC_END>
<DOC_START>
धान्यस्य खले कपोताः संभूय आपतन्ति एकैकशः न । ते कपोताः वृद्धाः तरुणाः शिशवो वा भवन्तु सर्वे
यदा केनापि देवदत्त कटम् आनय’ इत्युक्तं तदा एकैवस्य अर्थज्ञानं न भवति । सर्वेषामपि पदानां
युगपदेव अर्थज्ञानं भवति । आदौ आद्यपदस्य अनन्तरं तदनन्तरस्य अर्थस्य ज्ञानं इति एवं रीत्या
अर्थज्ञानं न भवति । सर्वेषां एकसमयावच्छेदेन अर्थज्ञानं भवतीति बोधयितुं न्यायस्य अस्य प्रयोगः
पश्यन्तु – वृद्धा युवानः शिशवः कपोताः खले यथाऽमी युगपत् पतन्ति ।
तथैव सर्वे युगपत्पदार्थाः परस्परेणान्वयिनो भवन्ति ॥
यदा बहूनि कारणनि संभूय एकमेव कार्य निष्पादयन्ति तदा (तादृशी स्थितिं बोधयितुम्) अस्य
न्यायस्यप्रयोगः क्रियते । अलङ्कारशास्त्रे समाधिनामकस्य अलङ्कारस्य विषये काकतालीयन्यायस्य,
समुच्चयनामकस्य अलङ्कारस्य विषये खलेकपोतन्यायस्य च प्रयोगः क्रियते ।
कृषिक्षेत्रे कृषकाः धान्यं पृथक्कर्तुं खलान् निर्मान्ति । तदा तद् धान्यं खादितुम् अनेके कपोताः युगपदेव
खले आगत्य पतन्ति । तथैव अनेकैः कारणैः एकमेव कार्यं निष्पाद्यते चेत् समुच्चयालङ्कारः भवति ।
(काव्यप्रकाशसंपादकः – अर्जुनवाडाकर पृष्ठं ६६१)
<DOC_END>
<DOC_START>
कश्चन खल्वाटः सूर्यस्य तापेन तप्तः छायार्थम् एकस्य बिल्ववृक्षस्य अधः स्थितः । तदा एकं पक्वं
बिल्वफलं वृन्ताद् वियुक्तं भूत्वा तस्य शिरसि पतितम् । अस्य कोऽर्थः दुर्दैवग्रस्तः मनुष्यः यत्र
कुत्रापि गच्छेत् तस्य सङ्कटेभ्यः मोक्षः न स्यादेव । दुर्दैवं पृष्ठतः तम् अनुसरत्येव । अस्य वर्णनं
खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके
वाञ्छन् देशमनातपं विधिवशात् तालस्य मूलंगतः ।
तत्राप्यस्य महाफलेन पतता भग्नं स शब्दं शिरः
प्रायो गच्छति यत्र भाग्यरहितस्तत्रैवयान्त्यापदः ॥ भर्तृहरिनीतिशतकम् ९१
<DOC_END>
<DOC_START>
आकाशे कुसुमानि इति असंभाव्यकल्पना । एवम् अत्यन्तम् असंभाव्यानां विषये अस्य न्यायस्य प्रयोगो
<DOC_END>
<DOC_START>
आकाशे अरविन्दमिति अत्यन्ताभावस्य उदाहरणम् । एवम् असंभाव्यविषये अस्य न्यायस्य प्रयोगो भवति
1) आकाशमुष्टिहननन्यायः २) गगनरोमन्थन्यायः, ३) पवनताडनन्यायः, ४) मूषकविषाणन्यायः, ५)
बन्ध्यापुत्रन्यायः, ६) शशविषाणन्यायः इत्यादयः ।
<DOC_END>
<DOC_START>
घटा इत्यस्य शब्दस्य अर्थः गजानां समूहः इति । तर्हि घटाशब्देन सह गजशब्दस्य प्रयोगे
पुनरुक्तिर्भवति । परन्तु केनापि विशिष्टप्रयोजनेन गजशब्दः प्रयुक्तः चेत् गजघटनान्यायेन तस्य
<DOC_END>
<DOC_START>
पुरतो विद्यमानं वस्तु न द्रष्टव्यं चेत् गजः चक्षुषी निमीलयति एवं चक्षुर्निमीलनं नाम
दुर्लक्ष्यीकरणम् । तथा अदर्शनस्य अभिनयोऽपि अनेन लक्षितो भवति ।
यथा –देवीः कामयमानस्य चक्रे गजनिमीलिकाम् । राजतरङ्गिणी ६-७२१ (देवीनां कामुकस्य विषये सः
उपेक्षां दर्शितवान्)ध्वन्यालोकः पृष्ठं २०४ .
<DOC_END>
<DOC_START>
गन्धर्वाणां नगरं नाम केवलं कल्पना । एवम् अत्यन्तम् असंभाव्यानां विषये अस्य न्यायस्य प्रयोगो भवति
<DOC_END>
<DOC_START>
किमपि कटु औषधं दातव्यं चेत् आदौ गुडं जिह्वायां स्थापयित्वा पश्चात् तत् कटु औषधं स्थापनीयम् । तेन
तदौषधस्य कटुत्वं न भाति । एवं कस्यापि अप्रियस्य वश्त्तान्तस्य वेदनां साहयितुम् आदौ प्रियवार्ता
श्राव्यते इति अनेन बोध्यते ।
<DOC_END>
<DOC_START>
गृहे मार्जारः सुखेन वसति वीथ्यां गजः राजवत् भ्रमति । गृहमार्जालस्य अपेक्षया वीथ्यां भ्रमतो गजस्य
मानः सर्वथा अधिकः । एवं कस्यचन संकुचितमानस्य विषये अस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
महिषीदुग्धं गोदुग्धेन सह मिश्रितं चेदपि गोक्षीरस्य उपरि तस्य परिणामो न भवति । प्रत्युत सर्वमपि
दुग्धं गोदुग्धं भूत्वा पवित्रं भवति । एवं अपवित्रवस्तुनः मिश्रणेन कस्यापि पवित्रस्य वस्तुनः पवित्रता
नष्टा न भवति इति अस्य न्यायस्य आशयः ।
<DOC_END>
<DOC_START>
श्वदृतिर्नाम् शुनक्याः चर्मणा कृतः कोशः । अतिपवित्रं गोदुग्धं यदि अत्यन्तम् अपवित्रे श्वचर्मकोशे
स्थापितं चेत् संसर्गदोषेण दुग्धं नश्येदेव । अत्यन्तं दुष्टस्य संगेन सज्जने अपि परिणामो भवति इति
द्योतयितुम् अस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
गौः गवयः इति बाह्यदृष्ट्या सदृशौ । द्वावपि वन्यप्राणिनौ स्वरुपेण समानौ परन्तु यदा द्वयोरपि गोः
गवयस्य च दुग्धं परीक्ष्यते तदा द्वयोरपि महान् भेदः ज्ञायते ।
बाह्यसाम्यस्य आधारेण कृतम् अनुमानं सदोषं भवितुमर्हति इति अनेन सूच्यते ।
<DOC_END>
<DOC_START>
गौः रक्षिता चेत् तस्याः दोहनमपि काले क्रियते इति यस्य कस्यापि मुख्यविषयस्य गौणाविषयेण सह
संबन्धो भवति चेत् अस्य न्यायस्य प्रयोगो भवति ।
यथा – १) महाव्रतविधाने काम्यसूक्तानां पुरुषार्थत्वेन संबन्धो भवति क्रत्वर्थत्वेन न । (जैमिनिसूत्र –
2) तस्माद् यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगाद् अनित्यानि । एवं
उद्गीथाद्युपासनान्यपीति द्र्ष्टव्यम् । अत एव कल्पसूत्रकारा नैवंजातीयकानि उपासनानि क्रतुषु
<DOC_END>
<DOC_START>
न्यायः अयं कामपि कथाम् आश्रित्य प्रवर्तितः ।
कस्याश्चित् चञ्चलायाः राज्ञयाः एकः पुत्रो जातः । तस्यास्तु पत्युः अपेक्षया अन्यस्मिन् पुरुषे
अभिलाषः आसीत् । अतः सा राज्ञी पतिं विषेण मारयित्वा स्वप्रियं प्रति गता । परन्तु तदा सः पुरुषः
सर्पदंशेन मृतः अभवत् । ततः सा महिला देशान्तरे भ्रमित्वा क्रमेण वेश्यावृत्तिम् आश्रितवती । एकदा
तस्याः सविधे तस्याः पुत्र एव आगतः । सल्लापे तस्याः अभिज्ञानं प्राप्य स राजकुमारः चितां प्रविश्य
मृतः अभवत् । तेन दुःखिता सा महिला मरणोद्यमा नदीजलं प्रविष्टा । परन्तु कश्चन गोपः तां रक्षित्वा
तया सह विवाहं कृतवान् । सा च महिला दधिविक्रयणार्थ शिरसः उपरि दधिभाण्डानि स्थापयित्वा गृहात्
गृहम् अटितुम् आरब्धवती । एकदा पादस्खलनेन सा अधः पतिता दुग्ध – दधिभाण्डानि च भग्नानि ।
दैवदुर्विलासेन तया गोपकर्म कुर्वत्या विध्नाः सोढव्याः अभवन् । एवं संकटपरम्परा आपतति इति अनेन
विवेकभ्रष्टानां भवति विनिपातः शतमुखः इति सत्यमेव । अस्याः कथायाः सारांशः एकेन श्लोकेन बोधितः-
देशान्तरे विधिवशाद् गणिकाऽस्मि जाता ।
पुत्रं स्वकं समधिगम्य चितां प्रविष्टं
शोचामि गोपगृहिणी कथमद्य तक्रम् ॥ (सा. ९७७)
<DOC_END>
<DOC_START>
गोपुच्छम् आदौ स्थूलं क्रमेणा च सूक्ष्मं भवति एवं क्रमेण हीयमानस्य ह्रासम् आपद्यमानस्य वा विषये
अयं न्यायः प्रयुक्तो भवति ।
<DOC_END>
<DOC_START>
गाम् आनय बलीवर्दमपि आनय इति उक्ते कोऽपि बलीवर्दम् आनयति एतत् कार्यं गामानय च इत्यनेन
वाक्येनैव भवति बलीवर्दमानय इत्यस्य वाक्यस्य आवश्यकता नास्ति । यतः गोशब्दस्य गौः बलीवर्द
अक्षा भद्रो बलीवर्द ऋषभो वश्षभो वश्षः
गोपदस्य स्त्रीवाचकत्वमेव प्रसिद्धं न तु बलीवर्दवाचकत्वम् । तथापि गोबलीवर्द इति समासप्रयोगः
बलीवर्दस्य विशिष्टबोधार्थम् इति ज्येष्ठाः ।
यथा –बलीवर्दस्य गोविशॆषत्वेऽपि बलीवर्दस्य झटिति गोत्वेन बोधनार्थं यथा प्रयोगः, तथा अन्ययोः
सामान्यविशॆषरुपयोः झटिति बोधनार्थं प्रयोगः, तत्र अस्य प्रवश्त्तिः । भामती पश्ष्ठं ५१८,५३७
ऽ यत्र विशेषणकृतं प्राशस्त्यम् अभिप्रेतं तत्र ब्राह्मणवसिष्ठन्यायस्य प्रयोगो भवति ।
ऽ यत्र भेदः अभिप्रेतो भवति तत्र गोबलीवर्दन्यायस्य प्रयोगो भवति । लिङ्गभेदेन प्रसिद्धिः
अप्रसिद्धिर्वा सूचिता भवति । बलीवर्दस्य अप्रसिद्धिकारणेन तस्य पश्थक् उल्लेखः कृतः ।
<DOC_END>
<DOC_START>
गोमयं पायसं च गोः एव निष्पन्नं पदार्थद्वयम् । तथापि द्वयोः गुणधर्मयोः महान् भेदो भवति ।
योगसूत्रभाष्ये (१-३२) अस्य न्यायस्य प्रयोगः कृतः । मनसः स्वरुपविषये क्षणिकवादस्य खण्डनसमये
भाष्यकारेण गोमयपायसन्यायस्य प्रयोगः कृतः ।
अन्यप्रत्ययोपचितस्य च कर्मशयस्य अन्यः प्रत्युपभोक्ता भवेत् ।
कथञ्चित् समाधीयमानमपि एतद् गोमयपायसीयन्यायम् आक्षिपति । (एकस्य विषयस्य एकः अंशः ग्राह्यः
अपरश्च अग्राह्य इति उच्यते तर्हि गोः सकाशात् निर्गतं गोमयमपि पायसवद् भक्ष्यमेव भवेत् )
<DOC_END>
<DOC_START>
गोमयात् वश्श्चिकाः जायन्ते इति कश्चन प्राचीनः विश्वासः । अर्थात् गोमये अदश्श्यरुपेण वश्श्चिकस्य
अंशः भवेत् । सः स्वाभाविकः । तथा दुष्टे मनुष्ये दुष्टत्वं स्वाभाविकमेव इति अस्य आशयः ।
यथा –दश्श्यते हि लोके चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनाम्
उत्पत्तिः, अचेतनत्वेन प्रसिद्धेभ्यो गोमयादिभ्यो वश्श्चिकादीनाम् ॥ (ब्रह्मसूत्रशाङ्करभाष्ये २-१-६
<DOC_END>
<DOC_START>
गोः महिष्याश्च मैत्री वा स्नेहो वा वैरं वां उदासीनता वा न भवति । तथैव ये पालकाः निग्रहानुग्रहयोः
असमर्थाः भवन्ति तेषां सेवया किमपि प्रयोजनं न सिद्ध्यति इति अनेन बोध्यते ॥
<DOC_END>
<DOC_START>
यः कश्चन मनुष्यः द्रष्टुं गौः इव साधुस्वभावः परन्तु अन्तः व्याघ्र इव क्रूरस्वभावो भवति तर्हि सः
गोमुखव्याघ्रः इति प्रसिद्धिः वर्तते ।
<DOC_END>
<DOC_START>
गोः विक्रयणसमये तस्याः वत्सस्य कृते पृथक् मूल्यं देयं न भवति । गोः मूल्ये वत्सस्यापि मूल्यम् अन्तर्भूतं
भवति । तथैव केनापि महता विषयेण सह कश्चन अल्पः विषयः अनायासेन प्राप्त इति द्योतयितुम् अस्य
<DOC_END>
<DOC_START>
यदि कश्चन गोः विषाणं खादितुम् उपक्रमते चेत् तेन किं लभ्यते गोविषाणखादनेन दन्तनाशः, आयुर्नाशः
इत्यादिकं भवति । एवं निरर्थकस्य कर्मणः वर्णनार्थम् अस्य न्यायस्य प्रयोगो भवति । यथा-
दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते ॥ महाभारतशान्तिपर्वणि १२८-५७
<DOC_END>
<DOC_START>
क- ग्रामतः ख-ग्रामः यावद् दूरे भवति तावदेव दूरं ख- ग्रामतः क- ग्रामस्य । उभयोरपि ग्रामयोः मध्ये दूरं
समानमेव भवति । गमनागमनयोः तावानेव समयो भवतीति अस्य न्यायस्य आशयः ।
<DOC_END>
<DOC_START>
घटनिर्मातुः कुलालस्य भुवनविधातुः ब्रह्मणश्च मध्ये महान् भेदो भवति । तथा कश्चन अल्पप्रज्ञः
नूत्नतया पद्यानि रचयितुम् आरभ्य महाकविना केनचित् प्रथितयशसा स्पर्धते कलहायते चेत् कियत्
हासास्पदं भवेत् । अस्मिन्नर्थे कश्चन श्लोको भवति –
जनः स्पर्धालुश्चेदहह कविना वश्यवचसा ।
भवेदद्य श्वो वा किमिह बहुना पापिनि कलौ
घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः ॥ भोजप्रबन्धे २४४ (सा. ८८५)
<DOC_END>
<DOC_START>
१) घटे स्थापितस्य दीपस्य प्रकाशः उपरि अधः अन्तः सर्वत्र भवति तथा कस्यचन प्रसिद्धिविमुखस्य
सज्जनस्य ज्ञानप्रकाशः सर्वत्र प्रसरति ।
२) घटे स्थापितस्य दीपस्य प्रकाशः घटस्यैव अन्तः भवतीति सादश्श्येन मनुष्यस्य स्थितिवशात् प्रकाशः
मर्यादितो भवतीत्यपि अस्यार्थः । (सा. ३६२)
<DOC_END>
<DOC_START>
घटस्य उपरि एवं स्थातव्यं यत् तेन घटः न भेत्तव्यः अधश्च न पतितव्यम् एतेन सः मनुष्यः निरपराधी इति
निश्चीयते स्म । अयमपि दिव्यपरीक्षायाः प्रकारः ।
<DOC_END>
<DOC_START>
घटः गजः पर्वतो वा अन्यः कश्चन विशालः पदार्थो वा भवतु दर्पणे तावत् प्रतिबिम्बरुपेण अल्प एव
दश्श्यते । एवं लघुतराधारेण विशालविषयस्य आकलनं क्रियते इति अनेन बोध्यते ।
<DOC_END>
<DOC_START>
यथा – आपद्गतं हससि किं द्रविणान्धमूढ
लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् ।
किं त्वं न पश्यसि घटीर्जलयन्त्रचक्रे
रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः । । प्रबन्धचिन्तामणिः (सा. ७२६)
<DOC_END>
<DOC_START>
घटीयन्त्रन्यायः कूपयन्त्रन्यायः इत्यादयः न्यायाः अत्र द्र्ष्टव्याः ।
सर्वदर्शनसंग्रहस्य पातञ्जलंदर्शने अस्य प्रयोगः कृतः –
श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः । स च वायुः सूर्योदयमारभ्य सार्धघटिकाद्वयं
घटियन्त्रस्थित – घटभ्रमणन्यायेन एकैकस्यां नाड्यां भवति । एवं सति अहर्निशं श्वासप्रश्वासयोः
<DOC_END>
<DOC_START>
घट्टकुटी इति सीमारक्षकाणां स्थानम् । तत् स्थानं परिहर्तुं कश्चन वाहनचालकः आरात्रि अपरमार्गेण
गन्तुं प्रयत्नं कृतवान् । प्रभातकाले यदा सः दृष्टवान् तदा तस्य यानं घट्टकुटीस्थले एव प्राप्तमासीत्
। महता प्रयत्नेनापि तस्य साफल्यं न भवति । प्रत्युत यस्य सङ्कटस्य परिहाराय सः प्रयत्नः कृतः
तदेव सङ्कटम् पुनश्च संप्राप्तमिति अनेन न्यायेन बोध्यते । सर्वदर्शनसंग्रहस्य पाणिनीयदर्शने अस्य
घट्टकुटीप्रभातायितमिति चेत् तदेतद् मनोराज्यविजृम्भणम् ॥
<DOC_END>
<DOC_START>
घरट्टो नाम धान्यकुट्टनयन्त्रम् । धान्यकुट्टनस्य कृते एक एव शिलाखण्डः पर्याप्तो न भवति ।
द्वयमावश्यकम् । तथा संसारस्य कृते द्वयोः आवश्यकता विद्यते इति अनेन बोध्यते ।
<DOC_END>
<DOC_START>
काष्टगतकीटकानां घुण इति नाम । ते कीटकाः काष्ठे स्थित्वा यथेष्टं तस्य छिद्राणि कुर्वन्ति ।
तानि छिद्राणि एकपङ्क्त्या दश्श्यमानानि लिपिसदश्शानि भवन्ति । एवं घुणाख्यकीडैः निर्मितानि
अक्षरसदश्शानि अनपेक्षितानि अर्थरहितानि यादश्च्छिकानि च भवन्ति । एवं यादृच्छिकरीत्या
घटितस्य विषये अस्य न्यायस्य प्रयोगः क्रियते ।
वर्णोपमावाच्यमलं ममार्ज । (शिशुपालवधे ३-६८)
घुणोत्किरणात् कथञ्चिन्निष्पन्नमक्षरं घुणाक्षरम् । तदिव यदकुशलेन दैवान्निष्पद्यते तद् घुणाक्षरीयम्
<DOC_END>
<DOC_START>
घृतकोशातकीनाम्नः शाकविशॆषस्य नामश्रवणेन भाति यत् घृतस्य तस्य शाकस्य च कश्चन संबोन्धो वर्तते
इति । परन्तु घृतमिति केवलं तस्य नामनि वर्तते । एवं वस्तुनः नामनि वर्तमानं घटकं वस्तुना सह असंबद्धं
भवति चेत् घृतकोशातकीन्यायस्य प्रवृत्तिर्भवति ।
<DOC_END>
<DOC_START>
अग्निना दग्धे शरीरावयवे जलम् अन्यं किमपि द्रवपदार्थ वा स्थापयामः तर्हि तत्र स्फोटाः भवन्ति
। परन्तु घृतं स्थापितं चेत् तस्य अवयवस्य ज्वलनं नश्यति व्रणस्य उपशमनं च भवति । एवं बहुशः
प्रतिकूलरुपेण भासमानः पदार्थः अनुकूलोऽपि भवति चेत् अस्य न्यायस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
घोटक इति अश्वस्य नाम । यावत्पर्यन्तम् अश्वां न पश्यति तावत्पर्यन्तम् अश्वस्य कामविकारो न
भवति अतः सः पूर्णब्रह्मचारी एव भवति । परन्तु अश्वायाः दर्शनेन तस्य विकारो भवति ब्रह्मचर्य च
नश्यति । एवं यस्य कस्यचन ब्रह्मचर्य स्त्रीदर्शनपर्यन्तमेव भवति चेत् तस्य अस्थिरब्रह्मचर्यस्य
कृते अस्य न्यायस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः घकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः खकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः गकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः योगसारविषयकः विद्यते ।
<DOC_END>
<DOC_START>
यन् गाधेयो योगीरागी वैताने सौम्ये सौख्येसौ ।
तं ख्यातं शीतं स्फीतं भीमानामाश्रीहाता त्रातम् ॥
यन्, गाधेयो, योगीरागीवैताने, सौम्ये, सौख्येसौ । तं, ख्यातं, शीतं, स्फीतम्, भीमान्, आम, अश्रीहाता, त्रातम् ॥
सौम्ये समीचीने, वैताने सौख्ये यज्ञसम्बन्धे सुखे, रागी आशायुक्तः, अश्रीहाता श्री वेदाः, अश्री वेदविरोधिनः,
हाता वर्जयिता, भीमान् राक्षसैः यज्ञस्य विघ्नः क्रियते इति भीतान्, गाधेयः योगी विश्वामित्रमुनिः, स्फीतम् अभिवृद्धम्,
शीतम् सौम्यम्, ख्यातम् कीर्तिवन्तम्, तम् श्रीरामचन्द्रम्, यन् (इण् गतौ शतृ प्राप्तवान् सन्, त्रातम् यज्ञरक्षणम्,
आम(आम गत्यादिषु लिट् प्राप्तवान् ।
सुन्दरं यज्ञं सुसम्पन्नं स्यात् इत्येषः अभिलाषः आसीत् विश्वामित्रमुनेः । वेदविरोधिनः जनान् मुनिः परित्यक्तवान् आसीत् । राक्षसाः तस्य यज्ञस्य विघ्नम् आचरन्ति स्म । तस्मात् भीतः मुनिः अभिवृद्धं, शान्तं, कीर्तिमन्तं श्रीरामचन्द्रम् उपसर्प्य तत् प्राप्तवान् ।
तं त्राताहाश्रीमानामाभीतं स्फीत्तं शीतं ख्यातं ।
सौख्ये सौम्येसौ नेता वै गीरागीयो योधेगायन् ॥ ५॥
तं त्राताहा श्रीमानामाभीतं स्फीतं शीतं ख्यातम् ।
सौख्ये सौम्येसौ नेता वै गीरागीयो योधेगायन् ॥
तम्, त्राता, हा, श्रीमान्, आम, अभीतम्, स्फीतम्, शीतम्, ख्यातम् । सौख्ये, सौम्ये, असौ, नेता वै गीरागी, यः, योधे, गायन् ॥
सौम्ये सौम्येषु (उत्तमेषु) विप्रेषु (जात्येकवचनम् नेता तेषां नायकः 'ब्राह्मणोत्तमः' इति तात्पर्यम्, योधे योधेषु,
अभीतम् भीतिरहितम्, श्रीमान् ब्रह्मवर्चसा युक्तम्, त्राता रक्षकः, यः यः मुनिः, गीरागी वाचि
गान्धारादिस्वरयुक्तः, असौ एषः नारदः, गायन् गीतं गायन्, शीतम् दयया शीतलयुक्तम्, ख्यातम् प्रसिद्धम्,
सौख्ये स्फीतम् जगतः सुखाय अभिवृद्धम्, तम् तं कृष्णम्, आम प्राप्तवान् । हा नारदस्य आगमनं सत्यभामायाः
कोपस्य कारणं जातम् इति खेदसूचकं पदम् पादपूरणाय उपयुक्तम् ।
ब्राह्मणेषु उत्तमः, योधेषु धैर्यशाली, ब्रह्मवर्चस्वी नारदमुनिः श्रीकृष्णस्य समीपम् आगतः । नारदः श्रीकृष्णस्य समीपं
रागयुक्तानि गीतानि गायन् आगतः । श्रीकृष्णः अभिवृद्धै दयाशीतलः आसीत् तन्नाम दयया परमसौम्यः आसीत् इति भावः ।
<DOC_END>
<DOC_START>
यानस्य चक्रद्वयम् अक्षनाभिना आधृतं भवति तथा किमपि एकमाश्रित्य यदा अनेकं तिष्ठति चेत् अस्य न्यायस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
छत्रधारिणः गच्छन्ति इत्युक्ते छत्रधारिभिः सह अछत्रधारिणां जनानाम् अन्तर्भावो भवति इति प्राधान्येन व्यपदेशा भवन्ति इति च अनेन न्यायेन सूच्यते । यथा –
एकस्तत्र कर्मफलं पिबति भुङ्क्ते नेतरः, तथापि पातृसंबन्धात् पिबन्तौ इत्युच्यते छत्रिन्यायेन । कठोपनिषदः शाङ्करभाष्ये ३-१
तस्मादेकदेशस्थितैरपि विश्वेदेवैरुपलक्षितानां छत्रिन्यायेन तत्प्रख्यातयैव सर्वेषां नामधेयानाम् । जैमिनिसूत्र शाबरभाष्ये १-४-२८, १-४-१३,१-४-२३, २. तन्त्रवार्तिके १०-३४७
<DOC_END>
<DOC_START>
अयं वर्गः छकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
काष्ठे जतुद्रव्यस्य एकरुपता भवति तथा एकरुपतां दर्शयितुम् अस्य न्यायस्य प्रयोगो भवति । यथा –
संस्कृतभाषायाम् अलङ्कारशास्त्रे अभङ्गश्लेषः सभङ्गश्लेष इति प्रकारद्वयं वर्तते । शब्दश्लेषः इति च श्लेषस्यैव प्रकारद्वयम् । शब्दश्लेषे भिन्नवाक्यानां युगपदेव उच्चारणं भवति अर्थश्लेषे एकस्यैव वाक्यस्य भिन्नार्थाः भवन्ति । सभङ्गश्लेषस्य विवरणरुपेण अस्य न्यायस्य प्रयोगः क्रियते । जतुकाष्ठरुपेण सभङ्गश्लेषे एका शब्दावलिः अपरया अह एकरुपतां प्राप्नोति । (सा- ६१८)
<DOC_END>
<DOC_START>
एकस्य समुद्रस्य तीरे वृक्षस्योपरि टिट्टीभदम्पत्योः अण्डानि नीडे स्थाप्यन्ते स्म । परन्तु सर्वदा समुद्रेण तानि अण्डानि जले भज्यन्ते स्म । एतेन टिट्टीभदम्पती नितरां दुः खितौ जातौ । ताभ्यां गरुडः निवेदितः । गरुडेन एतत् सर्वं महाविष्णवे निवेदितम् । महाविष्णोः अनुमत्या नारदमहर्षेः उपदेशेन च गरुडः स्वपक्षाभ्यां समुद्रस्य जलस्य शोषणं कर्तुम् आरब्धवान् । तेन भीतः समुद्रः पक्षिणाम् अण्डानि तेभ्यः प्रत्यर्पितवान् इति पञ्चतन्त्रे हितोपदेशे (२-९) च काचन कथा विद्यते । दृढनिश्चयेन किमपि असाध्यं नास्तीति असहायस्य भगवानेव साहाय्यं करोति इति च अनेन बोध्यते ।
<DOC_END>
<DOC_START>
२. व्यवहारे सुषुप्तो यः स जाग्रर्त्यात्मगोचरे
जागर्ति व्यवहारेऽस्मिन् स सुप्तश्चात्मगोचरे । समाधिशतकम् ६८
<DOC_END>
<DOC_START>
अयं वर्गः टकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
डमरुकम् इति कश्चन वाद्यविशॆषः । उभयपार्श्वयोः तस्य चर्मपुटस्य कारणेन उभयपार्श्वभ्यां नादो भवति । मध्ये एकरज्ज्वा एकः लोहशकलः बद्धो भवति । यदा डमरुकम् इतस्ततः चाल्यते तदा तस्य लोहशकलस्य कारणेन चर्मपुटस्य उपरि नादो भवति । एवम् एक एव उभयपक्षयोः ग्रहणं करोति इति अस्य आशयः ।
यथा – अन्यार्थमिति मध्यवर्तिपदं डमरुकमणिन्यायेन उभयत्रापि संबद्धनीयम् । (स्याद्वादमञ्जर्याः टीकायाम् ११ कारिका )
<DOC_END>
<DOC_START>
अयं वर्गः डकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः चकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः जकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
१. नात्मलाभात्परं ज्ञानम् । पाण्डवपुराणम् २५. ११५
<DOC_END>
<DOC_START>
अयं वर्गः तकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः दकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
७. गुरुरात्मात्मनस्तस्मान्नान्योऽस्ति परमार्थतः । समाधिशतकम् ७५
८. देशो हि रम्योरम्यो वा
९. शान्ते मनसि ज्योतिः प्रकाशते
<DOC_END>
<DOC_START>
अयं वर्गः प्रबोधाष्टकविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः वर्धमानचम्पूविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः अध्यात्मकल्पद्रुमविषयकः विद्यते ।
<DOC_END>
<DOC_START>
कुम्भादि- निर्माणसमये कुलालः एकेन दण्डेन चक्रं भ्रामयति अनन्तरं च दण्डम् अपनयति । दण्डे
अपनीते अपि पूर्ववेगस्य कारणेन चक्रं किञ्चित्कालं यावत् भ्रमत्येव । एवं पूर्वसंस्काराणां कारणेन
कतिपयजन्मसु वासनाः भवन्ति इति अनेन न्यायेन बोध्यते ।
एवं वेदान्तशास्त्रे अस्य उपयोगः क्रियते यत् सञ्चित- आगामि-रुपकर्माणि ज्ञानाग्निना
नष्टानि भवन्ति तथापि प्रारब्धकर्म एकम् अवशिष्टं भवति । प्रारब्धकर्मणः नाशपर्यन्तं शरीरधारणं
नाम जीवन्मुक्तिरिति शास्त्ररीतिः । यथा निमित्ते अपनीते अपि पूर्ववेगवशात् चक्रं भ्रमेत् तथा
पूर्वकर्मवशात् शरीरं तिष्ठतीति अनेन न्यायेन बोध्यते ।
1. यथा दण्डापगमे संस्कारवशात् चक्रं भ्रमति तथा देहधारणकर्मणोः अक्षीणत्वात् न तत्क्षणात्
मुक्तिः किन्तु उपभोगादिना कर्मक्षयादिति ।
तथा च श्रुतिः – दीक्षयैव नरो मुच्येत् तिष्ठेत् मुक्तोऽपि विग्रहे । कुलालचक्रमध्यस्थो
2. न तावदनाश्रित्य आरब्धकार्य कर्माशयं ज्ञानोत्पत्तिरुपद्यते । आश्रिते च तस्मिन्
कुलालचक्रवत् प्रवृश्त्तवेगस्य प्रत्इबन्धासंभवात् भवति वेगक्षयप्रतिपालनम् ॥
<DOC_END>
<DOC_START>
चक्रवाकः चक्रवाकी च दम्पती । एतौ दिने संगतौ भवतः आनन्देन विहरतः । परन्तु निशायां तौ
पक्षिणौ वियुक्तौ भूत्वा परस्परमेलनार्थम् आक्रोशतः । प्रातः काले पुनः द्वावपि समागच्छतः । एवं
प्रणयव्याकुलयोः प्रणयिनोः विरहदुःखं वर्णयितुम् अस्य न्यायस्य प्रयोगः क्रियते ।
यथा –चक्रवाकवधुके आमन्त्रस्व सहचरम् उपस्थिता रजनी ।
<DOC_END>
<DOC_START>
सर्वत्र अन्धकारे विद्यमाने सति घटस्य दर्शनं भवति चेत् तत् दर्शनम् नेत्रयोः तथा घटस्य उपरि
आधारितं भवति । दिने दर्शनं क्रियते चेत् तथा अवलम्बनं न भवति । नेत्रयोः सामर्थ्येन घटः दृश्यते ।
परन्तु रात्रौ नेत्राभ्यां सह दीपप्रकाशः आवश्यकः ।
एवं ब्रह्मसाक्षात्कारे ब्रह्मविषयकम् अज्ञानं नाशयितुं वृत्तिव्याप्तेः (अहं
ब्रह्मास्मीतिरुपायाः अपेक्षा भवति । चिदाभासस्य अपेक्षा न भवति ।
न दीपदर्शने किन्तु चक्षुरेकमपेक्ष्यते ॥ पञ्चदशी ७-९३
<DOC_END>
<DOC_START>
सर्पस्य कर्णौ एव तस्य नेत्रद्वयम् । सः यदा पश्यति तदा शब्दमपि शृणोति यदा शृणोति तदा पश्यति
च । अयं न्यायः सर्पस्य विषये एव प्रवर्तते । परन्तु गौणार्थेन उभयविधकर्म यः करोति तस्य विषयेऽपि
प्रवर्तते । चक्षुः श्रवाः नाम सर्पः ।
<DOC_END>
<DOC_START>
कश्चन राजा कयाचित् चण्डालकन्यकया सह विवाहं कृतवान् । एकदा द्वावपि विहारार्थ गजमारुह्य
गच्छतः स्म । तदा एकः महर्षिः दृष्टः । सः राजा गजात् अवरुह्य तं महर्षिं नमस्कृतवान् । एतद् दृष्ट्वा सा
चण्डालकन्यका सः महर्षिरेव श्रेष्ठ इति चिन्तयित्वा तेन सह गन्तुमारब्धवती । मार्गे एकः शिवालयः
दृष्टः । सः महर्षिः देवालये वर्तमानं शिवलिङ्गं नमस्कृतवान् । तत् दश्ष्ट्वा सा शिवः एव श्रेष्ठ इति
चिन्तयित्वा महर्षि परित्यज्य तत्रैव स्थिता । एकदा एकः शुनकः आगत्य तस्य शिवलिङ्गस्य उपरि
मूत्रविसर्जनं कृतवती । तदा स शुनक एव श्रेष्ठ इति भावयित्वा सा कन्यका शुनकम् अनुसश्तवती ।
यदा सः शुनकः एकस्य चण्डालस्य समीपं गत्वा तं परितः भ्रमितुम् आरभत तदा सा चण्डालकन्यका सः
चण्डाल एव श्रेष्ठ इति मत्वा तेन सह वासं कर्तुम् आरब्धवती ।
एवं मन्दबुद्धेः पूर्ववासनाकारणेन पूर्वस्थितिरेव अन्ततः प्राप्यत इति अनेन बोध्यते ।
<DOC_END>
<DOC_START>
यस्य चतुर्णां वेदानां ज्ञानं भवति तस्मै किमपि प्रदातव्यम् इति केनचित् क्वचित् श्रुतम् । सः एकस्य
संपन्नस्य समीपं गत्वा “ श्रीमन् वेदाः चत्वारः इति अहं जानामि । अतः अहं चतुर्वेदवित् । तर्हि मह्यं
किमपि प्रदेयम्” इति उक्तवान् । तत् श्रुत्वा सः संपन्नः तस्य मनुष्यस्य अज्ञानं ज्ञात्वा तं ताडितवान् ।
एवं ब्रह्म सच्चिदानन्दरुपं, अहं ब्रह्मास्मि, अयमात्मा ब्रह्म इत्यादीनि वाक्यानि श्रुत्वा कोऽपि
अनवरतं तानि रटति चेत् हासास्पदं न भवेत किम् केवलशब्दज्ञानेन यथार्थज्ञानी न भवतीति अनेन
बोध्यते । ब्रह्म इति शब्दस्य ज्ञानं, ब्रह्मज्ञानमिति च द्वयोः महदन्तरं वर्तते खलु ।
<DOC_END>
<DOC_START>
विश्वरचनया संबद्धानि देवतातत्त्वानि भवन्ति । तेषां तत्त्वानां केचन व्यूहाः शास्त्रकारैः दर्शिताः एते
शास्त्रानुसारं भिन्नाः भवन्ति । यथापाञ्चरात्रसंप्रदाये- वासुदेवः, सङ्कर्षणः प्रद्युम्नः, अनिरुद्धः
इति । बह्वृचोपनिषदि –शरीरपुरुषः, शरीरपुरुषच्छन्दः पुरुषः, वेदपुरुषः, महापुरुषः इति । आयुर्वेदे –
रोगः, आरोग्यम्, निदानं, भैषज्यम् –इति । (योगदर्शनानुसारं अनागतं दुःखं हेयं, अविद्या हेयहेतुः, दुःखस्य
अत्यन्तनिवृत्तिः हानं, विवेकज्ञानं हानोपायः इति )
<DOC_END>
<DOC_START>
मलयपर्वते चन्दनवृक्षाः बाहुल्येन भवन्ति इति प्रसिद्धिः । एतेषां चन्दनवृक्षाणां कारणेन तत्र
वर्तमानेषु निम्बादिवृक्षेष्वपि सुगन्धः भासते इत्यपि लोकश्रुतिः । तथा सज्जनपुरुषाणां संगत्या
दुर्जनस्य लाभो भवतीति अनेन न्यायेन बोध्यते ।
किं तेन हेमगिरिणा रजताद्रिणा वा
कङ्कोलनिम्बकुटजा अपि चन्दनाः स्युः ॥ (भर्तुहरि २-७८)
<DOC_END>
<DOC_START>
चन्द्रस्य चन्द्रिकायाश्च अविनाभावसंबन्धो विद्यते । तथा परस्परम् अविभक्तयोः द्वयोः विषये
अस्य न्यायस्य प्रयोगो भवति । यथा- अतः सर्वदेवकारणस्य रुद्रस्यया शक्तिः चन्द्रचन्द्रिकान्यायेन
तदुद्बोधरुपिणी स्वाधीनवल्लभेति प्रसिद्धा सैव भवानी । (आनन्दगिरिः)
<DOC_END>
<DOC_START>
शरीरस्य एकस्मिन् भागे चन्दनं स्थापितं चेदपि संपूर्णे शरीरे आहलादो भवति । तथा आत्मा
हृदयाख्ये शरीरस्य एक भागे भवति चेदपि तस्य प्रभावः सर्वशरीरोपरि भवतीति न्यायस्य आशयः ।
यथा – शरीरैकदेशसंबद्धोऽपि सन् सकलदेहव्याप्ततमाह्लादं करोति ।
इत्येवमात्माऽपि देहैकदेशस्थः सकलदेहव्यापिनीमुपलब्धिं करिष्यति ॥
<DOC_END>
<DOC_START>
चातकपक्षी मेघात् निर्गतं जलबिन्दुमेव पिबति । अन्यत्र जलाशये वर्तमानं जलं नं पिबति इति
कविसंप्रदायः । तदर्थं सः पक्षी वर्षागमस्य कृते एव प्रतीक्षते । तथैव चकोरपक्षी चन्द्रकिरणानेव
खादति किमपि अन्यत् न । एवं कस्यापि एकस्य कृते एव प्रतीक्षा भवति चेत् तद्विषये अयं न्यायः
<DOC_END>
<DOC_START>
ज्योत्स्ना नाम चन्द्रस्य प्रकाशः । अतः ज्योत्स्नाशब्दस्य स्थाने चन्द्रज्योत्स्ना इति
शब्दप्रयोगः अनावश्यकः । तथापि क्वचित् विशिष्टं प्रयोजनम् उद्दिश्य तादृशानि वाक्यानि प्रयुज्यन्ते
यथा – चन्द्रज्योत्स्नाशरदि पुलिने सैकतेस्मिन् सरय्वाः
वादद्यूतं चिरतरमभूत् सिद्धयूनोः कयोश्चित् ।
एको वक्ति प्रथमनिहतं कैटभं कंसमन्यः
स त्वं तत्त्वं कथय भगवन् को हतस्तत्र पूर्वम् ॥
तुल्याः – करिबृंहितन्यायः, गजघटान्यायः इत्यादयः न्यायाः ।
<DOC_END>
<DOC_START>
चन्द्रं दृष्ट्वा कोऽपि प्रवासी जनः “ अयं चन्द्रः सकलङ्कः, अतः आकर्षको नास्ति” इति वदति । प्रवासे
वर्तमानस्य कृते चन्द्रस्य आकर्षणं न भवति । एवं विशिष्टकाले कस्यापि वस्तुनः निन्दा क्रियते चेत्
तादृशप्रसङ्गे अस्य न्यायस्य प्रयोगो भवति ।
सितेतर इव त्वेषः पक्षश्छिन्नं न कर्षति ।
<DOC_END>
<DOC_START>
कस्मिन्नपि वस्त्रे कस्यामपि पेटिकायां वा चम्पकपुष्पाणि स्थापितानि चेत् एतावान् सुगन्धो भवति
यत् पुष्पाणि अपनीतानि चेदपि सः सुगन्धः तत् वस्त्रं ताम् पेटिकां वा व्याप्य तत्र भवति । सज्जनानां
संगतिरपि एवम् अधिककालं यावत् जीवनं सुगन्धयतीति न्यायस्य अस्य आशयः । (सा. २८५)
<DOC_END>
<DOC_START>
चर्वितस्य कस्यापि पदार्थस्य पुनः पुनः चर्वणं क्रियते चेत् तत्र कोऽपि आस्वादो न भवति । तथा कश्चन
विषयः अनेकवारं प्रघट्टितः चेत् सर्वेषां शिरः शूलो भवतीति अनेन न्यायेन बोध्यते ।
<DOC_END>
<DOC_START>
सर्वकषास्तु ते ज्ञेया ये स्युरामिषभोजिनः । - आदिपुराणम् ३९. २९. २७१
<DOC_END>
<DOC_START>
अयं वर्गः मदनपराजयविषयकः विद्यते ।
<DOC_END>
<DOC_START>
जीमूतो नाम मेघः । चातकपक्षी सर्वथा सर्वदा मेघात् निःसृतं जलमेव पिबति अन्यत्र जलाशये विद्यमानं
जलं नेच्छति । अयमस्य स्वभावः । एवं कस्यचित् विशिष्टस्वभावस्य वर्णनार्थम् अस्य न्यायस्य प्रयोगो
<DOC_END>
<DOC_START>
यदा चालन्या धान्यं चाल्यते तदा अनावश्यकपदार्थाः उपरि तिष्ठन्ति आवश्यकमेव अधः पतति । यथा
चालनी अनावश्यकं पृथक् कृत्वा सारमेव ददाति तथा सारवद् –वस्तु –ग्रहणस्य विषये अयं न्यायः प्रवर्तते
। विवेकिनः जनाः सारं गृहीत्वा असारं त्यजन्ति इति अस्य आशयः ।
<DOC_END>
<DOC_START>
चित्रे चित्रितस्य तुरगस्य दर्शनेन यथार्थस्य अश्वस्य स्मरणज्ञानं भवति । लघुबालकानां तावत्
अश्वज्ञानं नवीनं भवति । तथा अयथार्थस्य आधारेण यथार्थस्य ज्ञानं भवतीति न्यायस्य आशयः ।
भरतनाट्यशास्त्रस्य अभिनवभारतीनाम्नी अभिनवगुप्तटीका प्रसिद्धा । तत्र शङ्कुकमतस्य उल्लेखो
विद्यते । शङ्कुकनामकः आचार्योऽपि भरतसूत्रस्य व्याख्यां कृतवान् । स्वव्याख्यायां तेन अस्य न्यायस्य
प्रयोगः कृतः । यदा कश्चन नटः अभिनयति तदा तस्य विभावादिकं कृत्रिममेव भवति । ततः सामाजिकाः
तस्मात् कृत्रिमसामग्रीविशेषात् स्थायिभावस्य अनुमानं कृत्वा तस्य दृश्यस्य आस्वादं प्राप्नुवन्ति
। एवं भ्रान्तिज्ञानतः अपि इष्टफलं लभ्यते इति अयं न्यायः बोधयति । सामाजिकस्य रसास्वादः
चित्रतुरगन्यायेन भवतीति शङ्कुकाचार्यस्य आशयः ।
<DOC_END>
<DOC_START>
चित्ररचनायाः पूर्वं कागदस्य वस्त्रस्य वा उपरि श्वेतवर्णेन लिम्पन्ति (श्वेतवर्णस्य लेपनं कुर्वन्ति
। तदनन्तरं विशिष्टरेखाः रचयित्वा चित्रस्य स्वरुपं प्राप्नुवन्ति तत्पश्चादेव विशिष्टवर्णैः चित्रस्य
अलङ्करणं कुर्वन्ति । एवं क्रमेण चित्ररचना पूर्णा भवति ।
एवमेव परमेश्वरः आदौ चिदाकारः भवति । तदनन्तरं सृष्टिरचनां कृत्वा तदन्तर्यामी भूत्वा ततः सूत्रात्मा
भवति । तेन च अन्ते विराड्रुपो भवति । (सा. २८५)
<DOC_END>
<DOC_START>
अङ्गना चित्रे पुरतः भवति चेदपि चुम्बनालिङ्गनादिकं दत्त्वा आनन्दयितुम् असमर्था भवति । तथैव
निरहङ्कारवृत्त्या वर्तमानस्य तत्त्वज्ञस्य कर्माणि चित्राङ्नान्यायेन फलदायीनि न भवन्ति । एवं
कृतकर्मणः फलं न भवतीति दर्शयितुम् अस्य प्रयोगो भवति । (सा. २९१)
तुल्याः –चित्रामृतन्यायः, चित्रानलन्यायः इत्यादयः ।
<DOC_END>
<DOC_START>
एकदा एकः जम्बुकः स्वशरीरस्य उपरि व्याघ्रस्य इव विविधवर्णयुक्ताः रेखाः चित्रयित्वा स्वयं व्याघ्र
इव अभिनयति स्म । परन्तु बाह्यवेषेणा जम्बुकः व्याघ्रो भवेत् किम् तथैव समाजे केचन नीचाः अपि
महताम् इव वेषभूषादिकं धृत्वा स्वयं महताम् अभिनयं कुर्वन्ति । परन्तु अन्तः स्थः स्वभावः तथैव वर्तते ।
एवं स्वभावं गोपयित्वा अन्यदिव दर्शयितुम् उद्युक्तस्य विषये अस्य न्यायस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
एकदा केचन चौराः राजभवने चौर्य कृतवन्तः । ते यदा धावित्वा पलायनं कर्तुम् आरभन्त तदा राजसेवकाः
तेषाम् अनुसरणं कृतवन्तः । धावन्तः चौराः माण्डव्यनामकस्य ऋषेः समीपे धनकोषं त्यक्त्वा अदृश्याः
अभवन् । राजसेवकाः तत्र आगत्य माण्डव्यमहर्षिम् एव चौरं मत्वा तं बद्ध्वा राजसमीपं नीतवन्तः ।
राज्ञा तु शूलारोपणदण्डः दत्तः । निरपराधेन अपि माण्डव्यमहर्षिणा दण्डः भोक्तव्यः अभवत् । एवम्
अकृतस्यापि कर्मणः फलं भोक्तव्यं भवति इति द्योतयितुम् अस्य न्यायस्य प्रयोगो भवति ।
यथा – सर्वदर्शनसंग्रहे पूर्णप्रज्ञदर्शने –
भेदवादिनं प्रति इमानि दूषणानि उद्घुष्यन्ते किं वा धार्मिभेदवादिनं प्रति प्रथमे चौरापराधात्
माण्डव्यनिग्रहन्यायापातः ।(पृष्ठे ७३) सा. १२३
<DOC_END>
<DOC_START>
संस्कृतभाषायां पशुशब्दस्य प्राणिविशेष इत्येव अर्थः । वैदिकभाषायां तावत् पशुर्नाम मेष इत्येव
। एवं व्यापकार्थस्य शब्दस्य अर्थसंकोचं सूचयति न्यायोऽयम् ।
<DOC_END>
<DOC_START>
छायां दृष्ट्वा यः कोऽपि पिशाचं भावयति चेत् तत् मिथ्याज्ञानम् । एवम् अकारणमेव भ्रमो
यथा – आत्मज्ञानमलं निरस्तममलं प्राप्तं च तत्त्वं परं
कण्ठस्थाभरणादिवद् भ्रमवशात् छायापिशाची यथा ॥
<DOC_END>
<DOC_START>
एका लघ्वी छुरिका महान्तं कूष्माण्डमपि खण्डशः कर्तुं समर्था । एवं समर्थः अल्पवयाः अपि सन्
अत्यन्तसमर्थम् अतिशरीरं वा पराजेतुं समर्थ इति अयं न्यायः बोधयति ।
तेजसां हि न वयः समीक्ष्यते ॥ रघुवंशे ११-१
<DOC_END>
<DOC_START>
सकलं लेह्यं च पेयादिकम् । - प्रबोधाष्टकम् ८
<DOC_END>
<DOC_START>
स्फटिकस्य समीपे यादृशं पदार्थं स्थापयामः स्फटिकस्य स एव वर्ण इव भाति । जपापुष्पस्य
स्थापनेन स्फटिकस्य तद्वर्णप्रतिफलनं भवति । एअं स्वभावम् अपरिवर्त्य औपाधिकरुपेणा अन्येषां
गुणधर्मप्रतिबिम्बनं किञ्चित्कालं यावत् करोतित्यर्थे अस्य प्रयोगो भवति ।
आत्मा तावत् कर्ता भोक्ता नास्तीति उपनिषदां मतम् । तथापि आत्मनि कर्तृत्वादिबुद्धिः
यथा- यथा स्फटिके जपाकुसुमाश्रिते लौहित्यं विवेकिनां
प्रतीतित एवास्ति न वस्तुतः । एवम् आत्मनि ईश्वराधीने विवेकिनां कर्तृत्वं प्रतीतित एवास्ति न वस्तुतः
इति वक्तुं शक्यम् । मधुसूदनसरस्वतीगीताभाष्ये -१८-९
<DOC_END>
<DOC_START>
एकः जम्बुकः एकस्य आरग्वधस्य फलानि खादितवान् । तेन तस्य उदरशूलः संजातः । इतः परम् अहं कदापि
आरग्वधफलानि न भोक्ष्ये इति तेन जम्बुकेन निश्चयः कृतः । परन्तु उदरपीडा यदा शान्ता तदा पुनः
जम्बुकेन तानि फलानि भक्षितानि । एवम् आत्मनिग्रहरहितस्य निश्चयं सूचयितुम् अस्य न्यायस्य
<DOC_END>
<DOC_START>
. कतकम् इति एकफलस्य नाम । निर्मलीतिभाषायां प्रसिद्धमेतत् । कतकरेणवः मलिनजले स्थापिताः चेत् ते रेणवः जलं शुद्धं कृत्वा अन्ते स्वयमपि तस्मिन् जले शीर्यन्ते । तथैव बाध्यजगतः बाधकं ज्ञानं जगतः निराकरणं कृत्वा स्वयमपि नश्यतीति सूचयति अयं न्यायः । (सा-२६०)
<DOC_END>
<DOC_START>
एक एव चन्द्रः स्वयम् अविकारी सन् तेषु तेषु जलाशयेषु भिन्न इव नानारुपः भासते । तथा एक एव भूतात्मा सर्वभूतेषु विविधः इव दृश्यते इति अस्य आशयः ।
एक एव तु भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ (सा.९७५)
<DOC_END>
<DOC_START>
वायोः वेगवशात् जलाशये जलस्य उपरि लहर्यः उत्पद्यन्ते । तेन जले जलं, लहर्यः, फेनः इति विविधं नवीनं च परिवर्तनं जातमिव भाति । तेषु सर्वेषु अपि जलगताः धर्माः एव भवन्ति । रुपस्य परिवर्तने अपि धर्मपरिवर्तनं न भवति । एवं कस्मिन्नपि पदार्थे जातानि परिवर्तनानि मूलद्रव्यापेक्षया भिन्नानि न भवन्तीति अनेन न्यायेन सूच्यते ।
अनुपम्याथ तमिष्टे फेनेऽप्यनुगता यथा ॥ (सा. ६३८)
अयं श्लोकः वादसुधाकराख्यग्रन्थस्थः सन् लौकिकन्यायसाहस्त्रीग्रन्थे उद्धृतः ।
<DOC_END>
<DOC_START>
जलतरङ्गाः बुद्बुदाश्च जले एव उत्पद्य किञ्चित्कालं यावत् स्थित्वा तस्मिन्नेव जले विनश्यन्ति । जलं तेषां जन्मस्थानं विलयस्थानं च । मूलकारणे उत्पन्नाः ते सर्वेऽपि तस्मादभिन्नाः इति अनेन बोध्यते ।
पश्यन्तु- चेतनाचेतनप्रपञ्चस्य जले तरङगबृदबुदन्यायेन तत्रैव उत्पत्तिप्रलययोः श्रवणादेव प्रतीतिः सर्वस्य प्रभवाप्ययौ हि भूतानामिति तदन्यत्वात् सर्वस्येति भाव इत्युक्तम् ॥
(महाभारतसभापर्वणि अ. ४०-१४ इत्यस्य नीलकण्ठी )
<DOC_END>
<DOC_START>
जलतुम्बी इति कूष्माण्डास्यैव आकारस्य फलविशेषः । तस्याः उपरि मृत्तिकां लेपयित्वा जले क्षिपामः चेत् मृत्तिकायाः प्रभावेन सा जलतुम्बी जले प्लवते । मृत्तिकायां विशीर्णायां सा जले निमज्जति । एवं कस्यापि आधारेण जीवनं नयतः मनुष्यस्य शक्तिर्नाम सः आधारः, यदा सः आधारः नष्टः सः तदा विनश्यतीत अनेन न्यायेन सूच्यते ।
<DOC_END>
<DOC_START>
अत्यन्तं तपतः जलस्य उपरि तैले क्षिप्ते तज्जलं शाम्यति । एवमेव कोपाविष्टस्य मनसः उपरि स्नेहस्य प्रोक्षणं क्रियते चेत् स शान्तो भवति इति अनेन सूच्यते ।
<DOC_END>
<DOC_START>
जलस्य उपरि तैलबिन्दुः स्थापितः चेत् स बिन्दुः जलोपरि प्रसरति । तत्रैव घृतस्य बिन्दुः स्थापितः चेत् सः घनत्वं प्राप्नोति । एकत्रैव अधिष्ठाने भिन्नप्रवृत्तिकस्य मनुजद्वयस्य प्रवृत्तिः भिन्ना भवतीति अनेन सूच्यते ।
<DOC_END>
<DOC_START>
एकैकशः बिन्दुरुपेणा जलम् अधः पतति चेत् अचिरादेव जलकुम्भः अपि तेन जलेन पूर्णो भवति । एकेन बिन्दुना घटपूर्तिः अशक्या परन्तु निरन्तरं पततां जलबिन्दूनां समाहारेण घटः पूर्णो भवति । एवं निरन्तरायं श्रद्धया कृतः अल्पारम्भोऽपि क्रमेण सफलो भवतीति अनेन सूय्यते ।
यथा – जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥ चाणक्यनीतिः १२-१९
<DOC_END>
<DOC_START>
तक्रे मथिते नवनीतम् उद्भवति । परन्तु तक्रं विहाय जलस्य कियदपि वा मथनं क्रियते चेत् नवनीतम् उत्पद्यते किम् श्रम एव भवति खलु । एवम् अयोग्यस्थाने विफलपरिश्रमम् उदिद्श्य अयं न्यायः प्रवर्तितः ।
<DOC_END>
<DOC_START>
स्वातिनक्षत्रे शक्तिकायां जलबिन्दुः पतितश्चेत् मौक्तिकं भवतीति प्रवादः । अर्थात् साधारणोऽपि जलबिन्दुः विशिष्टदेशकालादिबलेन मौक्तिकं भवति । तथा मनुष्योऽपि विशिष्टदेशकाल श्रद्धादिकारणेन महीयान् भवतीति अस्य अभिप्रायः ।
द्र्ष्टव्यम् – महाभारत अनुशासन पर्वणि १२-९ नीलकण्ठी
संतप्तायसि संस्थितस्य पयसो नामापि न श्रूयते
<DOC_END>
<DOC_START>
जले लिखितानि अक्षराणि शाश्वतानि भवन्ति किम् स्थिरमाध्यमे असति, कृतः सर्वोऽपि प्रयत्नः विफलो भवतीति अनेन सूच्यते ।
<DOC_END>
<DOC_START>
जलम् अग्निश्च परस्परविरोधिद्रव्यद्वयम् । तद् द्वयम् एकत्र स्थातुं न शक्नोति । यस्य अंशो न्यूनः सः शीघ्रं नश्यति । तथैव द्वयोः परस्परं वैरं वहतोः एकत्र स्थितिः अशक्या । स्थितौ जातायामपि यः दुर्बलः तस्य नाशः अचिरादेव भवति इति न्यायेन अनेन सूच्यते ।
<DOC_END>
<DOC_START>
‘जलम् आनय’ इत्युक्ते तावता ‘पात्रे जलम् आनय’ इत्येव कथितं भवति खलु । पात्रे आनय इति पृथग् वक्तव्यं न भवति । एवं यस्य कस्यापि शब्दान्तरनिरपेक्षस्य उच्चारणेन अन्योऽपि शब्दः गृहीतो भवतीति अनेन सूच्यते ।
<DOC_END>
<DOC_START>
जलं प्रकाशः वायुश्च परस्परघातकाः कदापि न भवन्ति । अस्य न्यायस्य प्रयोगः ब्रह्मसूत्रकल्पतरुव्याख्यायाः परिमलटीकायां कृतः ।
<DOC_END>
<DOC_START>
स्थिरे जलाशये एक एव चन्द्रः प्रतिबिम्बितो भवति । एकमेव प्रतिबिम्बं दृश्यते । जलाशंये क्षुब्धे तरङ्गेषु अनेकानि चन्द्रस्य प्रतिविम्बानि दृश्यन्ते । अयं न्यायः दश्गभ्रान्तेः उदाहरणरुपः ।
<DOC_END>
<DOC_START>
जलोका नाम रक्तचूषकः कीटविशेषः । सुन्दरस्त्रियाः मांसलस्य स्तनभागस्य उपरि स्थापितः चेदपि सः कीटः स्तनपानम् अकृत्वा रक्तपानमेव करोति । एवं दुर्जनः सुगुणान् विहाय दोषानेव गष्णाति इति अनेन न्यायेन सूच्यते ।
<DOC_END>
<DOC_START>
स्वभावेन जलं शीतलं भवति । उष्णे कृते सति जले उष्णता भवति । तदा उष्णं जलम् इति व्यवहारो भवति । स्वाभाविकेन धर्मेण सह अपरः धर्मः आहार्यरुपेण स्वीक्रियते । अयं यदृच्छाधर्मो भवति प्राणप्रदो न । एकस्य स्थाने अपरस्य आरोपो भवति ।
यथा- उष्णत्वमग्न्यातपसंप्रयोगात् शैत्यं हि सा यत् प्रकृतिर्जलस्य ॥ रघुवंशे ५-५४
<DOC_END>
<DOC_START>
क्वचित् शब्दाः स्वं सांकेतिकम् अर्थ परित्यज्य अर्थान्तरं प्राप्नुवन्ति यथा लक्ष्यार्थम् । तत्र वाच्यार्थस्य अन्वयो न भवति । तदा शब्दवृत्तिः (व्यापारः) जहत्स्वार्था नाम प्रवर्तते । मञ्चाः क्रोशन्ति इत्यत्र मञ्चाः एव क्रोशन्ति इति वाच्यार्थः न गृह्यते परं मञ्चस्थाः पुरुषाः क्रोशन्ति इति अर्थान्तरं स्वीक्रियते । यतः आक्रोशक्रिया मञ्चेषु न अन्वेति । एतादृशस्थले स्वीकृता लक्षणा वृत्तिः जहत्स्वार्थेति कथ्यते ।
<DOC_END>
<DOC_START>
यत्र शब्दार्थस्य कश्चन अंशः स्वीकृतः कश्चन अंशश्च परित्यक्तः तत्र जहदजहत्स्वार्थवृत्तिः शब्दस्येति शास्त्ररीतिः ।
सोऽयं देवदत्त इति लौकिकवाक्ये तत्त्वमसि इति च वेदान्तवाक्ये इयमेव वश्त्तिराश्रीयते वेदान्तशास्त्रे । सः इति शब्दस्य तत्कालविशिष्टः इति, अयं इति शब्दस्य एतत्कालविशिष्टः इति च अर्थः । एकस्मिन् देवदत्ते तयोः द्वयोरपि विशेषणयोः अन्वयो न भवतीति कारणेन तयोः विरुद्धयोः अंशयोः परित्यागेन एकस्मिन् देवदत्तपिण्डे तात्पर्यं स्वीक्रियते जहदजहत्स्वार्थवश्त्त्या ।
तत्त्वमसि इति औपनिषदवाक्येऽपि तत् इत्यस्य शब्दस्य परोक्षत्वविशिष्टं चैतन्यम् इत्यर्थः त्वम् इत्यस्य च अपरोक्षत्वादिविशिष्टं चैतन्यम् इत्यर्थः । उभयत्रापि परोक्षत्वापरोक्षत्वादिविरुद्धांशस्य परित्यागेन अविरुद्धे एकस्मिन् चैतन्ये एव तात्पर्यम् जहदजहत्स्वार्थवृत्त्या । इयमेव भागलक्षणेत्यपि प्रसिद्धा ।
एतद्विषयकं स्पष्टीकरणं श्रीनिवास अर्जुनवाडाकरकृतग्रन्थे काव्य-प्रकाशव्याख्याने विस्तरशः उपनिबद्धम् ।
<DOC_END>
<DOC_START>
शिशोः जननानन्तरं प्रथमं कर्म जातकर्म एव । जातकर्मणः समये क्रियमाणस्य होमस्य विषये संदेहो भवितुम् अर्हति यत् अग्नौ प्रदत्तायाः आहुतेः लाभः पितुः भवति वा पुत्रस्य इति । पुत्रस्यैव भवतीति निर्णयः कृतः शास्त्रकारैः । एनं संस्कारम् अनुलक्ष्य जातः अयं न्यायः ।
द्र्ष्टव्यम् – याज्ञवल्क्यस्मश्तेः मिताक्षराव्याख्या ५-२२०
<DOC_END>
<DOC_START>
कश्चन गोपालः कपटोपदेशतः राजकन्यकां परिणीतवान् । यथा उपदेशः प्राप्तः तथा सर्वदा सः मौनमेव आश्रित्य तिष्ठति स्म । एकदा तस्य पाण्डित्यं ज्ञातुं राजकन्यका नवलिखितपुस्तकस्य एकस्य शोधनाय तम् उपरुद्धवती । ज्ञानहीनः सः पुस्तकं हस्ते स्थापयित्वा केवलं तस्य पुस्तकस्य अक्षराणि बिन्दुमात्रारहितानि कुर्वन् उपविष्टः । तद् दृष्ट्वा सा कन्या एष नूनमेव गोपालक इति ज्ञातवती । ततः प्रभृति जामातृशुद्धिन्यायः इति अयं प्रसिद्धः जातः इति प्रबन्धचिन्तामणौ विवृतम् ।
<DOC_END>
<DOC_START>
१. जामातुः कृते सिद्धः स्वयंपाकः अकस्मात् आगतेभ्यः अतिथिभ्यः परिवेषितः । एवं एकस्य कृते सिद्धं, यदि अन्यस्य कृते उपकारकं भवति चेत् अस्य न्यायस्य प्रवश्त्तिः भवति ।
२. सांख्यदर्शनस्य प्रधानपुरुषवादस्य निराकरणार्थं ब्रह्मसूत्रेषु काश्चन युक्तयः दर्शिताः । एताभिरेव योगदर्शनस्यापि निराकरणं ज्ञातव्यमिति ‘एतेन योगः प्रत्युक्तः’ इति नामके अधिकरणे स्पष्टीकृतम् । अस्मिन् प्रसंगे अस्य न्यायस्य प्रवृत्तिः भवति ।
<DOC_END>
<DOC_START>
जाले पतितः मत्स्यः जालात् बहिः द्रष्टुं शक्नोति किन्तु जालाद् बहिः आगन्तुं न शक्नोति । एकमेव अविद्यायाः प्रभावे वर्तमानो जनः जगतः व्यवहारान् ज्ञातुं शक्नोति आत्मानं मोचयितुं न शक्नोतीति अस्य न्यायस्य अर्थः ।
<DOC_END>
<DOC_START>
एकस्य समुद्रस्य तीरे वृक्षस्योपरि टिटिटभदम्पत्योः अण्डानि नीडे स्थाप्यन्ते स्म । परन्तु सर्वदा समुद्रेण तानि अण्डानि जले भज्यन्ते स्म । एतेन टिटिटभदम्पती नितरां दुः खितौ जातौ । ताभ्यां गरुडः निवेदितः । गरुडेन एतत् सर्वं महाविष्णवे निवेदितम् । महाविष्णोः अनुमत्या नारदमहर्षेः उपदेशेन च गरुडः स्वपक्षाभ्यां समुद्रस्य जलस्य शोषणं कर्तुम् आरब्धवान् । तेन भीतः समुद्रः पक्षिणाम् अण्डानि तेभ्यः प्रत्यर्पितवान् इति पञ्चतन्त्रे हितोपदेशे (२-९) च काचन कथा विद्यते । दृढनिश्चयेन किमपि असाध्यं नास्तीति असहायस्य भगवानेव साहाय्यं करोति इति च अनेन बोध्यते ।
<DOC_END>
<DOC_START>
भोजनसमये एकः आदिशति –“ब्राह्मणेभ्योः दधि दीयताम् । तक्रं कौण्डिन्याय” इति । कौण्डिन्योऽपि ब्राह्मण एव । तथापि कोण्डिन्यशब्दस्य पश्यगग्रहणे विशिष्टं प्रयोजनं भवति । एतादश्शस्थले सामान्यशास्त्रं विशिष्टशास्त्रेण बाधितं भवति । ब्राह्मणेभ्यो दधि दीयतां तत्रापि कौण्डिन्यनामकाय ब्राह्मणाय तक्रमेव दीयतामिति अस्य वाक्यस्य अर्थः । अयमेव उत्सर्गापवादन्यायो भवति ।
यथा – लोके हि सत्यपि संभवे बाधनं भवति । तद्यथा – दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्याय इति सत्यपि संभवे दधिदानस्य तक्रदानं निवर्तकं भवति । (पातञ्जलमहाभाष्यम् १-१-४७ वार्तिकम् ६-२-१ याज्ञवल्क्यस्मृतिमिताक्षरटीका ३-२५७
<DOC_END>
<DOC_START>
परीवाहो नाम उत्प्रवाहः । यदा तडागस्य जलमधिकप्रमाणेन अन्तर्भवति तदा किञ्चित् छिद्रं कृत्वा जलस्य बहिर्गमनमार्गः कश्चन करणीयः । अन्यथा जलाधिक्येन जलबन्ध एव भिन्नो भवेत् ।
एवमेव हृदये यदा दुःखम् अधिकप्रमाणेन भवति तदा केनापि मार्गेण दुःखस्य अभिव्यक्तिः करणीया । रोदनेन दुःखस्य न्यूनता भवति ।
यथा –पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया – उत्तररामचरिते ३-२९
<DOC_END>
<DOC_START>
तण्डुलाः सम्यक् पक्वाश्चेत् ओदनः खादनयोग्यो भवति । क्वचित् अपक्व एव ओदनः खादनीयो भवति । समये सिद्धमेव उपयोगाय भवति इति अनेन बोध्यते ।
क्वचिदस्य न्यायस्य दिव्यैः सह संबन्धो योज्यते ।
यथा –तप्तपरशुग्रहणन्यायः, उदकनिमज्जनन्यायः इत्यादयः । सा.११६)
<DOC_END>
<DOC_START>
अग्निहोत्रं जुहुयात् इत्यस्मात् विधेः अनन्तरं आहुतिविषये का देया इति संशयो भवति तदा अग्निहोत्रशब्दस्य सामर्थ्येन हविः देयमिति अर्थो गश्ह्यते । यथा –तत्प्रख्यं चान्यशास्त्रम् । तत्स्थगुणस्थप्रख्यं प्रापकमन्यशास्त्रं यत्र भवति ।
अग्निहोत्रं जुहोति इत्यत्र उत्पत्ति विधिः ।
दध्ना जुहोति इत्यत्र गुणविधिः तत्प्रख्यन्यायेन अग्निहोत्रशब्दस्य नामधेयत्वं प्राप्यते । मीमांसाशास्त्रगतः अयं न्यायः । (सा. ८५३)
<DOC_END>
<DOC_START>
अनेके तन्तवो यदा एकत्रीभवन्ति तदा पटरुपकार्यं जनयितुं समर्था भवन्ति । तथैव महान्तो जनाः एकत्रिता भूत्वा ईप्सितं कार्यं साधयन्ति । (सा.९९४)
<DOC_END>
<DOC_START>
प्राचीनकाले अपराधस्य निर्धारणार्थं तप्तस्य परशोः ग्रहणं क्रियते स्म । यः अपराधं न कृतवान् तस्य हस्तो न ज्वलतीति यश्च अपराधी तस्य हस्तो ज्वलतीति च तस्मिन् काले विश्वास आसीत् । अयमपि दिव्यप्रकारः ।
यथा – स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसन्धोऽनृतेन आत्मानमन्तर्धाय परशुं तप्तं प्रतिगृहणाति स दह्यते अथ हन्यते इति । (छान्दोग्योपनिषदि ६-१६-३)
<DOC_END>
<DOC_START>
तप्तस्य भ्राष्टस्य उपरि स्थापिताः तिलाः क्षणेन ज्वलिताः भवन्ति । क्षणकालं यावदपि ते मूलस्थितौ न भवन्ति । स्थानेऽन्तरतम् इति पाणिनीयसूत्रस्य भाष्ये अयं न्यायः प्रयुक्तः (१-१-५०) ।
<DOC_END>
<DOC_START>
तप्तं माक्षिकं हस्तेन उद्धरति चेत् सः निरपराधी इति भाव्यते स्म पूर्वकाले । अयमेव दिव्यप्रकारः ।
<DOC_END>
<DOC_START>
अयः पिण्डात् प्रतप्तात् धूमः न निर्गाच्छति परन्तु अग्निर्भवत्येव । यद्यपि अयः पिण्डस्थः अग्निरेव दहति
तथपि लोके अयःपि एव दहतिति प्रसिद्धिर्भवति ।
अग्नि-तप्तायः पिण्डयोः सामानाधिकरण्येन न तादात्म्यप्रतीतिर्भवति ।
वेदान्तशास्त्रे अस्य प्रयोगो यथ-इदमेव तुरीयं शुद्धचैतैन्यं अज्ञान तदुपहितचैतन्याभ्यां तप्तायाः पिण्डवत् अविविक्त्तम् । वेदान्तसारः
<DOC_END>
<DOC_START>
तप्तायसः शकलस्य उपरि जलं स्थापितं चेत् क्षणे तन्नश्यति तस्य पूर्वरुपेण न भवति । तथैव दुष्टानां संगतौ मनुष्यस्य स्वभावः परिवर्तितः भूत्वा सद्गुणाः नश्यन्ति । यथा –नीतिशतके ५८.
<DOC_END>
<DOC_START>
तमः प्रकाशं, प्रकाशश्च तमः दूरीकरोति इति परस्परं तयोर्मध्ये उपमर्द्य –उपमर्दकभावः विद्यते । समाजे अपि परस्परघातकाः जनाः दृश्यन्ते इति अनेन न्यायेन बोध्यते ।
<DOC_END>
<DOC_START>
यथा दीपः तमो नाशयति तथा ज्ञानम् अज्ञानं दूरीकरोति इति । यथा –
अज्ञानं ज्ञातुमिच्छेद्यो मानेन अत्यन्तमूढधीः ।
स तु नूनं तमः पश्येद् दीपेनोत्तमतेजसा ॥ वेदान्तसिद्धान्तमुक्तावली
<DOC_END>
<DOC_START>
तरक्ष इति तरं गतिं मार्गं वा क्षिणोति इति अर्थेन क्रूरमृगः । महाकाल्याः परिवारदेवतासु डाकिनीदेवताः सन्ति । डाकिनी व्याघ्रवाहनम् अधिरुह्य तिष्ठतीति अतिभयङ्करी भवतीति तन्त्रशास्त्रे प्रसिद्धिः । एवं क्रूरकर्माणि यः करोति तम् उदिदश्य तरक्षडाकिनीन्यायः प्रवर्तते ।
<DOC_END>
<DOC_START>
एकदा एकः चोरः धावन् एकं पाकगृहं प्रविष्टः । जनाः तम् अनुसृत्य पाकगृहे तं गृहीत्वा पृष्टवन्तः कः त्वम् इति । चोरः ‘अहं पाचकः’ इति कथितवान् । तस्य विषये दयां धृत्वा जनाः तस्मै पाकक्रियामेव दत्तवन्तः । सः वस्तुतः पाचकः नास्ति खलु अतः तस्य सम्भ्रमं दृष्ट्वा जनैः ज्ञातं तस्य स्वरूपम् । शीघ्रमेव सः कारागृहं प्रति प्रेषितः । एवं स्वासामर्थ्यस्य अभावे अपि कस्यचिद् विषयस्य सामर्थ्यं वहामीति यः अभिनयति अन्ते सः स्ववञ्चनयैव गृहीतो भवति इति अस्य भावः ।यथा –
::अशक्ये विनियुक्तोऽपि कृष्णलाग् श्रपयेदिति ।
::सर्वात्मनाऽप्यसौ कुर्वन् कुर्यात् तस्करकन्दुवत् । । सुरेश्वरः
<DOC_END>
<DOC_START>
तालवृक्षः अत्यन्तम् उन्नतः भवति । अतः तस्य अधिका छाया न भवति आतपे आतपनिवारणार्थ तस्य नातीव उपयोगः एवं कश्चन मनुष्यः अत्यन्तम् उन्नतपदादि प्राप्य स्वयं श्रेष्ठो भवति चेदपि अन्येषां तस्य उपयोगो न भवतीति अनेन बोध्यते ।
<DOC_END>
<DOC_START>
तालवृक्षस्य उपरि त्वक् कठिना सती ऊर्ध्वमुखे कण्टकवत् तीक्ष्णा भवति । यदि केनापि लोभेन कश्चन सर्पः तालवृक्षमधिरोढुं प्रयतेत् तर्हि शिघ्रमेव तस्य उदरं कण्टकाविद्धं भूत्वा भग्नं भवेत् । एवं कष्टपूर्णं कर्म यः कर्तुमिच्छति सः फलानि अप्राप्य स्वनाशमेव प्राप्नुयादिति अनेन ज्ञायते ।
<DOC_END>
<DOC_START>
तिलानां तण्डुलानां च परस्परं संमिश्रणं भवति चेदपि ते पृथक् कर्तुं शक्याः । ते दुग्ध –जलवत् एकरुपतां न प्राप्नुवन्ति । यदा एकत्र द्वौ अलङ्कारौ स्वम् अस्तित्वम् अपरित्यज्य भवतः तदा संसृष्टिनामकः अलङ्कारः तिलतण्डुलन्यायेन भवति ।
यथा – लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिः विफलतां गता ॥ मूच्छकटिके १-१४
अस्मिन् श्लोके उपमा – उत्प्रेक्षा – अलङ्कारयोः संसृष्टिरस्ति ।
<DOC_END>
<DOC_START>
बकः तीरे स्थित्वा चक्षुषी निमील्य ध्यानं करोतीव ध्यानस्य अभिनयं करोति । परन्तु यदा मत्स्याः तस्य समीपम् आगच्छन्ति तदा सः नेत्रे उन्मील्य तान् मत्स्यान् सहसा गिलति । एवं कुहनावृत्तेः वञ्चनपरस्य मानवस्य विषये अस्य न्यायस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
तुम्बीतः स्वरः तदैव निर्याति यदा तस्य आधारः समीचीनो भवति । एवम् उत्तमम् आधारं प्राप्यैव मनुष्यः योग्यं कार्यं कर्तुं शक्नोति इति अनेन बोध्यते ।
<DOC_END>
<DOC_START>
तुलायाः यष्टिः किंवा मानदण्डः उभयपार्श्वयोः मानपात्रं धारयति । यदा किमपि पात्रे न स्थाप्यते तदा तुलादण्डः समो भवति । यस्मिन् पत्रे किमपि स्थापितं चेत् तुलादण्डः तत्पार्श्वे अवनतो भवति । एवं दुर्जनोऽपि बाह्यपरिणामैः अवनतो भूत्वा समत्वं त्यजति इति अनेन बोध्यते । यथा –
अहो सुसदृशी चेष्टा तुलाकोटेः खलस्य च ॥ हितोपदेशे १-१५४
<DOC_END>
<DOC_START>
तुलायाः एक पार्श्वं यदि हस्तेन उन्नमयामः तदा अपरपार्श्वं स्वयमेव अधोगच्छति । एवं एकस्य गुणाधानेन अपरस्य अधोगतिः भवति इति बोधयति अयं न्यायः ।
<DOC_END>
<DOC_START>
यदि द्वौ तुल्यबलिनौ भवतः तर्हि द्वावपि परस्परसाहाय्येन एकं कार्यं साधयितुं शक्नुतः पृथक् पृथक् न । ‘अन्तादिवच्च’ (६-१-८५) इति पाणिनीयसूत्रभाष्ये न्यायः अयं स्पष्टीकृतः ।
<DOC_END>
<DOC_START>
तुष नाम धान्यस्योपरि वर्तमानम् आवरणम् । तुषस्य कतिवारमपि कुट्टनेन किं प्राप्येत अनावश्यकानां कार्याणां कृते शक्तेः दुरुपयोगः न करणीय इति अनेन न्यायेन बोध्यते ।
यथा – अविचारवतो युक्तिकथनं तुषकण्डनम् ।
नीचेषूपकृतं राजन् वालुकास्विव मूत्रितम् ॥ हितोपदेशे ४-१३
अयं न्यायः पिष्टपेषणन्यायवत् निष्प्रयोजनं कर्म बोधयति । दुष्टस्य कृते कृतः उपदेशः उपकारो वा तुषकण्डन्यायमनुसरति । (सा. ४०९)
<DOC_END>
<DOC_START>
‘दुर्जनः तुष्यतु’ इति कृतं व्यवहारम् आश्रित्य अयं न्यायः प्रवृत्तः । लोके दुर्जनात् बिभ्यत् सर्वोऽपि अनिच्छया अपि तस्य दुर्जनस्य मतमनुसरन् इव किञ्चित्कालं यावत् प्रवर्तते । शास्त्रे तथा पूर्वपक्षिणः युक्तेः प्रतियुक्तिं दातुं समर्थोऽपि सिद्धान्ती क्वचित् तन्मतम् अङ्गीकृतवानिव दर्शयति । परन्तु अन्ते योग्यां युक्तिं प्राप्य पूर्वपक्षस्य मतं निराकरोति । एवं तुष्यतु दुर्जन इति भावनया कथञ्चित् स्वीकृतस्य विषये अयं न्यायः प्रवर्तते ।
<DOC_END>
<DOC_START>
तृणजलौकानामकः कश्चन कीटविशेषः तृणम् आधारीकृत्य चलति एकं तृणम् आलमब्य अग्रे चलन् सः यावत्पर्यन्तम् अपरं तश्णं न लभ्यते तावत्पर्यन्तं पूर्वं तृणं न त्यजति । एवं बुद्धिमानपि योग्यम् आधारं यावत् न प्राप्नोति तावत् पूर्वम् आधारं न परित्यजेत् इति अयं न्यायः बोधयति । वेदान्तशास्रानुसारं जीवः उत्तरदेहं प्राप्य पूर्वदेहं त्यजतीत्यपि अर्थो भवति ।
<DOC_END>
<DOC_START>
युद्धे पराजितः मनुष्यः मुखे तृणं गृहीत्वा शत्रोः शरणं गच्छति । मम अभिमानः तृणसमान इति सः द्योतयति । एवं व्यवहारेऽपि अन्तिमम् उपायम् अप्राप्य यदा आत्मसमर्पणं करोति तदा एतस्य प्रवृत्तिर्भवति ।
<DOC_END>
<DOC_START>
एकस्य तृणस्य कापि शक्तिः न भवति । परन्तु यदा अनेकानि तृणानि सम्भूय तृणरज्जुः निर्मीयते तदा
तस्याः रज्ज्वाः महती शक्तिर्भवति यत् तया गजोऽपि बन्धुं शक्यते । संघटनशक्तेः महत्त्वम् अनेन द्योत्यते ।
बहूनामल्पसाराणां समवायो दुरत्ययः । भोजप्रबन्धे १४५
तृणैरावेष्ट्यते रज्जुर्यया नागोऽपि बध्यते । सुभाषितम्
<DOC_END>
<DOC_START>
तृणाविशेषात् अरणिमथनात् सूर्यकान्तमणेश्च अग्नेः उत्पत्तिः पूर्वकाले भवति स्म । यद्यपि अग्निजनने त्रीणां साम्यं भवेत् तथापि अग्निजननप्रक्रियायां वैषम्यमेवास्ति । यथा फूत्कारतः तृणविशेषात्, घर्षणतः अरणेः एवं सूर्यकिरणसंपर्केण मणितः अग्निः उत्पाद्यते स्म । त्रीण्यपि स्वतन्त्रकारणानि । तृणजन्यस्य अग्नेः तृणं कारणम् । अरणि जन्यस्य अग्नेः अरणिः कारणम् । एवं मणिजन्यस्य अग्नेः मणिः कारणम् इत्येवं कारणानि भिन्नानि ।
यथा – नतु वहिनत्ववच्छिन्नं प्रति तृणादेः कारणत्वम्, परस्परव्यभिचारात् एवं यत्र कार्यकारणाभावबाहुल्यं कार्यतावछेदकं कारणातावच्छेदकं च नाना, तत्र अस्य प्रवृत्तिः ॥ (लौकिकन्यायसाहस्रीतः १४५, १४६)
२ शक्तिर्निपुणताभ्यासाः समुदिता दण्डचक्रादिन्यायेन परस्पर सापेक्षाः व्यस्ताः तृणारणिमणिन्यायेन प्रत्येकं कार्यजनकाः ॥
<DOC_END>
<DOC_START>
अयं वर्गः मकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
काविरामदलापा (क सुखम्, अविराम विच्छेदराहित्यम्, द दानम्, अदलापा सूक्तियुता निरन्तरं सुखं यच्छति इति
सूक्तियुता, गोसमा भूमेः समा, नते नमस्कारं कुर्वद्भ्यः, अवामतरा कुटिलरहिता, रसाजा रसा-भूमौ जा-जाता सीता,
सुकुमाराभम् कोमलप्रभायुक्तम्, नृताम् मनुष्यत्वम्, आश्रितम् आश्रयं प्राप्तवन्तम्, मारमम् लक्ष्मीकान्तं श्रीरामम्,
अस्मिन् श्लोके कविः वैदेहीरघुवीरयोः विवाहं वर्णयति ।
सीतादेवी निरन्तरसुखस्य तन्नाम मोक्षसुखस्य दात्री इति श्रीसूक्त्यादिषु वर्ण्यते । सा भूमातुः समाना । अतः एव सा भक्तानां पापानि
क्षममाणा कदापि कुटिला न भविष्यति । सा भूमातुः पुत्री । सा वैदेही कोमलप्रभायुक्तं, मनुष्यावतारं लक्ष्मीकान्तं श्रीरामचन्द्रं प्राप्तवती ।
रमा लक्ष्मीदेवी, नृपजासती राज्ञः पुत्री सती, तम् श्रीकृष्णम्, श्रिता प्राप्तवती । अमर देवतानाम्,
अविका रक्षिका (अव रक्षणे ण्वुल् अवामा कौटिल्यरहिता,
<DOC_END>
<DOC_START>
गावो गोपालवे नैव, कुतीर्थं नावतारिताः । - अन्ययोगव्यवच्छेदद्वात्रिंशिका ५
<DOC_END>
<DOC_START>
अयं वर्गः अन्ययोगव्यवच्छेदद्वात्रिंशिकाविषयकः विद्यते ।
<DOC_END>
<DOC_START>
१. यदा किमपि वस्त्रम् अग्नौ दग्धं भवति तदाऽपि तस्योपरि चिह्नानि न नश्यन्ति तथैव पदार्थे नष्टे
अपि तस्य विषय ममकारो न नश्यति ।
२. अग्नौ दग्धस्यापि पटस्य स्वरुपाकृतिः किञ्चित्कालं यावत् तथैव तिष्ठति इति अनेन बोध्यते ।
<DOC_END>
<DOC_START>
यदा पत्रं किमपि दग्धं भवति तदा किञ्चित्कालं यावत् तस्य आकृतिः तथैव भवति इति अनेन न्यायेन
<DOC_END>
<DOC_START>
कार्पासवाणिज्यं कुर्वदिभः चतुर्भिः वणिग्भिः एकः मार्जालः पालितः । तस्य मार्जालस्य
पादयोः एकां किङिकणीं बद्धवन्तः । तदा तस्य मार्जालस्य एकपादस्य उपरि व्रणः जातः । तन्निवारणाय
तैः तैलपट्टिका बद्धा तस्य पादे । एकदा मार्जालः चलति स्म तदा तस्य पादस्योपरि अग्निकणः पतितः
तैलपट्टिका च ज्वलिता । तेन भीतः सः मार्जालः यदा पलायितुम् आरब्धवान् तदा तस्य पादे स्थिता
ज्वलन्ती तैलपट्टिका सर्वमपि कार्पासं भस्मसात् कृतवती । चतुर्षु वणिक्षु यस्य भागे मार्जालस्य पादः
आसीत् तेन नष्टं बोढव्यं त्रिभ्यश्च धनं दातव्यमिति अन्ये त्रयः न्यायलयं गतवन्तः । तदा सर्वं श्रुत्वा
न्यायाधीशाः उक्तवान् –“यस्य पादे ज्वलन्ती तैलपट्टिका आसीत् तेन पादेन सः मार्जालः चलितृम् अशक्त
आसीत् । अवशिष्टैः त्रिभिः पादैरेव सः मार्जालः धावित्वा कार्पासनाशं कृतवान् । अत एव त्रिभिरेव हानिः
स्वीकरणीया धनं च एकस्मै दातव्यम्” इति ।
एवम् अनपेक्षितरीत्या घटितस्य विषये अयं न्यायः प्रवर्तते ।
<DOC_END>
<DOC_START>
यथा दग्धानि बीजानि न प्ररोहन्ति तथा अज्ञाने नष्टे सति चित्तं जगद्भानं कर्तुं न शक्नोति
<DOC_END>
<DOC_START>
तिस्रः रशनाः दग्धाः चेत् तासां स्वरुपं किञ्तित्कालं यावत् दृश्यते परन्तु रशनानां कार्यं तत्र भवति । एवं
केवलं भानं भवति परं कार्यं न सिध्यति तत्र अस्य प्रयोगो भवति । वेदान्ते अस्य प्रयोगः यथा ‘ज्ञानी
लोके भवति चेदपि आकृत्या भवति एव न तु मनसा’ इति ।
<DOC_END>
<DOC_START>
इन्धनसमाप्तेः अनन्तरं स्वयमेव अग्निः शाम्यति । दग्धुं पुनः किमपि अन्यद् अवशिष्टं न भवति । तथैव
चित्तवृत्तीनां क्षयानन्तरं मनः शुद्धसत्त्वे उपशाम्यति इति अनेन बोध्यते ।
दग्धदहनन्यायेन यावदप्राप्तं तावद् निधीयते – काव्यप्रकाश -५
<DOC_END>
<DOC_START>
सर्पं दृष्ट्वा मनुष्यः तं हन्तुम् एव सहसा उद्युक्तः भूत्वा दण्डान्वेषणॆ प्रवृत्तः भवति । दण्डः
न लभ्यते चेदपि अनायासेन लब्धं कुठारं स्वीकृत्य सर्पमारणे सः प्रवृत्तः भवति । एवं लघूपाये सति
कठिनोपायस्य अवलम्बनं न्यायेन अनेन सूच्यते । (सा. २५१)
<DOC_END>
<DOC_START>
एकदा एकः दण्डः एकः अपूपश्च एकत्रैव बध्दौ । तदा केनचित् इयं वार्ता श्रुता यत् केनचित्
मूषिकेण सः दण्डः खादितः इति । तदा ज्ञातं तेन मूषिकेण दण्डेन सह अपूपः अपि खादित इति । एवम्
एकत्र संबद्धयोः द्वयोः एकस्य विषये यत् घटितं तत् अपरस्य अपि विषये घटितम् एव इति अस्माकं
1. मूषिकेण दण्डो भक्षित इति अनेन तत्सहचरितम् अपूपभक्षणम् अर्थादायातं भवति इति
नियतसमानन्यायात् अर्थान्तरम् आपतति इत्येव न्यायो दण्डापूपिकः ।
2. तव सुन्दरमुखेन चन्द्रः अपि जितः इत्युक्ते कमलानि अपि जितानि इति स्वयमेव सिद्ध्यति खलु ।
एतत् काव्यार्थापत्तेः उदाहरणम् । अत्र अस्य न्यायस्य प्रयोगः कृतः ।
3. संभावितस्य स्वतन्त्रस्य पितृस्थानीयस्य ज्येष्ठस्यापि दोषं वदता ज्येष्ठपरतन्त्राणां कनीयसां
पुत्रस्थानीयानां दण्डापूपनीत्या सुतरां दोषो दर्शित एव । (याज्ञवल्क्यस्मृति – मिताक्षरटीका
<DOC_END>
<DOC_START>
क्वचित् बहवो जनाः गच्छन्तः आसन् तेषु केषाञ्चन हस्तेषु दण्डाः आसन् अपरेषां न । तथापि सर्वेषां
विषये दण्डधारिणः गच्छन्ति इत्येव प्रयोगः दृश्यते । एवं प्राधान्येन व्यपदेशः भवतीति सूचयितुं
न्यायस्य अस्य प्रयोगो भवति । तुल्यः छत्रिन्यायः ।
<DOC_END>
<DOC_START>
दग्धस्य दधिरुपेण रुपान्तरप्राप्तिः एव परिणामः । परन्तु यदा सर्पः रज्जुस्थाने दृश्यते तदा रज्जुः
सर्परुपेण न परिणता अयं परिणामः नास्ति । अयम् आभासः एव ।
एवं यथार्थतः रुपपरिवर्तनं परिणाम इति, रुपपरिवर्तनस्य आभास आभास इति च शास्त्रे
व्यपदिश्यते । आभासस्य विवर्त इत्यपि नाम । सांख्यमते परिणामवादः अद्वैतवादे च विवर्तवादः
<DOC_END>
<DOC_START>
दम्पती कदाचित् परस्परं कलहं कुरुतः । तदा अन्ये चिन्तयन्ति यत् अनयोः संबन्धः शाश्वतरुपेण नष्टः एव
इति । परन्तु किञ्चित्कालानन्तरं तौ दम्पती पूर्वप्रेम्णा एव व्यवहारम् आरभेते । पूर्वकलहः नष्टः । एवं
तात्कालिकरुपेण उत्पद्य अचिरादेव विनष्टस्य विषये अस्य न्यायस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
यथा दर्पणे सर्ववस्तूनां प्रतिबिम्बनं भवति तथैव ब्रह्मतत्त्वे जगतः सर्ववस्तूनां प्रतिबिम्बनं भवति
। जगत् एतत् ब्रह्मणः प्रतिबिम्बनं भवति । अयमेव प्रतिबिम्बवाद् इति प्रसिद्धः वेदान्तशास्त्रस्य
सिद्धान्तः । सुरेश्वराचार्यस्य शब्देषु अयम् एवं वर्णितः- अन्तरस्मिन्निमे लोका अन्तर्विश्वमिदं जगत् ।
बहिर्वन्मायया भाति दर्पणे प्रतिबिम्बवत् ॥
<DOC_END>
<DOC_START>
यादृशं बिम्बं, दर्पणे तस्य प्रतिबिम्बं भवति । कुरुपस्य मुखं दर्पणे कुरुपम् एव भवति । सुन्दरं मुखं सुन्दरम्
एव भवति । स्वयं पदार्थस्य यः स्वभावः स एव प्रतिबिम्बितो भवति इति अस्य न्यायस्य अर्थः ।
<DOC_END>
<DOC_START>
पात्रे वर्तमानस्य पदार्थस्य पाकसमये सम्यक् मिश्रणाय दर्वीनामक चमसविशेषस्य विनियोगः क्रियते
। कियन्तम् अपि कालं यावत् पात्रे स्थिता दर्वी पात्रगतानां पदार्थानां मिश्रणाय उपयुक्ता भवति चेदपि
तेषां पदार्थानां रसास्वादं कर्तु न शक्नोति ।
एवं मन्दबुद्धेः सविधे बहवः ग्रन्थाः भवन्ति चेदपि, सः सर्वान् पठति चेदपि तेषां ग्रन्थानाम्
आकलनं कर्तुं न शक्नोति । एवं ग्रहणशक्तेः अभावे केवलात् सान्निध्यात् रसग्रहणं न भवतीति अनेन
<DOC_END>
<DOC_START>
दश मन्दमतयः एकदा एकं ग्रामं प्रति प्रस्थिताः । मार्गे एकः सर्वेषां गणनां कर्तुम् उद्युक्तः जातः । सः
अन्येषां गणनां कृत्वा आत्मान् अगणयित्वा च वयं नव एव आगताः एकः कुत्रचित् भ्रष्टः इति आक्रोशं
कृतवान् । तत् शृत्वा एकैकशः ते सर्वे अपि गणनां तथैव कृत्वा नवसंख्याम् एव प्राप्य दुः खेन आक्रोशम्
आरब्धवन्तः । तदा एकः पथिकः तत्र आगत्य समस्यां च ज्ञात्वा तेषां गणनां कृतवान् । सः तावत्
दशसंख्यां प्राप्तवान् । एकेन यदा पृष्टं सा कथं प्राप्ता इति तदा तेन भणितं ‘त्वम् अन्ते आत्मानम् अपि
एवं खलु जगति अविवेकी आत्मान्वेषणे रतः सर्वत्र अन्विषति ‘अहम्’ इति भासमानम् आन्तरम्
आत्मानं न गणयति । योग्यस्य आचार्यस्य उपदेशेन च सः आत्मनः यथार्थं रुपं जानातीति अस्य भावः ।
<DOC_END>
<DOC_START>
ज्येष्ठशुद्धदशमीदिने दशहरानामकम् उत्सवं परिपालयतां दश पापानि नष्टानि भवन्ति । एवम् एकेन
कर्मणा अनेकफलानां लाभः भवतीति अनेन सूच्यते ।
<DOC_END>
<DOC_START>
यथा दशरुप्यकाणां व्ययः कर्तुं शाक्यश्चेत् इतोऽपि एकरुप्यकस्य व्यय इति कठिनकार्य नास्ति ।
दशरुप्यकाणां व्यये एकादशतमस्य रुपकस्य व्ययः शक्यः इति अस्य अर्थः ।
<DOC_END>
<DOC_START>
शंबरनामकः कश्चन राक्षसः स्वमायया दाम- व्याल –कटनामकानां त्रयाणां राक्षसानां निर्माणम्
अकरोत् । ते त्रयः अपि केवलमुष्ठिघातेन मेरुपर्वतम् अपि चूर्णीकर्तुं समर्थाः आसन् । परन्तु स्वशक्तेः
अज्ञानेन ते मशकरुपेण नीचयोनौ जाताः । अस्यायमर्थः यत् केचन जनाः दैवेन उत्तमजन्म प्राप्य
कालक्रमेण अधोगतिं प्राप्नुवन्ति इति । योगवासिष्ठस्य् चतुर्थप्रकरणे आगताम् एतां कथां व्याख्याकारः
भीमभासदृद्वन्यायो नित्यमस्तु तवानघ ॥ (४-३४-३६)
<DOC_END>
<DOC_START>
दारुनिर्मितां पुरुषाकृतिम् अवलोक्यः यथार्थमेव कश्चन पुरुषः पुरतः तिष्ठतीति भासते । एवं भ्रमं
<DOC_END>
<DOC_START>
चन्द्रस्य प्रकाशः रात्रौ एव प्रसन्नः भवति । दिवा सः कान्तिहीनः भवति सूर्यप्रकाशे । एवं श्रेष्ठस्य
पुरुषस्य पुरतः अल्पवीर्यस्य प्रकाशः न भवतीति अनेन सूच्यते ।
<DOC_END>
<DOC_START>
दिवान्धः नाम उलूकः । सः दिवा द्रष्टुं न शक्नोति । सर्वैः आदरेण स्वीकृतः सूर्यप्रकाशः उलूकेन
तिरस्कृतः भवति । एवं स्वस्य असामर्थ्यकारणेन कोऽपि उत्तमगुणम् अपि तिरस्करोति चेत् तादृशप्रसङ्गे
<DOC_END>
<DOC_START>
कलिका नाम कलिकासदृशी दीपशिखा । कलिका इव भवति चेदपि दीपशिखा स्वप्रकाशं दूरे अपि
प्रसारयति एवं वयसा कनीयान् सन् अपि कश्चन तेजस्वी गुणैः ज्येष्ठः भूत्वा स्वयशसः प्रकाशं सर्वत्र
प्रसारयति इति अस्य न्यायस्य भावः ।
<DOC_END>
<DOC_START>
दुर्जनस्य गर्दभस्य च मध्ये महत् साम्यम् अस्ति । द्वौ अपि उत्तमं पन्थानं मलिनी कुरुतः ।
द्वौ अपि धनसंचये समर्थौ भूत्वा अपि उन्मत्तौ भवतः । वैशाखमासे द्वावपि स्वेच्छाचारिणौ भवतः ।
प्रहारान् प्राप्य अपि स्वभावं न त्यजतः । आस्मिन् अर्थे कश्चन श्लोकः विद्यते –
मलिनीकुर्वन् अर्जुनवर्त्म मन्दीभवति राधेयः ।
यदि ताडनादि लभते तथापि तच्छील एव खलः ॥
<DOC_END>
<DOC_START>
मशकः इव दुर्जनः अपि पीडां जनयति इति अस्य अर्थः ।
<DOC_END>
<DOC_START>
पर्वताः दूरता सुन्दराः दृश्यन्ते परन्तु समीपं गत्वा अधिरोहणाय प्रयत्नः कृतः चेत् काठिन्यं
ज्ञायते । एवं किमपि वस्तु दूरतः सुन्दरं भूत्वा समीपतः असुन्दरं भवति चेत् तादृशप्रसंगे अयं न्यायः
<DOC_END>
<DOC_START>
दूरतः वनस्पतिद्वयमपि एकमिव दृश्यते समीपतः दर्शने तावत् पृथक्त्वं ज्ञायते । एवं दूरतः एकं
स्वरुपं समीपतः अपरं स्वरुपं भवति इति अनेन सूच्यते ।
<DOC_END>
<DOC_START>
दूर्वा इति तृणविशेषः तस्य मूलं भूखण्डस्य अन्तः व्याप्य तिष्ठति बहिः न दृश्यते । वृष्टिः यदा
भवति तदा भूमौ वर्तमानं तत् मूलं सहसा प्ररोहति । एवं बहिः अदृश्यमानाः गुणाः प्रेरणं प्राप्य उद्बुद्धाः
भूत्वा प्रकाशन्ते इति अस्य भावः ।
<DOC_END>
<DOC_START>
प्रजापतिः बह्मा इदं जगत् असृजत् । प्रजापतेः रात्रिसमये इदं जगत् अव्याकृते अज्ञाने लीयते
। प्रजापतेः दिवससमये तत् पुनः आविर्भवति । एवं अस्माकम् अज्ञानेन कल्पितं जगत् सुषुप्तौ अज्ञाने
लीयते व्युत्थाने च आविर्भवति इति दृष्टिसृष्टिवादस्य भावः अनेन बोध्यते । यथा –
एवं दृष्टिसृष्टिन्यायेन अस्मत्कल्पितोऽयं वियदादिप्रपञ्चः । अस्मत्सुषुप्तौ लीयते
अस्मत्प्रबोधे च यथापूर्वं प्रादुर्भवति । (सा. ९१८)
<DOC_END>
<DOC_START>
श्रुतिवाक्यानि मूर्तिबोधकानि उपासनापराणि इति केषाञ्चन विदुषां मतम् । वस्तुतः मूर्तिरुपं विग्रहरुपं
वा केवलम् आरोपितम् एव । आरोपितस्य अपि तस्य उपासना फलं साधयितुं क्षमते । अतः ईश्वरस्य
मूलविग्रहकल्पना तर्कशुद्धा नास्ति इति केनचिदुच्यते तर्हि उत्तरम् एवम् अस्ति यत् कानिचन
श्रुतिवाक्यानि उपासनापराणि भवन्ति चेदपि अविरोधे देवताधिकरणन्यायेन अर्थसिद्धिः भवति इति अनेन
<DOC_END>
<DOC_START>
एकस्मिन् ग्रामे देवदत्तनामकः कश्चन स्थिरवासं करोति स्म । तं सर्वे शूर इति कथयन्ति स्म । परन्तु
तस्य एतादृशं यशः ग्रामे मर्यादितं भूत्वा ग्रामान्तरे केनापि ज्ञातमेव न आसीत् । परन्तु मर्यादितं चेदपि
यशः तावत् यश एव । एवं मर्यादिताः सन्तः अपि गुणाः सर्वदा स्वं माहात्म्यं न त्यजन्तीति अस्य अर्थः ।
<DOC_END>
<DOC_START>
देवदत्तः केनापि हतः । किञ्चित्कालानन्तरं देवदत्तस्य हन्ता पुरुषः अन्येन हतः । देवदत्तस्य
हन्तरि हते अपि देवदत्तः पुनर्जीवति किम् ?
यथा – नहि अन्यस्य अन्यसिद्धत्वाद् अन्यस्य प्रादुर्भावो भवति । न हि देवदत्तस्य हन्तरि हते
देवदत्तस्य प्रादुर्भावो भवति । पतञ्जलिमहाभाष्ये १-१-५७
<DOC_END>
<DOC_START>
अयं देवदत्तस्य पुत्रः इति केनचिदुक्ते देवदत्तस्य पत्न्याः अपि पुत्र इति स्पष्टमेव खलु ।
मातापित्रोः स अपत्यम् इति कारणेन उभयोः अपि निर्देशः योग्यः ।
<DOC_END>
<DOC_START>
प्राचीनकाले पत्युः मरणेनः पत्नी अपत्यरहिता भवति चेत् पत्युः सोदरात् अर्थात् स्वदेवरात् अपि
प्राप्तुं सा अनुमन्यते स्म । एवं कथञ्चिदपि स्वफलसिद्धिः इष्यते इति अस्य न्यायस्य भावः ।
<DOC_END>
<DOC_START>
उपादानस्य उपादेयस्य च अत्यन्तं सादृश्यं भवति इति नियमो नास्ति । गोमयात् वृश्चिकाः
उत्पद्यन्ते इति प्रतीतिः । देहात् केशाः उत्पद्यन्ते । एवम् उपादाने भिन्ने अपि कार्ये भिन्नविधं भवितुम्
<DOC_END>
<DOC_START>
देहल्यां स्थापितः दीपः उभयोः पार्श्वयोः अपि प्रकाशकारणं भवति । एवं केषुचिद् वाक्येषु एक
एव धर्मः एका क्रिया वा संपूर्ण वाक्यं प्रकाशयति ।
यथा –कृपणानां धनं, सर्पफणस्थितं मणिं, सिंहस्य सटां, कुलीनस्त्रियः स्तनञ्च कः स्प्रष्टुं
अत्र स्पर्शस्य दुष्करत्वं सर्वत्र व्याप्नोति । अतः देहलीदीपन्यायः अत्र प्रवर्तते । अयमेव
<DOC_END>
<DOC_START>
यति वातादिव्याधिग्रस्तः पृष्ठनमनकारणेन अधोमुखो भवति परं रोगोपशामनेन पुनश्च स्वस्थो
भवति तथा कोऽपि विकारः कारणावस्थितिं यावत् भवति, कारणनाशेचनश्यति इति भावः । तुल्यः-
<DOC_END>
<DOC_START>
द्राविडादेशस्थाः प्राणायामकरणसमये सरलरीत्या नासिकां न स्पृशन्ति किन्तु शिरसः पृष्ठतः हस्तं
प्रसार्य अपरपार्श्वतः नासिकां स्पृशन्ति इति प्रवादः । एवं सरलमार्गे स्थिते कठिनमार्गस्य अवलम्बनं
सूचयितुम् अस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
एकमेव कर्म पुनः पुनः कर्तुं शक्यते इत्यस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति । दैवपद्धत्या कृष्णः
कौरवाणां पराभवं कृतवान् अनन्तरं युद्धे अर्जुनः अपि निमित्तीभूय पराजयं कृतवान् ।
यथाः नित्यबोधमहिम्ना बाधितेऽपि द्वैते वाक्यबोधस्य
धनञ्जयन्यायेन बाधकत्वोपपत्तेः । यथाहुः –
नित्यबोधपरिपीडितं जगत् विभ्रमं नुदति वाक्यजा मतिः ।
वासुदेवनिहतं धनञ्जयो हन्ति कौरवकुलं यथा पुनः ॥
<DOC_END>
<DOC_START>
पलालो नाम तुषः । तुषनिष्कासनात् अनन्तरमेव धान्यम् उपयुज्यते । तथैव ग्रन्थानाम् अध्ययने
अनावश्यकभागान् परित्यज्य केवलम् उपयोगिनां ग्रहणं कर्तव्यम् । विवेकेन सारग्रहणं कर्तव्यम् इति
यथा १ शास्त्राण्यधीत्य मेधावी ह्यभ्यस्य च पुनः पुनः ।
परमं ब्रह्म विज्ञाय ह्युल्कावत् तान्यथोत्सृजेत् ॥
२ ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।
पलालमिव धान्यार्थी त्यजेद् ग्रन्थमशेषतः ॥ ब्रह्मबिन्दूपनिषद् १४
<DOC_END>
<DOC_START>
बुद्धिर्नाम निश्चयात्मिका अन्तः करणस्य वृत्तिः । सा प्रवाहरुपा भवति । बुद्धेः
वृत्तयः एकस्याः पश्चात् अपरा इति क्रमेण उत्पन्नाः भवन्ति । काश्चन तासु नष्टाः भवन्ति
काश्चन च पुनरुत्पन्नाः । एवं धारारुपेण वहन्ती बुद्धिः धारावाहिकबुद्धिः इति व्यवहारः । अयमेव
<DOC_END>
<DOC_START>
यत्र यत्र धूमः तत्र तत्र वहिनरिति धूमस्य अग्नेश्च संबन्धः नियतरुपेण भवति ।अयमेव साहचर्यनियमः
तर्कशास्त्रे व्याप्तिरिति कथ्यते । धूमस्य दर्शनेन अग्नेः अस्तित्वस्यापि ज्ञानं भवति । यद्यपि अग्निः
तत्र प्रत्यक्षः नास्ति तथापि धूमात् अग्नेः ज्ञानं भवति । न्यायशास्त्रे धूमः अग्नेः हेतुः, बोधकः, गमकः,
धूमाग्नौ इव यौ द्वावपि नियतरुपेण एकत्र भवतः तयोर्विषये अस्य न्यायस्य प्रयोगो भवति ।
पश्यन्तुः नियतसाहचर्यं व्याप्तिः । तर्कसंग्रह- अनुमानखण्डे
<DOC_END>
<DOC_START>
धेनुः इत्यस्य शब्दस्य सामान्यतः तावत् गौः इत्येव अर्थः । परन्तु अश्वधेनुः इति शब्दे
किशोरशब्दस्य योजनेन अश्वा इति अर्थो भवति । अर्थपरिवर्तनस्य कारणमत्र अश्वशब्द्प्रयोगः ।
न्यायोऽयं केषाञ्चन एतादृशानां समासानाम् प्रयोगं सूचयति ।
<DOC_END>
<DOC_START>
स्वस्थाने वर्तमानः मनुष्यः अतीव सुरक्षितो भवति । स एव यदा स्थानभ्रष्टो भवति तर्हि
पराभूतो भवति । यथा जले वर्तमानः नक्रः अतीव बलवान् भवति चेदपि यदा जलाद् बहिः गच्छति
तदा तस्य शक्तिः क्षीणा भवति । नक्रः जले भवति चेत् गजमपि मारयितुं शक्तो भवति स्थले तावत् तं
यथा – नक्रः स्वस्थानमारुह्य गजेन्द्रमपि कर्षति ।
स एव प्रच्युतः स्थानात् शुनाऽपि परिभूयते ॥ पञ्चतन्त्रे ३-४४
<DOC_END>
<DOC_START>
नटानां स्त्रियः रङ्गमञ्चं गताः कस्य त्वम् इति पृष्टे सति तवएव अहम् एव तव अहम् इति समादधति ।
अजादेर्द्वितीयस्य इति पाणिनीयसूत्रस्य भाष्ये पतञ्जलिमहर्षिणा (६-१-२३)प्रयुक्तः अयं न्यायः ।
यथा – यथा नटानां स्त्रियो रङ्गगता यो यः पृच्छति कस्य यूयं कस्य यूयमिति तं तं तव इत्याहुः । एवं
व्यञ्जनान्यपि यस्य यस्याचः कार्यमुच्यते तं तं भजन्ते ॥ (सा. ३७०)
<DOC_END>
<DOC_START>
यथा नदी स्वं नामरुपादिकं विहाय समुद्रे लीयते तथा जीवाः सर्वे स्वं नामरुपादिकं विहाय
परब्रह्मणि लीयन्ते । यथा –
यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरुपे विहाय । तथा विद्वान् नामरुपाद् विमुक्तः
अस्यैव न्यायस्य भिन्नार्थः अपि विद्यते । नदीसमुद्रौ जललवणे, वृक्षरसौ च परस्परभिन्नाः
पदार्थाः । तथैव जीवः ईश्वरश्च भिन्नौ इति पूर्णप्रज्ञदर्शने द्वैताचार्याणां माध्वाचार्याणां मतम् ।
अद्वैते अभेद एव स्वीक्रियते । एतमेव अर्थं बोधयन्तः अपरे न्यायाः यथाः
शकुनिसूत्रन्यायः, शुद्धोदलवणन्यायः, चौरापहार्यन्यायः, पुंविषयन्यायः, नानावृक्षरसन्यायः
<DOC_END>
<DOC_START>
नद्याः जलं वेगेन वहत् अन्ते समुद्रे लीयते । तथैव सर्वे पदार्थाः चिदानन्दे परमात्मनि मिलन्ति इति अस्य
यथा नदीनां बहवौऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्य भिविज्वलन्ति ॥ (११-२८)
नदीनां जलप्रवाहाः यथा समुद्रम् अभिविशन्ति तथा मनुष्यलोकस्य सर्वेऽपि
एते वीराः तव प्रज्वलितमुखेषु ज्वलन्ति ।
(लोकमान्यतिलक – गीतारहस्ये पृ.७१९) सा. ३७०
<DOC_END>
<DOC_START>
नरसिंहावतारे नरस्य सिंहस्य च संयुक्तं रुपं दृश्यते । तथैव एकस्मिन् मनुष्ये मनुष्यत्वं, सिंहस्य
इव क्रूरत्वादिकं च भवति चेत् नरसिंहन्यायस्य प्रयोगो भवति ।
अलङ्कारशास्त्रे संकरालङ्कारस्य विवेचनसमये अस्य न्यायस्य क्षीरन्यायस्य च प्रयोगः क्रियते । यथा
चित्रवर्णवदन्यस्मिन् नानालङ्कारसङ्करे ॥ सरस्वतीकण्ठाभरणे पृष्ठं २७२
<DOC_END>
<DOC_START>
एकदा द्वयोः जनयोः पृथग् रुपेण प्रवासः आरब्धः । द्वयोः अपि पृथक् रथौ आस्ताम् । प्रवाससमये
एकस्य ग्रामस्य समीपे अग्निस्फोटः जातः । तत्र एकस्य रथः दग्धः अपरस्यच अश्वाः मृताः । यस्य रथः
दग्धः तस्य अश्वाः सुरक्षिताः आसन् । यस्य अश्वाश्च मृताः तस्य रथश्च सुरक्षितः आसीत् । द्वयोः
गम्यस्थलम् एकमेव आसीत् इति कारणेन परस्परं रथस्य अश्वानां च योजनेन द्वावपि स्वं प्रवास अग्रे
नीतवन्तौ इति काचित् कथा पतञ्जलिमहाभाष्ये दत्ता अस्ति ।
एवं स्वकार्यसिद्ध्यर्थम् एकत्र आगमनं तथा स्वसमीपे वर्तमानानां वस्तूनाम् अन्येषाम्
उपयोगार्थं विनियोगः एवञ्च परस्परं योग्यविनियोजनेन एककार्यसिद्धिः अति अनेन न्यायेन बोध्यते ।
1. संप्रयोगो वा नष्टाश्वरथदग्धवत् । तद्यथा नष्टाश्वदग्धरथवत् संप्रयोगो भवति । तद्यथा
तवाश्वो नष्टो ममापि रथो दग्ध इव उभौ संप्रयुज्यावहे ।
(पतञ्जलिमहाभाष्ये स्थानेऽन्तरतमः इति सूत्रगते १-१-५०)
2. नष्टाश्वदग्धरथन्यायेन कर्मणा पितृलोक इति श्रुतेः ।
<DOC_END>
<DOC_START>
अन्येषां प्रवर्तिका क्रिया सर्वत्र एकविधा न भवतीति अस्य भावः । सैनिकः साक्षात्
खड्गप्रयोगेण युद्धे प्रवर्तते । सेनापतिस्तु केवलं आदेशैः युद्धे प्रवर्तते । तथैव राजा केवलसन्निधिना
सर्वान् स्व कार्ये प्रवर्तयति । यथा –
न च सर्वत्र तुल्यत्वं स्यात् प्रयोजनकर्मणाम् ।
चलनेन ह्यसिं योद्धा प्रयुङ्क्ते छेदनं प्रति ॥
सेनापतिस्तु वाचैव भृत्यानां विनियोजकः ।
राजा सन्निधिमात्रेण विनियुङ्क्ते कदाचन ॥ श्लोकवार्तिकम् ८६,८७
<DOC_END>
<DOC_START>
वृषभस्य निग्रहणार्थं तस्य नासिकाच्छेदतः रज्जुं तन्तुं वा प्रसार्य रज्जुकर्षणेन तं वृषभं
निगृहणन्ति । एवं लोके सर्वाः प्रजाः वेदरुपिण्या रज्ज्वा बद्धाः । विधिनिषेधात्मकः सर्वोऽपि वेदः प्रजाः
हिते नियोजयितुं वर्णाश्रमादिनियमान् करोति । तैः नियमैः प्रजानां निग्रहणं करोति इति भावः ।
यथा – यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभिः ।
वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितुः । भागवते १२-४१ (सा. ५९२)
यथा वृषभाः नासिकायां तन्त्या प्रोताः दामभिश्च बद्धा भूत्वा स्वामिकार्यं संपादयन्ति तथा
जीवाः वाक्तन्त्यां नामभिः बद्धाः भूत्वा ईश्वरस्य पूजां विदधति ।
<DOC_END>
<DOC_START>
यथा उष्ट्रस्य रक्षणं कृत्वा सर्पः (नागः) मारितः तथा वेदे परिदृश्यमानानि निषेधवाक्यानि
आत्मनो बाधाबाधित्वं प्रदर्श्य आत्मनो रक्षणं विदधति अनात्मानं च बाधन्ते इति अस्य भावः ।
<DOC_END>
<DOC_START>
अनेकेषां वृक्षाणां रसाः अनेकविधा भवन्ति । सर्वेषामपि एक विध एव रसो न भवति तथा जगति
अस्मिन सर्वे जीवाः परस्परम् ईश्वरात् च विलक्षणा एव भवन्ति इति द्वैतवेदान्तिनां मतम् । एवं
द्वैतवेदान्ते नानावृक्षरसन्यायेन जीवानां परस्परम् ईश्वरात् च वैलक्षण्यं प्रदर्श्यते ।
यथा पक्षी च सूत्रं च नानावृक्षरसा यथा ।
यथा नद्यः समुद्राश्च शुद्धोदलवणे यथा ॥
चोरापहार्यौच यथा यथा पुंविषया अपि ।
तथा जीवेश्वरौ भिन्नौ सर्वदैव विलक्षणौ ॥ सर्वदर्शनसंग्रहे पूर्णप्रज्ञदर्शने तुल्यन्यायाः
शकुनिसूत्रन्यायः, नदीसमुद्रन्यायः, शुदधोदलवणन्यायः, चौरापहार्यन्यायः ।
<DOC_END>
<DOC_START>
नान्तरीयकं नाम अवश्यंभावि । एकस्य शब्दस्य अनेकार्थाः भवितुम् अर्हन्ति तेभ्यः
प्रकरणानुसारं कश्चन अर्थः गृहयते । नान्तरीयकस्य एव ग्रहणं कर्तव्यम् इति अस्य भावः । ओदनस्य
कृते धान्यम् आनीयते परन्तु धान्यगतं पललं निष्कास्य केवलं धान्यम् ओदनाय उपयुज्यते । एवम्
अनावश्यकस्य परित्यागेन इष्टप्राप्तिः क्रियते इति अनेन बोध्यते ।
यथा – स्वरितात् संहितार्थामनुदात्तानाम् -१-२-३९ महाभाष्ये
<DOC_END>
<DOC_START>
एकदा नारिकेलवृक्षस्य उपरि स्थितं वत्सम् एकं पृष्टवान् – त्वं किमर्थं नारिकेलवृक्षम् अधिरुढः
इति । तत् श्रुत्वा वत्सेन समाधानं दत्तं –तृणभक्षणार्थम् अहं नारिकेलवृक्षम् अधिरुढः इति । एवम्
अशक्यघटनानां वर्णने अस्य न्यायस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
लोकेबहवः गूढविषयाः सन्ति यथा नारिकेलफलस्य बहिः कठिना त्वक् भवति परम् अन्तः अत्यन्तं
मधुरं जलं भवति । अयम् एकः गूढविषयः । एवं एकस्मात् ब्रह्मणः विविधस्य जगतः निर्माणं कथम् अभवत्
इति गूढविषयः । तथैव लक्ष्मीः (ऎश्वर्यं) कथं कदा च आगच्छति । कियन्ति दिनानि यावत् स्थिरा भवति
इति च गूढविषयः । एतादृशानां गूढविषयाणां कृते अस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
नौका न भवति चेत् नाविकेन किं प्रयोजनम् नौकायां सत्यामपि नाविकः न भवति चेत् तया किं
प्रयोजनम् तयोः द्वयोरपि आवश्यकता विद्यते खलु । इष्टफलप्राप्तिः द्वयोः संमेलनेन भवति एकेन च
न भवतीति अयं न्यायः सूचयति ।
<DOC_END>
<DOC_START>
नासिकाग्रेण अस्माकम् एव कर्णमूलस्य कर्षणम् इति भावः । अशक्यम् एतम् कर्म् एवम्
अशक्यानां बोधनाय अस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
निम्नगा नाम नदी । एकदा एकः कीटः नदीप्रवाहेण नीयमानः आसीत् । एकस्मात् आवर्तात् सः
कथाञ्चित् रक्षितः अपि दुर्दैवेन अपस्मिन् आवर्ते पतित्वा प्राणान् त्यक्तवान् । एवं जीवेनाऽपि एकं
जन्म कथञ्चित् नीयते चेदपि अपरं जन्म योग्यरीत्या नेयं भवति । अन्यथा जन्म व्यर्थं स्यात् ।
यथा –कुर्वते कर्म भोगाय कर्म कर्तुञ्च भुञ्जते ।
नद्यां कीटा इवावर्तात् आवर्तान्तरमाशु ते ॥
व्रजन्तो जन्मनो जन्म लभते नैव निर्वृतिम् ।
प्राप्य तीरतरुच्छायां विश्राम्यन्ति यथासुखम् ॥ (लौकिकन्यायसाहस्रीतः)
<DOC_END>
<DOC_START>
निर्धनानां धनाभावेऽपि मनोरथाः (कामनाः) बहुविधा भवन्ति इति अस्य भावः । ते मनोरथाः
विफलाश्च भवन्ति खलु । एवं विफलानां विषये अस्य न्यायस्य प्रयोगो भवति ।
उन्नम्योन्नम्य तत्रैव निर्धनानां मनोरथाः ।
हृदयेष्वेव लीयन्ते विधवास्त्रीस्तनाविव ॥ (लौकिकन्यायसाहस्त्रीतः सा.८०५)
<DOC_END>
<DOC_START>
अम्बष्ठो नाम नापितः । निर्व्यापारः अम्बष्ठः किं करोति स्वसमीपे वर्तमानस्य शस्त्रस्य
कुत्रचित् प्रयोगं कृत्वा पश्यति । पुरतः मार्जालः प्राप्तः चेत् तस्यैव पूर्णं मुण्डनं कृत्वा त्यजति । एवं
निर्व्यापारस्य साधनानि यथेष्ठं विनियुज्यन्ते इति भावः ।
<DOC_END>
<DOC_START>
पङ्कं प्रविश्य तदनन्तरं पादप्रक्षालनस्य अपेक्षया पङ्के अप्रवेशः योग्यः खलु । एवं कस्यचन
अनिष्टस्य कालान्तरनिवारणस्य अपेक्षया अनिष्टस्य अनारम्भ एव श्रेयान् खलु । एवम अनिष्टस्य
यथा १) प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् । म. भा. शान्तिपर्वणि २-४९
<DOC_END>
<DOC_START>
अयं वर्गः नकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः पकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
फलबाहुल्येन आम्रवृक्षः अवनतो भवति । तस्य वृक्षस्य घनच्छायायां बहवो जनाः विश्रान्ताः
भवन्ति । एवं प्रवासिजनेभ्यः छायया सह मधुरफलानि सुगन्धं च ददाति अयं वृक्षः । एवं यदा कस्याश्चिद्
इच्छायाः पूर्त्यै इष्टदेवतायाः उपासना क्रियते चेत् तस्याः कृपया कामनापूर्त्या सह जन्यानि फलानि
यथा आपस्तम्बसूत्रम् – तद्यथा आम्रे फलार्थे निर्मिते ।
छायागन्धे अनूत्पद्येते । एवं धर्मे चर्यमाणे अर्थाद्याः अनूत्पद्यन्ते ।
<DOC_END>
<DOC_START>
अयं वर्गः बकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
एवमेव स्वस्वकर्मणि समर्थौ यदि एकत्र समागत्य एकस्य कार्यस्य सिद्ध्यर्थं प्रयत्नं कुर्यातां
तर्हि लक्ष्यम् अवश्यं प्राप्नुयाताम् इति अनेन न्यायेन बोध्यते ।
यथा –पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ (सांख्यकारिका-२१)
<DOC_END>
<DOC_START>
एकस्मिन् पञ्जरे वर्तमानाः पक्षिणः पृथग्रूपेणा यत्नम् एकैकशः कृत्वा अपि तं पञ्जरम्
उत्थापयितुं न शक्नुवन्ति । परन्तु ते सर्वे मिलित्वा यदि प्रयत्नं कुर्युः तदा तं पञ्जरम् उत्थापयितुं
शक्नुयुः । एवं शरीरे वर्तमानाः प्राणाः संभूय शरीरं धारयन्ति इति अनेन बोध्यते ।
यथा- यथैकपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः संभूयैकं पञ्जरं
चालयन्ति एवम् एकं शरीरवर्तिनः एकादशप्राणाः प्रत्येकं प्रतिनियतवृत्तयः सन्तः संभूय एकां
प्राणाख्यां वृत्तिं प्रतिजप्स्यन्त इति ।
<DOC_END>
<DOC_START>
पञ्जरात् मुक्तः पक्षी स्वतन्त्रः भूत्वा आकाशे उड्डयते । एवं देहात् मुक्तः जीवः सदैव उपरि
गच्छति अन्ते च मोक्षं प्राप्नोति इति दिगम्बरजैनेषु केचन मन्यन्ते । शरीरस्य ऊर्ध्वगमनम्
यथा – बन्धमुक्तस्य ऊर्ध्वगमनम् दश्ष्टं यथा पञ्जरमुक्तशुकस्य यथा वा वारिनिर्भिन्नपरिणतैः
अण्डबीजस्य यथा वा दश्ढपङ्कलिप्तजलनिमज्जनप्रक्षीण- पङ्कलेप शुष्कालाबु फलस्य ।
<DOC_END>
<DOC_START>
पञ्जरे बद्धः सिंहः किमपि कर्तु न शक्नोति तथैव स्नेहतन्तुना सन्तानरज्जुना च बद्धः मनुष्यः
परवशो भूत्वा स्वतन्त्रविचारं कर्तुं न शक्नोति इति अस्य न्यायस्य भावः ।
यथा – स्नेहतन्तुमयैः पाशैः बद्धः सन्तानरज्जुभिः ।
पञ्जरस्थो यथा सिंहः समर्थोऽपि वशीकश्तः ॥ सा. ९३७
<DOC_END>
<DOC_START>
पर्याप्तः पटः अस्ति चेत् यत्र आवश्यकं तत्र पटकुटीरस्य अपि निर्माणं कर्तुं शक्यते । एवं साधनानाम्
उपलब्धिः भवति चेत् किमपि साधयितुं शक्यते इति अनेन न्यायेन बोध्यते ।
<DOC_END>
<DOC_START>
आकाशे डयमानः पतङ्गः अग्निज्वालायां स्निह्यन् प्रेम्णा तत्र प्रविश्य तत्रैव दग्धः भवति तथापि इतरे
पतङ्गाः अग्निप्रवेशं न त्यजन्ति । एवं स्वभावः सर्वत्र प्रणिनं प्रेरयति इति अनेन न्यायेन बोध्यते ।
<DOC_END>
<DOC_START>
स्वयंवरा कन्या उपस्थितेभ्यः आत्मनः अभीष्टमेव वरं पतित्वेन वश्णीते तथैव सर्वोऽपि जनः
स्वाभीष्टमेव प्रेप्सति इति अनेन न्योन बोध्यते ।
<DOC_END>
<DOC_START>
वश्क्षस्य पत्राणि फलानि च भवन्ति । कानिचन पत्राणि जीर्णानि भूत्वा पतन्ति परन्तु तेषां पतनेन
फलानां कापि हानिः न भवति एवं कस्मिन्नपि एकस्मिन् मानवे वर्तमानेन एकेन दोषेण मानवः सर्वोऽवि
दुष्ट इति नैव मन्तव्यम् इति अनेन न्यायेन बोध्यते ।
<DOC_END>
<DOC_START>
एकदा एकस्य गृहं सर्पः प्रविष्टः । सः मनुष्यः चिन्तामग्नः अभवत् यत् तस्य सर्पस्य हननेन हिंसापापं
प्राप्येत सर्पस्य मारणेनापि सः न मृतः चेत् कालान्तरे प्रतिकुर्यात् इति । एवं चिन्तयित्वा सः एकम्
उपायं कल्पितवान् । गृहाद् बहिरागत्य सः मार्गे गच्छन्तम् एमं पथिकम् अन्तः बाहूय सर्पं मारयितुम्
उक्तवान् । तस्य मनसि एवं चिन्तनम् आसीत् यत् अयं पथिकः सर्पं मारयेत् चेत् सर्पहत्यापापं स एव
प्राप्नुयात् । सर्पः न मृतः चेत् तस्य पथिकस्य विषये एव प्रतीकारबुद्धिं धारयेत् इति । सर्पः मृतः पीडा च
परिहृता । एवं सर्वोऽपि स्वयम् अधिकां हानिम् अप्राप्य कार्यं साधयितुं प्रयतते इति अस्य भावः ।
<DOC_END>
<DOC_START>
पद्मपत्रस्थितः तोयबिन्दुः यथा अलिप्तो भवति तथा अलिप्तभावेन जीवतः विषये अयं न्यायः
प्रवर्तते । तथैव अनेन न्यायेन अपरे अपि अंशाः सूचिताः भवन्ति यथा –
1. सर्वा अपि सृष्टिः नश्वरा क्षणभङ्गुरा च ।
2. यथा जलबन्दुः पद्मपत्रोपरि स्थित्वा क्षणं यावत् मौक्तिकमिव राजते जीवने तथा महतां
क्षणकालस्य सङ्गेन महत् फलमपि लभ्यते ।
3. पद्मपत्रस्य जलकणस्यच संबन्धः अस्थिरः भवति । पत्रात् पतितस्य जलबिन्दोः नामापि न
स्थिथप्रज्ञः जगति पद्पत्रस्थितजलकण इव अलिप्तो भवति ।
यथा- १) पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ।
महाजनस्य संपर्कः कस्य नोन्नतिकारकः ॥ पञ्चतन्त्रे ३-५९
२ मुक्ताकरतया तदेव नलिनीपत्रस्थितं राजते । भर्तृहरि १-५८
3) लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ भगवद्गीता ५-१० (सा. ८०७)
<DOC_END>
<DOC_START>
क्वचित् अरजस्वलायामपि गर्भोत्पत्तिः दृश्यते । क्वचित् विपरीतम् । क्वचित् रजोदर्शनं प्रकटं
भवति क्वचित् च अप्रकटम् । एवं पनसस्य पत्राणि न दृष्टानि चेदपि पनसफलानि भवन्ति । एवं सृष्टेः
विपरीतघटनाः सूचयितुम् अस्य प्रयोगो भवति । सा. ५५४
<DOC_END>
<DOC_START>
कस्यचित् कुम्भस्य अन्तः पूर्णं विषमेव भवेत् परं बहिः दुग्धं लेपितं स्यात् तर्हि पयोमुखः सः विषकुम्भः
हानिकारकः भवति खलु । एवं लोके केचन बहिः मधुरम् आलपन्तः दृश्यन्ते परम् अन्तः विषपूरितं तेषां मनः
तुल्यः – गोमुकव्याघ्रन्यायः हितोपदेशमित्रलाभे ७४
<DOC_END>
<DOC_START>
पराहणे पदार्थानां च्छाया लघ्वी भवति । परन्तु प्रातः काले मध्याह्ने वा सा दीर्घा भवति । एवमेव
सज्जनानां मैत्री आदौ लघ्वी सती उत्तरोत्तरं वर्धते । अतः सज्जनानां मैत्री दिनस्य परार्धच्छाया इव
वृद्धिमती । दुर्जनानां तावत् पूर्वार्धच्छाया इव आदौ दीर्घा क्रमेणा च हृस्वा भवति मैत्री ।
यथा-लघ्वी पुरा वृद्धिमती च पश्चात् ।
छायेव मैत्री खलु सज्जनानाम् ॥ भतृहरिनीतिशतके ४९
<DOC_END>
<DOC_START>
कस्मिंश्चित् प्रदेशे दशजनाः आसन् तत्र चत्वारः पुरुषाः इत्युक्ते परिशेषन्यायेन अपराः षट् स्त्रियः इति
स्वयं बुध्यते खलु । एवं कस्यचिद् भागस्य एकांशज्ञानेन परिशेषन्यायेन अपरांशज्ञानमपि भवति इत्यर्थे
(प्रसक्तप्रतिषेधे परिशिष्यमाणे बुद्धिः । स द्विविधः विधिमुखः निषेधमुखश्च । तत्राद्यो यथा
चैत्रमैत्रयोरयं चैत्र इत्युक्ते अन्यस्मिन् मैत्रप्रमा । द्वितीयो यथा नायं चैत्र इत्युक्ते तस्मिन्
मैत्रप्रमा । इयम् अनुमानजन्या ।.)
<DOC_END>
<DOC_START>
वृष्टिः सर्वत्र एकरीत्या एव भवति । जलम् अधिकम् अल्पं वा स्यात् वृष्टिर्भवति चेत् समानैव भवति ।
एवं सर्वत्र समानरुपेणा यस्य अन्वयो भवति तस्य विषये अयं न्यायः प्रवर्तते । यथा :
1. कृतकानि खल्वपि शास्त्रं पर्जन्यवत् ।
तद्यथा पर्जन्यो यावदनं च कूर्पां च सर्वत्र अभिवर्षति ॥
2. प्रकृत्यादिविभागकल्पनावत्सुलक्ष्येषु सामान्यविशेषरुपाणां लक्षणानां पर्जन्यवत् सकृदेव
प्रवृत्तौ बहूनां शब्दानाम् अनुशासनोपलंभाष्य सर्वदर्शनसंग्रहेपाणिनीये
3. शङ्कराचार्याणां व्याख्या एवमस्ति –वृष्टिः सर्वत्र समा भवति परन्तु उत्तमक्षेत्रे
वर्तमानानाम् बीजानां तया वृष्टया अङ्कुरोत्पत्तिर्भवति ऊषरदेशे वर्तमानानां न । ईश्वरकृपा
अपि समाना भवति तथापि उत्तमकर्मणां नीचकर्मणां कारणेन फले वैषम्यं भवति ।
- ईश्वरस्तु पर्जन्यवद् द्रष्टव्यः । यथा हि पर्जन्यो ब्रीहियवादिसृष्टौ साधारणकारणं
भवति । ब्रीहियवादिवैषम्ये तु तत्तद्बीजगतानि एव असाधारणानि समर्थानि कारणानि
भवन्ति । एवम् ईश्वरो देवमनुष्यादिसृष्टौ साधारणं कारणं भवति । देवमनुष्यादिवैषम्ये
तु तत्तज्जीवगतानि एव असाधारणानि कर्माणि कारणानि भवन्ति । (शाङ्करभाष्ये –
ब्रह्मसूत्र २-१-३४ पर्जन्यवत् लक्षणप्रवृत्तिः – परिभाषेन्दुशेखर -१२०)
<DOC_END>
<DOC_START>
यज्ञे विनियुज्यमाने सामग्रीविशेषे जुहूनामकः चमसविशेषः पर्णमयः नाम पलाशमयः (पलाशदण्डस्य
द्रष्टव्यं – ब्रह्मसूत्रशाङ्करभाष्य – भामतीटीकायां ३-३-६
<DOC_END>
<DOC_START>
उपत्यकाऽद्रेरासन्ना भूमिरुर्ध्वमधित्यका इति अमरकोषानुसारम् अधित्यकाशब्देनैव
पर्वतोर्ध्वभूमिः इति ज्ञायते । पर्वतशब्दस्य तथा आवश्यकता नास्ति । क्वचित् पुनरुक्तेरपि प्रयोजनं
भवति । तुल्यौ – करकङ्णन्यायः, गजघटान्यायः
पर्वतोपत्यका नाम पर्वतसमीपवर्तिनी भूमिः । एवमेव पर्वतोपत्यकान्यायोऽपि निष्पन्नः ।
<DOC_END>
<DOC_START>
वायोः ताडनं यथा अशक्यं निष्प्रयोजनं च कर्म तथा व्यर्थं कर्म बोधयितुम् अस्य न्यायस्य प्रयोगो
<DOC_END>
<DOC_START>
चौर्यं कृत्वा चोरे पलाय्य् गते सति सुरक्षकस्य नियुक्तिः कस्मै प्रयोजनाय सुरक्षादृष्ट्या सुरक्षकस्य
नियुक्तिः पूर्वमेव कर्तव्या भवति । एवं गतजले सेतुबन्धनमिव एतत् व्यर्थं भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः धकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
केचन जनाः कार्यकरणसमये अदृश्या भवन्ति परन्तु भोजनकाले एव धावित्वा आगच्छन्ति । एते
पात्रेसमिताः कथ्यन्ते । एवं ये कार्यकारिणो न भवन्ति फलं प्राप्तुम्च् इच्छन्ति तेषां विषये अस्य
(व्याकरणशास्त्रानुसारं पात्रेसमिताः इति कश्चन निपातः । पात्रेसमितादयश्च इति सूत्रेण (२-
१-४८) क्षेपार्थे पात्रेसमितादिशब्दाः निपाताः भवन्ति । भोजनसमये एव संगताः न तु कार्ये इति
वैयाकरणसिद्धान्तकौमुद्यां अस्य विवरणं दृश्यते – समासप्रकरणॆ तत्पुरुषसमासे ।)
<DOC_END>
<DOC_START>
पादप्रसारणस्य कृते पर्याप्तम् एवं स्थालं दीयते चेदपि धूर्तः शयनं कर्तुम् आवश्यकं स्थानं
स्वयम् आक्रम्य तिष्ठति । एवं धूर्तजनस्य व्यवहारं सूचयितुम् अस्य प्रयोगो भवति ।
अस्य न्यायस्य अपरः प्रयोगो भवति । कियदपि अयशः प्राप्तं चेदपि कश्चन स्वध्येयम् अवि
स्मृत्य प्रयत्नरतो भवति । केचन प्रयत्नम् अकृत्वा पादप्रसारिकान्यायेन स्वपन्ति ।
यथा- १. एतत्सर्वमनालोच्य कृत्वा पादप्रसारिकाम् ।
विवेकचक्षुः संमील्य स्वपन्ति ननु जन्तवः ॥
स्थितोऽहं मौनमालंब्य कृत्वा पादप्रसारिकाम् ॥
न्यायमञ्जरी पृष्ठे ११३, १२१, ५०४, ३. खण्डनखण्डाखाद्यम् पृष्ठे ३१.
<DOC_END>
<DOC_START>
एतस्य न्यायस्य विशिष्टेषु प्रसंगेषु प्रयोगो भवति यथा –
1. सभासदेषु अर्थात् पारिषदेषु एकः कश्चन अनुपस्थितः चेदपि तस्य अनुमतिः अस्तीति भाव्यते ।
2. सभायाम् एकेन पारिषदेन किमपि प्रतिपादितं चेदपि तत् सर्वेषां पारिषदानां मतमिति भाव्यते ।
<DOC_END>
<DOC_START>
पाषाणखण्डो वा इष्टका वा भवतु द्वे अपि कठिने एव भवतः । परन्तु द्वयोः तुलना कर्तव्या चेत्
पाषाणखण्ड एव अधिकं कठिनः (कठिनतरः) इति भव्यते । एवं विशिष्टप्रसङ्गे तुल्ययोः द्वयोर्मध्ये
पुनश्च भेदः दर्शनीयश्चेत् अस्य न्यायस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
धनिकस्य वञ्चनां कृतवती । एवं धूर्तानां विषये अस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
यदि कश्चन अन्नपिण्डं परित्याज्य यत्र किञ्चन अन्नं लग्नं स्यात् तादृशं हस्तमेव लेढि
(हस्तस्य लेहनं करोति) चेत् कियत् व्यर्थं हास्यास्पदं च स्यात् । एवमेव मनुष्यः महान्तम् आनन्दं हित्वा
क्षुद्रम् आनन्दं प्राप्य आत्मनि समहितो भवति चेत् जीवनमेव व्यर्थं भवेदिति भावः ।
<DOC_END>
<DOC_START>
एकः एव मनुष्यः एकदैव कस्यचित् पिता भवति कस्यचित् च पुत्रः । एवं जीवने एकदैव
भूमिकाद्वयस्य पालनम् अनेन बोध्यते । तस्मिन्निति विर्दिष्टे पूर्वस्य इति पाणिनीयसूत्रस्य (१-१-६६)
महाभाष्ये अस्य न्यायस्य प्रयोगः कृतः । (सा. ६०७)
<DOC_END>
<DOC_START>
स्तनन्धयस्य निष्कपटस्य पित्रा अनुकरणं नाम स्तनन्धय इव निष्कपटारीत्या वर्तनमिति । तथा
ब्रह्मज्ञानी अस्मिन् जगति निष्कपटरीत्या जीवन् सर्वेषां मनो हरति ।
यथा –कृतकृत्यस्य तत्त्वविदः अतत्त्वविद् – उद्धारातिरिक्तकर्तव्यभावात् यथा तदुद्धारः स्यात्
। तैर्निन्द्यमानोऽपि देहस्य निन्द्यत्वमात्मनोऽवाङ्मानस गम्यत्वं जानन् न उद्विजेत् । किन्तु
प्रस्तुततच्चेष्टानुसारेण स्वयमप्याचरेत् ॥ (सा. २०७)
<DOC_END>
<DOC_START>
पिपीलिकया साक्षादेव वृक्षोपरि वर्तमानानां फलानाम् आस्वादः प्राप्तुम् अशक्यः । महता प्रयत्नेन फलं
कथितं कर्माचरणादिकम् अनुसृत्य स्वस्य अन्तः करणं शुद्धं कृत्वा क्रमेण ब्रह्मानन्दम् अवाप्तु शक्नोति
। एवं पिपीलिकागत्या महत् कार्यमपि क्रमेण साध्यत इति अनेन न्यायेन बोध्यते
<DOC_END>
<DOC_START>
भूमेः उपरि वल्मीकनिर्माणं क्रियते पिपीलिकाभिः हन्त तत्र वासः तावत् क्रियते सर्पेणा ।
एवम् एकेन परिश्रमः क्रियते अपरेण च तस्य फलं प्राप्यत इति भावः ।
पिष्टं नाम चूर्णीकृतमेव पुनः पुनः पिष्यते चेत् किं फलम् एवमनावश्यकं व्यर्थं च कार्यं सूचयति
<DOC_END>
<DOC_START>
पीलुनामकस्य् वृक्षस्य पत्राणि कटुरसयुक्तानि भवन्ति परं तस्य फलानि स्वादूनि भवन्ति ।
एकस्यैव वृक्षस्य पत्राणि एकविधानि फलानि च अपरविधानि इत्येवम् आश्रयसाम्ये सत्यपि फलभेदो
<DOC_END>
<DOC_START>
अधिककालानन्तरम् एका महिला एकम् अपत्यं प्राप्तवती । इतोऽपि एकः पुत्रः भवतु इति सा
सर्वदेवान् प्रार्थितवती । व्रतादिकम् आचरितवती । अन्ते सा एकां महिलाम् आश्रितवती । तदा सा “त्वं
प्रथमपुत्रं बलिरुपेण अर्पय । तर्हि द्वितीय पुत्रो भविष्यति । अहं प्रमाणम्”इत्युक्तवती ।
वञ्चनकारिण्याः तस्याः वचनेषु विश्वासेन स्वस्याः प्रथमपुत्रं बलिरुपेणा दातुं सिद्धाऽभवत् सा स्त्री ।
तदा गृहे वर्तमाना काचन वृद्धा एतद् विदित्वा उक्तवती- “मूर्खे तस्याः वञ्चक्याः वाक्येन त्वं
प्रथमपुत्रं बलिरुपेण दातुं सिद्धा अभवः । यदि प्रथमपुत्रस्य वधानन्तरं तव द्वितीयपुत्रो न जातश्चेत्
किं करिष्यसि सर्वनाश एव भवेत् खलु” इति । अत्र किञ्चन सुभाषितमस्ति –
यो ध्रुवाणि परित्यज्याध्रुवाणि निषेवते ।
ध्रुवं तस्य विनष्टं स्यादध्रुवं नष्टमेव हि ॥ हितोपदेश- मित्रलाभे १८४
<DOC_END>
<DOC_START>
पुराकथानां श्रवणकाले ऎहिकसुखेषु वैराग्यं जायते । जगति सर्वं नश्वरम् इति भावना जागर्ति ।
परन्तु इयं भावना कियत्कालं यावत् तिष्ठेत् पुराणकथाश्रवणपर्यन्तमेव खलु । तदनन्तरं पुनः
प्रापञ्चिकविषयेषु मोहः भवति । एवं तात्कालिकवैरागस्य सूचकोऽयं न्यायः ।
<DOC_END>
<DOC_START>
यथा पुरुषात् सतः केशलोमाः भवन्ति तथा अक्षरब्रह्मणः सर्वम् इदं जगत् उत्पद्यत इति अस्य
भावः । मुण्डाकोपनिषदि १-१-७ (सा. ४६९)
<DOC_END>
<DOC_START>
जीवेश्वरयोः पुल्लिङ्गत्वे एव साम्यम् अन्यविषयेषु सर्वत्र भेद एवेति द्वैतवेदान्तिनां मतमस्ति ।
तुल्याः – शकुनिसूत्रन्यायः, नदीसमुद्रन्यायः, शुद्धोदलवणन्यायः, नानावुक्षरसन्यायः,
यथा पक्षी च सूत्रं च नानावृक्षरसा यथा ।
यथा नद्यः समुद्रश्च शुद्धोदलवणे यथा ।
चोरापहार्यौ च यथा तथा पुंविषयावपि ।
तथा जीवेश्वरौभिन्नौ सर्वदैव विलक्षणौ । लौकिकन्यायसाहस्री (सा. ८१७-८३३)
<DOC_END>
<DOC_START>
पुष्करपलाशो नाम कमलपत्रम् । यथा पुष्करपलाशस्य उपरि स्थितं जलं तत्र संलग्नं न भवति
तथा ज्ञानिना कृतस्य कर्मणः फलं तस्मिन् न भवति । ज्ञानाग्निना सर्वं कर्म भस्मसात् भवति ।
यथा – १. ज्ञानाग्निः सर्वकर्माणि भस्मात् कुरुतेऽर्जुन । भगवद्गीता ४-३७
२ लिप्यते न सा पापेन पद्मपत्रमिवाम्भसा । भगवद्गीता ५-१०
<DOC_END>
<DOC_START>
शुनकसमूहे एकस्य ताडनार्थं स्थापितः पुष्टलगुडः अन्येषामपि ताडनार्थम् उपयुक्तो भवति खलु ।
एवम् एकस्य खण्डनाय कृता बलवती युक्तिः अन्येषामपि तादृशानां खण्डने उपयुक्ता स्यादिति भावः ।
<DOC_END>
<DOC_START>
पुष्पवन्तौ इति सूर्याचन्द्रमसोः साकल्येन व्यपदेशः । पुष्पं नाम प्रकाशः ।
पुष्पवन्तौ नाम प्रकाशकौ इति भावः । यथा अनयोः उपकारकस्वभावः तथा सज्जनानामपि सदा
<DOC_END>
<DOC_START>
पूतिर्नाम दुर्गन्धः । तादृशे दुर्गन्धयुक्तस्थले जातः कूष्माण्डः कस्मै अपि न रोचते । एवं
दुष्टपरिसरे जातं दोषयुक्तमेव भवतीति भावः । सा. ७७४
<DOC_END>
<DOC_START>
जलपूर्णः घटः कदापि शब्दं न करोति । एवं ज्ञानी अन्तः पूर्णः सन् कदापि परान् न आक्षिपति
निन्दति वा । एवं शान्त – गंभीरस्वभावस्य कृते अस्य प्रयोगो भवति ।
यथा- रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ मेघदूर्ते २०
<DOC_END>
<DOC_START>
प्रातः काले पदार्थानां च्छाया आदौ दीर्घा भूत्वा क्रमेण लघ्वी भवति । तथा खलैः कृता मैत्री
अपि आदौ दीर्घा कालक्रमणे च हृस्वा भवतीति भावः ।
यथा –दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥
<DOC_END>
<DOC_START>
यथा पृथिव्याः ओषधयः प्रभवन्ति तथा परब्रह्मणः जगदिदं सर्वंम् उत्पद्यत इति भावः ।
यथोर्णनाभिः सृजते गृहणते च यथा पृथिव्यामोषधयः संभवन्ति ।
यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् संभवतीह विश्वम् ॥
<DOC_END>
<DOC_START>
क्वचित् धर्मादिविषये प्रुष्टानां सर्वेषामपि प्रश्नानाम् उत्तरं महता विदुषा अपि दातुम् अशक्यं
भवति केवलं स्थूलरुपेण किञ्चित् तद्विषये क्वतुं शक्यं भवेदिति भावः ।
यथा अथ सिद्धे दुरिते का तत्संख्येति प्रायश्चितकदम्बाद्युक्तगणना लिख्यते । सा च
पृष्टाकोटिन्यायेव वक्तुमशक्याऽपि स्थूलोपाधिविषयत्वेनोच्यते । धर्मनिबन्धः लौकिकन्यायसाहस्रीतः ।
<DOC_END>
<DOC_START>
यदि केनचित् एवम् उक्तं – एकस्य पृष्ठतः ताडनेन तस्य दन्ताः भग्नाः अभवन् – इति । तत् कियत् सङ्गतं
स्यात् । एवं सर्वथा असंबद्धप्रलापविषये अस्य प्रवृत्तिः ।
<DOC_END>
<DOC_START>
एकस्य अनेकेषां वा प्रतिनिधिरुपेण कस्यचन प्रवृत्तिः अस्य भावः । उपवाससमये प्राणाहुतेः अग्निहोत्रम्
अनुष्ठातव्यं भवति तदा जलम् अन्यत् वा द्रव्यम् उपयोक्तव्यं भवति । तदा तस्य प्रतिनिधिरिति नाम
मीमांसाशास्त्रे प्रसिद्धम् । मीमांसासूत्रम् ६-३-१५, १७)
यथा – भोजनलोपेऽपि अद्भिर्वाऽन्येन वा द्रव्येण अविरुद्धेन प्रतिनिधा-नन्यायेन प्राणाग्निहोत्रस्य
अनुष्ठानमिति । ब्रह्मसूत्र. शा. भा. ३-३-४०
<DOC_END>
<DOC_START>
बिम्बे चलिते तस्य प्रतिबिम्बमपि चलतीति अस्य् भावः ।
<DOC_END>
<DOC_START>
प्रत्यासत्तिर्नाम समीपवृत्तित्वम् । महतः पुरुषस्य प्रत्यासत्त्या महान्ति कार्याणि सिद्ध्यन्तीति
<DOC_END>
<DOC_START>
1. एकत्र वर्तमानस्यापि दीपस्य प्रकाशः दूरं यावत् प्रसरति
2. वर्तिका, तैलं, अग्निः इति परस्परभिन्नानां विरुद्धानामपि वस्तूनां मेलनेन दीपः प्रकाशते ।
क्वचित् परस्परविरोधे सत्यपि ते पदार्थाः एकार्थं साधयन्तीति भावः । (यथा- प्रदीपवच्चार्यतो
वृत्तिः इति सांख्यकारिकया १३ प्रतिपादितं यत् सत्त्वरजस्तमोगुणाः त्रयः परस्परविरोधिनः
सन्तोऽपि एकार्थं साधयन्ति इति परिभाषेन्दुशखरे २,३)
<DOC_END>
<DOC_START>
मल्लेषु यः अधिकबलवान् स्यात् तस्य पराजयेन अपरे बलिनः पराजिता एव स्युः इति अस्य आशयः ।
अद्वैते सांख्यसिद्धान्तानां खण्डनं प्रधानमल्लनिबर्हण न्यायेन कृतमिति आचार्याः स्वयं लिखन्ति ।
एतेन प्रधानकारणवादप्रतिषेधन्यायकलापेन सर्वेऽण्वादिकारणवादा अपि प्रतिषिद्धतया
व्याख्याता वेदितव्याः ॥ ब्रह्मसूत्रशाङ्करभाष्ये १-४-२८ (सा. २४४)
<DOC_END>
<DOC_START>
शर्करा, लवणं, शुण्ठी इत्यादीनां वस्तूनां संमिश्रणेन एकः आस्वाद्यः पानकरसो भवति । एवमेव
लोके परस्परभिन्नानां संमिश्रणेन विलक्षणरुपं लभ्यते । तथैव विभाव – अनुभाव –संचारिभावानां
यथाः सकलसहृदयसंवादभाजा साधारण्येन स्वाकार इवाभिन्नोऽपि गोचरीकृतः चर्व्यमाणं
नैकप्राणो विभावादिजीविप्यवधिः पानकरस न्यायेन चर्व्यमाणः …. ब्रह्मास्वादमिवानुभावयन्
अलौकिक चमत्कारकारी शृङ्गारादिकोरसः । काव्यप्रकाशचतुर्थोल्लासे पृ.९३
<DOC_END>
<DOC_START>
क्वचित् एकमार्गे प्रवासं कुर्वन्तः तृषार्ताः भूत्वा प्रपासमीपं गच्छन्ति । यदा जलपानेन
पिपासा निवृत्ता तदा पुनः स्वमार्गेण गच्छन्ति । एवं जगति जीवाः कञ्चित्कालं यावत् एकत्र समायान्ति
पश्चात् च स्वमार्गेण गच्छन्ति स्वकर्मानुसारं पुनश्च जायन्ते । यथा जलप्रवाहे काष्ठम् अपरेण काष्ठेन
संगतं भवति कञ्चित्कालं यावत् अयं संगमो भवति पुनश्च वियोगो भवत्येव ।
यथा काष्ठं च काष्ठं समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वज्जीवसमागमः ॥ रामायण- अ. का. १०५-२६ सा. ८६८
<DOC_END>
<DOC_START>
प्रभाते एकत्र बहवः मेघाः प्राप्ताश्चेदपि सर्वे न वर्षन्ति । एवमेव अकाले मिलन्तः सज्जना अपि
साहाय्यं कर्तुं न प्रभवन्तीति भावः ।
<DOC_END>
<DOC_START>
प्रभोः भृत्यस्य विषये प्रेम, भृत्यस्य च प्रभौ श्रद्धा इति परस्परसंबन्धवशात् जायेते इति भावः ।
<DOC_END>
<DOC_START>
सुन्दरपत्नीं प्राप्य एकस्य सुखम् आनन्दो वा भवति तादृशी मम नास्तीति अपरस्य दुःखम् असूया वा भवति
। कस्याः अपि सपत्नी भवति चेत् दुःखं भवति । एवम् एकैव स्त्रीर बहूनां बहुविधानां भावनानाम् आश्रयः
भवति इति अर्थः । (सा. ९२८)
<DOC_END>
<DOC_START>
यदि कस्याश्चित् स्त्रियः भर्ता प्रवासे देशान्तरं गन्ताऽस्ति चेद् भर्तुः गमनकाले सा अतीव
दुःखिता भूत्वा रुद्यात् । भर्तारं च प्रवासात् निवर्तयितुं प्रयतेत ।
संस्कृतभाषायां नञ्- इत्यस्य अर्थद्वयं भवति पर्युदासः प्रसज्य प्रतिषेधश्च इति । यत्र विधेः
प्राधान्यं तत्र पर्युदासः, प्रतिषेधस्य यत्र प्राधान्यं तत्र प्रसज्य प्रतिषेध इति तयोः स्वरुपम् ।
पूर्वपदेन नञः अन्वयो भवतिचेत् पर्युदास इति क्रियया सह भवति चेत् प्रसज्यप्रतिषेध इति तस्य स्वरुपं
यथाः प्रसज्यप्रसक्ति सम्पाद्यारोप्येति यावत्प्रतिषेधः । अत्यन्ताभावे प्रसक्तं हि
प्रतिषिध्यत इति न्यायेन आरोपितप्रसंगस्यैव निषेधः । तेन वायौ रुपं नास्ति इत्यादावपि वायौ रुपारोपं
कृत्वैव प्रतिषेधो नञा बोध्यत इति विवेकः ।
यथा – महाभाष्ये १-४-५०, वाक्यपदीये २-८६, बृहदारण्यकवार्तिके ३-९-७३
पर्युदांसः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥
अश्राद्धभोजी ब्राह्मणः, अत्रस्त इति उदाहरणाद्वयम् ।
पर्युदासः स विज्ञेयो यत्र पूर्वपदेन नञ् ।
प्रतिषेधः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥
उत्तरपदशब्देन आख्यात प्रत्ययो गृह्यते । तद्व्यतिरिक्तं सर्वं धातुः प्रातिपदिकं समस्तं व्यस्त
च आख्यातातिरिक्तः प्रत्ययश्च पूर्वपदेन गृह्यते । आख्यात प्रत्ययार्थश्च भावना । तथा च भावना
संबद्धो नञर्थः प्रतिषेधः । यथा न कलञ्जं भक्षयेदिति । भावनेतरार्षसंबन्धो नञर्थः पर्युदासः यथा
<DOC_END>
<DOC_START>
केनापि विशिष्टेन उद्देशेन अन्यस्य कृते कृतं कार्यम् अपरस्य कस्यापि कृते अपि लाभदायकं भवति
इति न्यायस्य भावः । अलं प्रसक्तानुप्रसक्तिः ।
<DOC_END>
<DOC_START>
गर्भवत्याः प्रसूतिसमये वेदना भवति । अतः सा पत्या सह पुनः संगमं न करिष्यामि इति भावयेत् ।
तस्मिन् समये तस्याः मनसि प्रबलं वैराग्यं जायते । परन्तु अपत्योत्पत्त्यनन्तरं सर्वं सा विस्मरति । एवं
कञ्चित्कालं यावत् वर्तमानस्य वैराग्यस्य विषये अयं न्यायः प्रवर्तते ।
<DOC_END>
<DOC_START>
कश्चन गृहस्य प्रथमे अट्टे वसति क्वचित् अधः अपि आगच्छति । अधिककालं यावत् प्रासादभागे
वसति इति कारणेन जनाः तं सर्वदा प्रासादवासिनमेव कथयन्ति । एवं केचन भूवासिनः, केचन
एवमेव वर्णेषु केचन अनुनासिकाः, केचन मुखवचनाः केचन उभयवचनाश्च भवन्ति इति
पातञ्जलमहाभाष्ये १-१-८ उपवर्णितम् अस्ति ।
<DOC_END>
<DOC_START>
मर्कटः वृक्षस्य एकस्मात् शाखाग्रात् अपरं शाखाग्रं प्रति कूर्दति । कूर्दनेन शनैः फलानि प्राप्नोति
। जगति एवं केचन साधका भवन्ति ये मध्यमाधिकारिणो भूत्वा । शुद्धसंस्कारैः गुरुपदेशेन च कूर्दित्वा
उन्नतमपि लक्ष्यं साधयन्ति इति अनेन बोध्यते ।
<DOC_END>
<DOC_START>
एकः जनः एकदा एकं बकं बन्धुम् इष्टवान् । आदौ सः एकं बकं दृष्द्वा दूरात् तस्य शिरसः उपरि
नवनीतस्य गोलं क्षिप्तवान् । कञ्चित्कालानन्तरं नवनीतं द्रुतं भूत्वा बकस्य नयनयोः उपरि आगतम् ।
तेन वकः किमपि द्राष्टुं न शक्तः । तदा एषः गत्वा बकं गृहीतवान् । एवं कार्यस्य सिद्ध्यै विचित्रः उपायः
चिन्तितः चेत् बकबन्धनवत् कृतमिति वदन्ति ।
<DOC_END>
<DOC_START>
तीर्थं नाम पवित्रस्थानम् । नदीतीरे जलाशयतीरे वा प्रायः तादृशं भवति । बहवो जनाः महता कष्टेन तादृशतीर्थेषु स्नानं कर्तुम् आगच्छन्ति । परन्तु तत्रस्थाः काकाः प्रतिदिनं तत्र निमज्जनं कुर्वन्ति एव । तैः कतिवारं स्नानं क्रियते इति तस्य गणना एव नास्ति । ते काका अपि स्नानेन पुण्यं भवतीति न जानन्ति । एवम् अज्ञानेन अपि पुण्यप्राप्तिः भवति चेदपि तद् अज्ञानतः हीयते इति भावः ।
<DOC_END>
<DOC_START>
तप्तं तैलं जलं वा शरीरस्य उपरि क्षिप्त्वा अपराधपरीक्षणं क्रियते स्म पूर्वकाले । अयमपि कश्चन दिव्यप्रकारः ।
<DOC_END>
<DOC_START>
अयं वर्गः बकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
कपटवृत्तिः बकः तडागस्य तीरे एकपादेन स्थित्वा ध्यानमग्न इव अभिनयति । यदा मत्स्याः
स्वपार्श्वम् आगच्छन्ति तदा हठादेव तान् निगिलति । एवं कपटवृत्तीनां विषये अस्य् न्यायस्य प्रयोगो
<DOC_END>
<DOC_START>
बधिरस्य कर्णयोः किमपि रहस्यं कथितं चेत् किं प्रयोजनम् एवं व्यर्थक्रियाणां विषये अस्य
तुल्याः – ऊषरवृष्टिन्यायः, अन्धदर्पणन्यायः, बधिरवीणान्यायः, बधिरशड. खनादन्यायः
इत्यादयः । (लौकिकन्यायसाहस्त्री पृष्ठे ११५, ११६)
<DOC_END>
<DOC_START>
बहुच्छिद्रयुक्ते घटे शापितस्य दीपस्य प्रकाशः सर्वेभ्यः तेभ्यः च्छिद्रेभ्यः बहिः प्रसरति तथा
शरीरान्तर्वर्तिनः आत्मनः प्रकाशः इन्द्रियद्वारा बहिः प्रसरति । इति भावः ।
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत् समस्तं जगत्
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥
(दक्षिणामूर्ति स्तोत्रे शङ्कराचार्यकृते) सा. ३६३
<DOC_END>
<DOC_START>
एकस्य एव राज्यस्य यदि बहवो राजानो भवेयुः तदा तेषाम् एकता दुर्लभा एव । तथैव शरीरस्य
इन्द्रियाणि परस्परं विरोधं प्राप्य एकं कार्यं न साधयन्ति । दर्शनसमये श्रवणं श्रवणसमये दर्शनम्
इत्यादि विरुद्धकर्मसु इन्द्रियाणि स्वतन्त्ररुपेण प्रवृत्तानि चेत् एकं कार्यं न भवतीति भावः ।
यथा –प्रवर्त्यानामनन्तत्वाद् वैलक्षण्याच्च नैकता ।
नैकमत्यं बहुत्वे स्याद् बहुराजकदेशवत् ॥ अनुभूतिप्रकाशे १२-१३
<DOC_END>
<DOC_START>
एकस्याः एव स्त्रियः यदि बहवो वल्लभाः सन्ति चेत् सा एकमपि आनन्दयितुं न पारयेत् इति भावः |
<DOC_END>
<DOC_START>
अरण्ये हरिणचः चेत् बहुवृकैः मारितः आकृष्टश्चेत् किञ्चित्कालात् अनन्तरं तस्य हरिणस्य
कस्यापि अवयवस्य अवशेषोऽपि न लभ्यते ते वृकाः तं हरिणं पूर्णरुपेण खादन्ति ।
<DOC_END>
<DOC_START>
एकस्य पुरुषस्य यदि बहव्यः पत्न्यः भवेयुस्तदा सः एकामपि आनन्दयितुं न शक्नुयात् । दुःखमेव
प्राप्नुयात् । इन्द्रियासक्तः अपि तथा सर्वाणि इन्द्रियाणि तर्पयितुं न शक्नुयात् ।
यथा – बह्व्याः सपत्न्यः इव गेहपतिं लुनन्ति । (भागवते)
<DOC_END>
<DOC_START>
बहवो जनाः एकत्र समागताश्चेत् सर्वेषां सामूहिकशक्तेः महान् प्रभावो भवति इति भावः ।
यथा – बहूनामप्यसाराणां मेलनं कर्मसाधकम् ।
तृणैः संपाद्यते रज्जुर्यया नागोऽपि बध्यते ॥ (सुभाषितम्)
<DOC_END>
<DOC_START>
बहूनाम् अनुसरणं प्रायः लाभदायकमिति भावः ।
<DOC_END>
<DOC_START>
एकदा एकः अजगरः एकम् उष्ट्रम् अगिलत् । तत् दृष्ट्वा उष्ट्रस्वामिना सः अजगरः मारितः ।
एवम् निषेधवाक्यानि आत्मरक्षणमुखेन अनात्मानं बाधन्ते इति भावः । (सा. १०४)
<DOC_END>
<DOC_START>
बदरीतरुसंबन्धेन द्वयोः संबन्धः जातः इति स्थापयितुं केनाचिद् वृथा प्रयत्नः कृतः कदाचित् । एवं
कस्यापि दुर्बलकारणस्य आधारेण संबन्धः कल्पितः चेत् बादरायणसंबन्ध इति कथ्यते ।
कदाचित् द्वौ पुरुषौ एकत्र अमिलताम् । तदा एकेन भणितं – “तव गृहे बदरीतरुः अस्ति । मम
शकटस्य चक्रं बदरीकाष्ठस्य वर्तते । एवम् आवयोः नेदीयान् संबन्ध विद्यते” । इति । अयमेव
बादरायणसंबन्ध इति कथ्यते । वस्तुतः तयोः संबन्ध एव नास्ति । तथापि कथञ्चित् संबन्धः कल्पितः ।
यथा – अस्माकं बदरीचक्रं युष्माकं बदरीतरुः ।
बादरायणसंबन्धाद् यूयं यूयं वयं वयम् । । (लोकोक्तिः)
<DOC_END>
<DOC_START>
मलविसर्जनात् पूर्वं मार्जालः भूतलस्य उपरि गर्तं खनति । तत्र मलविसर्जनात् अनन्तरं पुनः
मृत्तिकां स्थापयित्वा गर्तं पूरयति । एवं कार्यस्य संपूर्त्यै कापि व्यवस्था कल्पिता कार्यसिद्ध्यनन्तरं
च नाशिता इति बोध्यते अनेन न्यायेन ।
<DOC_END>
<DOC_START>
कदाचित् एकः खल्वाटः अधिकधावनेन श्रान्तः एकस्य बिल्ववृक्षस्य छायाम् आश्रितवान् ।
अकस्मात् एकं पक्वं बिल्वफलम् तस्य शिरसि पतितं तस्य शिरश्च भग्नं जातम् । एवं दुर्दैवेन जायमानां
घटनां बोधमति अयं न्यायः ।
यथा –खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके
वाञ्छन् देशमनातपं विधिवशाद् बिल्वस्य मूलं गतः ।
तत्राप्यस्य महत्फलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥
(भर्तृहरि- नीतिशतके ८४) सा. ११३
<DOC_END>
<DOC_START>
गोधा बिल्वे वर्तते परं केनापि अवच्छेदकधर्मेण साः बिल्ववर्तिनी इति अवच्छेदयितुं न शक्यते । यतः
गोधा अधिकं तत्र न दृश्यते । एवम् अज्ञातस्य परसिद्धान्तस्य खण्डनवेलायाम् अस्य न्यायस्य प्रयोगः
क्रियते । गोधापदं सर्पादिसरीसृपानाम् उपलक्षणम् । (सा. ४९८)
<DOC_END>
<DOC_START>
बिल्वफलस्य विभजनमिव अज्ञातस्य कस्याचित् विषयस्य खण्डनादिकं क्रियते चेत्
बिल्वविभजनन्यायस्य प्रवृत्तिः भवति । (सा. २२५)
<DOC_END>
<DOC_START>
बीजाद् वृक्षः वृक्षाद् बीजं वा इति प्रश्ने जाते द्वयोः कतरत् पूर्वं जातमिति निश्चयः दुष्करः
भवति । द्वयोः संबन्धः अनादिः । एवं कयोरपि द्वयोः कार्यकारणभावः निश्चेतुम् अशक्यश्चेत् तत्र अस्य
<DOC_END>
<DOC_START>
बीजं विना अङ्कुरः अङ्कुरं विना बीजं च न भवति एवं यत्र परस्परं कार्यकारणभावो विद्यते तत्र
अस्य न्यायस्य प्रयोगो भवति । यस्मात् अङ्कुरात् यद् बीजम् उत्पन्नं तद् बीजं तस्य अङ्कुरस्य कारणं
नास्ति अतः अत्र अन्योन्याश्रयदोषः नास्ति ।
<DOC_END>
<DOC_START>
कस्मिन्नपि ग्रामे ब्राह्मणैः सह इतरे अपि बहवः जनाः वसन्ति । परन्तु ब्राह्मणाः अधिकाः
सन्तीति कारणेन तस्य ग्रामस्य नाम ब्राह्मणग्रामः इति कृतं चेत् प्राधान्येन व्यपदेशः इति अर्थः
बोध्यः । तुल्यः – मल्लग्रामन्यायः
<DOC_END>
<DOC_START>
ब्राह्मण इति ब्राह्मणजातिवाचकशब्दः । ब्राह्मणेषु केचन परिव्राजकाः भवन्ति । यदा
परिव्राजकशब्दः स्वतन्त्ररुपेण प्रयुक्तः तदा स्ः ब्राह्मणेतरं सूचयति । ब्राह्मणाः योज्यन्ताम् इत्यत्र
परिव्राजकानामपि अन्तर्भावो भवति । एवं सामान्ये ब्राह्मणसमूहे परिव्राजकानां स्पष्टोल्लेखः अनेन
क्रियते । इतो ब्राह्मणा भोज्यन्ताम् इतः परिव्राजका इति । (मीमांसासूत्रभाष्ये २-१-४३)
यथा – ब्रह्मसूत्रशाङ्करभाष्ये १-४-१६,२-३-१५, ३-१-११
<DOC_END>
<DOC_START>
“ब्राह्मणोऽपि आयातः वसिष्ठोऽपि आयातः” इत्युक्तं चेत् ब्राह्मणशब्देन वसिष्ठस्य अपि ग्रहणं भवति
चेत् किमर्थं वसिष्ठशब्दस्य पृथकप्रयोगः इत्युक्ते वसिष्ठभिन्नस्य ब्राह्मणस्य उल्लेखः अभिप्रेत
यथा – ‘हलन्त्यम्’ इति पाणिनिसूत्रेण (१-३-३१) व्यवसितानाम् अन्त्याः हलः इत्संज्ञकाः इति बोध्यते
। व्यवसितेषु धातु –प्रातिपदिक –प्रत्यय-निपात- आगम- आदेशानां ग्रहणं क्रियते । प्रातिपदिकशब्देनैव
निपातस्य अपि ग्रहणं भवति चेदपि तस्य पृथक् उल्लेखः अनया रीत्या ज्ञेयः ।
<DOC_END>
<DOC_START>
यदि कश्चन ब्राह्मणः बौद्धधर्मस्वीकारेणा श्रमणकः जातः चेदपि ब्राह्मणा इत्येव तस्य
निर्देशो भवति पूर्वकर्मानुसारम् । ‘निरुपादानसंभार’ इति काव्यप्रकाशप्रसङ्गे (४-५७) अस्य प्रयोगः
अलङ्कारशास्रे व्यतिरेकध्वनेः प्रसङ्गे अस्य प्रयोगः कृतः ।
यथा – यः पूर्वं क्वापि वाक्यार्थे अलङ्कारभावम् उपमादिरुपतया अन्वभूत् इदानीं त्वलङ्काररुप
एवं अन्यत्र गुणीभावभावात् । सःपूर्वप्रत्यभिज्ञानबलात् अलङ्कारध्वनिरिति व्यपदिश्यते
<DOC_END>
<DOC_START>
भद्रनामकः कश्चन कस्यचन यक्षस्य सेवां कृतवान् । तेन संतुष्टेन यक्षेण भद्राय एकः कामपूरकः घटः
प्रदत्तः । ततः प्रभृति स भद्रः सर्वाः अपि कामनाः साधयति स्म । बन्धुमित्रादिभिः सह नन्दति स्म
। कदाचित् मद्यपानेन मत्तः सः तं भाण्डं गृहीत्वा इतस्ततः भ्रमणम् आरब्धवान् । तदा तस्य हस्तात्
च्युतः सः भाण्डः भग्नः अभवत् । एवं दुर्दैवग्रस्ताः महत् ऎश्वर्यं प्राप्य अपि तत् नाशयन्ति रक्षितुं न
<DOC_END>
<DOC_START>
अस्मिन् वर्गे भकारादयः लौकिकन्यायाः विद्यन्ते ।
<DOC_END>
<DOC_START>
कस्यचिद् राज्ञः भर्छुनामकः मन्त्री आसीत् दूरदेशे चोराणां नियन्त्रणार्थं राजा तम् देशान्तरं
प्रेषितवान् । भर्छुः चोराणां सम्यक् निग्रहणं कृतवान् । परन्तु स्वदेशे अपि शत्रवः गूढरुपेण वर्तन्ते इति
सः जानाति स्म । अतः चोराः भर्छुमन्त्रिणं मारितवन्त इति किंवदन्तीं सः स्वविषये सर्वत्र
प्रसारितवान् । एतत् श्रुत्वा राजा अपरस्य मन्त्रिणः नियुक्तिं कृतवान् । कतिपयदिवसानन्तरं भर्छुः
स्वराज्यं प्रति प्रस्थितः मार्गे एव सः अपरस्य नियुक्तिः जाता इति ज्ञातवान् । ततः विरक्तः भूत्वा
एकदा जातम् अपयशः वज्रलेपवत् भवति इति अनेन बोध्यते । तुल्यः भैरवप्रियनाथः । (सा. ३९४)
<DOC_END>
<DOC_START>
कदाचित् जलप्रवाहे एकः महान् वृक्षः वहति स्म । तस्य उपरि एकः भल्लूकः अपि स्थितः वुक्षस्य
आश्रयेण जलप्रवाहात् आत्मानं रक्षितुं तथा स्थितं तं दूरात् कम्बलं मतवन्तः केचन । तेषु द्वौ महता
प्रयत्नेन जलप्रवाहे आत्मानं पातयित्वा तीर्त्वा च वृक्षस्य समीपं गतवन्तौ । यदा तौ वृक्षं गृहीतवन्तौ
तदा भल्लूकः तयोः उपरि प्रहारं कृत्वा तौ अमारयत् । एवं भ्रान्तिः भवति चेत् महती हानिः भवतीति भावः|
<DOC_END>
<DOC_START>
१. कृत्ये कृच्छ्रेऽपि सत्त्वाढ्या न
<DOC_END>
<DOC_START>
भल्लूककस्य मुष्टिः दृढा भवति । एवम् कोऽपि किमपि वस्तु कमपि विषयं वा दृढं धारयति चेत्
<DOC_END>
<DOC_START>
अग्निः यदि भस्मावृतः भवति तदा तत्र केवलं भस्म वर्तते न तु अग्निरिति भाति । परन्तु अन्तः
अग्निः ज्वलति एव । एवं तेजस्विनः पुरुषस्य जीवने जातैः सङ्कटैः तस्य तेजः क्वचित आच्छादितं भवेत्
चेदपि तस्य तेजस्वी स्वभावः नष्टो न भवति समये प्रकाशते इति अनेन बोध्यते ।
<DOC_END>
<DOC_START>
भस्त्रिकायां किमपि स्थापितं चेदपि हानिः नास्ति । परन्तु ज्वलन्तम् अङ्गारं स्थापयामः चेत्
भस्त्रिका नश्यति । एवं नाशकवस्तुनः समीपे स्थापितं सर्वं नश्यतीति भावः ।
<DOC_END>
<DOC_START>
चन्द्रलोकादि –लोकेषु कञ्चित् कालं यावत् वासं कृत्वा ततः प्रत्यागमनसमये मनुष्यः स्वकर्मणः
कमपि अनुशयं स्वेन सह नयति वा इति प्रश्ने जाते शङ्कराचार्याः अनुशयं मनुष्यः आनयति इति
समाहितवन्तः । यथा भाण्डात् तैलं पूर्णरुपेणा निष्कासितं चेदपि भाण्डस्य अन्तः कश्चन स्नेहविशेषो
यथा- कः पुनरनुशयो नामेति । केचित्तावदाहुः । स्वर्गस्थज्ञस्य कर्मणो भुक्तफलस्य अवशेषः
कश्चिदनुशयो नाम भाण्डानुसारि स्नेहवत् । यथा हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते
भाण्डानुसार्येव कश्चित् स्नेहविशेषोऽवतिष्ठते तथा अनुशयोऽपि इति ॥ ब्रह्मसूत्रशाङ्करभाष्ये ३-१-८
<DOC_END>
<DOC_START>
भाण्डानाम् उपरि नक्षत्रादिकं क्वचित् चित्रितं भवति । सर्वाणि भाण्डानि तदा एकविधान्येव
दृश्यन्ते परस्परं विशेषकं किमपि न भवति ।
यथा – खण्डानखण्डाखाद्यटीकायाम् पृष्ठे २८९
<DOC_END>
<DOC_START>
दुःखं कामुकस्य तापः अपि भवेत् । एवं सर्वदा लोके एकमेव वस्तु विभिन्नेभ्यः विभिन्नभावनां जनयति इति
<DOC_END>
<DOC_START>
‘यजेत् स्वर्गकामः’ इति मीमांसाशास्त्रगते वाक्ये यजेत इत्यत्र आख्यातांशः क्रियावाचकः भवति
। तस्यैव भावना इति नाम । शाब्दी भावना आर्थी भावना इति तस्याः प्रकारद्वयम् । तत्र त्रयः अंशाः
भवन्ति किं केन कथं भावयेत् इति । किं भावयेत् इत्यत्र स्वर्गं भावयेत् इति उत्तरम् । केन भावयेत् इत्यत्र
यज्ञेन इति उत्तरम् । कथं भावयेत् इत्यत्र इत्थंभावाकांक्षा भवति । एवं साधनस्य आकांक्षायां
भावार्थाधिकरणन्यायेन समानाधिकरणं करणपदम् उपतिष्ठते । तेन यागेन स्वर्गस्य भावनां कुर्यात् इति
<DOC_END>
<DOC_START>
एकदा एकः शुनकः श्रीरामस्य समीपम् आगतः । तस्य शरीरं रक्तमयम् आसीत् । कारणे पृष्टे तेन
कथितं यत् एकः भिक्षुकः तं ताडितवान् इति । भिक्षुकम् आनाय्य कारणे पृष्टे तेन कथितं – “यत्र
भिक्षार्थम् अहं गच्छामि तत्र मया सह आगतः अयं शुनकः सर्वदा भषति कोलाहलं च जनयति । तेन च
जनाः पीडिताः भूत्वा मह्यं भिक्षां न यच्छन्ति । अतः त्रस्तेन मया शुनकोऽयं ताडित” इति । तदा शुनकः
कथितवान्- ‘महाराज पूर्वजन्मनि अहं कालाञ्जनपर्वतस्योपरि वर्तमाने मन्दिरे पूजकः आसम् । तदा
देवब्राह्मणानां कृते रक्षितम् अन्नादिकं भक्षयामि स्म । तेन शुनकजन्म प्राप्तवान् । मां ताडितवतः
अस्यापि भिक्षुकस्य मन्दिरपूजकजन्म भवतु” इति । राज्ञा तथा कृतम् । एवं शुनकः श्रीरामदर्शनं प्राप्य
काशींगतः कालान्तरे मुक्तः च अभवत् ॥
<DOC_END>
<DOC_START>
एकदा एकः भिक्षुकः एकस्य संम्पन्नस्य गृहम् आगतः । अयं संपन्नः मह्यं पर्याप्तम् अन्नं, वस्त्रं
वासस्थानञ्च ददातु इति तस्य अपेक्षा आसीत् । परन्तु एतत् सर्वं सहसा प्राप्तुं शक्यम् एव न । अतः
भिक्षुकः योजनां कृतवान् यत् आदौ पादप्रसारणस्य कृते आवश्यकं स्थलं प्राप्स्यामि तदनन्तरं शनैः सर्वं
एवं महत् फलं प्रेप्सुना मनुष्येण आदौ अल्पफलेन अपि संतोष्टव्यम् । कालान्तरेण महत् फलम्
अपि संपाद्यते इति भावः ।
तुल्यः – १. भिक्षुपादप्रसारणन्यायेन क्षणभङ्गाद्यभिधानमुखेन स्वामित्वानुकूल्यवेदनीयत्वानुगतत्व –
सर्वसत्यत्वादिभ्रमव्या वर्तनेन सर्वशून्यतायामेव पर्यवसानम् । सर्वदर्शनसंग्रहे बौद्धदर्शने १४
भिक्षुकाः आगमिष्यन्ति इति भयेन पाकार्थं स्थाल्यः न अधिश्रिताः कयाचित् । एवं ब्रह्मज्ञानं
गुरुकृपयै० भवतीति केनापि स्वप्रयत्नः एव न कृतः चेत् तत् अयोग्यम् । असाधूनां जनानां कारणेन
साधुपक्षस्य अनाश्रयणं न वरम् इति भावः । (सा.६४७)
<DOC_END>
<DOC_START>
भिक्षुकाः आगमिष्यन्ति इति भयेन पाकार्थं स्थाल्यः न अधिश्रिताः कयाचित् । एवं ब्रह्मज्ञानं
गुरुकृपयै० भवतीति केनापि स्वप्रयत्नः एव न कृतः चेत् तत् अयोग्यम् । असाधूनां जनानां कारणेन
साधुपक्षस्य अनाश्रयणं न वरम् इति भावः । (सा.६४७)
<DOC_END>
<DOC_START>
भित्तिकायाः उपरि उपविष्टः बिडालः कस्मिन् अपि पक्षे कूर्दितुं शक्नोति । एवम् अव्यवसायिनः
पुरुषस्य अपि स्वार्थानुसारं पक्षग्रहणं भवतीति भावः ।
<DOC_END>
<DOC_START>
मलयपर्वतस्य उपरि चन्द्नतरवः बाहुल्येन भवन्ति । सततं तत्र चन्दनं लभ्यते । तस्य चन्दनस्य
कियत् मूल्यम् अन्यत्र भवति इति तत्र स्थिताः भिल्लमहिलाः न जानन्ति अतः ताः पाकार्थम् इन्धनम्
इव तस्य उपयोगं कुर्वन्ति । अति परिचयतः अपमान एव भवतीति अनेन बोध्यते । यथा –
मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं करोति । शार्ङ्गधरपद्धतौ ८३
<DOC_END>
<DOC_START>
शंबरनामकेन राक्षसेण भीम – भास –दृढ- नामकाः त्रयः राक्षसाः निर्मिताः । योग्यकाले ते
ज्ञानं प्राप्य राक्षसयोनितः सद्गतिं प्राप्तवन्तः इति एका कथा योगवासिष्ठे विद्यते । एतद्विपर्ययेण
दामव्यालकटनामकाः शक्तिमन्तः स्वशक्तिम् अज्ञात्वा मशकयोनिं प्राप्तवन्तः इति तत्रैव दत्तम् |
<DOC_END>
<DOC_START>
युद्धविद्यायां प्रावीण्यम् अधिगन्तुम् इच्छता मनुष्येण आदौ भूमौ एव कृत्रिमरथादिकं
चित्रयित्वा कृत्रिमयुद्धम् अभ्यस्यते । एवं कृत्रिमशिक्षणस्य विषये अस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
हिमालयेषु भूलिङ्गनामकः कश्चन पक्षिविशॆषः आसीत् । सः सर्वदा साहसं मा कुरु साहसं मा कुरु
इति आक्रोशति स्म । स्वयं सः एकस्य सिंहस्य मुखे लग्नं मांसखण्डं स्वचुञ्चुना ग्रहीतुं प्रयत्नं कृतवान्
इति । एवम् अन्येषां कृते उपदेशाः स्वयं तु सर्वभोगाः इति केचन भावयन्ति । स्वयम् उपदेशानां पालनं ये न
कुर्वन्ति तेषां विषये अस्य प्रवृत्तिः भवति ।
यथा- न गाथा माथिनं शस्ति बहु चेदपि गायति ।
प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा ॥ महाभारते (सा. ३४०)
<DOC_END>
<DOC_START>
भूमौ जले च शैत्यं स्वभावतः भवति । अग्नेः संयोगेन तत्रैव उष्णत्वं जायते । एवं क्वचित् कश्चित्
धर्मः आरोपितः भवति चेदपि सः नित्यः न भवतीति भावः ।
<DOC_END>
<DOC_START>
मृत्तिकातः कमपि कीटविशेषम् उपरि आनयति भृङ्गः । सर्वदा तस्य कीटस्य कर्णयोः झेङ्कारं
कृत्वा तम् आत्मसदृशं करोति । एवं गुरुरपि सततोपदेशेन शिष्यम् आत्मसदृशं करोतीति भावः ।
<DOC_END>
<DOC_START>
कोऽपि भेरीं नादयन् विंशतिपदानि गन्तुं शक्नोति चेत् एकः चत्वारिंशत् पदानि गन्तुं शक्नोति । अपरः
शतपदानि गच्छेत् एवं स्वशक्त्यनुसारम् एकमेव कार्यं भिन्नरीत्या क्रियते इति भावः ।(सा. ६०८)
<DOC_END>
<DOC_START>
१. कण्टकयुक्तस्य पुष्पयुक्तस्य च वृक्षस्य कण्टकानि विहाय भृङ्गः पुष्पाणि एव सेवते । एवं सुजनः
अन्येषां दोषान् त्यक्त्वा गुणान् एवं गृहणाति इति भावः ।
२. सामान्यतः भृङ्गः पुष्पस्य मकरन्दं चिनोति यदा पुष्पे मकरन्दम् अवशिष्टं नास्ति तदा सः पुष्पान्तरं
प्रति गच्छति । एवं स्वार्थसिद्धिपर्यन्तं संबन्धं स्थापयित्वा अनन्तरं त्यजतः मनुजान् उद्दिश्य अस्य
३. अत्यन्तकठिनस्य काष्ठस्य उपर्यपि भृङ्गः महता प्रयत्नेन च्छिद्राणि कर्तुं शक्नोति परन्तु स्वतः
प्रीतिपात्रं कमलं प्रविश्य तस्य पुटान्तरे बद्धः चेत् बहिरागन्तुं न शक्नोति ।
न्यायः अयं त्रिषु अपि एतेषु अर्थेषु प्रयुज्यते । (सा. ३२३, ३२४, ३२५)
<DOC_END>
<DOC_START>
व्याकरणॆ भू- इत्यादिधातूनाम् उपसर्गयोजनेन विभिन्नाः अर्थाः भवन्ति इति प्रतिपाद्यते । एवमेव
एकमेव ब्रह्म विभिन्नैः उपाधिभिः युक्तं सत् भिन्नम् इव भासते ।
प्र भू- प्रभवति, अनु भू- अनुभवति, परि भू- परिभवति, सं भू- संभवति
<DOC_END>
<DOC_START>
तन्तुनाभः अत्यन्तचतुरतया स्वशरीरादेव तत्नुं निर्माय स्वं परितः जालं रचयति । तस्मिन् जाले
मक्षिकादयः बद्धाः भवन्ति तदा सः ऊर्णनाभः सहसा उत्पत्य तान् कीटान् भक्षयति । एवं लोभी जनः
कपटजालं प्रसार्य अन्यान् वञ्चयति इति भावः ।
<DOC_END>
<DOC_START>
मक्षिका शरीरस्य स्वस्थं भागं परिहाय व्रणयुतं दुर्गन्धयुतं भागम् एव आश्रयति तत्र च आनन्दं
लभते । तथा दुष्टः इतरेषां गुणान् परित्याज्य दोषान् एव लक्ष्यीकरोति इति भावः ।
<DOC_END>
<DOC_START>
कदाचित् एकः मूषिकः किमपि खाद्यं लभ्येत इति आशया एकस्य सर्पग्राहकस्य कोशं प्रविष्टः । तत्र एकः
सर्पः आसीत् सः झटिति एव मूषिकं गृहीत्वा भक्षितवान् । एवं महान् लाभः भवेत् इति आशया प्रवृत्तिः
भवतिचेत् तत्र हानिः एव महती भवितुमर्हति इति भावः !
<DOC_END>
<DOC_START>
क्वचित् एकस्य मन्दिरस्य अन्तः दीपः स्थापितः । सः ज्वलति स्म दूरतः तस्य दीपस्य वर्तुलाकारं
प्रकाशम् अवलोक्य जनानां मणिभ्रमः भवितुम् अर्हति स्म । तथा तस्य समीपस्थे मन्दिरान्तरे एकं
रत्नम् आसीत् तस्यापि वर्तुलाकारप्रकाशेन मणिज्ञानं भवति स्म । एकदा द्वौ जनौ दूरात् एतं प्रकाशम्
अवलोक्य रत्नभ्रमेण तत्र धावित्वा गतौ । एकः रत्नं प्राप्तवान् अपरः दीपं प्राप्तवान् न रत्नम् ।
एवं मणिप्रभायाः आधारेण जाता मणिभावना संवादिभ्रम इति दीपप्रभायाः आधारेण जाता
मणिभावना च विसंवादिभ्रम इति कथ्यते ।
यथा – स्वयं भ्रमोऽपि संवादी यथा सम्यक्फलप्रदः ।
ब्रह्मतत्त्वोपासनाऽपि तथा मुक्तिफलप्रदा ॥ (सा. ४५८)
<DOC_END>
<DOC_START>
यदि तुलायन्त्रस्य आधारेण मण्डूकानां तोलनाय प्रयत्नः क्रियते चेत् सः प्रयत्नः कदापि सफलः
न भवेत् । यतः मण्डूकाः कदापि स्थिराः न भवन्ति एकस्मात् प्रदेशात् प्रदेशान्तरम् कूर्दन्ति अतः तेषां
एवं किमपि अनिश्चितं कर्म घटितं चेत् तस्य वर्णनार्थम् अस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
१. मण्डूकाः उत्कूर्द्य उत्कूर्द्य अग्रे गच्छन्ति तदा मध्ये वर्तमानं प्रदेशं त्यजन्ति । एवं मध्ये वर्तमानं विषयं परित्याज्य यः विषयान्तरं गच्छति तस्य प्रवृत्तिः मण्डूकप्लुतिः । इव भवति ।
२. व्याकरणशास्त्रे अस्य बहुधा प्रयोगः कृतः । किमपि विशिष्टं प्रयोजनं संपादयितुं यदा सूत्रं सूत्राणि वा परित्यज्य अनन्तरसूत्रस्य ग्रहणं क्रियते तत्र अस्य न्यास्य प्रयोगो भवति ।
यथा – १. परिक्रयणे संप्रदानम् अयतरस्याम् अष्टाध्यायी १-४-४४, २. आधारोऽधिकरणम् (“१-४-४५) ३. अधिशीङ्स्थासां कर्म (“१-४-४६ ४. अभिनिविशश्च (“ १-४-४७)
एतेषु सूत्रेषु प्रथमसूत्रगतम् अन्यतरस्याम् इति पदम् अव्यवहितोत्तरसूत्रे न अनुवर्तते परं चतुर्थे अभिविनिशश्च इति सूत्रे अनुवर्तते मण्डूकप्लुतिन्यायेन ।
<DOC_END>
<DOC_START>
सर्पमुखे वर्तमानः मरणोन्मुखः मण्डूकः अपि जिह्वां प्रसार्य मक्षिकाग्रहणे प्रयत्नरतः भवति ।
एवं मरणासन्नानामपि जीवनं प्रति लोभो न नश्यति इति भावः ।
<DOC_END>
<DOC_START>
मत्तकाशिनी नाम सुन्दर –स्त्री “वरारोहा मत्तकाशिनी उत्तमा वरवर्णिनी” । मत्तकाशिन्याः बहूनां कामुकपुरुषाणां प्राप्तेः शक्यता भवति । तथापि सा पशुपक्षिणां विषये कामुकतां यदि दर्शयेत् तर्हि कियत् आश्चर्यजनकं स्यात् ?
अधिकलाभस्य प्राप्तेः शक्यतायां सत्यां कोऽपि अल्पलाभेन संतुष्टः भवति चेत् अविवेकी भवति इति भाव्ः । (सा. १७३)
<DOC_END>
<DOC_START>
मत्स्यग्राहकः सकण्टकमेव मत्स्यं गृहीत्वा तदनन्तरं मत्स्यं स्वीकरोति कण्टकं च परिहरति । एवं तत्त्वमसि – इत्यस्य महावाक्यस्य लक्ष्यार्थस्य ग्रहणसमये अपि आदौ तस्य उपाधीनाम् अपि ग्रहणं क्रियते परन्तु भागलक्षणया विरुद्धांशस्य परित्यागः क्रियते लक्ष्यार्थस्य च ग्रहणं क्रियते । तस्यापत्यम् इत्यस्य पाणिनीयसूत्रस्य (४-१-९३) भाष्ये अयं न्यायः प्रयुक्तः ।
यथा कश्चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकान् आहरति नान्तरीयकत्वात् स यावत् आदेयं तावत् आदायं तावत् आदाय शकलकण्टकान् उत्सृजति ॥
<DOC_END>
<DOC_START>
यथा मधुमक्षिकाः मधुकरराजस्य आज्ञां पालयन्ति तथा सर्वाणि इन्द्रियाणि चित्तस्य आज्ञां पालयन्ति । अयम् अर्थः योगशास्त्रे विस्तारेण वर्णितः । भगवद्गीतायाम् अपि ‘इन्द्रियेभ्यः परं मनः’ इत्यत्र (३-४२) अयम् एव अर्थः दृश्यते ।
<DOC_END>
<DOC_START>
सुक्षेत्रे मधुररसयुक्तम् आम्र बीजम् उप्तं चेत् परम्परया फलानि अपि मधुररसयुक्तानि एव प्राप्यन्ते । एवं यथा उप्तं तथा फलितम् इति अनेन बोध्यते ।
<DOC_END>
<DOC_START>
हारे बृहत्स्वरुपः मणिः मध्यमणिः इति कथ्यते । तस्य पार्श्वयोः भिन्नसंख्याकाः मणयः भवन्ति । गणनावसरे अस्य मध्यमणेः उभयत्र अपि गणना क्रियते । एवं मध्यस्थस्य मनुष्यस्य अपि महत्त्वं भवतीति अनेन सूच्यते ।
<DOC_END>
<DOC_START>
मरुस्थले स्थित्वा पश्यामः चेत् कदाचित् दूरे जलम् अस्ति इव भाति । परन्तु तत्र गत्वा पश्यामः चेत् जलज्ञानं भ्रमः इति ज्ञायते । एवं वस्तुनः अभावेऽपि भासमानताम् आश्रित्य प्रवृत्तः अयं न्यायः । मरुमरीचिका यत्र भासते तत्र जलभ्रमेण मृगाः धावन्ति पश्चात् तत्र जलम् अप्राप्य दुःखम् अनुभवन्ति । एवं जीवने भ्रमवशात् प्रवृत्तिः भवति चेदपि अनन्तरं सा नश्यति ।
नायं मम प्रस्तावो मृगतृष्णिकेव विषादाय कल्पेत ।
<DOC_END>
<DOC_START>
यदा मर्कट्यः वृक्षशाखाग्रात् उत्कूर्दन्ति तदा मर्कटशिशवः मातुः उदरम् आश्लिष्य दृढं तिष्ठन्ति ।
ततः ते कदापि न पतन्ति । शिशूनां ग्रहणं मातुः कार्यं नास्ति । एवमेव भकताः एकनिष्ठया
ईश्वरम् आश्रित्य मोक्षम् आप्नुवन्ति इति भावः । भक्ताः ईश्वरं भक्त्या आश्लिष्य महत्या
प्रपत्त्या निश्चिन्ताः भवन्ति चेत् मर्कटकिशोरन्याय इति प्रयोगः । (यदि ईश्वरः भक्तानां
संरक्षणादिकं स्वयं वहेत् तर्हि मार्जालकिशोरन्याय इति वैष्णवग्रन्थेषु प्रसिद्धम् अस्ति ।)
<DOC_END>
<DOC_START>
मर्कटः अतीव चपलः भवति । तादृशः यदि मदिरां पिबति तर्हि तस्य कीदृशी स्थितिः भवेत् । तन्न वक्तव्यम् एव ।
यदि सः मर्कटः पिशाचग्रस्तः ततः वृश्चिकेन च दष्टः तर्हि तस्य किं वर्णनीयम् एवम् अनर्थपरम्परया पीडितस्य
स्थितिः अपि अत्यन्तचञ्चला भवति इति भावः ।
<DOC_END>
<DOC_START>
एकदा महति शैत्यकाले उष्णतासंपादनार्थं कथञ्चित् अग्निः ज्वालनीय इति कैश्चित् वानरैः चिन्तितम् । परितः अवलोकिते सति तत्र प्रकाशमानाः खद्योताः अग्निकणिका इव दृष्टाः । तदा तान् एव अग्निकणिकान् मत्वा वानरैः बहवः खद्योताः कथञ्चित् एकत्रीकृताः फूत्कृताः च । कथं खद्योतेभ्यः अग्निः उत्पद्येत वानराणां मूर्खचेष्टां दृष्ट्वा कश्चन चटकः तेषां भ्रमं दूरीकर्तुं महान्तं प्रयत्नं कृतवान् “वृथा अस्माकं व्यवहारे त्वम् आगच्छसि” इति कुपिताः वानराः तं चटकं मारितवन्तः । एवं मूर्खेभ्यः कृतः उपदेशः उपदेशकर्तुः विनाशाय भवति । इति अनेन न्यायेन बोध्यते ।
यथा – उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥ पञ्चतन्त्रे १-४-२०
<DOC_END>
<DOC_START>
दर्पणः स्वयमेव स्वच्छः भवति । परन्तु यदि उपरि धूलिः प्राप्ता तर्हि मलिन एव दृश्यते । एवं मनुष्यः स्वयम् उत्तमः सन् अपि दुष्टसंसर्गस्य कारणेन दुष्टः भवति । एवं गुणदोषाः संसर्गतः जायन्ते इति भावः ।
यथाः प्रायेण उत्तममध्यमाधमगुणाः संसर्गतः जायन्ते । भर्तृहरि – नीतिशतके ५८
<DOC_END>
<DOC_START>
ग्रामे अनेके वसन्ति परन्तु तस्मिन् ग्रामे यदि कश्चन मल्लः वसति चेत् प्राधान्येन व्यपदेश इति तत्त्वानुसारं सर्वे तं ‘मल्लग्राम’ इति व्यवहरन्ति ।
<DOC_END>
<DOC_START>
महानसे वर्तमानः शशः कुत्रापि गन्तु न शक्नोति । एवम् एकस्मिन् एव प्रदेशे बद्धानां विषये अस्य न्यायस्य प्रवृत्तिः भवति ।
<DOC_END>
<DOC_START>
महान् मत्स्यः तीरात् तीरान्तरं प्रति गच्छति । तदा सः तीरात् भिन्नः न भवति । तीरस्य कोऽपि परिणामः तस्मिन् न भवति ।
तथैव आत्मा जाग्रदादिस्थितिषु सर्वत्र स्पन्दते चेदपि तासां कोऽपि परिणामः आत्मनि न भवति । स सर्वथा निर्लिप्त एव भवति इति भावः ।
यथाः महामत्स्य उभे कूले सञ्चरति पूर्वं च अपरं च ।
एवमेवायं पुरुष एतान् सञ्चरति स्वप्नान्तं बुद्धान्तं चेति ॥
<DOC_END>
<DOC_START>
कश्चन झञ्झावातः जातः चेत् महागजः अपि दूरे उत्पात्येत् तर्हि क्षुद्रजन्तूनां का कथा एवं महताम् एव यत्र हानेः शक्यता अल्पसत्त्वानां कैमुतिकन्यायेन उपद्रवः अवश्यं भवति इति भावः । अयं कैमुतिकन्यायसदृशः न्यायः ।
<DOC_END>
<DOC_START>
महान् मत्स्यः अल्पप्रमाणं मत्स्यं निगिलति । एवं बलवन्तः जनाः अल्पबलान् दिर्बलान् वा जनान् पीडयन्ति इतिभावः ।
१. दुर्बलं बलवन्तो हि मत्स्या मत्स्यविशेषतः ।
भक्षयन्ति सदा वृत्तिर्विहिता नः सनातनी ॥ महाभारते ३-१८५-८
२ राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः ।
जले मत्स्यानिवाभक्ष्यन् दुर्बलं बलवत्तराः ॥
अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम् ।
परस्परं भक्षयन्तो मत्स्या इव जले कृशान् ॥ महाभारते १३-६७, १६,१७
३(दण्डः) अप्रणीतो हि मात्स्यन्यायम् उद्भावयति ।
बलीयान् अबलं हि ग्रसते दण्डधराभावे । कौटिलीये १-४
<DOC_END>
<DOC_START>
एकः निर्धनः गृहस्थः स्वगृहम् आगतेभ्यः मारिषशाकं ददाति स्म । कालेन मृतः सः पुनः श्रीमतां गृहे जातः । तस्य पूर्वजन्मनः संस्कारः आसीत् । अतः अस्मिन्नपि जन्मनि मारिषशाकस्य दानम् आरब्धवान् ।
एवं दरिद्रावस्थायाम् आरब्धं दानम् ऎश्वर्ये अपि अनुवर्तितम् इति पूर्वजन्मसंस्काराः अस्माकं व्यवहारस्य कारणानि इति च भावः ।
<DOC_END>
<DOC_START>
भोजनसमये यदा सर्वे पङ्क्तौ उपविश्य एकम् एकम् कवलं मुखे स्थापयन्ति तदा तत्रस्थः मार्जारः तेषां हस्तचालनं दृष्ट्वा अयं जनः मह्यं कवलं दद्यात् इति आशां धारयति । एवं स्वार्थी मनुष्यः सर्वम् अपि स्वानुकूलम् एव पश्यति इति भावः ।
यथा- अहो कामी स्वतां पश्यति । अभिज्ञानशाकुन्तले ६
<DOC_END>
<DOC_START>
मार्जारी यदा स्वशिशून् देशान्तरं नेतुम् इच्छति तदा स्वमुखेन तान् दृढं गृहीत्वा नयति । सा एव शिशूनां संरक्षणचिन्तां वहति । मर्कटशिशूनां तु अन्या स्थितिः । तैः माता दृढं गृहीता भवति । एवं भगवान् स्वभक्तानां स्वयमेव रक्षणं करोति इति भावः अस्य् मार्जारकिशोरन्यायस्य ।
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ भगवद्गीता ९-४६
<DOC_END>
<DOC_START>
उन्मार्गः कं न पीडयेत् दयोदयचम्पूः ४६
<DOC_END>
<DOC_START>
अयं वर्गः तत्त्वार्थसूत्रविषये विद्यते ।
<DOC_END>
<DOC_START>
रत्नानि ननु तान्येव यानि यान्त्युपयोगिता । दयोदयचम्पूः ७१
<DOC_END>
<DOC_START>
१. ऋषयस्ते खलु येषां परिग्रहे
<DOC_END>
<DOC_START>
१. गुणकोट्या तुला कोटिं यदेकमपि टीकते
<DOC_END>
<DOC_START>
अयं वर्गः ककारादिविषयाणां जैनदर्शनसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः अकारादिविषयाणां जैनदर्शनसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
मार्जारः यदा दुग्धं पिबति तदा चक्षुषी निमील्य पिबति । तदा कस्यापि गमनम् आगमनं वा स न जानाति ।
नेत्रे निमीलिते इति कारणेन मां कोऽपि न पश्यति इति सः चिन्तयति । एवं यः कश्चन पापं करोति सोऽपि
मार्जार इव व्यवहरति इति भावः ।
<DOC_END>
<DOC_START>
मार्जारस्य अभ्यञ्जनेन किम् फलम् कियता अपि तैलाभ्यञ्जनेन किं प्राप्यते एवम् अनावश्यकं व्यर्थं च कार्यं अनेन न्यायेन बोध्यते ।
<DOC_END>
<DOC_START>
माषराशिः अतीव कृष्णवर्णीया भवति । कस्यापि माषधान्यस्य उपरि मषी स्थापिता अनन्तरं च सः माषकणः राशौ क्षिप्तः चेत् अनन्तरं कस्य माषस्य उपरि मषी स्थापिता इति ज्ञातुमपि अशक्यं भवति । एवं समानधर्मीयाः परस्परम् संमिलिता भवन्ति इति भावः ।
भाव भाव बलीयसि खलु अन्धकारे माषराशिप्रविष्टा इव मषीगुटिका दृश्यमानैव प्रनष्टा वसन्तसेना । (मृच्छकटिके)
<DOC_END>
<DOC_START>
मीमांसाशास्त्रे अनेके न्यायाः उपलभ्यन्ते । शास्त्रीये व्यवहारे तेषाम् अधिकप्रयोगः भवति । लौकिकन्यायानां वर्गे तेषाम् अन्तर्भावः यद्यपि अशक्यः तथापि क्वचित् तेषाम् उपयोगः लौकिसंदर्भे भवति इति कारणेन अत्र ते संगृह्यन्ते । परं तेषामत्र विवरणं शास्त्रीयं भूत्वा प्रकृतसंग्रहस्य प्रयोजनं बाधयेत् इति धिया लौकिकन्यायसाहस्रीगतानां मीमांसान्यायानां नामानि अत्र दीयन्ते ।
१. होलिकाधिकरणन्यायः, २. वाङ्नियमन्यायः, ३. दर्वीहोमन्यायः, ४. वाक्यार्थप्रतिपत्तिन्यायः, ५. अङ्गगुणनिषेधे तादर्थ्यादिति न्यायः ६. अनारभ्य अधीतानां प्रकृतौ वा द्विरुक्तत्वादिति भावः ७. यागानां दैक्षस्य च इतरेषु इति न्यायः, ८. पशुसोमाधिकरणन्यायः ९. निषादस्थपतिन्यायः, १०. प्रतिप्रधानं गुण आवर्तनीय इति न्यायः ११. गुणविरोधन्यायः १२. अरुणाधिकरणन्यायः
एतेषाम् अन्येषामपि बहूनां मीमांसान्यायानाम् विषये म. म. पी.व्ही काणे रचिते धर्मशास्त्रे पञ्चमभागस्य द्वितीयं प्रकरणम् (पृष्ठसंख्या १३३९-१३५८) द्रष्टव्यम् ।
<DOC_END>
<DOC_START>
मुञ्जनामकस्य तृणविशॆषस्य मध्यभागे अतीव कोमलः कश्चन भागः भवति । तस्य नाम इषीका । मुञ्जनिष्कासनेन इषीकायाः ग्रहणं कर्तुं शक्यते । तथैव युक्त्या अन्वयव्यतिरेकाभ्यां च शरीरात् विभिन्नम् आत्मानं साधनसंपन्नाः साक्षात् कुर्वन्ति । तदा स्वयम् आत्मा ब्रह्म भवति ।
यथा मुञ्जात् इषीकैवम् आत्मा युक्त्या समुद्धृतः ।
शरीरत्रितयाद् धीरैः परब्रह्मैव जायते ॥ (पञ्चदशी १-४२)
सदा जनानां हृदये संनिविष्टः ।
धैर्येण तं विद्यात् शुक्रममृतम् ॥ कठोपनिषदि ६-१७
<DOC_END>
<DOC_START>
शिरोमुण्डनानन्तरं शुभनक्षत्रस्य शोधनं व्यर्थमेव खलु । मुण्डनात् पूर्वं यदि शुभनक्षत्रम् अन्विष्यते तर्हि प्रयोजनं भवतीति तादृशस्य निष्प्रयोजनकर्मणः उल्लेखाय अस्य न्यायस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
मूषा नाम तादृशं यन्त्रम् स्थापितः यस्मिन् यत्र ताम्रादि धातुद्रवपदार्थः अभीष्टाम् आकृतिं प्राप्नोति । मूषास्थापितः द्रवपदार्थः किञ्चित्कालानन्तरं शीतलः भवति । तदा तस्य मूषायाः आकृतिः भवति तथैव चित्तं रुपादिविषयान् व्याप्नोति । तत् स्वस्य विषयं कृत्वा स्वयं तदाकारं भवति अन्ते ।
मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा ।
<DOC_END>
<DOC_START>
मूषिकस्य विषाण इति अशक्यं दृश्यम् । तथा अशक्यस्य
विषयस्य उल्लेखार्थं न्यायस्य अस्य प्रयोगः भवति ।
<DOC_END>
<DOC_START>
एकस्यां पेटिकायां वहूनि वस्तूनि स्थापितानि । एकः सर्प कथञ्चित् तस्यां पेटिकायां बद्धः अन्नविहीनः प्राणमात्रावशॆषेण जीवति स्म । एकदा एकः मूषिकः खाद्यम् अन्विषन् पेटिकां दृष्द्वा तस्याः च्छिद्रं कृत्वा अन्तः प्रविष्टः । स्वमुखे इव आगतं मूषिकम् अवलोक्य सर्पः आनन्देन तं खदितुं प्रयत्नं कृतवान् । परन्तु चतुरः सः मूषिकः तैनेव च्छिद्रेण वहिः आगतः । एवं दैवायत्तानि कर्माणि विचित्राणि भवन्ति । सुखम् अपेक्षमाणः दुःखं दुःखम् अपेक्षमाणः च सुखं विन्दति लोके ।
<DOC_END>
<DOC_START>
कस्यापि तरोः मूले कीडाः भवन्तिचेत् सः तरुः नष्ट एव भवति । एवं सर्वत्र मूले नष्टे सर्वं नष्टं भवति इति भावः ।
<DOC_END>
<DOC_START>
मृगतृष्णा नाम हरिण्याः तृष्णा पिपासा इति यावत् । पिपासिता हरिणी मृगजलं प्रति धावति परन्तु मृगजलमिति केवलं भ्रमः । वेदान्तशास्त्रानुसारम् इदं जगत् मृगजलवत् मिथ्या इति सिद्धान्तः ।
रे चित्त चिन्तय चिरं चरणौ मुरारेः
पारं गमिष्यसि यतो भवसागरस्य ।
सर्वे विलोकय सखे मृगतृष्णिकावत् ॥ (सा. ४४२)
<DOC_END>
<DOC_START>
मृदा निर्मितः घटः अनायासेन भेत्तुं शक्यः योजयितुं च अशक्यः । एवं दिर्जनैः कृता मैत्री सुखेन भेत्तुं शक्या सन्धातुं च अशक्या । सुजनैः च कृता मैत्री कनकघट इव भेत्तुम् अशक्या भिन्ना च पुनः सन्धातुं सुशक्ता इति भावः ।
मृद्घट इव सुखभेद्यो दुः सन्धानश्च दुर्जनो भवति ।
सुजनस्तु कनकघट इव दुर्भेदः सुकरसन्धिश्च ॥ पञ्चतन्त्रे २-३८
<DOC_END>
<DOC_START>
चातकनामा पक्षिविशेषः मेघात् साक्षात् प्राप्तं जलम् एव पिबति इति प्रतीतिः । अन्येभ्यः जलाशभ्यः सः जलं पातुं न इच्छति । सदा मेघानाम् आगमनम् एव प्रतीक्षमाणः भवति आतुरतया । एतादृशी मैत्री क्वचिद् भवति इति अनेन न्यायेन बोध्यते ।
<DOC_END>
<DOC_START>
परस्परं युध्यतोः द्वयोः मेषयोः मध्ये तयोः कलहम् उपशमयितुं कश्चन शृगालः गतः । परन्तु हन्त तयोः प्रहारैः स एव मृतः अभवत् । एवं बलवतोः कलहे विना कारणं गतः दुर्बलः अवश्यमेव नाशं प्राप्नोति इति भावः ।
<DOC_END>
<DOC_START>
यथा राजा तथा प्रजाः इति प्रसिद्धं वाक्यम् । साधारणः जनः राजानं पालकं वा अनुकरोति । राज्ञः च गुणाः दोषाः वा प्रजासु प्रतिफलन्ति इति भावः ।
<DOC_END>
<DOC_START>
अयं वर्गः यकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
एकस्मिन् एव वाक्ये एकसंख्याकम् उद्देश्यं विधेयं भवतः चेत् प्रथमस्य उद्देशस्य प्रथमेन विधेयेन द्वितीस्य द्वितीयेन तृतीयस्य च तृतीयेन इति कश्चन अन्वयक्रमः भवति ।
त्वम् अरिं मित्रं सङ्कटं च जय रञ्जय सहस्व च । इत्युक्ते यथाक्रमम् अरिं जय, मित्रं रञ्जय, सङ्कटं च सहस्व इति अन्वयः भवति ।
यथासड्ख्यम् अनुदेशः समानाम् इति पाणिनिकृतं सूत्रम् अस्ति (१-३-१०)
तथा एतस्य न्यायस्य उपयोगः टाडसिडसाम् इतात्स्याः इति पाणिनिसूत्रे (७-१-१२) भवति । टा- ङसि इति प्रत्ययानां स्थाने इन – आत्क्षस्यक्ष इत्येते भवन्ति इत्युक्ते यथाक्रमं टास्थाने इनादेशः, ङसिस्थाने आतप्रत्ययः ङसस्थाने च स्य इति आदेशाः भवन्ति इति भावः ।
<DOC_END>
<DOC_START>
एकस्मात् कार्यात् अनन्तरमेव कार्यान्तरं संपद्यते चेत् कार्यद्वयस्य कार्यकारणभावं निश्चीयते सर्वैः । प्रथमकार्यं द्वितीयकार्यस्य कारणम् द्वितीयं च प्रथमस्य कार्यम् इति कार्यकारणभावः भवति ।
स्नुषायाः आगमनानन्तरं किमपि मङ्गलं गृहे संजातं चेत् स्नुषायाः आगमनेन तत् जातम् इति भावयन्ति खलु ।
<DOC_END>
<DOC_START>
केषाञ्चन शब्दानां शिष्टभाषायां ग्रामीणभाषायां च भिन्नार्थाः भवन्ति । यव वराहशब्दौ उदाहरणरुपेण शास्त्रेषु दर्शितौ । यथाः यववराहादिकरणन्यायेन लोकप्रसिद्धिः शास्त्रीयप्रसिद्ध्या बाध्यते इत्याह ।
जैमिनीयमीमांसादर्शने शास्त्रप्रसिद्धार्थ –प्रामाण्याधिकरणं किंवा आर्यम्लेच्छाधिकरणम् इति अधिकरणं विद्यते । कोलब्रूक महाशयेन मीमांसानिबन्धनामके ग्रन्थे कनिचन उदाहरणानि दत्तानि ।
! शब्दः शिष्टभाषायाम् अर्थः म्लेच्छभाषायाम् अर्थः
संस्कृतभाषायां तेलुगुभाषायां च ‘राजा’ इति शब्दस्य प्रयोगः क्रियते । तेलुगुभाषायां सः आदौ क्षत्रियवाचकः पश्चात् च जाति वाचकः अभवत् । मूलार्थः तथैव अस्ति तेन सह अन्यार्थः अपि जातः ।
<DOC_END>
<DOC_START>
अयं वर्गः औकारादिविषयाणां जैनदर्शनसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः ऋकारादिविषयाणां जैनदर्शनसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
यवागूद्रवस्य नियमपरिणामेन पानेन तृप्तिः आनन्दश्च भवति । तेन यवागूद्रवपूर्णे गर्ते तरणं करणीयम् इति केनापि न भाव्यते खलु । योग्यपरिमाणेन पदार्थस्य सेवनं स्वास्थ्यकारि भवतीति भावः । अस्य अर्थस्य कश्चन श्लोकः गीतायाम् अस्तिः
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ भगवद्गीतायाम् ॥६-१७
<DOC_END>
<DOC_START>
अयं वर्गः उकारादिविषयाणां जैनदर्शनसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
कस्याश्चित् समीपे भूषणानि न भवन्ति चेत् सा अन्यस्याः सकाशात् कञ्चिकालं यावत् तानि भूषाणानि याचित्वा प्राप्तुं शक्नोति । तथा सर्वेषां पुरतः भूषणदर्पं धारयितुं शक्नोति ।
अस्याः मुखश्रीप्रतिबिम्बमेव जलाच्च तातान्मुकुराच्च मित्रान् ।
अभ्यर्थ्य धत्तः खलु पद्मचन्द्रौ विभूषणं याचितकं कदाचित् ॥
दमयन्त्याः मुखशोभायाः प्रतिबिम्बं जले दर्पणे च भवति । ततः एव काञ्चित् शोभां सूर्यः चन्द्रश्च प्राप्य लोके ते जस्विनौ इति यशः धारयतः ।
<DOC_END>
<DOC_START>
पुरा तैलदीपानां प्रकाशे कथाप्रवचनादिकं रात्रिकाले क्रियते स्मतैलं समाप्तं भूत्वां दीपः गतप्रकाशः भवति चेत् अन्धकारे कोऽपि कथाप्रवचनादिकं श्रोतुं न इच्छति । अतः यावत् तैलं तावत् एव आख्यानं कथाप्रवचनादिकं कथयित्वा तस्य दिवसस्य आख्यानं समापनीयम् भवति । एवं यावती सामग्री उपलब्धा तावत्या कार्यं सम्पादनीयम् इति भावः । अन्यथा कार्यमेव नश्येत् ।
<DOC_END>
<DOC_START>
यः अर्थः अतीव स्पष्टः तस्य स्पष्टीकरणार्थम् अधिकशब्दानां प्रयोगः अनपेक्षितः भवति इति भावः ।
कश्चात्र विशेषः स यदि वाचनिकः ततः यावद्वचनमेव कर्तव्यः ।
तन्त्रवार्तिके ५-३-१२ मीमांसासूत्रभाष्ये ५-४-११, ५-३-१२
<DOC_END>
<DOC_START>
परस्परं युध्यतः कुक्कटौ महतः रक्तस्रावात् अनन्तरमपि युद्धं न त्यजतः । एवं दुराग्रहफीडितानां विषये अस्य प्रयोग भवति ।
<DOC_END>
<DOC_START>
यूकाः सन्ति इति भयेन कोऽपि कम्बलमञ्चादिकाम् अनाश्रयेत् कविना किम् तथा अल्पकष्टेन संत्रस्तः लाभदायकं न परित्यजेत् इति भावः । एवमेव काव्यरचनायाः आस्वादं केचन कर्तुं न शक्नुवन्ति इति कारणेन काव्यरचना एव न करणीया किम् केचन रसिकाः तत् काव्यम् अवश्यमेव स्वीकुर्युः इति भावः ।
काव्ये शुभे विरचिते खलु नि खलेभ्यः
कश्चिद् गुणो भवति यद्यपि संप्रतीह ।
कुर्याः तथापि सुजनार्थमिदं यतः किं
यूकाभयेन परिधानविमोक्षणं स्यात् ॥ (सुभाषितम्)
<DOC_END>
<DOC_START>
यूपे पशुः बद्धः चेत् तस्य पशोः मरणं निश्चितम् इति ज्ञायते । एवं लक्षणे सिद्धे परिणामः स्वयं भवतीति भावः ।
<DOC_END>
<DOC_START>
पटः अस्ति इति निराकाङ्क्षं वाक्यम् । तथापि कीदृशः पटः इति आकांक्षां जनयित्वां ‘रक्तः पट’ इति समाधीयते । तेन द्वयोः एकवाक्यता सिद्ध्यति । एवं निराकांक्षस्य वाक्यस्य स्थले अपि आकांक्षाजननेन एकवाक्यता साध्यते इति भावः । (सा. ५०१)
<DOC_END>
<DOC_START>
अयं वर्गः रकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
अन्धकारादिकारणैः रज्जौ सर्पस्य आरोपं कृत्वा सर्पभ्रमम् आप्नुवन्ति बहवः । रज्जुमेव सर्पं मत्वा भयभीताः भवन्ति । अद्वैतदर्शने अस्य अनेकवारं प्रयोगः क्रियते । रज्जौ सर्पः इव चैतन्यात्मके ब्राह्मणि जगत् केवलम् आरोप्यते इति भावः । एतम् एव भ्रम इति, अध्यास इति, विवर्त इति अद्वैतवेदान्ते उल्लिखन्ति । “अवस्थान्तरं तु विवर्तो रज्जुसर्पवत्” इति प्रसिद्धम् उदाहरणाम् । रज्जौ सर्वभ्रम इति प्रसिद्धम् उदाहरणम् । बापटशास्त्रिणां विवरणं तावत् एवम् अस्तिः निरवयवस्य आनन्दत्मकस्य ब्रह्मणः सावयवस्य जगतः आरम्भो वा परिणामो वा न संभवति । यथा निरंशस्य निर्विकारस्य कूटस्थस्य च आकाशस्य नीलतलत्वादिभ्रमः तथा निरंशस्य निर्विकारस्य कूटस्थस्य च आकाशस्य नीलतलत्वादिभ्रमः तथा निरंशस्य ब्रह्मणः स्थले सावयवजगतः भ्रमः संभवति । अयमेव अद्वैतिनां विवर्तवादः ।( विवर्तः नाम अन्यथाभानम् । अतत्त्वतः अन्यथाज्ञानाम् इति यावत् । परिणामः नाम पूर्वधर्मपरित्यागे धर्मान्तरग्रहणम् ।)
<DOC_END>
<DOC_START>
रण्डानाम् शीलरहिता स्त्री । तस्याः विवाहः इत्युक्ते शङ्काभवति यत् इयं विवाहेच्छां करोति न वा इति । विवाहात् अनन्तरं स्वैरचारः अवरुद्धा भवेत् । एवं स्वैरचारिण्याः प्रवृत्तेः बोधः अनेन क्रियते । दुः शीलायाः विवाह इव निन्दनीयकर्म अनेन बोध्यते ।
<DOC_END>
<DOC_START>
रथकार इति शब्दस्य सामान्यतः रथं करोति । इत्यर्थे सौधन्वननामकः इत्यर्थः । त्रैवर्णिकानाम् अत्र समावेशः नास्ति ।
तस्मात् अत्रैवर्णिको रथकारः (मीमांसासूत्रभाष्ये ६-१-४४) योगाद् रुढिर्बलीयसी इति खलु उच्यते । यौगिकार्यस्य अपेक्षया रुढ्यर्थस्य बलीयस्त्वं रथकारन्यायेन बोध्यते । मीमांसाभाष्य ६-१-४४-५०) ‘रथकार आदधीत’ इति विधिवाक्यम् अस्ति । तत्र रथकारनामकः ब्राह्मण इति अर्थः गृह्यते ।
यथा- आधाने खलु श्रूयते वर्षासु रथकार आदधीत इतिचेत्, मैवं- संकीर्णजातिविशेषरुढत्वात् । वैश्यायां क्षत्रियाद् उत्पन्नः महिष्यः । शूद्रायां वैश्यात् उत्पन्ना करणी । तस्यां करण्यां महिष्याद् उत्पन्नः रथकारः । तथा च याज्ञवल्क्यः माहिष्येण करण्यां तु रथकारः प्रजायते इति ।
<DOC_END>
<DOC_START>
रथे योजिते अश्वे (वड्वा – इति स्त्रीलिङ् शब्दः अश्वा इत्यर्थे) यदि परस्परसहमत्या रथं वहेतां तदा रथगतिः समीचीना भवेत् । तथा संसाररथे योजितौ दम्पती परस्परं सहमत्या जीवनं नयताम् । तेन जीवनरथः समीचीनगत्या चलेत् । (सा. ३९३)
<DOC_END>
<DOC_START>
अयं वर्गः इकारादिविषयाणां जैनदर्शनसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
रथ्यानाम् महामार्गः । रात्रिसमये कोऽपि रथ्यायां हस्ते दीपं गृहीत्वा चलति चेत् आदौ दीपस्य प्रकाशः अग्रे किञ्चिद् दूरं यावत् प्रसरति परन्तु यदा सः जनः अग्रे चलति दीपस्य प्रकाशः अपि अग्रे गच्छेत् । पृष्ठतः अन्धकारः अपि तत् स्थलं व्याप्य तेन सह आगच्छेत् । प्रकाश – अन्धकारयोः इयं क्रीडा मनुष्यजीवनस्य सुख दुःखक्रीडां द्योतयति इति भावः ।(सा. ५६५)
<DOC_END>
<DOC_START>
अयं वर्गः आकारादिविषयाणां जैनदर्शनसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
वर्षाकाले रथ्यायां प्रवहन्तः सर्वे प्रवाहाः अन्ते महान्तं जलाशयं प्रतियान्ति । एवमेव समाजे तत्त्वज्ञानक्षेत्रे राजकीयक्षेत्रे वा सर्वे अल्पबलाः महान्तं प्राप्नुवन्ति इति भावः ।
<DOC_END>
<DOC_START>
सूर्यरश्मिना तृणादिकं विविधवर्णात्मकम् इव प्रकाशते । स एव प्रकाशः सूर्यकान्तमणौ पतति चेत् सूर्यकान्तमणिः ज्वलति । एवं मनुष्यस्य अपि कुत्रचित् प्रीतिः कुत्रचित् द्वेषः भवति इति भावः । (सा. ४०२)
<DOC_END>
<DOC_START>
राज्ञः राजधान्यां प्रवेशसमये केषाञ्चन विशिष्टनियमानां पालनं करणीयं भवति । अन्यथा राजसेवकाः ग्रहीष्यन्ति । क्वचित् दण्डः अपि प्राप्येत् । अतः नियमपालनमेव श्रेयस्करम् इति ज्ञायते खलु । एवं तर्कसंगतं कार्यकारणभावं बोधयति अयं न्यायः । (सा. १८५)
<DOC_END>
<DOC_START>
एकदा एकं राजपुत्रं तस्य विमाता कुत्रचित् अरण्ये त्यक्तवती । तदा तम् एकः व्याधः रक्षित्चा पुत्रवत् पालितवान् । कालान्तरे केचन राजबान्धवाः तं परिचित्य ‘त्वं व्याधपुत्रः नासि राजपुत्रः असि’ इति उक्तवन्तः । तेषां वचनेन स्वस्य यथार्थस्वरुपं ज्ञात्वा सः आत्मनः क्षत्रियगुणान् प्राप्य कालेन राजा अभवत् ।
एवं मनुष्यः स्वरुपं यथार्थेन अज्ञात्वा बद्ध इव अज्ञाने जीवति परन्तु सद्गुरोः उपदेशेन स्वरुपं ज्ञात्वा सः मुक्तः भवति इति भावः ।
<DOC_END>
<DOC_START>
राजसेवा वा अन्या काऽपि सेवा वा कठिना भवति । कियत्या श्रद्धया कृता अपि सा स्वामिनः तृप्त्यै न भवति । एवं कठिनकार्यस्य उल्लेखः अनेन न्यायेन क्रियते ।
तुल्यः – सेवाधर्मः परमगहनो योगिनामप्यगम्यः । भर्तृहरनीतिशतके ४७
<DOC_END>
<DOC_START>
यत्र विधिवाक्यस्य फलस्य निर्देशः नास्ति तत्र अर्थवादेन कथितस्य फलस्य अतिदेशः करणीयः इति मीमांसाशस्त्रे कश्चन नियमः भवति । एवमेव यत्र कस्यापि फलस्य उद्देश एव न दृश्यते तत्र स्वर्ग एव फलरुपेण स्वीकार्यः भवति वैदिकविधिसंदर्भेषु ।
१. मीमांसासूत्रम् ४-३-१७, १८, १९, २. तथा सर्वपापप्रदाहोऽपि उपक्रान्तस्य उपासनस्य फलाकाङ्क्षया रात्रिसत्रन्यायेन अर्थनादिकफलविपरिणामे कर्तव्ये प्रधानार्थवाद इव अङ् गार्थवादे श्रुतस्यापि फलस्य ग्रहणौचित्यात् ।
ब्रह्मसूत्र – कल्पसूत्रपरिमलव्याख्याने ३-३-३१ (मीमांसाशास्त्रे यथा प्रतितिष्ठन्ति ह वै य एता रात्रीः उपयन्ति इत्यत्र विध्युद्देशे फलाश्रवणात् आर्थवादिकं प्रतिष्ठाख्यं फलम् – इत्युक्तम् ॥ मीमांसान्यायप्रकाशे । रात्रिनामकोः क्रतवः इत्यर्थः रात्रिसत्रशब्दस्य ।)
<DOC_END>
<DOC_START>
राधा इति शब्दस्य लक्ष्यधारणार्थम् आसनम् इति अर्थः । राधावेधः नाम कस्यचित् लक्ष्यस्य मध्यभागे लक्ष्यं तस्य वेधनम् । अर्जुनस्य नामसु ‘राधाभेदिन्’ इति एकम् अस्ति –
सा चेद् यदि भवेत् कस्य सामग्रीयं सुदुर्लभा ।
उपमितप्रपञ्चकथा पृष्ठानि ४१३, ४२०, ४३४
<DOC_END>
<DOC_START>
करण्डके स्थापितस्य रामठस्य एतावान् प्रभावः भवति यत् तस्मिन् यावत्कालपर्यन्तं तिष्ठति तावत् करण्डकं सुगन्धयति पश्चात् अपनीयते चेदपि सुगन्धः करण्डके भवति एव । एवं सज्जनाः यावत्कालपर्यन्तं सह भवन्ति तावत् स्वसंगत्या अन्येषां जीवनं रञ्जयन्ति कालान्तरे गच्छन्ति चेदपि स्वसङ्गतेः सुगन्धं तथैव स्मरणरुपेण त्य जन्ति इति भावः ।
<DOC_END>
<DOC_START>
रासर्भस्य क्रन्द्रितम् आदौ दीर्घ क्रमेणा च हीनं भवति । दुष्टानां प्रीतिः अपि आदौ दीर्घा क्रमशश्च हीना भवति इति भावः । (सा. ३३०)
<DOC_END>
<DOC_START>
राहोः शिरः नाम सर्पः छायाग्रहः, राक्षसः इत्यादिकं कथयन्ति केचना परन्तु अस्य कोऽपि निश्चितः अर्थः नास्ति । अनेकाभिः अवस्थाभिः युक्तं राहोः शिरः इति वैयाकरणस्य नागेशस्य मतम् । राहुः कश्चन दानवः आसीत् ।
१. द्वावेव ग्रसते दिनेश्वर- निशाप्राणेश्वरौ भास्वरौ ।
भ्रातः पर्वणि पश्य दानवपतिः शार्षावशॆषाकृतिः ॥
अमृतपानाय उद्युक्तस्य राहोः शिरश्छेदं महाविष्णुः चक्रेण कृतवान् परन्तु ब्रह्मदेवस्य वरबलेन राहुः न मृत इति केचन कथयन्ति । राहुसंवन्धिनः बहवः उल्लेखाः ज्योतिषशास्त्रे सन्ति । ते तावत् लौकिकन्यायसाहस्त्रीतः अवगन्तव्याः (पृष्ठेषु १५९-१६३)
२. जातग्रहत्वेऽपि असितत्त्वात् सूर्यादिग्रहवत् न दृश्यते गगने पर्वकालात् अन्यत्र ब्रह्मवाक्यात् इति ।
३. मुखं पुच्छं च यस्य न भवति परम् अङ्गानि भवन्ति सः राहुः इति केषाञ्चन मतम् ।
(राहोः शिरः इत्यत्र शिरोमात्रावशिष्टस्य राहोः उल्लेखः क्रियते चेदपि यत् शिरः तदेव राहुः इति यः राहुः तत् शिरः इति च बोधः । पदार्थद्वयाभावेऽपि राहोः इत्यत्र षष्ठीविभक्त्या कस्य संबन्धः बोध्यते इति विचारः । पदार्थद्वयस्य अभावेऽपि तादृशप्रयोगाः क्रियन्ते भाषायाम् । योगशास्त्रे विकल्प इति एतेषाम् उल्लेखः क्रियते यथा चैतन्यं पुरुषस्य स्वरुपम् इत्यत्र चैतन्यमेव पुरुषः इति कारणेन केन कस्य व्यपदेशः क्रियते इति भाष्ये विवृतम् )
<DOC_END>
<DOC_START>
रुमानामके लवणसमुद्रे क्षिप्तं काष्ठम् अपि लवणं भवति इति कथयन्ति जनाः । सङ्त्याः अयं महिमा यत् सङ्गतं वस्तु तदाकारं भजति ।
१. यथा रुमाया लवणाकरेषु मेरौ यथा वोज्ज्पलरुक्मभूमौ ।
यज्जायते तन्मयमेव तत् स्यात् तथा भवेद् वेदविदात्मतुष्टिः ॥
२. बहूनामेकत्र परिणामो दृष्टः । गवाश्वमहिषमातङ्गानां रुमाक्षिप्तानाम् एको लवणत्वजातीयलक्षणः परिणामः वर्ति –तैल – अनलानां च प्रदीप इति ।
<DOC_END>
<DOC_START>
रुपसामान्येन कदाचित् पदार्थद्वस्य ऎक्यज्ञानं भवति । वस्तुद्वयं सरुपम् इत्युक्तेऽपि पूर्णतः सारुप्यं न भवति । गृहद्वये वर्तमानं धान्यम् एकरुपं भवति चेदपि यथार्थतः भिन्नमेव खलु । सादृश्यवशात् तादृशव्यवहारो भवति । सादृश्यं नाम तद्भेदे सति तदगतभूयोधर्मवत्त्वम् इति कथयन्ति ।
<DOC_END>
<DOC_START>
गवयः कीदृशः भवति इति केनचित् गवयम् अजानता पृष्टं तदा गवयज्ञः कश्चन रेखाभिः गवयस्य आकृतिं रचयित्वा गवयज्ञानं तस्मै दत्तवान् । ततः परं रेखागयज्ञानं परित्यक्तवान् इति । एवं कश्चन आत्मबोधमार्गे प्रवर्तमानः सन् आदौ शास्त्रात् गुरुपदेशाच्च आत्मनः स्वरुपं जानाति पश्चान् स्वयम् आत्मानुभवं कृत्वा पूर्वंतनं शब्दज्ञानं परित्यजति इति भावः । वेदान्तशास्त्रे अस्य प्रयोगः कृतः –
१. वाचस्पतिमिश्र- तात्पर्यटीकायां पृष्ठे ४५७
(व्याकरणशास्त्रेऽपि रेखागवयन्यायस्य प्रयोगः क्वचित् समुपलभ्यते । भौतपूर्व्यात् सोऽपि रेखागवयादिवदास्थितः ॥ भूषणसारेसमासशाक्तिनिर्णये २९-३०)
<DOC_END>
<DOC_START>
यथा रोगी मृतः भवति तदा तस्य रोगोऽपि नष्टः भवति । तथा धर्मिणः विनाशे धर्माणाम् अपि नाशः भवति इति भावः । (सा. ३१५)
<DOC_END>
<DOC_START>
यथा वृक्षादि – आधारं विना लता न वर्धते तथा कमपि आधारं विना वस्तुनः मनुष्यस्य च वृद्धिः न भवति इति भावः ।
<DOC_END>
<DOC_START>
अयं वर्गः लकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः रकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
कञ्चन विशिष्टप्रसङ्गम् आधृत्य प्रवर्तितः अयं न्यायः । शाङिखनी प्रसन्ना चेत् धनं दद्यात् अहं लपोरकनामकः शङ्खः बहु लपामि परं किमपि दातुं न शक्नोमि इति एकः वदति । लपोरको नाम बहुलपनशीलः इति ।
शाङिखनी काञ्चनं दद्यात् अहं शङ्खो लपोरकः ।
वदामि बहुवाक्यानि न ददामि कपर्दिकाम् ॥ (सा. १३८)
<DOC_END>
<DOC_START>
समुद्रस्य लवणं वनस्य आमलकी यदि एकत्री भवतः तेन किम् अनपेक्षितमेलनस्य प्रसङ्गे अस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
लशुनभक्षणं निषिद्धमिति कथ्यते । रोगनिवारणार्थं केनचिद् रुग्णेन लशुनं भक्षितं चेदपि रोगोपशमनं न जातं चेत् निषेध –उल्लङ्घनस्य पापमात्रम् एव फलं भवति खलु । एवं कस्यचित् नियमस्य उल्लङ्घनेनापि फलं न प्राप्तं – इति बोधयितुम् अस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
कार्पासबीजानि लाक्षारसेन अवसिक्तानि कृत्वा अनन्तरम् उप्यन्ते चेत् अग्रे उत्पत्स्यमानः कार्पास अपिः रक्तः भवति एवं कर्मणां याः वासनाः भवन्ति तासां बलेन मनुष्यस्य प्रवृत्तिः तादृशी एव भवति इति भावः । यथा -
यस्मिन्नेव सन्ताने ह्याहिता कर्मवासना ।
फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ।
<DOC_END>
<DOC_START>
लाङ्गलम् इति क्षेत्रिकाणां जीवनम् एव । यतः तत् विना क्षेत्रकर्म एव न भवति । एवं यत्र साध्यसाधनयोः कार्यकारणयोः च तादात्म्यं अभिप्रेतं भवति तत्र अस्य न्यायस्य प्रयोगः भवति ।
यथाः १) आयुः प्पृतम् (इत्यत्र आयुः साध्यं प्पृतं च कारणम् तथापि अनयोः तादात्म्यं पूर्णतः अभिप्रेतम् अस्ति )
२ यथोक्तविद्याबोधित्वाद् ग्रन्थोऽपि तदभेदतः भवेदुपनिषन्नाम्ना लाङ्गलजीवनं यथा । सुरेशवराचार्यवार्तिके पृष्ठे १)
<DOC_END>
<DOC_START>
कस्यचित् शुनकस्य पुच्छं गृहीत्वा (धृत्वा) कोऽपि नदीं तुर्तुम् इच्छेत् चेत् क्रियत् मूर्खं कर्म स्यात् एवं व्यर्थस्य कर्मणः उल्लेखाय न्यायस्य अस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
१. लूतायाः शरीरात् विशिष्टतन्तुनिर्माणं भवति । तैः तन्तुभिः लूता जालं निर्माति स्वयं च जालात् पृथगपि स्थातुं शक्नोति । एवं परमेश्वरः स्वस्मात् जगत् निमार्य अन्ते तस्य लयं स्वस्मिन् करोति ।
२. लूता जालस्य निमित्तकारणं च भवति । तथैव ब्रह्म जगतः उपादानकारणं निमित्तकारणं च भवति । मायासहितः जगत् निर्माति । एवं वेदान्ते अस्य उपयोगः क्रियते । (सा. ५०२)
<DOC_END>
<DOC_START>
लोष्टं नाम मृत्पिण्डम् । प्रस्तराः नाम शिलापिण्डम् । तयोः भारः कियान् कस्य वा अधिकः इति तदा एव ज्ञायते यदा ते हस्ते धार्येते । द्वयोः साम्ये अपि भारेण तयोः वैषम्यं ज्ञायते ।
एवं समानयोः अपि गुणधर्माः भिन्नाः भवितुम् अर्हन्ति इति बोधयितुम् अस्य प्रयोगः क्रियते । (सा. ६७५)
<DOC_END>
<DOC_START>
लगुडः दण्डः दण्डेन लोष्टं चूर्णसात् भवति । अतः द्वयोः अपि लोष्टलगुडयोः मध्ये उपमर्द्य- उपमर्दकभावः विद्यते । एवं परस्परं नाश्यनाशकभावः ययोः भवति तयोः अनेन न्यायेन बोधः क्रियते । (सा. ५०३)
<DOC_END>
<DOC_START>
लोहपात्रस्य अयं विशिष्टधर्मः यत् लोहपात्रं शीघ्रम् अन्यत्र न लगति अन्यद् वा न स्वीकरोति । सज्जनः अपि एवं सहसा आसक्तिं द्वेषं वा न करोति । लोहपात्रम् । इव दृढः च भवति इति लोहकपालवत् सज्जनप्रवृत्तिः भवति इति सूच्यते ।
<DOC_END>
<DOC_START>
स्वस्य प्रदेशे एव वर्तमानम् अपि लोहचुम्बकं लोहशकलान् आकर्षति । एतावदेव न तेषु लोहशकलेषु आकर्षणशक्तिम् अपि जनयति । एवं सांख्यदर्शनोक्तः पुरुषः बुद्धिं चोदयित्वा बुद्धिं चेतनायुक्ताम् इव करोति ।
वेदान्तशास्त्रेऽपि अस्य न्यायस्य प्रयोगः क्रियते । एवं स्वतः निष्क्रियम् अपि वस्तु अन्यद् वस्तु क्रियायुक्तं करोति इत्यर्थे अस्य न्यायस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
वज्रवत् सुदृढः लेपः वज्रलेपः भवति । यदि वज्रलेपः कस्याचिद् वस्तुनः उपरि लेपितः तर्हि तत् दूरीकर्तुं न शक्यते एव । एवं चिरस्थायिनः कार्यस्य संबन्धस्य वा वर्णनाय अस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
अत्यन्तलघुबीजात् अपि अतीव विशालः वटवृक्षः जायते । अत्यन्तस्थूलपदार्थः अपि अत्यन्तसूक्ष्मरुपेण स्वकारणे भवति उत्पत्तेः प्राक् इति भावः । संपूर्णस्य विश्वस्य इदमेव तात्त्विकं स्वरुपम् । अतीव सूक्ष्मस्य आत्मनः सर्वम् इदं जगत् अविर्भवति इति उपनिषदां सिद्धान्तः यथा –
तं होवाच यं वै सोम्य एतम् अणिमानं न निभालयसे एतस्य वै सोम्य एषः अणिम्नः एव महान् न्यग्रोधः तिष्ठति श्रद्धत्स्व सोम्य इति । स य एष अणिमा ऎतदात्म्यमिदं सर्वं तत् सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति ॥ छान्दोग्योपनिषद् ६-१२-२-३
<DOC_END>
<DOC_START>
अयं वर्गः वकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
अचेतनम् अपि क्षीरं वत्सस्य शरीरपोषणार्थं गोस्तनात् स्रवति । तथा अचेतनायाः प्रकृतेः विविधपरिणामः सचेतनस्यणामः पुरुषस्य भोगार्थं भवति इति सांख्यसिद्धान्तः । यथा – वत्सविवृद्धिनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ (सांख्यकारिका ५८)
<DOC_END>
<DOC_START>
स्वस्य वचनस्य स्वकीयैरेव वचनैः विरोधः क्रियते अथवा पूर्वोक्तं किमपि तदनन्तरोक्तेन बाधितं भवति चेत् वदतोव्याघात इति न्यायस्य प्रवृत्तिः भवति । यथा- मम जिह्वा नास्ति, मम माता वन्ध्या इत्यादि वचनम् ।
<DOC_END>
<DOC_START>
मैथिलीभाषायाः एकं वाक्प्रचारम् आश्रित्य प्रवृत्तः अयं न्यायः । कश्चन कृपणः ब्राह्मणायः दातव्यम् इति पत्न्यै प्रतिदिनं मु । ष्टिपरिमितं माषधान्यं ददाति स्म । तस्य पुत्रस्य विवाहः जातः वधूः गृहम् आगता । तस्याः मुष्टिः अल्पपरिमाणा इति मत्वा सः ब्राह्ममणः याचकेभ्यः त्वमेव धान्यं देहि इति वधूम् उक्तवान् । तथा क्रियते चेत् अधिकधान्यं याचकेभ्यं दातव्यं न भवति इति तस्य चिन्तनम् आसीत् । परन्तु सा वधूः सुन्दरी आसीत् इतिकारणेन तस्याः दर्शनार्थमपि याचकाः आगच्छान्ति स्म । एवं पूर्वापेक्षया अपि अधिकमेव धान्यं याचकेभ्यः प्रतिदिनं देयम् अभवत् ।
एवं चिन्तितस्य विपरीतम् एव घटितं चेत् अस्य न्यायस्य प्रयोगः भवति ।
यथा – नच अनवस्था अवश्यवेद्यत्वानभ्युपगमात् निश्चयवदन्यथा तु अनिश्चितनिश्चयस्य नाद्यनिश्चयोऽपि न सिद्ध्यत् न च अस्त्वात्मनिश्चय इति तदिदं वधूमाषमापनवृत्तान्तम् अनुहरति ॥ आत्मविवेके पृष्ठे ८७
<DOC_END>
<DOC_START>
द्वयोः यदा परस्परं बाध्य – बाधकभावः भवति तदा अस्य न्यायस्य प्रवृत्तिः भवति । यथाः – प्रतिपद्यपदार्थं हि विरोधात् तद्विरोधिनः । पश्चादभावं जानन्ति ध्यघातुकवत् पदात् ॥ तैत्तिरीयवार्तिके २-१-६५ (सा. ३८०)
<DOC_END>
<DOC_START>
व्याघ्रः सर्वेषां वन्यप्राणिनां सहसा वधं मा करोतु इति वन्यप्राणिनः व्याघ्रस्य रक्षणं कुर्वन्ति । वनं सुरक्षितं भवतु इति व्याघ्रः तेषां रक्षणं करोतु । एवं वनव्याघ्रयोः परस्परसहकार्यं भवति ।
यथा १. सोऽयं वनसिंह- ह्रदनकन्यायः । किरातैः हन्तुं शक्योऽपि सिंहो महद्वनं शरणं प्रविश्य दुराधर्षः तेभ्यो न बिभेति वनं च तत्सिंहाधिष्ठानं अनुग्रहीतं तैः दुष्प्रवेशं भवति । वेदान्तकल्पतरुपरिमले पृष्ठ १००
३. न स्याद् वनमृते व्याघ्रात् न स्युः व्याघ्राद् ऋते वनम्, वनं हि रक्ष्यते व्याघ्रेः व्याघ्रान् रक्षति काननम् । महाभारते उद्योगपर्वणि ३७-४२ (सा. ३९१)
<DOC_END>
<DOC_START>
वन्ध्या नाम अपत्यरहिता स्त्री । वन्ध्यायाः पुत्रः पुत्री वा भवति चेत् सा वन्ध्या न भवति । न भवति चेत् एव सा वन्ध्या भवति । एवम् अशक्यविषयाणां संदर्भे अस्य न्यायस्य प्रयोगो भवति ।
<DOC_END>
<DOC_START>
वर्तुलाकारेण भ्रमतः कन्दुकन्स्य उपरि स्थिताः पिपीलिकाः अपि वर्तुलाकारेण भ्रमन्ति एव ।
ते भ्रमन्तो नाप्नुवन्त्यन्तमन्यत्वं संविदन्ति ।
अद्यापि संस्थिता राजन् न च खेदं भजन्ति ते ॥
<DOC_END>
<DOC_START>
वरपक्षीयाणां वधूपक्षीयाणां च एकत्र विवाहविषयकः वार्तालापः भवति चेदेव पश्चात् विवाहः भवति । गोष्ठी इत्यस्य ‘गावः तिष्ठन्ति यत्र’ इति निर्वचनेन ‘अन्योन्यवार्तालापस्थानविशेषः’ इति अर्थः । यत्र वरविषयकः निर्णयः क्रियते तत् स्थलम् इति यावत् ।
<DOC_END>
<DOC_START>
अनिष्टमेव परित्याज्यम् । वरघात – कन्यावरणयोः वरघाते प्राप्ते कन्यावरणं परित्याज्यम् इति कथयन्ति ।
<DOC_END>
<DOC_START>
“ममाग्रे वर्चो विहवेषु अस्तु” इति विधानेन प्राप्स्यमाणं वर्चः कस्य यजमानस्य वा अध्वर्योः मीमांसाशास्त्रानुसारं तत् वर्चः यजमान एव प्राप्नोति इति सिद्धान्तः । यथा – मीमांसासूत्रे ३-८-२५-२७
<DOC_END>
<DOC_START>
नारिकेलवृक्षात् नारिकेलफलं कथम् अधः पातनीयम् इति एतावन्मात्रम् एव मर्कटः (वलीमुखः) जानाति । तदनन्तरं तत् नारिकेलफलं कथं भञ्जनीयं कथञ्च खादनीयम् इति सः न जानाति । एवमेव असमर्थः हस्तप्राप्तम् अपि सम्यक् उपयोक्तुः न शक्नोति इति भावः ।
<DOC_END>
<DOC_START>
यद्यपि वह्रिः अप्रत्यक्षः भवेत् तथापि प्रत्यक्षात् धूमात् वह्रेः अनुमानं कर्तु शक्यते । यत्र धूमः तत्र वह्रिः इति धूमस्य वह्रिना सह कश्चन साहचर्यनियमः विद्यते । अयम् एव व्याप्तिः इति तर्कशास्त्रे कथ्यते ।
<DOC_END>
<DOC_START>
१. अग्निः एक एव भवति चेदपि संपूर्णं गृहं ज्वालयितुं शक्नोति ।
२. अग्नेः अनेके अग्निकणाः प्रादुर्भवन्ति ।
<DOC_END>
<DOC_START>
एकस्मात् एव वहनेः यथा बहवः विस्मुलिङ्गाः उद्भवन्ति तथा एकस्मात् एव आत्मनः विविधं जगत् प्रादुर्भवति इति वेदान्तसिद्धान्तः ।
<DOC_END>
<DOC_START>
एकः प्रधानार्थः यस्मिन् भवति तद् एकं वाक्यम् इति संस्कृतवाक्यरचनायाः नियम् । परन्तु विभक्ताभिव्यक्तिस्थले प्रत्येकं साकाङ्क्षं भवति । “ अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद् विभागेस्यात्” इति मीमांसासूत्रे (२-१-४१) नियमः दर्शितः ।
एकस्यैव वाक्यस्य खण्डानि जातानि चेत् वाक्यभेद इति दोषः भवति । मीमांसाशास्त्रे खण्डलक्षणं गौरवलक्षणम् इति वाक्यभेदस्य प्रकारद्वयं नर्तते पृथग्वाक्यकल्पना क्रियते चेद् वाक्यभेददोषः ।
संभवत्येकवाक्यत्वे वाक्यभेदो न युज्यते ॥
मीमांसाशास्त्रानुसारं वाक्यस्य एकभागे विधिः भवति चेत् तदितरभागाः तस्य विधेः अर्थवादरुपाः भवन्ति ।
वेदाध्ययनानन्तरं धर्मजिज्ञासा कर्तव्या इति कश्चन विधिः अस्ति । तथापि वेदाध्ययनात् पूर्वं धर्मजिज्ञासा न कर्तव्या इति निषेधः तस्य वाक्यस्य अर्थः न भवति । यदि तादृशः अर्थः स्वीकृतः तर्हि एकस्य वाक्यस्य एव पुनः स्वतन्त्रं वाक्यद्वयं भूत्वा वाक्यभेदः भवति यथा –
१. वेदाध्ययनात् पूर्वं धर्मजिज्ञासा न कर्तव्या ।
२. वेदाध्ययनात् अनन्तरम् एव धर्मजिज्ञासा कर्तव्या ।
<DOC_END>
<DOC_START>
मन्दुरानाम् अश्वशाला । मन्दुरा इत्यनेन शब्देन एव अश्वशाला इति अर्थः बोध्यते चेत् “वाजिमन्दुरा’ इति वाजिसहितस्य मन्दुराशब्दस्य प्रयोगः अनावश्यकः । क्वचित् पुनरुक्तिः सार्था भवति क्वचित् न ।
एतादृशाः पुनरुक्तिप्रयोगाः यथा –पर्वतोपत्यकान्यायः, मृगवागुरान्याय इत्यादयः ।
<DOC_END>
<DOC_START>
वातेन दीपस्य निर्वापणं भवति । निर्वापणं द्विधा भवति । विरोधितत्त्वसमवधानेन अथवा घटकसामग्र्याः संपुष्टौ । वातेन दीपस्य निर्वापणम् प्रथमं तौलादि – अभावेन निर्वापणं द्वितीयम् । (सा. ३७६)
<DOC_END>
<DOC_START>
व्रतादिकारणेन सर्वविधं भक्षणं परित्यज्य वायुमात्रेण कश्चन साधकः जीवति चेत् वायुभक्षणम् इति कथ्यते । वायुभक्षणम् इत्यनेन इतरभक्षणनिषेधः व्यज्यते ।
<DOC_END>
<DOC_START>
वायुः शीतलः उष्णः अपि भवति । उष्णपरमाणूनां संयोगेन वियोगेन च तस्य एतादृशः गुणभेदः भवति । वायोः शीतलत्वम् उष्णत्वं वा तस्य असाधारणगुणः नास्ति । एवम् कस्मिन् अपि धर्मिणि तदितरघर्माः नैमित्तिकरुपेण जायन्ते इति अस्य भावः । तुल्यौ – भूशैत्योष्ण्यन्यायः, जलौष्ण्यन्यायः
<DOC_END>
<DOC_START>
वालिसुग्रीवयोः युद्धसमये शीरामचन्द्रः वालिनम् अहनत् इति रामायणगाथा । श्रीरामेण वालिवधे जाते अपि सुग्रीव एव बलवान् इति प्रतीतिः लोके दृश्यते ।
<DOC_END>
<DOC_START>
वालुकास्थले दूरतः जलम् अस्ति इव भासते परं समीपं गते जलं न लभ्यते । एवं निराशाजनकं भानं सूचयति अयं न्यायः ।
<DOC_END>
<DOC_START>
गोः विक्रयणानन्तरम् अपि विक्रेता ‘सा मम गौः’ इत्येव कथयति । यदि सः स्वामित्वम् अपि स्वस्य सकाशे एव रक्षेत् तर्हि तत् धर्मविरुद्धं भवतीति धर्मशास्त्रेषु स्पष्टम् अस्ति । नारद – याज्ञ्वल्क्यादयः धर्मज्ञाः विक्रीतासंप्रदानम् इति कथयान्ति । यथाः
१. विक्रीय पण्यं मूल्येन क्रेतुर्यत् न प्रदीयते ।
<DOC_END>
<DOC_START>
गजस्य विक्रयणाद् अनन्तरं तस्य अङ्कुशस्य कृते वादः किमर्थम् एवं महति व्यवहारे संपन्ने लघूनां कृते कलहः न कर्तव्य इति अनेन बोध्यते ।
१. सौमित्रिर्वदति विभीषणाय लङ्कां देहि त्वं भुवनपते विनैव कोशम् ।
सौमित्रिं प्रति निजगाद रामचन्द्रो विक्रीते करिणि किमङ् कुशे विवादः ॥
२ नारब्धं कुचपरिरम्भणेषु वाम्यं वैमत्यं विरचयति चुम्बने कदापि ।
किं नीवीगतमबले रुणत्सि पाणि विक्रीते करिणि किमङ्कुशे विवादः ॥
<DOC_END>
<DOC_START>
कस्यचिद् विषयस्य उभयविधविचारस्य शक्यतायां कस्यापि एकस्य एव विचारस्य अवलम्बनं करणीयम् । एवम् एकपक्षस्य अवलम्बनं विनिगमनं भवति । ज्योतिषशास्त्रे सूर्यसिद्धान्तम् अनुसृत्य प्रवर्तमानं गणितम् अतीव सूक्ष्मं भवति । केषाञ्चन विदुषां मते दृग्गणितात् प्राप्तम् एव अतीव सूक्ष्मं भवति इति । तदा दृग्गणितम् विनिगमकं भवति । परम् एवमपि सूर्यसिद्धान्तानुसारिणः अतिसूक्ष्मा इति वचनम् अयोग्यं भवेत् ।
<DOC_END>
<DOC_START>
कस्मिन् अपि कुम्भे अन्तः विषं बहिः दुग्धलेपनञ्च भवति चेत् पयोमुखविषकुम्भ इति विषकुम्भपयोमुखम् इति च व्यवहारः । यः प्रत्यक्षं मधुरं वदति परोक्षे कार्यहानिं करोति तस्य विषये अस्य न्यायस्य प्रवृत्तिः भवति । परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत् तादृशं मित्रं विषकुम्भपयोमुखम् ॥ हितोपदेश- मित्रलाभे ७४
<DOC_END>
<DOC_START>
क्वचित् परिस्थितिः अन्येषां कृते हानिकारिणी भवेत् परन्तु तस्याम् एव परिस्थितौ जातानां कृते हानिकारिणी न भवेत् । विषे एव जातः कृमिः विषेण न म्रियते । तस्य उपरि विषस्य कोऽपि प्रभावः न भवति । यथा –
विप्रास्मिन् नगरे महान् कथय कस्तालदृमाणां गणः
को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि ।
को दक्षः परदारवित्तहरणे सर्वोऽपि दक्षो जनः
कस्माज्जीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥ वृद्धचाणाक्यस्य
<DOC_END>
<DOC_START>
स्वयमेव रोपितस्य विषवृक्षस्य छेदनं स्वयमेव कर्तुं न शक्यते । एवमेव स्वयं प्रीत्या आरब्धं कार्यं कीयदपि निन्द्यं स्यात् तत् परित्यक्तुं मनः न भवति इति भावः । यथा –
१. विषवृक्षोऽपि संवर्ध्य स्वयं च्छेत्तुमसांप्रतम् । कुमारसंभवे २-५५
२. हा हा मयेदं नो चारुकृतं यत्सुतभर्त्सनम् ।
विषवृक्षोऽपि संवर्ध्य स्वयं च्छेत्तुमसांप्रतम् ॥ (सा. १३४)
<DOC_END>
<DOC_START>
पिपीलिका यत् फलं प्राप्तुं न शक्नोति तत् कश्चन विहङ्गमः अनायासेन प्राप्तुं शक्नोति । एवं यं मोक्षम् अधमाधिकारी प्राप्तुं न शक्नोति तं कश्चन उत्तमाधिकारी मध्यमाधिकारी वा शीघ्रमेव प्राप्तुं शक्नोति यतः तादृशानां जन्मान्तरसंस्कारबलेन मनः शुद्धं भवति पूर्णप्रज्ञां च अधिगन्तुं शाक्नोति । अयम अस्य भावः । (सा. ५१७)
<DOC_END>
<DOC_START>
वीचिः नाम तरङ्ग एव “ भङ्गः तरङग उर्मिर्वा स्त्रियां वीचिः” इत्यमरकोशे वीचिशब्दः तरड् गपर्यायत्वेन दर्शितः । तथापि तयोः कश्चन भेदः अस्ति । तरङ्गः वीचेः अपेक्षया लघुः भवति । तरङ्गानाम एव क्षोभतः वीचिः उत्पद्यते । एवं काचन शृङ्खला निर्मीयते । एवं शब्दस्य अपि उत्पत्तिः एकस्मात् शब्दात् शब्दान्तरम् इति क्रमेण भवति इति भावः । वीचितरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता ॥ (सा. २२८)
<DOC_END>
<DOC_START>
वृकस्य बन्धनं करणीयं चेत् कश्चन उपायः भवति इति भाव्यते । कः उपायः इत्युक्ते वृकस्य समीपं गत्वा तस्य शिरसः उपरि नवनीतं स्थापयामः चेत् किञ्चित्कालानन्तरं द्रुतं नवनीतं तस्य वृकस्य नेत्रयोः पतेत स च वृकः बद्धः भवेत् इति । (सा. २५१)
<DOC_END>
<DOC_START>
पक्षिणां निवासः नाम वृक्षाग्राः खलु । तत्रैव ते नीडं कल्पयन्ति अण्डानि रक्षन्ति शिशून् अपि जनयन्ति । परन्तु भूमेः अपेक्षया अत्युन्नतभागे वसन्ति इति कारणेन भूचराणाम् अपेक्षया ते पक्षिणः श्रेष्ठाः इति तु नास्ति । एवं केवलवासस्थलस्य आधारेण कस्यापि श्रेष्ठत्वं न निश्चीयते इति भावः । (सा. ५२)
<DOC_END>
<DOC_START>
कदाचित् एकः ब्राह्मणः वसति स्म । सः अन्धः, दरिद्रः अविवाहीतः च आसीत् । सः कठोरं तपः कृत्वा परमेश्वरं प्रसन्नं कृतवान् । प्रसन्नः परमेश्वरः “अभीष्टं वरं वृणीष्व” इति उक्तवान् । तदा सः “राजसिंहासनम् अधिरुढान् मम पुत्रपौत्रान् द्र्ष्टुम् इच्छामि” इति एकं वरं प्रार्थितवान् । तस्य चातुर्येन प्रसन्नः परमेश्वरः तस्मै दृष्टि – ऐश्वर्यं सुन्दरपत्नीं च दत्तवान् इति ॥ (सा. ३)
<DOC_END>
<DOC_START>
वेश्या यदा वृद्धा भवति तदा सा पतिव्रता इव व्यवहरति । यदा मनुजः दुर्बलः असमर्थः वा भवति तदा आत्मानं सात्त्विकम्,
अहिंसाप्रियं, पवित्रञ्च मन्यते । अर्थात् तस्य शान्तिः क्षमा च अगत्या प्राप्ताः गुणाः ।
<DOC_END>
<DOC_START>
चौर्यार्थं गतः चोरः वृश्चिकेन दष्टः चेत् किं भवति सः उच्चैः आक्रोशति चेत् जनाः धावित्वा आगत्य तं ताडयन्ति । परन्तु वेदनाकारणेन तूष्णीं भवितुम् अपि न शक्यते । एवं कस्यचित् कर्मणः फलभोगसमये स्वकृतस्य अपराधस्य मुक्ता अभिव्यक्तिः तूष्णींभावः वा न शक्यते इति भावः ।
<DOC_END>
<DOC_START>
मर्कटः कदापि एकत्र एव उपवेष्टुं न शक्नोति । सः सर्वदा इतस्ततः कूर्दति झम्पं करोति भूमौ पतति अन्यानि च कर्माणि करोति । यदि तादृशः मर्कटः वृश्चिकेन दष्टः चेत् तस्य वेदनावशात् सः मर्कटः एकत्र उपवेष्टुंम् एव न शक्नोति । एवं पूर्वमेव चञ्चलस्य मनुजस्य जीवने वेदना भवति चेत् तत् कृते असह्यं भवति इति भावः ।
<DOC_END>
<DOC_START>
युक्तवेणी मुक्तवेणी इति पवित्रनद्याः द्वौ प्रकारौ । प्रयोगक्षेत्रे संङ्गमात् पूर्वं गङ्गा यमुना च स्वतन्त्ररुपेणा वहतः । तत्र ते युक्तवेणीरुपेण वर्तेते । तयोः प्रतिबिम्बिते आकाशे कोऽपि भेदः न भवति । एवं ब्रह्मा विष्णुः महेश्वरः इति मूर्तित्रये कोऽपि भेदः नास्तीति भावः ।
<DOC_END>
<DOC_START>
नदीनां यदा महापूरः भवति तदा महान्तः वृक्षाः अपि उन्मूलिताः भूत्वा जलप्रवाहे प्लवन्ते । परन्तु ये वेतसाः भवन्ति ते तावत् नम्राः भूत्वा तिष्ठन्ति । जलप्रवाहे गते पुनश्च सरलाः भवन्ति । एवं स्वाभिमानिनः जनाः कष्टकाले नम्राः भूत्वा जीवन्ति । ये तावत् अहङ्कारेण् तिष्ठान्ति ते कष्टैः उन्मूलिताः भवन्ति इति भावः (सा. १२७)
<DOC_END>
<DOC_START>
वेश्यायाः अनेके प्रियाः भवन्ति परं पतिः कोऽपि न भवति । एकस्मिन् एव जाते तस्याः निर्व्याजम् अनन्यासक्तं च प्रेम भवितुं न अर्हति ।
<DOC_END>
<DOC_START>
वेश्यायाः अनेकैः सह शरीरसंबन्धः भवति इति कारणेन तस्याः पुत्रस्य पिता कः इति निश्चयः कर्तुम् अशक्यः । एवं यत्र एकस्य कार्यस्य बहूनि कारणानि भूत्वा कस्यापि एकस्य कारणस्य निर्णयः कर्तुम् अशक्यः भवति तत्र अस्य न्यायस्य प्रवृत्तिः भवति ।
<DOC_END>
<DOC_START>
आलाबूफलस्य उपरि मृत्तिकायाः लेपः क्रियते चेत् तत् जले न प्लवते । यावत्पर्यन्तं सः लेपः भवेत् तावत्पर्यन्तं तत् न प्लवेत । यदा लेपः नष्टः भवति तदा च प्लवते । एवं कर्मलेपः यस्य भवति सः संसारे निमज्जति कर्मलेपस्य च नाशे सः प्लवते अर्थात् मोक्षोन्मुखः भवति इति भावः ।(सा. ७०४)
<DOC_END>
<DOC_START>
यत्र एकस्मिन् एव धर्मिणि धर्मद्वयस्य अपि आरोपः क्रियते तत्र व्यपदेश इति शास्त्रे किञ्चन नाम भवति । यथा एक एव पुत्रः भवति चेत् सः एव ज्येष्ठः स एव कनिष्ठ इति खलु व्यवह्रियते । एकस्मिन् एव पुत्ररुपे धर्मिणि ज्येष्ठत्व- कनिष्ठत्व रुपयोः धर्मयोः आरोपः क्रियते इति भावः । (व्याकरणशास्त्रे अपि अस्य प्रयोगः यथा – आद्यन्तवदेकस्मिन् (१-१-२०) इति पाण्नीयसूत्रे भाष्ये” तत्र व्यपदेशिवद्भावो वक्तव्यः व्यपदेशिवदेकस्मिन् कार्यं भवति इति वक्तव्यम्” । विशिष्टः अपदेशः व्यपदेशः मुख्यः व्यवहारः सः अस्य अस्ति इति व्यपदेशी मुख्य इति यावत् – बालमनोरमाटीकायां १-१-२१)
<DOC_END>
<DOC_START>
यथा काचित् व्यभिचारिणी स्त्री गृहकार्य कुर्वती अपि पुरा प्राप्तं परसड्गमस्य आनन्दं स्मरन्ती आनन्दति तथा ज्ञानी पुरुषः लौकिकव्यवहारेषु प्रवृत्तः अपि ब्रह्मानन्दम् अनुभवति इति भावः । यथा-
यथा व्यसनिनी नारी व्यग्राऽपि गृहकर्मणि ।
एवं तत्त्वे पदे शुद्धे धीरोविश्रान्ति मागतः ।
तदेवास्वादयत्यन्तः बहिर्व्यवहरन्नपि ॥ लौकिकन्यायसाहस्त्रीतः (सा. ४५७)
<DOC_END>
<DOC_START>
व्याघ्रः चोरः धनुः इति त्रयः अपि स्वकर्मणः सिद्धिं प्राप्तुम् अवनताः भवन्ति । अवनमनम् इति तेषां स्वभावः न । एवं नीचाः अपि स्वार्थसंपादनाय अवनताः भवन्ति । अतः अवनतिः इति वञ्चकी अपि भवितुम् अर्हति इति भावः । (सा. ८०९)
<DOC_END>
<DOC_START>
व्याघ्रीक्षीरं किंवा सिंहीक्षीरं सुवर्णापात्रे स्थापितं चेत् अत्यंतं गुणकारि भवति एवं गुरुपदेशः अपि सच्छिष्ये स्थापितः अतीव प्रभावकारी भवै इति भावः (सा. ३२०)
<DOC_END>
<DOC_START>
व्यालः नाम सर्पः । सर्पस्य नकुलस्य च मध्ये शाश्वतं सहजं च वैरं भवति । एवं शाश्वतस्य वैरस्य उल्लेखार्थम् अस्य न्यायस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
व्रात्यः नाम संस्कारहीनः पुरुषः अर्थात् उपनयनादिना संस्कारेण रहितः । एतादृशः इतरेषु संस्कारं जनयितुम् अनर्हः इति भावः ।
<DOC_END>
<DOC_START>
अस्मिन् न्याये शैवसिद्धान्तस्य प्रभावः अस्ति । धान्यनिर्माणकाले प्रथमम् अनन्तरं च तस्य तण्डुलरुपेणा परिवर्तनम् इत्यादि क्रमेण भवति । अनन्तरञ्च अङ्कुरस्य उत्पत्तिः भवति । एवं प्रथमम् अन्धकारः पश्चात्, रजोगुणः ततः सत्त्वगुणः इति क्रमेणा आविर्भावः भवति । उपाधिवशात् भिन्नव्यपदेशः भवति । तमोगुणः उपाधिः चेत् शिवः इति, रजोगुणः उपाधिः भवति चेत् ब्रह्म इति सत्त्वगुणः उपाधिः भवति चेत् महाविष्णुः इति च नाम भवति । (सा. १०३)
<DOC_END>
<DOC_START>
शकुनिग्राहकः यथा निःशब्दं चलति पक्षीन् गृहणाति एवं धूर्तः निःशब्दं स्वकार्यं साधयति इति भावः ।
<DOC_END>
<DOC_START>
अयं वर्गः शकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
पक्षी तस्य बन्धनसूत्रम् इति द्वयम् अपि भिन्नम् । एवं जीवः ईश्वरः च परस्परं भिन्नौ इति द्वैतसिद्धान्तः ।
यथा पक्षी च सूत्रं च नानावृक्षरसा यथा ।
यथा नद्यः समुद्राश्च शुद्धोदलवणे यथा ॥
यथा चोरापहायौ च यथा पुंविषयावपि ।
तथा जीवेश्वरौ भिन्नौ सर्व दैवविलक्षणौ ॥
लौकिकन्यासाहस्रीतः । २८० (सा. ८१७)
<DOC_END>
<DOC_START>
यस्य सर्पस्य द्रष्ट्राद्वयं निष्कासितं स सर्पः कामापि हानिं न जनयति । एवं साधनहीनः पुरुषः कामपि हानिं न करोति इति भावः । (सा. २८८)
<DOC_END>
<DOC_START>
एकस्मिन् विशिष्टसमये शंखनादः करणीयः इति निश्चिते सति यदा शङ्खनादः भवति तदा सः एव निश्चितसमयः इति ज्ञायते । एवं यत्र परस्परविवक्षा भवति तत्र अस्य प्रवृत्तिः भवति ।
यथा – चैत्रात् अनन्तरं वैशाखः तदनन्तरं ज्येष्ठः इत्यादि । (सा. ५०५)
<DOC_END>
<DOC_START>
पद्मपत्राणां शतम् अपि एकसूचीभेदेन एकदा एव भिन्नं भवति । यतः तत् अतीव कोमलं भवति । यद्यपि एकदा एव पत्रशतस्य अपि भेदः जातः इति भाव्यते तथापि यथार्थतः एकैकस्य पत्रस्य अत्यन्तसूक्ष्मकाले भेदनं भवति खलु । एवं यत्र एक कार्यस्य निष्पत्तौ क्रमे सत्यपि यौगपद्यभ्रमः भवति तत्र अस्य प्रयोगः क्रियते ।
आदौ प्रथमदलेन सह सूचीसंयोगः, अनन्तरं तस्य अवयवैः सह संयोगः तृतीयक्षणे भेदः चतुर्थक्षणे पूर्वक्षणजातस्य संयोगस्य नाशः इति रीत्या एकविशिष्टक्रमेणा सूचीभेदः जायते ।
एवमेव असंलक्ष्यक्रमव्यङ्यनामके ध्वनिप्रकारे अपि कश्चन क्रमः वर्तमानः अपि यौगपद्यभ्रमं जनयति । यथा साहित्यदर्पणे विवृतं –
१. अत्र व्यङ्यप्रतीतेः विभावादिप्रतीतिकारणकत्वाम् प्रक्रमः अवश्यम् अस्ति किन्तु उत्पलशतपत्रभेदवत् लाघवात् न संलक्ष्यते ।
२. यत्प्रदीपप्रभाद्युक्तं सूक्ष्मकालोऽस्ति तत्र नः । श्लोकवार्तिके । ३७
<DOC_END>
<DOC_START>
शते पञ्चशतः समावेशः भवति । एतत् पृथक् वक्तव्यं नास्ति । व्यापके व्याप्यस्य सर्वदा समावेशः भवति इति भावः । यज्ञः पुण्यकर्मणि अन्तर्भावः भवति । (सा. ४८९)
<DOC_END>
<DOC_START>
हरिणः सङ्गीतेन आकृष्टः भवति । अत एव व्याघः गीतध्वनिना आकृष्य हरिणं गृहणाति । एवं व्यसनेन पुरुषस्य बन्धनं भवति इति भावः ।
<DOC_END>
<DOC_START>
एकदा कश्चित् पुरुषः कुत्रचित् लक्ष्यं धृत्वा शरप्रयोगं कृतवान् । परन्तु मार्गे गच्छतः कस्यचन पुरुषस्य शरीरे सः बाणः प्रविष्टः स च मृतः । एवम् अचिन्तितरुपेण यद् घटते तस्य विषये अस्य उल्लेखः भवति ।
तुल्यौ – अजाकृपाणीन्यायः, खल्वाटबिल्वीयन्यायः (सा. ६७९)
<DOC_END>
<DOC_START>
एकदा कश्चन पुरुषः शर्कराराशिम् एकत्र सन्दधानः आसीत् तस्य शरीरस्य उपरि पूर्णरुपेणा शर्कराकणाः लग्नाः । यदा सः कार्यं समाप्य बहिः आगतः तदा एवम् अभासत यत् सः शर्करातः एव उन्मज्जनं कृतवान् इति । (सा. ६८०)
<DOC_END>
<DOC_START>
शलभः दीपकान्त्या आकृष्टः भूत्वा तं प्रति उत्पतति आत्मानं च ज्वालयति । एवम् आत्मघातुकं कर्म यः करोति तस्य विषये अस्य प्रवृत्तिः ।
<DOC_END>
<DOC_START>
शवस्य उद्वर्तनं नाम निरर्थकं कार्यम् । शवस्य कियान् अपि अलङ्कारः भवति चेदपि तत् सर्वं व्यर्थं खलु । एवं निरर्थकस्य कर्मणः विषये अस्य प्रयोगः भवति ।
यथा – अरण्यरुदितं कृतं शवशरीरमुद्वर्तितम् ॥ (सुभाषितम्)
<DOC_END>
<DOC_START>
शशस्य विषणः न भवति कदापि कालत्रये । एवम् अत्यन्ताभाव वतः विषये अस्य प्रवृत्तिः ।
<DOC_END>
<DOC_START>
यथा चञ्चलः मर्कटः शाखातः शाखान्तरं प्रति सर्वदा उड्डयते तथा अविवेकी सर्वदा विषयात् विषयान्तरं प्रति धावति इति भावः ।
<DOC_END>
<DOC_START>
कस्मैचिद् चन्द्रः दर्शनीयः चेत् किं क्रियते समीपवर्तिनः वृक्षस्य शाखासु निलीनस्य चन्द्रस्य दर्शनं कार्यते खलु । यथा “ तत्र शाखाग्रे चन्द्रः दृश्यते “ इत्यादि । तथा कस्यापि उपलक्षणस्य साहाय्येन कस्यापि स्पष्टीकरणं क्रियते चेत् अस्य न्यायस्य प्रयोगः भवति । यथा –
तरुशाखाग्रदृष्ट्यैव सोमं यद्वत् प्रदर्शयेत् ।
निष्कोशं कोशदृष्ट्यैव प्रचीति ब्रह्म दृश्यते ॥
<DOC_END>
<DOC_START>
दीपशिखायाः उपरि कर्पूरः स्थापितः चेत् दीपाशिखा कर्पूरः च ज्वलतः । अन्ततः द्वयोः अपि निर्वापणं भवति । एवं मूलवस्तु तस्य आधारः च यत्र नश्यतः तत्र बोधार्थम् अस्य न्यायस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
द्राविडप्राणायामवत् अस्य अर्थः अवगन्तव्यः ।
संदर्भः – ब्रह्मसूत्राणां विज्ञानभिक्षुटीका ३-३-७
<DOC_END>
<DOC_START>
शिलालिखितम् अक्षरं यथा शाश्वतं भवति तथा स्थिररुपेण वर्तमानस्य विषये अस्य न्यायस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
शीतकिरणः नाम चन्द्रः । तस्य किरणानां हस्तेन ग्रहणम् इति अशक्यं कर्म । एवम् अशक्यकर्मणः बोधाय अस्य प्रयोगः क्रियते (सा. ८८९
<DOC_END>
<DOC_START>
प्रस्तरस्य अर्थात् शिलाखण्डस्य प्रयोगः अनेकाविधः भवति । केचन प्रस्तरस्य शीतलादेव्याः प्रतीकरुपेण पूजां कुर्वन्ति । केचन सोपानरुपेण उपयोगं कुर्वन्ति । एवम् एव वस्तुनः अनेकविधः प्रयोगः भवति । तत्र तस्य वस्तुनः वैशिष्ट्यं कारणं नास्ति जनानां भावना एव कारणम् इति भावः । (सा. ९३०)
<DOC_END>
<DOC_START>
शीर्षे सर्पो देशान्त रेच औषधम् अस्ति । सर्पः कदापि दशेत् तर्हि विषोपशमनाय औषधं कथं प्राप्तव्यम् ?
एवं सङ्कटे समापतिते उपायाभावः इति बोधयितुम् अस्य प्रयोगः क्रियते । यथा-
उपरि धनं धनरहितः दूरे दयिता द्वयमेतदापतितम् ।
हिमवति दिव्यौषधयः शीर्षे सर्पः समाविष्टः ॥
<DOC_END>
<DOC_START>
अस्त्रव्रणिताः सैनिकाः रथस्य गजस्य वा उपरि उपवेशिताः रणभूमेः अन्यत्र नीयन्ते । भयकारणे असति अपि भयं भावयित्वा ये रणे स्थातुं न शक्नुवन्ति ते च रथादीनाम् अधः भागे लग्नाः पलायन्ते । एवं गच्छतां जनानां शुक इति मोहना इति च व्यपदेशः । अस्यैव शुकनकुलिका इत्यपि नामान्तरम् अस्ति । नकुलः यथा भयहेतुं विना अपि भयभीतः भवति तथा केचन कारणं विना भीता भवन्ति । महाभारतस्य उद्योगपर्वणि (१३-४२) नी लकण्ठव्याख्याने अष्टविधं भयं निर्दिष्टम् अस्ति ।
काकुदीकं शुक………. नाकमक्षिसन्तर्जनं तथा ।
सन्तानं वर्तकं घोरमास्यमोदकमष्टमम् ॥ (सा. ७४७)
<DOC_END>
<DOC_START>
मार्गे पतितायाः सूचेः ग्रहणाय यदि गजस्य शुण्डायाः प्रयोगः क्रियते तर्हि कियत् हासास्पदं भवेत् । तथा लघुकार्यस्य कृते अपि महतः साधनस्य उपयोगः हासाय भवति इति भावः ।
<DOC_END>
<DOC_START>
शुद्धोदके लवणे च यादृशः भेदः दृश्यते तादृश एव जीवेश्वरयोः इति केषाञ्चन मतम् । (सा. ८१५)
<DOC_END>
<DOC_START>
शुष्कतटाके मत्स्याः न भवन्ति । तथैव दरिद्रस्य समीपे कोऽपि न भवतीति भावः ।
<DOC_END>
<DOC_START>
सुन्दर्याः शरीरं दृष्द्वा शुष्कस्तनी स्त्री किं चिन्तयेत् – “किं स्तनाभ्यां शरीरस्य सौन्दर्य वर्धेत तयोः कारणेन शरीरम् असमं विरुपं भवति” । इति । एतावदेव सुन्दरशरीरस्य उपरि वर्तमानां कञ्चुकीं दृष्द्वा असूयया सा तामपि निन्देत् । एवं स्वकीय – न्यूनताकारणेन अन्यस्य वृद्धिं निन्दताम् उल्लेखः अनेन क्रियते ।। स्वयम् असूयाग्रस्तः स्वन्यूनतां समर्थयति अन्येषां गुणांना च निन्दां करोति इति भावः ।
<DOC_END>
<DOC_START>
कयाचित् रीत्या अविधिपूर्वकं कृतः यागः इति अर्थः । यज्ञविधौ प्रावीण्यम् अप्राप्य अपि यज्ञम् अनुष्ठातुम् इच्छया कोऽपि समर्थेषु साधनेषु असत्सु उपलभ्यमानानाम् असमर्थानाम् उपकरणानाम् एव आधारेण होमं निष्पादयति चेत् शुष्केष्टिः एव भवति । एवम् असमर्थेन कृतं निष्फलं कार्यं बोधयति अयं न्यायः ।
<DOC_END>
<DOC_START>
एकस्मिन् सुन्ददे उपवने पुष्पसुगन्धभरिते हि प्रविष्टः सूकरः तस्य शोभां न पश्यति परं कुत्र मलादिकम् अस्ति इत्येव अन्विष्यति । तथैव दुष्टः साज्जनानां गुणान् न पश्यति दोषान् एव अन्विष्यति इति भावः । (सा. ५१८)
<DOC_END>
<DOC_START>
शूर्पः धान्यस्य स्वच्छतासंपादनाय उपयुज्यते । स च धान्ये वर्तमानान् अनावश्यकान् शिलाकणान् दूरी करोति आवश्यकं च धान्यं समीकरोति । एवं मेधावी दोषान् दूरीकृत्य गुणान् एव स्वीकारोति इति भावः । एवमेव शिष्यः गुरुणां गुणान् आददीत न दोषान् इति तात्पर्यम् । (सा. ३२१)
<DOC_END>
<DOC_START>
१. गवां समूहे कश्चन मम गौः का इति गोपालं पृच्छति चेत् सः एकस्याः शृङ्गे गृहीत्वा इयं तव इति दर्शयति ।
२. गोः शृङ्गे गृहीत्वा तस्याः नियन्त्रणं कर्तुं शक्यते । एवं मुख्यांशस्य ग्रहणेन अपरे अंशाः अपि गृहीताः भवन्ति इति भावः ।
शृङ्गग्राहिकया श्रुत्या ब्रह्मताऽपादिता स्फुटम् ।
यथा गोमण्डलस्यां गां शृङ्गं गृहीत्वा विशेषतो दर्शयति एषा बहुक्षीरा इति ।
३. न तावत् समवायेन भेदसंबन्धगौरवात् ।
शब्दान्तं समयोऽप्येवं शृङ्गग्राहिकया लघुः ॥ शाण्डिल्यसूत्रटीकायां ८७
४. यथा गवादयो विषयाः साक्षात् शृङ्गग्राहिकया प्रतिपाद्यन्ते प्रतीयन्ते च, नैवं बह्य । शाङ्करभाष्यभामत्याम् । ३-२-२२
<DOC_END>
<DOC_START>
शैलूषी नाम नटी । सा विभिन्नाः भूमिकाः स्वीकृत्य अभिनयति । तथ एव उपमालङ्कारः अनेक – अलङ्काराणां रुपं धारयति यतः उपमालङ्कारस्य एवं उपमान – उपमेयभावम् आश्रित्य अन्येषां प्रवृत्तिः भवति ।
उपमैका शैलूषी संप्राप्ता चित्रभूमिभेदात् ।
प्रीणयति काव्यरङ्गे नर्तयति तद्विदां चेतः ॥ चित्रमीमांसायां २-१
<DOC_END>
<DOC_START>
श्मशाने प्रफुल्लानि कियन्ति वा सुन्दराणि पुष्पाणि निरुपयोगीनि एव भवन्ति । तेषां सुगन्धस्य सौन्दर्यस्य वा प्रशंसां कोऽपि न करोति । तथैव अयोग्ये स्थले वर्तमानस्य गुणसंपन्नस्य गुणमाहात्म्यं कोऽपि न जानाति इति भावः ।
<DOC_END>
<DOC_START>
भारतीयसंप्रदायानुसारं मृतशरीरस्य अग्निसंस्कारः क्रियते खलु । श्मशाने श्रीरे दह्यमाने तत्र स्थितानां मनसि का वा भावना उत्पद्येत ते चित्तयेयुः – कियत् इदं क्षणभङ्गुरं जन्म सर्वेषाम् अपि अन्तिमं गम्यं श्मशानम् एव खलु “इति । एतादृश्यः भावनाः सर्वेषां मनः सु भवन्ति । परन्तु श्मशानं त्यक्त्वा गृहं यदा गच्छन्ति तदा सर्वं वैराग्यं नश्यति पुनश्च लोकभावना जागर्ति । एवं काश्चन भावनाः अस्थिररुपेण जायन्ते नश्यन्ति च इति भावः । यथा –
१. प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः ।
२. श्मशानान्ते पुराणान्ते मैथुनान्ते च या मतिः ।
सा मतिः सर्वदा काले नरो तारायणो भवेत् ॥ हितोपदेयमित्रलाभे ६८ सा- १६४
<DOC_END>
<DOC_START>
पट – वस्त्रादीनां यदा वर्णस्य गाढता नश्यति तदा तत्र शामरक्तः कश्चन वर्णः भवति । एवं पूर्णागुणनासेन गुणान्तरम् उत्पद्यते इति भावः । (सा. ५०६)
<DOC_END>
<DOC_START>
पत्नी कुपिता भवतु इति कश्चन स्वशुनकस्य नाम भावुकस्य नाम स्थपयति । यदा यदा सः शुनकं तन्नाम्ना निन्दति तदा तस्य पत्नी स्वभ्रातरम् एव एषः निन्दति इति भावयति । एवं यस्य कस्यापि निन्दां कर्तुम् अपरस्य नामादिकं गृहीत्वा समिषं प्रयत्नः क्रियते इति भावः ।
<DOC_END>
<DOC_START>
एकदा कश्चन कपोतः कथञ्चित् स्वनीडतः बहिः आगतः । तदा सहसा कुतश्चित् आगतः श्येनः तम् अमारयत् । एवं अकस्मात् संत्रप्तानां कष्टानां विषये अयं न्यायः प्रवर्तते ।
<DOC_END>
<DOC_START>
विग्रहबोधकवाक्यानि प्रायः उपासनापरकाणि भवन्ति । देवतायाः मूर्तिवर्णनपराणि वाक्यानि तदर्थानि एव । उपासनापरके श्रुतिवाक्ये विरोधे असति देवताधिकरणन्यायः, पार्ष्ठतिर्यगधिकरणन्यायः (सा. ८४७)
<DOC_END>
<DOC_START>
शुनकस्य पुच्छं सरळीकर्तुं कियानपि प्रयत्नः कृतः चेदपि तत् पुच्छम् अवनतम् एव भवति ।एवं मुर्खाणां मनः अपि कियता अपि प्रयत्नेन सरलीकर्तुम् अशक्यम् इति भावः ।
<DOC_END>
<DOC_START>
यावत्पर्यन्तं मकरः जले भवति तावत्पर्यन्तं महागजम् अपि आकृष्य जले नेतुं श्क्नोति । परन्तु यदा सः जलात् बहिः आगच्छति तदा शुनकः अपि तस्य उपरि आक्रमणं कर्तुं शक्नोति । एवं स्थनविशेषात् मनुष्यस्य बलं भवति इति भावः ।
नक्रः स्वस्थनमासाद्य गजेन्द्रमपि कर्षति ।
स एव प्रच्युतः स्थानात् शुनाऽपि परिभूयते ॥ पञ्चतन्त्रे ३-४४
<DOC_END>
<DOC_START>
शुनकस्य मार्जारस्य च सहजं परस्परवैरं भवति यथा सर्पनकुलयोः ।
<DOC_END>
<DOC_START>
स्वामिना भूयः भूयः ताडितः अपि शुनकः तं न परित्यजति ।
एवम् सज्जनः विश्वासेन स्वामिभक्तिं दर्शयति इति भावः ।
<DOC_END>
<DOC_START>
अयं न्यायः मीमांसाशास्त्रेन संबद्धः वर्तते । यजेत सर्गकाम इति भावनाप्रसङ्गे कश्चन विधिः अस्ति । क्रियया संबद्धः यः आख्यातांशः भवति तस्य आर्थी भावना इति व्यपदेशः । आर्थी भावना अंशत्रयम् अपेक्षते किं केन कथम् इति । फलं साधनम् इतिकर्त व्यता च इति यावत् । एतस्य क्रमेण उत्तरं भवति इति मीमांसकमतम् अस्ति । (सा. ८५०)
<DOC_END>
<DOC_START>
अयं वर्गः षकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः षकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
यज्ञसंदर्भे षोडशिनामकस्य पात्रविशॆषस्य ग्रहणं करणीयं वा न वा इति प्रश्ने जाते परस्परविरुद्धं दृश्यते । अतिरात्रे षोडशिनं
गृह्णाति अतिरात्रे षोडशिनं न गृहणीयात् इति विधिः निषेधः च अत्र दृश्येते । एवं परस्परविरुद्धांशद्वये प्राप्ते पर्युदासेन एकस्य त्यागः करणीयः । शबराचार्याणां मते प्राप्तिपूर्वो हि प्रतिषेधो भवति इति विकल्पग्रहणं करणीयम् । अष्टविधदोषग्रस्ततया सः अपि न ग्राह्यः इति । एवं विकल्पः अनेन बोध्यते ।
<DOC_END>
<DOC_START>
दूरात् कञ्चन प्रकाशम् अवलोक्य कश्चन रत्नभ्रमेण तद् वस्तु उपसरति पश्चात् रत्नम् एव प्राप्नोति तर्हि पूर्वभ्रमः संवादिभ्रमः अति कथ्यते । एवं तत्त्वमसि – महावाक्यस्थले संवादिभ्रमेन साक्षात्कार भवति इति अयं न्यायः सूचयति ।
<DOC_END>
<DOC_START>
अयं वर्गः सकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
सक्तुः इति कश्चन खाद्यविशेषः ओदनादिकं परित्यज्य यदि कश्चन सक्तुम् एव भक्षयेत् तर्हि अस्य न्यायस्य प्रवृत्तिः भवति ।
<DOC_END>
<DOC_START>
सङ्गवशात् मनुष्ये गुणाः दोषाः वा भवन्ति । तप्ते अयसि पतितः जलबिन्दुः तत्क्षणे एव नश्यति । स एव जलबिन्दुः एव नश्यति । स एव जलबिन्दुः यदि कमलपत्रस्य उपरि पतितः तर्हि मौक्तिकम् इव चकास्ति । स एव स्वातिनक्षत्रे शुक्तिकायां पतितः मौक्तिकम् एव भवति । एवं मनुष्यस्य उत्तम – अधम- मध्यमदशाः संसर्गेण एव भवन्ति । एतदर्थकः श्लोकः भर्तृहरिसुभाषिते लभ्यते (५८ नीतिशतके)
<DOC_END>
<DOC_START>
घटे च्छिद्रं भवतिचेत् कियदपि जलं पूरितं चेदपि तत् सर्वं निर्गच्छति । एवं व्ययप्रवणस्य धनं न तिष्ठति । तथा व्यसने सति मनुष्यस्य गुणाः नश्यन्ति इति भावः ।
<DOC_END>
<DOC_START>
सन्दंशः नाम पात्रादिग्रहणे उपयुक्तः साधनविशेषः । तेन किमपि वस्तु उभयपार्श्वाभ्यां ग्रहीतुं शक्यते । एवं सावयवस्य पदार्थस्य ग्रहणेन मध्ये वर्तमानस्य अपि पदार्थस्य ग्रहणं भवति इति सूच्यते । मीमांसाशास्त्रे अस्य उपयोगः क्रियते ।
द्रष्टव्यम् –मीमांसाशास्त्रे प्रकाशः तस्य टीका प्रभानाम्नी पृष्ठे १४७, १४८
<DOC_END>
<DOC_START>
सर्वसंगपरित्यागिनः संन्यासिनः योषायाः च कः संबन्धः भवति एवम् अशक्यसंबन्धस्य विषयस्य उल्लेखः अनेन क्रियते इति भावः ।
<DOC_END>
<DOC_START>
समुद्रस्य जले कश्चन मधुबिन्दुः पातितः चेत् किमयं समुद्रः मधुरः भविता एवम् दुर्गुणसमूहे एकः सद्गुणः स्थापितः चेत् अपि तस्य परिणामः न भवति इति भावः ।
<DOC_END>
<DOC_START>
देवदानवयोः मन्थनेन क्षोभः प्राप्तः समुद्रस्य । परन्तु तस्य मन्थनस्य फलम् अमृतरुपेण पाप्तं देवैः । एवं कष्टम् एकेन सोढं फलम् अन्येन भुक्तम् इति अयं न्यायः सूचयति ।
<DOC_END>
<DOC_START>
समुद्रै वृष्टिः – भवति चेत् किं भवेत् एवं संपन्नाय दत्तं किमपि निष्फलं भवति । तथा निष्फलकर्मणः सूचनाय अस्य प्रयोगः क्रियते ।
तुल्या जलताडनन्यायः पिष्टपेषणन्यायः अन्धदर्पणन्यायः इत्यादयः ।
<DOC_END>
<DOC_START>
कस्मिन् अपि वाक्ये प्रत्येकं शब्दस्य अन्वयः कर्तुम् अशक्यः चेत् सर्वशब्दैः सह अन्वयः तदर्थद्वारा करणीयः इति भावः । (सा. ५१०)
<DOC_END>
<DOC_START>
यदा सर्वनाशस्य समयः प्राप्तः तदा तस्मात् अल्पमपि वा रक्षणीयम् इति धीरः भावयति ।
सर्वनाशे समुत्पन्ने अर्धं त्यजति पण्डितः ।
अर्धेन कुरुते कार्यं सर्वनाशो हि दुःसहः ॥ पञ्चतन्त्रे ४-२८
<DOC_END>
<DOC_START>
प्रतिकूला परिस्थितिः कीदृशी वा भवतु सर्पः स्वफणं प्रसार्य तिष्ठति इति भवः ।
<DOC_END>
<DOC_START>
भोजनाय अनेकेषु निमन्त्रितेषु सर्वेषाम् आगमनात् अनन्तरं यदि कश्चन प्राप्तः तर्हि तस्य कृते भोजनपरिवेषः न भवति यतः भोजनार्थं सर्वे एकदा एव आगच्छन्तु इति अपेक्षा भवति ।
<DOC_END>
<DOC_START>
जले सूर्यस्य अनेकैप्रतिबिम्बानि सन्ति इव भाति । एवम् एकस्य ईश्वरस्य विभिन्नशरीरेषु जीवरुपेण अनेकानि प्रतिबिम्बानि सन्ति इव भाति ।(सा. १०१) यथा-
यथा सलिलमाविश्य बहुधा भाति भास्करः ।
तथा शरीराण्याविश्य बहुधा स्फुरतीश्वरः ॥
<DOC_END>
<DOC_START>
निष्कं नाम अष्टाधिकैकशतस्वर्णभारयुतं नाणकम् । कार्षापणं नाम रजतस्य नाणकम् । प्रायः तस्य मूल्यम् एकरुप्यकमितं भवति । कार्षापणस्य अपेक्षया निष्कस्य प्राप्तिः श्रेयस्करी इति कारणेन अल्पमूल्यस्य अपि निश्चयेन प्राप्तिः सन्दिग्धायाः धिकमूल्यस्य वस्तुनः प्राप्तेः अपेक्षया योग्या इति भावः ।
<DOC_END>
<DOC_START>
सज्जनैः सह कृता मैत्री आदौ लघ्वी भूत्वा शनैः दीर्घा भवति इति भावः ।
<DOC_END>
<DOC_START>
यदा कस्यचिद् वाक्यस्य वाक्यान्तरेण सह अपेक्षा भवति तर्हि तत् साकांक्षम् वाक्याम् । अन्यथा निराकाङ्क्षम् । निराकाङ्क्षं वाक्यं साकाङ्क्षं बाधते इति सिद्धान्तः ।
<DOC_END>
<DOC_START>
सिंहमृगयोः नैसर्गिकं वैरं भवति । एवं नैसर्गिकवैरस्य निर्देशः अनेन क्रियते ।
<DOC_END>
<DOC_START>
एकदा कश्चन गोपालकः एकं सिंहशावकं प्राप्तवान् । सः तं स्वकीयमेषैः सह पालयितुम् आरब्धवान् । एवं मेषैः सह वर्धितः सः सिंहशावकः तृणादिकं खादितुम् आरब्धवान् । नाहं मेष इति सः न ज्ञातवान् । एवम् अविवेकी शरीरम् एव आत्मानं मत्वा दुःखम् अनुभवति इति भावः । (सा. ३५८)
<DOC_END>
<DOC_START>
जीवतः सिंस्य गले घण्टाबन्धनं नाम दुष्कर कर्म । एवम् अशक्यस्य कर्मणः विषये अस्य प्रयोगः ।
<DOC_END>
<DOC_START>
यथा सिंहीक्षीरं सुवर्णापात्रे एव सुरक्षितं तिष्ठति न अन्यत्र तथैव सद्गुरुभिः कृतः उपदेशः योग्ये शिष्ये रक्षितं भवति इति भावः । (सा. ३१९)
<DOC_END>
<DOC_START>
सिकतासु निर्मितः कूपः अधिककालं यावत् न तिष्ठति । सत्वरम् एव नश्यति । एवम् अस्थिरस्य कस्यचित् सूचनाय अस्य प्रयोगः क्रियते ।
यथाः – किंबहुना । सर्वप्रकारेण यथा यथा अयं वैनशिकसमय उपपत्तिमत्वाय परीक्ष्यते तथा तथा सिकताकूपवद् विशीर्यत एव । न काञ्चित् अत्र उपपत्तिं पश्यामः ॥ ब्रह्मसूत्रङ्करभाष्ये २-२-३२
<DOC_END>
<DOC_START>
सिकताभ्यः तैलम् इति अत्यन्तम् अशक्यं कार्यम् । एवं कस्यचित् अशक्यस्य कार्यस्य बोधनाय अस्य प्रयोगः क्रियते ।
१) तैलार्थी हि तिलसर्षपान् उपादत्ते न सिकताः ।
असत्त्वे च तैलस्य को विशेषः सर्षपाणां सिकताभ्यः ॥ न्यायमज्जरी पृष्ठे ४७३
२) तैलार्थी सिकताः काश्चिद् आददानो न दृश्यते ।
अदृष्ट्वा च अद्य नाऽन्योऽपि तदर्थी तासु धावति ॥ न्यायमज्जरी पृष्ठे ४७४
<DOC_END>
<DOC_START>
एकदा एकः मनुष्यः परमेश्वरस्य पूजां श्रद्धया कृतवान् । तेन प्रसन्नः ईश्वरः तस्मै वररुपेण पुत्रप्राप्तिम् अनुगृहीतवान् । द्वितीयः पुत्रः भवतु इति सः मनुष्यः अपरं दैवतम् आराधितवान् तेन कुपितस्य प्रथमदैवतस्य कारणेन प्रथमपुत्रः मृतः अभवत् । एवम् अधिकलोभः कृतः चेत् इष्टदेवता अपि न क्षमते इति भावः । (सा. ८७)
<DOC_END>
<DOC_START>
सुधया यदि आर्द्रहरिद्राचूर्णं मिश्रीक्रियते तर्हि ताम्रवर्णः उत्पद्यते एवं ये परस्परमेंलनकारणेन जातं किमपि जायते इति बोधयति अयं न्यायः ।
<DOC_END>
<DOC_START>
सुन्दः उपसुन्दः च इति द्वौ राक्षसौ सोदरौ आस्ताम् । तौ तिलोत्तमानामकां अप्सरसं वाञ्छन्तौ तस्याः कृते प्रयत्नम् आरब्धवन्तौ । तदा तयोः स्पर्धा जाता अचिरेण द्वयोः युद्धं भूत्वा परस्परप्रहारेण द्वौ अपि मृतौ ।
यथाः – न चैव रसाङ्गापत्तिः शान्तशृङ्गारयोश्च विरोधः इति रसगङ्गाधरोक्तेः सुन्दोपसुन्दन्यायेन उभयोरपि ध्वंससंभवात् इति वाच्यम् ॥
अच्युतरायमोडकस्य सहित्यसारे सरसामोदटीकायाम् पृष्ठे १४
<DOC_END>
<DOC_START>
यथा जनैः मूल्यवन्ति वस्तूनि सुपेटिकायां स्थाप्यन्ते तथा भक्तः स्वं हृदयम् ईश्वरे स्थापयति इति भावः । वल्लभाचार्याणां सुबोधिनीटीकायाः प्रथमस्कन्धे अयं प्रयुक्तः ।
<DOC_END>
<DOC_START>
सुप्तस्य डिम्भस्य मुखचुम्बनं न किमपि निष्पादयति । तादृशां व्यर्थं कर्म बोधयति । अयं न्यायः तुल्या जलताडनन्यायः, उषरवृष्टिन्यायः, बधिरकर्णजपन्यायः
<DOC_END>
<DOC_START>
यथा कश्चन सुप्तः किञ्चित्कालानन्तरं प्रबुद्धः भूत्वा पूर्वं जातं सर्वम् अपि तथा एव स्मरति तथा कल्पान्तरे कृतानां कर्मनां कर्मणां बलेन मनुजः कल्पान्तरवर्तिवेदानां स्मरणं कर्तुं शक्नोति इति भावः भागवतस्य श्रीधरटीकायां (१-३) प्रकटितः ।
<DOC_END>
<DOC_START>
सुभगा इति भिक्षुः इति च पदद्वयम् । एतत् भवति चेदपि तयोः परस्परं विरोधः एव न तु अन्वयः एकदा एका सुभगा एकः भिक्षुः च एकदा एव एकस्य गृहं गत्वा आश्रय प्रार्थितवन्तौ । तदा तेन द्वयोः एकस्मै आश्रयः देयः इति मत्वा सुभगायै आश्रयः दत्तः एवं स्मृत्यदिशास्त्रणि श्रुतिसहितानि चेदपि श्रुत्याधारितत्वात् प्रमाणानि भवन्ति । न केवलं मुनिप्रोक्तत्वात् । (सा. ६१३)
<DOC_END>
<DOC_START>
निकषेण तापेन घर्षणेन ताडनेन च सुवर्णं प्रगकाशमयं क्रियते एवं पठनं परिप्रश्नः विचारणा- इत्यादिभिः उपायैः अध्ययनं तेजस्वि भवति ।
हेम्नः संलक्ष्यते हि अग्नौ विशुद्धिः श्यामिकापि वा ॥ रघुवंशे १-१०
<DOC_END>
<DOC_START>
एकदा एकः कस्यचन लोहकारस्य समीपं गत्वा मह्यं कटाहं कृत्वा देहि इति उक्तवान् । किञ्चित्कालानन्तरम् अन्यः कश्चन आगत्य ‘मह्यम् एकां सूचिं कृत्वा देहि’ इति उक्तवान् । तदा सः लोहकारः सूचिनिर्माणकार्यं स्वीकृतवान् । यतः सूचिनिर्माणाय अधिकसमयः न भवति इति सः ज्ञातवान् । तथैव अनेकशब्दयुक्तस्य वाक्यस्य विवरणं विलम्बेन क्रियते सरलशब्दयुक्तस्य आदौ क्रियते । (सा. १९८)
{ व्याकरणे भूषणशास्त्रग्रन्थे धात्वर्थप्रकरणे अयम् उल्लिखितः}
<DOC_END>
<DOC_START>
एकस्मित् पर्वते केचन वानराः वसन्ति स्म । क्वचित् शैत्यकाले सर्वे वानराः कम्पमानाः अग्निं ज्वालायितुं कञ्चन उपायं चिन्तितवन्तः । तदा तत्र गुञ्जफलानि दृष्टानि । तानि एव अग्निकणान् मत्वा वानरैः गुञ्जाफलानि सञ्चितानि । फूत्कारः कृतः । परन्तु अग्निः न प्रज्वलितः । तदा तत्र एव विद्यमानः सूचिमुखनामकः कश्चन पक्षिविशेषः तान् सत्यं बोधयितुम् उद्यृक्तः अभवत् । परन्तु कुपिताः वानराः तं मारितवन्तः । एवम् अयोग्याय दत्तः उपदेशः अनर्थं जनयति इति भावः ।
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥ पञ्चतन्त्रे १-४-२० (सा. ८०२)
<DOC_END>
<DOC_START>
सूत्रेण कुत्रचिद् बद्धः पक्षी यावत्प्रमाणं सूत्रं तावद् दूरम् एव गत्वा पुनः बन्धनस्थानम् एव प्रत्यागच्छति एवम् एव चञ्चलं मनः सर्वत्र भ्रमित्वा प्राणबन्धनम् एव प्रत्यागच्छति इति भावः ।
यथा – “ स यथा शकुनिः सूत्रेण प्रबद्धः दिशं दिशं पतित्वा अन्यत्र आयतनम् अप्राप्य बन्धनम् एव उपाश्रयते एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वा अन्यत्र आयतनम् अलब्ध्वा प्राणम् एव आश्रयते प्राणाबन्धनं हि सोम्य मनः” इति (छान्दोग्योपनिषदि ६-८-२)
<DOC_END>
<DOC_START>
एकदा कश्चन तन्तुवायं प्रति गत्वा “ एतैः सूत्रैः शाटिकां वय” इति उक्तवान् । तदा सः तन्तुवायः चिन्तितवान् शाटिकां वय इति कथं भवेत् वयनात् अनन्तरम् एव शाटिका भवति खलु इति चिन्तितवान् । इग्यणः संप्रसारणम् इति पाणिनीयसूत्रे (१-१-४५) महाभाष्ये अयम् उल्लिखितः ।
<DOC_END>
<DOC_START>
सूर्ये अस्तङ्गते चोरः जारः अन्ये च स्वस्वकर्मसु श्रद्धया प्रवर्तिताः भवन्ति । तथैव राजनि मृते शत्रवः राज्यम् आक्रामन्ति इति भावः ।
<DOC_END>
<DOC_START>
सैन्धवलवणम् उदके स्थाप्यते चेत् तस्मिन् एव क्षणे तत् विशीर्ण भवति तथा मिथ्याभूताः उपाधयः रज्जुसर्पवत् विलीयन्त इति भावः । (सा. ७४५)
<DOC_END>
<DOC_START>
यथा मनुष्यःएकैकं सोपानम् अधिरोहति पूर्वस्मिन् सोपाने एकं पदं निधाय अपरस्मिन् अपरं निदधाति एवं स्वात्मभूते अपि ब्रह्मणि स्थिरनिष्ठां प्रेप्सुः क्रमेण निष्ठां प्राप्नुयात् । उत्तरपदे प्राप्ते पूर्वपदं स्वयं बाधितं भूत्वा प्रपञ्चोपशमः भवति इति भावः । (सा. ४४)
<DOC_END>
<DOC_START>
एकैकसोपानस्य अधिरोहणं विना साक्षात् एव सौधाग्रस्य अधिरोहणम् अस्य अर्थः कोऽपि एवं क्रमप्रयत्नं विहाय सहसा फलं प्राप्तुम् इच्छति चेत् अस्य न्यायस्य प्रवृत्तिः भवति । क्रममुक्तिः सद्योमुक्तिः इति वेदान्ते स्थितिद्वयं कथितम् । सद्योमुक्तिः सौधसोपानन्यायम् अवलम्बते इति भावः ।
<DOC_END>
<DOC_START>
सौभरिनामकः कश्चन ऋषिः मान्धातृनामकस्य राज्ञः पञ्चाशत्कन्यकाभिः सह विवाहं कृतवान् । सः ताभिः सह एकस्मिन् एव समये कामविनोदे रतः भवति स्म । एवम् एक कालावच्छेदेन जायमानस्य कार्यस्य कृते अस्य न्यायस्य प्रयोगः भवति ।
द्रष्टव्यम् – विष्णुपुराणे ४-२, भागवतपुराणे ९-६
<DOC_END>
<DOC_START>
यथा स्तनन्धयः बाह्यसमाजस्य कालुष्यं विना स्वानन्दे निरतः एवं ब्रह्मज्ञानी स्तनन्धय इव स्वात्मानन्द निरतः भवति इति भावः ।
<DOC_END>
<DOC_START>
१४. निकाञ्चितकर्मनरेण येन यत्तस्य भुङ्क्ते स फलं नियोजात् । पद्मपुराणम् ७२. ९७
१८. भवेऽस्मिन् यत् कृतं किञ्चित्
<DOC_END>
<DOC_START>
स्त्रियाः स्तने कति शल्यानि सन्ति इति परीक्षा अर्थहीना खलु । तया निरर्थकस्य कर्मणः कृते अस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
अनुभवयुक्तः स्थविरः लगुडं क्षिपति चेत् सः लगुडः योग्ये स्थले एव पतेत् इति निश्चयः नास्ति । तथा अनुभवस्य सर्वदा फलं न भवति इति भावः । (सा. ५१२)
<DOC_END>
<DOC_START>
स्थाल्यां पच्यमानस्य पुलाकस्य पक्वदशा ज्ञातव्या चेत् संपूर्णपुलाकं कोऽपि न स्पृशति परं ततः एकं कणम् एव आदाय पश्यति । एकः कणः पक्वः प्राप्तः चेत् ततः सर्वे अपि कणाः पक्वा इति अनुमातुं शक्यते । एवं यत्र समूहस्य धर्मः ज्ञातव्यः चेत् समूहस्थस्य अवयवस्य धर्मः ज्ञातव्यः इति भावः ।
यथा – एतन्न्यायपूर्वकं लिङ्गमेकत्रापि दृश्यमानं तुल्यन्यायानां सर्वेषां धर्मवत्तां प्रदर्शयति । यथा स्थाल्यां तुल्यपाकानां पुलकानाम् एकम् उपमृद्य अन्येषामपि सिद्धतो जानाति । (शाबरभाष्ये ७-४-१२)
<DOC_END>
<DOC_START>
वत्सनाभ इति विषप्रकारः । स्थावरं नाम एकत्र विद्यमानं विषम् । विषेवत्सनाभविषस्य मिश्रणं भवति चेत् पूर्वविषस्य प्रभावः नश्यति इति कथ्यते । एवं रज्जुसर्पभ्रमस्थले ज्ज्वाः ज्ञानेन पूर्वतनं सर्पज्ञानं नश्यति । एतदर्थे अस्य प्रयोगः ।( सा. २२६)
<DOC_END>
<DOC_START>
स्थूणा इति स्तम्भविशेषः स्थिरः भवतु इति धिया भूमौ पुनः पुनः निखन्यते एवं ग्रन्थे प्राप्तानां नवीनविषयाणां दाढर्यसंपादपनार्थं पूर्वविषयस्य आवृत्तिः क्रियते तथा नवीनविषयस्य दृढता संपाद्यते इति भावः ।
यथा – आक्षेपपूर्विका हि परिहारोक्तिः विवक्षिते अर्थे स्थूणानिखननन्यायेन दृढां बुद्धिम् उत्पादयति ॥ ब्रह्मसूत्रशाङ्करभाष्ये ३-३-५३
<DOC_END>
<DOC_START>
अरुन्धतीनक्षत्रं अल्पप्रमाणं भवति इति कारणेन आदौ तस्य पार्श्वे वर्तमानं स्थूलं नक्षत्रं दर्श्यते ततश्च तत्पार्श्वे लघुनक्षत्रम् अरुन्धतीनक्षत्रम् इति बोध्यते ।
एवं स्थूलज्ञानात् सूक्ष्मज्ञानपर्यन्तं साधकेन गन्तव्यम् इति भावः ।
<DOC_END>
<DOC_START>
यावत् पर्यन्तं तैलं भवति तावत्कालपर्यन्तं दीपः प्रकाशते तैले विनष्टे दीपः अपि विनश्यति एवं कारणंसमवधाने कार्यं भवति कारणे नष्टे कार्यं नश्यति इति भावः ।
<DOC_END>
<DOC_START>
स्फटिकस्य समीपे जपाकुसुमं स्थापितं चेत् स्फटिके तस्य रक्तवर्णस्य प्रतिफलनं भूत्वा स्फटिकः रक्तवर्णः भासते । एवम् उपाधिवशात् पदार्थस्य धर्मपरिवर्तनम् इवाभासते इति अनेन न्यायेन बोध्यते । (परमार्थसारे १६, ६२)
<DOC_END>
<DOC_START>
स्त्रोतसः निम्नता कियती इति कः जानाति एवं दुरुहानां विषयाणां संदर्भे अस्य प्रयोगः क्रियते ।
<DOC_END>
<DOC_START>
यथा – १. निजगुणमहिमा सुखकरः स्यात् स्वयमनुवर्णयतां सतां न तावत् ।
::२ निजकरकमलेन कामिनीनां कुचकलशकलनेन को विनोदः सा. ३४६)
<DOC_END>
<DOC_START>
एकदा एकः मुनिः गङ्गानद्याः तीरे अनुष्ठानमग्नः आसीत् । तदा श्येनपक्षिणः मुखात् प्रभ्रष्टः काचन मूषिका मुनेः अङ्के पतिता । जातदयः सः मुनिः तां मूषिकां सुन्दरकन्यां कृतवान् तस्याः पालनादिकं कृत्वा योग्ये वयसि तस्याः विवाहं कर्तुं योग्यं वरम् अन्वेष्टुम् आरब्धवान् । परन्तु कोऽपि वाः तस्यै न अरोचत् । अन्ते सः एकं मूषकं तस्याः पुरतः नीतवान् । तदा सा आनन्देन तम् वृतवती इति । एवं स्वजातिं कोऽपि उल्लङिघितुं न शक्नोति इति भावः ।
यथाः सूर्यं भर्तारमुत्सृज्य पर्जन्यं मारुतं गिरिम् ।
स्वजातिं मूषिका प्राप्ता स्वजातिर्दुरतिक्रमा ॥ (सा. ८०८)
<DOC_END>
<DOC_START>
दीपः स्वकीयः चेदपि कोऽपि तं चुम्बितुं न उपक्रमते । तथा साहसे कृते मुखज्वलनं भवति एव । स्वकीय इति दीपः दयां दर्शयेत् किम् एवं दुर्जनस्य अपि स्वभाव इति भावः ।
<DOC_END>
<DOC_START>
स्वप्ने व्याघ्रं दृष्द्वा कोऽपि भयभीतः भवति चेत् अपि जाग्रदवस्थायां स स्वप्नः बाधितः भवति । एवं जगद् अपि अनुभवकाले सत्सम् इव भासते परं ब्रह्मज्ञानात् अनन्तरं बाधितं भवति इति भावः ।
<DOC_END>
<DOC_START>
सूर्यस्य तस्य प्रभायाश्च मध्ये कार्यकारणाभावेन भेदे सत्यपि तेजस्त्वरुपेण साम्यम् एव भवति । एवं स्वस्य प्रकाशस्य आश्रयः तस्मात् अभिन्न इति भावः ।
<DOC_END>
<DOC_START>
कियदपि घर्षणं कृतं छेदितं चेदपि चन्दनं स्वसुगन्धं त्यजति कियदपि तप्तं चेदपि सुवर्णं स्पप्रकाशं न त्यजति तथैव कियदपि कष्टं प्राप्तं चेदपि सज्जनः स्वगुणं न परित्यजति इति भावः । यथा –
धृष्टं धृष्टं पुनरपि पुनश्चन्दनं चारुगन्धं
छिन्नं छिन्नं पुररुपि पुनः स्वादु चैवेक्षुकाण्डम् ।
दग्धं दग्धं पुनरपि पुनः काञ्चनं वान्तवर्णं
न प्राणान्ते प्रकृतिर्विकृतिः जायते ह्युत्तमानाम् ॥
<DOC_END>
<DOC_START>
स्वेदात् उत्पन्नाः कीटाः शाटिकायां लग्ना इति शाटिकायां
एव ज्वलनं किम् उचितम् अतः विविच्य कार्यं करणीयम् इति भावः । एकस्य सङ्कटस्य कारणेन संपूर्णा कार्यहानिः न प्राप्तव्या ।
<DOC_END>
<DOC_START>
पक्षिषु रुपलावण्ययुक्तः हंसः एव खलु । सः कुत्रापि वा भवतु स्वयशः तेन यह भवत्येव । गिरिशिखरेषु वर्तमानाः काकाः किं तेन हंसेन स्पर्धां कुर्युः एवं सज्जनाः अल्पसंख्याकाः चेदपि विशिष्टं स्थानं वहन्ति इति भावः ।
पुलिनगतैर्न समेति राजहंसैः ॥ (सा.९९९ poem>
<DOC_END>
<DOC_START>
अयं वर्गः हकारादीनां लौकिकन्यायानां विषये विद्यते ।
<DOC_END>
<DOC_START>
जलमिश्रितं दुग्धं हंसस्य पुरतः स्थापितं चेत् सः दुग्धात् जलं पृथक्कृत्य दुग्धम् एव पिबति । तथा सज्जनः इतरेषां दोषान् दूरीकृत्य गुणम् एव आदत्ते इति भावः ।
यथा – हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ।
<DOC_END>
<DOC_START>
बकसमूहे प्रमादवशात् हंसः भ्रमति चेत् सः बक इति भ्रमः भवति । तत्रमत्स्या भवन्ति वा इति पृष्ट्वा न भवन्ति चेत् किं तस्य वैशिष्ट्यम् इत्यपि तं परिहसन्ति । एवं हसः वकश्च यद्यपि श्वेतवर्णो तथापि नीरक्षीरविवेकेन हंसः बकात् पृथग् भवति । एवं सज्जनदुर्जनयोः रसिकारसिकयोश्च वास्तविकः भेदः योग्यकाले भवति । इति भावः ।
किं तत्रास्ति सुवर्णापङ्कजवनं नीरं सदा निर्मलम् ।
रत्नानां निचया सुवर्णलतिका वैदूर्यहाराः क्वचित्
मण्डूका अपि तत्र सन्ति न बकैराकर्ण्य ही ही कृतम् ॥
२. हंसः श्वेतो बकः श्वेतः को भेदो बकहंसयोः ।
<DOC_END>
<DOC_START>
करतले स्थापितस्य आमलकफलस्य सर्वविधं ज्ञानं भवति । एवं यस्य कस्यचिद् विषयस्य स्पष्टं ज्ञानं जातं चेत् हस्तामलक वत् भवति इति वदन्ति ।
यथा – ब्रह्मणः साक्षाद् उपलब्ध्ययर्थमुपासपनार्थं च हृदयाकाशः स्थानमुच्यते शालग्राम इव विष्णोः तस्मिन् हि ब्रह्मणा उपास्यमानं मनोमयत्वादिधर्मविशिष्टं साक्षाद् उपलभ्यते पाणौ इव आमलकम् (शाङ्करभाष्य- तैत्तिरीयोपनिषद् – उपोद्धाते सा. २८०
<DOC_END>
<DOC_START>
भूगर्भे सुवर्णनिधिः अस्ति इति वदन्ति । परन्तु भूमेः उपरि चलतां तस्य ज्ञानं न भवति । तथा सर्वे ब्रह्मणा सह वर्तन्ते चेदपि ब्रह्मज्ञानं न भवतीति भावः । (सा. ४५५)
<DOC_END>
<DOC_START>
१. गजाकृतिः मनुष्याकृतिः च मिलित्वा गणपतेः आकृतिः भवति । मनुष्यस्य सिंहस्य च आकृत्योः मेलनेन नरसिंहावतारः भवति ।
२. हेरम्बस्य नरसिंहस्य च एक भागे गजत्वम् उपरभागे सिंहत्वे च भवति । तथा हि विरोधः एव । एवं परस्परविरुद्धयोः एकत्र स्थितिः अनेन न्यायेन सूच्यते । जैनानाम् एकान्तवादे परस्परविरुद्धांशाः एकत्र भवितुम् अर्हन्ति परन्तु रामानुजमतानुसारं हेरम्बनरसिंहवत् तद् असंभवम् इति प्रतिपादितम् । (सा. ७०७)
<DOC_END>
<DOC_START>
ह्रदे नक्रः नाम मकरः बलवान् भवति । स एव जलाशयात् बहिः आगतः चेत् शुनकादपि बिभ्यति । एवं स्थानबलात् एव एकैकस्य शक्तिः भवति अतः स्थानं न विहातव्यम् इति भावः । (सा. ३९२)
<DOC_END>
<DOC_START>
श्रुत्वान्यस्य सुभाषितम् खलु मनं श्रोतुं पुनर्वान्छति |
अज्ञान ज्ञानवतोsप्यनेन पयनेन हि वशिकर्तुं समर्थोभवेत्
कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः संग्रहः poem>
<DOC_END>
<DOC_START>
अयं वर्गः समयसारकल्पविषयकः विद्यते ।
<DOC_END>
<DOC_START>
१. कविप्रकाशे खल एव हेतुर्यतश्च
२. त एव कवयो लोके त एव च विचक्षणाः
३. परे तुष्यन्तु वा मा वा कविः
स्वार्थं प्रतीहताम् । आदिपुराणम् ७६
<DOC_END>
<DOC_START>
१. कर्मणा कलितः कामी कुरुते
<DOC_END>
<DOC_START>
१. न क्षमते मनोभूः क्षणेऽपि
<DOC_END>
<DOC_START>
अन्ते सुदुस्त्यजान् कामान् कामं कः सेवते सुधी । इष्टोपदेशः १७
<DOC_END>
<DOC_START>
अयं वर्गः इष्टोपदेशग्रन्थविषयकः विद्यते ।
<DOC_END>
<DOC_START>
विषयैः क्षीयते कामो नेन्धनैरिव पावकः
<DOC_END>
<DOC_START>
२. इच्छा पश्यति नो चक्षुः
<DOC_END>
<DOC_START>
अयं वर्गः सर्वार्थसिद्धिग्रन्थविषयकः विद्यते ।
<DOC_END>
<DOC_START>
सर्वथा नयशालिभिः । - पद्मपुराणम् ५३..८५
यन्त्रात्करस्थं क्रियते यतः । उपासकाध्ययनम् ८१
महत्कार्यं न सम्पन्नं संजायते । व० च० स्त० ६,पृ.१३७
<DOC_END>
<DOC_START>
१. दोषनाशाय च संविदे च
<DOC_END>
<DOC_START>
१. न सहन्ते हि कठिना
२. स्वभावतो ये कठिनासहेयुः कुतः
<DOC_END>
<DOC_START>
२. निजपतिस्तु तरां सति रम्यः
<DOC_END>
<DOC_START>
अयं वर्गः जैनतर्कभाषाविषयकः विद्यते ।
<DOC_END>
<DOC_START>
क्रोधनस्य तथा रिक्ताः समाधि श्रुतसंयमाः । उपासकाध्ययनम् १३१
<DOC_END>
<DOC_START>
क्षत्रियो न्यायजीविकः । दयोदयचम्पूः ४३
<DOC_END>
<DOC_START>
अयं वर्गः गकारादिविषयाणां जैनदर्शनसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
धनादिकारणाद् गर्वः स्याच्चित्रे यदि दुःखदः
<DOC_END>
<DOC_START>
२. काचो हि याति वैगुण्यं
द्रव्याद्यैस्ते गुणाः । आलापद्धतिः ९३
<DOC_END>
<DOC_START>
अयं वर्गः आलापद्धतिविषयकः विद्यते ।
<DOC_END>
<DOC_START>
कष्टेन हि गुणग्रामं प्रगुणीकुरुते मुनिः
<DOC_END>
<DOC_START>
किं न स्यात् गुरुसेवया । दयोदयचम्पूः २-१
<DOC_END>
<DOC_START>
अयं वर्गः चकारादिविषयाणां जैनदर्शनसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
२. चारित्र्यचलिता जीवो जीवन्नपि मृतोपमः । सुभाषितरत्नावली ३९
५. मृतश्चारित्र्यसंयुक्तः इहामुत्र च जीवति । सुभाषितरत्नावली ३९
<DOC_END>
<DOC_START>
अयं वर्गः सुभाषितरत्नावलीविषयकः विद्यते ।
<DOC_END>
<DOC_START>
आत्मस्थं देहतो भिन्नं देहमात्रं चिदात्मकम् । ध्यानस्तबकः ३२
<DOC_END>
<DOC_START>
अयं वर्गः ध्यानस्तबकविषयकः भवति ।
<DOC_END>
<DOC_START>
४. न विदन्ति खलाः स्वैरा
६. महतां चित्रमीहितम् । दयोदयचम्पूः ३७
<DOC_END>
<DOC_START>
३. संगृह्णन्ति न तु स्तेयमषी
<DOC_END>
<DOC_START>
अयं वर्गः लाटीसंहिताविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः छकारादिविषयाणां जैनदर्शनसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
१. को ह्यस्य जगतः कर्त्तुं
<DOC_END>
<DOC_START>
अयं वर्गः जकारादिविषयाणां जैनदर्शनसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
यद्यथा निर्मितं पूर्वं तद्योग्यं जायतेऽधुना । पद्मपुराणम् ३
<DOC_END>
<DOC_START>
१. कथा कथञ्चित्कथिता श्रुता वा
<DOC_END>
<DOC_START>
मुण्डकोपनिषदथर्ववेदे मन्त्रभागान्तर्गता । उपनिषत्सु संवादकथाखायिकाछलेन ब्रह्मतत्त्वं प्रतिपाद्यते । अस्यामुपनिषद्यपि परब्रह्मतत्त्वचिन्तनं गुरुशिष्ययोः प्रश्नप्रतिवचनद्वारा क्रियते । उपनिषदः प्रारम्भे वंशपरम्परा वर्णितास्ति । तत्र सर्वप्रथमः ब्रह्मा बभूव । सः अथर्वणे ब्रह्मविद्यां ददौ । ततः क्रमशः अङ्गी, भारद्वाजः, अङ्गिरा पराविद्यां प्राप्तवन्तः । "कस्मिन्नु भगवो ” इत्यनेन मन्त्रेण गृहस्थः शौनक अङ्गिरसं प्रश्नं पृच्छति यत् कीदृशज्ञानेन सर्वमिदं विज्ञातं भवतीति । किन्तु तत्र गुरुः प्रश्नस्य साक्षादुत्तरमदत्वा प्रतिवचनस्य क्रममाश्रित्यपरापराविद्ये निर्वर्णयति यत् "द्वे विद्ये वेदितव्ये परा चैवापरा च” इति ।
विषयः महाशालः शौनकोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ यत् कस्मिन्नु भगवो विज्ञाते सर्वविद्भवतीति । वस्तुतस्तु एषः प्रश्नः न सामान्यः । एतादृशः प्रश्नः तेनैव प्रष्टुं शक्यते, यस्य विशेषः जिज्ञासा भवति । किञ्च प्रश्नः तत्रैव उदेति यत्र पूर्वं किञ्चित् तस्मिन् विषये ज्ञानमस्ति अथवा संशयः भवति । यदि पूर्वं किञ्चित् ज्ञातमस्ति तर्हि तर्ककर्तुं शक्यते । किन्तु तथा नास्ति यतो हि ब्रह्मज्ञानं तर्केण न सम्भवति । अतःउक्तं हि कठोपनिषदि "नैषा तर्केण मतिरापनेया” इति । एवं ज्ञात्वा हि शौनकः गुरुं प्रश्नं करोति । किञ्च प्रश्नः भवति ज्ञानलाभास्य माध्यमः ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ।।" इति ।।
शैनकेन पृष्टस्य प्रश्नस्य साक्षादुत्तरं गुरुः न कथयित्वा क्रममार्गेण उत्तरति यत् "द्वे विद्ये वेदितव्ये परा चैवापरा च” इति । उत्तरस्य विस्तारार्थं गुरुं सूचिकटाहन्यायेन प्रथममपराविद्यां वर्णयति यत् "तत्रापरा ऋग्वेदो यजुर्वेदः ज्योतिषमिति” इति षोडषापराविद्या ।
ऋच्यते स्तूयते यया सा ऋक् । तादृशीनामृचां समूहः एव ऋग्वेदः । स ऋग्वेदः सूक्तमण्डलभेदेन द्विधा विभक्तः । यजुंषि गद्यानि । यजुर्वेदो यज्ञविधेरतिसन्निकऋष्टं सम्बन्धं रक्षति । यजुर्वेदो द्विप्रकारकः, कृष्णयजुः शुक्लयजुश्च । उद्गाता हि स्वरबद्धान् मन्त्रानुच्चैगायति, तदपेक्षितमन्त्रसंग्रहः सामवेदः । अभिचारक्रिययाः प्राधान्येन प्रतिपादकः वेद अथर्वनामकर्षिणा दृष्टत्वात् अथर्ववेद इत्युच्यते ।
शिक्षा नाम येन वेदमन्त्राणामुच्चारणं शुद्धं सम्पाद्येत । ब्राह्मणकाले यागस्य तावान् प्रचारो जातो यत्तेषां यथावज्ज्ञानाय पूर्णपरिचयप्रदायकग्रन्थानामावश्यकताऽनुभूतयते स्म, तामेवावश्यकतां स्वल्पैः शब्दैः पूरयितुं कल्पसूत्राणि विरचितानि । निरुच्यते निःशेषेणोपदिश्यते निर्वचनविधया तत्तदर्थबोधनाय पदजातं यत्र तन्निरुक्तम् । व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेन इति व्याकरणम् । भाषायाः शुद्धये व्याकरणापेक्षा भवत्येव । वेदे मन्त्राणां छन्दोवद्धतया छन्दसां ज्ञानं विना वेदमन्त्राः साधु उच्चारयितुं न शक्यन्ते, अतः छन्दशास्त्रं ज्ञेयं भवति । ज्यौतिषं हि कालविज्ञापनं शास्त्रम् । अतः मुहूर्तज्ञानाय ज्यौतिषशास्त्रम् ।
एवं रुपेण गुरुः अपराविद्यां निर्वर्ण्य पराविद्यां वर्णयति यत् "अथ परा यया तदक्षरमधिगम्यते ।” इति । अधिपूर्वस्य गम्धातोः प्रायशः प्राप्त्यर्थः । यया विद्यया तदक्षरं प्राप्यते, सा विद्या पराविद्या । परमात्मनः प्राप्तिः, परमात्मनः विषयकज्ञानमनयोः नास्ति कश्चन भेदः । यतो हि परमात्मानः प्राप्तिद्वारा अविद्या एव नश्यति अन्यत् किमपि न भवति ।
ननु अत्र संशयः जायते यत् पराविद्या तु वेदबाह्या, सा विद्या कथं मोक्षसाधनं स्यात् इति । किञ्च वेदबाह्याः तु नास्तिकाः भवन्ति । पुनश्च मनुः प्राहः यत्
"या वेदबाह्याः स्मृतयो याश्च काश्च कुदुष्टयः
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ।। इति ।।
अपि च उपनिषदेव ब्रह्मविद्यां ज्ञापयति । यदि उपनिषत् वेदान्तर्गता तर्हि परा इति वचनं व्यर्थम् । किञ्च उपनिषत् वेदबाह्या चेत् निष्फला इति चेन्न । कारणं हि पराविद्या इत्यनेन विद्याविषयकज्ञानमभीष्टमस्ति । उपनिषदि अक्षरद्वारा ज्ञापनीयं ज्ञानमेव पराविद्या इत्युच्यते । वेद इत्यनेन तु शब्दराशिः बुद्ध्यते । किञ्च केवलं शब्दार्थस्य ज्ञानेन अक्षरब्रह्मणः बोधः न सम्भवति । अतः ब्रह्मविद्या पृथक्रूपेण पराविद्या इत्युच्यते ।
पराविद्यायाः वर्णनकाले गुरुः ब्रह्मणः स्वरूपं बोधयति यत्
नित्यं विभुं सर्वगतं सुसूक्षमं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ।" इति ।।
यत्तत्सर्वशास्त्रप्रसिद्धमक्षरं ब्रह्मेति । अद्रेश्यम् ज्ञानेन्द्रियैः यत् द्रष्टुमशक्यम् । अग्राह्यम् कर्मेन्द्रियैः यत् गृहीतुमशक्यम् । अगोत्रम् मूलरहितं सर्वमूलरूपत्वात् कुलहीनं वा । अवर्णम् ब्राह्मणादिरहितम् । अचक्षुः श्रेत्रं तदपाणिपादम् ज्ञानकर्मेन्द्रियरहितम् । नित्यम् आद्यन्तशून्यम् । विभुम् व्यापकम् । सर्वगतम् सर्वस्यान्तः प्रविश्य स्थितम् । अव्ययम् अविनाशि । अत्र प्रश्न उदेति यत् अक्षरब्रह्म सर्वेषां कारणं भवति, किन्तु कथमिति । प्रसिद्धः लौकिकोदाहरणेन बोधयति हि
तथाक्षरात्सम्भवतीह विश्वम् ।।" इति ।।
उपसंहारः ऋग्वेदः यजुर्वेदः सामवेद अथर्ववेद शिक्षा कल्पं निरुक्तं व्याकरणं छन्दः ज्योतिषमिति षोडषापराविद्या । अत्र अपराविद्या इत्यनेन शब्दराशिः उच्यते । यः शास्त्रज्ञः तथा व्यवत्पन्नः तस्य शब्दार्थस्य ज्ञानं भवति । यया विद्यया अक्षरमधिगम्य़ते सा विद्या एव पराविद्या उच्यते । किञ्च पराविद्यायाः कृते गुरोपदेशः तथा वैराग्यमपेक्षते । इति शम् ।
<DOC_END>
<DOC_START>
६. परिणामानां स्वेषां स भवति ।
<DOC_END>
<DOC_START>
२. जीवितं मरणं दुःखनीरसम् । दयोदयचम्पूः २१
<DOC_END>
<DOC_START>
अवुल् पकिर् जैनुलाब्दीन् अब्दुल् कलामः यश्च डा. ए. पि. जे. अब्दुल् कलाम् (१५ अक्टोबर् १९३१) इत्येव प्रसिद्धः भारतीयः वैज्ञानिकः अभियन्ता च ।
* आर्थिकसमृद्ध्या संस्कृतिपरम्परया च युक्तं समृद्धं सुरक्षितं भारतं यदि अग्रिमायै परम्परायै दद्याम तर्हि एव वयं स्मृताः स्याम ।
भारमसंसद्भवनम् (२००३ लोकसभाचर्चा' पृ ४५
<DOC_END>
<DOC_START>
२. अबाह्यं केवलं ज्योतिर्निराबाधमनामयम् । - योगदृष्टिसमुच्चयः १५७
३. गौरः स्थूलः कृशो वाऽहमित्यङ्गेना
केवलं ज्ञप्ति विगृहम् । समाधितन्त्रम् ७०
६. ज्ञानसंस्कारैः स्वतस्तत्त्वेऽवतिष्ठते । स० श० ३७
९. भाव-प्रमेयाऽपेक्षायां प्रमाणाभास निह्नवः । आप्तमीमांसा ८३
<DOC_END>
<DOC_START>
अयं वर्गः योगदृष्टिसमुच्चयविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः समाधितन्त्रविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः आप्तमीमांसाविषयकः विद्यते ।
<DOC_END>
<DOC_START>
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
सन्तः श्रीरङ्गपृथ्वीशचरणत्राणशेखराः । जयन्ति भुवनत्राणपदपङ्कजरेणवः ॥
भरताय परं नमोऽस्तु तस्मै प्रथमोदाहरणाय भक्तिभाजाम् ।
यदुपज्ञमशेषतः पृथिव्यां प्रथितो राघवपादुकाप्रभावः ॥
१. प्रतिष्ठां सर्वचित्राणां प्रपद्ये मणिपादुकाम् । विचित्रजगदाधारो विष्णुर्यत्र प्रतिष्ठितः ॥
प्रतिष्ठाम्, सर्वचित्राणाम्, प्रपद्ये, मणि-पादुकाम्, विचित्र-जगद्-आधारः, विष्णुः, यत्र, प्रतिष्ठितः ।
सर्वचित्राणाम् – सकलानां चित्राणाम्, प्रतिष्ठाम् – विषयभूताम्, मणिपादुकाम् – श्रीरङ्गनाथस्य मणिखचितां पादुकाम्,
प्रपद्ये – उपायत्वेन आश्रये । यत्र यस्यां पादुकायाम्, विचित्र-जगद्-आधारः – आश्चर्यावहस्य जगतः आधारभूतः,
विष्णुः – सर्वव्यापी रङ्गनाथः, प्रतिष्ठितः – सर्वदा निरपायः अवस्थितः ।
श्रीरङ्गनाथस्य मणिखचिता पादुका तस्य अनेकेषाम् आश्चर्यजनकानां विचित्रचेष्टितानाम् आधारः/प्रतिष्ठा अस्ति ।
रामावतारे अश्मायितायाः अहल्यायाः शापविमोचनम्, कृष्णावतारे द्रोणपुत्रस्य अश्वत्थाम्नः अस्त्रेण विप्लुष्टाङ्गस्य परीक्षितः
जीवरक्षणम् इत्यादीनि व्यापारचित्राणि अत्र अभिप्रेतानि । अनेकविधरत्नानां विद्यमानत्वेन बहुवर्णमयी, शङ्खपद्माद्याकृतिभिः
च विचित्रा पादुका आलेख्यचित्राणां प्रतिष्ठा/आधारः अस्ति । तां रामपादुकाम् अहं प्रपद्ये इति कविः वदति ।
अस्मिन् श्लोके अनुप्रासः नाम शब्दालङ्कारः विद्यते । वर्णावृत्तिः अनुप्रासः पादेषु च पदेषु च इति तस्य लक्षणम् ।
‘प्र’ इति वर्णस्य आवृत्तिः त्रिषु पादेषु दृश्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः चित्रपद्धतिस्त्रिंशी-इत्येतस्य विषये विद्यते । अयं भागः पादुकासहस्रस्य अङ्गभूतः ।
<DOC_END>
<DOC_START>
२. शृणु ते पादुके चित्रं चित्राभिर्मणिभिर्विभोः । युगक्रमभुवो वर्णान् युगपद्वहसे स्वयम् ॥
शृणु, ते, पादुके, चित्रम्, चित्राभिः, मणिभिः, विभोः । युग-क्रम-भुवः, वर्णान्, युगपत्, वहसे, स्वयम् ।
पादुके – हे पादुके ते – तव, चित्रम् – वर्णचित्रं, शृणु – पश्य । या – या त्वं, मणिभिः – रत्नैः,
विभोः – श्रीरङ्गनाथस्य, युगक्रमभुवः – कृतादियुगेषु क्रमशः जायमानान्, वर्णान् सितादिवर्णान्,
युगपत् – एककाले, स्वयम् – स्वतः, वहसे – बिभर्षि ।
श्लोकस्य अस्य उत्तरार्धस्य अर्थान्तरम् अपि अस्ति । यथा – युग – यमकालङ्कारेषु वर्णानां युग्मतया,
क्रम – क्रमेण तत्तद्बन्धविचित्राणां यथापेक्षितं तेन क्रमेण च, भुवः – विद्यमानान्, वर्णान् – अक्षराणि,
युगपत् – एककाले, स्वयं वहसे – स्वतः वहसि ।
'हे रङ्गनाथपादुके त्वयि दृश्यमानम् एतद् अद्भुतं पश्य । (अत्र ‘शृणु’ इति पदस्य ‘पश्य’ इति अर्थः क्रियते
व्याख्यानकारैः ।) भगवान् कृतयुगे श्वेतवर्णः, त्रेतायां रक्तवर्णः, द्वापरे रुक्मवर्णः, कलौ च कृष्णवर्णः भूत्वा
एकैकस्मिन् युगे एकैकेन वर्णेन अवतरति । किन्तु, त्वं भगवतः सर्वान् एतान् वर्णान् त्वयि स्थितैः विविधवर्णैः
रत्नैः युगपद् वहसे । अपि च त्वां स्तोतुकामस्य मम तवैव अनुग्रहेण श्लोकेषु अक्षराणां पदानां च बन्धाः
अनेकान् अर्थविशेषान् वहन्तः मम मुखात् स्वयमेव आविर्भवन्ति । तादृशीं वाचं मम त्वं स्वयम् अनुगृह्णासि ।
न खलु अहं स्वशक्त्या किमपि स्तोत्रं विदधामि' । इति कविः विनयेन वदति ।
अस्मिन् श्लोके शब्दचित्रम् अनुप्रासः, अर्थचित्रं च पादुकायाः एकेन रूपेण युगपद् बहुवर्णप्रदर्शनम् । यदि
‘शृणु ते’ इति पृथक्पदे प्रमादेन ‘शृणुते’ इति एकपदमिव पठ्येते, तदा ‘अपशब्दाभासः’ इति शब्दचित्रम्
अपि द्रष्टुम् शक्यम् अत्र ।
<DOC_END>
<DOC_START>
३. सुरासुरार्चिता धन्या तुङ्गमङ्गलपालिका । चराचराश्रिता मान्या रङ्गपुङ्गवपादुका ॥
सुर-असुर-अर्चिता, धन्या, तुङ्ग-मङ्गल-पालिका, चर-अचर-आश्रिता मान्या रङ्ग-पुङ्गव-पादुका ॥
सुरासुरार्चिता – देवैः असुरैः च पूजिता, धन्या – सकलसम्पद्भरिता तुङ्गमङ्गलपालिका – उत्कृष्टानां मङ्गलानां पालयित्री
चराचराश्रिता – स्वस्मिन् चित्ररूपेण स्थितैः चरैः अचरैः च आश्रिता, रङ्गपुङ्गवपादुका – श्रीरङ्गनाथस्य पादुका,
मान्या – सकलानां गौरवार्हा अस्ति ।
श्रीरङ्गनाथस्य पादुका सर्वैः देवैः असुरैः च पूजिता तेभ्यः क्षेमकारिणी, परमभाग्यशालिनी, सकलसम्पद्भरिता च
भूत्वा आश्रितेभ्यः ताः ददती, उत्कृष्टानि श्रेयांसि दत्वा तान् रक्षति । तस्याः शरीरे स्थितानि चराचररूपाणि दृष्ट्वा
एवं भाति भगवान् यथा स्वविश्वरूपे समस्तं स्थावरजङ्गमं धृत्वा रक्षति तद्वत् श्रीरङ्गे नित्यवासं कुर्वतः श्रीरङ्गनाथस्य
पादुका एषापि अपारमहिमान्विता सर्वेषां स्तुत्यर्हा अस्ति ।
अस्मिन् श्लोके गोमूत्रिकाबन्धः नाम चित्रम् अस्ति । श्लोकस्य प्रथमद्वितीयार्धयोः समस्थानेषु स्थितानि अक्षराणि
एकरूपाणि सन्ति । पूर्वार्धे उत्तरार्धे वा स्थितानि एतानि समाक्षराणि यदि अपरार्धे स्थितैः विषमाक्षरैः सह पठ्यन्ते
तदा अस्यैव श्लोकस्य आनुपूर्वी लभ्यते । अयं च पठनक्रमः गौः यदा चलन् मूत्रविसर्जनं करोति तद्वद् अस्ति इति
कारणेन अस्य गोमूत्रिकाबन्धः इति नाम ।
<DOC_END>
<DOC_START>
४. पद्मेव मङ्गलसरित्पारं संसारसन्ततेः । दुरितक्षेपिका भूयात् पादुका रङ्गभूपतेः ॥
पद्मा, इव, मङ्गल-सरित्, पारम्, संसार-सन्ततेः, दुरित-क्षेपिका, भूयात्, पादुका, रङ्ग-भूपतेः ॥
मङ्गलसरित् – मङ्गलानां नदी, संसारसन्ततेः – सन्तन्यमानस्य संसृतेः, पारम् – अन्त्यं रङ्गभूपतेः – रङराजस्य,
पादुका – पादरक्षा, पद्मा इव – लक्ष्मीः इव, दुरितक्षेपिका – अस्माकं पापानां क्षेपयित्री, भूयात् – भवतु ।
आश्रितेभ्यः इह लोके धर्मार्थकामरूपमङ्गलानां प्रवाहानेव ददती, अनुवर्तमानायाः संसृतेः तान् मोचयितुं समर्था
परत्र मोक्षदायिनी च इयं रङ्गनाथस्य पादुका साक्षात् लक्ष्मीः इव अस्ति । सा अस्मान् पापेभ्यो मोचयतु । एवं च
त्रिवर्गफलाय वा अपवर्गाय वा बन्धकेभ्यः पापेभ्यः अस्मान् मोचयितुं समर्थे लक्ष्मीः तथा पादुका च ।
अस्मिन् श्लोके ‘गूढचतुर्थम्’ इति शब्दचित्रं वर्तते । अर्थात् चतुर्थपादे विद्यमानानि अक्षराणि सर्वाणि प्रथमद्वितीयतृतीयपादेषु
उपलभ्यन्ते । एवमेव गूढप्रथमम् इत्यादि शब्दचित्राणि अपि सन्ति ।
<DOC_END>
<DOC_START>
५. अनन्यशरणः सीदन्ननन्तक्लेशसागरे । शरणं चरणत्राणं रङ्गनाथस्य संश्रये ॥
अनन्य-शरणः, सीदन्, अनन्त-क्लेश-सागरे, शरणं, चरण-त्राणं, रङ्गनाथस्य संश्रये ।
अनन्त-क्लेश-सागरे – अन्तरहितानां क्लेशानां समुद्रे, सीदन् – सङ्कटम् अनुभवन्,
अनन्यशरणः – अपरं रक्षकं विना (अहम् रङ्गनाथस्य चरणत्राणं – रङ्गनाथस्य पादरक्षां,
शरणम् – उपायत्वेन, संश्रये – आश्रये ।
'संसारः अयम् अत्यन्तं क्लेशभूयिष्ठः अनन्तः च । अनादिकालेन अहम् अत्र संसरमाणः केवलं
दुःखान्येव अनुभवन् इतः आत्मानम् मोचयितुं पादुकासम्बन्धं विना अन्यम् उपायम् अविन्दन्,
रङ्गनाथस्य पादरक्षामेव उपायत्वेन वृणे' । संसारमोचनं भगवत्सम्बन्धेन एव भवति । स च
भगवत्सम्बन्धः पादुकाद्वारा सदाचार्यसम्बन्धेन च एव सिध्येत् । अतः संसारात् मुमुक्षुः तामेव
पादुकां शरणं व्रजेत् इति शास्त्रार्थः अत्र उच्यते ।
अस्मिन् श्लोके शब्दचित्रस्य नाम ‘निरोष्ठ्यम्’ इति । अत्र ओष्ठ्यवर्णाः (उकारः, पवर्गः, उपध्मानीयः वा)
<DOC_END>
<DOC_START>
६. प्रतिभायाः परं तत्त्वं बिभ्रती पद्मलोचनम् । पश्चिमायामवस्थायां पादुके मुह्यतो मम ॥
प्रतिभायाः, परम्, तत्त्वम्, बिभ्रती, पद्मलोचनम्, पश्चिमायाम्, अवस्थायाम्, पादुके, मुह्यतः, मम ।
पादुके! – हे पादुके परं तत्त्वम् – परमं तत्त्वं, पद्मलोचनं पुण्डरीकाक्षं श्रीमन्नारायणं, बिभ्रती – धरमाणा,
पश्चिमायाम् अवस्थायाम् अन्तिमायाम् अवस्थायाम् (मरणकाले मुह्यतः – मोहं गतस्य, मम – मे,
प्रतिभायाः – (त्वं) प्रत्यक्षं भूयाः ।
'मम मरणकाले यदा सर्वेषाम् इन्द्रियाणां, मनसश्च पाटवं नष्टम्, उत्तरक्षणे च मोहवशं गतः भवेयम् अहं, तदा
सुन्दरं पद्मेक्षणं श्रीमन्नारायणं वहन्ती त्वं मम मनसि आविर्भूयाः इति भगवद्विषयिणीम् अन्तिमस्मृतिं कविः
‘क्रियावचनप्रहेलिका’ इति शब्दचित्रम् अत्र । श्लोके ‘प्रतिभायाः’ इति क्रियापदं षष्ठ्यन्तं पदमिव भासते । अतः
क्रिया एषा इति स्पष्टं न ज्ञायमाना पठितारं वञ्चयति इत्यतः अस्य क्रियावचनप्रहेलिका इति नाम ।
<DOC_END>
<DOC_START>
७. यामः श्रयति यां धत्ते यैन यात्याय याच्च या ।
यास्य मानाय यै वान्या सा मामवतु पादुका ॥
याम्, अः, श्रयति, या, अम्, धत्ते, या, एन, याति, आय, या, आत्, च, या ।
या, अस्य, मानाय, या, ए, वान्या, सा, माम्, अवतु, पादुका ॥
(‘अकारो विष्णुवाचकः’ इति निघण्टुः । तस्य 'अ'शब्दस्य प्रथमादिसप्तम्येकवचनान्तानि
अः – भगवान् विष्णुः, यां श्रयति – याम् आश्रयति, या अम् धत्ते – या तं वहति, या एन
याति – या विष्णुना सह (तस्य साहाय्येन) गच्छति, या आय – या विष्णोरर्थे एव जाता,
या आत् – या विष्णोः सकाशात् एव उद्भूता (यं विना यस्याः अस्तित्वं नास्ति या अस्य
– या भगवतः, मानाय – पूजायै भवति, या ए – या भगवति, वान्या – सम्यक् भक्तिं कर्तुं
युक्ता च, सा पादुका, माम् अवतु – मां रक्षतु ।
'पादुकायाः स्वरूपं, स्थितिः, व्यापारश्च भगवदधीनः अस्ति । पारार्थ्येन पारतन्त्र्येण च सा
भगवतः अन्तरङ्गकैङ्कर्योपयोगिवस्तुषु अन्यतमा, तस्य आराधने उपयोगम् अर्हति । एषा तस्य
उपयोगार्थमेव यथा भवति, तद्वत् अहमपि भवेयं यथा, तथा तत्त्वज्ञानेन तदुपयोगिना अनुष्ठानेन
च माम् अनुगृह्य पादुका मां रक्षतु' इति प्रार्थयते कविः ।
अस्मिन् श्लोके प्रहेलिका नाम शब्दचित्रम् । अत्र विष्णुवाचकस्य अकारस्य सर्वविभक्तिरूपाणि
अन्यपदभ्रमं जनयन् सन्धिषु सुलभतया अभिज्ञातुम् अशक्यानि तिष्ठन्ति । अयमपि प्रहेलिकायाः
<DOC_END>
<DOC_START>
८. चर्या नः शौरिपादु त्वं प्रायश्चित्तेष्वनुत्तमा । निवेश्यसे ततः सद्भिः प्रायश्चित्तेष्वनुत्तमा ॥
चर्या, नः, शौरि-पादु, त्वम्, प्रायश्चित्तेषु, अन्-उत्तमा, निवेश्यसे, ततः, सद्भिः, प्रायः, चित्तेषु,
शौरि-पादु! – हे शौरेः पादुके त्वम्, नः – अस्माकं, प्रायश्चित्तेषु – पापापनोदनकर्मसु,
अनुत्तमा – अत्युत्तमा, चर्या – क्रिया (असि) । ततः – तेन कारणेन, सद्भिः – पापेभ्यः
बिभ्यद्भिः सत्पुरुषैः, अनुत्तमा – अ-नुत्ता दूरं न अपसारिता मा लक्ष्मीः यया सा (त्वं
चित्तेषु – स्वान्तरङ्गेषु, निवेश्यसे – स्थाप्यसे (तैः त्वं स्मर्यसे इत्यर्थः।)
अनादौ संसारे अस्मिन्, पापकृताम् अस्माकं प्रायश्चित्तेषु कर्मसु अङ्गभूतं त्वत्तः उत्तमं किमपि
नास्ति । त्वमेव सर्वोत्तमा प्रायश्चित्तक्रिया असि । यतः सर्वकार्येषु तव लक्ष्मीः स्वाधीनसहाया
अस्ति । अत एव साधवः स्वपापानां प्रायश्चित्तं विधातुम् इच्छन्तः तेषु तेषु प्रायश्चित्तकर्मसु
सम्भावितानां मन्त्रतन्त्रक्रियाद्रव्यनियमलोपानां निवारणाय त्वामेव मनसि स्मरन्ति । यद्वा
तादृशप्रायश्चित्तकर्मणाम् अनुष्ठाने असमर्थाः त्वामेव तत्र उपायत्वेन प्रार्थयन्ते ।
अस्य शब्दचित्रस्य ‘पादावृत्तियमकम्’ इति नाम । अत्र द्वितीयचतुर्थपादयोः अक्षराणि समानानि ।
<DOC_END>
<DOC_START>
९. रामपादगता भासा सा भातागदपामरा ।
कादुपानञ्च कासह्या ह्यास काञ्चनपादुका ॥
राम-पाद-गता, भासा, सा, भाता, अ-गद-प-अमरा, कात्, उपानञ्च, क-अ-सह्या,
राम-पाद-गता – रामस्य पादं प्रपन्ना, अ-गद-प-अमरा – स्वयं व्याधिनिरसने असमर्थाः
ब्रह्मादिदेवताः अपि या रक्षितवती सा गदपाः – शत्रवः अगदपाः – शत्रुरहिताः अमराः यस्याः
सा पादुका इति वा कासह्या – कस्य सूर्यस्य अपि असह्या (तेजसः आधिक्यात् पादुका
सूर्यमपि स्वतेजसा दग्धुं शक्नोति इति भावः सा काञ्चनपादुका – सा हेम्नः पादुका,
कात् – ब्रह्मणः सकाशात्, उपानञ्च – (श्रीरङ्गविमानेन सह) भूमिमागता, भाता – (इति) प्रसिद्धा,
आस हि – आसीत् खलु ।
अस्य श्लोकस्य अन्वयः एवमपि कर्तुं शक्यः । (या) अगदपामरा भासा कासह्या कात् उपानञ्च, सा
काञ्चनपादुका रामपादगता भाता आस हि । (अर्थस्तु समानः।)
आश्रितसौलभ्यगुणेन पादुका रामावतारकाले तस्य पादौ श्रिता । अनुग्रहविशेषेण देवानाम् अहङ्कारममकाररूपान्
आत्मव्याधीन् परिहृत्य, तथैव तेषां बाह्यशत्रून् च संहृत्य तान् रक्षति । सा पादुका स्वतेजसा सूर्यमपि
दग्धुम् अभिभवितुं समर्था अस्ति । सा च श्रीरङ्गविमानेन सह भूमिमागता इति पुराणेषु प्रसिद्धम् ।
अस्य शब्दचित्रस्य नाम पादप्रतिलोमयमकम् इति । अत्र प्रथमपादं प्रतिलोमक्रमेण पठ्यते चेत् द्वितीयपादः
लभ्यते । एवं द्वितीयपादस्य विलोमः प्रथमपादः भवति । एवमेव तृतीयचतुर्थपादयोरपि परस्परं विलोमक्रमः
<DOC_END>
<DOC_START>
समाधौ शठजिच्चूडां वृणोषि हरिपादुके ॥
हरि-पादुके – हे हरि-पादुके त्वम् बाढ- दृढानाम् अघ- पापानाम्, आली- आवल्याः,
झाट सम्बन्धेन, तुच्छे – शून्ये, गाथाभानाय – द्राविडगाथायाः प्रकाशनाय, फुल्ल विकसिते,
खे मनइन्द्रियसहिते, समाधौ- भगवद्ध्यानरूपसमाधौ, शठजित्-चूडाम् श्रीवकुलाभरणसूरेः
शिरः, वृणोषि – वरयसे ।
निरन्तरं भगवद्ध्यानं कुर्वतः नम्माळ्वार् इति ख्यातस्य वकुलाभरणसूरेः समाधिस्थितौ तस्य शिरसि
विराजते इयं पादुका । हरिः आश्रितानां पापानि हरति । तद्वत् तस्य पादुका अपि ध्यायिनां मनसि
समाधिस्थितौ सांसारिकदुःखानि सर्वाणि अपनुदति । तेषां शिरसि स्थित्वा सा तथा अनुग्रहं करोति
यथा तेषां मनः प्रसन्नं भूत्वा तत्र दिव्यसूरेः वकुलाभरणस्य तिरुवाय्मोळिनामकश्रीसूक्तयः प्रकाशेरन् ।
अत्र ‘अपुनरुक्तव्यञ्जनम्’ इति शब्दचित्रम् । श्लोके एकैकमपि व्यञ्जनम् एकवारमेव प्रयुक्तं दृश्यते ।
<DOC_END>
<DOC_START>
११. सा भूपा रामपारस्था विभूपास्तिसपारता ।
भूपा – भूमेः पालयित्री (रामावतारकाले तस्य वनवाससमये राज्यस्य पालनं कृतवती पादुका ।
राम-पार-स्था – सर्वस्यापि पारभूतस्य रामस्य समीपे स्थिता, विभु-उपास्ति-स-पारता – विभोः
भगवतः अथवा सर्वव्यापिनः दिव्यात्मस्वरूपस्य उपासनस्य पारभूता अर्थात् उपायस्य पुरुषार्थस्य वा
काष्ठाभूता, तार-पा – सञ्चारकालेषु प्रणववाच्यस्य भगवतः रक्षयित्री, दुष्टि-पूर-पा – दोषाणां प्रवाहं
पिबन्ती, सा रामपादुका सकृपा – (आश्रितेषु) कृपाविशिष्टा अस्ति ।
पूर्वतनश्लोके पादुका आश्रितानां कार्यसिद्धये स्वयं प्रयतते इत्युक्तम् । तत्र कारणं किमिति विचार्यमाणे
ज्ञायते यत् तस्याः कृपाविशेषः एवेति । अस्मिन् श्लोके तस्याः तां कृपां स्तौति कविः । अर्चारूपिणा
भगवता सहैव सदा स्थित्वा लोकान् पालयति पादुका । पूर्वं रामावतारकाले तस्य वनगमने सिंहासने
स्थित्वा स्वयं राज्यभारम् ऊढवती एषा । रामस्य समीपे भूत्वा लोकवेदमर्यादां स्थापयति एषा ।
सर्वस्मात् परस्य रामस्य विषये बहुमानं वहति एषा । भगवदुपासनाफलस्य पराकाष्ठा अस्ति एषा ।
यद्वा दिव्यात्मस्वरूपध्यानं, दिव्यमङ्गलविग्रहध्यानं, तत्रापि दिव्यचरणारविन्दध्यानं, दिव्यपादुकाध्यानम्
इति उपायसोपानेषु पराकाष्ठभूता एषा । तारस्य प्रणववाच्यस्य भगवतः सञ्चारकालेषु कण्टकादीन्
वारयन्ती तं रक्षति इयम् । आश्रितानां सकलान् दोषानपि पीत्वा अपनुदति च । एवं गुणैः पूर्णा रामपादुका
आश्रितेषु कृपाविशिष्टा खलु इति आश्चर्यम् ।
अयं श्लोकः मुरजबन्धे अस्ति । मुरजः तालवाद्यविशेषः । मुरजे यः बन्धः दृश्यते तेन क्रमेण अक्षराणि
पठितुं शक्यानि अत्र । चित्रं दृश्यताम् ।
<DOC_END>
<DOC_START>
लोगोचिह्ने विकिसूक्तिरिति शब्दस्य प्रयोगः (Use of विकिसूक्तिः word in the logo
नमस्कारः। अत्र विकिसूक्तौ यथाऽस्माकं योगदातारः इच्छन्ति, तथा लोगोचिह्ने विकिसूक्तयः इत्यस्य स्थाने विकिसूक्तिः इति शब्दः समावेष्टव्यः अस्ति। तदर्थमत्र छन्दाकलनं (voting) क्रियते। कृपया स्वमतं प्रकाशयन्तु। धन्यवादाः।
==विकिसूक्तिजालपुटे लघुसार्वत्रिकविभवसङ्केतप्राप्त्यै समर्थनम् (ShortUrl on Samskrit wiki projects
संस्कृतविकिपुटस्य सम्पर्कम् अन्यजालपुटेषु दानावसरे अत्यन्तं दीर्घं सार्वत्रिकविभवसङ्केतं (URL) प्राप्नुमः यश्च बहुधा क्लेशं जनयति । अस्याः समस्यायाः निवारणाय तान्त्रिकसाहाय्यं प्रार्थितमस्ति येन हिन्दीभाषापुटेषु शिरोनाम्नः अधः यः लघुः सङ्केतः दृश्यते तादृशः सङ्केतः प्राप्यते । विकिपीडिया, विकिस्रोतः, विकिसूक्तिः, विकिकोशः, विकिपुस्तकानि इत्येतेषु इदं सौलभ्यं प्राप्तव्यमस्ति । तन्निमित्तं भवतां समर्थनम् अत्र सूचयन्तु ।
| Talk सम्भाषणम् सम्भाषणम् Not need
| User Talk योजकसम्भाषणम् योजकसम्भाषणम् Not need
| Wikipedia talk विकिपीडियासम्भाषणम् विकिपीडियासम्भाषणम् Not need
| MediaWiki talk मीडियाविकिसम्भाषणम् मीडियाविकिसम्भाषणम् Not need
| Help talk सहाय्यस्य सम्भाषणम् साहाय्यसम्भाषणम् Please put new
<DOC_END>
<DOC_START>
मम नाम ज्ञानेशः। अहं विकिपीडियायां कार्यं कुर्वन्नस्मि।
<DOC_END>
<DOC_START>
सायन्तनामधेयोऽहं संस्कृतविकिपीडियायां अनुवादकरूपेण कार्यं कुर्वन्नस्मि । "भुमानां भगवत विजिज्ञास इति" ।
<DOC_END>
<DOC_START>
नमः, मम नाम भास्करभट्टः जोशि । सद्यः विकिपीडियाकार्यं कुर्वन्नस्मि।
<DOC_END>
<DOC_START>
१२. कारिका न न यात्राया या गेयाऽस्यस्य भानुभा ।
पादपा हह सिद्धासि यज्ञाय मम साञ्जसा ॥
कारिका, न, न, यात्रायाः, या, गेया, असि, अस्य, भानु-भा,पादपा, ह, ह,
सिद्धा, असि, यज्ञाय, मम, सा, अञ्जसा ॥
या, अस्य – भगवतः, यात्रायाः – (लोकरक्षणार्थस्य) सञ्चारस्य जीवराशेः देहयात्रायाः
आत्मयात्रायाः च न कारिका न – कारयित्री नूनं, गेया – स्तुत्यर्हा, भानुभा- सूर्य इव
प्रकाशवती, पादपा – सर्वलोकरक्षकस्य भगवतश्चापि पादौ रक्षन्ती, सा (त्वम्) – एवम्
अनेकप्रकारेण परमोत्कृष्टा त्वम्, मम यज्ञाय – मम भगवदाराधनरूपयज्ञस्य कृते,
अञ्जसा – त्वरितगत्या, सिद्धा असि – स्वयमुपस्थाय ‘माम् आराधय’ इति वदन्तीव
सिद्धा असि, ह ह – आश्चर्यम् एतत् ।
’दयागुणपूर्णा पादुकादेवी परमोत्कृष्टा अस्ति । तादृश्याः तस्याः आराधने योग्यताविरहितः
अहं च निकृष्टः अस्मि । तथापि सा स्वसौशील्येन, सौलभ्येन, वात्सल्येन च विपलायितमपि
मां विक्षिप्य स्वाराधनाय नियोजयति । अतः मम इतः परम् आशास्यं वा किमस्ति’ इति
सन्तोषमिश्रितम् आश्चर्यं प्रकटयति कविः ।
अस्मिन् श्लोके ‘अनतिरिक्तपदपदार्थानुलोमप्रतिलोमयमकम्’ इति शब्दचित्रम् विद्यते ।
अनुलोमक्रमेण प्रतिलोमक्रमेण वा पठितेषु श्लोकस्थपदेषु पदपदार्थौ समानौ । प्रतिलोमक्रमेण
साञ्जसा मम यज्ञाय सिद्धासि हह पादपा ।
भानुभास्यस्य या गेया यात्राया न न कारिका ॥
<DOC_END>
<DOC_START>
१३. सराघवा श्रुतौ दृष्टा पादुका सनृपासना ।
सलाघवा गतौ श्लिष्टा स्वादुर्मे सदुपासना ॥
स-राघवा, श्रुतौ, दृष्टा, पादुका, स-नृप-आसना, स-लाघवा, गतौ, श्लिष्टा, स्वादुः,
सराघवा – सर्वदा रामेण सहिता, श्रुतौ – वेदेषु, दृष्टा – अन्तरार्थत्वेन दृष्टा,
सनृपासना – राजासनं गता, गतौ – सञ्चारकालेषु, सलाघवा – श्रमं विना त्वरितगत्या
गन्तुं समर्था, श्लिष्टा – सदा द्वितीयया (पादुकया) संश्लिष्टा, सदुपासना – सद्भिः
उपास्यमाना, पादुका, मे – मम, स्वादुः – रुचिकरा अस्ति भवतु ।
पूर्वस्मिन् श्लोके कविना उक्तं ‘परमोत्कृष्टा पादुका मम आराधनाय सुलभसिद्धा’ इति ।
तावता न तृप्तिः तस्य । तस्याः महिमा च ईदृशः अस्ति । सा सर्वासु अवस्थासु परमान्तरङ्गभूता
भगवता सहैव तिष्ठति । वेदप्रतिपाद्या सा; भगवतः प्रतिनिधिर्भूत्वा राजासने स्थितवती;
तस्य च सञ्चारकालेषु परमं साधनम्; द्वे अपि पादुके तथा श्लिष्टे यथा न कोपि तयोः मैत्रीं
भेत्तुम् अर्हति; अपि च पादुका सदा कार्यसमर्था च; सद्भिश्च परमोपायतया उपास्या ।
तस्याः एवं महिमानं ज्ञात्वा ‘मम तद्विषयिणी परमा भक्तिः भवतु’ इति अस्मिन् श्लोके
अस्य शब्दचित्रस्य शरबन्धः इति नाम । श्लोकस्य अक्षराणि शरबन्धे विलिख्य गोमूत्रिकारीत्या
पठनीयानि । उत्तरार्धे ‘सराघवा’ इति स्थाने ‘सलाघवा’ इति पठनीयम् । रलयोः अभेदत्वात् ।
<DOC_END>
<DOC_START>
कामदा जगतः स्थित्यै रङ्गपुङ्गवपादुका ॥
काव्याय अस्थित मा-आवर्ग-व्याज-यात-ग-मार्गका । कामदा जगतः
ग – प्राप्त, मार्गका – अल्पमार्गवती, कामदा – आश्रितानां सकलानि अभीष्टानि
ददती, रङ्गपुङ्गवपादुका – रङ्गनाथस्य पादुका, जगतः – लोकस्य, स्थित्यै –
रक्षणाय, काव्याय – काव्यानां विषयभूता, अस्थित – अभवत् ।
श्रीरङ्गनाथस्य पादुका तद्वद् एव परमौदार्यवती, दयया सहिता च । सा जनानां
सुकृतलेशानुगुणं यत्र कुत्रापि स्वस्य अल्पसञ्चारमेव व्याजं कृत्वा तत्रस्थितानां
लक्ष्मीकटाक्षं, तद्द्वारा द्रव्यसम्पदं ज्ञानसम्पदं च अनुगृह्णाति । ज्ञानं प्राप्य ते यदा
ताम् आश्रयन्ति तदा तेभ्यः मोक्षन्तान् पुरुषार्थान् ददाति । अत्र काचित् शङ्का उद्भाव्यते ।
सा च एवम् अस्ति । पादुकायाः स्वरूपस्वभावान् ज्ञात्वा खलु लोकः ताम् आश्रित्य
उज्जीवेत् इति । शङ्का एवं समाधीयते । भगवतः विभवावतारेषु, अर्चावतारेषु च पादुका
तेन सहैव अवतीर्य स्वसङ्कल्पेन रामायणपादुकासहस्रादिकाव्यद्वारा स्वमहिमानं लोकाय
ज्ञापयति । तानि काव्यानि पठित्वा लोकः आत्मोज्जीवनमार्गं जानीयात् इति श्लोकस्य
अस्मिन् श्लोके गरुडगतिचक्रबन्धः इति शब्दचित्रं विद्यते । प्रकारद्वयेन श्लोकाक्षराणि चित्रे
लेखितुं शक्यानि (द्वे अपि चित्रे पश्यत) । यथा गरुडः आकाशे किञ्चिद् उपरि किञ्चिद् अधः
च डयन् चक्रगत्या सञ्चरति तद्वत् अक्षराणां पठनक्रमः निर्दिष्टसङ्ख्यानुगुणः भवति ।
<DOC_END>
<DOC_START>
१. तमो निरोधि वीक्षन्ते तमसा नावृतं परम्
<DOC_END>
<DOC_START>
२. दुष्यत्यन्तः प्रबुद्धात्मा बहिर्व्यावृत्ताकौतुकः । स० श० ६०
<DOC_END>
<DOC_START>
२. तत्त्वं त्वनेकान्तमशेषरूपम् । यु० अ० ४६
३. तत्त्वं विशुद्धं सकलैर्विकल्पैः । यु० अ० १९
४. मधुरोद्कयोगेन समा तत्त्वश्रुतिस्तथा । यो० दृ० सं० ६२
<DOC_END>
<DOC_START>
१. माता पिता स्वः सुगुरुश्च तत्त्वात्प्रबोध्य
<DOC_END>
<DOC_START>
अयं वर्गः तकारादिविषयाणां जैनदर्शनसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः णकारादिविषयाणां जैनदर्शनसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
१५. सुरकार्यकरी देवी रङ्गधुर्यस्य पादुका ।
कामदा कलितादेशा चरन्ती साधुवर्त्मसु ॥
सुर-कार्य-करी, देवी, रङ्ग-धुर्यस्य, पादुका, काम-दा, कलित-आदेशा,
सुर-कार्य-करी – देवतानाम् इष्टं सम्पादयन्ती अनिष्टं च दूरीकुर्वती रङ्ग-धुर्यस्य रङ्गे
नाट्यं निर्वर्तयतः भगवतः, देवी – क्रीडने आसक्ता, कलित-आदेशा – श्रुतिस्मृतिरूपाम्
आज्ञां धरन्ती, साधु-वर्त्मसु – सत्पथेषु, चरन्ती – सञ्चरन्ती पादुका, काम-दा – (आश्रितानाम्)
पूर्वतनश्लोके यदुक्तं ‘पादुका लोकरक्षणार्थं जाता, लक्ष्मीकटाक्षं च विदधाति, श्रीमद्रामायणादिकाव्येषु
स्तुतवैभवा’ इति, तत् न केवलम् अर्थवादः अपि तु वास्तवेन सा अस्यां लोकरक्षणार्थायां क्रीडायां
(देवशब्दः ‘दिव् क्रीडने’ इति धातोः निष्पन्नः) भगवतः सहाया अस्ति । तेन सह लोकसृष्ट्यादिलीलां
विदधती सा सुराणाम् इष्टार्थं सम्पादयन्ती, अनिष्टानि च निवर्तयन्ती तेषां विरोधिनां तामसप्रकृतीनाम्
असुराणां विपरीतफलानि च ददाति । श्रुतिस्मृतिषु ये विधिनिषेधरूपाः आदेशाः सन्ति तान् स्वयं
परिपालयन्ती सन्मार्गे चरन्ती च इयं पादुका भगवद्भक्तान् उपसृत्य आश्रितेभ्यः तेभ्यः सकलान् पुरुषार्थान्
अस्य शब्दचित्रस्य ‘द्विशृङ्गाटकचक्रबन्धः’ इति नाम । (चित्रं पश्यत ।)
<DOC_END>
<DOC_START>
भरत-आराधिताम्, ताराम्, वन्दे, राघव-पादुकाम्, भव-ताप-
भरत-आराधिताम् – भरतेन पूजिताम्, ताराम् – उत्कृष्टां, भव-ताप-आधि-
तान्तानां – संसारतापत्रयात् जायमानेन मनोरोगेण क्लेशितानां, वन्द्याम् – स्तुत्यां,
राजीव-मेदुराम् – (पूजाकाले समर्पितैः) कमलपुष्पैः पूर्णां, राघव-पादुकाम् –
रामस्य पादुकां, वन्दे – नमामि ।
पूर्वस्मिन् श्लोके उक्ता पादुकायाः लोकरक्षणशक्तिः भगवतः परव्यूहरूपयोः यथा तद्वत्तस्य
विभवदशायामपि भवति । अतः एव बुद्धिमान् भरतः विभवदशायामपि विद्यमानां तस्याः तां
शक्तिं जानन्नेव तामेव भगवतः प्रतिनिधित्वेन प्रार्थ्य सिंहासने निवेश्य च, राज्यभारं निरूढवान् ।
द्विचतुष्कचक्रबन्धः इति अस्य शब्दचित्रस्य नाम । अस्मिन् चक्रबन्धे अष्टौ कोणाः सन्ति ।
श्लोकस्य उभयोरपि अर्धयोः विषमस्थाने स्थितानि अक्षराणि एषु अष्टसु कोणेषु निबद्धानि ।
एतैः सह बन्धस्य द्वयोः चक्रयोः निबद्धानि श्लोके समस्थानेषु स्थितानि अक्षराणि गोमूत्रिकाक्रमेण
पठ्यन्ते । (चित्रं पश्यत ।)
<DOC_END>
<DOC_START>
क-अत्-उपास्य-सत्-आलोका – कं (जलं) ये अदन्ति तैः (महर्षिभिः)
ध्यायमानम् उत्कृष्टम् आलोकं प्रकाशं बिभ्रती, काल-उदाहृत-दामका –
(पूजा)कालेषु (भगवतः सकाशात्) उद्धृत्य समर्पितां पुष्पमालां धरन्ती,
कामदा – भक्तानां सत्कामनाः ददती दो अवखण्डने इति धातोरनुगुणं
दुष्कामनाः खण्डयन्ती इत्यपि अर्थः अध्व-रिरंसाका – मार्गेषु रन्तुम् इच्छुका
(सञ्चारप्रिया इत्यर्थः रङ्गेशपादुका, अकासा – अकारवाच्यस्य भगवतः
इव गतिं (व्यापारं च) वहति ।
महर्षिभिः अपारतेजोविशिष्टतया ध्याता, तेषां हृदयेषु स्थितम् अन्धकारं दूरीकृत्य
आलोकम् उत्पादयति पादुका । पूजाकालेषु भगवते समर्प्य उदाहृताः पुष्पमालाः
गौरवेण तस्यै समर्प्यन्ते । अपि च आश्रितानां सदभीष्टानि ददाति, दुष्कामनाः च
वारयति एषा । लोकरक्षणार्थं सर्वदा भगवन्तं सञ्चारेषु नयने उत्सुका च एषा । तस्याः
च गतिः व्यापारश्च रङ्गनाथस्य गतिरिव व्यापारः इव च अस्ति इत्येतत् आश्चर्यावहमिति
अस्मिन् श्लोके अष्टदलपद्मबन्धः अथवा चतुररचक्रबन्धः इति शब्दचित्रं द्रष्टुं शक्यते।
चित्रे दर्शितं प्रथमपादस्य पठनक्रममनुसृत्य अन्यानपि पादान् पठत । (चित्रे पश्यत ।)
<DOC_END>
<DOC_START>
अयं वर्गः आचारसारविषयकः विद्यते ।
<DOC_END>
<DOC_START>
४. तपः शक्तिरहो परा । दयोदयचम्पूः ३४
१४. विशुद्धयति दुराचारः सर्वोऽपि तपसा ध्रुवम् । निजानन्दफीयूषः १६७
१६. शुभशुद्धपरिणामात्मकं तेन विना न निर्जरायै बाह्यमूलम् । भगवती आराधना १३४८
<DOC_END>
<DOC_START>
अयं वर्गः राजवार्तिकविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः निजानन्दपीयूषविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः भगवती आराधनाविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः हरिवंशुपुराणम्विषयकः विद्यते ।
<DOC_END>
<DOC_START>
१. जिनस्मरणपानीयं पीतं तृष्णां मूलतोऽस्यति । दयोदयचम्पूः ५४
<DOC_END>
<DOC_START>
अयं वर्गःपदिम्न्न्दपंचविंसतिः विषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः तत्वार्थसूत्रविषयकः विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः दकारादिविषयाणां जैनदर्शनसूक्तीनां विषये विद्यते ।
<DOC_END>
<DOC_START>
६. न्यायो दयार्द्रवृत्तित्वमन्यायः प्राणिमारणम् । आदिपुराणम् ३९. १४१
<DOC_END>
<DOC_START>
अयं वर्गः पांडवपुराणम् विषयकः विद्यते ।
<DOC_END>
<DOC_START>
१. अत्यक्तं मरणं प्राणैः प्राणिनां हि दरिद्रता । क्षत्रचूडामणिः ३
<DOC_END>
<DOC_START>
६. न्यायो दयार्द्रवृत्तित्वमन्यायः प्राणिमारणम् । - आदिपुराणम् ३९. १४१
<DOC_END>
<DOC_START>
१. धिग्भृत्यतां जगन्निन्द्याम् । पद्मपुराणम् ९७/१४०
<DOC_END>
<DOC_START>
अयं वर्गः पांडवपुराणम् विषयकः विद्यते ।
<DOC_END>
<DOC_START>
४. दीपनाशे तमोराशिः, किमाह्वानमपेक्षते । क्षत्रचूडामणिः पृ० ३०
<DOC_END>
<DOC_START>
लभेत सिकतासु तैलं अपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।
न तु प्रतिनिविष्टमूर्खचित्तं आराधयेथ् ॥
<DOC_END>
<DOC_START>
कृपारूपा जपालापा स्वापा माऽपान्नृपाधिपा ॥
स्वापा, मा, अपात्, नृप-अधिपा ।
पापाकूपारपालीपा – अघसमुद्राणां पङ्क्तिं पिबन्ती, कृपा-रूपा – दयास्वरूपा,
जप-आलापा – मन्त्रजपवत् शुद्धिं सम्पादयत् नाम यस्याः, स्वापा – सुलभतया
आप्तुं शक्या, नृप-अधिपा – राजराजेश्वरी, त्रि-पादी-पाद-पादपा – त्रिपाद्विभूतेः
अधिपस्य पादं रक्षन्ती (पादुका मा – माम्, अपात् – अरक्षत् ।
पादुका आश्रितानां समुद्रवत् पाररहितानि पापानि क्षणेन निपातुं समर्था ।
दयामूर्तिः सा । तस्याः नामसङ्कीर्तनम् अष्टाक्षरादिमन्त्रजपवत् सर्वपापानि
विनाश्य शुद्धिं जनयति । अपि च आश्रितैः सुलभतया आराधयितुं शक्या ।
भूमण्डलाद् आरभ्य अण्डाधिपतिं ब्रह्माणं यावत् ये राजानः तेषां सर्वेषाम्
अधिपा एषा परमपदनाथस्य पादुका तद्वत् कल्याणगुणैः उपेता, परमपापिनम्
अकिञ्चनं च मां केवलं मया कृतं ‘श्रीरङ्गनाथपादुका’ ‘श्रीरङ्गनाथपादुका’
इति तस्याः नामसङ्कीर्तनं व्याजीकृत्य, स्वदयाशक्तिसौलभ्यादिगुणान् प्रदर्श्य,
स्वविषये मम प्रीतिं जनयित्वा, अपारं मम पापसमुद्रं निपीय च, मोक्षोपाये
मां प्रवर्त्य, स्वमेव मम आराध्यवस्तु परिकल्प्य मां रक्षितवती । एवं कविः
पादुकायाः कृपां स्तुवन् स्वस्य धन्यतां परमं लाभं च प्रकटयति ।
अस्य बन्धस्य ‘ षोडशदलपद्मम् ’ इति नाम । श्लोकस्य द्वयोः अर्धयोः सर्वत्र
समस्थानेषु स्थितं ‘पा’ इति अक्षरं समानम् । तत् पद्मस्य कर्णिकायां, विषमाक्षराणि
षोडशसु दलेषु च लिखित्वा गोमूत्रिकाक्रमेण पठनीयः श्लोकः । चित्रं पश्यत ।
<DOC_END>
<DOC_START>
१९ स्थिरागसां सदाराध्या विहताकततामता ।
सत्पादुके सरासा मा रङ्गराजपदं नय ॥
स्थिर-आगसां, सदा, आराध्या, विहत-अक-तत-अमता, सत्-पादुके,
स-रासा, मा, रङ्गराज-पदं, नय ।
सत्पादुके – हे सत्शब्दवाच्यस्य परब्रह्मणः पादुके स्थिरागसाम् – अनाश्यपापानां
संसारिणां, सदा आराध्या – सदा पूजनीया, विहताकततामता – नाशितासुखानिष्टविस्तारा,
सरासा – मधुरध्वनिना च उपेता (त्वम् मा – मां, रङ्गराजपदं – रङ्गराजस्य पादं स्थानं,
हे सत्शब्दवाच्यस्य परब्रह्मणः पादुके! अपरिहरणीयापराधभाजां संसारिणां
संसारबन्धमोचनाय इह लोके, परत्र मुक्तदशायां पुरुषार्थभूता च त्वमेव आराध्या
असि । त्वां तथा प्रपन्नानाम् असुखानां विस्तारम् (असुखकारणं सञ्चितं कर्म
भावीनि अनिष्टानि (प्रारब्धशेषम् अनुभोक्तुं तैः प्राप्तव्यानि भाविजन्मानि) च
त्वं नाशयसि । अर्थात् एतस्य देहस्य अवसाने प्रकृतिसम्बन्धं निश्शेषतया
निरस्य मोक्षं ददासि । तव आश्रितानां त्वं मधुरध्वनिभिः तेषां दुःखानि निवारयन्ती
इव अभयप्रदानं करोषि । तादृशी त्वं भगवत्प्राप्तये त्वरमाणं मां क्षिप्रं तस्य
परमपदनाथस्य पदं पादं प्रापय ।
अयं श्लोकः अग्रिमश्च उभौ चतुरङ्गतुरङ्गबन्धे निबद्धौ । श्लोकयोः स्थितानि
३२ अक्षराणि समानानि । अस्य श्लोकस्य चतुरः पादान् क्रमशः चतुरङ्गप्रकोष्ठेषु
लिखित्वा, यथा चतुरङ्गक्रीडायां तुरङ्गस्य गतिः भवति तथा क्रमसङ्ख्यानुसारेण
अक्षराणि पठ्यन्ते चेत् द्वितीयः श्लोकः लभ्यते । अस्यां क्रीडायां तुरगः वक्रगत्या
चलति इति जानीमः एव ।
<DOC_END>
<DOC_START>
१. दुराग्रहग्रहस्ते विद्वान् पुंसि करोति किम् ।
<DOC_END>
<DOC_START>
१. अज्ञानकुलधर्मो हि दुर्वृत्तैर्दूषयेत्कुलम् । दयोदयचम्पूः ७३ पृ० ८९
<DOC_END>
<DOC_START>
१. देवै तु कुटिले तस्य स यत्नं किं करिष्यति । दयोदयचम्पूः ५७,पृ० १२
<DOC_END>
<DOC_START>
१. धृतो योगो, न ममता हता, न समताऽदृता ।
<DOC_END>
<DOC_START>
१. दृष्टान्तः परकीयोऽपि शान्तेर्भवति कारणम् । पद्मपुराणाम् ४१/१०१
<DOC_END>
<DOC_START>
५. विदिताशॆषशास्त्रोऽपि न जाग्रदपि मुच्यते ।
देहात्मदृष्टिर्ज्ञानात्मा सुप्तोन्मत्तोऽपि मुच्यते ॥ समाधिशतकम् ९४
<DOC_END>
<DOC_START>
१. दैवतस्य भयादेव प्रहवा जिह्वा प्रवर्तति । जीवन्धरचम्पूः १०६८
<DOC_END>
<DOC_START>
२. प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् । पार्श्वनाथचरितम् ११/१२
<DOC_END>
<DOC_START>
"सागारधर्मामृतम् इत्येतस्मिन् वर्गे विद्यमानानि पृष्ठानि
<DOC_END>
<DOC_START>
अयं वर्गः लाटिसंहिता विद्यते ।
<DOC_END>
<DOC_START>
६. न श्रृण्वन्ति न बुध्यन्ति,न प्रयान्ति च सत्पथम ।
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनसूक्तयः (धकारादयः विषयाः) विद्यते ।
<DOC_END>
<DOC_START>
२० स्थिता समयराजत्पागतरा मादके गवि ।
स्थिता, समय-राजत्-पा, आगत-रा, मादके, गवि, दुरंहसां, सन्नता-दा,
समयराजत्पा – समये प्रतिज्ञायां स्थित्वा सत्सम्प्रदायानुष्ठानेन एव राजतः जनान् रक्षन्ती,
आगतरा – प्राप्तैश्वर्या, मादके – सन्तोषकरे, गवि – स्वरत्नकिरणमध्ये सूर्यमण्डलस्य मध्ये,
स्थिता – संस्थिता, दुरंहसां – क्रूरपापवतां, सन्नतादा – तत्तत्पापफलानुरूपं नीचां दशाम् निवारयन्ती,
साध्यातापकरा – तापरहितदशाम् आपादयतः किरणान् बिभ्रती, आसरा – सर्वत्र सञ्चरणशीला
(‘त्वं मा रङ्गराजपदं नय’ इति पूर्वश्लोके स्थितैः पदैः वाक्यपूर्तिः ।)
पादुका प्राचीनं सत्सम्प्रदायं स्वबुद्ध्या अन्यथा अकृत्वा, तमेव अनुतिष्ठतः साधुजनान्
अभिमानेन रक्षति । समस्तलोकैश्वर्यं स्वाधीनतया आश्रितानाश्रितविषये उपयुङ्क्ते ।
आनन्दकराणां स्वकिरणानां मध्ये स्थिता ज्योतिर्मयी चैषा सकलस्य जगतः ध्यानविषया ।
क्रूरपापानि कृत्वा अत्यन्तं नीचां दशाम् आपन्नानां स्वाश्रयणमात्रेण दुर्दशां निवारयति । ये
तां प्रपद्यन्ते तेषां स्वकिरणस्पर्शमात्रेण तापं निवारयति । सर्वलोकसञ्चरणसमर्था आश्रिताः
यत्र भवन्ति तत्र स्वयं गत्वा तान् रक्षति च । तादृशी त्वं माम् अत्युन्नतस्थानं रङ्गराजस्य पदं प्रापय ।
अयं श्लोकः पूर्वतनश्च उभौ चतुरङ्गतुरङ्गबन्धे निबद्धौ । श्लोकयोः स्थितानि ३२
अक्षराणि समानानि । पूर्वतनश्लोकस्य (नवदशस्य) चतुरः पादान् क्रमशः चतुरङ्गप्रकोष्ठेषु
लिखित्वा, यथा चतुरङ्गक्रीडायां तुरङ्गस्य गतिः भवति तथा क्रमसङ्ख्यानुसारेण अक्षराणि
पठ्यन्ते चेत् द्वितीयः श्लोकः लभ्यते । अस्यां क्रीडायां तुरगः वक्रगत्या चलति इति जानीमः एव ।
<DOC_END>
<DOC_START>
तारा गते पादराऽऽम राजते रामपादुका ॥
लोक-तारा, काम-चारा, कवि-राज-दुरावचा, तारा, गते, पाद-रा,
लोक-तारा – आश्रितानां जनानां तारिणी, कामचारा – स्वेच्छया सर्वत्र सञ्चरन्ती,
कवि-राज-दुरावचा – वाल्मीकिव्यासादिकविसार्वभौमैरपि पूर्णतया अस्तुता, गते –
(भगवतः) सञ्चारे, तारा – उत्कृष्टा उच्चध्वनियुता, पादरा – स्वकिरणान् ददती च,
रामपादुका – श्रीरामस्य पादुका, आम – एवं खलु, राजते – विराजते !
पूर्वतनेषु त्रिषु श्लोकेषु भक्तिप्रावण्येन पादुकां स्तुत्वा, मध्ये मध्ये स्वलाभमपि प्रस्तूय,
इष्टार्थान् प्रार्थ्य च, तस्याः गुणान् स्मारं स्मारं तां पुनः स्तौति कविः । आश्रितानां
सुलभो भूत्वा अस्मिन् लोके मर्त्यानां मध्ये मनुष्यो भूत्वा अवतीर्णो रामः । तस्यानुरूपं
सौलभ्यादिगुणवती हे पादुके! तव महिमानं कथं स्तौमि? पुनः पुनः भगवतः महिमा इव
तवापि इत्येव खलु वक्तुं शक्यते? लोके कविश्रेष्ठाः इति ख्यातिमन्तः व्यासवाल्मीक्यादयः
अपि पूर्णतया तव गुणान् स्तोतुम् असमर्थाः एव । तथा स्थिते किमर्थं त्वया अयं प्रयासः
क्रियते इति चेत्, तवैवानुग्रहेण जातेन तव गुणानाम् अनुसन्धानेन इयं स्तुतिः प्रवृत्ता ।
तव दयागुणः आश्रितान् अन्विष्य गत्वा तान् रक्षितुं त्वाम् प्रचोदयति । भगवानिव सङ्कल्पमात्रेण
सर्वत्र सञ्चरितुं समर्था त्वमपि । तव सञ्चारस्तु अत्युत्कृष्टः, अपरिमितान् इष्टार्थान् विदधाति च ।
यदा त्वम् आगच्छसि तदा तव ध्वनिः भक्तानां प्रार्थनाः वितरति, भयं च निवारयति । तथा च
तव किरणाः आश्रितानाम् अज्ञानान्धकारं वारयित्वा भगवन्तं यथावद् ज्ञातुम् उपकरणं भवति ।
तव गम्भीरध्वनिः भगवतः आगमनं निवेदयन् आश्रितान् तदर्थं सज्जान् करोतीव ।
अस्मिन् श्लोके अर्धभ्रमकबन्धः इति शब्दचित्रम् अस्ति । चित्रे वामतो दक्षिणम् अष्टौ कोष्ठाः,
तथैव उपरिष्टाद् अधः अष्टौ कोष्ठाः सन्ति । आहत्य यन्त्रे ८ x ८ इति ६४ कोष्ठेषु श्लोकः द्विवारं
लिखितः भवति । वामतो दक्षिणं क्रमशः चतसृषु पङ्क्तिषु श्लोकस्य चत्वारः पादाः लभ्यन्ते ।
पुनश्च व्युत्क्रमेण चतसृषु अधस्तनपङ्क्तिषु अन्तिमपङ्क्तेः आरभ्य दक्षिणतो वामं पठामः चेत्
श्लोकः लभ्यते । एवमेव उपरिष्ठाद् अधः क्रमेण चतसृषु पङ्क्तिषु, तथैव अधस्थाद् उपरि व्युत्क्रमेण
च श्लोकः पठितुं शक्यः ।
<DOC_END>
<DOC_START>
नानाना नो नूनं नानेनानूननाऽनुन्नः ॥ मध्वविजयः
तात्पर्यम् दोषरहितः प्राणपतिः अयं प्रायशः सर्वेषां चेतनानां प्रेरकः खलु अस्य प्रभावात् मुक्तः सर्वेषां स्वामी परमेश्वरमात्रम् !
<DOC_END>
<DOC_START>
कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम् ।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥
<DOC_END>
<DOC_START>
अत्र विद्यमानानां सुभाषितानां विषयविभागः करणीयः ।
<DOC_END>
<DOC_START>
अत्र विद्यमानानां सुभाषितानाम् अर्थः लेखनीयः ।
<DOC_END>
<DOC_START>
उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम् ।
मौनेन कलहो नास्ति नास्ति जागरिते भयम् ॥
<DOC_END>
<DOC_START>
अत्र शकाराद्यः प्रहेलिकाः विद्यन्ते ।
<DOC_END>
<DOC_START>
धनहीनो न हीनश्च धनिकः स सुनिश्चयः ।
विद्यारत्नेन हीनो यः स हीनः सर्ववस्तुषु ॥
<DOC_END>
<DOC_START>
माता च कमलादेवी पिता देवो जनार्दनः ।
बान्धवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम् ॥
<DOC_END>
<DOC_START>
साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ।
कालेन फलते तीर्थं सद्यः साधुसमागमः ॥
<DOC_END>
<DOC_START>
मम चत्वारः पादाः सन्ति, किन्तु नाहं धेनुः। सदा गृहे एव निवासामि, किन्तु नाहं गृहिणी । भूपतिः पण्डितः, गण्याः इत्यादीनां सर्वेषां प्रिया अस्मि, तर्हि 'अहं का' इति उच्यताम् ।
<DOC_END>
<DOC_START>
दाने तपसि शौर्ये वा विज्ञाने विनये नये ।
विस्मयो नहि कर्तव्यो बहुरत्ना वसुन्धरा ॥
<DOC_END>
<DOC_START>
‘लालयेत् पञ्च वर्षाणि, ताडयेत् दश वर्षाणि ।
प्राप्ते सम्प्राप्ते षोडशे वर्षे पुत्रं मित्र समाचरेत।’
<DOC_END>
<DOC_START>
वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥
<DOC_END>
<DOC_START>
परं यदा वसन्तकालः आगच्छति तदा भेदः ज्ञायते । काकस्तु केवलं कूजति एव, पिकश्च मधुरम् गायति । अनेनोभयोः भेदो बोध्यते।
<DOC_END>
<DOC_START>
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥
<DOC_END>
<DOC_START>
यद्दानं दीयते तस्मै तद्दानं स्वर्गसाधनम् ॥
<DOC_END>
<DOC_START>
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥
<DOC_END>
<DOC_START>
२२. जयामपापामयाजया महे दुदुहे मया ।
जय-आम- पा, अप-आमया, अज-या, महे, दुदुहे मया,
जयामपा – इन्द्रियजयादिसिद्धिम् अप्राप्तवताम् अपक्वमतीनां मुमुक्षूणां पात्री,
अपामया – आश्रितानाम् आधिव्याधीन् दूरीकुर्वती,
अममकादुपा – ममकाररहितानां गोष्ठ्यां स्थितं रुद्रं पात्री
ममकाररहितस्य कशब्दवाच्यस्य ब्रह्मणः शिरः कर्तयित्वा उपद्रुतवतः
अतश्च ब्रह्महत्यां प्राप्तवतः रुद्रस्य पात्री,
महेशकाकाशहेमपादुका – महैश्वर्यवताम् इन्द्रादीनां असुखं अश्नतः भगवतः हिरण्मयी पादुका,
महे – उत्सवेषु, अजया अजं भगवन्तं प्राप्तवती,
मया दुदुहे (तस्याः सकाशात् मम इष्टार्थाः प्रार्थ्य प्राप्यन्ते इत्यर्थः) ।
ब्रह्मेन्द्ररुद्रादयः भगवन्तम् आश्रिताः । तेषामपि ऐश्वर्यकारणेन यद् असुखं भवति
तत् निवार्य पुनरपि सुखं प्रापयति रङ्गनाथेन सह तस्य हेमपादुका ।
अपि च ये मुमुक्षवः इन्द्रियजयम् अप्राप्य भगवदनुभवं न प्राप्तवन्तः
तेषां प्रतिबन्धकपापानि परिहृत्य सिद्धिपर्यन्तं तान् उपकृत्य रक्षति एषा ।
एवम्भूता एषा आत्मक्षेमदात्री, संसारे तापत्रयनिवारिणी, महासङ्कटहारिणी च ।
तदा तेन सह पादुका तानपि स्वयमन्विष्य अनुगृह्णाति ।
अस्य शब्दचित्रस्य ‘सर्वतोभद्रम्’ इति नाम ।
अस्मिन् श्लोके एकैकोऽपि पादः अनुलोमक्रमेण प्रतिलोमक्रमेण वा पठ्यते चेत् एकरूपः एव ।
पूर्वतनश्लोकस्य इव अस्यापि अक्षराणि प्रतिपङ्क्ति अष्टकोष्ठयुते चतुरश्रबन्धे क्रमेण व्युत्क्रमेण च लिख्यन्ते ।
अक्षराणि वामतो दक्षिणम्, अधस्ताद् ऊर्ध्वं, तद्विपरीतं वा,
प्रदक्षिणगत्या वा अप्रदक्षिणगत्या पठ्यन्ते चेदपि श्लोकः लभ्यते ।
एवं च चित्रे श्लोकस्य एकैकोऽपि पादः अष्टभिः क्रमैः पठितुं शक्यः । (चित्रं पश्यत) ।
<DOC_END>
<DOC_START>
परोपकारः पुण्याय पापाय परपीडनम् ॥
<DOC_END>
<DOC_START>
एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
वास्यते तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥
<DOC_END>
<DOC_START>
हंसः श्वेतो बकः श्वेतः को भेदो बकहंसयोः ।
नीरक्षीरविवेके तु हंसो हंसो बको बकः ॥
<DOC_END>
<DOC_START>
पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥
<DOC_END>
<DOC_START>
क्षणशः कणशः चैव विद्यामर्थं च साधयेत् ।
क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम् ॥
<DOC_END>
<DOC_START>
सुखार्थी चेत् त्यजेत् विद्यां विद्यार्थी चेत् त्यजेत् सुखम् ।
सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ॥
<DOC_END>
<DOC_START>
अस्मिन् वर्गे जकाराद्याः प्रहेलिकाः उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
१५ धर्ममहिंसारूपम् । पुरुषार्थसिद्धयुपायः ७५०
२६ धर्मो जगति सर्वेभ्यः पदार्थेभ्यः इहोत्तमः । हरिवंशुपुराणम् १८३८
<DOC_END>
<DOC_START>
"पुरुषार्थसिद्धयुपायः" इत्येतस्मिन् वर्गे विद्यमानानि पृष्ठानि
<DOC_END>
<DOC_START>
अयं वर्गः पदिम्न्न्दपंचविंशतिः विद्यते ।
<DOC_END>
<DOC_START>
"रत्नकरण्डाश्रावकाचारः" इत्येतस्मिन् वर्गे विद्यमानानि पृष्ठानि
<DOC_END>
<DOC_START>
पत्नी सर्वदा क्रोधयुक्ता भवति, मूर्खसमानः पुत्रः वर्तते । पुत्री विधवा भवति ।
तस्य देहः अग्निं विना दहति ।
<DOC_END>
<DOC_START>
पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥
<DOC_END>
<DOC_START>
२ धर्मवन्तो हि जीवस्य भृत्यः कल्पद्रुमो भवेत्, चिन्तामणिः
कर्मकरः कामधेनुश्च किङ्करी । सुभाषितरत्नावली १०
<DOC_END>
<DOC_START>
१ गोस्तनीषु न सिताषु सुधायां नाऽपि नाऽपि वनितारबिम्बे ।
<DOC_END>
<DOC_START>
कोऽतिभारः समर्थानां किं दूरे व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥
<DOC_END>
<DOC_START>
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ॥
<DOC_END>
<DOC_START>
उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः l
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ll
<DOC_END>
<DOC_START>
परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः ।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ॥
<DOC_END>
<DOC_START>
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्॥
<DOC_END>
<DOC_START>
श्रध्दावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति ॥
<DOC_END>
<DOC_START>
श्रेयो हि धीरो अभिप्रेयसो वृणीते
प्रेयो मन्दो योगक्षेमाद् वृणीते ॥
<DOC_END>
<DOC_START>
महाजनस्य संसर्गः कस्य नोन्नतिकारकः ।
पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ॥
<DOC_END>
<DOC_START>
वरमेको गुणी पुत्रो न च मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ॥
<DOC_END>
<DOC_START>
यस्य मित्रेण संभाषा यस्य मित्रेण संस्थितिः ।
यस्य मित्रेण संलापः ततो नास्तीह पुण्यवान् ॥
<DOC_END>
<DOC_START>
द्वावेव न विराजेते विपरीतेन कर्मणा ।
गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः ॥
<DOC_END>
<DOC_START>
गुरुपत्नी राजपत्नी मित्रपत्नी तथैव च ।
पत्नीमाता स्वमाता च पञ्चैताः मातरः स्मृताः ॥
<DOC_END>
<DOC_START>
जनिता च उपनेता च यश्च विद्यां प्रयच्छति ।
अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥
<DOC_END>
<DOC_START>
यत्र राजा स्वयं चोरः सामात्यः सपुरोहितः ।
तत्राहं किं करिष्यामि यथा राजा तथा प्रजा ॥
<DOC_END>
<DOC_START>
नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी ।
गुणी च गुणरागी च विरलः सरलो जनः ॥
<DOC_END>
<DOC_START>
काकदृष्टिः बकध्यानं श्वाननिद्रा तथैव च ।
सामान्यभोजनं चैव एतत् विद्यार्थिलक्षणम् ॥
<DOC_END>
<DOC_START>
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥
<DOC_END>
<DOC_START>
चतुर्विधाः भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुः अर्थार्थी ज्ञानी भरतर्षभ ॥
<DOC_END>
<DOC_START>
तेषां ज्ञानी नित्ययुक्तः एकभक्तिः विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥
<DOC_END>
<DOC_START>
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्।।
<DOC_END>
<DOC_START>
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥
<DOC_END>
<DOC_START>
बालो वा यदि वा वृध्दः युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥
<DOC_END>
<DOC_START>
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ।
मनस्यन्यत् वचस्यन्यत् कर्मण्यन्यत् दुरात्मनाम् ॥
<DOC_END>
<DOC_START>
प्रसन्नचेतसो ह्याशु बुध्दिः पर्यवतिष्ठति ॥
<DOC_END>
<DOC_START>
सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः ।
सुखं च न विना धर्मात् तस्मात् धर्मपरो भव ॥
<DOC_END>
<DOC_START>
प्रदोषे दीपकः चन्द्रः प्रभाते दीपको रविः ।
त्रैलोक्यदीपकः धर्मः सुपुत्रः कुलदीपकः ॥
<DOC_END>
<DOC_START>
आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला ।
यया बद्धा: प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥
<DOC_END>
<DOC_START>
आत्मवत् सततं पश्येत् अपि कीटपिपीलिकान् ॥
<DOC_END>
<DOC_START>
विमुखान् नार्थिनः कुर्यात् नावमन्येत नाक्षिपेत् ।
<DOC_END>
<DOC_START>
यतोहस्तः ततो दृष्टिः यतो दृष्टिस्ततो मनः ।
यतो मनस्ततो भावः यतो भावस्ततो रसः ॥
<DOC_END>
<DOC_START>
दातव्यं भोक्तव्यं सति विभवे संचयो न कार्यः ।
पश्य मधुकराणां सञ्चितमर्थं हरन्त्यन्ये ।
<DOC_END>
<DOC_START>
गुणदोषौ बुधो गुह्णन् इन्दुक्ष्वेडाविवेश्वरौ ।
शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति ॥
<DOC_END>
<DOC_START>
कुर्वीत सङ्गतं सद्भिः न असद्भिः गुणवर्जितैः ।
प्राप राघवसङ्गत्या प्राज्यं राज्यं विभीषणः ॥
<DOC_END>
<DOC_START>
मांसं कपोतरक्षायै स्वं श्येनाय ददो शिबिः ॥
<DOC_END>
<DOC_START>
गुणस्तवेन कुर्वीत महतां मानवर्धनम् ।
<DOC_END>
<DOC_START>
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥
<DOC_END>
<DOC_START>
काम्यानां कर्मणां न्यासं सन्यासं कवयो विदुः ।
<DOC_END>
<DOC_START>
मम नाम प्रेमलता । अहं संस्कृतभारत्याः कार्यकर्त्री अस्मि ।
<DOC_END>
<DOC_START>
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ।
<DOC_END>
<DOC_START>
तावत् भयात् हि भेतव्यं यावत् भयमनागतम् ।
आगतं तु भयं वीक्ष्य नरः कुर्यात् यथोचितम् ॥
<DOC_END>
<DOC_START>
सुलभाः पुरुषा राजन् सततं प्रियवादिनः ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभाः ।।
<DOC_END>
<DOC_START>
कः कालः कानि मित्राणि कः देशः कौ व्ययागमौ ।
कक्ष्चाहं का च मे शक्तिः इति चिन्त्यं मुहुर्मुहुः ॥
<DOC_END>
<DOC_START>
सत्येन पन्था विततो देवयानः ।
यत्र तत् तस्य परमं निधानम् ॥
<DOC_END>
<DOC_START>
प्रायः समापन्नविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ॥
<DOC_END>
<DOC_START>
बुभुक्षिताः नैव तृणं चरन्ति ।
<DOC_END>
<DOC_START>
अर्धो घटो घोषमुपैति नित्यम् ।
विद्वान् कुलीनो न करोति गर्वं
अल्पो जनो जल्पति साट्टहासम् ॥
<DOC_END>
<DOC_START>
लघ्वी पुरा वृध्दिमती च पश्चात् ।
<DOC_END>
<DOC_START>
गुह्यं निगूहति गुणान् प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
<DOC_END>
<DOC_START>
रत्नैः महाब्धेः तुतुषुः न देवाः
न भेजिरे भीमविषेण भीतिम् ।
<DOC_END>
<DOC_START>
कः नरकः परवशता किं सौख्यं सर्वसङ्गविरक्तिर्या ।
किं साध्यं भूतहितं च किं प्रणिनामसवः ॥
<DOC_END>
<DOC_START>
कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य ।
व्क स्थातव्यं न्याय्ये प्रथि दृष्टादृष्ट लाभाढ्ये ॥
<DOC_END>
<DOC_START>
पातुं कर्णाञ्जलिभिः किममृतमिह युञ्यते ।
सदुपदेशः किं गुरुतायाः मूलं यदेतदप्रार्थनं नाम ॥
<DOC_END>
<DOC_START>
कः अनर्थफलः मानः का सुखदा साधुजनमैत्री ।
सर्वव्यसनविनाशे कः दक्षः सर्वथा त्यागी ॥
<DOC_END>
<DOC_START>
कः मूकः यः काले प्रियाणि वक्तुं न जानाति ॥
<DOC_END>
<DOC_START>
न हि ज्ञानेन सदृशं पवित्रं इह विद्यते ।
तत्स्वयं योगसंसिध्दः कालेनात्मनि विन्दति ॥
<DOC_END>
<DOC_START>
अभयं सत्वसंशुध्दि ज्ञानयोग व्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥
<DOC_END>
<DOC_START>
अहिंसा सत्यमक्रोधः त्यागः शान्तिः अपैशुनम् ।
दयाभूतेष्वलोलुप्त्वं मार्दवं ह्रीः अचापलम् ॥
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनसूक्तयः (नकारादयः विषयाः) विद्यते ।
<DOC_END>
<DOC_START>
१ तदवयवा नयाः । आलापद्धतिः ३९
३ प्रमाणेन वस्तु संग्रहीतार्थैकांशो नयः । आलापद्धतिः १८१
<DOC_END>
<DOC_START>
१ खण्डयति धार्यमाणं मूर्धानं झटिति दुर्विदग्धानाम् । पुरुषार्थसिद्धयुपायः ५९
<DOC_END>
<DOC_START>
१ नवनीतं च त्याज्यं योनिस्थानं प्रभूतजीवानाम् । पुरुषार्थसिद्धयुपायः १६३
<DOC_END>
<DOC_START>
१ प्रमाणनय योर्निक्षेपणं आरोपणं निक्षेपः । आलापद्धतिः १८३
<DOC_END>
<DOC_START>
१ भ्रमति हि स्वपतां भुवनं मनः । दयोदयचम्पूः २
<DOC_END>
<DOC_START>
भवन्ति सम्पदं दैवीं अभिजातोऽसि भारत ॥
<DOC_END>
<DOC_START>
ध्यायतो विषयान् पुंसो सङ्गस्तेषूपजायते ।
सङ्गात् सञ्जायते कामः कामात् क्रोधोऽधोभिजायते ॥
<DOC_END>
<DOC_START>
क्रोधात्भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः ।
स्मितिभ्रंशात् बुध्दिनाशः बुध्दिनाशात् प्रणश्यति ॥
<DOC_END>
<DOC_START>
शान्तिं कान्तिं स्मृतिं ज्ञानम् आरोग्यं चापि सन्ततिम् ।
य इच्छति महध्दर्मं ब्रह्मचर्यं चरेदिह ॥
<DOC_END>
<DOC_START>
४ यो न वेत्ति पर देहादेवमात्मानमभव्ययम् लभते स न निर्वाणं तप्त्वापि परमं तपः । समाधिशतकम् ३३
<DOC_END>
<DOC_START>
२ नहि सत्सरिणः मत्योन्यायमार्गसारिणः । दयोदयचम्पूः ८०
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनग्रन्थविषयकः भवति ।
<DOC_END>
<DOC_START>
श्रोत्रस्य भूषणं शास्त्रं, भूषणैः किं प्रयोजनम् ॥
<DOC_END>
<DOC_START>
जाड्यं धियो हरति सिञ्चति वाचि सत्यं
चेतः प्रसादयति दिक्षु तनोति कीर्ति
सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥
<DOC_END>
<DOC_START>
धनेन किं यो न ददाति नाश्नुते
बलेन किं यश्च रिपून् न बाधते ।
श्रुतेन किं यो न च धर्ममाचरेत्
किमात्मना यो न जितेन्द्रियो भवेत् ॥
<DOC_END>
<DOC_START>
तस्मात् हि काव्यं मधुरं तस्मादपि सुभाषितम् ॥
अत:काव्यं मधुरं तदपेक्क्षया सुभाषितम् इति ॥
<DOC_END>
<DOC_START>
१ परात्मज्ञानसम्पन्नः स्वयमेव परो भवेत् । समाधिशतकम् ८६
३ यः परमात्मा स एवाहं योऽहं स परमः ततः अहमेव मयोपास्य नान्यः कश्चिदितिस्थितिः । समाधिशतकम् ३१
<DOC_END>
<DOC_START>
३ वीर्यमक्षतकायानां शूराणां न हि वर्धते । पद्मपुराणम् २३३
<DOC_END>
<DOC_START>
१ न सह्यन्ते ननु स्त्रीणां तिर्यञ्चोऽपि पराभवः । दयोदयचम्पूः ७८
<DOC_END>
<DOC_START>
अयं वर्गः आदिपुराणविषयकः विद्यते ।
<DOC_END>
<DOC_START>
५ या मूर्छा नामेयं विज्ञातव्यः परिग्रहो ह्येषः । पु० सि० २५४
<DOC_END>
<DOC_START>
१ अविशदप्रतिभासं परोक्षम् । न्यायदीपिका ५१
<DOC_END>
<DOC_START>
शीलं शौर्यमनालस्यं पाण्डित्यं मित्रसङ्ग्रहः ।
<DOC_END>
<DOC_START>
रविश्चन्द्रो घनावृक्षाः नदी गावश्च सज्जनाः ।
एते परोपकाराय भुवि देवेन निर्मिताः ॥
<DOC_END>
<DOC_START>
माधुर्यमक्षर व्यक्तिः पदच्छेदस्तु सुस्वरः ।
धैर्यं लयसमर्थं च षडेते पाठकागुणाः ॥
<DOC_END>
<DOC_START>
सर्वतीर्थमयी माता सर्वदेवमयः पिता ।
मातरं पितरं तस्मात् सर्वयत्नेन पूजयेत् ।।
<DOC_END>
<DOC_START>
वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् ।
वृथा दानं समर्थस्य वृथा दीपो दिवापि च ॥
<DOC_END>
<DOC_START>
वेशेन वपुषा वाचा विद्यया विनयेन च ।
वकारैः पञ्चभिर्युक्तो नरो भवति पूजतिः ॥
<DOC_END>
<DOC_START>
सन्दिग्धे परलोकेऽपि कर्तव्यो धर्मसञ्चयः ।
नास्ति चेन्नास्ति नो हानिः अस्ति चेन्नास्तिको हतः ॥
<DOC_END>
<DOC_START>
निर्गच्छति यदा लक्ष्मीः गजभुक्तकपित्थवत् ॥
<DOC_END>
<DOC_START>
एकेनापि सुपुत्रेण सिंही स्वपिती निर्भयम् ।
सहैव दशभिः पुत्रैः भारं वहति गर्दभी ॥
<DOC_END>
<DOC_START>
२ गुणविकाराः पर्यायाः । आलापद्धतिः १५
<DOC_END>
<DOC_START>
१ तदुत्तमं भवेत्पात्रं यत्र रत्नत्रयं नरे । उपासकाध्ययनम् ७९८
<DOC_END>
<DOC_START>
१५ पुण्यादृते नैव कदापि कस्यापि मनोरथातीत शतावाप्तिर्जायते । वर्धमानचम्पूः १
<DOC_END>
<DOC_START>
अयं वर्गः समुद्रदत्तचरितम् विद्यते ।
<DOC_END>
<DOC_START>
अयं वर्गः आदिपुराणम् विद्यते ।
<DOC_END>
<DOC_START>
४ पुण्यात्मनां संसर्गतो यदि जघन्योऽपि मान्यतायाः पदं लभेत् नान्यद्भ्युतं किञ्चिदत्र । वर्धमानचम्पूः १
<DOC_END>
<DOC_START>
२ न राज्यलाभोऽभिमतोऽनपत्यः । दयोदयचम्पूः ८
<DOC_END>
<DOC_START>
१ स्वयमेव परिणभन्तेऽत्र पुद्गालाः कर्मभावेन । पुरुषार्थसिद्धयुपायः १२
<DOC_END>
<DOC_START>
१ अस्ति पुरुषश्चिदात्मा विवर्जितः स्पर्शगन्धरसवर्णैः । पुरुषार्थसिद्धयुपायः
<DOC_END>
<DOC_START>
१ पूजां बिना न पूर्येत् भोगसौख्यादिकं सदा । सुभाषितरत्नावली १५७
<DOC_END>
<DOC_START>
२ बहुरत्ना वसुन्धरा । दयोदयचम्पूः ६
<DOC_END>
<DOC_START>
२ प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारमञ्जसा । न्या० वि० ३
३ प्रत्यक्षमेव प्रमाणम् अगौणत्वात् नानुमानं तद्विपर्ययात् । न्यायकुमुदचन्द्रः ३
<DOC_END>
<DOC_START>
अयं वर्गः न्यायकुमुदचन्द्रः विषयकः विद्यते ।
<DOC_END>
<DOC_START>
२ यः कर्मव्यतिहारेण नोपकारार्णवं तरेत् स जीवन्नपि निर्जीवो निर्गन्धप्रसवोपमः । उत्तरपुराणम् ६३. २२२
<DOC_END>
<DOC_START>
१ प्रभवो मितभाषिणः । दयोदयचम्पूः ४०
<DOC_END>
<DOC_START>
१ तद् द्रव्यपर्यायात्माऽर्थो बहिरन्तश्च तत्त्वतः । न्यायकुमुदचन्द्रः ७
२ सम्यग्ज्ञानं प्रमाणम् । आलापद्धतिः ३४
<DOC_END>
<DOC_START>
१ प्रमेयस्य भावः प्रमेयत्वम् प्रमाणेन स्वपररूपं परिच्छेद्यं प्रमेयम् । आलापद्धतिः ९८
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनग्रन्थविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनग्रन्थविषयकः भवति ।
<DOC_END>
<DOC_START>
१ सति बन्धुविरोधे हि न सुखं न धनं नृणाम् । दयोदयचम्पूः ४९
<DOC_END>
<DOC_START>
६ स्वदेशे हि शशप्रायो, बलिष्ठः कुञ्जरादपि । क्ष० चू० .२.६४
<DOC_END>
<DOC_START>
६ यत्रैवाहितधीः पुंसः श्रद्धा तत्रैव जायते, यत्रैव जायते श्रद्धा चित्तं तत्रैव लीयते । स० श० ९५
<DOC_END>
<DOC_START>
३ घने स्वदेहेऽप्यात्मानं न घनं मन्यते बुधः । समाधितन्त्रम् ६३
४ जीर्णे स्वदेहेऽप्यात्मानं न जीर्णं मन्यते बुधः । स० श० ६४
९ प्रायः श्रेयोऽर्थिनो बुधाः । दयोदयचम्पूः ३१
<DOC_END>
<DOC_START>
२ का वा कठिन चित्तस्य जिनशासन् भक्तता । दयोदयचम्पूः ५५
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनग्रन्थविषयकः भवति ।
<DOC_END>
<DOC_START>
१ धिक् स्थौल्यं भीतचेतसां । दयोदयचम्पूः ४५
<DOC_END>
<DOC_START>
१ अभेद- बुद्धेरविशिष्टता स्याद् व्यावृत्तिबुद्धेश्च विशिष्टता ते । यु० अ० ६०
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनग्रन्थविषयकः भवति ।
<DOC_END>
<DOC_START>
३ मद्यं मोहयति मनो मोहितचित्तस्तु विस्मरति धर्मः । पुरुषार्थसिद्धयुपायः ६२
४ रसजानां च बहूनां जीवानां योनिरिष्यते मद्यम् । पुरुषार्थसिद्धयुपायः ६३
५ हिंसायाः पर्यायाः सर्वेऽपि सरकसंनिहिता । पु० सि० ६४
<DOC_END>
<DOC_START>
१ धुशकलमपि प्रायो मधुकर हिंसात्मकं भवति लोके । पुरुषार्थसिद्धयुपायः ६९
<DOC_END>
<DOC_START>
अयं वर्गः आदिपुराणविषयकः विद्यते ।
<DOC_END>
<DOC_START>
१ मनोमात्रसाक्षात्कारि मनः पर्ययज्ञानम् । जै० त० मा० १०
<DOC_END>
<DOC_START>
१ न हि मन्त्रोऽक्षरन्यूनो निहन्ति विषवेदनाम् । रत्नकरण्डश्रावकाचारः २१
<DOC_END>
<DOC_START>
१ उचितमाचरणं शुभमिच्छतां प्रथमतो मनसः खलु शोधनम्
<DOC_END>
<DOC_START>
१ बलवद्भ्यो हि सर्वेभ्यो मृत्युरेव महाबलः । पद्मपुराणम् ५. २६८
<DOC_END>
<DOC_START>
२ न बिना प्राणविघातान्मांस-स्योत्पत्तिरिष्यते यस्मात् । पुरुषार्थसिद्धयुपायः २१२
<DOC_END>
<DOC_START>
१ तपोज्ञानादिसंभूतो मदो न क्रियते बुधैः । सुभाषितरत्नावली ९९
<DOC_END>
<DOC_START>
अयं वर्गः उत्तरपुराणविषयकः विद्यते ।
<DOC_END>
<DOC_START>
दपादपा पादपाद पादपाद दपादपा ॥
द-पाद-पाप-अद-पाद-पाद-पा(४ दद-पात्-अपा(३) । {आवरणस्था संख्या पदानाम् अन्वयक्रमसूचिका ।}
अपापा – पापरहिता, अ-पाद-पाद-द-पाद-पा – अकारवाच्यस्य विष्णोः पादौ
ददतः पादान् किरणान् रक्षित्वा स्वसकाशे स्थापितवती, दद-पात्-अपा – आत्मानं
ये भगवच्चरणयोः समर्पयन्ति तेषां रक्षणार्थम् अभिषेकजलं वहन्ती च,
द-पाद-पाप-अद-पाद-पाद-पा – रक्षणं विदधतं पापम् अपनुदन्तं च पादं
वहतः विष्णोः पादौ रक्षन्ती (या पादुका सा पापात् – एनसः, अपापात् – (माम्) अरक्षत् ।
एवं पादुका स्वस्य परमौदार्येण दयया च आश्रितानाम् इष्टार्थान् ददती तदुपर्यपि तान्
उपकरोति । सा भगवद्विषये स्वप्रेमातिशयेन जीवराशौ परमदयया च, सञ्चारकालेषु
सर्वलोकरक्षकयोः, जीवराशीनां क्षेमार्थम् एकैकोपायभूतयोः भगवच्चरणारविन्दयोः
कण्टकादिभिः कोऽपि क्लेशः यथा न स्यात् तथा तौ पाति । स्वयं पापरहिता भूत्वा
स्वसजातीयान् जीवान् पापैः क्लिश्यमानान् भगवदनुभवरहितान् च दृष्ट्वा तेषां पापापनोदने
यतते । तदर्थं परमपदात् भगवन्तं सञ्चारव्याजेन भुवम् आनीय स्वप्रकाशेन भगवतः पादौ प्रकाशयति ।
पूर्वतनश्लोके यथा, तथा अत्रापि “सर्वतोभद्रम्” इति शब्दचित्रम् । अस्मिन् श्लोके
केवलम् ‘अ’ ‘आ’ इति द्वौ स्वरौ ‘प’ ‘द’ इति द्वे व्यञ्जने च सन्ति । अस्य अक्षराणि
अनुलोमप्रतिलोमक्रमेण सर्वतोभद्रमिति चित्रे निवेश्य श्लोकः पठितुं शक्यः । (चित्रं पश्यत ।)
<DOC_END>
<DOC_START>
कोप-उद्दीपक-पापे अपि भगवतः कोपम् उद्दीपयत् पापं कृतवति अपि, कृपा-पाक-उपपादिका –
दयापरिपाकं जनयन्ती, पू-द-पाद-उदक-अ-पाद-उद्दीपिका – पावनत्वं ददानं पादोदकं विदधतः
अकारवाच्यस्य भगवतः पादयोः प्रकाशिका का अपि पादुका (अस्याः महिमा वर्णयितुम् अशक्यः,
वाङ्मनसयोः अगोचरः इति भावः ।)
पादुकादेव्याः दयाकार्यम् अपरिमितम् । सा स्वस्याः उन्नतस्थानाद् अवतीर्य आश्रितान् अन्विष्य
इमां प्रकृतिं विशति । ततश्च तेषां हितं विदधाति, अहितं निवारयति इति तु विदितमेव । किन्तु
आश्चर्यावहम् अस्ति यत् तदुपर्यपि उपकरोति सा इत्येतत् । कश्चित् महापराधी कथञ्चित्
श्रीरङ्गनाथस्य सन्निधिं प्रविशति । तेन कृतान् भगवद्भागवतापचारान् अन्यांश्च आज्ञातिलङ्घनरूपान्
अपराधान् स्मरन् दण्डधरो भगवान् तस्मै अत्यन्तं कुप्यति । तथा स्थिते पादुकादेवी अयं पापी
कथञ्चित् भगवदनुग्रहपात्रं प्राप्नुयादिति सङ्कल्प्य, तदर्थं पुरुषकारं कृत्वा, तस्मै भगवत्पादौ प्रदर्श्य,
तत्र च प्रणामादीन् विधाप्य, भगवत्पादोदकसेवनं च कारयित्वा, तं रक्षति । किमिदमाश्चर्यम् ?
अस्मिन् श्लोके ‘पादुका’ इति शब्दे विद्यमानानि त्रीण्येव व्यञ्जनानि (ककारदकारपकाराः) प्रयुक्तानि दृश्यन्ते ।
<DOC_END>
<DOC_START>
ततातत्ता विस्तृता सर्वदा सञ्चरणस्वभावा च, अतितत्ता-इता अतिक्रान्ततच्छब्दवाच्यब्रह्मतया प्राप्या च,
इत-ईतिता-अतितुत् – ईतिबाधायुताम् अवस्थां समूलं नाशयन्ती, तत्तत्-तत्ता-तति-तता – तत्तद्वस्तुनः
स्वभावावलिं स्वशीकृत्य विस्तृता, तता आतता – विस्तृता वीणादिवाद्यानि प्राप्ता, इ-तात-इत,तातुता –
मन्मथस्य पित्रा (विष्णुना) अधिगता पादुका, तातति – जनकायते । (अत्र ‘तातुता’ इति शब्दस्य ‘पादुका’
इत्यर्थः । यतोहि, अस्मिन् श्लोके तकारः एक एव व्यञ्जनम् अतः पादुकाशब्दस्य स्वरान् क्रमेण तकारेण योजयित्वा
प्राप्तः शब्दः अयम् । कविभिः अयं क्रमः अनुस्रियते इति स्मर्तव्यम् ।)
रङ्गनाथस्य पादुका लोकरक्षणार्थं वत्सला धेनुरिव सर्वदा सर्वत्र सञ्चरणस्वभावा जीवराशीनां पुरुषकारभूता ।
ते यथा पादुकाम् आश्रयेयुः तथा करोति सैव । एतस्मात् कारणात् वश्यतायां सा प्राप्यभूतपरब्रह्मणोऽपि
अधिका इति मन्यते कविः । तथैव च आश्रितानाम् इह अतिवृष्ट्यनावृष्ट्यादिभिः यानि दुःखानि जायन्ते
तानि समूलं निवारयति । लोके यानि यानि वस्तूनि सन्ति तेषां सर्वेषां स्वरूपस्वभावादिकं तस्याः अधीनम् ।
जीवराशिभिः अभिलषिताः सर्वे पुरुषार्थाः पादुकारूपाः एव । वीणानाद इव मधुरद्वनियुता । यद्वा वीणादिवाद्यैः
गातुं शक्यः श्लोकसमूहः अस्याः विषये लभ्यते । मन्मथस्य पिता विष्णुः । स च ‘साक्षान्मन्मथमन्मथः’ इति
ख्यातः । सोऽपि एनाम् अधिगच्छति इति यत् तदस्याः सौन्दर्यद्योतकम् । एवम् आश्रितानां विषये मातापितृवत्
वत्सला पादुका इति भावः ।
अस्मिन् श्लोके एकमेव व्यञ्जनं प्रयुक्तम् । एकस्य तकारस्य एव प्रयोगः दृश्यते ।
<DOC_END>
<DOC_START>
१ उत्तिष्ठन्ते स्म मुक्त्यर्थं बद्धकक्षा मुमुक्षवः । दयोदयचम्पूः ६४
<DOC_END>
<DOC_START>
१ उंदरनिकरोन्माथिनि मार्जारे सैव जायते तीव्रा । पुरुषार्थसिद्धयुपायः १२१
२ हरिततृणां कुरचारिणि मंदा मृगशावके भवति मूर्छा । पुरुषार्थसिद्धयुपायः १२१
<DOC_END>
<DOC_START>
१ जपो न मुक्त्यै न तपो द्विभेदं न संयमो नापि दमो न मौनम् ।
५ मोक्षमजेयमतोऽजयेद् बुधः । दयोदयचम्पूः २२
<DOC_END>
<DOC_START>
४ मौनं सर्वार्थसाधनम् । दयोदयचम्पूः १
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनग्रन्थविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनग्रन्थविषयकः भवति ।
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनग्रन्थविषयकः भवति ।
<DOC_END>
<DOC_START>
२ पापान्मुक्तः पुमांल्लब्ध-स्वात्मानित्यं प्रमोदते । धवला ४/१५८
४ योगः प्रधानं धर्माणां योगः सिद्धेः स्वयंग्रहः । योगबिन्धुः ३७
<DOC_END>
<DOC_START>
अयं वर्गः योगबिन्धुः विद्यते ।
<DOC_END>
<DOC_START>
१ विद्वत्तायाः फलं नान्यत् सद्योगाभ्यासतः परम् । योगबिन्दुः ५०८
<DOC_END>
<DOC_START>
२ संसर्गः जनैर्योगी ततस्त्यजेत् । स० श० ७२
<DOC_END>
<DOC_START>
२ यौवनं जरसा ग्रास्यं गलत्यायुः प्रतिक्षणम् ।
हेयः कायोऽशुचिः पापी दुर्धरो दुःखभाजनम् ॥ उत्तरपुराणम् ४८. ९१
<DOC_END>
<DOC_START>
१ रक्षतं हि भवेत्सर्वं नृपेणात्मनि रक्षिते । दयोदयचम्पूः ७४
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनग्रन्थविषयकः भवति ।
<DOC_END>
<DOC_START>
१ रम्यं हारि न कस्य वा । दयोदयचम्पूः ३६
<DOC_END>
<DOC_START>
१ अन्नकवलस्य भुंक्तेर्भुक्ताविव मांसकवलस्य । पुरुषार्थसिद्धयुपायः १३२
२ करोति विरतिं धन्यो यः स दानिशि भोजनात् ।
३ परिहरति रात्रिभुक्तिं सततमहिंसा सः पालयति । पु० सि० १३४
<DOC_END>
<DOC_START>
१ व्यतिकीर्णवस्तुव्यावृत्तिहेतुर्लक्षणम् । न्यायदीपिका १ पृ० ६
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनग्रन्थविषयकः भवति ।
<DOC_END>
<DOC_START>
१ आकरः सर्वदोषाणां गुण- ग्रासनराक्षसः ।
२ कृतो लुब्धस्य सत्यता । दयोदयचम्पूः ४ पृ० ३
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनग्रन्थविषयकः भवति ।
<DOC_END>
<DOC_START>
१ वाच्यं यथार्थं न च दूषणं तत् । (यु० अ० २७)
<DOC_END>
<DOC_START>
१ सर्वेष्वपि च सधर्मिषु परमं वात्सल्यमालंव्यम् । पुरुषार्थसिद्धयुपायः २९
<DOC_END>
<DOC_START>
१ को न वा पतति वारुणी प्रियः। दयोदयचम्पूः १५
<DOC_END>
<DOC_START>
५ येनाऽविद्यामयं रूपं त्यक्त्वा विद्यामयं व्रजेत् । स० श० ५३
<DOC_END>
<DOC_START>
२ जीविताशा धनाशा च येषां तेषां विधिर्विधः । आचारसारः १६३
४ विधिरहो बलवानिति । व० च० स्त० ६ पृ० १४५
<DOC_END>
<DOC_START>
६ स्वकीयबलमज्ञाय संग्रामार्थन्तु यो नरः ।
<DOC_END>
<DOC_START>
३ रक्तेन दूषितं वस्त्रं रक्तेन नहि शुद्ध्यति । व० च० स्तवक् ४ पृ० ९७
<DOC_END>
<DOC_START>
१ न चित्ते विषयासक्ते वैराग्यं स्थातुमप्यलम् ।
<DOC_END>
<DOC_START>
यायाया (१ आय(२ आयाय(३ अयाय(४ अयाय(५ अयाय(६ अयाय(७ अयाया(८ यायाय(९
या (१२) पादुका आयाय(३ लाभाय एव परिश्राम्यति, अयाय(४) – या (१३) च शुभाय भवति,
या (१४) च अयाय(४) – ज्ञानाय भवति, या (१५) च अयाय(६) – इच्छायै भवति, या (१६)
च अयाय(७) – दूरीकरणाय भवति, अ-याया(८) – अकारवाच्यं भगवन्तम् आश्रितवती या (१७)
यायाय(९) – तस्य सञ्चाराय भवति, या (१८) च आयायाय(१०) – भगवन्तम् आश्रितान् प्रति
आनयति, आय-आया(११) या (१९) च सर्वत्र सञ्चरणयोग्यतापादिका, याया-या (१)
सद्गतिप्राप्तेः प्रापिका सा पादुका) आय(२) – अकारवाच्यस्य भगवतः शेषभूता अस्ति ।
पादुका सर्वदा स्वस्वामिनः भगवतः तम् आश्रितानां च लाभाय एव श्राम्यति । अपि च
आश्रितानाम् अदृष्टशुभफलदात्री, ज्ञानदात्री च । आश्रितानां मनसि स्वस्य उपासनारूपाम् इच्छां
जनयति च । आश्रितानां सकलानि विरोधिपापानि नाशयति च । भगवन्तम् आश्रितवती एषा
तस्य पादयोः सञ्चारप्रयोजनाय भवति । आश्रितानां रक्षणार्थं भगवन्तं तेषां सकाशम् आनयति
च । आश्रितानां कामचारत्वस्य आपादयित्री च । आश्रितानां परमपुरुषार्थप्राप्तेः साधिका एषा ।
एवम्भूता सा भगवते एव शेषभूता अस्ति ।
अस्मिन् श्लोके महायमकमिति शब्दचित्रम् । तच्च विविधैः चित्रैः युतम् । यथा,
१. एकस्वरचित्रम् – अकारः एक एव स्वरः अत्र ।
२. एकवर्णचित्रम् – यकारः एक एव वर्णः ।
३. द्विस्थानकं स्थानचित्रम् – अर्थात् अत्र विद्यमानाक्षरयोः उत्पत्तिस्थाने द्वे एव ।
५. श्लोकानुलोमप्रतिलोमगतिचित्रम्, ६. अर्धयमकं, पादचतुरावृत्तियमकं,
महायमकम् अत्र । श्लोकः विद्युन्मालावृत्ते रचितः अस्ति । (‘मो मो गो गो विद्युन्माला’)
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनग्रन्थविषयकः भवति ।
<DOC_END>
<DOC_START>
१ धर्मस्तु न बिना शास्त्रादिति तत्रादरोहितः । योगबिन्दुः २२२
<DOC_END>
<DOC_START>
२ प्राप्नोति देशनायाः स एव फलमविकलं शिष्यः । पुरुषार्थसिद्धयुपायः ८
<DOC_END>
<DOC_START>
१ क्लिशितं धीर्हि जिनेष्वपि शंकते । दयोदयचम्पूः ११
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनग्रन्थविषयकः भवति ।
<DOC_END>
<DOC_START>
२७. रघुपतिचरणावनी तदा विरचितसञ्चरणा वनीपथे ।
रघुपति-चरण-अवनी, तदा, विरचित-सञ्चरणा, वनी-पथे, कृत-परिचरणा, वनीपकैः निगम-मुखैः च रण-अवनी-गता ।
तदा – तस्मिन् समये (विश्वामित्रस्य यज्ञसंरक्षणार्थं यदा रामः गतः तदा वनीपथे –अरण्यमार्गे, कृतपरिचरणा – कृतसञ्चारा,
रणावनीगता – युद्धभूमिं गता, रघुपतिचरणावनी – राघवस्य पादुका, वनीपकैः – याचकैः, निगममुखैः – वेदान् मुखे धरद्भिः
(वेदाभ्यासरतैः गौतमशतानन्दादिभिः महर्षिभिः कृतपरिचरणा – परिचर्यां पाप्तवती ।
विश्वामित्रस्य यज्ञसंरक्षणार्थं यदा रामः गतः तदा तस्य पादुका अरण्यमार्गे सञ्चारं कृतवती । मारीचसुबाहुप्रभृतिभिः
युद्धभूमिं गता रघुकुलोत्तमस्य पादुका तपस्सिद्धिं राक्षसभयात् रक्षणं च याचतां तपस्विजनानां रक्षणं कृतवती । तपस्विभिः
तथा च निगमा एव मुखानि येषां तैः वेदाभ्यासरतानां गौतमशतानन्दादीनां महर्षीणां परिचरणं च पाप्तवती एषा पादुका ।
अस्मिन् श्लोके ‘पादचतुष्टयभागावृत्तियमकम्’ इति शब्दचित्रम् । अर्थात् पादस्य चतुष्टयः भागः ‘चरणावनी’ इति शब्दः ।
स च चतुर्षु अपि पादेषु आवृत्तिं प्राप्नोति इति विशेषः । श्लोकः उपजातिवृत्ते निबद्धः । प्रथमः तृतीयश्च पादः
एकादशाक्षरयुतः त्रैष्टुभच्छन्दसि वर्तते । द्वितीयः चतुर्थश्च पादः द्वादशाक्षरयुतः जागतच्छन्दसि वर्तते ।
<DOC_END>
<DOC_START>
अयं वर्गः चित्रकाव्यग्रन्थविषयकः विद्यते ।
<DOC_END>
<DOC_START>
१ तप्तं तप्तेन योज्यते । दयोदयचम्पूः २३
<DOC_END>
<DOC_START>
१२ भव एव महाव्याधिर्जन्ममृत्युविकारवान् । योगदृष्टिसमुच्चयः १८८
१३ भूतार्थ बोधविमुखः प्रायः सर्वोऽपि संसारः । पुरुषार्थसिद्धयुपायः ५
<DOC_END>
<DOC_START>
२ न श्रद्धानं ज्ञानं चान्तरेण संयमः प्रवर्तते । भगवती आराधना ११६
<DOC_END>
<DOC_START>
१६ लोकैषणाहीनान्तः करणवृत्तयः साधवः । व० च० स्त० ६ पृ० १५२
१७ सन्तोऽवसरवादिनः । दयोदयचम्पूः ४४ पृ ५७
<DOC_END>
<DOC_START>
२८. दत्तकेलिं जगत्कल्पनानाटिकारङ्गिणा रङ्गिणा रङ्गिणा रङ्गिणा ।
तादृशे गाधिपुत्राध्वरे त्वां विनाऽपादुका पादुका पादुका पादुका ॥
दत्तकेलिं, जगत्-कल्पना-नाटिका-रङ्गिणा, अरङ्गिणा, रङ्गिणा, रङ्गिणा, तादृशे, गाधि-पुत्र-अध्वरे, त्वां, विना,
अपात्, उ, का, पादुका, पादु, क-आपादुका ।
पादु! हे पादुके! जगत्-कल्पना-नाटिका-रङ्गिणा – जगत्सृष्टिनाटकरङ्गवता भगवता, अरङ्गिणा – स्वं तु नर्तयन्तं
विना स्थितेन, रङ्गिणा – (रङ्गनाथरूपिणा) श्रीरामेण, रङ्गिणा – रङ्गनाथेन, दत्तकेलिं – दत्तसञ्चाररूपकेलिमतीं
(अत्र तृतीयासमासः चतुर्थीसमासो वा यथा – दत्ता केलिः यया सा दत्ता केलिः यस्यै सा ।) त्वां विना, का उ
पादुका – कैव पादुका, कापादुका? – सुखस्य साधयित्री अथवा त्वदपेक्षया स्वल्पकार्यापादिका कैव पादुका तादृशे –
विघ्नैः पुनःपुनः प्रतिहन्यमाने तादृशे, गाधि-पुत्र-अध्वरे – गाधिपुत्रस्य विश्वामित्रस्य यज्ञे, अपात् रक्षणम् करोति स्म?
श्रीरामो भूत्वा विश्वामित्रस्य यज्ञसंरक्षणं कृतवान् प्रभुः । स एव इदानीं रङ्गनाथरूपेण तिष्ठति । अतः
रामपादुकैव रङ्गनाथपादुका इति ऐक्यबुद्ध्या कविः अत्र तया कृतमुपकारं स्मरन् तां स्तौति । रङ्गनाथः
जगत्सृष्टिरूपनाटिकां गच्छति । (‘रगि गतौ’ इति धातोः निष्पन्नः ‘रङ्गिन्’शब्दः अत्र । रङ्गितुं शीलम्
अस्य इति रङ्गी, तेन रङ्गिणा इत्यर्थः ।) जगत्कल्पनानाटिकां करोति इति अनुक्त्वा गच्छति इति
कथने स्वारस्यं तावत् – भगवान् चेतनाचेतनात्मकजगद्रूपेण स्वं परिणमयति । अर्थात् सूक्ष्मचेतनाचेतनविशिष्टं
ब्रह्म स्थूलचेतनाचेतनविशिष्टत्वेन परिणामं प्राप्नोति न तु नूतनतया किमपि सृजति । जगत् नर्तयन् रङ्गी
अयम् । किन्तु एनं न कोऽपि नर्तयितुं समर्थः । अतः अयम् अरङ्गी । श्रीरामावतारं कृतवानयं रङ्गनाथः
विश्वामित्रस्य यज्ञसंरक्षणार्थं गच्छन् सञ्चाररूपकेलिं पादुकायै दत्तवान् । पादुका च रामचन्द्रस्य सहाया
भूत्वा राक्षसान् निहत्य यजमानं विश्वामित्रं, यागोपकरणानि, तथैव तत्र स्थितान् अध्वर्युप्रभृतीन् अन्यांश्च
संरक्ष्य यागस्य पूर्तिं कृतवती । एवं प्रभावशालिनीं पादुकां विहाय का वा तादृशं कार्यं कर्तुं प्रभवति स्म?
‘पादभागचतुरावृत्तियमकम्’ इति शब्दचित्रम् अत्र । श्लोकस्य द्वितीयचतुर्थपादयोः पादभागभूतयोः ‘रङ्गिणा’ ‘पादुका’
इति शब्दयोः चतुर्वारम् आवृत्तिः दृश्यते । प्रतिपादं द्वादशाक्षरयुते स्रग्विणीवृत्ते निबद्धः अयं श्लोकः ।
<DOC_END>
<DOC_START>
चलां बुद्धिं च शून्यं विदुः
<DOC_END>
<DOC_START>
५ प्रतिक्षणं स्थित्युदय-व्ययात्म-तत्त्व –व्यवस्थं सदिहाऽर्थरूपम् । यु० अ० ४८
६ भजत सत्यवचो निरवद्यताम् । दयोदयचम्पूः ९
<DOC_END>
<DOC_START>
१ चिन्ताशोकभयान्तकादिरहितः क्लेशादिभिवर्जितः समाधिः । प्र० बो० ७
<DOC_END>
<DOC_START>
४ संपदत्र करिकर्ण चंचला । दयोदयचम्पूः १९
<DOC_END>
<DOC_START>
१ परमज्ञानसंवेद्यं वीतबाद्यं सुखादिवत्, सिद्धं प्रमाणतः सार्वं सर्वज्ञं सर्वदोषदमनम् । ध्या० स्त० १
<DOC_END>
<DOC_START>
१ सर्वापदामन्तकरं निरन्तं सर्वोदयं तीर्थमिदं तवैव । यु० अ० ६१
<DOC_END>
<DOC_START>
१ जरन्नपि गजः कक्षां गाहते किं हरेः शिशोः । दयोदयचम्पूः ६६
<DOC_END>
<DOC_START>
२ सिद्धेरासन्नभावेन यः प्रमोदो विजृम्भते । योगबिन्दुः १७४
<DOC_END>
<DOC_START>
प्रेतेशान्महिषं तवास्ति वृषभः फालं त्रिशूलं तव ।
शक्ताहं तव चान्नदानकरणे स्कन्दोऽस्ति गोरक्षणे
खिन्नाहं हर भिक्षया कुरु कृषिं गौरीवचः पातु वः ॥
<DOC_END>
<DOC_START>
१ याथात्म्यमुल्लंघ्य गुणोदयाऽऽख्या लोके स्तुतिर्भूरि-गुणोदधेस्ते । यु० अ० २
<DOC_END>
<DOC_START>
अयं वर्गः उपदेशप्रकारणवियकः विद्यते ।
<DOC_END>
<DOC_START>
१ प्रवृत्तितः शान्तिरपि प्ररूढतमः परेषां तव सुप्रभातम् । यु० अ० ३८
<DOC_END>
<DOC_START>
१ अस्वप्नपूर्वं हि जीवानां नहि जातु शुभाशुभम् । वर्धमानचम्पूः २
<DOC_END>
<DOC_START>
१ स्थिरीकृतात्मतत्त्वस्तु पश्यन्नपि न पश्यति । इष्टोपदेशः ४१
<DOC_END>
<DOC_START>
अयं वर्गः जैनदर्शनग्रन्थविषयकः भवति ।
<DOC_END>
<DOC_START>
१ कोऽत्र कस्य बहिरंग हिंसकः दयोदयचम्पूः १६
<DOC_END>
<DOC_START>
२ आत्मपरिणामहिंसनहेतुत्वात् सर्वमेव हिंसैतत् । पुरुषार्थसिद्धयुपायः ४२
३ आरभ्य कर्तुमकृतापि फलति हिंसानुभावेन । पुरुषार्थसिद्धयुपायः ५४
८ फलति हिंसानुभावेन । पुरुषार्थसिद्धयुपायः ५४
९ मद्यं भजतां तेषां हिंसा संजायते वश्यम् । पुरुषार्थसिद्धयुपायः ६३
१० मांसं भजतस्तस्मात् प्रसरत्यनिवारिता हिंसा । पुरुषार्थसिद्धयुपायः ६५
<DOC_END>
<DOC_START>
• भर्तृ.सं भर्तृहरिसुभाषितसङ्ग्रह (एद्. द्.द्. Kओसम्बि).
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति ।
महतो हि क्षयं लब्ध्वा श्लाघां नीचोऽपि गच्छति ।
दानार्थी मधुपो यद्वद्गजकर्णसमाहतः ॥२॥ [भाव. ३१]
महद्भिः स्पर्धमानस्य विपदेव गरीयसी ।
पञ्चास्यस्य पराभवाय भषको मांसेन गोर्भूयसा ।
दध्यन्नैरपि पायसैः प्रतिदिनं संवर्धितो यो मया ॥४॥
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् ।
पञ्चैव पूजयन्लोके यशः प्राप्नोति केवलम् ।
यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा ।
आयासो वा यतो मूलस्तदेकाङ्गमपि त्यजेत॥७॥ [शा.प. १४६१]
यच्चाच्छाः समये पयोदमलिने कालुष्यसन्दूषिताः ।
दृश्यन्ते कुलनिम्नगा अपि परं दिग्देशकालाविमौ
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् ।
भुञ्जानाः पवनं सरीसृपगणाः प्रख्यापिता भोगिनो
गायद्भृङ्गनिवारका निगदिता विस्तीर्णकर्णा गजाः ।
यश्चाभ्यन्तरसम्भृतोष्मविकृतिः प्रोक्तः शमी स द्रुमो
पतिव्रता पतिप्राणा पत्युः प्रियहिते रता ।
संक्षेपात्कथ्यते धर्मो जनाः किं विस्तरेण तु ।
परोपकारः पुण्याय पापाय परपीडनम् ॥१३॥
शुभ्रं सद्य सविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला
लक्ष्मीरित्यनुभूयते स्थिरमिव स्फीते शुभे कर्मणि ।
यन्नम्रं सरलं चापि यच्चापत्सु न सीदति ।
यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत।
कर्मणा तस्य वैशिष्ट्यं कथयेद्विनयान्वितः ॥१७॥
सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः ।
सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत॥१८॥ [वे. ३४]
मुखं प्रसन्नं विमला च दृष्टिः
कथानुरागो मधुरा च वाणी ।
पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि ।
परं नयेन्न स्वयमेव वैरिताम् ।
आपन्निकषपाषाणे नरो जानाति सारताम् ॥२४॥ [भो.प्र. १५६]
मित्राण्येव हि रक्षन्ति मित्रवान्नावसीदति ।
मित्रार्थे बान्धवार्थे च बुद्धिमान्यतते सदा ।
प्रसादः कुरुते पत्युः सम्पत्तिं नाभिजानताम् ।
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः ।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥२९॥ [भो.प्र. ५७।
विद्यावृद्धं वयसा चापि वृद्धम् ।
उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि ॥३१॥
एवमेव मनुष्याणां पिता माता गृहं वसु ।
यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम् ।
यथा फलानां पक्वानां नान्यस्य पतनाद्भयम् ।
एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥३४॥
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् ।
योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते ।
निःसारे मृगतृष्णिकार्णवजले श्रान्तो विमूढः पिबत्य्
वशं प्राप्ते मृत्योः पितरि तनये वा सुहृदि वा
शुचालं तप्यन्ते भृशमुदरताडं जडधियः ।
असारे संसारे विरसपरिणामे तु विदुषां
वियोगो वैराग्यं द्रढयति वितन्वन्शमसुखम् ॥३८॥ [प्र. ९५]
विधिरेव हि जागर्ति भव्यानामर्थसिद्धये ।
लीलायन्त्यः कुलं घ्नन्ति कुलानीव सरिद्वराः
रामो हेममृगं न वेत्ति नहुषो नो यान्युनक्ति द्विजान्
विप्रादेव सवत्सधेनुहरणे जाता मतिश्चार्जुने ।
प्रायः सत्पुरुषो विनाशसमये बुद्ध्या परित्यज्यते ॥४१॥ [वे. १५]
गता कालेनासौ विषयसुखसिद्धौ विषयिणाम् ।
राजा धर्मं विना द्विजः शुचिं विना ज्ञानं विना योगिनः
कान्ता सत्यं विना हयो गतिं विना ज्योतिर्विना भूषणम् ।
योद्धा शूरं विना तपो व्रतं विना छन्दो विना गायनं
भ्राता स्नेहं विना नरो हरिं विना मुञ्चन्ति शीघ्रं बुधाः ॥४३॥ [सप्तरत्न २]
मानो वा दर्पो वा विज्ञानं विभ्रमः सुबुद्धिर्वा ।
सर्वं प्रणश्यति समं वित्तविहीनो यदा पुरुषः ॥४५॥
प्रीणाति यः सुचरितैः पितरं स पुत्रो
यदेतत्त्रयं जगति पुण्यकृतो लभन्ते ॥४७॥ [भर्तृ.सं. २७९]
भार्यायां जनितं पुत्रमादर्शेष्विव चाननम् ।
ह्लादते जनिता प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत॥४८॥
हिंसकान्यपि भूतानि यो हिनस्ति स निर्घृणः ।
सुखास्वादपरो यस्तु संसारे सत्समागमः ।
पूज्यो बन्धुरपि प्रियोऽपि तनयो भ्राता वयस्योऽपि वा
मोहादनवद्यकार्यविमुखो हेयः स कार्यार्थिना ।
लोके हि प्रथिता ननु श्रुतिरियं नार्योऽपि गायन्ति यां
करोत्यन्तःक्षोभं न तु विषयसंसर्गविमुखे ॥५२॥
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः ।
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।
यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥५४॥ [विक्रम. ६४]
बाहू द्वौ च मृणालमास्यकमलं लावण्यलीलाजलं
श्रोणी तीर्थशिला च नेत्रशफरं धम्मिल्लशैवालकम् ।
दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम् ॥५५॥ [शृ.ति. १]
भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः ।
प्रिया हिताश्च ये राज्ञो ग्राह्यवाक्या विशेषतः ।
समाधानं कृत्वा स्थिरतरदृशो जाग्रत जनाः ॥५८॥
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते ।
प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् ।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति (ते/सि/से) ॥६१॥ [चा.नी.सा. ९३]
नीचा नाभिः प्रकृत्या कुटिलकमलकं स्वल्पकं चापि मध्यम् ।
कुर्वन्त्वेतानि नाम प्रसभमिह मनश्चिन्तितान्याशु स्वेदं
सप्रेमा स विलोक्य बर्हमिह मे किं किं न कुर्यात्प्रियम् ।
शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम् ।
विनयेन विना का श्रीः का निशा शशिना विना ।
रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ॥६५॥
शशिना सह याति कौमुदी सह मेघेन तडित्प्रलीयते ।
वरं मौनं कार्यं न च वचनमुक्तं यदनृतं
वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् ।
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचिर्
धनुर्बाणैः पश्चाच्छबरकवरो धावति भृशम् ।
न गन्तुं न स्थातुं हरिणशिशुरेवं विलपति ॥६८॥ [नीतिरत्न ५]
त एव मूढस्य हृदि स्फुरन्ति ।
तत्र भ्रमत्येव सुधा षडङ्घ्रिः ॥६९॥
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात।
लोको वहति किं राजन्न मूर्ध्ना दग्धुमिन्धनम् ।
वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते ।
दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो
लीलातामरसोदरे मृददृशः श्वासाः समाप्तिं गताः ॥७४॥ [अमरु. ६०]
लज्जा स्नेहः स्वरमधुरता बुद्धयो यौवनश्रीः
पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालीकपालीं
द्वारं द्वारं प्रविष्टो दरमुदरदरीपूरणाय क्षुधार्तो
राजन्दानमहीरुहो विजयते कल्पद्रुमादीनपि ॥७९॥ [सु. ३०२८]
अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः ।
अत्युन्नतिं प्राप्य नरः प्रावारः कीटको यथा ।
स विनश्यत्यसन्देहमाहैवमुशना नृपः ॥८१॥ [सं.पा. ५७]
तृष्णे देवि यदि प्रसीदसि तनोष्यङ्गानि तुङ्गानि चेत्
तद्भोः प्राणभृतां कुतः शमकथा ब्रह्माण्डलक्षैरपि ॥८२॥ [प्र. ३५]
जीवः कथं कथय सङ्गतिमन्तरेण ।
अनादरपरो विद्वानीहमानः स्थिरां श्रियम् ।
अग्नेः शेषं ऋणाच्छेषं शत्रोः शेषं न शेषयेत्॥८६॥
षड्भिर्नराणां निवसन्ति रोगाः ॥८७॥ [विक्रम. २३७]
आश्रिताश्चैव लोकेन समृद्धिं यान्ति विद्विषः ।
दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः ।
अतीव गुणसम्पन्नो न जातु विनयान्वितः ।
अतीतानागता भावा ये च वर्तन्ति सांप्रतम् ।
निर्दशन्नधरोष्ठं च क्रुद्धो दारुणभाषिता ।
अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् ।
ब्रह्मपदं प्रविशाशु विदित्वा ॥१००॥ [मोहमुद्गर]
अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात।
अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः ।
नाकालतो व्याहरते च बालः ।
अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम् ।
अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् ।
प्रज्ञापौरुषहीनानां जीविकेति बृहस्पतिः ॥१०८॥ [प्र. ३०]
एवमेव कुले जाताः पावकोपमतेजसः ।
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥११०॥
स एव खलु दारुभ्य यदा निर्मथ्य दीप्यते ।
नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी ।
अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु ।
अग्निं प्राप्य यथा सद्यस्तूलराशिर्विनश्यति ।
तथा गङ्गाप्रवाहेण सर्वं पापं विनश्यति ॥११४॥ [विक्रम. १८३]
व्याधिभिर्मथ्यमानानां त्यजतां विपुलं धनम् ।
अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसङ्क्षयः ।
अक्षमः क्षमतामानी क्रियायां यः प्रवर्तते ।
स हि हास्यास्पदत्वं च लभते प्राणसंशयम् ॥११९॥ [सं. ३९]
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु ।
अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति ।
यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः ।
अकीर्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः ।
अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वशः ।
सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा ।
अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो
अकाले कृत्यमारब्धं कऋतुं नार्थाय कल्पते ।
वक्त्रं नः परिहस्यते ध्रुवमिदं भूतैश्चिरस्थायिभिः ॥१३०॥
अकार्याण्यपि पर्याप्य कृत्वापि वृजिनार्जनम् ।
निम्नो मध्यः समुन्नतं जघनम् ।
वपुषि नवे क इव न स्खलति ॥१३३॥
अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत॥१३४॥
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥१३५॥
स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये तव ।
इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ॥१३७॥
अकामस्य क्रिया काचिद्दृश्यते नेह कऋहिचित।
यद्यद्धि कुरुते किञ्चित्तत्तत्कामस्य चेष्टितम् ॥१३८॥
प्रथमा गतिरात्मैव द्वितीया गतिरात्मजः ।
शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात॥१४०॥
अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम् ।
प्रयोजनेषु ये सक्ता न विशेषेषु भारत ।
अद्यैव कुरु यच्छ्रेयो वृद्धः सन्किं करिष्यसि ।
स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये ॥१४३॥
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥१४४॥
मृगया पानमक्षाश्च ग्राम्ये चैवातिरक्तता ॥१४५॥
अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥१४६॥
ध्रुवं यो नार्जयेद्धर्मं स शोच्यो मूढचेतनः ॥१४७॥
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः ।
अध्वा जरा देहवतां पर्वतानां जलं जरा ।
असम्भोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा ॥१४९॥
शतगुणितेव गता मम त्रियामा ।
यदि तु तव समागमे तथैव
प्रसरति सुभ्रु ततः कृती भवेयम् ॥१५०॥
मृदुरार्द्रः कृशो भूत्वा शनैः संलीयते रिपुः ।
अदुःखज्ञा वाचां परिणतिषु मूकाः परगुणे ।
भवेयुस्ते किं वा परभणितिकण्डूतिनिकषाः ॥१५२॥
अनिग्रहेण चाक्षाणां जायते व्यसनं नृणाम् ॥१५३॥
मौढ्येन विपदापन्नं मध्यस्थं सुहृदं तथा ।
शक्त्या ततः समुद्धृत्य हितार्थं भर्त्सयेत्सुधीः ॥१५४॥ [कविता ७६]
न सेवते यश्च सुखी सदैव ॥१५५॥
इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥१५६॥
बन्धुत्यागस्तनुत्यागो देशत्याग इति त्रिषु ।
अनवाप्यं च शोकेन शरीरं चोपतप्यते ।
अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥१५८॥
समागमेनापि रतिर्न मां प्रति ।
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।
प्राप्यापि महदैश्वर्यं सह तेन विनश्यति ॥१६१॥
अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः ।
न च रात्रौ सुखं शेते ससर्प इव वेश्मनि ।
दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥१६४॥
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् ।
विनाशयति सम्भूता अयोनिज इवानलः ॥१६५॥
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ।
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् ।
मलं पृथिव्या वाहीकाः पुरुषस्यानृतं मलम् ॥१६७॥
अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथागताः ।
कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ॥१६८॥
चन्द्रादि पश्यति पुरो द्विगुणं प्रकृत्या
तेजोमयं तिमिरदोषहतं हि चक्षुः ॥१६९॥
अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥१७०॥
यत्तिष्ठति तदाश्चर्यं वियोगे तस्य का कथा ॥१७१॥
परोक्तमात्रं यस्तथ्यं मन्यते बुद्धिवर्जितः ।
अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ ।
अनिर्वेदः श्रियो मूलं चञ्चुर्मे लोहसंनिभा ।
अहोरात्राणि दीर्घाणि समुद्रः किं न शुष्यति ॥१७६॥
शीघ्रं विहाय जननीमपि जन्मभूमिम् ।
श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत॥१८०॥
न पिता नात्मजो नात्मा न माता न सखीजनः ।
इह प्रेत्य च नारीणां पतिरेको गतिः सदा ॥१८१॥
अनुबन्धं च सम्प्रेक्ष्य विपाकांश्चैव कर्मणाम् ।
उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥१८२॥
सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत॥१८३॥
सत्यश्चात्र प्रवादोऽयं लौकिकः प्रतिभाति माम् ।
अनुयाति न भर्तारं यदि दैवात्कथंचन ।
तथापि शीलं संरक्ष्यं शीलभङ्गात्पतत्यधः ॥१८५॥
अनेकचित्तमन्त्रस्तु द्वेष्यो भवति मन्त्रिणाम् ।
अनवस्थितचित्तत्वात्कर्ये तैः स उपेक्ष्यते ॥१८६॥
वित्तं तेन विनोदय चित्तम् ॥१८७॥ [मोहमुद्गर]
अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।
शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥१८८॥
प्रायोऽन्येन कृतादरो लघुरपि प्राप्तोऽर्च्यते स्वामिभिः ॥१८९॥
मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम् ।
अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे ।
अन्योच्छिष्टेषु पात्रेषु भुक्त्वैतेषु महीभुजः ।
कस्मान्न लज्जामवहञ् शौचचिन्तां न वा दधुः ॥१९३॥
पुण्येन पापेन च वेष्ट्यमानः ॥१९४॥
चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा ।
प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा श्रियः ॥१९५॥
अन्यो हि नाश्नाति कृतं हि कर्म
स एव कर्ता सुखदुःखभागी ।
यत्तेन किञ्चिद्धि कृतं हि कर्म
उद्योगेन विना नैव कार्यं किमपि सिध्यति ।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥१९८॥
अपकारिणि विस्रम्भं यः करोति नराधमः ।
लोभादेव नरा मूढा धनविद्यान्विता अपि ।
अन्यो हि नाश्नाति कृतं हि कर्म
स एव कर्ता सुखदुःखभागी ।
यत्तेन किञ्चिद्धि कृतं हि कर्म
अपहत्य तमस्तीव्रं यथा भात्युदरे रविः ।
तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥२०२॥ [विक्रम. १८१]
अपां प्रवाहो गाङ्गोऽपि समुद्रं प्राप्य तद्रसः ।
सुखमेव हि दुःखान्तं कदाचिद्दुःखतः सुखम् ।
अपि मार्दवभावेन गात्रं संलीय बुद्धिमान।
अरिं नाशयते नित्यं यथा वल्ली महाद्रुमम् ॥२०६॥ [हरि. ११६७]
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
तस्मात्पुत्रमुखं दृष्ट्वा भवेत्पश्चाद्धि तापसः ॥२०८॥ [विक्रम. ८५]
अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् ।
सुखदुःखे समे स्यातां जन्तूनां क्लेशहेतुके ।
मूर्ध्नि तापिन्केशानां भवेतां स्नेहच्छेदने ॥२१३॥ [दृ.श. ४७]
अप्रियैरपि निष्पिष्टैः किं स्यात्क्लेशासहिष्णुभिः ।
अभयस्य हि यो दाता स पूज्यः सततं नृपः ।
सुखदुःखे हि पुरुषः पर्यायेणोपसेवते ।
अभिप्रायं यो विदित्वा तु भर्तुः
सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् ।
त्याज्यः स तादृक्त्वरयैव भृत्यः ॥२२०॥
अन्धानामिव दृश्यन्ते पतनान्ताः प्रवृत्तयः ॥२२१॥
अभिमानं श्रियं हन्ति पुरुषस्याल्पमेधसः ।
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥२२३॥
अभियुक्तं बलवता दुर्लभं हीनसाधनम् ।
हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥२२४॥
सुकरं सर्वथा मैत्रं दुष्करं प्रतिपालनम् ।
अनित्यत्वाद्हि चित्तानां प्रीतिरल्पेन भिद्यते ॥२२५॥
अभियोक्ता बली यस्मादलब्ध्वा न निवर्तते ।
उपहारादृते तस्मात्सन्धिरन्यो न विद्यते ॥२२६॥
अभिलक्ष्यं स्थिरं पुण्यं ख्यातं सद्भिर्निषेवितम् ।
सेवेत सिद्धिमन्विच्छञ् श्लाघ्यं विन्ध्यमिवेश्वरम् ॥२२७॥
यथा हि पुरुषः कुर्याच्छरीरे यत्नमुत्तमम् ।
वसनाद्यैरुपायैस्तु तथा राज्ये नराधिपः ॥२२९॥ [सं.पाठोप. ५६]
अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्यपि ।
दुःखं तत्र न कुर्वीत हन्यात्पूर्वापकारिणम् ॥२३०॥
तस्मात्प्राप्योन्नतिं नश्येत्प्रावार इव कीटकः ॥२३१॥
यथा हि भरतो वर्णैर्वर्णयत्यात्मनस्तनुम् ।
अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन।
कृपा तस्मिन्न कर्तव्या हन्यादेवापकारिणम् ॥२३३॥
अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति ।
सामर्थ्ययोगात्कार्याणां तद्गत्या हि सदा गतिः ॥२३४॥
बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च ।
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ।
बुद्धिमन्तं च मूढं च शूरं भीरुं जदं कविम् ।
प्राप्नुवन्ति नराः सर्वे सुकृतैः पूर्वजन्मनि ॥२३९॥ [प्रसङ्गा.
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।
दिशो वासः पात्रं करकुहरमेणाः प्रणयिनः
समाधानं निद्रा शयनमवनी मूलमशनम् ।
कलासीमा काव्यं जननसुखसीमा सुवदना ।
क्षुधासीमान्नान्तः श्रुतिमुखसीमा हरिकथा ॥२४२॥ [प्रसङ्गा. १०]
यदा विनाशकालो वै लक्ष्यते दैवनिर्मितः ।
प्रेयांस्तेऽहं त्वमपि च मे प्रेयसीति प्रवादस्
त्वं मे प्राणा अहमपि तवास्मीति हन्त प्रलापः ।
त्वं मे ते स्यामहमपि च यत्तच्च नो साधु राधे
व्याहारे नौ नहि समुचितो युष्मदस्मत्प्रयोगः ॥२४५॥
उत्थिता एव पूज्यन्ते जनाः कार्यार्थिभिर्नरैः ।
शत्रुवत्पतितं को नु वन्दते मानवं पुनः ॥२४६॥
धावतः पृथिवीं सर्वां नादत्तमुपतिष्ठति ॥२४७॥
उत्पन्नमापदं यस्तु समाधत्ते स बुद्धिमान।
वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥२४८॥
भवति विफलः प्रारम्भो यत्तदत्र किमद्भुतम् ।
नियतविषयाः सर्वे भावा न यान्ति हि विक्रियां
जनयितुमलं शालेर्बीजं न जातु यवाङ्कुरम् ॥२४९॥
एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत।
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात॥२५०॥
एकाकी गृहसन्त्यक्तः पाणिपात्रो दिगम्बरः ।
सोऽपि सम्बाध्यते लोके तृष्णया पश्य कौतुकम् ॥२५१॥
एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।
कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥२५२॥
द्वाविमौ न विराजेते विपरीतेन कर्मणा ।
गृहस्थश्च न्रारम्भः कार्यवांश्चैव भिक्षुकः ॥२५३॥
आहरयति न स्वस्थो विनिद्रो न प्रबुध्यते ।
वक्ति न स्वेच्छया किञ्चित्सेवकोऽपीह जीवति ॥२५४॥
अन्यूनतैलदीपोऽपि चिरं भद्राणि पश्यति ॥२५५॥
आयत्यां च तदात्वे च यत्स्यादास्वादपेशलम् ।
तदेव तस्य कुर्वीत न लोकद्विष्टमाचरेत॥२५७॥
अन्यचित्तकृते कामे शवयोरिव सङ्गमः ॥२५८॥
इत्यादि प्रचुराः पुरातनकथाः सर्वेभ्य एव श्रुता
अस्माभिस्तु न दृष्टमत्र जलधौ मिष्टं पयोऽपि क्वचित॥२५९॥
धैर्यं हि कार्यं सततं महद्भिः
देहि देहीति जल्पन्ति त्यागिनोऽर्थार्थिनोऽपि च ।
आलोकयन्ति यावत्स्यादस्ति नास्तीति न क्वचित॥२६१॥
एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जामीमहे ॥२६२॥
देवस्याम्बुमुचश्च नास्ति नियमः कोऽप्यानुकूल्यं प्रति
व्यञ्जन्यः प्रियमुत्कटं घटयते जन्तोः क्षणादप्रियम् ।
नीता चैव रसातलं भगवती वेदत्रयी दानवैः ।
गन्धर्वस्य मदालसां च तनयां पातालकेतुच्छलाद्
दैत्येन्द्रोऽपजहार हन्त विषमा वामा विधेर्वृत्तयः ॥२६४॥
किमसाध्यं निश्चयं दृढं दधताम् ।
पद्मभ्रान्त्या चपलमधुपः पुष्पमध्ये पपात ।
गवार्थे ब्राह्मणार्थे च स्वाम्यर्थे स्त्रीकृतेऽथवा ।
स्थानार्थे यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः ॥२६७॥
गावो गन्धेन पश्यन्ति वेदेनैव द्विजातयः ।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥२६८॥ [विक्र्. ११७]
विद्यापि भूषयति तं यदि किं ब्रवीमि ।
शौर्यं च नाम यदि तत्र नमोऽस्तु तस्मै
तच्च त्रयं न च यदीर्ष्यति चित्रमेतत॥२६९॥
रक्षांसि योधा धनदाच्च वित्तम् ।
किं गजेन प्रभिन्नेन राजकर्माण्यकुर्वता ।
स्थूलोऽपि यदि वास्थूलः श्रेयान्कृत्यकरः पुमान॥२७३॥
किं चन्दनैः सकर्पूरैस्तुहिनैः शीतैश्च किम् ।
नोपभोक्तुं न च त्यक्तुं शक्नोति विषयान्जरी ।
नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवर
द्वन्द्वं लोचनतां गत न कनकैरप्यङ्गयष्टिः कृता ।
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥२७६॥ [शृ.श. ४६]
भृत्याः प्रत्युपकारकातरमतेः कुर्युर्न कोऽपि प्रियम् ।
कोकिलोऽहं भवान्काकः समानः कालिमावयोः ।
क्व स दशरथः स्वर्गे भूत्वा महेन्द्रसुहृद्गतः
क्व स जलनिधेर्वेलां बद्ध्वा नृपः सगरस्तथा ।
क्व स करतलाज्जातो वैण्यः क्व सूर्यतनुर्मनुर्
आदीर्घेण चलेन वक्रगतिना तेजस्विना योगिना
नीलाब्जद्युतिनाहिना वरमहं दृश्यो९ न तच्चक्षुषा ।
दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो
मुग्धाक्षीक्षणवीक्षितस्य नहि मे वैद्यो न चाप्यौषधम् ॥२८०॥ [शृ.श. ५५]
आदौ चित्ते ततः काये सतां संजायते जरा ।
अत्युक्तिं रहसि गतं विचित्रमत्येन भाषमाणं च ।
उचितप्रणयमपि नृपं सहसार्या नोपसर्पन्ति ॥२८२॥
प्राप्नोति बन्धमघ दक्षिणसिन्धुराजः ॥२८३॥ [विक्रम १९७]
जलौका केवलं रक्तमाददाना तपस्विनाम् ।
कुलं वृत्तं च शौर्यं च समेतन्न गण्यते ।
दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्ध्या ।
किं रुद्धः प्रियया कयाचिदथवा सख्या तयोद्वेजितः
किं वा कारणगौरवं किमपि यन्नाद्यागतो वल्लभः ।
इत्यालोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजं
माहिषं दधि सशर्करं पयः ।
उपायो न जयो यादृग्रिपोस्तादृङ्न हेतिभिः ।
उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥२९१॥
आगतं विग्रहं विद्वानुपायैः प्रशमं नयेत।
मनुष्यरूपेण मृगाश्चरन्ति ॥२९४॥ [विक्रम १२३]
दमेन हीनं न पुनन्ति वेदा
साङ्ख्यं च योगश्च कुलं च जन्म
कालो दैवं कर्म जीवः स्वभावो
द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।
विषस्य पात्राण्यपि दारुणानि ॥२९७॥ [बृ.नीति. ११०]
नास्तीदृशं संवननं त्रिषु लोकेषु किञ्चन ।
न तथा तप्यते विद्धः पुमान्बाणैस्तु मर्मगैः ।
ये ते तु भृत्या न हिता भवन्ति ॥३०२॥
स्वधीः कलत्रादिषु भौम इज्यधीः ।
सत्यां क्षितौ किं कशिपोः प्रयासैर्
बाहौ स्वसिद्धे ह्युपबर्हणैः किम् ।
नवनीतोपमा वाणी करुणाकोमलं मनः ।
कोकिलानां स्वरो रूपं नारीरूपं पतिव्रता ।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥३१३॥
मित्रेण किं भवति भीतिसशङ्कितेन ।
सिंहव्रतं चरत गच्छत मा विषादं
काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥३१४॥
तज्जीवनं यन्न परस्य सेवा ।
दन्तानामल्पशौचं मलिनवसनता रूक्षता मूर्धजानाम् ।
द्वैसन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः
स्वाङ्गे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्ष्मीम् ॥३१८॥ [अष्टरत्न ३]
निष्पादयति तं प्राज्ञाः प्रवदन्ति नरोत्तमम् ॥३२०॥
रोहते सायकैर्विद्धं छिन्नं रोहति चासिना ।
शय्या शैलशिलागृहं गिरिगुहा वस्त्रं तरुणां त्वचः
सारङ्गाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः कोमलैः ।
येसां निर्झरमम्बुपानमुचितं रत्यै तु विद्याङ्गना
मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवाञ्जलिः ॥३२३॥ [वै.श. ८७]
स्वामिनि गुणान्तरज्ञे गुणवति भृत्येऽनुवर्तिनि कलये ।
वातघ्नं कफनाशनं कृमिहरं दौर्गन्ध्यदोषापहम् ।
ताम्बूलस्य सखे त्रयोदश गुणाः स्वर्गेऽप्यमी दुर्लभाः ॥३२५॥ [शा.प. १४१६]
यः पित्रा समुपात्तानि धनवीर्ययशांसि वै ।
भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवस्
तत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः ।
कामोत्पत्तिवशात्स्वधामनि यदि श्रद्धेयमस्मद्वचः ॥३२७॥ [वै.श. ३९]
सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥३२८॥ [भर्तृ.सं ३१८]
शीघ्रकृत्येषु कार्येषु विलम्बयति यो नरः ।
अर्थतः पुरुषो नारी या नारी सार्थतः पुमान॥३३०॥
दक्षता भद्रता दार्ढ्यं क्षान्तिः क्लेशसहिष्णुता ।
यदुपात्तं यशः पित्रा धनं वीर्यमथापि वा ।
तन्न हापयते यस्तु स नरो मध्यमः स्मृतः ॥३३२॥
प्रियमेवाभिधातव्यं नित्यं सत्सु द्विषत्सु च ।
शिखीव केकामधुरः प्रियवाक्कस्य न प्रियः ॥३३३॥
प्रविशन्ति सदा लक्ष्म्यः सरित्पतिमिवापगाः ॥३३५॥
स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः ।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥३३६॥
के वा न सन्ति तामरसावतंसा
मानमुद्वहतः पुंसो वरमापत्पदे पदे ।
मानहीनं सुरैह्सार्धं विमानमपि सन्त्यजेत॥३३८॥ [भर्तृ.सं. ६४८]
पुनर्दाराः पुनर्वित्तं पुनर्क्षेत्रं पुनः पुनः ।
सत्यं जना वच्मि न पक्षपाताल्
दुःखस्य हेतुर्न च कश्चिदन्यः ॥३४२॥ [शृ.श. ४०]
एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा
तं मोहाच्छ्रयते मदः स च मदाद्दास्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा
स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥३४३॥
सत्यमेव व्रतं यस्य दया दीनेषु सर्वथा ।
कामक्रोधौ वशे यस्य तेन लोकत्रयं जितम् ॥३४४॥ [महानिर्वाणतन्त्र २१]
परं क्षिपति दोषेण वर्तमानः स्वयं तथा ।
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत।
सन्निमित्तं वरं त्यागो विनाशे नियते सति ॥३४६॥
संनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः ।
परिचरितव्याः सन्तो यद्यपि कथयन्ति नो सदुपदेशम् ।
यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥३४८॥
पञ्चभिः सम्भृतः कायो यदि पञ्चत्वमागतः ।
धनहेतोर्य ईहते तस्यानीहा गरीयसी ।
भूयान्दोषो हि वित्तस्य यश्च धर्मस्तदाश्रयः ॥३५१॥
वाचां शौचं च मनसः शौचमिन्द्रियनिग्रहः ।
हृष्यन्ति देवताः सर्वा गयन्ति ऋषयस्तथा ।
नृत्यन्ति पितरः सर्वे ह्यतिथौ गृहमागते ॥३५३॥ [चा.नी.सा. ५१]
दुर्वृत्तं वा सुवृत्तं वा सर्वपापरतं तथा ।
भर्तारं तारयत्येव भार्या धर्मेषु निष्ठिता ॥३५४॥
न भिक्षा दुष्प्रापा पथि मम महारामचरिते
फलैः सम्पूर्णा भूरपि मृगसुचर्मापि वसनम् ।
सुखैर्वा दुःखैर्वा सदृशपरिपाकः खलु सदा
त्रिनेत्रं कस्त्यक्त्वा धनलवमदान्धं प्रणमति ॥३५५॥ [भर्तृ.सं.]
यद्यपि भ्रातरः क्रुद्धा मार्या वा कारणान्तरे ।
शूरस्य यस्य प्रविशेच्च वक्त्रे ।
मीनः स्नानपरः फणी पवनभुङ्मेषश्च पर्णाशनो
गर्ते तिष्ठति मूषिकोऽपि विनिप्ने सिंहो बको ध्यानवान।
शश्वद्भ्राम्यति चक्रिगौः परिचरन्दैवः सदा देवलः
किं तेषां फलं स्ति तेन तपसा तद्भावशुद्धिं कुरु ॥३५८॥ [कविता. ६०]
बाहुवीर्यं बलं राज्ञां ब्रह्मणो ब्राह्मविद्बली ।
नश्यतो युध्यतो वापि तावद्भवति जीवितम् ।
पतिर्भार्यां संप्रविश्य गर्भो भूत्वेह जायते ।
दग्धं दग्धं त्यजति न पुनः काञ्चनं कान्तिवर्णं
छिन्नं छिन्नं त्यजति न पुनः स्वादुताभिक्षुदण्डम् ।
घृष्टं घृष्टं त्यजति न पुनश्चन्दनं चारुगन्धं
येषां भुवनलाभेऽपि निःसीमानो मनोरथाः ॥३६३॥
छादयित्वात्मभावं हि चला हि शठबुद्धयः ।
नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् ।
तर्षच्छेदो न भवति पुरुषस्येह कल्मषात।
निवर्तते तदा तर्षः पापमन्तगतं यदा ॥३६६॥
दिवसे सन्निधानेन पिशुनप्रेरणा प्रभो ।
ईर्ष्यालुना स्वैरिणीव रक्षितुं यदि पार्यते ॥३६७॥
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः ।
प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ॥३६८॥
कं पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि ।
किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ॥३६९॥
आत्मोत्कर्षं न मार्गेत परेषां परिनिन्दया ।
कृतिनोऽपि प्रतीक्ष्यन्ते सहायं कार्यसिद्धये ।
चक्षुष्मानपि नालोकाद्विना वस्तु न पश्यति ॥३७२॥
किं देवकार्याणि नराधिपस्य कृत्वा विरोधं विषयस्थितानाम् ।
तद्देवकार्यं जपयज्ञहोमा यस्याश्रुपाता न पतन्ति राष्ट्रे ॥३७३॥
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् ।
तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ॥३७४॥
किं ते धनैर्बान्धवैर्वापि किं ते
किं ते दारैर्ब्राह्मण यो मरिष्यति ।
न व्याधयो नापि यमः श्रेयः प्राप्तिं प्रतीक्षते ।
न व्याधिर्न विषं तापस्तथान्यद्वापि भूतले ।
सुखाद्बहुतरं दुःखं जीविते नात्र संशयः ।
सामुद्रास्तिमयो नृपाश्च सदृशा एके हृतानम्भसः
स्वस्मादेव कणान्धनस्य जहतो जानन्ति ये दातृताम् ।
सुखं च दुःखं च भवाभवौ च
लाभालाभौ मरणं जीवितं च ।
कृषिका रूपनाशाय अर्थनाशाय वाजिनः ।
शालको गृहनाशाय सर्वनाशाय पावकः ॥३८२॥
एको बहूनां मूर्खाणां मध्ये निपतितो बुधः ।
पद्मः पाथस्तरङ्गाणामिव विप्लवते ध्रुवम् ॥३८३॥
सा प्राज्ञता या न करोति पापं
धर्मात्पैजवनो राजा चिराय बुभुजे भुवम् ।
दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्ध्या ।
नास्ति धर्मसमो बन्धुर्नास्ति धर्मसमा क्रिया ।
नास्ति धर्मसमो देवः सत्यं सत्यं वदाम्यहम् ॥३८९॥ [प्रसङ्गा. १२]
नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् ।
कस्य नो तनुते तन्वि पिपासाकुलितं मनः ॥३९१॥ [कुव. १६७]
नावज्ञया१३ न दातव्यं कस्यचिल्लीलयापि वा ।
एभिर्भूतैः स्मर कति कृताः स्वान्त ते विप्रलम्भाः ।
तस्मादेषां त्यज परिचयं चिन्तय स्वव्यवस्थाम्
नाश्रमः कारणं धर्मे क्रियमाणो भवेद्धि सः ।
अतो यदात्मनोऽपथ्यं परेषां न तदाचरेत॥३९४॥
जलाहतौ विशेषेण वैद्युताग्नेरिव द्युतिः ।
नाभूति काले च फलं ददाति
शिल्पं न मन्त्राश्च तथौषधानि ।
ऐश्वर्यात्सह सम्बन्धं न कुर्याच्च कदाचन ।
गते च गौरवं नास्ति आगते च धनक्षयः ॥४००॥
कन्या वरयते रूपं माता वित्तं पिता श्रुतम् ।
एष स्वभावो नारीणामनुभूय पुरा सुखम् ।
अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥४०३॥
धनेन वाससा प्रेम्णा श्रद्धयामृतभाषणैः ।
सततं तोषयेद्दारान्नाप्रियं क्वचिदाचरेत॥४०४॥ [दं.श. ४४]
का ते कान्ता कस्ते पुत्रः
कस्य त्वं कः कुत आयातः
तत्त्वं चिन्तय तदिह भारत ॥४०५॥ [मोहमुद्गर ८]
ते चापि निपुना वैद्याः कुशलाः संभृतौषधाः ।
ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् ।
पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही ।
कश्चिदाम्रवणं छित्त्वा पलाशांश्च निपिञ्चति ।
देवो राजा गुरुर्भार्या वैद्यनक्षत्रपाठकाः ।
रिक्तहस्ता न गच्छन्ति गते कार्यं न सिध्यति ॥४११॥
त्वन्मुखं कमलं चेति द्वयोरप्यनयोर्भिदा ।
कः श्रद्धास्यति भूतार्थं सर्वो मां तुलयिष्यति ।
पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः ।
सरभसमनोहंस श्रीमन्प्रयासि कथं पुनः ।
हतविधिवशाद्बन्धायान्धो न पश्यति किं भवान॥४१६॥ [नीति.सं. ७७]
पीतः क्रुद्धेन तातश्चरणतलहतो वल्लभो येन रोषाद्
आबाल्याद्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे ।
दूर्वाया भूषणं पत्रं वृक्षाणां भूषणं सुमम् ।
स्ववृत्तिर्भूषणं पुंसां नारीणां भूषणं पतिः ॥४१८॥ [चा. २४]
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि ।
छन्नं सन्तिष्ठते वैरं गूढोऽग्निरिव दारुषु ॥४१९॥
द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी ।
धनहीनो न हीनश्च धनिकः स सुनिश्चयः ।
परकाव्येन कवयः परद्रव्येण चेश्वराः ।
धननाशेऽधिकं दुःखं मन्ये सर्वमहत्तरम् ।
कृतविद्योऽपि बलिना व्यक्तं रागेण रज्यते ।
त्वया नीलोत्पलं कर्णेत्स्मरेणास्त्रं शरासवे ।
त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत।
त्यजेत संचयांस्तस्मात्तज्जं क्लेशं सहेत कः ।
तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव ।
द्वावेव कथितौ सद्भिः पन्थानौ वदतां वर ।
त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत।
निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् ।
दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता ।
मितं स्वपित्यमितं कर्म कृत्वा ।
यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन ।
भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे ।
मूर्खस्तु प्रहर्तव्यः प्रत्यक्षो द्विपदः पशुः ।
मृत्योर्वा गृहमेवैतद्या ग्रामे वसतो रतिः ।
मूलाङ्कुराद्यपि न जातु पुरस्करोति ।
व्यापत्सु शास्त्रविटपी स फलं प्रसूय पुंसः
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत।
भक्तद्वेषो जडे प्रीतिः सुरुचिर्गुरुलङ्घने ।
मुखे कटुकता नित्यं धनिनां ज्वरिणामिव ॥४५०॥
उपकारं करोम्यस्य ममाप्येष करिष्यति ।
भारस्य वेत्ता न तु चन्दनस्य ।
फेनमात्रोपमे देहे जीवे शकुनिवत्स्थिते ।
अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक ॥४५५॥
यदा विनाशो भूतानां दृश्यते कालचोदितः ।
प्रिया वा मधुरा वा तु स्वाम्येष्वेव विराजते ।
श्रीरक्षणे प्रमाणं तु वाचः सुनयकर्कशाः ॥४५७॥
महादेवो देवः सरिदपि च सैवामरसरिद्
गुहा एवागारं वसनमपि ता एव हरितः ।
कियद्वा वक्ष्यामो बटविटप एवास्तु दयिता ॥४५८॥ [भर्तृ.सं. २९९]
प्राप्य कार्यं गरीयस्तु प्रियमुत्सृज्य दूरतः ।
हितमेव हि वक्तव्यं सुहृदा मन्त्रिणा सदा ॥४६०॥
मत्या परीक्ष्य मेधावी बुद्ध्या सम्पद्य चासकृत।
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् ।
यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु ।
मदरक्तस्य हंसस्य कोकिलस्य शिखण्डिनः ।
सर्वः कालवशं याति शुभाशुभसमन्वितः ॥४६७॥
परेण को नाम भवेद्विषादी ॥४६८॥ [शाकुं. ९४]
मधुरेण दृशां मानं मधुरेण सुगन्धिना ।
सहकारोद्गमेनैव शब्दशेषं करिष्यति ॥४६९॥ [काव्या. ३२०]
तमेव भूयो भर्तारं सा प्रेत्याप्यनुगच्छति ॥४७०॥
प्राकृतो हि प्रशंसन्वा निन्दित्वा किं करिष्यति ।
वने काक इवाबुद्धिर्वाशमानो निरर्थकम् ॥४७२॥
तस्मिंस्तथा वर्तितव्यं स धर्मः ।
मयास्योपकृतं पूर्वं ममाप्येष करिष्यति ।
युगान्ते प्रचलेन्मेरुः कल्पान्ते सप्त सागराः ।
भवने सुहृदो यस्य समागच्छन्ति नित्यशः ।
न ते च कर्माणि समारभन्ते ॥४७७॥ [शौनकीनीति ११५]
ऋणस्य शेषं कुनृपस्य सेवा ।
विनाग्निना पञ्च दहन्ति कायम् ॥४७९॥
आत्यन्तिको यत्र न मृत्युहासः ॥४८०॥
स किं पुमान्न पुमान्मे मृतोऽस्ति ॥४८१॥
न वर्णसङ्गे निरतस्य चैव ।
बालातपः प्रेतधूमः स्त्री वृद्धा तरुणं दधि ।
नाश्नन्ति पितरो देवाः क्षुद्रस्य वृषलीपतेः ।
युञ्जीत तद्व्रतिषु साधुषु चेत्प्रसङ्गः ॥४८७॥ [शौनकी ३०]
धर्मः प्रव्रजितस्तपः प्रचलितं सत्यं च दूरं गतं
पृथ्वी बन्ध्यफला जनाः कपटिनो लौल्ये स्थिता ब्राह्मणाः ।
मर्त्याः स्त्रीवशगाः स्त्रियश्च चपला नीचा जना उन्नता
यतः स आस्ते सहषट्सपत्नः ।
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।
पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही ।
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।
ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा ।
प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया ।
यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी ।
विभवे यश्च सन्तुष्टस्तस्य स्वर्ग इहैव हि ॥४९८॥ [प्र. १४]
भोक्तुं पुरुषकारेण दुष्टस्त्रियमिव श्रियम् ।
मार्दवं सर्वभूतानामनसूया क्षमा धृतिः ।
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ।
यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी ।
भस्मना शुद्ध्यते कास्यं ताम्रमम्लेन शुद्ध्यति ।
मा वनं छिन्धि स व्याघ्रं मा व्याघ्रान्नीनशो वनात।
पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च ।
न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥५०६॥
भार्या मूलं गृहस्थस्य भार्या मूलं सुतस्य च ।
भार्या धर्मफलावाप्त्यै भार्या सन्तानहेतवे ॥५०७॥
ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च ।
वध्यन्ते न ह विश्वस्ताः शत्रुभिर्दुर्बला अपि ।
विश्वस्तास्तेषु वध्यन्ते बलवन्तोऽपि दुर्बलैः ॥५०९॥
पुरतः कृच्छ्रकालस्य धीमान्जागर्ति पूरुषः ।
स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हिचित॥५१०॥
यस्तु कृच्छ्रमसम्प्राप्तं विचेता नावबुध्यते ।
ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च ।
वृन्दादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥५१३॥
यत्तु सम्यगुपक्रान्तं कार्यमेति विपर्ययम् ।
पुष्पे गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम् ।
मुखं पद्मदलाकारं वाक्यं चन्दनशीतलम् ।
हृदयं वह्निसदृशं त्रिविधं धूर्तलक्षणम् ॥५१६॥ [चा.नी.सा. ७१]
भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः ।
यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम् ।
ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा ।
यस्य स्त्रीषु रतेः शक्तिर्जीर्णशक्तिश्च भोजने ।
देहेऽधिकबला शकित्स्तस्यारोग्यं प्रचक्षते ॥५२१॥ [प्र. १३]
सज्जमानमकार्येषु सुहृदो वारयन्ति ते ।
प्राप्ते भार्ये परित्राणं प्रीतिविश्रम्भभाजनम् ।
सत्यं वक्तुमशेषमस्ति सुलभा वाणी मनोहारिणी
दातुं दानवरं शरण्यमभयं स्वच्छं पितृभ्यो जलम् ।
पूजार्थं परमेश्वरस्य विमलः स्वाध्याययज्ञः परम्
फलतीह पूर्वसुकृतं विद्यावन्तोऽपि कुलसमुद्भूताः ।
सर्वनाशे च सञ्जाते प्राणानामपि संशये ।
सञ्चये च विनाशान्ते मरणान्ते च जीविते ।
सतां मतमतिक्रम्य योऽसतां वर्तते मते ।
पृथिवी रत्नसम्पूर्णा हिरण्यं पशवः स्त्रियः ।
व्यथयन्ति परं चेतो मनोरथशतैर्जनाः ।
बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।
अबोधोपहताः चान्ये जीर्णमङ्गे सुभाषितम् ॥५३६॥ [नी.श. २]
विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा
पुरुष इह न शक्तः कर्म हीनोऽपि भोक्तुम् ।
फलं धर्मस्य विभवो विभवस्य फलं सुखम् ।
सुखमूलं तु तन्वङ्ग्यो विना ताभिः कुतः सुखम् ॥५३८॥ [शुक. ४०]
वणिगालोक्य निजे हृदि सोत्साहं परिचितग्रहीतारम् ।
हृष्यति तद्धनलुब्धो यद्वत्पुत्रेण जातेन ॥५३९॥
बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः ।
मानो धनं मन्मथ एव धन्वी ।
वाणी सखी वारण एव यानं
कालो वसन्तः कवितैव विद्या ॥५४१॥ [प्र. ११]
बुभुक्षितः किं न करोति पापं
क्षीणा जना निष्करुणा भवन्ति ।
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते ।
शत्रुणा योजयेच्छत्रुं बलिना बलवत्तरम् ।
तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ॥५४५॥
तृणैरावेष्ट्यते रज्जुस्तया नागोऽपि बध्यते ॥५४६॥ [सु. २७४२]
वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः ।
प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
स केवलमवाप्नोति निजजीवितसंक्षयम् ॥५४९॥ [सं.पा. ४२]
प्रणयादुपकाराद्वा यो विश्वसिति शत्रुषु ।
विप्रो वृक्षस्तस्य मूलं च सन्ध्या
वेदः शाखा धर्मकर्माणि पत्रम् ।
अनादरः क इति कृत्यमुपेक्षमाणाः ।
विश्राम्यन्ति महात्मानो यत्र कल्पतराविव ।
प्रविष्टः सर्वभूतानि यथा चरति मारुतः ।
शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा ।
व्यञ्जनं हन्ति वै पूर्वं चैव पयोधरौ ।
प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः ।
सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् ।
शठस्तु समयं प्राप्य नोपाकारं हि मन्यते ।
वरं तमुपकर्तारं दोषदृष्ट्या च दूषयेत॥५६१॥ [सं. पाठोप. ४७]
सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ।
प्रयाति शमनं यस्य तेजस्तेजस्वितेजसाम् ।
विकारं याति नो चित्तं वित्ते यस्य कदाचन ।
विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा
पुरुष इह न शक्तः कर्म हीनोऽपि भोक्तुम् ।
यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः ॥५६९॥
तस्य कुर्याद्वचनं प्रमाणम् ॥५७०॥ [दं.श. २४]
वैराग्ये संचरत्येको नीतौ भ्रमति चापरः ।
शृङ्गारे रमते कश्चिद्भुवि भेदाः परस्परम् ॥५७२॥ [शृ.श. १०२]
हृदि विद्ध इवात्यर्थं यथा सन्तप्यते जनः ।
सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने ।
किं न कैरव लज्जा ते कुर्वतः कोशसंवृतिम् ॥५७६॥ [शा.प. ११३८]
यो यत्र सततं याति भुङ्क्ते चैव निरन्तरम् ।
स तत्र लघुतां याति यदि शक्रसमो भवेत॥५७७॥ [चा.नी. ४२]
देवोऽपि तं वारयितुं न शक्तः ।
अतो न शोचामि न विस्मयो मे
ललाटलेखा न पुनः प्रयाति ॥५७८॥ [महा.ना. २१४?]
ये च मूढतमा लोके ये च बुद्धेः परं गताः ।
वरं न राज्यं न कुराजराज्यं
वरं न मित्रं न कुमित्रमित्रम् ।
वरं न शिष्यो न कुशिष्यशिष्यो
यो जितः पञ्चवर्गेण सहजेनात्म कर्शिना ।
प्रालेयलेशमिश्रे मरुति प्राभातिके च वाति जडे ।
प्राणत्यागे समुत्पन्ने यदि स्यान्मित्रदर्शनम् ।
सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाधीयतां
शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् ।
सद्धियो ह्युपसर्प्यतां प्रतिदिनं तत्पादुका सेव्यतां
बह्यैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥५८४॥ [साधनपञ्चक २]
परस्परं सङ्गतं मनो येषाम् ।
समागमोऽपि विरहं विशेषयति ॥५८५॥ [शृ.श. ६५ (८०)]
रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥५८६॥ [शृ.श. २०]
शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् ।
यो नोद्धतं कुरुते जातु वेषं
प्रतीपं कृष्णमाणो हि नोत्तरेदुत्तरेन्नरः ।
संप्राप्य पण्डितः कृच्छ्रं प्रज्ञया हि विगाहते ।
भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥५९३॥
राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः ।
भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥५९५॥
यो नात्युक्तः प्राह रूक्षं प्रियं वा
यो वा हतो न प्रतिहन्ति धैर्यात।
पापं च यो नेच्छति तस्य हन्तुस्
वित्तं देहि गुणान्वितेषु मतिमन्नान्यत्र देहि क्वचित्
प्राप्तं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं सदा ।
अपि प्रसभमिह ये तैः पूतेयं महात्मभिरुर्वरी ॥५९९॥
एवं विद्वानविद्वांश्च ब्राह्मणो दैवतं परम् ॥६००॥
अपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥६०१॥ [प्रसङ्गाभ २]
वाति गन्धः सुमनसां प्रतिवातं कथञ्चन ।
शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति ।
विद्वानृजुरभिगम्यो विदुषि शठे चाप्रमादिना भाव्यम् ।
ऋजुमूर्खस्त्वनुकम्प्यो मूर्खशठः सर्वथा त्यज्यः ॥६०४॥ [पञ्च
यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत।
राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः ।
विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः ।
शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः ।
श्लाघ्यं जन्म सुरूपता धनिकता नीरोगता प्राज्ञता
स्वाचारस्थिरता दया सुकुलता दाक्षिण्यवद्दारता ।
श्रीशे भक्तिरती च यस्य स नरः स्यान्मानवानन्दवान॥६१२॥ [प्रसङ्गाभ १२]
वयसः परिणामेऽपि यः खलः खल एव सः ।
यो हि वेदे च शास्त्रे च ग्रन्थ धारण तत्परः ।
रुजन्ति हि शरीराणि रोगाः शारीरमानसाः ।
भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः ।
सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।
शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः ।
अग्निभीता च या नारी त्रयः स्वर्गं न यान्ति हि ॥६२०॥ [चाणक्य ९६]
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते ।
लक्ष्म्या लक्ष्मीवतां लोके विकाशिन्या च किं तया ।
वर्धते दयया नित्यं राजन्भूतदयां कुरु ॥६२६॥ [प्र. १७]
प्रतिदिवसं याति लयं वसन्तवाताहतेव शिशिरश्रीः ।
रम्या रामा यदि कुलवधूस्त्यागभोगाय वित्ते
वक्त्रे वाणी सरलकविता केशवे चित्तवृत्तिः ।
सद्भिः सङ्गो वपुषि दृढता सत्कुले जन्म पुंसां
धिग्धिग्दूरादनशनपथं सर्गमेकान्तदुर्गम् ॥६२८॥ [प्र. १३]
पूर्णापूर्णे माने परिचितजनवञ्चनं तथा नित्यम् ।
विवेकिनमनुप्राप्ता गुणा यान्ति मनोज्ञताम् ।
पूर्णेन्दुमालोक्य यथा प्रीतिमाञ्जायते नरः ।
एवं यत्र प्रजाः सर्वा निर्वृत्तास्तच्छशिव्रतम् ॥६३१॥
सत्कृता लालिताश्चैव वैदेहि प्राकृताः स्त्रियः ।
दरिद्रमवमन्यन्ते भर्तारं न तु सत्स्त्रियः ॥६३२॥ [भाव. २०]
कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम् ।
स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥६३३॥
कुमुदान्येव शशाङ्कः स्वैता बोधयति पङ्कजान्येव ।
निर्गत्य न विशेद्भूयो महतां दन्तिदन्तवत।
कूर्मग्रीवेव नीचानां वच आयाति याति च ॥६३५॥
बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते ।
कुपुत्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः ।
जीवितं न शरीरेण जात्यैव सह जायते ।
उभे सह विवर्तेते उभे सह विनश्यतः ॥६३८॥ (नोतिनिन्देश्रुत्)
चिकित्सकाः सन्ति न चौषधानि ।
न होममन्त्रा न च मङ्गलानि
भार्या हि परमो नाथः पुरुषस्येह पठ्यते ।
धत्ते चूतलता नवं किसलयं पुंस्कोकिलास्वादितम् ।
इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घकायास्तते
चैलान्तेन तिरोदधे स्तनतटं बिम्बाधरं पाणिना ॥६४१॥ [कुव. ६७]
विज्ञात दोषेषु दधाति दण्डम् ।
जानाति मात्रां च तथा क्षमां च
एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः ।
कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् ।
न किञ्चित्सहसा कार्यं कार्यं कार्यविदा क्वचित।
दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैर्
ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम् ।
किं कर्पूरशलाकया यदि दृशोः पन्थानमेति प्रिया
एकान्ते सुखमास्यता परतरे चेतः समाधीयतां
प्राणात्मा सुसमीक्ष्यतां जगदिदं तद्व्यापितं दृश्यताम् ।
प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मनास्थीयताम् ॥६४८॥
उज्जृम्भते जगति वैरमिति प्रसिद्धम् ।
ते पिबन्तः कषायांश्च सर्पींषि विविधानि च ।
न कालस्य प्रियः कश्चिन्न द्वेष्योऽपि कपीश्वर ।
एकाकिना न गन्तव्यं यदि कार्यशतं भवेत।
एककुक्कुटमात्रेण ब्राह्मणः परिरक्षितः ॥६५४॥ [चा.नी. ५६]
न दानैः शुध्यते नारी नोपवासशतैरपि ।
न दिष्टमप्यतिक्रान्तुं शक्यं भूतेन केनचित।
भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे ।
भार्या यस्य गृहे नित्यमतीव परिगर्विता ।
तस्य लक्ष्मीः क्षयं याति कृष्णपक्षे यथा शशी ॥६५९॥
न कर्मणा लभ्यते चिन्तया वा
भोक्तुं पुरुषकारेण दुष्टस्त्रियमिव श्रियम् ।
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च ।
कुर्मः किल्बिषमेतदेव हृदये कृत्वेति कौतूहलात्
स्वैरिण्यः क्षितिपाश्च धिक्चपलतां क्रौर्यं च कुर्युः सकृत।
पापाक्रान्तधियो भवन्त्यथ यथा नान्त्यान्स्पृशन्त्योऽपि ता
दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् ।
शिरसा धार्यमाणोऽपि खलः खलखलायते ॥६६६॥
जीवन्तं मृतवन्मन्ये देहिनं धर्मवर्जितम् ।
न वाचा दुर्गमः पारः कार्याणां राक्षसाधम ।
कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान॥६६८॥
सुखं स्वपन्तीह निराधयः प्रजाः ।
चिता दहति निर्जीवं चिन्ता जीवं दहत्यहो ।
न कुलं वृत्ति हीनस्य प्रमाणमिति मे मतिः ।
दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव ।
न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः ।
व्याधो निहन्ति तु बकं प्रभवन्ति ते ते
एतल्लब्धमिदं च लभ्यमधिकं च मूल्यलभ्यं ततो
लभ्यं चापरमित्यनारतमहो लभ्यं धनं ध्यायसि ।
पूर्वं सम्मानना यत्र पश्चाच्चैव विमानना ।
धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् ।
वृद्धौ च वर्धयति पयसां नाथम् ।
धनिनां श्रियमनुभवन्त्यन्ये ॥६७९॥ [पञ्च. ५.]
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् ।
किं कुलेन विशालेन शीलमेवात्र कारणम् ।
कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ॥६८१॥ [शा.प. १४८५]
न हि कस्य प्रियः को वा विप्रियो वा जगत्त्रये ।
नापितस्य गृहे क्षौरं पाषाणे गन्धलेपनम् ।
आत्मरूपं जले पश्यन्शक्रस्यापि श्रियं हरेत॥६८४॥
पुन्नाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः ।
धर्माख्याने श्मशाने च रोगिणां या मतिर्भवेत।
कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते ।
न स्वे सुखे वै कुरुते प्रहर्षं
नान्यस्य दुःखे भवति प्रतीतः ।
तिलार्धं स्वीयभागश्च निःसारं बदरीफलम् ।
आहारात्परतः श्रेयो धूलिः परगृहादपि ॥६८९॥ [चाणक्य ६६]
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् ।
न स्कन्दते न व्यथते न विनश्यति कर्हि चित।
दोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित।
येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ॥६९२॥
किं करिष्यति संसर्गः स्वभावो दुरतिक्रमः ।
पश्याम्रफलसंसर्गी कषायो मधुरः कुतः ॥६९३॥
वध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि ।
विश्वस्तास्तेषु वध्यन्ते बलवन्तोऽपि दुर्बलैः ॥६९६॥
काले मृदुर्यो भवति काले भवति दारुणः ।
नान्ये जनाः कर्म जानन्ति किञ्चित।
मदरक्तस्य हंसस्य कोकिलस्य शिखण्डिनः ।
न स्पृशत्यायुधं जातु न स्त्रीणां स्तनमण्डलम् ।
कोशमूलो हि राजेति प्रवादः सार्वलौकिकः ।
त्वमेव धातुः पूर्वोऽसि त्वमेव प्रत्ययः परः ।
क्षीरिण्यः सन्तु गावो भवतु वसुमती सर्वसम्पन्नसस्या
पर्जन्यः कालवर्षी सकलजनमनोनन्दिनो वान्तु वाताः ।
मोदन्तां जन्मभाजः सततमभिमता ब्राह्मणाः सन्तु सन्तः
श्रीमन्तः पान्तु पृथ्वीं प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः ॥७०६॥
<DOC_END>
<DOC_START>
दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥
<DOC_END>
<DOC_START>
अयं निजः परो वेति गणना लघुचेतसाम्।
क्षणशः कणशश्चैव विद्यां अर्थं च साधयेत्।
अश्वस्य भूषणं वेगो मत्तं स्याद गजभूषणम्।
चातुर्यं भूषणं नार्या उद्योगो नरभूषणम्॥३
क्षुत्तृडाशाः कुटुम्बिन्या मयि जीवन्ति नान्यगाः।
तासामाशा महासाध्वी कदाचिन्मां न मुञ्चति॥४
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥५
नाक्षरं मंत्रहीनं च न च मूलमनौ़षधम्।
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः॥६
यस्याद्धारणसंयुक्तं स धर्म इति निश्चयः॥७
आहारनिद्राभयमैथुनं च सामान्यमेतत् पशूनां नराणाम्।
धर्मो हि तेषां अधिकोविशेषो धर्मेण हीनाः पशुभिः समानाः॥८
सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत्।
यद्भूतहितमत्यन्तं एतत् सत्यं मतं मम्॥९
सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम्।
प्रियं च नानृतम् ब्रूयादेषः धर्मः सनातनः॥१०
दूरस्थोऽपि न दूरस्थः यो यस्य मनसि स्थितः ।
यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥ ११
कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः ।
स्वराष्ट्रे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥ १२
विदेशेषु धनं विद्या व्यसनेषु धनं मतिः ।
परलोके धनं धर्मः शीलं सर्वत्र वै धनम् ॥ १३
सुकृते दुष्कृते चैव। चत्वारः समभागिनः।। १४
गते शोको न कर्तव्यो भविष्यं नैव चिंतयेत् ।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः॥ १५
अग्निशेषमृणशेषं शत्रुशेषं तथैव च ।
पुनः पुनः प्रवर्धेत तस्मात् शेषं न कारयेत्॥ १६
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा प्रदीयते ।।१७
नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ १८
वनानि दहतो वह्नेः सखा भवति मारूतः ।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥१९
विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय ।
खलस्यः साधोः विपरीतम् एतत् ज्ञानाय दानाय च रक्षणाय ॥ २०
दुर्बलस्य बलं राजा, बालानां रोदनं बलम् ।
बलं मूर्खस्य मौनित्वं, चोराणाम् अनृतं बलम्॥ २१
अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।
अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ॥ २२
अष्टादशपुराणानां सारं व्यासेन कीर्तितम् ।
तं देवनिर्मितं देशं हिंदुस्थानं प्रचक्षते ॥२४
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥२५
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ २६
क्षणशः कणश्चैव विद्यामर्थं च साधयेत् ।
क्षणे नष्टे कुतो विद्या, कणे नष्टे कुतो धनम् ॥ २७
अश्वस्य भूषणं वेगो मत्तं स्याद्गजभूषणं ।
चातुर्यं भूषणं नार्याः उद्योगो नरभूषणम् ॥ २८
कुलस्यार्थे त्यजेदेकम् ग्राम्स्यार्थे कुलन्त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ २९
अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् ।
अयोग्यः पुरूषः नास्ति योजकस्तत्र दुर्लभः ॥ ३०
धारणाद्धर्म इत्याहुः धर्मो धारयते प्रजाः ।
यस्याद्धारणसंयुक्तं स धर्म इति निश्चयः ॥ ३१
आहारनिद्राभयमैथुनं च सामान्यमेतद्धि नृणां पशूनां ।
(आहारनिद्राभयमैथुनानि सामान्यमेतानि नृणां पशूनां ।)
धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः ॥३२
आहारनिद्राभयमैथुनानि चत्वारि चिह्नानि वसन्ति देहे ।
ज्ञानं नराणामधिकं हि लोके ज्ञानेन (तेनैव) हीनः पशुभिस्समानः ॥
सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत् ।
यद्भूतहितमत्यन्तम् एतत् सत्यं मतं मम ॥ ३३
न राज्यं नैव राजासीत् न दण्ड्यो न च दाण्डिकः ।
धर्मेणैव प्रजास्सर्वा रक्षन्ति स्म परस्परम् ॥ ३४
सत्यं ब्रूयात् प्रियम् ब्रूयान्न ब्रूयात् सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयादेषः धर्मः सनातनः ॥ ३५
अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरियसी ॥३६
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥३७
मूर्खहस्ते न दातव्यं एवं वदति पुस्तकम् ॥३८
श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन ।
उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् ।
विरक्तस्य तृणं भार्या निस्पृहस्य तृणं जगत् ॥४०
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥४१
दुर्जनेन समं सख्यं प्रीतिं चापि न कारयेत् ।
उष्णो दहति चांगारः शीतःकृष्णायते करम् ॥४२
द्राक्षा म्लानमुखी जाता शर्करा चाश्मतां गता ।
सुभाषितरसस्याग्रे सुधा भीता दिवं गता ॥ ४३
चिन्तनीया हि विपदामादावेव प्रतिक्रिया ।
न कूपखननं युक्तं प्रदीप्ते वान्हिना गृहे ॥४४
एकं विषरसं हन्ति शस्त्रेणैकश्च वध्यते ।
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविप्लवः ॥४५
आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने ।
दीर्घमायुर्बलं वीर्यं तेजस्तेषां च जायते ॥४६
ज्येष्ठत्वं जन्मना नैव गुणैर्ज्येष्ठत्वमुच्यते ।
गुणाद्गुरुत्वमायाति दुग्धं दधि घॄतं क्रमात् ॥४७
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मॄगाः ॥४८
स्थानभ्रष्टाः न शोभते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥ ४९
उदये सविता रक्तो रक्तश्चास्तमये तथा ।
सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥ ५०
शान्तितुल्यं तपो नास्ति तोषान्नपरमं सुखम् ।
नास्ति तृष्णापरो व्याधिर्न च धर्मो दयापरः ॥ ५१
हंसः श्वेतो बकः श्वेतो को भेदो बकहंसयोः ।
नीरक्षीरविवेके तु हंसः हंसो बको बकः ॥५२
काकः कृष्णः पिकः कृष्णः को भेदः काकपिकयोः ।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥ ५३
अहं च त्वं च राजेन्द्र लोकनाथावुभावपि ।
बहुव्रीहिरहं राजन् षष्ठीतत्पुरूषो भवान् ॥५४
सुलभाः पुरूषाः राजन् सततं प्रियवादिनः।
अप्रियस्य च सत्यस्य वक्ता श्रोता च दुर्लभः॥५५
दुर्जनः प्रियवादीति नैतद् विश्वासकारणम् ।
मधुतिष्ठति जिव्हाग्रे हृदये तु हलाहलम्॥५६
सर्पदुर्जनोर्मध्ये वरं सर्पो न दुर्जनः ।
सर्पः दंशती कालेन दुर्जनस्तु पदे पदे ॥५७
वरमेको गुणी पुत्रो न च मूर्खशतान्यपि ।
एकचन्द्रस्तमो हन्ति न च तारागणोऽपि च ॥ ५८
विदेशेषु धनं विद्या व्यसनेषु धनं मतिः ।
परलोके धनं धर्मः शीलं सर्वत्र वै धनम् ॥ ५९
विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः ।
आवेष्टितं महासर्पैश्चंदनं न विषायते ॥ ६०
शमार्थं सर्वशास्त्राणि विहितानि मनीषिभिः ।
स एव सर्वशास्त्रज्ञः यस्य शान्तं मनः सदा ॥६१
वृक्षाञ्छित्वा पशून्हत्वा कृत्वा रुधिरकर्दमम् ।
यद्येवं गम्यते स्वर्गः नरकः केन गम्यते ॥६२
वनस्पतेरपक्वानि फलानि प्रचिनोति यः ।
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥६३
कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥६४
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥६५
गृहं गृहमटन् भिक्षुः शिक्षते न तु याचते ।
अदत्वा मादृशो मा भूः दत्वा त्वं त्वादृशो भव ॥६६
इदमेव हि पाण्डित्यं चातुर्यमिदमेव हि ।
घटं भिद्यात् पटं छिन्द्यात् कुर्यात् रासभरोहणम् ।
येन केनाप्युपायेन प्रसिद्धः पुरुषो भवेत् ॥६८
उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् ।
प्रायः कूपस्तृषां हन्ति न कदापि तु वारिधिः ॥६९
इत्थं विचिन्तयति कोशगते द्विरेफे ।
लभेत सिकतासु तैलमपि यत्नतः पीडयन् ।
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।
कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ ७३
हयाश्च नागाश्च वहन्ति देशिताः ॥ ६४
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥६६
रत्नैर्महाहैः तुतुषुर्न देवा: न भेजिरे भीमविषेण भीतिम् ।
अमृतं विना न प्रययुर्विरामं न निश्चिदार्थात् विरमन्ति धीराः ॥६७
घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् ।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥६८
तॄणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणतानि सर्वतः ।
स्वभाव एवोन्नतचेतसामयं महान्महत्स्वेव करोति विक्रमम् ॥६९
प्रदोषे दीपकश्चन्द्रः प्रभाते दीपको रविः ।
त्रैलोक्ये दीपको धर्मः सुपुत्रः कुलदीपकः ॥७०
प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनं ।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति ॥७१
अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम् ।
प्रारब्धस्य अन्तगमनं द्वितीयं बुद्धीलक्षणम् ॥ ७२
लौकिकानां हि साधूनाम् अर्थं वागनुवर्तते ।
ऋषीणां पुनरादयानां वाचम् अर्थोऽनुधावति ॥७३
परोपदेशवेलायां शिष्टाः सर्वे भवन्ति वै ।
विस्मरन्तीह शिष्टत्वं स्वकार्ये समुपस्थिते ॥७४
निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषमस्तु न चाप्यस्तु फणाटोपो भयङ्करः ॥७५
गुणवन्तः क्लिश्यन्ते प्रायेण भवन्ति निर्गुणाः सुखिनः ।
बन्धनमायान्ति शुका यथेष्टसंचारिणः काकाः ॥७६
अभिमानो धनं येषां चिरजीवन्ति ते जनाः ।
अभिमानविहीनानां किं धनेन किमायुषा ॥७७
नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः ।
नास्ति रागसमं दुःखम् नास्ति त्यागसमं सुखम् ॥७८
त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सहोदराश्च ।
तमर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके पुरुस्य बन्धुः ॥७९
यस्तु सञ्चरते देशान् सेवते यस्तु पण्डितान् ।
कुसुमं वर्णसम्पन्नं गन्धहीनं न शोभते ।
न शोभते क्रियाहीनं मधुरं वचनं तथा ॥८१
उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् ।
सोत्साहस्य च लोकेषु न किंचिदपि दुर्लभम् ॥८२
यस्य नास्ति स्वयं प्रज्ञा शात्रं तस्य करोति किम् ।
लोचनाभ्याम् विहीनस्य दर्पणः किं करिष्यति ॥८३
व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम् ।
आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम् ॥८४
पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः ।
जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे ॥८५
नरस्याभरणं रूपं रूपस्याभरणं गुणः ।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥८६
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति ।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात् ॥८७
चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥८९
विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।
व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥९०
पिपीलिकार्जितं धान्यं मक्षिकासञ्चितं मधु ।
लुब्धेन सञ्चितं (लुब्धेनोपार्जितं) द्रव्यं समूलं हि (च) विनश्यति ॥९१
ज्येष्ठत्वं जन्मना नैव गुणैर्ज्येष्ठत्वमुच्यते ।
गुणाद्गुरुत्वमायाति दुग्धं दधि घृतं क्रमात् ॥९२
कर्ता कारयिता चैव प्रेरकश्चानुमोदकः ।
सुकृते दुष्कृते चैव चत्वारः समभागिनः ॥९३
अश्वस्य भूषणं वेगं मत्तं स्याद्गजभूषणम् ।
चातुर्यं भूषणं नार्या उद्योगं नरभूषणम् ॥९४
भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात् ।
दुग्धं ददति लोकेभ्यः गावो लोकस्य मातरः ॥ ९५
सुप्तंव प्रमत्तं विषमस्थितं वा ।
रक्षन्ति पुण्यानि पुराकृतानि ॥ ९६
चत्वारि तस्य वर्धन्ते आयुर्विद्यायशोबलम् ॥९७
भार्गवेण हता माता एक जायाश्च पाण्डवाः ।
परदाररतः कृष्णो न देव चरितं चरेत् ॥९८
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मुर्खैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥९९
वरमेको गुणी पुत्रः न च मुर्खश्शतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न च तारा गणोऽपि च ॥१००
सम्पूर्णकुम्भो न करोति शब्दम् ।
अर्धो घटो घोषमुपैति नूनम् ।
विद्वान्कुलीनो न करोति गर्वं ।
लालयेत् पञ्चवर्षाणि दशवर्षाणि ताडयेत् ।
प्राप्तेप तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥१०२
सत्कुले योजयेत् कन्यां पुत्रं विद्यासु योजयेत् ।
व्यसने योजयेच्छत्रुम् इष्टं धर्मेण योजयेत् ॥१०३
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥१०४
अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।
अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम् ॥१०५
आशायाः ये दासास्ते दासाः सर्वलोकस्य ।
आशा येषां दासी तेषां दासायते लोकः ॥१०६
वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता ।
निर्दम्भता सदाचारे स्वभावोऽयं महात्मनाम् ॥१०७
वस्त्रेण वपुषा वाचा विद्यया विनयेन च ।
वकारैः पञ्चभिर्हीनः नरो नायाति गौरवम् ॥१०८
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षण त्यागे कुतो विद्या कण त्यागे कुतो धनम् ॥१०९
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।
ज्ञानलवलेशदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥११०
लघ्वी पुरा वृद्धिमती च पश्चात् ।
यस्मिन् देशे न सम्मानो न प्रीतिर्न च बन्धवाः ।
न च विद्यागमः कश्चिन्न तत्र दिवसं वसेत् ॥११३
अष्टादशपुराणानं सारं व्यासेन कीर्तितम् ।
परोपकारः पुण्याय पापाय परपीडनम् ॥११४
वनानि दहतो वह्नेः सखा भवति मारुतः ।
स एव दीप नाशाय कृशे कस्यास्ति सौहृदम् ॥११५
गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा ।
पापं तापं च दैन्यं च घ्नन्ति सन्तो महाशयाः ॥११६
न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥११७
न देवा दण्डमादाय रक्षन्ति पशुपालवत् ।
यं तु रक्षितुमिच्छन्ति सद्बुध्या योजयन्ति तम् ॥११८
प्रदोषे दीपकश्चन्द्रः प्रभाते दीपको रविः ।
त्रैलोक्ये दीपको धर्मः सुपुत्रः कुलदीपकः ॥११९
पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः ।
न पापफलमिच्छन्ति पापं कुर्वन्ति यत्नतः ॥१२०
सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् ।
प्रियञ्च नानृतं ब्रूयात् एष धर्मस्सनातनः ॥१२१
’गु’ शब्दस्तु अन्धकारः ’रु’ शब्दस्तु तन्निवारकः ।
गच्छत् पिपीलिका याति योजनानां शतान्यपि ।
अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ॥१२३
पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥१२४
दीनगोचरदयापरिहीनं यस्य मानसमतीव कठोरम् ।
तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः ॥१२५
यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति ।
तस्य दिनकरकिरणैर्नलिनीदलमिव विकास्यते बुद्धिः ॥१२६
मूलं भुजङ्गैः शिखरं प्लवङ्गैः ।
शाखा विहङ्गैः कुसुमं च भृङ्गैः ।
नरस्याभरणं रूपं रूपस्याभरणं गुणाः ।
गुणस्याभरणम् ज्ञानं ज्ञानस्याभरणम् क्षमा ॥१२८
जिह्वे प्रमाणं जानीहि भाषणे भोजनेऽपि च ।
उत्तमाः आत्मना ख्याताः पितुः ख्याताः च मध्यमाः ।
अधमाः मातुलात् ख्याताः श्वशुरात् च अधमाधमाः ॥ १३०
उद्यमस्साहसं धैर्यं बुद्धिश्शक्तिः पराक्रमः ।
षडेते यत्र वर्तन्ते तत्र देवाः सहायकृत् ॥ १३१
ईक्षणं द्विगुणं प्रोक्तं भाषणस्येति वेधसा ।
अक्षि द्वे मनुष्याणां जिह्वात्वैकेव निर्मिता ॥१३२
उदये सविता रक्तः रक्तश्चास्तमये तथा ।
सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥१३३
पुनः पुनः प्रवर्धन्ते तस्मात् शेषं न रक्षयेत् ॥१३४
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्त स्य सिंहस्य प्रविशन्ति मुखे मृगाः॥१३५
शिशौ प्रविशतः प्रायः प्रतिवेशिगुणागुणौ ।
मन्त्रे तीर्थे द्विजे दैवे दैवज्ञे भेषजे गुरौ ।
यादृशी भावना यत्र सिद्दिर्भवति तादृशी ॥१३७
गीती शीघ्री शिरः कम्पी यथालिखितपाठकः ।
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु ।
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ॥ १३९
अद्यैव वा मरणमस्तु युगान्तरे वा ।
न्यायात् पथः प्रविचलन्ति पदं न धीराः ॥१४०
दानेन पाणिर्न तु कङ्कणेन ।
स्नानेन शुद्धिर्न तु चन्दनेन ।
मानेन तृप्तिधर्न तु भोजनेन ।
ज्ञानेन मुक्तिर्न तु पूजनेन ॥१४१
त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।
कुरु पुण्यमहोरात्रं स्मर सर्वेश्वरं सदा ॥१४२
नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
विदेशेषु धनं विद्या व्यसनेषु धनं मतिः ।
परलोके धनं धर्मः शीलं सर्वत्र वै धनम् ॥१४४
छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलन्त्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥१४५
वृथा वृष्टिः समुद्रेषु वृथा तृप्तुस्य भोजनम् ।
वृथा दानं समर्थस्य वृथा दीपो दिवापि च ॥१४६
निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
नहि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥१४७
केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः ।
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते ।
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १४८
तैलाद्रक्ष जलाद्रक्ष रक्ष मां श्लथबन्धनात् ।
आखुभ्यः परहस्तेभ्यः एवं वदति पुस्तकम् ॥१४९
व्याघ्री यथा हरेत् पुत्रान् दंष्ट्राभ्यां न च पीडयेत् ।
भीता पतनभेदाभ्यां तद्वद्वर्णान् प्रयोजयेत् ॥१५०
लक्ष्मीर्वसति जिह्वाग्रे जिह्वाग्रे मित्र बान्धवाः ।
जिह्वाग्रे बन्धनं प्राप्तं जिह्वाग्रे मरणं ध्रुवम् ॥१५१
मज्जयेदर्णवेऽशङ्कं कण्ठे बद्ध्वा दृढां शिलाम् ॥१५२
शीलं शौर्यमनालस्यं पाण्डित्यं मित्र संग्रहः ।
एकमेवाक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् ।
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्वा चानृणीभवेत् ॥१५४
चिन्तनीया हि वीपदामादावेव प्रतिक्रिया ।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ॥१५५
रे रे चातका! सावधानमनसा मित्र क्षणं श्रूयताम् ।
अम्बोधा बहवो वसन्ति गगने सर्वेऽपि नैकादृशा ॥१५६
केचित् वृष्टिभिराद्रयन्ति धरणिं गर्जन्ति केचिद्वृथा ।
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥१५७
यद्यदालिखति मनः आशावर्तिकाभीः हृदयफलके ।
तत्तद्बाल इव विधिर्निभृतं हसित्वा प्रोञ्छति ॥१५८
किं मित्रमन्ते सुकृतं न लोकाः।
किं ध्येयमीशस्य पादं न शोकाः ।
किं जल्पनीयं हरिनाम नान्यत् ॥१५९
अहन्यहनि भूतानि गच्छन्तीह यमालयम् ।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥१६०
लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते ।
लोभात् मोहश्च नाशश्च लोभः पापस्य कारणम् ॥१६१
पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः ।
सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य॥१६३
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
चक्षुः श्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते ॥१६४
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये ।
आयासायापरं कर्म विद्याऽन्या शिल्पनैपुणम् ॥१६५
नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः ।
पण्डितानाञ्च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥१६६
स्वभावसुन्दरं वस्तु न संस्कारमपेक्षते ।
अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः ।
सर्वतः सारमादद्यात् पुष्पेभ्य इव शट्पदः ॥१६८
गुणाः सन्ति नराणां चेद्विकसन्त्येव ते स्वयम् ।
न हि कस्तूरिकामोदः शपथेन निवार्यते ॥१६९
कृतस्य करणं नास्ति मृतस्य मरणं तथा ।
गतस्य शोचनं नास्ति ह्येतद्वेदविदां मतम् ॥१७०
धर्मो यशो नयो दाक्ष्यं मनोहारिसुभाषितम् ।
आत्मानं रथिनं विद्धि शरीरं रथमेव च ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥१७२
आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।
कालेन पादमादत्ते पादं सब्रह्मचारिभिः ॥१७३
अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ।
अवज्ञया कृतं हन्याद्दातारं नात्र संशयः ॥१७४
श्रेयांसि बहु विघ्नानि भवन्ति महतामपि ।
अश्रेयसि प्रवृत्तानां दूरं यान्ति विनायकाः ॥१७५
रोहते सायकैर्विद्धं वनं परशुना हतम् ।
वाचा दुरुक्तं भीभत्सं न संरोहति वाक्क्षतम् ॥१७६
सर्वदा सर्वयत्नेन पुत्रे शिष्यवदाचरेत् ॥१७७
उपभुक्तं विषं हन्ति विषयाः स्मरणादपि ॥१७८
अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी ॥१७९
दुःखे दुःखाधिकान्पश्येत् सुखे पश्येत्सुखाधिकान् ।
आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् ॥१८१
वैद्यानां शारदी माता पिता च कुसुमाकरः ।
यमदम्ष्ट्रा स्वसा प्रोक्ता हितभुक् मितभुक् रिपुः ॥१८२
रिक्तपाणी न पश्येत राजानं दैवतं गुरुम् ।
दैवज्ञं पुत्रकं मित्रं फलेन फलमादिशेत् ॥१८३
शम्भुरम्बरहीनोऽपि सर्वज्ञः किं न कथ्यते ॥१८४
सर्वतीर्थमयी माता सर्वदेवमयः पिता ।
मातरं पितरं तस्मात् सर्वयत्नेन पूजयेत् ॥१८५
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमित्यूचुः दानमेकं कलौ युगे ॥१८६
किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् ।
यदेव रोचते यस्मै तद्भवेत्तस्य सुन्दरम् ॥१८७
न हि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित् ॥१८८
यद्यदालिखति मनः आशावर्तिकाभीः हृदयफलके ।
तत्तद्बाल इव विधिर्निभृतं हसित्वा प्रोञ्छति ॥ १८८
किं मित्रमन्ते सुकृतं न लोकाः ।
किं ध्येयमीशस्य पादं न शोकाः ।
किं जल्पनीयं हरिनाम नान्यत् ॥ १८९
अहन्यहनि भूतानि गच्छन्तीह यमालयम् ।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥ १९०
पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः ।
सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ १९२
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते ॥ १९३
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये ।
आयासायापरं कर्म विद्याऽन्या शिल्पनैपुणम् ॥ १९४
शुभं करोति कल्याणम् आरोग्यं धनसम्पदः ।
शत्रुबुद्धि विनाशाय दीपज्योतिर्नमोस्तुते ॥ १९५
नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः ।
पण्डितानाञ्च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥ १९६
स्वभावसुन्दरं वस्तु न संस्कारमपेक्षते ।
अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः ।
सर्वतः सारमादद्यात् पुष्पेभ्य इव शट्पदः ॥१९८
गुणाः सन्ति नराणां चेद्विकसन्त्येव ते स्वयम् ।
न हि कस्तूरिकामोदः शपथेन निवार्यते॥१९९
कृतस्य करणं नास्ति मृतस्य मरणं तथा ।
गतस्य शोचनं नास्ति ह्येतद्वेदविदां मतम् ॥२००
आत्मानं रथिनं विद्धि शरीरं रथमेव च ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥२०२
आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।
कालेन पादमादत्ते पादं सब्रह्मचारिभिः ॥२०३
श्रेयाम्सि बहु विघ्नानि भवन्ति महतामपि ।
अश्रेयसि प्रवृत्तानां दूरं यान्ति विनायकाः ॥२०४
रोहते सायकैर्विद्धं वनं परशुना हतम् ।
वाचा दुरुक्तं भीभत्सं न सम्रोहति वाक्क्षतम् ॥२०५
सर्वदा सर्वयत्नेन पुत्रे शिष्यवदाचरेत् ॥२०६
उपभुक्तं विषं हन्ति विषयाः स्मरणादपि ॥२०७
अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी ॥२०८
दुःखे दुःखाधिकान्पश्येत् सुखे पश्येत्सुखाधिकान् ।
आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् ॥ २१०
वैद्यानां शारदी माता पिता च कुसुमाकरः ।
यमदंष्ट्रा स्वसा प्रोक्ता हितभुक् मितभुक् रिपुः ॥२११
रिक्तपाणीर्नपश्येत राजानं दैवतं गुरुम् ।
दैवज्ञं पुत्रकं मित्रं फलेन फलमादिशेत् ॥२१३
शम्भुरम्बरहीनोऽपि सर्वज्ञः किं न कथ्यते ॥२१४
सर्वतीर्थमयी माता सर्वदेवमयः पिता ।
मातरं पितरं तस्मात् सर्वयत्नेन पूजयेत् ।
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमित्यूचुः दानमेकं कलौ युगे ॥२१५
किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् ।
यदेव रोचते यस्मै तद्भवेत्तस्य (भवेत्तत्तस्य) सुन्दरम् ॥२१६
न हि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित् ॥२१७
वृक्षान् छित्वा पशून्हत्वा कृत्वा रुदिरकर्दमम् ।
यद्येवं गम्यते स्वर्गे नरकः केन गम्यते ॥२१८
वनस्पतेरपक्वानि फलानि प्रचिनोति यः ।
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥२१९
कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥२२०
वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥२२१
जठरं पूरयेदर्धं तदर्धं तु जलेन च|
रोगाश्च शत्रव इव प्रहरन्ति देहम्
चण्डालो वा श्वपाको वा काले यः कश्चिदागतः।
अन्नेन पूजनीयः स्यात् परत्र हितमिच्छता॥ २२४
दुर्जनं सज्जनं कर्तुमुपायो न हि भूतले|
न दुर्जनः साधुदशामुपैति बहुप्रकारैरपि शिक्ष्यमाणः|
न कश्चिदपि जानाति किं कस्य श्वो भविष्यति ।
अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥ २२७
नदीनां शस्त्रपाणीनां नखिनां शृंगिणां तथा|
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च २२८
कामक्रोधौ तथा लोभं स्वादु शृङ्गारकौतुके ।
अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत्॥२२९
वस्त्रदानफलं राज्यं पादुकाभ्यां च वाहनं|
यथा छायातपौ नित्यं सुसम्बद्धौ निरन्तरं |
तथा कर्म च कर्ता च सम्बद्धौ सर्वजन्तुषु २३१
एकवर्णं यथा दुग्धं भिन्नवर्णासु धेनुषु ।
तथैव धर्मवैचित्र्यं तत्त्वमेकं परं स्मृतम् २३२
अर्थातुराणां न सुखं न निद्रा
कामातुराणां न भयं न लज्जा ।
विद्यातुराणां न सुखं न निद्रा
क्षुधातुराणां न रुचिर्न वेला ॥ २३३
शय्या वस्त्रं चन्दनं चारुहास्यं वीणा वाणी दृश्यते या च नारी ।
न भ्राजन्ते क्षुत्पिपासातुराणां सर्वारम्भास्तण्डुलप्रस्थमूलाः ॥ २३४
पञ्चभिः सह गन्तव्यं स्थातव्यं पञ्चभिः सह |
पञ्चभिः सह वक्तव्यं न दुःखं पञ्चभिः सह २३५
आबाल्यादामृतेः पुंसः कोऽनध्यायः क्षणो भवेत् ।
भागीरथ्यां महानद्यां नास्ति भागो ह्यपावनः ॥ २३६
लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम्||
धर्मं चरत माधर्मं सत्यं वदत माऽनृतम्|
दीर्घं पश्यत मा ह्रस्वं परं पश्यत माऽपरम्||
दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः|
सर्पो दशति कालेन दुर्जनस्तु पदे पदे||
गौर्गौः कामदुघा सम्यक्प्रयुक्ता स्मर्यते बुधैः|
दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति||
कालमेव प्रतीक्षेत निदेशं भृतको यथा||
सहायेन विना नैव कार्यं किमपि सिध्यति|
एकेन चरणेनापि गतिः कस्य प्रवर्तते||
ते पुत्राः ये पितुर्भक्ताः स पिता यस्तु पोषकः|
तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः||
दरिद्रान्भर कौन्तेय मा प्रयच्छेश्वरे धनम्|
गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति वै द्विजाः|
सन्तोsपि न हि राजन्ते दरिद्रस्येतरे गुणाः|
आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी||
प्रायेण प्रियकर्मा यः कृपणोऽपि हि सेव्यते||
विद्वान्प्रशस्यते लोके विद्वान् गच्छति गौरवम्|
विद्यया लभ्यते सर्वं विद्या सर्वत्र पूज्यते||
पत्यौ भक्तिर्व्रतं स्त्रीणामद्रोहो मन्त्रिणां व्रतम्|
प्रजानां पालनं चैव नियतं भूभृतां व्रतम्||
गते हि दुर्दशां लोके क्षुद्रोऽप्यहितमाचरेत्|
पङ्के निमग्ने करिणि भेको भवति मूर्धगः||
कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा (यथा)
लोकाः पश्यत (स्वस्थाः तिष्ठत) दैवमेव हि नृणाम् वृद्धौ क्षये कारणम् ॥
उष्ट्रः कण्टकमेवात्ति तृणं गौः दर्दुरो मृदं|
न हि वन्ध्या विजानाति गुर्वीं प्रसववेदनाम्||
संयतं कोमलं चित्तं साधोरापदि कर्कशम्|
सुकुमारं मधौ पत्रं तरोस्स्यात्कर्कशं शुचौ||
कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः|
वाति गन्धः सुमनसां प्रतिवातं कथञ्चन|
धर्मजस्तु मनुष्याणां वाति गन्धः समन्ततः||
सर्वथा दृष्टकार्यस्य ह्यपलापो न युज्यते|
न चेदीशप्लुतं त्याज्यं नारिकेलफले जलम्||
अनित्यानि शरीराणि विभवो नैव शाश्वतः|
मृत्युः सन्निहितो नित्यं कर्तव्यो धर्मसङ्ग्रहः||
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥
नैको मुनिर्यस्य वचः प्रमाणम् ।
महाजनो येन गतः स पन्थाः ॥
अल्पानामिप वस्तूनां संहतिः कायर्सािधका ।
नैको मुनि र्यस्य वचः प्रमाणम् ।
महाजनो येन गतः स पन्थाः ॥
अचिनोति च शास्त्रार्थं आचारे स्थापयत्यति ।
स्वयमप्याचरेदस्तु स आचार्यः इति स्मृतः ॥
शनैः पन्थाः शनैः कन्था शनैः पर्वतमस्तके ।
शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनैः शनैः ॥
अहमेव गुरुः सुदारुणानामिति हालाहल मा स्म तात दृप्यः ।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम् ॥
राजानं प्रथमं विन्देत्ततो भार्या ततो धनं|
त्रयस्य संचये पश्चाज्ज्ञातीन् पुत्रांश्च धारयेत्||
समं बाष्पेण पतता तस्योपरि ममाप्यधः|
पितुर्मे क्लेदितौ पादौ ममापि क्लेदितं शिरः||
अर्थो हि कन्या परकीय एव
निष्पक्षपातमुत्कृष्टो गुणं दोषं च निर्णयेत्|
सुरूपं वा कुरूपं वा मुकुरो हि प्रदर्शयेत्||
शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः|
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः||
सुभिक्षं कृषके नित्यं नित्यं सुखमरोगिणि|
भार्या भर्तुः प्रिया यस्य तस्य नित्योत्सवं गृहम्||
देवैकशरणं पुंसि वृथा कृष्यादयः क्रियाः|
गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः|
आस्वाद्यतोयाः प्रवहन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः||
दीर्घप्रयासेन कृतं हि वस्तु निमेषमात्रेण भजेद्विनाशं|
कर्तुं कुलालस्य तु वर्षमेकं भेत्तुं हि दण्डस्य मुहूर्तमात्रम्||
तस्माच्छ्रेयस्करं मार्गं प्रतिपद्येत न त्रसेत्||
शनैरर्थः शनैः पन्थाः शनैः पर्वतमारुहेत्|
शनैर्विद्या च धर्मश्च व्यायामश्च शनैःशनैः||
नीरोद्भवस्य पद्मस्य मत्स्यस्य कुमुदस्य च ।
एकत्रैव प्रसूतानां ते़षां गन्धः पृथक् पृथक् ॥
<DOC_END>
<DOC_START>
न चोरहार्यं न च राजहार्यं
न भ्रातृभाज्यं न च भारकारि ।
व्यये कृते वर्धत एव नित्यं
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या सर्वसु पूज्यते न तु धनं विद्याविहीनः पशुः ॥
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ॥
(क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम्
विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयो
धेनुः कामदुधा रतिश्च विरहे नेत्रं तृतीयं च सा ।
सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणम्
तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुरु ॥
मातेव रक्षति पितेव हिते नियुंक्ते
कान्तेव चापि रमयत्यपनीय खेदम् ।
लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिम्
किं किं न साधयति कल्पलतेव विद्या ॥
शुकोऽप्यशनमाप्नोति रामरामेति च ब्रुवन् ॥
नास्ति विद्यासमो बन्धुर्नास्ति विद्यासमः सुहृत् ।
नास्ति विद्यासमं वित्तं नास्ति विद्यासमं सुखम् ॥
ज्ञानवानेव सुखवान् ज्ञानवानेव जीवति ।
ज्ञानवानेव बलवान् तस्मात् ज्ञानमयो भव ॥
यशांसि सूते मलिनं प्रमार्ष्टि ।
शुद्धा हि बुद्धिः किल कामधेनुः ॥
हर्तुर्न गोचरं याति दत्ता भवति विस्तृता ।
कल्पान्तेऽपि न या नश्येत् किमन्यद्विद्यया विना ॥
ज्ञातिभिर्वण्ट्यते नैव चोरेणापि न नीयते ।
दाने नैव क्षयं याति विद्यारत्नं महाधनम् ॥
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति ।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात् ॥
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥
सुखार्थी चेत्(वा) त्यजेद्विद्यां, विद्यार्थी चेत्(वा) त्यजेत्सुखम्॥
सुखार्थिनः कुतो विद्या, विद्यार्थिनः कुतः सुखम् । (कुतो विद्यार्थिनः सुखम्
<DOC_END>
<DOC_START>
स्वयं न खादन्ति फलानि वृक्षाः ।
आत्मार्थं जीवलोकेऽस्मिन्को न जीवति मानवः ।
परं परोपकारार्थं यो जीवति स जीवति ॥
मरणं जीवितं मन्ये यत्परोपकृतिक्षमम् ॥
तृणं चाहं वरं मन्ये नरादनुपकारिणः ।
घासो भूत्वा पशून्पाति भीरून् पाति रणाङ्गणे ॥
परोपकारशून्यस्य धिक् मनुष्यस्य जीवितम् ।
जीवन्तु पशवो येषां चर्माप्युपकरिष्यति ॥
विन्ध्याचलः किं करिभिः करोति ।
<DOC_END>
<DOC_START>
स्वहं हि तीर्थानि पुनन्ति सन्तः॥
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः॥
विन्ध्याचलः किं करिभिः करोति ।
कीर्तिनृत्यति नर्तकीव भुवने विद्योतते साधुता
ज्योत्स्नेव प्रतिभा सभासु सरसा गङ्गेव संमीलति ।
चित्तं रञ्जयति प्रियेव सततं सम्पत् प्रसादोचिता
सङ्गत्या न भवेत् सतां किल भवेत् किं किं न लोकोत्तरम् ॥
सा कामधुक् कामितमेव दोग्धि ।
सतां हि संगः सकलं प्रसूते ॥
भूतेषु किं च करुणां बहुलीकरोति
सङ्गः सतां किमु न मङ्गलमातनोति ॥
त्रिजगति मनुजानां दुर्लभः साधुसङ्गः ॥
शमो विवेकः सन्तोषः चतुर्थः साधुसङ्गमः ॥
जाड्यं धियो हरति सिञ्चति वाचि सत्यम्
चेतः प्रसादयति दिक्षु तनोति कीर्तिम्
सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥
संसारकटुवृक्षस्य द्वे फले ह्यमृतोपमे ।
सुभाषितरसास्वादः सङ्गतिः सुजनैः सह ॥
<DOC_END>
<DOC_START>
आपद्गतञ्च न जहाति ददाति काले
<DOC_END>
<DOC_START>
यथास्मै रोचते विश्वं तथा वै परिवर्तते ॥
<DOC_END>
<DOC_START>
वासः प्रधानं खलु योग्यतायै ।
दिगम्बरं वीक्ष्य विषं समुद्रः ॥
<DOC_END>
<DOC_START>
क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशाम्
आपन्नोऽपि विपन्न-दीधितिरपि प्राणेषु नश्यत्स्वपि ।
किं जीर्णं तृणमत्ति मानमहताम् अग्रेसरः केसरी ॥
<DOC_END>
<DOC_START>
सर्वं बलवतां पथ्यं सर्वं बलवतां हितं ।
अमृतं राहवे मृत्युः विषं शंकरभूषणम् ॥
<DOC_END>
<DOC_START>
सर्वं यस्य वशात् अगात् स्मृतिपथं कालाय तस्मै नमः॥
<DOC_END>
<DOC_START>
यमस्तु हरति प्राणान् वैद्यः प्राणान् धनानि च ॥
<DOC_END>
<DOC_START>
एते सत्पुरुषाः परार्थघटकाः स्वार्थं परितज्य ये
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे॥
<DOC_END>
<DOC_START>
कालो ह्ययं निरवधिर्विपुला च पृथ्वी॥
<DOC_END>
<DOC_START>
अहं च त्वं च राजेन्द्र लोकनाथावुभावपि ।
बहुव्रीहिरहं राजन् षष्ठी तत्पुरुषो भवान् ॥
<DOC_END>
<DOC_START>
लोकं शोकहतं च समस्तम् ॥
<DOC_END>
<DOC_START>
सर्वं यस्य वशाद्-अगात्-स्मृति-पथं कालाय तस्मै नमः ॥
<DOC_END>
<DOC_START>
साक्षरा विपरीताश्चेद्राक्षसा एव केवलम् ।
सरसो विपरीतोऽपि सरसत्वं न मुञ्चते ॥
<DOC_END>
<DOC_START>
मा याहीत्यपमङ्गलं व्रज किल स्नेहेन शून्यं वचः
तिष्ठेति प्रभुता यथा रुचि कुरुष्वात्राप्युदासीनता ।
नो जीवामि विना त्वयेति वचनं संभाव्यते वा न वा
तन्मां शिक्षय भद्र यत्समुचितं वाक्यं त्वयि प्रस्थिते ॥
<DOC_END>
<DOC_START>
विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय ।
खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानय च रक्षणाय ॥
'दुष्टः जनः विद्यां कलहाय, धनम् अहङ्कारप्रदर्शनाय, शक्तिम् अन्येषां हिंसायै उपयुङ्ते चेत्, शिष्टः जनः विद्याम् अन्येभ्यः ज्ञानं दातुं,धनं च दानाय, शक्तिं च रक्षणाय उपयुङ्ते ।'
<DOC_END>
<DOC_START>
तं गच्छन्त्यनु ये विपत्तिषु पुनस्ते तत्प्रतिष्ठाशया ।
भक्त्या कार्यधुरं वहन्ति बहवस्ते दुर्लभास्त्वादृशाः ॥
<DOC_END>
<DOC_START>
सेवाम् लाघवकारिणीम् कृतधियः स्थाने श्ववृत्तिं विदुः ॥
<DOC_END>
<DOC_START>
प्रभावस्तृष्णायाः स खलु सकलः स्यादितरथा
<DOC_END>
<DOC_START>
अस्मिन् वर्गे ऐकारादीनि सुभाषितानि विद्यन्ते ।
<DOC_END>
<DOC_START>
विकारकाले संमोहश्चित्ते विद्या च पुस्तके॥
<DOC_END>
<DOC_START>
अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति।मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते॥
ओष्ठे तव शुभनाम वसतु सदा लोचने च तव रूपम्।ध्यानं मनसि तवैव नात: परमर्थये किमपि देव॥
कश्मलमङ्गाङ्गेषु बद्धं जननान्तरेषु सम्पुष्टम्।कष्टं प्राणान् तुदति हर गङ्गे हराङ्गसङ्गते॥
मुनिभि: पवित्रमतिभि: मूढजनेभ्य: प्रदर्शितो मार्ग:।अनुसरन्ति तं धन्या आत्मश्रेयोऽर्थिन: सदैव॥
मुष्टिमितेन सुदाम्ना लक्ष्मीश वशीकृतोऽसि पुथुकेन।चित्तं प्रेमापूर्णं प्राप्तुं त्वामलं न पृथुधनम्॥
षड् दर्शनानि प्रथितानि लोके साङ्ख्यं च योगश्च नयस्तथैव।वैशेषिकं जैमिनीयं च शास्त्रं वेदान्तशास्त्रं चरमं चकास्ति॥
षट्के प्रथमे कर्म, द्वितीयषट्के विवेचितं ज्ञानम्।भक्तिस्तृतीयषट्के त्रयो विभागा भवन्ति गीतार्थे॥
<DOC_END>
<DOC_START>
अष्टाध्यायी प्रथम्, तत्पूतकं तदनु वार्तिकम्।
ढालं साधुजनानां, क्षमास्वभाव: सदैव सकलेषु।
मुनिभि: पवित्रमतिभि: मूढेभ्यो दर्शितो मार्ग:।
<DOC_END>
<DOC_START>
रत्नाकरो वृष्टिनिदाघयो: सम:।सूर्योऽस्तमाने च यथा तथोदये॥
<DOC_END>
<DOC_START>
ओजश्च माधुर्यमथ प्रसादो वक्रोक्तिरीती गुणभूषणानि।
न्याय्येन मार्गेण सुदीर्घकालं कृत्वा प्रयत्नं धनमर्जितं यद्।
सन्त्यौषधानीह शरीररोगे चित्तस्य पीडा विनिवार्यते च॥
सान्नं विषं तन्ननु जीर्णमद्य लाक्षागृहं चापि तथैव शान्तम्।
<DOC_END>
<DOC_START>
एरण्डधत्तूरकरञ्जवृक्षा:पदे पदे सन्ति न गन्धसारा:।
ऐन्द्रं पदं भानुसमं च तेजो धनं धनाध्यक्षधनातिशायि।
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते: स्वभावात्।
झङ्कारनादेन च पूरयन्ती जगत्समस्तं मधुनादवीणया।
टङ्कारमात्रेण विशोषयेत् त्वां स राघव: प्रार्थयते ससान्त्वम्।
भोगा न भुक्ता वयमेव भुक्ता: तपो न तप्तं वयमेव तप्ता:।
षड्दर्शनं सूक्ष्मधिया विलोकितं जटाघनान्ता: पठिताश्च वेदा:।
<DOC_END>
<DOC_START>
मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥
भिल्लस्त्री श्रीगन्धस्य काष्ठम् इन्धननिमित्तम् उपयुङ्क्ते ।
<DOC_END>
<DOC_START>
सुभाषितानां योजनावसरे एतान् अंशान् स्मरामश्चेत् सुव्यवस्थितं स्थापयितुं शक्नुमः ।
# एकैकं सुभाषितं पृथक् योजयेम । तदा वर्गशः प्राप्तिः सुकरं भवति ।
अनुष्टुप्-छन्दसि सुभाषितानि इत्यादीन् वर्गान् निर्माय ततः तेषां मातृवर्गः भवेत् 'छन्दोनुगुणं सुभाषितानि' इति ।
छन्दोनुगुणं सुभाषितानि' इत्येषः वर्गः 'सुभाषितानि' इत्यस्मिन् मातृवर्गे योजनीयम् ।
चारुनन्दनवर्य, क्षन्तव्याहम् अत्यन्तं विलम्बेन उत्तरं लिखन्ती अस्मि । एषु मासेषु अहं विकिसूक्तौ अधिकं कार्यं न कृतवती, विकिपीडियायामेव कार्यमासीत् । अतः भवतः सन्देशः न पठितः मया ।
<DOC_END>
<DOC_START>
ओष्ठे तव शुभनाम वसतु सदा लोचने च तव रूपम्।
ध्यानं मनसि तवैव नातः परमर्थये किमपि देव॥
<DOC_END>
<DOC_START>
कष्टं प्राणान् तुदति हर गङ्गे हराङ्गसङ्गते॥
<DOC_END>
<DOC_START>
मुनिभिः पवित्रमतिभिः मूढजनेभ्यः प्रदर्शितो मार्गः।
अनुसरन्ति तं धन्याः, आत्मश्रेयोऽर्थिनः सदैव॥
<DOC_END>
<DOC_START>
दुर्जनानां विषये च समानं भवति ।
<DOC_END>
<DOC_START>
वर्गः:अर्थः लेखनीयः वर्गः:उकारादीनि सुभाषितानि वर्गः:अनुष्टुप्]]
<DOC_END>
<DOC_START>
वसन्तकाले संप्राप्ते काक: काक: पिक: पिक:।। वर्गः:एकारादीनि सुभाषितानि वर्गः:अनुष्टुप्]]
<DOC_END>
<DOC_START>
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव।
<DOC_END>
<DOC_START>
वर्गः:अनुष्टुप् वर्गः:छन्दोऽनुगुणं सुभाषितानि वर्गः:गकारादीनि सुभाषितानि]]
<DOC_END>
<DOC_START>
तत्रापि मधुरं काव्यं तस्मादपि सुभाषितम् ॥
<DOC_END>
<DOC_START>
संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्।
<DOC_END>
<DOC_START>
यदि वा जनकात्मजा न लब्धा प्रभुरामाय निवेदयामि किं वा।
<DOC_END>
<DOC_START>
एरण्डधत्तूरकरञ्जवृक्षा:पदे पदे सन्ति न गन्धसारा:।
<DOC_END>
<DOC_START>
ऐन्द्रं पदं भानुसमं च तेजो धनं धनाध्यक्षधनातिशायि।
<DOC_END>
<DOC_START>
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥ १॥
सर्वेश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि ॥ २॥
सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि ॥ ३॥
बिम्बाधरं चारुविशालनेत्रं बालं मुकुन्दं मनसा स्मरामि ॥ ४॥
शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम् ।
भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि ॥ ५॥
तत्पुच्छहस्तं शरदिन्दुवक्‍त्रं बालं मुकुन्दं मनसा स्मरामि ॥ ६॥
उलूखले बद्धमुदारशौर्यं उत्तुङ्गयुग्मार्जुन भङ्गलीलम् ।
उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुन्दं मनसा स्मरामि ॥ ७॥
आलोक्य मातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षम् ।
सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि ॥ ८॥
॥ इति बालमुकुन्दाष्टकम् सम्पूर्णम् ॥
<DOC_END>
<DOC_START>
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते: स्वभावात्।
<DOC_END>
<DOC_START>
झङ्कारनादेन च पूरयन्ती जगत्समस्तं मधुनादवीणया।
<DOC_END>
<DOC_START>
प्रातः समुत्थाय शिवं विचिन्त्य श्लोकत्रयं येSनुदिनं पठन्ति ।
ते दुःखजातं बहुजन्मसंचितं हित्वा पदं यान्ति तदेव शम्भो:
<DOC_END>
<DOC_START>
वर्गः: आर्या गीति वर्गः:दकारादीनि सुभाषितानि]]
<DOC_END>
<DOC_START>
वर्गः: आर्या गीति वर्गः:णकारादीनि सुभाषितानि]]
<DOC_END>
<DOC_START>
शशिना च निशा निशया च शशी शशिना निशया च विभाति नभ:।
शशिना च निशा निशया च शशी
शशिना निशया च विभाति नभः।
पयसा कमलेन विभाति सरः ॥
मणिना वलयेन विभाति करः ।
कविना च विभुर्विभुना च कविः
कविना विभुना च विभाति सभा ॥
सभया च भवान् भवता च सभा।
सभया भवता च विभाति जगत् ।।
<DOC_END>
<DOC_START>
भवतु च मम साधुसङ्गतं ह्यपगरमलमानसं भवेत्।
वर्गः:भकारादीनि सुभाषितानि वर्गः: भद्रिका-चन्द्रिका, ललितम्]]
<DOC_END>
<DOC_START>
ऋतं च प्रियं चापि वाक्यं दुरापम्।मृदुत्वं च वज्रे क्व सम्भाव्यते वा॥
<DOC_END>
<DOC_START>
णकारेण वारभ्यते पद्यबन्ध: क्वचिल्लभ्यते गद्यतामद्य बन्धो।
<DOC_END>
<DOC_START>
फलं नेत्रयुग्मस्य किं दर्शनं ते फलं कर्णयुग्मस्य लीलाश्रुतिस्ते॥
<DOC_END>
<DOC_START>
बिडौजा: पुरा पृष्टवानम्बुयोनिं धरामण्डले सारभूतं किमस्ति
<DOC_END>
<DOC_START>
सततं तु पापरतमानसा जना: न तु पापकर्मफलदु:खमिष्यते।
<DOC_END>
<DOC_START>
वर्गः वसन्ततिलका वर्गः:सकारादीनि सुभाषितानि]]गोवाजिहस्ति वंशे सदैव भवतां हरि भक्तिरस्तु
<DOC_END>
<DOC_START>
नीरोद्भवस्य पद्मस्य मत्स्यस्य कुमुदस्य च ।
एकत्रैव प्रसूतानां तेषां गन्धः पृथक् पृथक् ॥
<DOC_END>
<DOC_START>
वर्ग:अकारादीनि गद्यसुभाषितानि वर्ग:आकारादीनि गद्यसुभाषितानि वर्ग:इकारादीनि गद्यसुभाषितानि]]
वर्ग:ईकारादीनि गद्यसुभाषितानि वर्ग:उकारादीनि गद्यसुभाषितानि वर्ग:ऊकारादीनि गद्यसुभाषितानि]]
वर्ग:ककारादीनि गद्यसुभाषितानि वर्ग:खकारादीनि गद्यसुभाषितानि वर्ग:गकारादीनि गद्यसुभाषितानि]]
<DOC_END>
<DOC_START>
अस्मदिच्छानुसारं सर्वं न भवति इति एषा भगवत्कृपा एव
जना: व्यर्थमेव वदन्ति यत् मुखस्य आभूषणं ताम्बूलं अस्ति परन्तु तथा न पुरुषाणां मुखस्य आभूषणं तु एकमेव अस्ति सा अस्ति "वाग्देवी सरस्वती" विद्या इति|
<DOC_END>
<DOC_START>
इन्द्रियदमनं लक्ष्यं नास्ति, यदर्थम् इन्द्रियदमनं करणीयं तस्य अनुसन्धानं सततं भवेत्।
<DOC_END>
<DOC_START>
‘परमेश्वर: मम’ इति भावना यदि भवति, तर्हि सहजं प्रेम उद्भवति।
<DOC_END>
<DOC_START>
यस्यां दशायां परमेश्वरेण वयं स्थापिता: तस्यां दशायां समाधानं भवेत्।तस्य विस्मरणं कदापि न भवेत्।
<DOC_END>
<DOC_START>
‘सद्गुरु: एव मया नामस्मरणं कारयति’ इति भावनया नामस्मरणं भवेत्।
<DOC_END>
<DOC_START>
नामस्मरणम् इत्युक्ते ‘त्वमसि, नाहम्’ इति अवस्था।
<DOC_END>
<DOC_START>
भगवन्नामस्मरणं देहलीदीप: इव- तेन प्रपञ्चे अपि प्रकाश: भवति, परमार्थे अपि प्रकाश: भवति।
<DOC_END>
<DOC_START>
देव, प्रारब्धेन आगता: भोगा: कामं भवन्तु परं तत्रापि तव स्मरणं खण्डितं न स्यात्।
<DOC_END>
<DOC_START>
साधुत्वं भवेद् अन्तरङ्गे।बहिरङ्गमात्रे साधुत्वस्य अनुकरणं पापाय।
<DOC_END>
<DOC_START>
चित्ते यदा दुर्विचाराणां प्रादुर्भाव: भवति, तदा नाम स्मरणीयम्।तेन दुर्विचारा: प्रबला: न भवन्ति।
<DOC_END>
<DOC_START>
नाम स्वमुखेन वक्तव्यं, स्वकर्णेन श्रोतव्यं, श्रवणकाले स्वभानं विस्मरणीयम्।एष: आनन्दस्य पन्था:।
<DOC_END>
<DOC_START>
ईश्वरे अकस्मात् प्रेम न जायते।निरन्तरं नामस्मरणेन अद्य वा श्व: वा निश्चयेन ईश्वरे प्रेम जायते।
<DOC_END>
<DOC_START>
साधुसम्पर्के वसाम:।साधु: एव अस्माकं लज्जां रक्षिष्यति।
<DOC_END>
<DOC_START>
परमार्थ: नाम ईश्वरे अहेतुकं प्रेम।
<DOC_END>
<DOC_START>
यदा देवाय धनम् अर्पयाम: तदा धनविषये आसक्ति: अपि अर्पणीया।
<DOC_END>
<DOC_START>
नामविषये अस्माकं मनसि प्रेमभाव: किमिति नोत्पद्यते? वयं सततं नाम न स्मराम: अत:।
<DOC_END>
<DOC_START>
दुर्गमा: ग्रन्था: पठनीया परं सुगमं नाम तावत् सततं स्मरणीयम्।
<DOC_END>
<DOC_START>
नायं परमार्थ: परोपदेशाय, अयं तु स्वोद्धाराय ।
<DOC_END>
<DOC_START>
प्रापञ्चिकदु:खनिमित्तं वा प्रापञ्चिकसुखनिमित्तं वापि भवतु, भगवद्विस्मरणम् अहिताय एव।
<DOC_END>
<DOC_START>
इष्टस्य प्राप्ति: इति भगवत्कृपाया: लक्षणं नास्ति।प्राप्ते सन्तोष: इति भगवत्कृपाया: वास्तवं लक्षणम्।
<DOC_END>
<DOC_START>
ईश्वरनामस्मरणं विना अन्यत् किमपि य: न जानाति, स: सर्वज्ञ
<DOC_END>
<DOC_START>
ईश्वरस्य दास्ये य: आनन्द: वर्तते, स: विश्वस्य स्वामित्वे अपि नास्ति।
<DOC_END>
<DOC_START>
‘मम प्रापञ्चिकी स्थिति: उत्तमा भवतु, अनन्तरं भगवन्नाम स्मरामि’ इति वदन् मनुष्य: कदापि नामस्मरणं न करोति। वर्गः:गोन्दवलेकरमहाराज वर्गः:मकारादीनि गद्यसुभाषितानि]]
<DOC_END>
<DOC_START>
दृष्टि: यदि ईश्वरे संलग्ना भवति तर्हि अन्येषां विषयाणां त्याग: अनायासेन भवति।
<DOC_END>
<DOC_START>
यत्र परमेश्वरस्य विस्मरणं न भवति, सा सद्बुद्धि स: सद्व्यवसाय:।
<DOC_END>
<DOC_START>
ईदृशी देवं प्रति स्यात् प्रार्थना। नैव पुनरन्या भवेन्मम कामना॥
<DOC_END>
<DOC_START>
नामस्मरणस्य इच्छा भवति इति इदं भगवत्कृपाया: चिह्नम्।
<DOC_END>
<DOC_START>
तमेव दृष्ट्वा अन्यजन: प्रसन्न:ब्रवीति ‘अहो! कण्टकिते अपि पुष्पम्’॥
<DOC_END>
<DOC_START>
विश्वस्त आत्मपक्षेऽतो न शाखाभङ्गतो भयम्॥
<DOC_END>
<DOC_START>
चित्तखेदकरं द्वयम्- अनारब्धं कार्यम् आरब्धमपि असम्पन्नं च कार्यम्।
<DOC_END>
<DOC_START>
एकाग्रता नाम तत्रैव वर्तस्व यत्र इदानीम् असि।
<DOC_END>
<DOC_START>
भावात्मकं चिन्तनं नाम निकृष्टादपि उत्कृष्टं साधयितुं चिन्तम्।
<DOC_END>
<DOC_START>
वराश्वपादेन हतो विराजते न रासभस्योपरि संस्थितो नर: ॥
<DOC_END>
<DOC_START>
केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्वलाः
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।।
<DOC_END>
<DOC_START>
:मर्यादानां नृपो मूलमापगानां यथा नगाः ।
:अनाचारे स्थिते तस्मिन्, लोकस्तत्र प्रवर्तते ॥ पद्मपुराणम् ५३/५)
अन्वय यथा नगाः आपगानां (मूलं तथा) नृपः मर्यादानां मूलम् । तस्मिन् अनाचारे स्थिते (सति) लोकः तत्र प्रवर्तते ।
::मर्यादा आचारः,स्थितिः,न्याय्यपथस्थितिः (यथा महाभारते। १५। २२। २५।)
सरलार्थः यथा नदीनां मूलं (उत्पत्तिस्थानं) पर्वताः तथैव प्रजानां मर्यादायाः मूलं राजा एव । अतः यदि राजा दुराचारे प्रवर्तते, प्रजाः अपि तम् अनुसृत्य दुराचारे एव प्रवर्तन्ते ।
:रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ।
<DOC_END>
<DOC_START>
::उदधि सागर:/समुद्र उदानि उदकानि वा धीयन्तेऽस्मिन्।)
सरलार्थ बहूनां जन्मनामन्ते महत्पुण्यसञ्चयनानन्तरं जीव: मनुष्यदेहं प्राप्नोति (अन्ययोनिषु वारं वारं जन्म प्राप्नोति तस्मात् पूर्वं । मनुष्यदेहेनैव मोक्षचिन्तनं तदनु प्रयत्नमपि कर्तुं जीव: पारयति । अत: यावत् पर्यन्तं इदं शरीरं (संसारसागरे जीवस्य नौका) न नश्यति ,तावत् (तदभ्यन्तरैव) संसारसागर: तरणीय: ।
<DOC_END>
<DOC_START>
नानाकवीन्द्रवचनानि मनोहराणि संख्यावतां परमकण्ठविभूषणानि ।
ते देवास्प्रतिबिम्बनात्त्रिदशतां सुव्यक्तं आपेदिरे ।
कामक्रोधौ द्वयं अपि पदं प्रत्यनीकं वशित्वे
हत्वा अनङ्गं किं इव हि रुषा साधितं त्र्यम्बकेण ।
यस्तु क्षान्त्या शमयति शतं मन्मथाद्यानरातीन्
यस्तु एनं सबलं च जेतुं अभितस्तत्कम्पमात्रं भ्रुवोस्
के अपि उत्कर्षं स्तुवन्ति स्मरं अपि जयतस्तत्वदामस्किं अस्मिन्
सुपर्वाणस्सर्वे यदि कुसुमशस्त्रास्ततपि किं ।
इति इव एनान्नूनं यसिह सुमनोस्त्रत्वं अनयत्
न चन्द्रस्सान्द्रश्रीपरिमलगरिम्णा आस्यं अमलं ।
रविं इव धृतामिताभं कविं इव सुरसार्थविरचितस्तोत्रं ।
उदरस्य इदं अणुत्वं सहजगुरुत्वं यदि न इदं हृदयस्य ।
वक्त्रं न एष कलानिधिस्धवलिमा न एषा उज्ज्वला क्ॐउदी
नेत्रे नीररुची न लाञ्छनयुगं चन्द्रे अस्ति अमन्दच्छवि ।
\Cओलो इति लोकेश्वरव्रज्या । । २
खड्गी सशब्दं अथ पुस्तकवान्सचिन्तं बालस्सखेलं अभिरामतमस्सकामं ।
श्रुतं नस्नाम अपि क्व नु खलु हिंआशुप्रभृतयः ।
मम अभ्यर्णे धार्ष्ट्यात्चरति पुनरिन्दीवरं इति
शिल्पं त्रीणि जगन्ति यस्य कविना यस्य त्रिवेदी गुरोस्
यस्चक्रे त्रिपुरव्ययं त्रिपथगा यन्मूर्ध्नि माल्यायते ।
त्रीन्लोकानिव वीक्षितुं वहति यस्विस्फूर्जदक्ष्णां त्रयं
भद्रं चन्द्रकले शिवं सुरनदि श्रेयस्कपालावले
कल्याणं भुजगेन्द्रवल्लि कुशलं विश्वे शटासन्तते ।
पश्य व्य्ॐअनि लोहितायति शनैसेषा दशा वर्तते ।
कस्मात्पार्वति निष्ठुरा असि सहजस्शैलोद्भवानां अयं
निःस्नेहा असि कथं न भस्मपुरुषस्स्नेहं बिभर्ति क्वचिथ् ।
कोपस्ते मयि निष्फलस्प्रियतमे स्थाणौ फलं किं भवेत्
पुरारे न प्रायस्क्वचितपि भवन्तं प्रणतवान् ।
नमन्जन्मनि अस्मिनहं अतनुसग्रे अपि अनतिभाक्
स्मरारेस्यस्मूर्ध्नि ज्वलनकपिशे भाति निहितः ।
च्युतां इन्दोस्लेखां रतिकलहभग्नं च वलयं
द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया ।
अवोचत्यं पश्य इति अवतु स शिवस्सा च गिरिजा
येषां उच्छलतां जवेन झगिति व्यूहेषु भूमीभृतां
मांसे मन्दायमानस्क्षरदसृजि सृजनस्थिषु ष्ठात्कृतानि ।
धत्ते अत्यद्भुतविस्मयेन धरया धूतस्य कान्तत्विषस्
शान्त्यै वसस्तु कपालदाम जगतां पत्युस्यदीयां लिपिं
क्व अपि क्व अपि गणास्पठन्ति पदशस्नातिप्रसिद्धाक्षरां ।
विश्वं स्रक्ष्यति रक्षति क्षितिं अपां ईशिष्यते शिष्यते
ज्वाला इव ऊर्ध्वविसर्पिणी परिणतस्य अन्तस्तपस्तेजसस्
आत्मनि आत्मानं एव व्यपगतकरणं पश्यतस्तत्त्वदृष्ट्या
मातर्जीव किं एततञ्जलिपुटे तातेन गोपायितं
वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयं ।
मात्रा एवं प्रहिते गुहे विघटयति आकृष्य संध्याञ्जलिं
एवं स्थापय सुभ्रु बाहुलतिकां एवं कुरु स्थानकं
न अत्युच्चैस्नम कुञ्चय अग्रचरणौ मां पश्य तावत्क्षणं ।
मन्दं कञ्चुकसन्धिषु स्तनतटोत्सङ्गेषु दीप्तार्चिषं ।
वृषस्शाठ्यं कृत्वा विलिखति खुराग्रेण नयनं
स पातु विश्वं अद्य अपि यस्य मूर्ध्नि नवस्शशी ।
दिग्वासासिति सत्रपं मनसिजद्वेषी इति मुग्धस्मितं
साश्चर्यं विषमेक्षणसयं इति च त्रस्तं कपाली इति च ।
फणिनि शिखिग्रहकुपिते शिखिनि च तद्देहवलयिताकुलिते ।
वक्त्रे ताम्बूलरागस्पृथुकुचकलशे कुङ्कुमस्य अनुलेपः ।
जीर्णे अपि उत्कटकालकूटकवले दग्धे हठात्मन्मथे
यस्शक्त्या समलंकृतसपि शशिनं श्रीशैलजां स्वर्धुनीं
देवी सूनुं असूत नृत्यत गणास्किं तिष्ठत इति उद्भुजे
हर्षात्भृङ्गिरिटौ अयाचितगिरा चामुण्डया आलिङ्गिते ।
रक्षतु वस्स्तनयुगलं हरिकरिकुम्भानुकारि गिरिदुहितुः ।
भो भो दिक्पतयस्प्रयात परतस्खं मुञ्चत अम्भ्ॐउचस्
पातालं व्रज मेदिनि प्रविशत क्षोणीतलं क्ष्माभृतः ।
ब्रह्मनुन्नय दूरं आत्मसदनं देवस्य मे नृत्यतस्
र्ॐआञ्चस्कथं एष देवि भगवन्गङ्गाम्भसां शीकरैस्
आर्द्रां कण्ठे मुखाब्जस्रजं अवनमयति अम्बिका जातुलम्बां
स्थाने कृत्वा इन्दुलेखां निबडयति जटास्पन्नगेन्द्रेण नन्दी ।
कालस्कृत्तिं निबध्नाति उपनयति करे कालरात्रिस्कपालं
शृङ्गं भृङ्गिं विमुञ्च त्यज गजवदन त्वं च लाङ्गूलमूलं
मन्दानन्दससि नन्दिनलं अबल महाकाल कण्ठग्रहेण ।
सा इयं मौलिविभूषणं भगवतस्भर्गस्य भागीरथी ।
ये तन्वन्ति श्रियं अधिजटामण्डलं मालतीनां ।
मिश्रीभूतां तव तनुलतां बिभ्रतस्गौरी कामं
किं तु प्रेमस्तिमितमधुरसिन्ग्धमुग्धा न दृष्टिस्
सानन्दं नन्दिहस्ताहतमुरजरवाहूतक्ॐआरबर्हित्रासात्नासाग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाजि ।
यतम्बा तातस्वा द्वयं इदं अगातेकतनुतां
तदर्धं च अर्धं च क्व नु गतं अथ आर्यस्कथयतु ।
दृष्टाग्रे परिणेतुसेव लिखितां गङ्गाधरस्य आकृतिं ।
अम्बा इयं ना इयं अम्बा न हि खरकपिशं श्मश्रु तस्यास्मुखार्धे
तातसयं न एष तातस्स्तनं उरसि पितुस्दृष्टवान्न अहं अत्र ।
का इयं कसयं किं एतत्युवतिसथ पुमान्वस्तु किं स्यात्तृतीयं
गङ्गावारिणि अगाधे झटिति हरजटाजूटतस्दत्तझम्पः ।
रक्ताम्भोजधिया च लोचनपुटं लालाटं उद्घाटयन्
अर्चिष्मन्ति विदार्य वक्त्रकुहराणि आ सृक्कणस्वासुकेस्
एकं त्रीणि नव अष्ट सप्त षटिति व्यस्तास्तसंख्याक्रमास्
सुप्तं पक्षपुटे निलीनशिरसं दृष्ट्वा मयूरं पुरस्
कृत्तं केन शिरसस्य तात कथय इति आक्रन्दतस्शैशवाथ् ।
चर्चायास्कथं एष रक्षति सदा सद्योनृमुण्डस्रजं
कस्मात्त्वं तातगेहातपरं अभिनवा ब्रूहि का तत्र वार्ता
स्थूलस्दूरं अयं न यास्यति कृशस्न एष प्रयाणक्षमस्
तेन एकस्य मम एव तत्र कशिपुप्राप्तिस्परा दृश्यते ।
स ब्रह्मादिषु कथ्यतां इति मुहुस्बाल्यात्गुहे जल्पति ।
गौरीं हस्तयुगेन षण्मुखवचस्रोद्धुं निरीक्ष्य अक्षमां
पाणिस्थाय विषाय वीर्यमहते कण्ठे मणिं बिभ्रती ।
दिग्वासास्यदि तत्किं अस्य धनुषा सास्त्रस्य किं भस्मना
भस्माङ्गस्य किं अङ्गना यदि च सा कामं परिद्वेष्टि किं ।
त्रिभुवनपुरःशिल्पी यस्य प्रतिक्षणं आत्मभूः ।
देवि त्वं कुपिता त्वं एव कुपिता कसन्यस्पृथिव्यास्गुरुस्
माता त्वं जगतां त्वं एव जगतां माता न विज्ञसपरः ।
देवि त्वं परिहासकेलिकलहे अनन्ता त्वं एव इति अथ
कसयं द्वारि हरिस्प्रयाहि उपवनं शाखामृगेण अत्र किं
कृष्णसहं दयिते बिभेमि सुतरां कृष्णस्कथं वानरः ।
मुग्धे अहं मधुसूदनस्व्रज लतां तां एव पुष्पासवां
बर्हापीडकं उत्तमाङ्गरचितं गोधूलिधूम्रं दधाथ् ।
आत्तस्पाणियुगोदरेण करश्रेण्या श्रिया आलम्भितः ।
कुतस्त्वं अणुकस्स्वतस्स्वं इति किं न यत्कस्यचित्
किं इच्छसि पदत्रयं ननु भुवा किं अत्यल्पया ।
द्विजस्य शमिनस्मम त्रिभुवनं ततिति आशयस्
श्रेयसस्यास्चिरं अस्तु मन्दरगिरेस्मा घानि पार्श्वैसियं
मा अवष्टम्भि महोर्मिभिस्फणिपतेस्मा लेपि लालाविषैः ।
चटच्चटिति चर्मिणि च्छमिति च उच्छलच्छोणिते
धगद्धगिति मेदसि स्फुटरवसस्थिषु ष्ठादिति ।
भ्रमति गिरिराट्पृष्ठे गर्जति उपश्रुति सागरस्
मया अन्विष्टस्धूर्तस्स सखि निखिलां एव रजनीं इह स्यातत्र स्यातिति निपुणं अन्यां अभिसृतः ।
श्यामा उच्चन्द्रा स्वपिषि न शिशो न एति मां अम्ब निद्रा
निद्राहेतोस्शृणु सुत कथां कां अपूर्वां कुरुष्व ।
उत्तिष्ठन्त्या रतान्ते भरं उरगपतौ पाणिना एकेन कृत्वा
धृत्वा च अन्येन वासस्विगलितकबरीभारं अंसे वहन्त्याः ।
भभभ्रमति किं मही ललललम्बते चन्द्रमास्
कृकृष्ण ववद द्रुतं हहहसन्ति किं वृष्णयः ।
शिशीधु मुमुमुञ्च मे ववववक्त्रं इत्यादिकं
किं किं सिंहस्ततस्किं नरसदृशवपुस्देव चित्रं गृहीतस्
न एवं तत्कसत्र जीव द्रुतं उपनय तं ननु अयं प्राप्तसेव ।
चापं चापं न खड्गं त्वरिततरं अहो कर्कशत्वं नखानां
एते लक्ष्मण जानकीविरहिणं मां खेदयन्ति अम्बुदास्
मर्माणि इव च घट्टयन्ति अलं अमी क्रूरास्कदम्बानिलाः ।
ये निद्रां नाटयद्भिस्शयनफणिफणैस्लक्षितास्न श्रुतास्च ।
ये च ध्यानानुबन्धच्छलमुकुलदृशास्वेधसा न एव दृष्टास्
सिन्धुषु अङ्गावगाहस्खुरकुहरविशत्तोयतुच्छेषु न आप्तः ।
ये तापात्तरलेन तल्पफणिना प्रीतप्रतीपोज्झिताः ।
सा इयं द्यौस्ततिदं शशाङ्कदिनकृच्चिह्नं नभस्सा क्षितिस्
तत्पातालतलं ते एव गिरयस्ते अम्भोधयस्तास्दिशः ।
युक्तं मानद मां अनन्यमनसं वक्षःस्थलस्थायिनीं
भक्तां अपि अवधूय कर्तुं अधुना कान्तासहस्रं तव ।
इति उक्त्वा फणभृत्फणामणिगतां स्वां एव मन्त्वा तनुं
दुग्धे वस्कयणीकुले पुनरियं राधा शनैस्यास्यति ।
भीतानन्दितविस्मितेन विषमं नन्देन च आलोकितस्
हिंस्रान्वीक्ष्य पुरस्पुराणपुरुषं नारायणं ध्यास्यसि ।
बीजं ब्रह्मा एव देवस्मधु जलनिधयस्कर्णिका स्वर्णशैलस्
कनकनिकषस्वच्छे राधापयोधरमण्डले नवजलधरश्यामां आत्मद्युतिं प्रतिबिम्बितां ।
इति विष्णुव्रज्या । । ६
यस्य अधसधस्तथा उपरि उपरि निरवधि भ्राम्यतस्विश्वं अश्वैस्
आवृत्तालातलीलां रचयति रयतस्मण्डलं तिग्मधाम्नः ।
यामिन्या कन्यया इव अमृतकरकलशावर्जितेन अमृतेन ।
\Cओलो इति सूर्यव्रज्या । । ७
न एव एके वयं एव कोकिलवधूकण्ठोच्चरत्पञ्चमस्थानोद्बोधितपञ्चमार्गणगुणास्फालेन र्ॐआञ्चिताः ।
चित्तेन उपहृतस्स्मराय न समुत्स्रष्टुं गतस्पाणिना ।
नयनसुहृदस्वृक्षास्च एते न कुड्मलशालिनः ।
दलति कलिका चौती न अस्मिन्तथा मृगचक्षुषां
मां उल्लङ्घ्य व्रजतु पथिकस्का अपि यदि अस्ति शक्तिः ।
इति आशोकी जगति सकले वल्लरी चीरिका इव
मन्दं दक्षिणं आह्वयन्ति पवनं पुंस्कोकिलव्याहृतैस्
मनसि च गिरं ग्रथ्नन्ति इमे किरन्ति न कोकिलाः ।
अथ च सवितुस्शीतोल्लासं लुनन्ति मरीचयस्
साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैस्मौक्तिकैस्
गर्भग्रन्थिषु वीरुधां सुमनसस्मध्ये अङ्कुरं पल्लवास्
किं च त्रीणि जगनि जिष्णु दिवसैस्द्वित्रैस्मनोजन्मनस्
गर्भं बिभ्रति किंशुकासिव दिशां तापाय वह्न्यङ्कुरं ।
किं च स्वाश्रयसम्भृतप्रथिमसु च्छायातपाङ्गेषु अयं
प्राकेव जैत्रं अस्त्रं सहकारलता स्मरस्य चापभृतः ।
क्रीडावेश्मसु कामिनस्कुशलयति एतत्च वक्ति इतरथ् ।
एते नूतनचूतकोरकघनग्रासातिरेकीभवत्कण्ठध्वानजुषशरन्ति हृदयं मध्येवनं कोकिलाः ।
चूतानां कलिकामिलन्मधुलिहां का अपि स्थितिस्वर्तते ।
का अपि अन्या मुकुलाधिकारमिलिता लक्ष्मीसशोकद्रुमे
माकन्दस्समयोचितेन विधिना धत्ते अभिजातं वपुः ।
श्यामं धूमैस्स खलु कुरुते काननं कोरकाख्यैः ।
रक्ताशोकं प्रणयि कुचयोस्माधवी मूर्धजेषु ।
स्नेहं स्रवन्ति तरवस्पञ्च अपि क्षिपति मार्गणान्मदनः ।
दुःश्लिष्टदुर्लक्ष्यपलाशसंधीनि आपाटलाग्राणि हरिन्ति मूले ।
क्षीणक्षीणा तदनु भजते सा अपि सम्यक्प्रसादं ।
एकस्लोके कथयति नरस्य इष्टजाते निसर्गं
ततस्स्त्रीणां हन्त क्षमं अधरकान्तिं कलयितुं
रे सम्प्रति अपवित्रं अत्र पथिकास्सारम्भं उज्जृम्भते
इतसस्ति एष श्रीमानविरलं इदानीं मुकुलितस्
अङ्कुरिते पल्लविते कोरकिते विकसिते च सहकारे ।
जातं धूसरं एव किंशुकतरोसाश्यामलं जालकं ।
सपदि सखीभिस्निभृतं विरहवतीस्त्रातुं अत्र भज्यन्ते ।
% ग्रीष्मव्रज्या । । ९
मित्रेण अपि खरायितं रतुणया दीर्घायितं तृष्णया ।
प्रवृद्धतापस्दिवससतिमात्रं अत्यर्थं एव क्षणदा च तन्वी ।
क्षामक्ष्मारुहि मन्दं उन्मधुलिहि स्वच्छन्दकुन्दद्रुहि ।
समग्रोष्मा चूतं पचति पिचुमर्दं च दिवसः ।
धास्यति अद्य सितातपत्रसुभगं सा राजहंसी शिशोस्
स्मेराम्भोरुहवासिनसपि शिरसि स्नेहेन पक्षद्वयं ।
पटच्छत्राकारं वहति गगनं धूलिपटलं ।
अपां मूले लीनं क्षणपरिचितं चन्दनरसे
मृणालीहारादौ कृतलघुपदं चन्द्रमसि च ।
तापं स्तम्बेरमस्य प्रकटयति करस्शीकरैस्कुक्षुं उक्षन्
पङ्काङ्कं पल्वलानां वहति तटवनं माहिषैस्कायकाषैः ।
कासारोदरशेषं अम्बु महिषस्मथ्नाति ताम्यत्तिमि ।
व्यामथ्य उपरतप्रपेषु पथिकैस्मार्गेषु मध्यंदिने ।
क्लाम्यत्कङ्कं अचक्रवाकं अमिलन्मद्गु प्रयातप्लवं ।
शैत्यं सिञ्चति उपरि कुचयोस्पाटलाकण्ठदाम ।
कान्तं कर्णौ अभिनिविशते क्ॐअलाग्रं शिरीषं
यतर्घति करम्बिता शिशिरवारिणा वारुणी ।
किं अपि कठिनयन्ती नारिकेलीफलाम्भः ।
श्रीनारायणयोस्घनं विघटयति ऊष्मा समालिङ्गनं ।
पर्यन्तेषु च यूथिकासुमनसां उज्जृम्भितं जालकैः ।
धूत्वा धावति कृष्णकीटपटलश्रेणीं शिखण्डी शिरस्
दात्यूहध्वनिभाञ्जि वेतसशिखासुप्तोरगाणि ध्वनत्कादम्बानि कुरङ्गयूथकलितस्तूपानि उदम्भांसि च ।
कान्तां क्व अपि विलम्बिनीं कलरुतैसाहूय भूयस्ततस्
दिग्भागानवलोक्य रङ्गवसुधां उत्सृज्य पद्भ्यां ततः ।
तद्धाराध्वनिमीलितानि नयनानि अभ्येति निद्रागमः ।
किं च अन्यत्कलिकोर्मिमेदुरमुखी जाता कदम्बच्छविस्
स्तैमित्यं मनसस्दिशति अनिभृतं धारारवे मूर्छति ।
व्यामोहातपिबनपस्स्फुटं अमी तर्षेण पर्याविलाः ।
कृत्वा पिच्छिलतां पथस्स्थगयता निर्भर्त्सनं पादयोस्
मेघेन उपकृतं यताशु विहिता तस्य अगसस्निष्कृतिस्
हस्तप्राप्यं इव अम्बरं विदधतस्खर्वासिव आशाततीस्
% ण्भिन्ब्दिविदे घन-अन्-उत्ताल; च्फ़् भ्रोwने २००१, २१.
इदानीं वंशीनां शबरमिथुनोच्छृङ्खलरहःक्रियासख्येन अलं गिरिवनसरिद्ग्रामसुहृदां ।
पार्श्वाभ्यां शिरसा निमीलितदृशस्कामं निमज्य क्रमात्
अंसौ पृष्ठं उरस्सपक्षतितलं गाढं स्पृशन्तस्मुहुः ।
मज्जानं अपि विलिम्पति न अकृतपुण्यस्य वर्षति पयोदे ।
अन्तर्मे दयितामुखं तव शशी वृत्तिस्समा एव आवयोस्
भुवस्किं एतास्दिवं उत्पतन्ति दिवसथवा भूतलं आविशन्ति ।
क्षेत्रेषु अद्य यतिष्यते जनपदस्सस्येषु पर्युत्सुकः ।
गायति हि नीलकण्ठस्नृत्यति गौरी तडित्तरलतारा ।
काले वारिधराणां अपतितया न एव शक्यते स्थातुं ।
असितभुजगशिशुवेष्टितं अभिनवं आभाति केतकीकुसुमं ।
स्तम्बेषु केतकीनां यथोत्तरं वामनैस्दलैसद्य ।
च्छन्ना अहर्निशि गर्जितप्रमनसि प्रम्लानलीलारुषि ।
क्षपां क्षामीकृत्य प्रसभं अपहृत्य अम्बु सरितां
प्रताप्य उर्वीं सर्वां वनगहनं उच्छाद्य सकलं ।
अर्धोद्गतेन कदली मृदुताम्रतलेन गर्भकोषेण ।
मिश्रावंसौ श्रवसि वसता कन्दलीकुड्मलेन ।
असौ न अस्ति इव इन्दुस्क्वचितपि रविस्प्रोषितसिव
ग्रहोडूनां चक्रं नभसि लिखितप्रोञ्छितं इव ।
अहर्वा रात्रिस्वा द्वयं अपि विलुप्तप्रविचयं
तावत्वाचस्प्रयुक्तास्मनसि विनिहिता जीविताशा अपि तावत्
विक्षिप्तौ तावतङ्घ्री पथि पथिकजनैस्लम्भिता तावताशा ।
कामं कूले नदीनां अनुगिरि महिषीयूथनीडोपकण्ठे
\Cओलो इति प्रावृड्व्रज्या । । १०
ऐन्द्रं धनुस्पाण्डुपयोधरेण शरत्दधाना आर्द्रनखक्षताभं ।
यदि अपि अहं शशिमुखी विमलाम्बरश्रीस्
आयान्तीं शरदं किरन्ति रभसात्लाजैसिव आशाङ्गनाः ।
मङ्गल्यं च कलङ्कपल्लवसखं स्मेरानना शर्बरी
दिवि पयसि च श्वेताम्भोजभ्रमं प्रतिमाशतैः ।
स्मरस्य उच्चैस्मन्त्रं किं अपि जपतां हुंकृतिं इयं ।
स्थिरे यूनां मानग्रहपरिभवे मूर्छति घनस्
तीष्णं रविस्तपति नीचसिव अचिराढ्यस्शृङ्गं रुरुस्त्यजति मित्रं इव अकृतज्ञः ।
संतापिनी समदहंसकलाभिलापा प्रालेयधामधवलाम्बरं आदधाना ।
पृष्ठेषु शङ्खशकलच्छविषु च्छदानां राजीभिसङ्कितं अलक्तकलोहिताभिः ।
पाकस्वीकारनम्रे शिरसि निविशते शूकशालेस्शुकाली ।
\Cओलो इति शरद्व्रज्या । । ११
अग्रे श्यामलबिन्दुबद्धतिलकैस्मध्ये अपि पाकान्वयप्रौढीभूतपटोलपाटलतरैस्मूले मनाग्बभ्रुभिः ।
समीरस्न इदानीं हरति हरितालद्युतिहरं ।
लघुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालस्रस्तरे सोपधाने ।
कृत्वा पृष्ठतरे पटच्चरं अथ ज्योतिःप्रतङ्काङ्कयोस्
ऊर्वोसन्तरयोस्निषेदुषि करौ कृत्वा कुकूलानले ।
पार्श्वौ कम्पजडौ पिधाय कफणिद्वन्द्वेन र्ॐआञ्चिता
आभोगिनस्किं अपि सम्प्रति वासरान्ते सम्पन्नशालिखलपल्लवितोपशल्याः ।
मूले हरिन्ति किंचित्पार्श्वे पीतानि लोहितानि अग्रे ।
भद्रं ते सदृशं यतध्वगशतैस्कीर्तिस्तव उद्गीयते
स्थाने रूपं अनुत्तमं सुकृतिनस्दानेन कर्णस्जितः ।
इति आलोक्य चिरं दृशा कृपणया दूरागतेन स्तुतस्
\Cओलो इति हेमन्तव्रज्या । । १२
कुन्दस्य अपि न पूजनव्यतिकरे न अपि आत्मनस्मण्डने
व्यापारे अपि तथा प्रहेणकविधेस्न अर्घन्ति बद्धादराः ।
पान्थस्य आरात्क्षणं इव गतेस्मन्दिमानं दिशन्ति
क्षीयन्ते सुरतान्तरे अपि न दृशां पात्रीकृतां कामिभिस्
कम्पन्ते कपयस्भृशं जडकृशं गसजाविकं ग्लायति
श्वा चुल्लीकुहरोदरं क्षणं अपि क्षिप्तसपि न एव उज्झति ।
उच्छिन्दन्ति अधसेव बन्धुरतया कोलीफलानि अर्भकाः ।
गलितविभवस्य आज्ञा इव अद्य द्युतिस्मसृणा रवेः ।
माषीणां मुषितं यवेषु यवसश्यामा छविस्शीर्यते
\Cओलो इति शिशिरव्रज्या । । १३
% ततस्मदनव्रज्या । । १४
बिभर्ति वपुषा अधुना विरहकातरस्कामिनीं ।
अनेन किल निर्जितास्वयं इति प्रियायास्करं
मनसि कुसुमबाणैसेककालं त्रिलोकीं कुसुमधनुसनङ्गस्ताडयति अस्पृशद्भिः ।
स्वर्लोकस्य सुधैकपानचषकस्मित्रं च तारापतिः ।
वन्दे देवं अनङ्गं एव रमणीनेत्रोत्पलच्छद्मना
पाशेन आयतशालिना सुनिबिडं संयम्य लोकत्रयं ।
येन असौ अपि भस्मलाञ्छिततनुस्देवस्कपाली बलात्
अहो धनुषि नैपुण्यं मन्मथस्य महात्मनः ।
धनुस्माला मौर्वी क्वणदलिकुलं लक्ष्यं अबला
मनस्भेद्यं शब्दप्रभृतयसिमे पञ्च विशिखाः ।
इयान्जेतुं यस्य त्रिभुवनं अदेहस्य विभवस्
जयति स मदखेलोच्छृङ्खलप्रेमरामाललितसुरतलीलादैवतं पुष्पचापः ।
याच्यस्न कश्चन गुरुस्प्रतिमा च कान्ता
\Cओलो इति मदनव्रज्या । । १४
% ततस्वयःसन्धिव्रज्या । । १५
दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः ।
विधत्ते सोल्लेखं कतरतिह न अङ्गं तरुणिमा
तथा अपि प्रागल्भ्यं किं अपि चतुरं लोचनयुगे ।
न एतत्समुन्नमितचूचुकमुद्रं अन्तःसंक्रान्तसीमकुचकोरकचक्रं अस्याः ।
प्रत्यासीदति यौवने मृगदृशस्किं च अन्यताविर्भवत्
गेहात्बहिस्विरम चापलं अस्तु दूरं अद्य अपि शैशवदशालडितानि तानि ।
प्रेम आसङ्गि च भङ्गि च प्रतिवचसपि उक्तं च गुप्तं तथा
यत्नात्याचितं आननं प्रति समाधाने च हाने च धीः ।
नितम्बस्स्वां लक्ष्मीं अभिलषति न अद्य अपि लभते
समन्तात्साभोगं न च कुचविभागाञ्चितं उरः ।
दृशोस्लीलामुद्रा स्फुरति च न च अपि स्थितिमती
नित्यं दर्पणपाणिता सहचरीवर्गेण च आचार्यकं ।
पूर्वाकारं उरस्तथा अपि कुचयोस्शोभां नवां ईहते ।
नस्धत्ते गुरुतां ततपि उपचिताभोगा नितम्बस्थली
आकण्ठार्पितकञ्चुकाञ्चलं उरशस्ताङ्गुलीमुद्रणामात्रासूत्रितहास्यं आस्यं अलसास्पञ्चालिकाकेलयः ।
वारं वारं अनेकधा सखि मया चूतद्रुमाणां वने
बालसद्य अपि किल इति लक्षितं अलंकर्तुं निजैस्भूषणैस्
रामाभिस्चिरं उद्यते हृदि लिहनिच्छां अनिच्छां वहन् ।
स्निह्यत्तारं अथ अन्यदृष्टिविरहे यस्संमुखं वीक्षितस्
माध्यस्थ्यं च समस्तवस्तुषु परिप्रश्ने शिरोघूर्णनं
श्रोणीबिम्बं त्यजति तनुतां सेवते मध्यभागः ।
बाल्यं यतस्यास्त्रिवलीतटिन्यास्तटे विनष्टं सह चापलेन ।
निचित्य प्रत्यङ्गातिव तरुणभावेन घटितौ ।
विस्रब्धं हसितं कपोलफलके वैदग्ध्यवक्रं वचः ।
न उद्दिष्टं गुरुणा न बन्धुकथितं दृष्टं न शास्त्रे क्वचित्
भ्रुविस्लीला एव अन्या दरहसितं अभ्यस्यति मुखं
मध्यं बद्धवलित्रयं विजयते निःसन्धिबन्धोन्नमद्विस्तारिस्तनभारमन्थरं उरस्मुग्धास्कपोलश्रियः ।
चरस्चक्षुस्कर्णे कथयितुं अगात्सत्वरं इव ।
उत्खेलत्त्रिवलीतरङ्गतरला र्ॐआवलीशैवलस्रग्वलिस्युवती ध्रुवं जनमनोनिर्वाणवाराणसी ।
नितम्बे च स्वैरं विलसति विलासव्यसनिता
क्षोभं धत्ते यतपि बहलस्स्निग्धलावण्यपङ्कः ।
उन्मग्नं यत्स्फुरति च मनाक्कुम्भयोस्द्वन्द्वं एतत्
कथं अपि हठाताकृष्य अन्ते पटस्य निवेशितां ।
अस्ति भयं अस्ति कौतुकं अस्ति च मन्दाक्षं अस्ति च उत्कण्ठा ।
प्रगल्भानां अन्ते निवसति शृणोति स्मरकथां
स्वयं तत्तच्चेष्टाशतं अभिनयेन अर्पयति च ।
स्पृहां अन्तस्कान्ते वहति न समभ्येति निकटं
अन्योन्यान्तरनिर्गताङ्गुलिदलश्रेणीभवन्निश्चलग्रन्थिप्रग्रथितं करद्वयं उपरि उत्तानं आविभ्रता ।
सुतनुसधुना सा इयं निम्नां स्वनाभिं अभीक्षते
कलयति परावृत्तेन अक्ष्णा नितम्बसमुन्नतिं ।
प्रथिम्नस्प्रागल्भ्यं स्तनजघनं उन्मुद्रयति च ।
गतिस्मन्दा सान्द्रं जघनं उदरं क्षामं अतनुस्
स्तनाभोगस्स्तोकं वचनं अतिमुग्धं च हसितं ।
हरतितरां जनहृदयं कलिकोपगता लता च दयिता च ।
धृतं इव पुरस्पश्चात्कैश्चित्प्रणुन्नं इव उल्लसत्पुलकं इव यत्प्राप्तोच्छ्वासव्युदस्तमिथोन्तरं ।
स्तनतटं इदं उत्तुङ्गं निम्नस्मध्यस्समुन्नतं जघनं ।
स्तोकोद्भेदनिवेशितस्तनं उरस्मध्यं दरिद्राति च ।
अस्यास्यत्जघनं घनं च कलया प्रत्यङ्गं एणीदृशस्
अयि पुरारि परुन्मलयानिलास्ववुसमी जगुसेव च कोकिलाः ।
स्खलति वयसि बाले निर्जिते राजनि इव स्फुरति रतिनिधाने यौवने जेतरि इव ।
दृष्ट्या वर्जितं आर्जवं समतया दत्तं पयस्वक्षसे
क्षीणायुस्गतिषु त्वरा स्मितं अपि भ्रूलास्यलीलासखं ।
यासां सति अपि सद्गुणानुसरणे दोषानुरागस्सदा
यास्प्राणान्वरं अर्पयन्ति न पुनस्सम्पूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमते अपि वस्तुनि विधिस्यासां निषेधात्मकं
कण्ठे मौक्तिकमालिकास्स्तनतटे कार्पूरं अच्छं रजस्
सान्द्रं चन्दनं अङ्गके वलयितास्पाणौ मृणालीलताः ।
तन्वी नक्तं इयं चकास्ति शुचिनी चीनांशुके बिभ्रती
दृष्टा काञ्चनयष्टिसद्य नगरोपान्ते भ्रमन्ती मया
तस्यां अद्भुतपद्मं एकं अनिशं प्रोत्फुल्लं आलोकितं ।
तत्र उभौ मधुपौ तथा उपरि तयोसेकसष्टमीचन्द्रमास्
मध्येहेमलतं कपित्थयुगलं प्रादुर्बभूव क्रमप्राप्तौ तालफलद्वयं तदनु तत्निःसन्धिभावस्थितं ।
मुखं तन्मुग्धायाशरति हरिणाङ्कस्य लडितं ।
आश्चर्यं ऊर्जितं इदं किं उ किं मदीयसित्तभ्रमस्यतयं इन्दुसनम्बरे अपि ।
निजनयनप्रतिबिम्बैसम्बुनि बहुशस्प्रतारिता का अपि ।
एकं एव बलिं बद्ध्वा जगाम हरिसुन्नतिं ।
र्ॐआवली कनकचम्पकदामगौर्या लक्ष्मीं तनोति नवयौवनसम्भृतश्रीः ।
दृशा दग्धं मनसिकं जीवयन्ति दृशा एव याः ।
विधाय अपूर्वपूर्णेन्दुं अस्यास्मुखं अभूत्ध्रुवं ।
मा एकं तमःस्तबकं ऊर्ध्वं अपाकृथास्त्वं एणं त्यज अस्य विमले नयने गृहाण ।
संक्रान्तप्रतिबिम्बं ऐन्दवं इदं द्वेधा विभक्तं वपुः ।
घनौ ऊरू तस्यास्यदि यदि विदग्धसयं अधरस्
स्तनद्वन्द्वं सान्द्रं यदि यदि मुखाब्जं विजयते ।
हतौ रम्भास्तम्भौ हतं अहह बन्धूककुसुमं
ततपि सकलं चारुस्त्रीणां मुखेषु विभाव्यते ।
रचनपटुना मन्ये धात्रा शशिद्रवनिर्मिता ।
भवतु महिमा लावण्यानां अयं कथं अन्यथा
एवंसादनं उत्सहेत स जगत्जेतुं कथं मन्मथं
गुरुतां जघनस्तनयोस्स्रष्टुस्मुष्ट्या उन्नमय्य तुलितवतः ।
निरालोकं लोकं मरणशरणं बान्धवजनं ।
त्वद्गण्डस्थलपाण्डु देहि लवलं देहि त्वदोष्ठारुणं
बिम्बं देहि नितम्बिनि त्वदलकश्यामं च मे जाम्बवं ।
तथावस्थं च एनं विदधति शुभैस्शुक्तिवदने ।
ततस्तां श्रेयोभिस्परिणतिं असौ विन्दति यया
न नीलाब्जं चक्षुस्सरसिरुहं एतत्न वदनं
न बन्धूकस्य इदं कुसुमं अधरस्तद्द्युतिधरः ।
मम अपि अत्र भ्रान्तिस्प्रथमं अभवत्भृङ्ग किं उ ते
तव मुखं अनुकर्तुं तन्वि वाञ्छा द्वयोस्च ।
चेतोभुवस्रचितविभ्रमसंविधानं नूनं न गोचरं अभूत्दयिताननं वः ।
यत्गीयते जगति शस्त्रहतास्व्रजन्ति नूनं सुरालयं इति स्फुटं एततद्य ।
सत्यं शरैस्सुमनसां हृदयं तव एतत्लोलाक्षि निर्भरं अपूरि मनोभवेन ।
सुतनु भवगभीरं गर्तं उत्पाद्य नाभीं अधसुपरि निधाय स्तम्भिकां र्ॐअराजीं ।
ततेवं तन्वङ्ग्यास्कथं अपि नितम्बस्थलं इदं
नयनच्छलेन सुतनोस्वदनजिते शशिनि कुलविभौ क्रोधाथ् ।
चक्षुस्मेचकं अम्बुजं विजयते वक्त्रस्य मित्रं शशी
भ्रूसूत्रस्य सनाभि मन्मथधनुस्लावण्यपुण्यं वपुः ।
रेखा का अपि रदच्छदे च सुतनोस्गात्रे च तत्कामिनीं
चण्डीशदर्पदलनात्प्रभृति स्मरस्य वामभ्रुवां वदनं एव हि राजधानी ।
लावण्यकान्तिपरिपूरितदिङ्मुखे अस्मिन्स्मेरे अधुना तव मुखे तरलायताक्षि ।
क्रमातूरुद्वन्द्वं कलयसि च लावण्यललितं ।
न च अमी ते दन्तास्सुदति जितकुन्देन्दुमहसः ।
किं अङ्गे तन्वङ्ग्यास्कलयति जगत्कान्तं अधिकं
जनानन्दस्चन्द्रस्भवति न कथं नाम सुकृती
लावण्यसिन्धुसपरा एव हि का इयं अत्र यत्र उत्पलानि शशिना सह सम्प्लवन्ते ।
स्तनाभोगस्मुग्धे हृदयं अपरस्य अपि हरति ।
सजन्मानौ तुल्यावभिजनभुवाजन्म च सहप्रबुद्धौ नाम्ना च स्तनसिति समानौ उदयिनौ ।
किं इयं अमृतवर्तिस्किं नु लावण्यसिन्धुस्
किं अथ नलिनलक्ष्मीस्किं नु शृङ्गारवल्ली ।
मुखाब्जं चेत्पीतं ततलं इह पीयूषकथया ।
भ्रान्त्या बिम्बफलस्य च अजनि दधत्वामाधरस्वेधसा ।
आनीलचूचुकशिलीमुखं उद्गतैकर्ॐआवलीविपुलनालं इदं प्रियायाः ।
यन्नामा अपि सुखाकरोति कलयति उर्वीं अपि द्यां इव
प्राप्तिस्यस्य यदङ्गसङ्गविधिना किं यत्न निह्नूयते ।
अन्तस्किं च सुधासपत्नं अनिशं जागर्ति यत्रागिणां
तन्वङ्ग्यास्स्तनयुग्मेन मुखं न प्रकटीकृतं ।
हन्तु नाम जगत्सर्वं अविवेकि कुचद्वयं ।
% ण्भीन्गल्ल्सल्सो त्रन्स्लतेस्मुक्तम्, बुत्युक्तं च्लेअर्ल्य्रिघ्त्!!
शिखरिणि क्व नु नाम कियच्चिरं किमभिधानं असौ अकरोत्तपः ।
याता लोचनगोचरं यदि विधेसेणेक्षणा सुन्दरी
न इयं कुङ्कुमपङ्कपिञ्जरमुखी तेन उज्झिता स्यात्क्षणं ।
न अपि आमीलितलोचनस्य रचनात्रूपं भवेतीदृशं
व्यर्थं विलोक्य कुसुमेषुं असुव्यये अपि गौरीपतीक्षणशिखिज्वलितस्मनोभूः ।
व्यक्तं जन्मसमानकालमिलितां अंशुच्छटां वर्षति ।
अनेन रम्भोरु भवन्मुखेन तुषारभानोस्तुलया जितस्य ।
एकाग्रां यत्दधति भगवति उष्णभानौ च भक्तिं
मैत्रं मण्डलं उज्ज्वलं चिरं अधस्नीतास्तथा कण्टकाः ।
इति आकृष्टशिलीमुखेन रचनां कृत्वा ततत्यद्भुतं
सा रामणीयकनिधेसधिदेवता वा सौन्दर्यसारसमुदायनिकेतनं वा ।
उपप्राकाराग्रं प्रहिणु नयने तर्कय मनाक्
चन्द्रस्जडस्कदलकाण्डं अकाण्डशीतं इन्दीवराणि च विसूत्रितविभ्रमाणि ।
रम्भोरु क्षिप लोचनार्धं अभितस्बाणान्वृथा मन्मथस्
संधत्तां धनुसुज्झतु क्षणं इतस्भ्रूवल्लिं उल्लासय ।
पाणौ पद्मधिया मधूकमुकुलभ्रान्त्या तथा गण्डयोस्
रत्नानि अपि अवलोकितानि बहुशस्युक्तानि मुक्ताफलैः ।
यत्तु प्रोञ्छितलाञ्छने हिमरुचौ उन्निद्रं इन्दीवरं
अन्योन्योपमितं युगं निरुपमं ते अयुग्मं अङ्गेषु यत्
ससयं सिक्थकं आस्यकान्तिमधुनस्तन्वङ्गि चन्द्रस्तव ।
स्वच्छन्दं वसतस्जनस्य हृदये चिन्ताज्वरस्निर्मितः ।
संयोज्य च अमृतरसेन पुनस्प्रयत्नाथ् ।
शृङ्गारैकरसस्स्वयं तु मदनस्मासस्स पुष्पाकरः ।
तत्वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेत्द्युतिस्
तत्चक्षुस्यदि हारितं कुवलयैस्तत्च उत्स्मितं का सुधा ।
धिक्कन्दर्पधनुस्भ्रुवौ यदि च ते किं वा बहु ब्रूमहे
तस्यास्मुखस्य आयतलोचनायास्कर्तुं न शक्तस्सदृशं प्रियायाः ।
तुलितस्त्वन्मुखेन अयं यतुन्नमति चन्द्रमाः ।
तपस्यति इव चन्द्रसयं त्वन्मुखेन्दुजिगीषया ।
अमीषां मण्डलाभोगस्स्तनानां एव शोभते ।
लक्ष्मीं वक्षसि कौस्तुभस्तबकिनि प्रेम्णा करोति अच्युतस्
देहार्धे वहति त्रिपिडपगुरुस्गौरीं स्वयं शंकरः ।
शङ्के पङ्कजसम्भवस्तु भगवानद्य अपि बाल्यावधिस्
\Cओलो इति युवतिवर्णनव्रज्या । । १६
% ततसनुरागव्रज्या । । १७
व्यावृत्तस्तनं अङ्गचुम्बिचिबुकं स्थित्वा तया मां प्रति ।
क्षेपासेव तव आहरन्ति हृदयं किं सम्भ्रमेण अमुना ।
तरत्तारं तावत्प्रथमं अथ चित्रार्पितं इव
क्रमातेव अपाङ्गे सहजं इव लीलामुकुलितं ।
साकूतं च सकौतुकं च सुचिरं न्यस्तास्किल अस्मान्प्रति ।
दृष्टा दृष्टिं अधस्ददाति कुरुते न आलापं आभाषिता
शय्यायां परिवृत्य तिष्ठति बलातालिङ्तिता वेपते ।
निर्यान्तीषु सखीषु वासभवनात्निर्गन्तुं एव ईहते
प्रोद्यत्पक्ष्मनिरीक्षितं विजयते सप्रेम वामभ्रुवः ।
बिसकवलनलिलामग्नपूर्वार्धकायं कमलं इति गृहीतं हंसं आशु त्यजन्त्याः ।
अयं लोकन्मुक्तावलिकिरणमालापरिकरस्स्फुटस्य इन्दोस्लक्ष्मीं क्षपयितुं अलं मन्मथसुहृथ् ।
मन्ये हीनं स्तनजघनयोसेकं आशङ्क्य धात्रा
प्रारब्धसस्यास्परिकलयितुं पाणिना आदाय मध्यः ।
लावण्यार्द्रे कथं इतरथा तत्र तस्य अङ्गुईनां
वक्त्राम्बुजं भुजमृणाललतं प्रियायास्लावण्यवारि वलिवीचि वपुस्तडागं ।
कृच्छ्रेण उरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले
मध्ये अस्यास्त्रिवलीविभङ्गविषमे निष्पन्दतां आगता ।
मद्दृष्टिस्तृषिता इव सम्प्रति शनैसारुह्य तुङ्गौ स्तनौ
नपुंसकं इति ज्ञात्वा तां प्रति प्रहितं मनः ।
हारसयं हरिणाक्षीणां लुठति स्तनमण्डले ।
सा सुन्दरी इति तरुणी इति तनूदरी इति मुग्धा इति मुग्धवदना इति मुहुस्मुहुस्मे ।
सा बाला वयं अप्रगल्भमनसस्सा स्त्री वयं कातरास्
सा आक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्तास्वयं ।
दिग्धसमृतेन च विषेण च पक्ष्मलाक्ष्या
परिच्छेदव्यक्तिस्भवति न पुरस्थे अपि विषये
भवति अभ्यस्ते अपि स्मरणं अतथाभावविरमं ।
न संतापच्छेदशिमसरसि वा चन्द्रमसि वा
पुनर्जन्मनि अस्मिननुभवपथं यस्न गतवान् ।
प्रान्तभ्राम्यदसञ्जितभ्रु यतिदं किं तत्न जानीमहे ।
क्व अपि स्वेदसमुच्चयस्स्नपयति क्व अपि प्रकमोद्गमस्
अमृतसिक्तं इव अङ्गं इदं यदि भवति तन्वि तव अद्भुतवीक्षितैः ।
सा नेत्राञ्जनतां पुनर्व्रजति मे वाचां अयं विभ्रमस्
प्रत्यासन्नकरग्रहा इति च करी हस्तोदरे शायितः ।
एतावत्बहु यत्बभूव कथं अपि एकत्र मन्वन्तरे
आदौ विस्मयनिस्तरङ्गं अनु च प्रेङ्खोलितं साध्वसैस्
व्रीडानम्रं अथ क्षणं प्रविकसत्तारं दिदृक्षारसैः ।
गच्छति पुरस्शरीरं धावति पश्चातसंस्थितं चेतः ।
अयं ते विद्रुमच्छायस्मरुमार्गे इव अधरः ।
अस्यास्तुङ्गं इव स्तनद्वयं इदं निम्ना इव नाभिस्स्थिता
दृश्यन्ते विषमोन्नतास्च वलयस्भित्तौ समायां अपि ।
अङ्गे च प्रतिभाति मार्दवं इदं स्निग्धस्वभावस्चिरं
स्वच्छन्दं स्वगृहाङ्गणं भ्रमति सा मद्दर्शनात्लीयते
धन्यान्पश्यति लोचनेन सकलेन अर्धेन मां वीक्षते ।
अन्यान्मन्त्रयते पुनर्मयि गते मौनं समालम्बते
अलसयति गात्रं अधिकं भ्रमयति चेतस्तनोति संतापं ।
मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे कान्तापयोधरयुगे रतिखेदखिन्नः ।
धिक्तस्य मूढमनसस्कुकवेस्कवित्वं यस्स्त्रीमुखं च शशिनं च समीकरोति ।
सा यैस्दृष्टा न वा दृष्टा मुषितास्समं एव ते ।
सा बाला इति मृगेक्षणा इति विकसत्पद्मानना इति क्रमप्रोन्मीलत्कुचकुड्मला इति हृदय त्वां धिक्वृथा श्राम्यसि ।
माया इयं मृगतृष्णिकासु अपि पयस्पातुं समीहा तव
अवचनं वचनं प्रियसंनिधौ अनवलोकनं एव विलोकनं ।
र्ॐआञ्चैसिव कीलिता चलति नो दृष्टिस्कपोलस्थले
स्वान्तं प्रेमपयोधिपङ्कपतनात्निश्चेष्टं आस्ते गतं ।
यदि सरोजं इदं क्व निशि प्रभा यदि निशापतिसह्नि कुतस्नु सः ।
अभिमुखे मयि संवृतं ईक्षितं हसितं अन्यनिमित्तकथोदयं ।
कससौ कृती कथय कस्मदनैकबन्धुसुद्ग्रीवं अर्चयसि कस्य मृगाक्षि मार्गं ।
गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ।
निजभुजलते तिर्यक्तन्व्या वितत्य विवृत्तया ।
साकूतं दयितेन सा परिजनाभ्याशे समालोकिता
व्यावृत्त्या शिथिलीकरोति वसनं जाग्रती अपि व्रीडया
स्वप्नभ्रान्तिपरिप्लुतेन मनसा गाढं समालिङ्गति ।
दत्त्वा अङ्गं स्वपिति प्रियस्य रतये व्याजेन निद्रां गता
आयाते दयिते मरुस्थलभुवां उल्लङ्घ्य दुर्लङ्घ्यतां
दर्भाङ्कुरेण चरणस्क्षतसिति अकाण्डे तन्वी स्थिता कतिचितेव पदानि गत्वा ।
रूपालोकनविस्मितेन चलितं मूर्ध्ना न शान्त्या तृषः ।
र्ॐआञ्चसपि निरन्तरं प्रकटितस्प्रीत्या न शैत्यातपां
रहस्याख्यायी इव मृशसि मृदु कर्णान्तिकगतः ।
स्निग्धं वीक्षितं अन्यतसपि नयने यत्प्रेषयन्त्या तया
यातं यत्च निरम्बयोस्गुरुतया मन्दं विषादातिव ।
मा गासिति उपरुद्धया यतपि तत्सासूयं उक्ता सखी
क्रीडाकौतुकमिश्रभावं अनया ताम्रं वहन्त्या आननं ।
तरङ्गय दृशसङ्गने पततु चित्रं इन्दीवरं
स्फुटीकुरु रदच्छदं व्रजतु विद्रुमस्श्वेततां ।
एकस्जयति सद्वृत्तस्किं पुनर्द्वौ सुसंहतौ ।
दिशि दिशि विकिरन्तस्केतकानां कुटुम्बं ।
विङ्खन्ति क्रमदोलितोभयभुजं यत्नाम वामभ्रुवः ।
स्मरशरधिसकाशं कर्णपाशं कृशाङ्गी रयविगलितताडीपत्रताडङ्कं एकं ।
चोलाञ्चलेन चलहारलताप्रकाण्डैस्वेणीगुणेन च बलात्वलयीकृतेन ।
सा दुग्धमुग्धमधुरच्छविरङ्गयष्टिस्ते लोचने तरुणकेतकपत्रदीर्घे ।
क्व पातव्या ज्योत्स्नामृतभवनगर्भा अपि तृषितैस्
क्व वा पारीमेयस्बत बकुलदाम्नां परिमलस्
रसवतमृतं कस्संदेहस्मधूनि अपि न अन्यथा
मधुरं अपि किं चूतस्य अपि प्रसन्नरसं फलं ।
कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं
हसितं अमृतं हन्त स्वादोस्परं रससम्पदः ।
विषं उपहितं चिन्ताव्याजात्मनसि अपि कामिनां
प्रहरविरतौ मध्ये वाह्नस्ततसपि परेण वा किं उत सकले याते अपि अह्नि त्वं अद्य समेषु असि ।
कल्याणं परिकल्प्यतां पिककुले रोहन्तु वाञ्चाप्तयस्
हंसानां उदयसस्तु पूर्णशशिनस्स्तात्भद्रं इन्दीवरे ।
सामान्यवाचि पदं अपि अभिधीयमानं मां प्राप्य जातं अभिधेयविशेषनिष्ठं ।
लावण्येन पिधीयते अङ्गतनिमा संधार्यते जीवितं
त्वद्ध्यानैस्सततं कुरङ्गकदृशस्किं तु एततास्ते नवं ।
सोद्वेगा मृगलाञ्छने मुखं अपि स्वं न ईक्षते दर्पणे
त्रस्ता कोकिलकूजितातपि गिरं न उन्मुद्रयति आत्मनः ।
चित्रं दुःसहदाहदायिनि धृतद्वेषा अपि पुष्पायुधे
दिशां चक्रं चन्द्रे सुकृतमय तस्यास्मृगदृशः ।
अम्भोरुहं वदनं अम्बकं इन्दुकान्तस्पाथोनिधिस्कुसुमचापभृतस्विकारः ।
वक्त्रेन्दोस्न हरन्ति बाष्पपयसां धारा मनोज्ञां श्रियं
निश्वासास्न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिं ।
किं च अन्यत्कथयामि रात्रिं अखिलां त्वद्वर्त्मवातायने
चन्द्रं चन्दनकर्दमेन लिखितं सा मार्ष्टि दष्टाधरा
वन्द्यं निन्दति यत्च मन्मथं असौ भङ्क्त्वा अग्रहस्ताङुरीः ।
कामस्पुष्पशरस्किल इति सुमनोवर्गं लुनीते च यत्
त्वयि स्वप्नावाप्ते स्नपयति परस्खेदविसरः ।
नो शक्या गदितुं स्मरानलदशा या अस्यास्त्वयि प्रस्थिते
यत्लिप्तं कुचचन्दनेन सुतनोसद्य अपि चन्द्रच्छलात्
प्रकटयति क्षणभङ्गं पश्यति सर्वं जगत्गतं शून्यं ।
ये निर्दहन्ति दशनश्वसितावलोकैस्क्रूरं द्विजिह्वकुटिलास्क्व विलासिनस्ते ।
धूमेन इव हते दृशौ विसृजतस्बाष्पं प्रवाहक्षमं
क्वाथोत्फेणं इव आत्तचन्दनरसं स्वेदं वपुस्मुञ्चति ।
अत्र एष स्वयं एव चित्रफलके कम्पस्खलल्लेखया
संतापार्तिविनोदनाय कथं अपि आलिख्य सख्या भवान् ।
सा सुन्दरी तव वियोगहुताशने अस्मिनभ्युक्ष्य बाष्पसलिलैस्निजदेहहव्यं ।
सुभग सुकृतप्राप्यस्यदि अपि असि त्वं असौ अपि
प्रियसहचरी न अधन्यानां उपैति विधेयतां ।
ततलं अधुना निर्बन्धेन प्रसीद परस्परं
तद्गात्राणां किं इव हि वयं ब्रूमहे दुर्बलत्वं
तस्यास्तापभुवं नृशंस कथयामि एणीदृशस्ते कथं
पद्मिन्यास्सरसं दलं विनिहितं यस्यास्शमाय उरसि ।
आदौ शुष्यति संकुचति अनु ततस्चूर्णत्वं आदद्यते
अये किंचिद्वक्रे त्वयि सुभग सर्वे कथं अमी
त्वां चिन्तापरिकल्पितं सुभग सा सम्भाव्य र्ॐआञ्चिता
किं च अन्यत्विरहव्यथाप्रणयिनी सम्प्राप्य मूर्छां चिरात्
दहनपतिता दृष्टा मूर्तिस्मया न हि वैधवी ।
इति तु नियतं नारीरूपस्स लोकदृशां प्रियस्
पुनरुक्तावधि वासरं एतस्यास्कितव पश्य गणयन्त्याः ।
काञ्चीदाममणिप्रभाभिसनु च आरब्धे दुकूलान्तरे ।
कान्तेन आशु मुधा विलोकितं अथो तन्व्या मुधा लज्जितं
रूढे रतिव्यतिकरे करणीयशेषमायासभाजि दयिते मुहुसातुरायाः ।
स्मरावेशव्यग्रे दवयति दुकूलं प्रणयिनि ।
क्षणं श्रोणौ पाणी क्षणं अपि कुचाग्रे प्रियदृशोस्
तैस्तैस्विजृम्भितशतैस्मदनोपदेशैस्मुग्धा विधाय लडितानि च तानि तानि ।
पक्ष्मश्रेणि यतङ्गं अङ्गजमनोराज्यश्रियां आश्रयः ।
स स्वर्गातपरस्विधिस्स च सुधासेकस्क्षणं नेत्रयोस्
तत्साम्राज्यं अगञ्जितं ततपरं प्रेम्णस्प्रतिष्ठास्पदं ।
पिधातुं यत्दृश्यं घटयति घनालिङ्गनं अपि ।
तपोभिस्भूयोभिस्किं उ न कमनीयं सुकृतिनां
इदं अमृतं अमेयं सा इयं आनन्दसिन्धुस्मधुमधुरं अपि इदं किंचितन्तर्धुनोति ।
आत्ते वाससि रोद्धुं अक्षमतया दोःकन्दलीभ्यां स्तनौ
तस्य उरःस्थलं उत्तरीयविषये सद्यस्मया सञ्जितं ।
श्रोणीं तस्य करे अधिरोहति पुनर्व्रीडाम्बुधौ मां अथो
समारूढं किंचित्पुलकं इदं आहुस्किल जनाः ।
आकृष्टे जघनांशुके कृतं अधःसंसक्तं ऊरुद्वयं ।
जिह्रेमि जागर्ति गृहोपकण्ठे सखीजनस्वल्लभकौतुकेन ।
कान्ते तल्पं उपागते विगलिता नीवी स्वयं बन्धनात्
वासस्च श्लथमेखलागुणधृतं किंचित्नितम्बे स्थितं ।
एतावत्सखि वेद्मि केवलं अहं तस्य अङ्गसङ्गे पुनस्
सखि स्वैरं स्वैरं सुरतं अकरोत्व्रीडितवपुस्
धन्या असि यत्कथयसि प्रियसंगमेन नर्मस्मितं च वचनं च रसं च तस्य ।
अपि तरुणयोस्किं स्यात्तस्यां दिवि स्पृहयालुतास्
तस्य स्मेरशुचेस्क्रमस्य च गिरां मुग्धाक्षराणां ह्रिया ।
भावानां अपि तादृशां मृगदृशशावानुगानां अहो
समाकृष्टं वासस्कथं अपि हठात्पश्यति मयि
तया दृष्टिं दत्त्वा महति मणिदीपे निपुणया
अनल्पं संतापं शमयति मनोजन्मजनितं तथा शीतं स्फीतं हिमवति निशीथे ग्लपयति ।
आस्तां दूरेण विश्लेषस्प्रियां आलिङ्गतस्मम ।
चिरारूढप्रेमप्रणयपरिहासेन हृतया ततारब्धं तन्व्या न तु यतबलायास्समुचितं ।
नखदशननिपातजर्जराङ्गी रतिकलहे परिपीडिता प्रहारैः ।
मुग्धे तव अस्मि दयिता दयितस्भव त्वं इति उक्तया न हि न हि इति शिरसवधूय ।
पततु तव उरसि सततं दयिताधम्मिल्लमल्लिकाप्रकरः ।
हरति रतिविमर्दे लुप्तपात्राङ्कुरत्वात्प्रकटनखपदाङ्कस्किं च र्ॐआञ्चमुद्रः ।
करकिसलयं धूत्वा धूत्वा विमार्गति वाससी
क्षिपति सुमन्ॐआलाशेषं प्रदीपशिखां प्रति ।
विश्रान्तिं नूपुरे याते श्रूयते रसनाध्वनिः ।
रागात्चुम्बितं अभ्युपेत्य वदनं पीतं च वक्त्रामृतं ।
जल्पन्त्या एव मुहुस्न न इति निभृतं प्रध्वस्तचारित्रया
तन्वङ्ग्या रभसार्पितं सरभसं वक्त्रं मुहुस्पीयते ।
तत्श्लाघ्यं सुरतं च तत्ततमृतं तत्वस्तु तत्ब्रह्म तत्
हर्षाश्रुदूषितविलोचनया मया अद्य किं तस्य तत्सखि निरूपितं अङ्गं अङ्गं ।
स कस्मात्मे प्रेयान्सखि कथं अहं तस्य दयिता
यतस्मां स्पृष्ट्वा एव स्नपयति करं स्वेदपयसा ।
विलोक्य आश्लेषातपि अवहितसिव अमील्य नयने
किं अपि किं अपि मन्दं मन्दं आसत्तियोगातविचलितकपोलं जल्पतोस्च क्रमेण ।
प्रागल्भ्यात्यतनुष्ठितं मृगदृशा शक्यं न तत्योषितां ।
निर्व्यूढं न यदा तया ततखिलं खिन्नैस्तरत्तारकैस्
निद्रार्तं किल लोचनं मृगदृशा विश्लेषयन्त्या कथां
उज्जृम्भस्किल वल्लभसपि विरते वस्तुनि अपि प्रस्तुते
दृष्ट्वा एकासनसंस्थिते प्रियतमे पश्चातुपेत्य आदरात्
कुचोपान्तं कान्ते लिखति नखराग्रैसकलितं ततस्किंचित्पश्चात्वलति च मुखेन्दौ मृगदृशः ।
आश्लेषे प्रथमं क्रमातपहृते हृद्ये अधरस्य अर्पणे
केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनस्पृच्छति ।
कलहकलया यत्संवृत्यै त्रपावनतानना पिहितपुलकोद्भेदं सुभ्रूस्चकर्ष न कञ्चुकं ।
उत रमयितुस्स्यूताङ्गे अङ्गे शितैस्स्मरसायकैः ।
विलयनं अथ प्राप्ता रागानलोष्मभिसिति अहो
जयन्ति कान्तास्तनमण्डलेषु विटार्पितानि आर्द्रनखक्षतानि ।
पीततुङ्गकठिनस्तनान्तरे कान्तदत्तं अबला नखक्षतं ।
उषसि गुरुसमक्षं लज्जमाना मृगाक्षी रतिरुतं अनुकर्तुं राजकीरे प्रवृत्ते ।
प्रदोषे दम्पत्योस्निजरुचि विभिन्ने प्रणयिनोस्विभिन्ने सम्पन्ने घनतिमिरसंकेतगहने ।
पश्यसि नखसम्भूतां रेखां वरतनु पयोधरोपान्ते ।
यत्रात्रौ रहसि व्यपेतविनयं दृष्टं रसात्कामिनोस्
तत्सानन्दमिलद्दृशोस्कथं अपि स्मृत्वा गुरूणां पुरस्
किं भूषणेन रचितेन हिरण्मयेन किं रोचनादिरचितेन विशेषकेण ।
दम्पत्योस्निशि जल्पितं गृहशुकेन आकर्णितं यत्वचस्
प्रातस्तत्गुरुसन्निधौ निगदतस्तस्य एव तारं वधूः ।
प्रयच्छ आहारं मे यदि तव रहोवृत्तं अखिलं
मया वाच्यं न उच्चैसिति गृहशुके जल्पति शनैः ।
नखक्षतं यत्नवचन्द्रसन्निभं स्थितं कृशाङ्गि स्तनमण्डले तव ।
हंहो कान्त रहोगतेन भवता यत्पूर्वं आवेदितं
निर्भिन्ना तनुसावयोसिति मया तत्जातं अद्य स्फुटं ।
क्षतिषु च दशनानां अङ्गनायास्सशेषः ।
अपि रहसि कृतानां वाग्विहीनसपि जातस्
नवनखपदं अङ्गं गोपयसि अंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्ददष्टं ।
क्रीडाशारिकया निलीय निभृतं त्रातुं त्रपार्तां वधूं
तल्पे चम्पककल्पिते सखि गृहोद्याने अद्य सुप्ता असि किं
तत्किञ्जल्कचयं न पश्यसि कुचोपान्ते विमर्दारुणं ।
इतस्पौरस्त्यायां ककुभि विवृणोति क्रमदलत्तमिस्रामर्माणं किरणकणिकां अम्बरमणिः ।
प्रभाते पृच्छन्तीसनुरहसिवृत्तं सहचरीस्नवोढा न व्रीडामुकुलितमुखी इयं सुखयति ।
मानोन्नता इति असहना इति अतिपण्डिता इति
मयि एव धिक्कृतिसनेकमुखी सखीनां ।
वलतु तरला दृष्टा दृष्टिस्खला सखि मेखला
स्खलतु कुचयोसुत्कम्पात्मे विदीर्यतु कञ्चुकं ।
ततपि न मया सम्भाष्यससौ पुनर्दयितस्शठस्
ससेव अङ्गाक्षेपस्मयि सरसं आश्लिष्यति तनुं ।
यदि विनिहिता शून्या दृष्टिस्किं उ स्थिरकौतुका
यदि विरचितस्मौने यत्नस्किं उ स्फुरितसधरः ।
यदि नियमितं ध्याने चेतस्कथं पुलकोद्गमस्
संलापसपि न मिश्रितस्परिजनं व्यापारयन्त्या अन्तिके
यद्वक्त्राभिमुखं मुखं विनिहितं दृष्टिस्धृता च अन्यतस्
तस्य आलापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।
दूरातुत्सुकं आगते विचलितं सम्भाषिणि स्फारितं
संश्लिष्यति अरुणं गृहीतवसने कोपाञ्चितभ्रूलतं ।
वचोवृत्तिस्मा भूत्वलतु च नवा वक्त्रं अभितस्
न नाम स्यात्बाष्पागमविषदं लोचनयुगं ।
किं पादान्ते पतसि विरम स्वामिनशि स्वतन्त्रास्
कंचित्कालं क्वचितपि रतिस्तेन कस्ते अपराधः ।
आगस्कारिणी अहं इह यया जीवितं त्वद्वियोगे
यद्दाक्षिण्यरसात्भिया च सहसा नर्मोपचाराणि अपि ।
यल्लज्जा निरुणद्धि यत्र शपथैसुत्पाद्यते प्रत्ययस्
रोद्धुं शिक्षितं आदरेण हसितं मौने अभियोगस्कृतः ।
धैर्यं कर्तुं अपि स्थिरीकृतं इदं चेतस्कथंचित्मया
एमेन्द्(wइथीन्गल्ल्स्, Vएमभूपाल, अन्दोथेर्चिततिओन्सोफ़् थे वेर्से),
तथा अभूतस्माकं प्रथमं अविभिन्ना तनुसियं
ततसनु त्वं प्रेयानहं अपि हताशा प्रियतमा ।
इदानीं नाथस्त्वं वयं अपि कलत्रं किं अपरं
तदा अहं जाता आर्द्रा शशधरमणीनां प्रतिकृतिः ।
तस्य प्रेम्णस्ततिदं अधुना वैशसं पश्य जातं
मुग्धा असि न अयं अपराध्यति मा एवं आलि का इयं रुषा परुषिता लिखिता अपि अनेन ।
पाणौ शोणतले तनूदरि दरक्षामं कपोलस्थलं
विन्यस्य अञ्जनदिग्धलोचनजलैस्किं ग्लानिं आनीयते ।
मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गस्क्वचित्कन्दलीं
कोपस्सखि प्रियतमे ननु वञ्चना एव तत्मुञ्च मानिनि रुषं क्रियतां प्रसादः ।
बाले नाथ विमुञ्च मानिनि रुषं रोषात्मया किं कृतं
खेदसस्मासु न मे अपराध्यति भवान्सर्वे अपराधास्मयि ।
तत्किं रोदिषि गद्गदेन वचसा कस्य अग्रतस्रुद्यते
गतप्राया रात्रिस्कृशतनु शशी शीर्यते इव
प्रदीपसयं निद्रावशं उपगतस्घूर्णते इव ।
प्रणामान्तस्मानस्त्यजसि न तथा अपि क्रुधं अहो
इदं निद्राच्छेदे रसति सरसं सारसकुलं
भवतु विदितं कृत्यालापैसलं प्रिय गम्यतां
तनुसपि न ते दोषसस्माकं विधिस्तु पराङ्मुखः ।
तव यदि तथा आरूढं प्रेम प्रपन्नं इमां दशां
असद्वृत्तस्न अयं न च सखि गुणैसेष रहितस्
गृहाण एनं मुग्धे व्रजतु तव कण्ठप्रणयितां
त्वया अकाण्डे मानस्किं इति शरले प्रेयसि कृतः ।
मा रोदीस्सखि नश्यदन्धतमसं पश्य अम्बरं ज्योत्स्नता
शीतांशुस्सुधया विलिम्पति सखा राज्ञस्मनोजन्मनः ।
मा भाङ्क्षीस्परिखेद साक्षिभिसिव श्वासौस्मुखेन्दोस्श्रियं ।
मुग्धे दग्धगिरस्स्खलन्ति शतशस्किं कुप्यसि प्रेयसि
यतेतत्नेत्राम्भस्पततपि समासाद्य तरुणीकपोलव्यासङ्गं कुचकलशं अस्यास्कलयति ।
धिक्धिक्त्वां अयि केन दुर्मुखि कृतं किं किं न कायव्रतं
द्वित्राणि अत्र दिनानि कस्न कुपितस्कस्न अभवत्मानुषः ।
स्मस्केचित्न वयं यतेकं अपरस्य अपि उक्तं आकर्ण्यतां
स्फुटतु हृदयं कामस्कामं करोतु तनुं तनुं
न खलु चटुलप्रेम्णा कार्यं पुनर्दयितेन मे ।
अन्योन्यं हृदये स्थिते अपि अनुनये संरक्षतोस्गौरवं ।
कन्दर्पकन्दलि सलीकदृशा लुनीहि कोपाङ्कुरं चरणयोस्शरणातिथिस्स्यां ।
अहो दिव्यं चक्षुस्वहसि तव सा अपि प्रणयिनी
पराक्ष्णां अग्राह्यं युवतिषु वपुस्संक्रमयति ।
समानाभिज्ञानं कथं इतरथा पश्यति पुरस्
प्रिये मौनं मुञ्च श्रितुसमृतधारास्पिबतु मे
दृशौ उन्मील्येतां भवतु जगतिन्दीवरमयं ।
प्रसीद प्रेम अपि प्रशमयति निःशेषं अधृतीस्
कोपस्त्वया यदि कृतस्मयि पङ्कजाक्षि ससस्तु प्रियस्तव किं अस्ति विधेयं अन्यथ् ।
सखि कलितस्स्खलितसयं हेयस्न एव प्रणाममात्रेण ।
जाते केलिकलौ कृते कमितरि व्यर्थानुनीतौ चिरात्
माने म्लायति मन्मथे विकसति क्षीणे क्षपानेहसि ।
मायास्वापं उपेत्य तन्निपुणया निद्रान्ध्यं आचेष्टितं
कथंचित्नैदाघे दिवसे इव कोपे विगलिते
प्रसत्तौ प्राप्तायां तदनु च निशायां इव शनैः ।
मानव्याधिनिपीडिता अहं अधुना शक्न्ॐइ तस्य अन्तिकं
नो गन्तुं न सखीजनसस्ति चतुरस्यस्मां बलात्नेष्यति ।
मानी ससपि जनस्न लाघवभयातभ्येति मातस्स्वयं
यावत्नो सखि गोचरं नयनयोसायाति तावत्द्रुतं
गत्वा ब्रूहि यथा अद्य ते दयितया मानस्समालम्बितः ।
दृष्टे धूर्तविचेष्टिते तु दयिते तस्मिनवश्यं मम
दुष्टा मुष्टिसिह आहता हृदि नखैसाचोटिता पार्श्वयोस्
आकृष्टा कबरीषु गाढं अधरे सीत्कुर्वती खण्डिता ।
त्वत्कृत्यं त्वदगोचरे अपि हि कृतं सर्वं मया एव अधुना
सुतनु जहिहि मौनं पश्य पादानतं मां
न खलु तव कदाचित्कोपसेवंविधसभूथ् ।
चेतसि अङ्कुरितं विकारिणि दृशोस्द्वन्द्वे द्विपत्रायितं
तत्तत्कोपविचेष्टिते कुसुमितं पादानते तु प्रिये
चिरं लोठति एष ग्रहवति न मानात्विरमसि ।
रुषं मुञ्च आमुञ्च प्रियं अनुगृहाण आयतिहितं
दैवातयं यदि जनस्विदितसपराधी दासोचितैस्परिभवैसयं एव शास्यः ।
कृत्वा अगस्स च न आगतसपि किं अपि व्यक्तं मनस्मन्यते
तत्क्व आसे कं उपैमि जङ्गमवने कस्मां इह आश्वासयेथ् ।
इति उक्त्वा अश्रुगलन्मुखी विटसखी ध्वस्ता विशन्ती गृहं
न जानीमस्किं नु क्व नु कियतनेन व्यवसितं
विकिर नयने मन्दच्छायं भवतु असितोत्पलं
वितर दयिते हासज्योत्स्नां निमीलतु पङ्कजं ।
सखि प्रत्यूषि त्वं प्रकृतिसरले पश्यसि न किं ।
चरणपतितसङ्गुष्ठाग्रेण अपि अयं न हतस्जनः ।
न मन्दस्वक्त्रेन्दुस्श्रयति न ललाटं कुटिलता
न नेत्राब्जं रज्यति अनुषजति न भ्रूसपि भिदां ।
तत्तत्वदति अपि यथावसरं हसति अपि आलिङ्गने अपि न निषधति चुम्बने अपि ।
दृष्ट्वा च अधरबद्धतृष्णं अधरं निर्भर्त्सयन्त्या मुखं ।
ऊर्वोस्गाढनिपीडनेन जघने पाणिं च रुद्ध्वा अनया
दृष्टिस्यत्र च दीर्घजागरगुरुस्कोपे मदीये तव ।
परीरम्भारम्भस्स्पृशति परं इच्छां न तु भुजौ
भजन्ते विज्ञानं न तु गिरं अनूरोधविधयः ।
अद्य उद्यानगृहाङ्गणे सखि मया स्वप्नेन लाक्षारुणस्
तावत्किं कथयामि केलिपटुना निर्गत्य कुञ्जोदरात्
सखि स सुभगस्मन्दस्नेहस्मयि इति न मे व्यथा
मम तु हृदये संतापसयं प्रिये विमुखे अपि यत्
भ्रूभेदे रचिते अपि दृष्टिसधिकं सोत्कण्ठं उद्वीक्षते
रुद्धायां अपि वाचि सस्मितं इदं दग्धाननं जायते ।
कार्कश्यं गमिते अपि चेतसि तनुस्र्ॐआञ्चं आलम्बते
द्वित्राणि एव पदानि वासभवनात्यावत्न याति आत्मना ।
निवृत्ते सद्भावे जने इव जने गच्छति पुरः ।
ततुत्प्रेक्ष्य उत्प्रेक्ष्य प्रियसखि गतास्ते च दिवसास्
सुतनु नितम्बस्तव पृथुसक्ष्णोसपि नियतं अर्जुनस्महिमा ।
दृष्टे लोचनवत्मनाक्मुकुलितं च अग्रे गते वक्त्रवत्
न्यग्भूतं बहिसास्थितं पुलकवत्संस्पर्शं आतन्वति ।
देवेन प्रथमं जितससि शशभृल्लेखाभृता अनन्तरं
बुद्धेन उद्धतबुद्धिना स्मर ततस्कान्तेन पान्थेन मे ।
त्यक्त्वा तान्बत हंसि मां अतिकृशां बालां अनाथां स्त्रियं
कर्णे यत्न कृतं सखीजनवचस्यत्न आदृता बन्धुवाक्
यत्पादे निपतनपि प्रियतमस्कर्णोत्पलेन आहतः ।
नासाग्रे नयनं यतेततपरं यत्च एकतानं मनः ।
मौनं च इदं इदं च शून्यं अखिलं यत्विश्वं आभाति ते
वत्स न एते पयोदास्सुरपतिकरिणस्नो बकास्कर्णशङ्खास्
सौदामिन्यसपि न एतास्कनकमयं इदं भूषणं कुम्भपीठे ।
न एतत्तोयं नभस्तस्पतति मदजलं श्वासवातावधूतं
पल्यङ्कं क्षणमात्रं आस्तृणु विधुं गण्डोपधानीकुरु ।
असौ गतस्सौगतसेव यस्मात्कुर्यात्निरालम्बनतां मम एव ।
पूर्णं कपोलतलं अश्रुजलैस्यतस्यास्यत्धूसरं वदनपङ्कजं आयताक्ष्याः ।
स च अयं निर्घोषस्स च रववशस्भेकनिचयः ।
तनोस्मध्यस्य अन्तस्परिमलनं अप्राप्य हरितं ।
प्रमाथी निर्धूमं ज्वलति विधुतस्पावकसिव ।
स्निग्धेन अपि जनेन दाहभयतस्प्रस्थंपचस्पाथसां ।
गौरी क्रुध्यतु वर्तते यदि न ते तत्कसपि चित्ते युवा
अपि हतक हिमांशस्मा स्पृश क्रीडया अपि ।
इह हि तव लुठन्तस्प्लोषपीडां भजन्ते
यत्दौर्बल्यं वपुषि महती सर्वतस्च अस्पृहा यत्
नासालक्ष्यं यतपि नयनं मौनं एकान्ततस्यथ् ।
एकाधीनं कथयति मनस्तावतेषा दशा ते
निद्रे भद्रं अवस्थिता असि कुशलं संवेदने किं तव
क्षेमं ते सखि निर्वृते ननु समं कान्तेन यूयं गताः ।
किं च अन्यत्प्रियसंगमे अद्य चलितस्गच्छन्विपद्वत्सलस्
मध्येसद्म समुद्गता तदनु च द्वारान्तरालं गता
निर्याता अथ कथंचितङ्गणं अपि प्रेयान्तु न आलोकितः ।
हंहो वायस राजहंस शुक हे हे शारिके कथ्यतां
दरदलितहरिद्राग्रन्थिगौरे शरीरे स्फुरति विरहजन्मा कसपि अयं पाण्डुभावः ।
प्रिये प्रयाते हृदयं प्रयातं निद्रा गता चेतनया सह एव ।
बाष्पं चक्षुषु न अञ्जनं करतले वक्त्रं न लीलाम्बुजं
गण्डे पाण्डरिमा न पत्रमकरी श्वासास्मुखे न स्मितं ।
इत्थं यस्य वियोगयोगविधुरं मुग्धे तव इदं वपुस्
कस्मातिदं नयनं अस्तमितान्जनश्रि विश्रान्तपत्ररचनौ च कुतस्कपोलौ ।
अरतिसियं उपैति मां न निद्रा गणयति तस्य गुणान्मनस्न दोषान् ।
असौ अहं लोहमयी स यस्यास्क्रूरस्सखि प्रस्तरसेष कान्तः ।
न अवस्था वपुषस्मम इयं अवधेसुक्तस्य न अतिक्रमस्
न उपालम्भपदानि वा अपि अकरणे तत्र अभिधेयानि ते ।
प्रष्टव्यस्शिवं आलि केवलं असौ कच्चित्भवद्गोचरे
स्वप्ने अपि प्रियसंगमव्यसनिनी शेते न निद्रागमस्
चित्रेण आलिखितुं तं इच्छति यदि स्वेदस्सपत्नीजनः ।
मुग्धा इयं कुरुते अथ तद्गुणकथां मन्युस्गिरां अर्गलस्
ब्रूयास्तं जनं आदरस्खलु महान्प्राणेषु कार्यस्त्वया ।
एतां म्लानिं उपागतां स्रजं इव त्यक्त्वा तनुं दुर्वहां
आ दृष्टिप्रसरात्प्रियस्य पदवीं उद्वीक्ष्य निर्विण्णया
विश्रान्तेषु पथिषु अहःपरिणतौ ध्वान्ते समुत्सर्पति ।
दत्त्वा एकं ससुधागृहं प्रति पदं पान्थस्त्रिया अस्मिन्क्षणे
नेत्रे बाष्पतरङ्गिणी परिणतस्कण्ठे कलस्पञ्चमः ।
विधेहि भ्रूलीलां स्मरतु धनुषस्पञ्चविशिखः ।
किं इति कबरी यादृक्तादृक्दृशौ किं अकज्जले
मृगमदं असीपत्रन्यासस्स किं न कपोलयोः ।
अयं अयमयं किं च क्लाम्यति असंस्मरणेन ते
वारंवारं अलीकसेव हि भवान्किं व्याहृतैस्गम्यतां
इति उद्दम्य सुमन्दबाहुलतिकां उत्थापयन्त्या रुषा ।
कुर्वन्त्या हरहासहारि हृदये हारावलीभूषणं ।
दहति विरहेषु अङ्गानि ईर्ष्यां करोति समागमे
हरति हृदयं दृष्टस्स्पृष्टस्करोति अवशां तनुं ।
क्षणं अपि सुखं यस्मिन्प्राप्ते गते च न लभ्यते
कससौ धन्यस्कथय सुभगे कस्य गङ्गासरय्वोस्
कीर्यन्ते कणशस्कृशाङ्गि किं अमी बाष्पाम्भसां बिन्दवः ।
मम आश्चर्यं सूर्यस्किं उ सखि रजन्यां उदयते ।
अयं मुग्धे चन्द्रस्किं इति मयि तापं प्रकटयति
मा मुञ्च अग्निमुचस्करान्हिमकर प्राणास्क्षणं स्थीयतां
निद्रे मुद्रय लोचने रजनि हे दीर्घातिदीर्घा भव ।
दिशतु सखि सुखं ते पञ्चबाणस्स साक्षातनयनपथवर्ती यस्त्वया आलेखि नाथः ।
कस्मात्म्लायसि मालती इव मृदिता इति आलीजने पृच्छति
व्यक्तं न उदितं आर्तया अपि विरहे शालीनया बालया ।
अक्ष्णोस्बाष्पचयं निगृह्य कथं अपि आलोकितस्केवलं
आपाण्डुस्करपल्लवे च निभृतं शेते कपोलस्थली
केन अव्याजं स्मरचरणयोस्भक्तिसापादिता च ।
तत्र एव आस्तां दहति नयने चन्द्रवत्चन्दनाम्भस्
सौधातुद्विजते त्यजति उपवनं द्वेष्टि प्रभां ऐन्दवीं
द्वारात्त्रस्यति चित्रकेलिसदसस्वेशं विषं मन्यते ।
मन्ये मुग्धां प्रहरति हठात्पत्रिणा वारुणेन ।
उन्मील्य अक्षि सखीस्न पश्यसि न च अपि उक्ता ददासि उत्तरं
नो वेत्सि ईदृशं अत्र न ईदृशं इमां शून्यां अवस्थां गता ।
तल्पादृश्यकरङ्कपञ्जरं इदं जीवेन लिप्तं मनाक्
किं वातेन विलङ्घिता न न महाभूतार्दिता किं न न
भ्रान्ता किं न न संनिपातलहरीप्रच्छादिता किं न न ।
तत्किं रोदिति मुह्यति श्वसिति किं स्मेरं च धत्ते मुखं
निकामं निश्वासस्सरलं अलकं ताण्डवयति ।
त्यजसि न शयनीयं न ईक्षसे स्वां अवस्थां
किं अपि सखि कुरु त्वं देहयात्रानुरूपं
\Cओलो इति विरहिणीव्रज्या । । २२
गमनं अलसं शून्या दृष्टिस्शरीरं असौष्ठवं
श्वसितं अधिकं किं तु एतत्स्यात्किं अन्यततसथ वा ।
भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं
वारं वारं तिरयति दृशोसुद्गमं बाष्पपूरस्
तत्संकल्पोपहतिजडिम स्तम्भं अभ्येति गात्रं ।
दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते
वहति विकलस्कायस्मोहं न मुञ्चते चेतनां ।
ज्वलति च तनूं अन्तर्दाहस्करोति न भस्मसात्
न आदत्से हरिताङ्कुरान्क्वचितपि स्थैर्यं न यत्गाहसे
दैवेन अन्तरितप्रियससि हरिण त्वं च अपि किं यत्चिरं
कारागारे क्षिपत तरसा पञ्चमं रागराजं
घनोरुप्राग्भारं निधिमुखं इव आमुद्रितं अहो
सव्याधेस्कृशता क्षतस्य रुधिरं दष्टस्य लालास्रवस्
सर्वं न एततिह अस्ति केवलं अयं पान्थस्तपस्वी मृतः ।
इषुभिसशनिकल्पैस्मा वधीस्त्वं मम इव ।
अपि ननु शशलक्ष्मन्मा मुचस्त्वं च तस्यां
द्वेष्टि स्वं च कचग्रहव्यवहितश्रोणीविहारस्करः ।
निद्रे किं विरता असि तावतघृणे यावत्न तस्यास्चिरात्
जाने सा गगनप्रसूनकलिका इव अत्यन्तं एव असती
स्वप्नेन द्विषत इन्द्रजालं इव मे संदर्शिता केवलं
द्यूते पणस्प्रणयकेलिषु कण्ठपाशस्क्रीडापरिश्रमहरं व्यजनं रतान्ते ।
देशैसन्तरिता शतैस्च सरितां उर्वीभृतां काननैस्
यत्नेन अपि न याति लोचनपथं कान्ता इति जाननपि ।
प्रौढानङ्गरसाविलाकुलमनाङ्न्यञ्चत्तिरोघूर्णितस्निग्धाह्लादि मदान्धं अध्वनि तया यत्चक्षुसान्दोलितं ।
ससेव अयं देशस्सरसिव विलूनाम्बुजवनं तनोति अन्तस्तापं नभसिव विलीनामृतरुचि ।
सृष्टास्वयं यदि ततस्किं इयं मृगाक्षी सा इयं वयं यदि ततस्किं अयं वसन्तः ।
किं ब्रूमस्वयं अपि अनेन हतकेन आपुङ्खमग्नैस्शरैस्
त्वां आयान्ति शिलीमुखास्स्मरधनुर्मुक्तास्तथा मां अपि ।
कान्तापादतलाहतिस्तव मुदे सत्यं मम अपि आवयोस्
आपुङ्खाग्रं अमी शरास्मनसि मे मग्नास्समं पञ्च ते
निर्दग्धं विरहाग्निना वपुसिदं तैसेव सार्धं मम ।
कष्टं काम निरायुधससि भवता जेतुं न शक्यस्जनस्
यदि क्षामा मूर्त्तिस्प्रतिदिवसं अश्रूणि दृशि चेत्
श्रुतौ दूतीवक्त्रं यदि मृगदृशस्भूषणधिया ।
इदं च अस्मत्कर्णे यदि भवति केन अपि कथितं
तव कुसुमशरत्वं शीतरश्मित्वं इन्दोस्द्वयं इदं अयथार्थं दृश्यते मद्विधेषु ।
सम्भूय एव सुखानि चेतसि परं भूमानं आतन्वते
यत्र आलोकपथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः ।
रुजन्ति इमे भासस्किरति दहनाभाशिमरुचिः ।
अपि स दिवसस्किं स्यात्यत्र प्रियामुखपङ्कजे
मधु मधुकरी इव अस्मद्दृष्टिस्विकासिनि पास्यति ।
सा लम्बालकं आननं नमयति प्रद्वेष्टि अयं मां शशी
न एव उन्मुञ्चति वाचं अञ्चितकलास्विघ्नन्ति मां कोकिलाः ।
भूभङ्गं कुरुते न सा धृतधनुस्मथ्नाति मां मन्मथस्
बाणान्संहर मुञ्च कार्मुकलतां लक्ष्यं तव त्र्यम्बकस्
के नाम अत्र वयं शिरीषकलिकाकल्पं यदीयं मनः ।
स्खलल्लीलालापं विनिपतितकर्णोत्पलदलं श्रमस्वेदक्लिन्नं सुरतविरतिक्षामनयनं ।
अहं इव शून्यं अरण्यं वयं इव तनुतां गतानि तोयानि ।
लीना इव प्रतिबिम्बिता इव लिखिता इव उत्कीर्णरूपा इव च
प्रत्युप्ता इव च वज्रलेपघटिता इव अन्तर्निखाता इव च ।
सा नस्चेतसि कीलिता इव विशिखैस्चेतोभुवस्पञ्चभिस्
बाहुद्वन्द्वमृणालिनी यदि वधूस्वापी पुनस्सा भवेथ् ।
प्रहर्ता क्व अनङ्गस्स च कुसुमधन्वा अल्पविशिखस्
चलं सूक्ष्मं लक्ष्यं व्यवहितं अमूर्तं क्व च मनः ।
इति इमां उद्भूतां स्फुटं अनुपपत्तिं मनसि मे
अन्तर्निबद्धगुरुमन्युपरम्पराभिसिच्छोचितं किं अपि वक्तुं अशक्नुवत्याः ।
भ्रस्यद्विवक्षितं असम्फलदक्षरार्थं उत्कम्पमानदशनच्छदं उच्छ्वसत्या ।
दग्धप्ररूढमदनद्रुममञ्जरी इति लावण्यपङ्कपटलोद्गतपद्मिनी इति ।
मधूद्गारस्मेरभ्रमरभरहूंकारमुखरं शरं साक्षात्मीनध्वजविजयचापच्युतं इव ।
सा न चेत्मृगशावाक्षी किं अन्यासां कथाव्ययः ।
उपरि घनं घनपटलं दूरे कान्ता ततेततापतितं ।
सूक्तिस्सा च ततीक्षणोत्पलयुगं धम्मिल्लभारस्स च ।
लावण्यामृतबिन्दुवर्षि वदनं तत्च एवं एणीदृशस्
ततयं अदयस्मह्यं मुग्धे किं एवं असूयति ।
विस्फाराग्रास्तरलतरलैसंशुभिस्विस्फुरन्तस्तासां तासां नयनं असकृत्नैपुणात्वञ्चयित्वा ।
तन्त्रं मन्त्रं अथ प्रयुज्य हरत श्वेतोत्पलानां स्मितं ।
चन्द्रं चूर्णयत क्षणात्च कणशस्कृत्वा शिलापट्टके
तस्मिन्पञ्चशरे स्मरे भगवता भर्गेण भस्मीकृते
जानामि अक्षयसायकं कमलभूस्कामान्तरं निर्ममे ।
अयि पिबत चकोरास्कृत्स्नं उन्नामिकण्ठक्रमसरलितचञ्चच्चञ्चवस्चन्द्रिकाम्भः ।
इति एषां किं इव अस्तु हन्त मदनज्योतिर्विघाताय यत्
व्यजनमरुतस्श्वासश्रेणीं इमां उपचिन्वते मलयजरसस्धाराबाष्पं प्रपञ्चयितुं प्रभुः ।
मन्दादरस्कुसुमपत्रिषु पेलवेषु नूनं बिभर्ति मदनस्पवनास्त्रं अद्य ।
अकृतप्रेमा एव वरं न पुनस्संजातविघटितप्रेमा ।
स्वप्न प्रसीद भगवन्पुनरेकवारं संदर्शय प्रियतमां क्षणमात्रं एव ।
दृष्टिं हे प्रतिवेशिनि क्षणं इह अपि अस्मद्गृहे दास्यसि
प्रायस्न एव शिशोस्पिता अद्य विरसास्कौपीसपस्पास्यति ।
एकाकिनी अपि यामि तत्वरं इतस्श्रोतस्तमालाकुलं
क्षेमं भद्र कलिन्दराजतनयातीरे लतावेश्मनां ।
पान्थ स्वैरगतिं विहाय झटिति प्रस्थानं आरभ्यतां
विटपिनि शिशिरच्छाये क्षणं इह विश्रम्य गम्यतां पथिकाः ।
अम्बा शेते अत्र वृद्धा परिणतवयसां अग्रणीसत्र तातस्
सा च एव अस्मिन्तथा अपि धैर्यसुरतव्यापारलीलाभृतां
क्व प्रस्थिता असि करभोरु घने निशीथे प्राणाधिकस्वसति यत्र जनस्प्रियस्मे ।
उदेति यस्यां न निशाकरस्रिपुस्तिथिस्नु का पुण्यवतीभिसाप्यते ।
लौहं पञ्जरं अस्य दुर्नयवतस्गाढं तदा कारय ।
अद्य एनं बदरीनिकुञ्जकुहरे लीनं प्रचण्डोरगे
ध्वस्तं केन विलेपनं कुचयुगे केन अञ्जनं नेत्रयोस्
रागस्केन तव अधरे प्रमथितस्केशेषु केन स्रजः ।
आकृष्य आदौ अमन्दग्रहं अलकचयं वक्त्रं आसज्य वक्त्रे
आमोदिना समधुना परिधूसरेण सव्याकुलभ्रमवता पतता पुरस्ताथ् ।
पान्थे पद्मसरसन्तशाद्वलभुवि न्यस्य अञ्चलं शायिनि
त्वं श्रान्ता असि अवहं च वर्त्म वसतिग्रामस्न वेला अपि अगाथ् ।
इन्दुस्यत्र न निन्द्यते न मधुरं दूतीवचस्श्रूयते
न आलापास्निपतन्ति बाष्पकलुषास्न उपैति कार्श्यं तनुः ।
स्वाधीनां अनुकूलिनीं स्वगृहिणीं आलिङ्ग्य यत्सुप्यते
प्रणयविशदां वक्त्रे दृष्टिं ददाति विशङ्किता
घटयति घनं कण्ठाश्लेषं सकम्पपयोधरा ।
वदति बहुशस्गच्छामि इति प्रयत्नधृता अपि अहो
गन्तव्या दयितस्य मे अद्य वसतिस्मुग्धा इति कृत्वा मतिं ।
आजानूद्धृतनूपुरा करतलेन आछाद्य नेत्रे भृशं
बिभ्राणा आर्द्रनखक्षतानि जघने न अन्यत्र गात्रे भयात्
नेत्रे चुम्बनपाटले च दधती निद्रालसे निव्रणे ।
स्वं संकेतं अदूरं एव कमितुस्भ्रूसंज्ञया शंसती
अद्य स्वां जननीं अकारणरुषा प्रातस्सुदूरं गतां
प्रत्यानेतुं इतस्गतस्गृहपतिस्श्रुत्वा एव मध्यंदिने ।
शशभृति विततधाम्नि धवलयति धरां अविभाव्यतां गतास्
निशान्धकारे विहिताभिसारास्सखीस्शपन्ति इह नितान्तमुग्धा ।
कस्मै कुप्यसि यावतस्मि चलिता तावत्विधिप्रेरितस्
कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ ।
प्रियं अभिसरसि एवं मुग्धे समाहतण्डिण्डिमा
अनुमतं इव आनेतुं जोषं तमीतमसां कुलं दिशि दिशि दृशस्विन्यस्यन्त्यस्श्रिया अङ्कुरिताञ्जनाः ।
नेत्रे दूरं अनञ्जने जललवप्रस्यन्दिनी ते तनुः ।
साधु दूति पुनस्साधु कर्तव्यं किं अतस्परं ।
विहारस्कण्ठदेशस्ते काषाये तव लोचने ।
दूति किं तेन पापेन शास्त्रातिक्रमकारिणा ।
न आयातस्सामदानाभ्यां इति भेदे अपि दर्शिते ।
अनेन वीतरागेण बुद्धेन इव अधरेण ते ।
पार्श्वाभ्यां सप्रहाराभ्यां अधरे व्रणखण्डिते ।
त्वया दूति कृतं कर्म यत्ततन्येन दुष्करं ।
क्षामा तनुस्गतिस्खिन्ना नेत्रे व्यालोकतारके ।
मदीयं यत्वासस्कथं अपि हृतं तेन सुहृदा ।
न आयातस्यदि तादृशं स शपथं कृत्वा अपि दूति प्रियस्
तत्किं कोपनया त्वया स्वदशनैसग्राधरस्खण्डितः ।
स्वेदाम्भःकणदायि वेपनं इदं त्यक्त्वा भज स्वस्थतां
र्ॐआञ्चं वहसि श्वसिषि अविरतं ध्यानं किं अपि आश्रिता
दृष्टिस्ते भ्रमति प्रकम्पचपले व्यक्तं च ते शीत्कृतं ।
तं लब्ध्वा खलु बन्धकी इव सुरतव्यापारदक्षं जनं
श्वासस्किं त्वरिता गतिस्पुलकिता कस्मात्प्रसाद्य आगता
वेणी भ्रश्यति पादयोस्निपतनात्क्षामा किं इति उक्तिभिः ।
स्वेदार्द्रं मुखं आतपेन गलिता नीवी गमातागमात्
अधरेण उन्नतिभाजा भुजङ्गपरिपीडितेन ते दूति ।
सद्भावोपगता समप्रणयिनी दारास्परस्य इति वा
दूते रागपराभवस्क्रियते इति एतत्न मीमांसितं ।
येन अम्भोरुहसंनिभस्य वदनस्य अपाण्डुता ते कृता
स्वकार्यबुद्ध्या एव सदा मदर्थे दूति प्रवृत्तिं प्रतिपालयन्त्या ।
रुद्धे वायौ निषिद्धे तमसि शुभवशोन्मीलितालोकशक्तिस्
कस्मात्निर्वाणलाभी न भवतु परमब्रह्मवत्वीक्ष्य दीपः ।
अतिपीनां तमोराजीं तनीयान्सोढुं अक्षमः ।
निर्वाणगोचरगतसपि मुहुस्प्रदीपस्किं वृत्तकं तरुणयोस्सुरतावसाने ।
बालां कृशाङ्गीं सुरतानभिज्ञां गाढं नवोढां उपगूढवन्तं ।
\Cओलो इति प्रदीपव्रज्या । । २६
उच्चित्य एते बहुगुणं इव अबिभ्रतस्शोणिमानं ।
दावास्त्रशक्तिसयं एति च शीतभावं भास्वान्ज्वलन्ति हृदयानि च कोकयूनां ।
उन्मुक्ताभिस्दिवसं अधुना सर्वतस्ताभिसेव स्वच्छायाभिस्निचुलितं इव प्रेक्ष्यते विश्वं एतथ् ।
प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात्कृशानुः ।
अस्तं भास्वति लोकलोचनकलालोके गते भर्तरि स्त्रीलोकोचितं आचरन्ति सुकृतं वह्नौ विलीय त्विषः ।
यावत्भास्करकेसरी प्रविततज्योतिःसटाभासुरशत्वा वासरवारणं वनदरीं अस्ताचलस्य आस्थितः ।
परावृत्ता गावस्तरुषु वयसां कूजति कुलं पिशाचीनां चेतस्स्पृशति गृहकृत्यप्रवणता ।
उद्भेदैस्तारकाणां वियति परिगते पश्चिमाशां उपेता ।
व्रजति कलितस्तोकालोकस्नवीनजवारुणच्छविरविससौ स्वेच्छादृश्यस्दिशं भृशं अप्पतेः ।
कालव्यालहतं वीक्ष्य पतन्तं भानुं अम्बराथ् ।
स्नाति इव मन्दरगनसस्तमिते अद्य मित्रे सिन्धूद्वृतेन्दुकलशस्खलदंशुतोयैः ।
पृथुगगनकबन्धस्कन्धचक्रं किं एतत्किं उ रुधिरकपालं कालकापालिकस्य ।
माञ्जिष्ठं रविबिम्बं अम्बरतलातस्ताचले लुण्ठति ।
\Cओलो इति अपराह्णव्रज्या । । २७
तीव्रांशोस्पततस्पतति अथ करालम्बावकृष्टं नभः ।
किं साम्भोधिकुलाबलां वसुमतीं स्वस्मिन्विधत्ते हरिस्
सांध्यं धाम नभोङ्गणं कुलयति द्वित्रिस्फुरत्तारकं ।
पार्श्वस्थासिव भान्ति हन्त ककुभस्निःसन्धिरुद्धान्तराः ।
घनतमतिमिरघुणोत्करजग्धानां इव पतन्ति काष्ठानां ।
हा कष्टं कसिह क्षमस्प्रतिकृतौ कस्य एततावेद्यतां
ग्रस्तं हन्त निशाचरैसिव तमःस्तोभैस्समस्तं जगथ् ।
कालस्ससपि किं अस्ति यत्र भगवानुद्गम्य शीतद्युतिस्
पर्यन्तास्प्रान्तवृत्त्या पयसि वसुमती नूतने मज्जति इव ।
आरूढस्य भरेण यौवनं इव ध्वान्तस्य नक्तं मुखे
तनुलग्नासिव ककुभस्क्ष्मावलयं चरणचारमात्रं इव ।
\Cओलो इति अन्धकारव्रज्या । । २८
लोकास्शोकं त्यजत न चिरस्थायिनी ध्वान्तवृत्तिस्
कर्पूरैस्किं अपूरि किं मलयजैसालेपि किं पारदैस्
अक्षालि स्फटिकोपलैस्किं अघटि द्यावापृथिव्योस्वपुः ।
लेखां अनङ्गपुरतोरणकान्तिभाजं इन्दोस्विलोकय तनूदरि नूतनस्य ।
न एतत्नभस्लवणतोयनिधिसेष पश्य छायापथस्च न भवति अयं अस्य सेतुः ।
तरुच्छिद्रप्रोतान्बिसं इव करी संकलयति ।
रतान्ते तल्पस्थान्हरति वनिता अपि अंशुकं इति
भवति भविष्यति किं इदं निपतिष्यति बिम्बं अम्बरात्शशिनः ।
अपि उस्रैस्धवलीभवत्सु गिरिषु क्षुब्धसयं उन्मज्जता
काश्मीरेण दिहानं अम्बरतलं वामभ्रुवां आननद्वैराज्यं विदधानं इन्दुदृषदां भिन्दानं अम्भःशिराः ।
न एव अयं भगवानुदञ्चति शशी गव्यूतिमात्रीं अपि
द्यां अद्य अपि तमस्तु कौरवकुलश्रीचाटुकारास्कराः ।
किं नु ध्वान्तपयोधिसेष कतकक्षोदैसिव इन्दोस्करैस्
अत्यच्छसयं अधस्च पङ्कं अखिलं छायापदेशातभूथ् ।
दलविततिभृतां तले तरूणां इह तिलतण्डुलितं मृगाङ्करोचिः ।
तथा पौरस्त्यायां दिशि कुमुदकेदारकलिकाकपाटघ्नीं इन्दुस्किरणलहरीं उल्ललयति ।
भूयस्तराणि यतमूनि तमस्विनीषु ज्योत्स्नीषु च प्रविरलानि ततस्प्रतीमः ।
यं प्राक्प्रत्यकवाकुदञ्चि ककुभां नामानि सम्बिभ्रतं
शशिनं असूत प्राची नृत्यति मदनशसन्ति ककुभसपि ।
चन्द्रेण आलिङ्गितायास्तिमिरनिवसने स्रंसमाने रजन्याः ।
अद्य अपि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि
स्थातुं वाञ्छति मानसेष झगिति क्रोधातिव आलोहितः ।
यातस्य अस्तं अनन्तरं दिनकृतस्वेषेण रागान्वितस्
स्वैरं शीतकरस्करं कमनिलीं आलिङ्गितुं योजयन् ।
शीतस्पर्शं अवेत्य सान्द्रं अनया रुद्धे मुखाम्भोरुहे
तमोभिस्दिक्कालैस्वियतपि विलङ्घ्य क्व नु गतं
गता द्राक्मुद्रा अपि क्व नु कुमुदकोषस्य सरसः ।
चन्द्रस्क्षीरं अपि क्षरति अविरतं धारासहस्रोत्करैस्
क्षीरोदाम्भसि मज्जति इव दिवसव्यापारखिन्नं जगत्
स्फटिकालवाललक्ष्मीं प्रवहति शशिबिम्बं अम्बरोद्याने ।
इह बहलितं इन्दोस्दीधितीनां प्रभाभिस्मदविकलचकोरीचञ्चुमुद्राङ्किताभिः ।
एष सान्द्रतिमिरे गगनान्ते वारिणि इव मलिने यमुनायाः ।
लब्धोदये सुहृदि चन्द्रमसि स्ववृद्धिसासाद्य भिन्नसमयस्त्रिदशोद्धृतानि ।
यथा अयं भाति अंशून्दिशि दिशि किरन्कुन्दविशदान्
वियति विसर्पति इव कुमुदेषु बहूभवति इव योषितां
प्रतिफलति इव जठरशरकाण्डविपाण्डुषु गण्डभित्तिषु ।
अम्भसि विकसति इव हसति इव सुधाधवलेषु धामसु
रक्तस्करं किरति पाण्डुपयोधराग्रे चन्द्रस्विधूय तिमिरावरणं निशायाः ।
मृगेन्द्रस्य इव चन्द्रस्य मयूखैस्नखरैसिव ।
गौरत्विषां कुचतटेषु कपोलपीठेषु एणीदृशां रभसहासं इव आरभन्ते ।
या इयं मौक्तिकदामगुम्फनविधौ योग्यच्छविस्प्राकभूथ् ।
ये पूर्वं यवसूचिसूत्रसुहृदस्ये केतकाग्रच्छदच्छायाधामभृतस्मृणाललतिकालावण्यभाजसत्र ये ।
\Cओलो इति चन्द्रव्रज्या । । २९
मध्येव्य्ॐअकटिभ्रमास्तु कितवप्राग्भारकोपक्रमक्षिप्रक्षिप्तकपर्दमुष्टिकलनां कुर्वन्ति अमूस्तारकाः ।
प्राचीं अङ्कुरयन्ति किंचन रुचस्राजीवजीवातवः ।
द्वे तिस्रस्रमणीयं अम्बरमणेस्द्यां उच्चरन्ते रुचः ।
सूक्ष्मोच्छ्वासं अपि इदं उत्सुकतया सम्भूय कोषात्बहिस्
एकद्विप्रभृतिक्रमेण गणनां एषां इव अस्तं यतां
पीत्वा भृशं कमलकुड्मलशुक्तिकोषा दोषातनीतिमिरवृष्टिं अथ स्फुटन्तः ।
क्षीणानि एव तमांसि किं तु दधति प्रौढिं न सम्यक्दृशस्
वासस्संवृतं एव किं तु जहति प्राणेश्वरं न अबलाः ।
प्रसर्पत तमांसि रे समयसेष युष्मादृशां ।
भृङ्गास्पद्मपुटेषु वर्णसदृशास्तस्य इति कृष्टास्करैः ।
हा कष्टं तिमिरत्विषस्वयं अपि व्यक्तं हतासिति अमी
पत्यौ याते कलानां व्यति गतिवशातस्तं इन्दौ क्रमेण
ससहं सुदूरं अगमं द्विजराजरूढिं गाढप्रसक्तिसभवं बत वारुणीतः ।
गच्छन्ति अस्तगिरेस्शिरस्तदनु च च्छायादरिद्रस्शशी ।
सवितुसपि च प्राचीमूले मिलन्ति मरीचयः ।
भानौ कुम्भोद्भवसिव पिबति अन्धकारोत्कराम्भः ।
अयं उदयति मुद्राभञ्जनस्पद्मिनीनां उदयगिरिवनालीबालमन्दारपुष्पं ।
\Cओलो इति प्रत्यूषव्रज्या । । ३०
कासारे स्फुटितोदरे सुनिभृतं कीटैसहर्नीयते ।
एतस्मिन्दिवसस्य मध्यसमये वातसपि चण्डातपत्रासेन इव न संचरति अहिमगोस्बिम्बे ललाटंतपे ।
आदौ मानपरिग्रहेण गुरुणा दूरं समारोपिता पश्चात्तापभरेण तानवकृता नीता परं लाघवं ।
अध्येत्éणां दधानं भृशं अलसदृशां किंचितङ्गावसादं
दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं
च्छायास्सम्प्रति यान्ति पिण्डपदवीं मूलेषु भूमीरुहां ।
धत्ते पद्मतलातलेप्सुसुपरि स्वं कर्णतालं द्विपस्
शष्पस्तम्बरसान्नियच्छति शिखी मध्येशिखण्डं शिरः ।
विष्वक्मुर्मुरनर्म बिभ्रति पथां गर्भेषु अदभ्रास्पटुज्योतिस्मुक्तनिरभ्रदीधितिघटानिर्धूपितास्धूलयः ।
पान्थास्पोतवतापिबन्ति कलुषं धान्यास्प्रतप्तं पयः ।
\Cओलो इति मध्याह्नव्रज्या । । ३१
देव स्वस्ति वयं द्विजास्ततसितस्तीर्थेषु सिस्नासवस्
किं वृत्तान्तैस्परगृहगतैस्किं तु न अहं समर्थस्
गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्यां
यत्क्षारं च मलीमसं च जलधेसम्भस्ततम्भोधरैस्
कृत्वा स्वादु च निर्मलं च निहितं यत्नेन शुक्तौ तथा ।
येन अनर्घतया च सुन्दरतया च इदं यशोभिस्तव
न्यस्तं चेतसि सज्जनैस्सुकविभिस्काव्येषु संचारितं ।
उत्कीर्णं कुशलैस्प्रशस्तिषु सदा गीतं च नाकेसदां
कस्विन्ध्यस्कस्च गौरीगुरुसिति मरुतां अभ्युदस्तस्विवेकः ।
क्ष्मायामक्षामकीर्तिं कुशलयति महाभूभुजं भोज्यदेवं ।
क्षेमं मे अन्यत्युगान्तावधि तपतु भवान्यद्यशोघोषणाभिस्
का त्वं कुन्तलमल्लकीर्तिसहह क्व असि स्थिता न क्वचित्
सख्यस्तास्तव कुत्र कुत्र वद वाक्लक्ष्मीस्तथा कान्तयः ।
मुक्ताबीजं ततेतत्त्रिजगति जनयामास कीर्तिद्रुमं ते ।
अद्य स्वर्गवधूगणे गुणमय त्वत्कीर्तिं इन्दूज्वलां
अभयं अभयं देव ब्रूमस्तव असिलतावधूस्
समयसुलभां कीर्तिं भव्यां असूत सुतां असौ
द्यां आवृणोति धरणीतलं आतनोति पातालमूलतिमिराणि तिरस्करोति ।
देव त्वद्यशसि प्रसर्पति शनैस्लक्ष्मीसुधोच्चैःश्रवश्चन्द्रैरावतकौस्तुभास्स्थितिं इव आमन्यन्त दुग्धोदधौ ।
किं तु एकस्परं अस्ति दूषणकणस्यत्न उपयाति भ्रमात्
ऐरावणन्ति करिणस्फणिनसपि अशेषास्शेषन्ति हन्त विहगासपि हंसितारः ।
पारं लङ्घितवान्पुरा ततधुना न आश्चर्यं आपादयेथ् ।
एकाकिनि अपि सेतुबन्धुरहितान्सप्त अपि वारांनिधीन्
न तत्चित्रं यत्ते विततकरवालोग्ररसनस्महीभारं वोढुं भुजभुजगराजस्प्रभवति ।
अपनय महामोहं राजननेन तव असिना कथय कुहकक्रीडाश्चर्यं कथं क्व च शिक्षितं ।
त्वं काम्बोज विराजसे भुवि भवत्तातस्दिवि भ्राजते
तत्तातस्तु विभूषणस्स किं अपि ब्रह्मौकसि द्योतते ।
जनानुरागमिश्रेण यशसा तव सर्पता ।
अद्य अपि उर्वीवलयतिलक श्यामलिम्ना अवलिप्तानि
\Cओलो इति यशोव्रज्या । । ३२
अपि क्षोणीन्द्राणां कुरु फलवतस्स्वानपि गुणान् ।
किं अत्र एव आत्मानं जरयसि मुधा शुक्तिकुहरे
वासस्नाल्पतपःफलं यतपरं दोषसयं एकस्महान् ।
पद्माकरस्परिमितसपि वरं ससेव यस्य स्वकामवशतस्परिभुज्यते श्रीः ।
नीरे अस्मिनमृतांशुं उत्सुकतया कर्तुं करे कौतुकिन्
मा निम्ने अवतर आर्जवातियं अधस्तस्य प्रतिच्छायिका ।
मर्त्ये अस्य ग्रहणं क्व दर्शनसुधा अपि उन्मुक्तनेत्रश्रियां
विक्रेतुं वा त्वं अभिलषितस्केन देशान्तरे अस्मिन् ।
का वार्ता युधि गन्धसिन्धुरपतेस्गन्धसपि चेत्के द्विपाः ।
जेतव्यसस्ति हरेस्स लाञ्छनं अतस्वन्दामहे तां अभूत्
अमुं कालक्षेपं त्यज लजद गम्भीरमधुरैस्
किं एभिस्निर्घोषैस्सृज झटिति झाट्कारि सलिलं ।
युक्तं त्यजन्ति मधुपास्सुमनोविनाशकाले यतेनं अवनीरुहं एततस्तु ।
परार्थे नीचे अपि व्रजति लघुतां यसर्थिसुभगां ।
कथा अपि श्रोतव्या भवति हतकेतोस्न च पुनर्
सुवर्णकार श्रवणोचितानि वस्तूनि विक्रेतुं इह आगतस्त्वं ।
शुष्यन्ति स्म मदप्रवाहसरितस्सद्यसपि दिग्दन्तिनां ।
तत्तेजस्च ततूर्जितं स च नगोन्माथी निनादस्महान् ।
अन्या एव सा स्थितिसहो मलयद्रुमस्य
तेन त्वं स्वजनस्किल इति करटैस्यत्तैसुपब्रूयसे ।
किं ते नम्रतया किं उन्नततया किं ते घनच्छायया
किं ते पल्लवलीलया इं अनया च अशोक पुष्पश्रिया ।
कल्याणं नस्किं अधिकं इतस्जीवनार्थं यतस्मात्
लूत्वा वृक्षानहह दहसि भ्रातरङ्गारकार ।
आदाय वारि परितस्सरितां शतेभ्यस्किं नाम साधितं अनेन महार्णवेन ।
नामन्यन्त तदातनीं अपि निजच्छायाक्षतिं तैस्पुनस्
ममज्जुस्निःशेषं तटनिकटे एव उन्नतकराः ।
गते दैवात्शोषं वरसरसि तत्र एव तरला
रत्नैसुद्द्योतयसि पयसा यत्धरित्रीं पिधत्से ।
धिक्तत्सर्वं तव जलनिधे यत्विमुच्य अश्रुधारास्
माद्यति अभ्रमुवल्लभस्)अपि सततं तत्कालकूटं विषं ।
एकेन अपि पयोधिना जलमुचस्ते पूरितास्कोटिशस्
जातस्न अस्य कुशाग्रलीनतुहिनश्लक्ष्णसपि तोयव्ययः ।
न क्षोभ्यन्ति एव तावत्नियमितसलिलास्सर्वा एते समुद्राः ।
आहो क्षोभं व्रजेयुस्क्वचितपि समये दैवयोगात्तदानीं
श्रुतं दूरे रत्नाकरसिति परं नाम जलधेस्
न च अस्माभिस्दृष्टास्नयनपथगम्यस्य मणयः ।
पुरस्नस्सम्प्राप्तास्तटभुवि सलिप्सं तु वसतां ।
त्वां आलोक्य महीरुहं वयं अमी मार्गं विहाय आगताः ।
परभृतशिशो मौनं तावत्विधेहि नभस्तलोत्पतनविषये पक्षौ स्यातां न यावतिमौ क्षमौ ।
क्व खलु परशुच्छेदस्क्व असौ दिगन्तरसंगतिः ।
क्व च खरशिलापट्टे धृष्टिस्क्व पङ्कसुरूपता
वदत विदितजम्बूद्वीपसंवृत्तवार्तां कथं अपि यदि दृष्टं वारिवाहं विहाय ।
उच्चैसुन्मथितस्य तेन बलिना दैवेन धिक्कर्मणा
लक्ष्मीं अस्य निरस्यतस्जलनिधेस्जातं किं एतावता ।
गाम्भीर्यं किं अयं जहाति किं अयं पुष्णाति न अम्भोधरान्
कसत्र त्वां शरभिकिशोरपरिषद्धौरेय धर्तुं क्षमः ।
दुर्दिनानि प्रशान्तानि दृष्टस्त्वं तेजसां निधिः ।
व्याप्य आशास्शयितस्य वीचिशिखरैसुल्लिख्य खं प्रेङ्खतस्
सिन्धोस्लोचनगोचरस्य महिमा तेषां तनोति अद्भुतं ।
तस्मिनेव सरसि अकालजलदेन आगत्य तच्चेष्टितं
हंहो सिंहकिशोरक त्यजसि चेत्कोपं वदामस्तदा
हत्वा एनं करिणां सहस्रं अखिलं किं लब्धं आयुष्मता ।
एवं कर्तुं अहं समर्थसिति चेत्धिक्मूर्ख किं सर्वतस्
सत्यं पिप्पल पादपोत्तम घनच्छायोन्नतेन त्वया
सन्मार्गसयं अलंकृतस्किं अपरं त्वं मूर्तिभेदशरेः ।
न्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यते ।
बीजानि अङ्कुरगोचराणि कतिचित्सिध्यन्ति तस्मिनपि ।
एकस्तेषु अपि कश्चितङ्कुरवरस्बध्नाति तां उन्नतिं
रम्यं स्वादु सुगन्धि शीतलं अलं प्राप्तव्यं इति आशया ।
स्थाने मैत्र्यं इदं पयस्पयसिति क्षीरस्य नीरस्य च ।
तत्र अपि अर्णसि वर्णना स्फुरति मे यत्संगतौ वर्धते
दारैस्क्रीडितं उन्मदैस्सुरगुरोस्तेन एव न एव अमुना
भग्नं भूरि सुरासुरव्यतिकरे तेन एव न एव अमुना ।
न एव अयं ससिमं नृजस्ससिव वा न एव एष दोषाकरस्
आयान्ति यान्ति सततं नीरं शिशिरं खरं न गणयन्ति ।
हरेस्नाभीपद्मस्प्रभवति हि सर्वत्र नियतिः ।
यतत्र एव ब्रह्मा पिबति निजं आयुस्मधु पुनर्
यदा हत्वा कृत्स्नां तिमिरपटलीं जातमहिमा
जगन्नेत्रं मित्रस्प्रभवति गतससौ अवसरः ।
यतासाद्य स्वच्छं विलसथ विनीतक्लमभराः ।
सलीलं हंसानां पिबति निवहस्यत्र विमलं
जलं तस्मिन्मोहात्सरसि रुचिरे चातकयुवा ।
स्वभावात्गर्वात्वा न पिबति पयस्तस्य शकुनेस्
हरे जीमूतानां ध्वनिसयं उदीर्णस्न करिणां ।
ह्रदं हस्ताघातैस्विदलसि किं उत्फुल्लनलिनं ।
तदा जानीमस्ते करिवर बलोद्गारं असमं
समुत्क्षिप्तसस्मि इति त्वं इह परितापं त्यज मणे ।
अशोके शोकार्तस्किं असि बकुले अपि आकुलमनास्
निरानन्दस्कुन्दे सह च सहकारैस्न रमसे ।
कुसुम्भे विश्रम्भं यतिह भजसे कण्टकशतैस्
पातस्पूष्णस्भवति महते न एव खेदाय यस्मात्
कालेन अस्तं कसिह न गतास्यान्ति यास्यन्ति च अन्ये ।
गर्जति एव क्षिपति विषमं वैद्युतं वह्निं अन्यः ।
सूते वातं जवनं अपरस्तेन जानीहि तावत्
मा संचैषीस्फलसमुदयं मा च पत्रैस्पिधास्त्वं
रोधःशाखिन्वितर ततिदं दानं एव अनुकूलं ।
आमोदैस्ते दिशि दिशि गतैस्दूरं आकृष्यमाणास्
साक्षात्लक्ष्म्या तव मलयज द्रष्टुं अभ्यागतास्स्मः ।
किं पश्यामस्सुभग भवतस्क्रीडति क्रोडे एव
अणुसपि ननु न एव क्रोडभूषा अस्य काचित्परिभजसि यतेतत्तद्विभूतिस्तथा एव ।
नभसि निरवलम्बे सीदता दीर्घकालं त्वदभिमुखनिसृष्टोत्तानचञ्चपुटेन ।
श्रमपरिगतैस्विस्तीर्णश्रीससि इति पयस्परं कतिपयं अपि त्वत्तसस्माभिस्समुद्र समीहितं ।
ककुभि ककुभि भ्रान्त्वा भ्रान्त्वा विलोक्य विलोकितं
अभिपतति घनं शृणोति गर्जास्सहति शिलास्सहते तडित्तरङ्गान् ।
बद्धससि विद्धि तावत्मधुरसन व्यसनं ईदृकेततिति ।
हृत्वा अपि वसुसर्वस्वं अमी ते जलदास्सखि ।
श्रीफलेन अमुना एव अयं कुरुते किं न वानरः ।
अन्यसपि चन्दनतरोस्महनीयमूर्तेस्सेकार्थं उत्सहति तद्गुणबद्धतृष्णः ।
त्वं गर्ज नाम विसृज अम्बुद न अम्बु नाम विद्युल्लताभिसभितर्जय नाम भूयः ।
आमन्थिनीकलशसेष सदुग्धसिन्धुस्वेत्रं च वासुकिसयं गिरिसेष मन्थः ।
व्याकुर्महे बहु किं अस्य तरोस्सदा एव नैसर्गिकसयं उपकाररसस्परेषु ।
विस्रं वपुस्परवधप्रवणं च कर्म तिर्यक्तया एव कथितस्सदसद्विवेकः ।
कस्य तृषं न क्षपयसि न पयसि तव कथय के निमज्जन्ति ।
न स्फूर्जति न च गर्जति न च करकास्किरति सृजति न च तडितः ।
न भवतु कथं कदम्बस्प्रतिप्रतीकप्ररूढघनपुलकः ।
करं प्रसार्य सूर्येण दक्षिणाशावलम्बिना ।
न शक्यं स्नेहपात्राणां वितानं च विरूक्षणं ।
न आलम्बनाय धरणिस्न तृषार्तिशान्त्यै सप्त अपि वारिनिधयस्न धनाय मेरुः ।
आश्वास्य पर्वतकुलं तपनोष्मतप्तं निर्वाप्य दावविधुराणि च काननानि ।
विश्रामद्रुम कथ्यतां तव विपत्काले क्व ते साम्प्रतं ।
दूरं यदि क्षिपसि भीमजवैस्मरुद्भिस्संचूर्णयसि अपि दृढं यदि वा शिलाभिः ।
यस्य उदये बहुमनोरथमन्थरेण संचिन्तितं किं अपि चेतसि चातकेन ।
देवे कालवशं गते सवितरि प्राप्य अन्तरासंगतिं
हन्त ध्वान्त किं एधसे दिशि दिशि व्य्ॐनस्प्रतिस्पर्धया ।
तस्य एव अस्तं उपेयुषस्करशतानि आदाय विध्वंसयन्
पूर्वं तु त्वयि मुक्तमञ्जरिभरोन्निद्रे यसिन्दिन्दिरः ।
अक्रीडन्निमिषं स न एति फलिनं यत्त्वां विकाशैकमुत्
जायन्ते बहवसत्र कच्छपकुले किं तु क्वचित्कच्छपी
न एका अपि एकं असूत न अपि च पुनस्सूते न वा सोष्यते ।
भवकाष्ठमयी नाम नौके हृदयवति असि ।
भगवति यामिनि वन्दे त्वयि भुवि दृष्टस्पतिव्रताधर्मः ।
कतिपयदिवसस्थायी पूरस्दूरोन्नतसपि भविता ते ।
विनीतसयं वेशस्शमं इव नदीनां कथयति ।
सततं या मध्यस्था प्रथयति यष्टिस्प्रतिष्ठिता असि इति ।
कृतं इदं असाधु हरिणैस्शिरसि तरूणां दवानले ज्वलति ।
कर्णाहतिव्यतिकरं करिणां विपक्षदानं व्यवस्यति मधुव्रतसेष तिक्तं ।
चित्रं ततेव महतश्मसु तापनेषु यत्न उद्गिरन्ति अनलं इन्दुकराभिमृष्टाः ।
दग्धस्किं वा न भवति मसी च इति संदेहनीभिस्
छिद्रं मणेस्गुणार्थं नायकपदहेतुसस्य तारल्यं ।
परिणतिसुकुमार स्वादुमाकन्द निन्दां कथं इव तव भृष्टस्राजकीरस्करोतु ।
किंपाक पाके बहिसेव रक्त तिक्त असितान्तर्दृशि कान्तिं एषि ।
विगर्जां उन्मुञ्च त्यज तरलतां अर्णव मनाक्
दृशं मेरौ दद्यास्स हि मणिमयप्रस्थमहितस्
आज्ञां एव मुनेस्निधाय शिरसा विन्ध्याचल स्थीयतां
अत्युच्चैस्पदं इच्छता पुनरियं नो लङ्घनीया त्वया ।
तत्च आस्फालसहं सरस्क्षितिभृतां इति अस्ति कस्निह्नुते ।
जिघ्रन्तस्सिंहलीनां मुखकमलं अलं केरलीनां कपोलं
लतां पुष्पवतीं स्पृष्ट्वा कृतस्नानस्जलाशये ।
वहति ललितमन्दस्कामिनीमानबन्धं श्लथयितुं अयं एकस्दक्षिणस्दाक्षिणात्यः ।
भुक्त्वा चिरं दक्षिणदिग्वधूं इमां विहाय तस्यास्भयतस्शनैस्शनैः ।
सद्यस्चन्दनशोषिणि स्तनतटे सङ्गे कुरङ्गीदृशां ।
शिशिरशीकरवाहिनि मारुते चरति शीतभयातिव सत्वरः ।
ये दोलाकेलिकारास्किं अपि मृगदृशां मन्युतन्तुच्छिदस्ये
सद्यस्शृङ्गारदीक्षाव्यतिकरगुरवस्ये च लोकत्रये अपि ।
ते कण्ठे लोठयन्तस्परभृतवयसां पञ्चमं रागराजं
अजाजीजम्बाले रजसि मरिचानां च लुठितास्
स्वैरं चक्रानुवृत्त्या मुहुसुपरि परिभ्रम्य सम्यक्कृतास्थस्
पक्षाभ्यां सहितौ प्रसार्य चरणौ एकैकशस्पार्श्वयोस्
एकीकृत्य शिरोधरोपरि शनैस्पाण्डूदरे पक्षती ।
किंचित्कुञ्चितलोचनां सहचरीं संचुम्ब्य चञ्च्वा चिरं
उत्प्लुत्य दूरं परिधूय पक्षावधस्निरीक्ष्य क्षणबद्धलक्ष्यः ।
नीडातपक्रम्य विधूय पक्षौ वृक्षाग्रं आरुह्य ततस्क्रमेण ।
स्वार्थं चेत्कुरुते प्रियाधररसास्वादं न विन्दति असौ ।
तं च इमं च करोति मूढजडधीस्कामान्धमुग्धस्यतस्
हलाग्रोत्कीर्णायां परिसरभुवि ग्रामचटकास्लुठन्ति स्वच्छन्दं नखरशिखरात्छोटितमृदः ।
वलितनयनस्मन्दं मन्दं पदं निदधत्बकः ।
मुक्तेषु रश्मिषु निरायतपूर्वकायास्निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।
पश्चातङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वा अङ्गं उच्चैस्
आसज्य आभुग्नकण्ठस्मुखं उरसि सटां धूलिधूम्रां विधूय ।
आदौ वितत्य चरणौ विनमय्य कण्ठं उत्थाप्य वक्त्रं अभिहत्य मुहुस्च वत्साः ।
किराते च आकर्णीकृतधनुषि धावति अनुपदं ।
कैश्चित्वीतदयेन भोगपतिना निष्कारणोपप्लुतप्रक्षीणैस्निजवंशभूसिति मितैसत्यज्यमानास्कुलैः ।
विकासयति लोचने स्पृशति पाणिना आकुञ्चिते
विदूरं अवलोकयति अतिसमीपसंस्थं पुनः ।
सीमनि लघुपङ्कायां अङ्कुरगौराणि चञ्चितोरस्काः ।
स्वैरोत्फालगतिक्रमेण परितस्भ्रान्त्वा सलीलं मुहुः ।
अमी नेत्रानन्दं ददति चरणाचोटितमुखाः ।
नीवारौदनमण्डं उष्णमधुरं सद्यःप्रसूतप्रियापीतातपि अधिकं तपोवनमृगस्पर्याप्तं आचामति ।
मधुरं इव वदन्तस्स्वागतं भृङ्गशब्दैस्नतिं इव फलनम्रैस्कुर्वते अमी शिरोभिः ।
देवीं कान्तारदुर्गां रुधिरं उपतरु क्षेत्रपालाय दत्त्वा ।
अभिनवमुखमुद्रं क्षुद्रकूपोपवीतं प्रशिथिलविपुलत्वं ज्वालकोच्छ्वासिपालं ।
\Cओलो इति जातिव्रज्या । । ३५
तत्ब्रह्माण्डं इह क्वचित्क्वचितपि क्षोणी क्वचित्नीरदास्
ते द्वीपान्तरमालिनस्जलधयस्क्व अपि क्वचित्भूभृतः ।
आश्चर्यं गगनस्य कसपि महिमा सर्वैसमीभिस्स्थितैस्
विष्णुस्बभार भगवानखिलां धरित्रीं तं पन्नगस्तं अपि तत्सहितं पयोधिः ।
किं ब्रूमस्जलधेस्श्रियं स हि खलु श्रीजन्मभूमिस्स्वयं
वाच्यस्किं महिमा अपि यस्य हि किल द्वीपं मही इति श्रुतिः ।
त्यागस्कसपि स तस्य बिभ्रति जगन्ति अस्य अर्थिनसपि अम्बुदास्
यत्कर्मातिशयं विचिन्त्य हृदये कम्पस्समुत्पद्यते ।
एकस्य आश्रयघस्मरस्य पिबतस्तृप्तिस्न जाता जलैस्
निपीतस्येन अयं तटं अधिवसति अस्य स मुनिस्
दधानसन्तर्दाहं स्रजसिव स च और्वसस्ति दहनः ।
तथा सर्वस्वार्थे बहुविमथितस्येन स हरिस्
अन्यस्कसपि स कुम्भसम्भवमुनेसास्तां शिखी जाठरस्
यं संचिन्त्य दुकूलवह्निसदृशस्संलक्ष्यते वाडवः ।
सीमा सर्वमहाद्भुतेषु स तथा वारांपतिस्पीयते
उद्यन्तु नाम सुबहूनि महामहांसि चन्द्रसपि अलं भुवनमण्डलमण्डनाय ।
शौर्यं यत्च न तद्गिरां पथि ननु व्यक्तं हि तत्कर्मभिस्
तत्तावतेव शशिनस्स्फुरितं महीयस्यावत्न तिग्मरुचिमण्डलं अभ्युदैति ।
अपत्यानि प्रायस्दश दश वराही जनयति
क्षमाभारे धुर्यस्स पुनरिह न आसीत्न भविता ।
तेषां तृषस्परिणमन्ति न यत्र तत्र न अन्यस्य वारिविभवसपि च तादृकस्ति ।
किं वाच्यस्महिमा महाजलनिधेस्यत्र इन्द्रवज्राहतित्रस्तस्भूभृदमज्जदम्बुविचलत्कौलीलपोताकृतिः ।
किं ब्रूमशरिं अस्य विश्वं उदरे किं वा फणां भोगिनस्
शेते यत्र हरिस्स्वयं जलनिधेस्ससपि एकदेशे स्थितः ।
विस्तारस्यदि न ईदृशस्न यदि तत्गाम्भीर्यं अम्भोनिधेस्
न स्यात्वा यदि सर्वसत्त्वविषयस्तादृक्कृपानुग्रहः ।
उद्दीप्ताग्निससौ मुनिस्विजयते यस्य उदरे जीर्यतस्
पाथोदेसवशिष्टं अम्बु कथं अपि उद्गीर्णं अन्तसर्णवं ।
संवासान्ते व्रजति जलदे वैकृतस्ताभिसेव ।
अस्ति अन्यसपि प्रलयरजनीसंनिपाते अपि अनिद्रस्
\Cओलो इति माहात्म्यव्रज्या । । ३६
प्रिया वृत्तिस्न्याय्या चरितं असुभङ्गे अपि अमलिनं ।
विपदि उच्चैस्स्थेयं पदं अनुविधेयं च महतां
निन्दन्तु नीतिनिपुणास्यदि वा स्तुवन्तु लक्ष्मीस्परापततु गच्छतु वा यथेष्टं ।
तदा सर्वज्ञसस्मि इति अभवतवलिप्तं मम मनः ।
पुण्ड्रेक्षुकाण्डसुहृदस्मधुराम्बुभावास्सन्तस्स्वयं यदि नमन्ति नमन्ति कामं ।
जतुपङ्कायते दोषस्प्रविश्य एव आसतां हृदि ।
कुसुमस्तबकस्य इव द्वयी वृत्तिस्मनस्विनः ।
राजा त्वं वयं अपि उपासितगुरुप्रज्ञाभिमानोन्नतास्
ख्यातस्त्वं विभवैस्यशांसि कवयस्दिक्षु प्रतन्वन्ति नः ।
इत्थं मानद नातिदूरं उभयोसपि आवयोसन्तरं
उदन्वच्छिन्ना भूस्स च निधिसपां योजनशतं
सदा पान्थस्पूषा गगनपरिमाणं कलयति ।
विपदि धैर्यं अथ अभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः ।
स साधुस्यस्विपन्नानां साहाय्यं अधिगच्छति ।
सत्यं गुणास्गुणवतां विधिवैपरीत्यात्यत्नार्जितासपि कलौ विफलास्भवन्ति ।
अपूर्वस्कसपि कोपाग्निस्सज्जनस्य खलस्य च ।
छायां कुर्वन्ति च अन्यस्य तापं तिष्ठन्ति वातपे ।
अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरं ।
लक्ष्मीं तृणाय मन्त्यन्ते तद्भरेण नमन्ति च ।
अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयं ।
विचिन्त्यमानशि करोति विस्मयं विसारिणा सच्चरितेन सज्जनः ।
क्रूरसपि प्रकृतं विहाय मलिनां आलम्बते भद्रतां ।
यत्तृष्णाग्लपितसपि न इच्छति जनस्पातुं ततेव क्षणात्
क्व अकराणारुषां संख्या संख्यातास्कारणक्रुधः ।
ये दीनेषु कृपालवस्स्पृशति यानल्पसपि न श्रीमदस्
श्रान्तास्ये च परोपकारकरणे हृष्यन्ति ये याचिताः ।
स्वस्थास्सति अपि यौवनोदयमहाव्याधिप्रकोपे अपि ये
यशस्रक्षन्ति न प्राणान्पापात्बिभति न द्विषः ।
यथा यथा परां कोटिस्गुणस्समधिरोहति ।
अयं निजस्परस्वा इति गणना लघुचेतसां ।
ये प्राप्ते व्यसने अपि अनाकुलधियस्सम्पत्सु न एव उन्नतास्
प्राप्ते न एव पराङ्मुखास्प्रणयिनि प्राणोपयोगैसपि ।
मुखे सत्या वाणी श्रुतं अनवगीतं श्रवणयोः ।
वज्रातपि कठोराणि मृदूनि कुसुमातपि ।
आ परितोषात्विदुषां न साधु मन्ये प्रयोगविज्ञानं ।
पुराणं इति एव न साधु सर्वं न च अपि काव्यं नवं इति अवद्यं ।
ब्रूत नूतनकूष्माण्डफलानां के भवन्ति अमी ।
यत्नेत्रैस्त्रिभिसीक्षते न गिरिशस्न अष्टाभिसपि अब्जभूस्
स्कन्दस्द्वादशभिस्न वा न मघवा चक्षुःसहस्रेण वा ।
सम्भूय अपि जगत्त्रयस्य नयनैस्द्रष्टुं न तत्शक्यते
नीरसानि अपि रोचन्ते कर्पासस्य फलानि नः ।
गुणवत्पात्र मा अत्र एकहार्यनिर्यासं आशयन् ।
सततं असत्यात्बिभ्यति मा भैषीसिति वदन्ति भीतेषु ।
यदि अपि दैवात्स्नेहस्नश्यति साधोस्तथा अपि सत्त्वेषु ।
\Cओलो इति सद्व्रज्या । । ३७
अतिमलिने कर्तव्ये भवति खलानां अति इव निपुणा धीः ।
सद्गुणालंकृते काव्ये दोषान्मृगयते खलः ।
निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्तौ शृणिस्
इत्थं तत्भुवि न अस्ति यत्र विधिना न उपायचिन्ता कृता
अकारणाविष्कृतवैरदारुणातसज्जनात्कस्य भयं न जायते ।
खलवृन्दं श्मशानं च भवति अपचितं यदा ।
सूत्रं किंचितपूर्वं एव जठरातुत्पाद्य सद्यस्स्वयं
देवानां अपि पश्यन्तां स श्रिया मेध्यते खलु ।
स्तोकेन उन्नतिं आयाति स्तोकेन आयाति अधोगतिं ।
आखुभ्यस्किं खलैस्ज्ञातं खलेभ्यस्किं अथ आखुभिः ।
दुर्जनदूषितमनसां पुंसां स्वजने अपि न अस्ति विश्वासः ।
खलस्किंचित्वाक्यं रचयति च विस्तारयति च ।
प्रियसखि विपद्दण्डप्रान्तप्रपातपरम्परापरिचयचले चिन्ताचक्रे निधाय विधिस्खलः ।
पादाहतसथ धृतदण्डविघट्टितस्वा यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः ।
परिशुद्धां अपि वृत्तिं समाश्रितस्दुर्जनस्परान्व्यथते ।
यस्स्वानपि प्रथमं अस्तसमस्तसाधुवृत्तिस्गुणान्खलतया मलिनीकरोति ।
क्षिप्रे रोषिणि शर्मशोषिणे विना हेतुं जगत्प्लोषिणि ।
जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भस्शुचौ कैतवं
शूरे निर्घृणतार्जवे विमतिना दैन्यं प्रियालापिनि ।
तेजस्विनि अवलिप्तता मुखरता वक्तरि अशक्तिस्स्थिरे
शूरान्द्वेष्टि धनच्युतान्परिभवति आज्ञापयति आश्रितान् ।
यत्यतिष्टतरं तत्तत्देयं गुणवते किल ।
करुणाद्रवं एव दुर्जनस्सुतरां सत्पुरुषं प्रबाधते ।
आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चाथ् ।
खलानां खर्जूरक्षितिरुहकठोरं क्व च मनस्
इति इमं व्यामोहं परिहर विचित्रास्शृणु कथा
उपकारिणि शुद्धमतौ वार्जने यस्समाचरति पापं ।
मुखे नीचस्य पतितासहेसिव पयःकणाः ।
तुल्योत्पत्ती प्रकृतिधवलौ अपि अमू शङ्खस्ॐऔ
तत्र स्थाणुस्विधुं असदृशेन उत्तमाङ्गेन धत्ते ।
अकलितनिजपररूपस्स्वकं अपि दोषं परस्थितं वेत्ति ।
आश्रयाशस्कृष्णवर्त्मा दहनस्च एष दुर्जनः ।
वरं आक्षीणता एव अस्तु शशिनस्दुर्जनस्य च ।
सर्वत्र मुखरचपलास्प्रभवन्ति न लोकसंमतास्गुणिनः ।
आरम्भरमणीयानि विमर्दे विरसानि च ।
गुणकणिकानपि सुजनस्शशिलेखां इव शिवस्शिरसि कुरुते ।
बिभीमस्वयं अत्यन्तं चाक्रिकस्य गुणातपि ।
परसंतापनहेतुस्यत्र अहनि न प्रयाति निष्पत्तिं ।
दिवसान्तानभिनन्दति बहुमनुते तेषु जन्मनस्लाभं ।
परां व्रजति विक्रियां न हि भयं ततस्पश्यति ।
यतस्तु भयशङ्कया सुकृशया अपि संस्पृश्यते
असज्जनास्चेत्मधुरैस्वचोभिस्शक्यन्ते एव प्रतिकर्तुं आर्यैः ।
नीतं चेतस्न च धवलितं हेलया न अर्पितं च ।
निर्यन्त्रणं यत्र न वर्तितव्यं न मोदितव्यं प्रणयातिवादे ।
एते स्निग्धतमासिति मा मा क्षुद्रेषु कुरुत विश्वासं ।
खलं दृष्ट्वा एव साधूनां हृदयं काष्ठवत्भवेथ् ।
हेतोस्विना उपकारी यदि नाम शतेषु कश्चितेकस्स्याथ् ।
आक्रान्ता इव महोपलेन मुनिना शप्ता इव दुर्वाससा
सातत्यं बत मुद्रिता इव जतुना नीता इव मूर्छां विषैः ।
बद्धा इव अतनुरज्जुभिस्परगुणान्वक्तुं न शक्ता सती
प्रकृतिसिह खलानां दोषचित्तं गुणज्ञे विनयललितभावे द्वेषरक्ता च बुद्धिः ।
\Cओलो इति असद्व्रज्या । । ३८
पान्थस्तप्त्वा प्रसुप्तस्तदनु तततृणे धामनि ग्रामदेव्याः ।
उत्कम्पी कर्पटार्धे जरति परिजडे छिद्रिणि च्छिन्ननिद्रस्
पोतानेतानपि गृहवति ग्रीष्ममासावसानं यावत्निर्वाहयति भवती येन वा केनचित्वा ।
लिप्तास्जर्जरकर्करी जतुलवैस्नो मां तथा बाधते ।
गेहिन्या स्फुटितांशुकं घटयितुं कृत्वा सकाकु स्मितं
कट्याच्छादनबन्धकेन कथं अपि आसादितेन अन्धसा
एते दरिद्रशिशवस्तनुजीर्णकन्थां स्कन्धे निधाय मलिनां पुलकाकुलाङ्गाः ।
तस्मिनेव गृहोदरे रसवती तत्र एव सा कण्डनी
तत्र उपस्करणानि तत्र शिशवस्तत्र एव वासस्स्वयं ।
अद्य अशनं शिशुजनस्य बलेन जातं श्वस्वा कथं नु भविता इति विचिन्तयन्ती ।
प्रत्युत्सिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति ।
दत्त्वा मूर्धनि शीर्णशूर्पशकलं जीर्णे गृहे व्याकुला
मा रोदीस्चिरं एहि वत्स विफलं दृष्ट्वा अद्य पुत्रानिमान्
आयातस्भवतसपि दास्यति पिता ग्रैवेयकं वाससी ।
श्रुत्वा एवं गृहिणीवचांसि निकटे कुड्यस्य निःकिंचनस्
भूयोभिस्गदितं हितैषिभिसिति इव अस्माभिसङ्गीकृतं ।
मातर्धर्मरते कृपां कुरु मयि श्रान्ते च वैदेशिके
द्वारालिन्दककोणकेषु निभृतस्स्थित्वा क्षिपामि क्षपां ।
लग्नस्शृङ्गयुगे गृही सतनयस्वृद्धौ गुरू पार्श्वयोस्
पुच्छाग्रे गृहिणी स्वरेषु शिशवस्लग्ना वधूस्कम्बले ।
अध्वश्रमाय चरणौ विरहाय दारासभ्यर्थनाय वचनं च वपुस्जरायै ।
वर्धनमुखासिकायां उदरपिशाचस्किं इच्छकां इच्छन् ।
वरं मृतस्न तु क्षुद्रस्तथा अपि महतन्तरं ।
कृपणस्य अस्तु दारिद्र्यं कार्पण्यावृतिकारकं ।
जीवता अपि शवेन अपि कृपणेन न दीयते ।
श्रीफलं यत्न तत्दीर्घं इति तावत्व्यवस्थितं ।
पथिक हे विजहीहि वृथार्थितां न खलु वेत्सि नवस्त्वं इह आगतः ।
रवेसस्तमये येन निद्रा नेत्रेषु निर्मिता ।
येन एव अम्बरखण्डेन दिवा संचरते रविः ।
मलीमसेन देहेन प्रतिगेहं उपस्थिताः ।
भूयाततस्बहुव्रीहिशासनाशा मुधा एव मे ।
\Cओलो इति दीनव्रज्या । । ३९
कृत्वा आखुस्विवरं स्वयं निपतितस्नक्तं मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरं असौ तेन एव यातस्पथा
यस्यास्कृते नृपतयस्तृणवत्त्यजन्ति प्राणान्प्रियानपि परस्परबद्धवैराः ।
रथस्य एकं चक्रं भुजगयमितास्सप्त तुरगास्
रविस्याति एव अन्तं प्रतिदिनं अपारस्य नभसस्
पौलस्त्यस्कथं अन्यदारहरणे दोषं न विज्ञातवान्
काकुत्स्थेन कथं न हेमहरिणस्य असम्भवस्लक्षितः ।
अक्षाणां च युधिष्ठिरेण महता ज्ञातस्न दोषस्कथं
अकार्ये तथ्यस्वा भवति वितथस्कामं अथवा
तथा अपि उच्चैस्धाम्नां हरति महिमानं जनरवः ।
कृतस्यतह्नस्तनिमा हिमागमे लघीयसी यत्च निदाघशर्वरी ।
पीताम्बराय तनयां प्रददौ पयोधिस्तत्कालकूटगरलं च दिगम्बराय ।
किं जन्मना जगति कस्यचितीक्षितेन शक्त्या एव याति निजया पुरुषस्प्रतिष्ठां ।
पुंसस्स्वरूपविनिरूपणं एव कार्यं तज्जन्मभूमिगुणदोषकथा वृथा एव ।
छायां आतपवैरिणीं अनुसरन्बिल्वस्य मूलं गतः ।
तत्र अपि आशु कदाचितेव पतता बिल्वेन भग्नं शिरस्
अलंकारस्शङ्काकरनरकपालस्परिकरस्प्रशीर्णाङ्गस्भृङ्गी वसु च वृषसेकस्बहुवयाः ।
न सम्बन्दोपाधिं दधते इह दाक्षिण्यनिधयस्प्रहृष्टप्रेमाणां स हि सहजसेषां उदयते ।
लोकोत्तरं चरितं अर्पयति प्रतिष्ठां पुंसस्कुलं न हि निमित्तं उदात्ततायाः ।
स्थलीनां दग्धानां उपरि मृगतृष्णानुसरणात्तृषार्तस्शारङ्गस्विरमति न खिन्ने अपि वपुषि ।
किं कूर्मस्य भरव्यथा न वपुषि क्ष्मां न क्षिपति एष यत्
किं वा न अस्ति परिश्रमस्दिनकरस्य अस्ते न यत्निश्चलः ।
स्वच्छाशयस्भवति कसपि जनस्प्रकृत्या सङ्गस्सतां अभिजनस्च न हेतुसत्र ।
गौसेकस्स च लाङ्गले अपि अकुशलस्तन्मात्रसारं धनं ।
शर्वस्य इति अवगम्य याति विमुखी रत्नालयं जाह्वनी
खनति न खुरैस्क्षोणीपृष्ठं न नर्दति सादरं
प्रकृतिपुरुषं दृष्ट्वा एव अग्रे न कुप्यति गां अपि ।
क्व अपि कस्य च कुतसपि कारणात्चित्तवृत्तिसिह किं गुणागुणैः ।
न दशति पुनस्ताराशङ्की दिवा अपि सितोत्पलं
अस्थानाभिनिवेशी प्रायस्जडसेव भवति नो विद्वान् ।
निर्गुणं अपि अनुरक्तं प्रायस्न समाश्रितं जहति सन्तः ।
अविकारिणं अपि सज्जनं अनिशं अनार्यस्प्रबाधते अत्यर्थं ।
त्यक्ता येन गुरोस्गिरा वसुमती बद्धस्यतम्भोनिधिः ।
शशिनं उदितं लेखामात्रं नमन्ति न च इतरं गगनसरितं धत्ते मूर्ध्ना हरस्न नगात्मजां ।
भवति विफलस्प्रारम्भस्यत्ततत्र किं अद्भुतं ।
नियतविषयास्सर्वे भावास्न यान्ति हि विक्रियां
खगानां के मेघास्के इव विहगास्वा जलमुचां
स्वयं विष्णुस्तस्य त्रिदशजयिनस्किं न सुकरं ।
किं न उज्ज्वलस्किं उ कलास्सकलास्न धत्ते दत्ते न किं नयनयोस्मुदं उन्मयूखः ।
लूनास्तिलास्तदनु शोषं उपागतास्ते शोषात्हि शुद्धिं अथ तापं उपेतवन्तः ।
दुग्ध मुग्धं अस्ति यस्त्वया धृतस्स्नेहसेष विपदेककारणं ।
नन्दी द्वारि बहिःकृतस्गुणनिधिस्कष्टं किं अत्र उच्यतां
क्व अम्भोधिस्क्व च सेतुबन्धघटना क्व उत्तीर्य लङ्काजयः ।
पार्थस्य अपि पराभवं यदि रिपुस्न अदात्क्व तादृक्तपस्
दह्यन्ते मणयस्वणिक्करतलैसायान्ति राज्ञां शिरः ।
यसेकस्लोकानां परमसुहृतानन्दजनकस्कलाशाली श्रीमान्निधुवनविधौ मङ्गलघटः ।
अपेतास्शत्रुभ्यस्वयं इति विषादसयं अफलस्प्रतीकारस्तु एषां अनिशं अनुसंधातुं उचितः ।
चन्द्रस्क्षयी प्रकृतिवक्रतनुस्जडात्मा दोषाकारस्स्फुरति मित्रविपत्तिकाले ।
शुक्लीकरोति मलिनानि दिगन्तराणि चन्द्रस्न शुक्लयति च आत्मगतं कलङ्कं ।
गृह्णाति युक्तं इतरत्च जहाति धीमानेष स्वभावजनितस्महतां विवेकः ।
ग्रहपरिकवलिततनुसपि रविसिह बोधयति पद्मषण्डानि ।
प्रणत्या बहुलाभसपि न सुखाय मनीषिणः ।
कस्य उपयोगमात्रेण धनेन रमते मनः ।
पुरस्नानाभङ्गाननुभवति पश्य एष जलदः ।
\Cओलो इति अर्थान्तरन्यासव्रज्या । । ४०
देव त्वद्विजयप्रयाणसमये काम्बोजवाहावलीविङ्खोल्लेखविसर्पिणि क्षितिरजःपूरे वियत्चुम्बति ।
सत्सु रक्तस्द्विषां कालस्पीतस्स्त्रीणां विलोचनैः ।
न जनयसि कंसहर्षं वहसि शरीरं यशोदया जुष्टं ।
न लोपस्वर्णानां न खलु परतस्प्रत्ययविधिस्
विकारस्न अस्ति एव क्वचितपि न भग्नास्प्रकृतयः ।
गुणस्वा वृद्धिस्वा सततं उपकाराय जगतां
सत्यं त्वद्गुणकीर्तनेन सुखयति आखण्डलं नारदस्
किं तु श्रोत्रकटु क्वणन्ति मधुपास्तत्पारिजातस्रजां ।
वार्यन्ते यदि च अप्सरःपरिषदा ते चामराडम्बरैस्
यस्य द्वीपं धरित्री स च जलधिसभूत्यस्य गण्डूषतोयं
तस्य आश्चर्यैकमूर्तेसपि नभसि वपुस्यत्र दुर्लक्षं आसीथ् ।
लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपङ्कजरजांसि चिरं जयन्ति ।
मर्यादानिधिसम्भसां पतिसथ त्वं चेत्वयं वारिदाः ।
प्राकासीत्नरनाथ सम्प्रति पुनस्तेषां तव अनुग्रहाथ् ।
नाथ त्वां अनुयाचे प्रसीद विजहीहि सङ्गरारम्भं ।
देव स्वस्तुतिसस्तु नाम हृदि नस्सर्वे वसन्ति आगमास्
तीर्थं न क्वचितीदृकत्रभवती त्वत्खड्गधारा यथा ।
सर्वं ढौकितं एव तुभ्यं अधुना जातसस्मि निष्किंचनः ।
तन्वीं उज्झितभूषणां कलगिरं सीत्कारं आतन्वतीं
वेपन्तीं व्रणिताधरां विवसनां र्ॐओद्गमं बिभ्रतीं ।
भेकं मूर्ध्नि निगृह्य कज्जलरजःश्यामं भुजङ्गं स्थितं ।
मुग्धा व्याधवधुस्तव अरिनगरे शून्ये चिरात्सम्प्रति
न क्रोधानलधूमराजिसिव च भ्रूवल्लिसुल्लासिता ।
राज्ञां त्वच्चरणारविन्दं अथ च श्रीचन्द्र पुष्पन्ति अमूस्
आक्रान्तं महिषीभिसेव शयनं त्वद्विद्विषां मन्दिरे
अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेत्मन्यसे
तत्ब्रूमसद्भुतकीर्तनेषु रसना केषां न कण्डूयते ।
ताडीताडङ्कमात्राभरणपरिणतीनि उल्लसत्सिन्दुवारस्रग्दामानि द्विषां वस्घनजघनजरद्भूरिभूर्जांशुकानि ।
देव आकर्णय येन येन महसा यत्यत्समासादितं ।
तव ज्यानिर्घोषं नृपतिसिह कस्नाम सहते ।
आरात्सुप्तस्य वीर त्वदरिवरपुरद्वारि नीहारकाले ।
ते कौपीनधनास्ते एव हि परं धात्रीफलं भुञ्जते
तेषां द्वारि नदन्ति वाजिनिवहास्तैसेव लब्धा क्षितिः ।
तैसेतत्समलंकृतं निजकुलं किं वा बहु ब्रूमहे
हा मातर्मदयन्ति हा कुरबक भ्रातस्स्वसर्मालति ।
इति एवं रिपुमन्दिरेषु भवतस्शृण्वन्ति नक्तंचरास्
वज्रिन्वज्रं इदं जहीहि भगवनीश त्रिशूलेन किं
विष्णो त्वं च विमुञ्च चक्रं अमरास्सर्वे त्यजन्तु आयुधं ।
महति समरे शत्रुघ्नस्त्वं सदा एव युधिष्ठिरः ।
वचनकुसुमं तेन अस्माभिस्तव आदरढौकितं ।
यदि ततगुणं कण्ठे मा धास्तथा उरसि मा कृथास्
सर्वदा सर्वदससि इति मिथ्या संस्तूयसे बुधैः ।
अपूर्वा इयं धनुर्विद्या भवता शिक्षिता कुतः ।
गम्भीरनीरसरसीसपि पङ्कशेषास्कुर्वन्ति ये दिनकरस्य करास्ते एव ।
विस्फारायतशालिनि प्रतिफणं फेलाम्भसि भ्रश्यति ।
शेषं क्लेशयितुं दिशस्स्थगयितुं पेष्टुं धरित्रीभृतस्
सिन्धून्धूलिभरेण कर्दमयितुं तैसेव रोद्धुं नभः ।
नासीरे च मुहुस्मुहुस्चल चल इति आलापकोलाहलान्
देव त्वत्सैन्यभारातवनिं अवनतां धर्तुं उत्तब्धदेहस्
निम्नत्वं गिरयस्समं विषमतां शून्यं जनस्थानकं
असिन्दूरेण सीमन्तस्मा भूत्नस्योषितां इति ।
देव त्वं किल कुन्तलग्रहरुचिस्काञ्चीं अपासारयन्
क्षिप्रं क्षिप्रकरस्ततस्प्रहणनं प्रारब्धं अङ्गेषु अपि ।
इति आकूतजुषस्तव स्तवकृता वैतालिकेन उदिते
गृह्णीत अह्नाय सर्वे भुवि भुवनभुजस्चामरं वा दिशस्वा ।
आबाल्याधिगमात्मया एव गमितस्कोटिं परां उन्नतेस्
अस्मत्संकथया एव पार्थिवसुतस्सम्प्रति अयं लज्जते ।
इत्थं खिन्नसिव आत्मजेन यशसा दत्तावलम्बसम्बुधेस्
संकल्पे अङ्कुरितं द्विपत्रितं अथ प्रस्थानवेलागमे
मार्गे पल्लवितं पुरं प्रविशतस्शाखाशतैसुद्गतं ।
प्रातर्भाविनि दर्शने मुकुलितं दृष्टे तु देव त्वयि
जाने विक्रमवर्धन त्वयि धनं विश्राणयति अर्थिनां
एकस्त्रिधा हृदि सदा वससि स्म चित्रं यस्विद्विषां च विदुषां च मृगीदृशां च ।
देव त्वां अहं अर्थये चिरं असौ वर्षागमस्निर्गतस्
तीर्थं तीर्थं इतस्ततस्विचरितुं चेतसधुना धावति ।
द्विरूपा समरे राजनेका एव असिलतावधूः ।
मा ते भवतु शत्रूणां या श्रुतिस्श्रूयते क्विपः ।
तं च त्र्यम्बकनेत्रदग्धवपुषस्पुष्पायुधस्य अनलं ।
पद्मायास्श्वसितानिलानि च शरत्कालस्य तत्च स्फुटं
द्विषस्भवन्ति वीरेन्द्र मुखे न तव संमुखाः ।
क्षिप्तस्क्षीरगृहे न दुग्धजलधिस्कोषे न हेमाचलस्
दिक्पालासपि पालिपालनविधौ आनीय न आरोपिताः ।
दाता एष विश्वविदितस्किं अयं ददाति सर्वाहितानि जगते ननु वार्तं एतथ् ।
क्षीरक्ष्मारुहि वायसस्मधुरवाक्वामा शिवा इति ध्रुवं
यतस्यतस्नृप नखपृष्ठपाटलं विलोचनं चलति तव प्रसीदतः ।
रुदितं वनेचरैसपि विन्ध्याद्रिनिवासिभिस्तव अरिशिशौ ।
नम्रीभूतैस्फलं अभिनवं प्राप्यते यदि अवश्यं
भ्रान्तं येन चतुर्भिसेव चरणैस्सत्याभिधाने युगे
त्रेतायां त्रिभिसङ्घ्रिभिस्कथं अपि द्वाभ्यां ततस्द्वापरे ।
न स्यात्त्वं यदि देव पुद्गलगुडस्काले कलौ उत्कले
त्वं धर्मभूस्त्वं इह संगरमूर्ध्नि भीमस्कीर्त्या अर्जुनससि नकुलेन तव उपमा अस्ति ।
यत्च ध्यानं इव आस्थितस्न कनकक्षोणीधरस्स्यन्दते ।
जाने दानविलास दानरभसं शौर्यं च ते शुश्रुवान्
गुणैस्तुल्यस्कसपि क्वचितपि किं अश्रावि भवता ।
इति प्रश्नश्रद्धाकुलितं इव कर्णान्तिकं अगात्
\Cओलो इति चाटुव्रज्या समाप्ता । ।
आनन्दाश्रुजलं पिबन्ति शकुनास्निःशङ्कं अङ्कस्थिताः ।
आस्वाद्य स्वयं एव वच्मि महतीस्मर्मच्छिदस्वेदनास्
मा भूत्कस्यचितपि अयं परिभवस्याञ्छा इति संसारिणः ।
पश्य गोभट किं कुर्मस्कर्मणां गतिसीदृशी ।
अनादृत्य औचित्यं ह्रियं अविगणय्य अतिमहतीं
यतेतस्य अपि अर्थे धनलवदुराशातरलिताः ।
जातिस्यातु रसातलं गुणगणस्तस्य अपि अधस्गच्छतु
शीलं शैलतटात्पतौ अभिजनस्संदह्यतां वह्निना ।
शौर्ये वैरिणि वज्रं आशु निपततु अर्थसस्तु नस्केवलं
कृते किं न अस्माभिस्विगलितविवेकैस्व्यवसितं ।
यतेते साधूनां उपरि विमुखास्सन्ति धनिनस्
न च एषा अवज्ञा एषां अपि तु निजवित्तव्ययभयं ।
अतस्खेदस्न अस्मिनपरं अनुकम्पा एव भवति
व्रीडामन्थरक्ॐअलं नववधूवक्त्रं च न आस्वादितं ।
नीतं न एव यशस्सुरेन्द्रभवनं शस्त्रेण शास्त्रेण वा
प्रियं अपि वचस्मिथ्या वक्तुं जडैस्न च शिक्षितं
निगृह्य अन्तर्दुःखं हसितं अपि शून्येन मनसा ।
वचस्वैदेहि इति प्रतिदिशं उदश्रु प्रलपितं ।
सृजति तावतशेषगुणालयं पुरुषरत्नं अलंकरणं भुवः ।
सत्पुरुषपक्षपातिनि भगवति भवितव्यते नमस्तुभ्यं ।
दाता बलिस्प्रार्थयिता च विष्णुस्दानं मही वाजिमखस्य कालः ।
भद्रे वाणि विधेहि तावतमलां वर्णानुपूर्वीं मुखे
चेतस्स्वास्थ्यं उपेहि गच्छ गुरुते यत्र स्थिता मानिनः ।
लज्जे तिष्ठ पराङ्मुखी क्षणं इतस्तृष्णु पुरस्स्थीयतां
अपि ज्ञात्वा शास्त्रं कटकं अटतस्जीर्यति वपुस्
स्वल्पद्रविणकणास्वयं अमी च गुणिनस्दरिद्रति सहस्रं ।
विद्यावानपि जन्मवानपि तथा युक्तसपि च अन्यैस्गुणैस्
यत्न आप्नोति मनस्समीहितफलं दैवस्य सा वाच्यता ।
एतावत्तु हृदि व्यथां वितनुते यत्प्राक्तनैस्कर्मभिस्
ईश्वरगृहं इदं अत्र हि विषं च वृषभस्च भस्म च आद्रियते ।
अपि वज्रेण संघर्षं अपि पद्भ्यां पराभवं ।
लभन्ते कथं उत्थानं अस्थानं गुणिनस्गताः ।
हृत्पट्टके यत्यतहं लिखामि तत्तत्विधिस्लुम्पति सावधानः ।
कुर्यात्न किं धनवतस्स्वजनस्य वार्ता किं तत्क्रिया नयनयोस्न धृतिं विदध्याथ् ।
अस्मादृशां नूनं अपुण्यभाजां न स्वोपयोगी न परोपयोगी ।
तावत्कथं कथय यासि गृहं परस्य तत्र अपि चाटुशतं आरभसे कथं च ।
सारसवत्ता विहता न बकास्विलसन्ति चरति नो कङ्कः ।
उचितकर्म तनोति न सम्पदां इतरतपि असतेव विवेकिनां ।
छित्वा पाशं अपास्य कूटरचनां भङ्क्त्वा बलात्वागुरां
कामं वनेषु हरिणास्तृणेन जीवन्ति अयत्नसुलभेन ।
वसुमति वसुमति बन्धौ धनलवलोभेन ये निषीदन्ति ।
अनार्यैसस्माभिस्परं इयं अपूर्वा एव रचना ।
प्रत्यासन्नभयस्न वेत्ति विभवं स्वं जीवितं काङ्क्षति ।
उत्तीर्णस्तु ततस्धनार्थं अपरां भूयस्विशति आपदं
नो मेघायितं अर्थवारिविरहक्लिष्टे अर्थशस्ये मया
प्राणैसपि उपकुर्वते व्यसनिनस्ते साधवस्दूरतः ।
इदानीं वाक्तूष्णीं भव किं उ मुधा एव प्रलपसि
पदभ्रष्टा देवी सरितपि सुराणां भगवती ।
द्विजिह्वातन्येषां क्व ननु गुणिनां ईश्वरजुषां
गच्छ त्रपे विरम धैर्य धियस्किं अत्र मिथ्या विडम्बयसि किं पुरुषाभिमान ।
नीचात्कर्णकटु श्रुतं धनं अदातारुढगर्वं वचः ।
शिरस्रौद्रं क्व अहेस्स्फुरदुरुमयूखस्क्व च मणिः ।
कलिस्क्व अयं पापस्क्व च गुणनिधेस्जन्म भवतस्
भ्राम्यद्भिस्न स कसपि निस्तुषगुणस्दृष्टस्विशिष्टस्जनः ।
यस्य अग्रे चिरसंचितानि हृदये दुःखानि सौख्यानि वा
इतस्व्याधस्धावति अयं अनुपदं वक्रितधनुः ।
इतसपि अग्रे तिष्ठति अयं अजगरस्विस्तृतमुखस्
केन इयं श्रीस्व्यसनरुचिना शोण विश्राणिता ते
जाने जानुद्वयसजलसेव अभिरामस्त्वं आसीः ।
पोतोपायासिह हि बहवस्लङ्घनाय क्षमन्ते ।
आहो रिक्तस्कथं अपि भवेतेष दैवात्तदानीं
दैवे समर्प्य चिरसंचितमोहभारं स्वस्थास्सुखं वसत किं परयाचनाभिः ।
अर्थस्न सम्भृतस्कश्चित्न विद्या काचितर्जिता ।
आजन्मानुगते अपि अस्मिन्नाले विमुखं अम्बुजं ।
दृष्टा सा अथ कुपीटयोनिमहसा लेलिह्यमानाकृतिस्
पुष्पोन्मेषवती च किंशुकलता नीता अवनीं वायुना ।
तोयं निर्मथितं घृताय मधुने निष्पीडितस्प्रस्तरस्
दुग्धा सा इयं अचेतनेन जरती दुग्धस्यता गर्दभी
रत्नाकरस्तव पिता स्थितिसम्बुजेषु भ्राता सुधारसमयस्पतिसाद्यदेवः ।
अर्थाभावे मृदुता काठिन्यं भवति च अर्थबाहुल्ये ।
\Cओलो इति निर्वेदव्रज्या । । ४२
अनङ्ग पलितं मूर्ध्नि पश्य एतत्विजयध्वजं ।
अनुचितं इदं अक्रमस्च पुंसां यतिह जरासु अपि मान्मथास्विकाराः ।
धिक्वृद्धतां विषलतां इव धिक्तथा अपि वामभ्रुवां उपरि सस्पृहतां अतन्वीं ।
स्वस्ति सुखेभ्यस्सम्प्रति सलिलाञ्जलिसेव मन्मथकथायाः ।
क्षणात्प्रबोधं आयाति लङ्घ्यते तमसा पुनः ।
पलितेषु अपि दृष्टेषु पुंसस्का नाम कामिता ।
गात्रैस्गिरा च विकलस्चटुं ईश्वराणां कुर्वनयं प्रहसनस्य नटस्कृतसस्मि ।
\Cओलो इति वार्धक्यव्रज्या । । ४३
सद्यस्तप्तं शवस्य ज्वलतिव पिशितं भूरि जग्ध्वा अर्धदग्धं
उत्कृत्य उत्कृत्य कृत्तिं प्रथमं अथ पृथूच्छोफभूयांसो मांसानि
अत्र आस्थस्पिशितं शवस्य कठिनैसुत्कृत्य कृत्स्नं नखैस्
\Cओलो इति श्मशानव्रज्या । । ४४
श्रुत्वा दाशरथी सुवेलकटके सानन्दं अर्धे धनुष्टङ्कारैस्परिपूरयन्ति ककुभस्प्रोञ्छन्ति कौक्षेयकान् ।
संतुष्टे तिसृणां पुरां अपि रिपौ कण्डूलदोर्मण्डलक्रीडाकृत्तपुनःप्ररूढशिरसस्वीरस्य लिप्सोस्वरं ।
एकस्भवान्मम समं दश वा नमन्ति ज्याघोषपूरितवियन्ति शरासनानि ।
रे वृद्धगृध्र किं अकाण्डं इह प्रवीर दावानले शलभतां लभसे प्रमत्त ।
छेत्तुं प्रक्रमिते मया एव तरसा त्रुट्यछिरासंततौ ।
अस्मेरं गलिताश्रुगद्गदपदं भिन्नभ्रुवा यदि अभूत्
देवस्यदि अपि ते गुरुस्स भगवानर्धेन्दुचूडामणिस्
क्षोणीमण्डलं एकविंशतिं इदं वारान्जितं यदि अपि ।
द्रष्टव्यससि अमुं एव भार्गवबटस्कण्ठे कुठारं वहन्
कारावेश्मनि पुष्पकस्य च जयस्यस्य ईदृशस्केलयः ।
वीरप्रसूस्जयति भार्गवरेणुका एव यत्त्वां त्रिलोकतिलकं सुतं अभ्यसूत ।
रामे रुद्रशरासनं तुलयति स्मित्वा स्थितं पार्थिवैस्
सिञ्जासञ्जनतत्परे अवहसितं दत्त्वा मिथस्तालिकाः ।
पृथ्वि स्थिरा भव भुजंगम धारय एनां त्वं कूर्मराज ततिदं द्वितयं दधीथाः ।
लब्ध्वा दृप्यन्ति अधिकं अधिकं बाहवस्शिष्यमाणाः ।
यदि अच्छिन्नं दशमुखशिरस्तस्य तस्य एव कान्तौ
भग्नं देव समस्तवानरभटैस्नष्टं च यूथाधिपैस्
किं धैर्येण पुरस्विलोक्य दशग्रीवसयं आरातभूथ् ।
इत्थं जल्पति सम्भ्रमोल्बणमुखे सुग्रीवराजे मुहुस्
कृष्टा येन शिरोरुहेषु रुदती पाञ्चालराजात्मजा
येन अस्यास्परिधानं अपि अपहृतं राज्ञां गुरूणां पुरः ।
यस्य उरःस्थलशोणितासवं अहं पातुं प्रतिज्ञातवान्
हरिसलसविलोचनस्सगर्वं बलं अवलोक्य पुनर्जगाम निद्रां ।
यत्संख्येषु चकार शीकरकणैसेव द्विषां दुर्दिनं ।
मैनाकस्किं अयं रुणद्धि गगने मन्मार्गं अव्याहतं
तार्क्ष्यस्ससपि समं निजेन विभुना जानाति मां रावणं
तुल्यस्ससपि कृतस्तव अयं अधिकस्कोदण्डदीक्षाविधिः ।
द्राक्निष्पेषविशीर्णवज्रशकलप्रत्युप्तरूढव्रणग्रन्थ्युद्भासिनि भङ्गं ओघं अघवत्मातङ्गदन्तोद्यमे ।
\Cओलो इति वीरव्रज्या । । ४५
यद्वर्ग्याभिस्जग्राहे पृथुशकुलकुलास्फालनत्रासहासव्यस्तोरुस्तम्भिकाभिस्दिशि दिशि सरितां दिग्जयप्रक्रमेषु ।
यस्य उद्योगे बलानां सकृतपि चलतां उज्जिहानैस्रजोभिस्
जम्बालिनि अम्बरस्य स्रवदमरसरित्तोयपूर्णे मार्गे ।
देवे दिशां विजयकौतुकसुप्रयाते निर्यन्त्रणप्रसरसैन्यभरेण यत्र ।
त्वं सर्वदा नृपतिचन्द्र जयश्रियसर्थी स्वप्ने अपि न प्रणयिनी भवतसहं आसं ।
किं च अमीभिसपि स्फुरन्मणितया चण्डांशुकोटिभ्रमं
तेन इदं सुरमन्दिरं घटयता टङ्कावलीनिर्दलत्पाषाणप्रकरस्कृतसयं अखिलस्क्षीणस्गिरीणां गणः ।
सुराणां पाता असौ स पुनरतिपुण्यैकहृदयस्
ग्रहस्तस्य अस्थाने गुरुसुचितमार्गे स निरतः ।
जीवाकृष्टिं स चक्रे मृधभुवि धनुषस्शत्रुसासीत्गतासुस्
लक्षाप्तिस्मार्गणानां अभवतरिबले तद्यशस्तेन लब्धं ।
मुक्ता तेन क्षमा इति त्वरितं अरिगणैसुत्तमाङ्गैस्प्रतीष्ठा
व्यक्रीयन्ते शलाटवसपि मणयस्ते पद्मरागादयः ।
यस्मौर्वीकिणकैतवेन सकलक्ष्मापाललक्ष्मीबलात्कारोपग्रहवाच्यतामकिनितौ बिभ्रत्भुजौ भूपतिः ।
लोकान्वाचयति स्म विक्रममयीं आख्यायिकां आत्मनस्
\Cओलो इति प्रशस्तिव्रज्या । । ४६
तत्तादृक्फणिराजरज्जुकषणं संरूढपक्षच्छिदाघातारुन्तुदं अपि अहो कथं अयं मन्थाचलस्सोढवान् ।
एतेन एव दुरात्मना जलनिधेसुत्थाप्य पापां इमां
छाया पीता अपि यत्र प्रतिकृतिभिसुपस्थाप्यते पादपानां ।
यस्य उपान्तोपसर्पत्तपनकरधृतस्य अपि पद्मस्य मुद्रां
यत्र आकृष्टकुचांशुके मयि रुषा वस्त्राय पत्राणि ते
एते अक्ष्णोस्जनयन्ति कामविरुजं सीतावियोगे घनास्
वातास्शीकरिणसपि लक्ष्मण दृढं संतापयन्ति एव मां ।
दधति कुहरभाजां अत्र भल्लूकयूनां अनुरसितगुरूणि स्त्यानं अम्बूकृतानि ।
\Cओलो इति पर्वतव्रज्या । । ४७
पूरयित्वा अर्थिनां आशां प्रियं कृत्वा द्विषां अपि ।
ते तीक्ष्णदुर्जननिकारशरैस्न भिन्नास्धीरास्ते एव शमसौख्यभुजस्ते एव ।
मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषां शान्तये ।
गतस्कालस्यत्र प्रियसखि मयि प्रेमकुटिलस्कटाक्षस्कालिन्दीलघुलहरिवृत्तिस्प्रभवति ।
मातर्जरे मरणं अन्तिकं आनयन्त्या अपि अन्तस्त्वया वयं अमी परितोषितास्स्मः ।
एकं वा कुपितप्रियाप्रणयिनीं कृत्वा मनोनिर्वृतिं तिष्ठामस्निजचारुपीवरकुचक्रीडारसास्वादने ।
यत्वक्त्रं मुहुसीक्षसे न धनिनां ब्रूषे न चाटुं मृषा
न एषां गर्वगिरस्शृणोषि न पुनस्प्रत्याशया धावसि ।
काले बालतृणानि खादसि सुखं निद्रा असि निद्रागमे
इति ध्यात्वा हृष्यन्क्षणं अथ विघूर्णन्क्षणं अहो
यत्मुञ्चन्ति उपभोगभाञ्जि अपि धनानि एकान्ततस्निःस्पृहाः ।
न प्राप्तानि पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययस्
यदि एतत्स्यात्कुरु भवरसे लम्पटत्वं तदानीं
आस्तां सकण्टकं इदं वसुधाधिपत्यं त्रैलोक्यराज्यं अपि देव तृष्णाय मन्ये ।
ददति तावतमी विषयास्सुखं स्फुरति यावतियं हृदि मूढता ।
निष्कन्दीकृतशान्ति ये अपि च तपःकारागृहेषु आसते ।
तं विद्वांसं इह स्तुमस्करपुटीभिक्षाल्पशाके अपि वा
यदा आसीतज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टं नारीमयं इदं अशेषं जगतपि ।
मातर्लक्ष्मि भजस्व कंचितपरं मत्काङ्क्षिणी मा स्म भूस्
भोगेभ्यस्स्पृहया आलवस्तव वशास्का निःस्पृहाणां असि ।
त्वां रत्नाकरपत्नि जह्नुतनये भागीरथि प्रार्थये ।
तडिन्मालालोलं प्रतिविरतिदत्तान्धतमसं भवत्सौख्यं हित्वा शमसुखं उपादेयं अनघं ।
विषयसरितस्तीर्णास्कामं रुजसपि अवधीरिता विषयविरहग्लानिस्शान्ता गता मलिना अथ धीः ।
अवश्यं यातरस्चिरतरं उषित्वा अपि विषयास्वियोगे कस्भेदस्त्यजति न जनस्यत्स्वयं इमान् ।
भाग्यं नस्क्व नु तादृकल्पतपसां येन अटवीमण्डनास्
स्यामस्क्षोणिरुहस्दहति अविरतं यानेव दावानलः ।
एतत्तत्वक्त्रं अत्र क्व ततधरमधु क्व आयातास्ते कटाक्षास्
क्व आलापास्क्ॐअलास्ते क्व स मदनधनुर्भङ्गुरस्भ्रूविलासः ।
इत्थं बाला मां प्रति अनवरतं इन्दीवरदलप्रभाचौरं चक्षुस्क्षिपति किं अभिप्रेतं अनया ।
शिशुत्वं तारुण्यं तदनु च दधानास्परिणतिं गतास्पांशुक्रीडां विषयपरिपाटीं उपशमं ।
वहति निकटे कालस्रोतस्समस्तभयावहं दिवसरजनीकुलच्छेदैस्पतद्भिसनारतं ।
भार्या मे पुत्रस्मे द्रव्यं सकलं च बन्धुवर्गस्मे ।
समाधानं निद्रा शयनं अवनी मूलं अशनं ।
स्रवन्ति क्षेमं ते पुलिन कुशलं भद्रं उपलाः ।
मन्निन्दया यदि जनस्परितोषं एति ननु अप्रयत्नजनितसयं अनुग्रहस्मे ।
सुरपतिं अपि श्वा पार्श्वस्थं सशङ्कितं ईक्षते
विवेकस्किं ससपि स्वरसवलिता यत्र न कृपा
स किं मार्गस्यस्मिन्न भवति परानुग्रहरसः ।
स किं धर्मस्यत्र स्फुरति न परद्रोहविरतिस्
किं तैस्भाव्यं मम सुदिवसैस्यत्र ते निर्विशङ्कास्
प्रेम्णा पुरा परिगृहीतं इदं कुटुम्बं चेत्लालितं तदनु पालितं अद्य यावथ् ।
क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतस्
ध्यातं वित्तं अहर्निशं न च पुनस्तत्त्वान्तरं शाश्वतं
भिक्षाशनं भवनं आयतनैकदेशस्शय्या भुवस्परिजनस्निजदेहभारः ।
मृत्योसामिषं आस्पदं गुरुशुचां रोगस्य विश्रामभूः ।
यदा पूर्वं न आसीतुपरि च यदा न एव भविता
अतस्संयोगे अस्मिन्परवति वियोगे च सहजे
ग्ॐआयवस्शकुनयस्च शुनां गणसयं लुम्पन्ति कीटकृमयस्परितस्तथा एव ।
सम्भोक्तुं विषयानयं किल पुमान्सौख्याशया वञ्चितः ।
यत्बद्धोर्ध्वजटं यतस्थिमुकुटं यत्चन्द्रमन्दारयोस्धत्ते धाम च दाम च स्मितलसत्कुन्देन्द्रनीलश्रियोः ।
मा गर्वं उद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरी इति ।
चेतस्कातरतां विमुञ्च झटिति स्वास्थ्यं समालम्ब्यतां
कथाभिस्देशानां कथं अपि च कालेन बहुना समायाते कान्ते सखि रजनिसर्धं गतवती ।
विततकरे अपि अनुरागिणि मित्रे कोषं सदा एव मुद्रयतः ।
गुरुसपि गलति विवेकस्स्खलति च चित्तं विनश्यति प्रज्ञा ।
राजनि विद्वन्मध्ये वरसुरतसमागमे वरस्त्रीणां ।
किंशुके किं शुकस्कुर्यात्फलिते अपि बुभुक्षितः ।
अहं इह स्थितवती अपि तावकी त्वं अपि तत्र वसनपि मामकः ।
द्यां आलोकयतां कलास्कलयतां छायास्समाचिन्वतां क्लेशस्केवलं अङ्गुलीस्दलयतां मौहूर्तिकानां अयं ।
तेषां त्वं निधिसागसां असहना मानोन्नता सा अपि अतस्गन्तव्यं भवया न तत्गृहं इति त्वं वार्यसे यासि चेथ् ।
जाने सा असहना स च अहं अपकृत्मयि अङ्गणस्थे पुनस्तस्यास्सम्भविता स साध्वसभरस्कसपि प्रकोपापहः ।
जातानन्तरं एव यस्य मधुरां मूर्तिश्रियं पश्यतस्
सीत्कारं शिक्षयति व्रणयति अधरं तनोति र्ॐआञ्चं ।
वाद्य श्वस्भविता समागमसिति प्रीत्या प्रमोदस्च यः ।
प्राप्ते च एव समागमे सरभसं यत्चुम्बनालिङ्गनानि
संत्रासं जनयन्ति विन्ध्यभिदुरास्वारां प्रवाहास्पुरः ।
विद्यते स न हि कश्चितुपायस्सर्वलोकपरितोषकरस्यः ।
चापस्य एव परं कोटिविभवत्वं विराजते ।
कृत्वा अपि कोषपानं भ्रमरयुवा पुरतसेव कमलिन्याः ।
ग्रामे अस्मिन्पथिकाय न एव वसतिस्पान्था अधुना दीयते
रात्रौ अत्र विवाहमण्डपतले पान्थस्प्रसुप्तस्युवा ।
तेन उद्गीय खलेन गर्जति घने स्मृत्वा प्रियां यत्कृतं
आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।
दुर्गाधे हृदयाम्बुधौ तव भवेत्नस्सूक्तिगङ्गा यदि ।
एतत्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुरप्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते ।
ह्रिया सर्वस्य असौ हरति विदिता अस्मि इति वदनं द्वयोस्दृष्ट्वा आलापं कलयति कथां आत्मविषयां ।
गुणवतगुणवत्वा कुर्वता कर्मजातं परिणतिसवधार्या यत्नतस्पण्डितेन ।
वर्षास्कर्दमहेतवस्प्रतिदिनं तापस्य मूलं शरत्हेमन्ते जडता तथा एव शिशिरे अपि आयास्यते वायुना ।
दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ।
आपातमात्ररसिके सरसीरुहस्य किं बीजं अर्पयितुं इच्छसि वापिकायां ।
अप्रियाणि अपि कुर्वाणस्यस्प्रियस्प्रियसेव सः ।
अयं काणस्शुक्रस्विषमचरणस्सूर्यतनयस्क्षताङ्गसयं राहुस्विकलमहिमा शीतकिरणः ।
फलं कर्मायत्तं यदि किं अपरैस्किं च विधिना
यदा विगृह्णाति तदा हतं यशस्करोति मैत्रीं अथ दूषितास्गुणाः ।
तृष्णे देवि नमस्तुभ्यं कृतकृत्या असि साम्प्रतं ।
पुरा यातास्केचित्तदनु चलितास्केचितपरे विषादस्कसस्माकं न हि न वयं अपि अत्र गमिनः ।
सन्मार्गे तावतास्ते प्रभवति पुरुषस्तावतेव इन्द्रियाणां लज्जां तावत्विधत्ते विनयं अपि समालम्बते तावतेव ।
अध्वन्यस्य वधूस्वियोगविधुरा भर्तुस्स्मरन्ती यदि प्राणानुज्झति कस्य तत्महतहो संजायते किल्बिषं ।
अद्राक्षीतपनिद्रकोरकभरव्यानम्रवल्लीस्खलद्धूलीदुर्दिनसूदिताम्बरं असौ उद्यानं उर्वीपतिः ।
मदनज्वरं अपनेतुं कुरु सम्प्रति सततं औषधद्वितयं ।
कस्यास्नाम किं अत्र न अस्ति विदितं यत्वीक्ष्यमाणसपि अयं
लोकस्मूकसिव अस्ति मां प्रति पुनस्सर्वस्जनस्तप्यते ।
शक्यं दर्शयितुं न पूगफलवत्कृत्वा द्विधा इदं वपुस्
युगं न एव स्कन्धे वहति नितरां याति धरणीं
धिक्चन्दनं का एव सुधा वराकी किं इन्दुना हारितं अब्जकन्दैः ।
यौवनं चलं अपायि शरीरं गत्वरं वसु विमृश्य विशिष्टः ।
अधसधस्पश्यतस्कस्य महिमा न उपजायते ।
तिमिरं इदं इन्दुबिम्बात्पूतिस्गन्धसयं अम्बुरहकोषाथ् ।
पीतं येन सरोजिनीदलपुटे ह्ॐआवशिष्टं पयः ।
तासिति आकृतिलेशतस्मनसि नस्किंचित्प्रतीतिं गताः ।
ताडीदलं यतकठोरं इदं यतत्र मुद्रा स्तनाङ्कघनचन्दनपङ्कमूर्तिः ।
मृणालं एतत्वलयीकृतं तया तदीयसेव एष वतंसपल्लवः ।
मधुस्मासस्रम्यस्विपिनं अजनं त्वं च तरुणी
स्फुरत्कामावेशे वयसि वयं अपि आहितभराः ।
व्रजतु अम्बा मुग्धे क्षणं इह विलम्बस्व यदि वा
न चेत्चिन्तापात्रे मिलति कथं अपि अस्य मनसः ।
सर्वस्य एव हि लोकस्य बहुमानं यतात्मनि ।
तरन्तस्दृश्यन्ते बहवसिह गम्भीरसरसि स्वसाराभ्यां आभ्यां हृदि विदधतस्कौतुकशतं ।
सुबन्धौ भक्तिस्नस्कसिह रघुकारे न रमते धृतिस्दाक्षीपुत्रे हरति हरिचन्द्रसपि हृदयं ।
तातस्सृष्टिं अपूर्ववस्तुविषयां एकसत्र निर्व्यूढवान्निष्णातस्कविकुञ्जरेन्द्रचरिते मार्गे गिरां वागुरः ।
पातुं कर्णरसायनं रचयितुं वाचस्सतां संमतां
व्युत्पत्तिं परमां अवाप्तुं अवधिं लब्धुं रसस्रोतसः ।
भोक्तुं स्वादुफलं च जीविततरोस्यदि अस्ति ते कौतुकं
देवीं वाचं उपासते हि बहवस्सारं तु सारस्वतं
जानीते नितरां असौ गुरुकुलक्लिष्टस्मुरारिस्कविः ।
अब्धिस्लङ्घितसेव वानरभटैस्किं तु अस्य गम्भीरतां
यत्र अमूस्न भवन्ति वल्लणगुणोत्खातामृतप्रीतयः ।
पदानां अर्थात्मा रमयति न तु उत्तानितरसः ।
जानकीहरणं कर्तुं रघुवंशे पुरःस्थिते ।
शब्दास्ते न तथाविधास्पथि धियां लोकस्य ये न आसते
न अर्थात्मा अपि स कसपि धावति गिरां भूपालमार्गे न यः ।
सन्ति श्वानसिव असंख्यास्जातिभाजस्गृहे गृहे ।
सौजन्याङ्कुरकन्द सुन्दरकथासर्वस्व सीमन्तिनीचित्ताकर्षणमन्त्र मन्मथसरित्कल्लोल वाग्वल्लभ ।
इदं काव्यं तत्त्वं स्फुरति तु यतत्र अणु परमं
अम्बा येन सरस्वती सुतवती तस्य अर्पयन्ती रसान्
अविदितगुणा अपि सत्कविभणितिस्कर्णेषु वमति मधुधारां ।
बभूव वल्मीकभवस्पुरा कविस्ततस्प्रपेदे भुवि भर्तृमेठतां ।
उच्छ्वाससपि न निर्याति बाणे हृदयवर्तिनि ।
यल्लग्नं हृदि पुंसां भूयस्भूयस्शिरस्न घूर्णयति ।
कथंचित्कालिदासस्य कालेन बहुना मया ।
कश्चित्वाचं रचयितुं अलं श्रोतुं एव अपरस्तां
कल्याणी ते मतुसुभयतस्विस्मयं नस्तनोति ।
% ण्भीन्गल्ल्स्पोइन्त्सोउत्थत्थे अत्त्रिबुतिओन्तो Kआलिदास इस्बसेद्
% प्रेचेदेशिस्चिततिओनोफ़् थे वेर्से इन्थे Kआव्यमीमांसा.
प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने प्रसत्तौ गाम्भीर्ये रसवति च वाक्यार्थघटने ।
इयं गौसुद्दामा तव निबिडबन्धा अपि हि कथं
न वैदर्भातन्यत्स्पृशति सुलभत्वे अपि हि कथं ।
अवन्ध्या च ख्याता भुवि कथं अगम्या कविवृषैस्
व्यासस्पार्थशरैस्तथा अपि न तयोसत्युक्तिसुद्भाव्यते ।
वागर्थौ च तुलाधृतौ इव तथा अपि अस्मिन्निबन्धानयं
हा कष्टं कविचक्रमौलिमणिना दक्षेण यत्न ईक्षितस्
तस्य अपि अर्थिजनैकरोहणगिरेस्लक्ष्मीस्वृथा एव अभवत्
यस्य यथा विज्ञानं तादृक्तस्य इह हृदयसद्भावः ।
वहति न पुरस्कश्चित्पश्चात्न कसपि अनुयाति मां
न च नवपदक्षुण्णस्मार्गस्कथं नु अहं एककः ।
भवति विदितं पूर्वव्यूढसधुना खिलतां गतस्
विद्यावधूं अपरिणीय कुलानुरूपां श्लाघ्यां सुतां इव ततस्श्रियं अप्रसूय ।
ये नाम केचितिह नस्प्रथयन्ति अवज्ञां जानन्ति ते किं अपि तान्प्रति न एष यत्नः ।
निधानं विद्यानां कुलगृहं अपारस्य यशसस्
उन्नीतस्भवभूतिना प्रतिदिनं बाणे गते यस्पुरा
यस्चीर्णस्कमलायुधेन सुचिरं येन अगमत्केशटः ।
परमाद्भुतरसधामनि उत्सलिते जगति वल्लनाम्भोधौ ।
वाल्मीकेस्मुकुलीकृता एव कविता कस्स्तोतुं अस्ति आदरस्
वैयासानि वचांसि भारविगिरां भूता एव निर्भर्त्सना ।
लक्ष्मीकण्ठहठग्रहव्यसनिता यावत्च दोषाणां हरेः ।
कीर्त्या समं त्रिदिववासं उपस्थितानां मर्त्यावतीर्णमरुतां अपि सत्कवीनां ।
\Cओलो इति कविवर्णनव्रज्या समाप्ता । ।
\Cओलो समाप्तसयं सुभाषितरत्नकोषसिति । ।
<DOC_END>
<DOC_START>
पुस्तकस्था तु या विद्या परहस्तगतं धनम्
धैर्य यस्य पिता क्षमा च जननी शान्तिः चिरं गेहिनी
शय्या भूमितलं दिशः अपि वसनं ज्ञानामृतं भोजनम्
महाजनस्य संसर्गः कस्य नोन्नतिकारकः ा
माता मित्रं पिता चेति स्वभावात् त्रतयं हितम्
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद् धनमा
श्रेयो हि धीरोभिप्रेयसो वृणीते प्रेयो मन्दो
मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे
‘एकं सद् विप्रा बहुधा वदन्ति’ अग्निं यमं
कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम्
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम्
तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीत
उपकारान् स्मरेन्नित्यम् अपकारां्श्र्च विस्मरेत् ा
मूलं भुजंगैः शिखरं विहंगैः सतां विभूतयः
शैले शैले न माणिक्यं मौक्तिकं न गजे गजे
साधवो न हि सर्वत्र चन्दनं न वने वने हितोपदेश
कलहान्तनि हर्म्याणि कुवाक्यानां च सÝ)दम्
कुराजान्तानि राष्ट्राणि कुकर्मांन्तम् यशो नृणाम्
उपार्जितानां वित्तानां त्याग एव हि रक्षणम्
पिको वसन्तस्य गुणं न वायसः करी च
निर्गुणः स्वजनः श्रेयान् यः परः पर एव च
क्रोधः श्रियं शीलमनार्यसेवा ह्रियं कामः सर्व
कालो वा कारणं राज्ञो राजा वा कालकारणम्
इति ते संशयो मा भूत् राजा कालस्य कारणं
कन्या वरयते रुपं माता वित्तं पिता श्रुतम्
परस्य पीडया लब्धं धर्मस्योल्लंघनेन च
आत्मावमानसंप्राप्तं न धनं तत् सुखाय वै
परोपदेशे पािंडत्यं सर्वेषां सुकरं नृणाम्
अमित्रो न विमोक्तव्यः कृपणं वह्णपि ब्रुवन्
कृपा न तस्मिन् कर्तव्या हन्यादेवापकारिणाम्
उष्ट्राणां च विवाहेषु गीतं गायन्ति गर्दभाः
परस्परं प्रशंसन्ति अहो रुपमहो ध्वनिः
यद्यत् परवशं कर्मं तत् तद् यत्नेन वर्जयेत्
यद्यदात्मवशं तु स्यात् तत् तत् सेवेत यत्नतः
नात्यन्त गुणवत् कििंचत् न चाप्यत्यन्तनिर्गुणम्
यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः
श्वा यदि क्रियते राजा तत् किं नाश्नात्युपानहम्
रविरपि न दहति तादृग् यादृक् संदहति वालुकानिकरः
अन्यस्माल्लब्धपदो नीचः प्रायेण दुःसहो भवति
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम्
रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम्
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर
निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः
विक्लवो वीर्यहीनो यः स दैवमनुवर्तते
वीराः संभावितात्मानो न दैवं पर्युपासते
महाजनो येन गतः स पन्थाः
भेदे गणाः विनश्येयुः भिन्नास्तु सुजयाः परैः
तस्मात् संघातयोगेन प्रयतेरन् गणाः सदा
परवाच्येषु निपुणः सर्वो भवति सर्वदा
आत्मवाच्यं न जानीते जानन्नपि च मु(ति
स्वीयं गुणं मुञ्चति किं पलाण्डुः
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च
सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम्
आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः
ऐक्यं बलं समाजस्य तदभावे स दुर्बलः
तस्मात ऐक्यं प्रशंसन्ति दृढं राष्ट्र हितैषिणः
चक्षुरुन्मिलितं येन तस्मै श्री गुरवे नमः
नालसाः प्राप्नुवन्त्यर्थान न शठा न च मायिनः
न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिणः
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता ,
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता ,
पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम्
नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम्
धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम्
यत् पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ऽऽ
यथा खनन् खनित्रेण नरो वार्यधिगच्छति
यदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम्
न हि कस्तूरिकामोदः शपथेन विभाव्यते
स पण्डितः स श्रुतवान् गुणज्ञः
स एव वक्ता स च दर्शनीयः
ऋयद्धात्रा निजभालपट्टलिखितं स्तोकं महद् वा धनम्
तत् प्राप्नोति मरूस्थलेऽपि नितरां मेरौ ततो नाधिकम्
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः
कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं पयः
यदा च पच्यते पापं दुःखं चाथ निगच्छति
न कश्चिदपि जानाति किं कस्य श्वो भविष्यति
त्यजेत् क्षुधार्ता जननी स्वपुत्रं ,
बुभुक्षितः किं न करोति पापं ,
को न याति वशं लोके मुखे पिण्डेन पूरितः
<DOC_END>
<DOC_START>
आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरितासउद्भिदः।
देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे॥
देवानां भद्रा सुमतिर्ऋजूयतां देवाना ग्वँग् रातिरभि नो निवर्तताम्।
देवाना ग्वँग् सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तुजीवसे॥
तान् पूर्वया निविदाहूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम्।
अर्यमणं वरुण ग्वँग् सोममश्विना शृणुतंधिष्ण्या युवम्॥
तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमसे हूसहे वयम्।
पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्वेवेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥
पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः।
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह॥
भद्रं कर्णेभिः शृणुयाम देवा भद्रं फश्येमाक्षभिर्यजत्राः।
स्थिरै रङ्गैस्तुष्टुवा ग्वँग् सस्तनू भिर्व्यशेमहि देवहितं यदायुः॥
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः॥
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः।
विश्वे देवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम्॥
द्यौः शान्तिरन्तरिक्ष ग्वँग् शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः।
वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व ग्वँग् शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि॥
यतो यतः समीहसे ततो नो अभयं कुरु। शन्नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः॥ सुशान्तिर्भवतु॥ वलिताक्षराणि
ॐ विश्वानि देव सवितर्दुरितानि परा सुव यद् भद्रं तन्न आ सुव॥
ॐ गणानां त्वा गणपति ग्वँग् हवामहे प्रियाणां त्वा प्रियपति ग्वँग् हवामहे निधीनां त्वा निधीपति ग्वँग् हवामहे वसो मम। आहमजानि गर्भधमा त्वमजासि गर्भधम्॥
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन।
आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः ।
देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे-दिवे ॥
देवानां भद्रा सुमतिर्ऋजूयतां देवानां रातिरभि नो नि वर्तताम् ।
देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे ॥
तान् पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् ।
अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥
तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत् पिता द्यौः ।
तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥
तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयम् ।
पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पुषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः ।
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम ॥
<DOC_END>
<DOC_START>
२९. २९. पादपापादपापादपापादपा पादपापादपापादपाऽपादपा ।
पादपापादपापादपापादपा (1 पादपा (2 पादपापादपा (3 अपादपा (4 ।
पादपापादपापादपा पादपापात् (5 अपापादपापा (6 आदपा पादपा (7) ॥
(3) पाद-पा-अ-पादपा – पदाधिकारिणाम् (पदमेषामस्तीति पादाः- ब्रह्मरुद्रादिपदवीषु स्थिताः देवाः, तेषाम्) इन्द्रादिदेवानां पाता अकारवाच्यः यः सर्वेश्वरः तस्य पादुका 1) पादप-अपादप-आपाद-पाप-अत्-अपा – पादैः ये पिबन्ति ते पादपाः स्थावराः, अपादपाः जङ्गमाः च इति एतान् प्राप्तवन्ति पापानि अत्ति यत् जलं (अभिषेकजलं) तद्वती 2) पाद-पा – भगवतः विभूतौ पादभूतम् (चतुर्भागभूतम्) इदं प्रकृतिमण्डलं रक्षन्ती 4) अपाद-पा – तथैव च त्रिपाद्विभूतिं श्रीवैकुण्ठलोकं च रक्षन्ती 5) पाद-पापात्-अ-पापात्-अ-पापात्-अपापात् – रक्षणयोग्यानां मातापितॄणां (‘पाद’शब्दस्य रक्षणमित्यर्थः अत्र, रक्षणयोग्याः पादाः, तेषाम्) ये रक्षन्ति तेषां विषये न कदापि अशुभसङ्कल्पवती तथैव च तान् न रक्षन्ति तेषां विषये च सर्वदा अशुभसङ्कल्पम् अतती/ प्राप्नुवन्ती च 6) अ-पापा-द-पापा – अकारवाच्यं भगवन्तमेव सदा पिबतः (पानार्थकः पाधातुरत्र, तस्य द्विरुक्तिः पौनःपुन्ये) मनांसि पावयतः शमदमादिगुणान् रक्षन्ती च 7) आद- पा- पाद-पा-आश्रितविरोधिनः शत्रून् किरणैः (पादैः) शोषयन्ती च (अस्ति) ।
पूर्वतनश्लोके पादुकायाः रक्षणसामर्थ्यं प्रशस्तम् कविना । तादृशं सामर्थ्यं तस्याः कथम् उपपन्नम् इति इदानीं विमृश्यते । भगवान् जगत् सृष्ट्वा ब्रह्मादीन् देवान् तत्तत्पदे नियोज्य तेषां द्वारा जगतः रक्षणं च करोति । मनुष्याः यज्ञादिभिः देवान् आराधयन्ति ते च देवाः प्रसन्नाः भूत्वा तेषाम् इष्टमर्थं पूरयन्ति । एवं परस्परं भावयद्भिः जगद्व्यापारचक्रं चालयति भगवान् । तस्य भगवतः पादौ निरन्तरं शुश्रूषमाणा पादुका तयैव शुश्रूषया भगवत्सकाशे सर्वम् अर्थं गृहीतवती । तस्यैव भगवतः अनुग्रहेण अस्याः ईदृशः प्रभावः इति कविः अभिप्रैति । भगवत्पादारविन्दसमाश्रयणेनैव स्वस्य अभिषेकजलेन स्वाश्रितानां पापनिवारणे समर्था पादुका इति कविः अत्र वर्णयति । ‘मातृदेवो भव’, ‘पितृदेवो भव’, ‘आचार्यदेवो भव’, ‘अतिथिदेवो भव’ इति वेदविधिं ये अनुसरन्ति तेषां विषये अनुग्रहपरा, तद्विपरीतानां विषये च निग्रहपरा च भवति पादुका । ये एनां ध्यायन्ति ते यथा शमदमादिगुणसम्पन्नाः भूत्वा मनसः कल्मषापनोदनेन ध्यानपूर्तिम् अनुभवपूर्तिं च प्राप्नुयुः तथा अनुगृण्हाति तान् । स्वतेजसैव केवलम् आश्रितानां विरोधिनः सर्वान् दूरीकरोति इति भावः ।
१. षोडशावृत्तियमकमिति शब्दचित्रमत्र । ‘पादपा’ इति शब्दस्य षोडशकृत्वः आवृत्तिः अस्ति श्लोके ।
२. अकारः आकारश्चेति द्वावेव स्वरौ, पकारः दकारश्च द्वे एव व्यञ्जने ।
३. श्लोके श्लोकार्धे श्लोकपादे च अनुलोमप्रतिलोमयमकम् ।
४. षोडशदलम्, अष्टदलम्, चतुर्दलम् वा षोडशदलपद्मबन्धे अष्टदलपद्मबन्धे, चतुर्दलपद्मबन्धे च श्लोकः निवेशयितुं शक्यः। (३ चित्राणि पश्यत)
<DOC_END>
<DOC_START>
ऽसा रामस्याङ्घ्रिमभ्याजति न न नतिजस्थूलमुत्रातके सा ॥
साकेत-त्राण-वेला-जनित-तत-निज-प्राङ्कण-श्री-प्रभासा, स-आभा, प्रश्रीः, अटव्याम्, इयम्, अमम-यमि-व्यापद्-उच्छेदि-लासा,
साला(रा)दि-च्छेद-तिग्म-आहव-रु-रुरु-वह-ह्री-करस्य, आम-रास-असा, रामस्य, अङ्घ्रिम्, अभ्याजति, न, न, नति-ज-स्थूलम्,
साकेत-त्राण-वेला-जनित-तत-निज-प्राङ्कण-श्री-प्रभासा – अयोध्यायाः रक्षणसमये विस्तृते (अनेकैः विद्वद्भिः पूर्णे)
स्वस्य सभामण्डपे ज्ञानसम्पदा यद्वा स्वर्णरत्नादिभिः जातया प्रभया युक्ता, साभा – कान्तिमती, प्रश्रीः – उत्कृष्टां
वेदसम्पदं बिभ्रती अर्थात् सकलानां वेदानां सामान्यज्ञानवती सूक्ष्मज्ञानवती च, अटव्याम् – ताटकावने अथवा
संसारकान्तारे, अमम-यमि-व्यापद्-उच्छेदि-लासा – अहङ्कारममकाररहितानां यमिनां मुनीनां आपदः अथवा
अन्तश्शत्रूणां बहिश्शत्रूणांश्च समूलच्छेदनरूपक्रीडावती, आम-रास-असा – बुद्धिमान्द्येन जातान् अपक्वान् शब्दान्
दूरीकुर्वती अर्थात् दुर्बुद्धिं तज्जातानि विवेकरहितानि वचनानि च निरस्य सद्बुद्धिं सम्यग्वचनानि च अनुगृह्णती,
सेयं – रामरूपिणः अस्य रङ्गनाथस्य पादुका, साला(रा- अत्र रस्य स्थाने लकारः रलयोरभेदः इति अङ्गीकृतत्वात्
वन्धसौकर्याय प्रयुक्तः)दि-च्छेद बलादेः (आदिपदेन परशुरामस्य धनुषोऽपि ग्रहणम्) छेदने, तिग्म-आहव-रु-रुरु-वह-ह्री-करस्य
रामस्य – तीक्ष्णेन युद्धे कृतेन शब्देन (हुङ्कारेण) सारङ्गधरं परमशिवं लज्जितं विदधानस्य रामस्य, उत्त्रातके – अनुक्रोशेन
विशेषेण रक्षणीयानां नतानां विषये, नति-ज-स्थूलम् – नमनेन जातं स्थौल्यं प्राप्तम्, अङ्घ्रिम् – पादं, नाभ्याजति न –
(रक्षणार्थं) न प्रेषयतीति न ।
इतः पूर्वं २४ तमे (कोपोद्दीपकपापेऽपि……) श्लोके भगवतः परमं निग्रहं प्राप्तवतोऽपि पापकृतो विषये शरणं गतोऽयमिति
नतिरूपेण व्याजेन केवलं तं यथा भगवान् रक्षेत् तथा पुरुषकारं करोति पादुका इत्युक्तम् । शरणागतरक्षणव्रती रामः वने
शरणागतान् काकासुरसुग्रीवविभीषणादीन् अरक्षत् । तस्मिन् कार्ये तं भरतमुखेन प्रेरयित्री स्वयं सिंहासने स्थिता पादुका
एव । (किष्किन्धाकाण्डे रामवालिनोः संवादे रामो वदति यत् “सशैलवनकानना इयं भूमिः भरतस्य साम्राज्यभूता, तस्यैव
आज्ञया मया वनप्रदेशोऽयं रक्ष्यते” इति) । भरतस्यापि राज्ञी पादुका यतः, तस्याज्ञा पादुकाज्ञा एव इति भावः ।
अष्टदलपद्मबन्धः इति शब्दचित्रम् अत्र । एकैकस्मिन्नपि दले श्लोकपादार्धं निवेशितम् । दलानाम् अग्रेषु विद्यमानानि अक्षराणि ‘वेङ्कटपतिकमलम्’ इति कवेः नाम सूचयन्ति इति विशेषः । अष्टदलपद्मरूपोऽयं श्लोकः कविना पादुकायाः अर्चने विनियुज्यते
इत्यर्थः ज्ञेयः । (चित्रं पश्यत ।)
<DOC_END>
<DOC_START>
लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥
अकृतज्ञः अर्थात् कृतघ्नः, त्यक्तात्मा अर्थात् सद्भिः त्यक्तः बन्धनादिभिः परित्यक्तदेहः, निरपत्रपः अर्थात् लज्जाविहीनश्च (प्रायश्चित्तविहीनश्च)
भवेयम् । लोके सर्वेऽपि मां द्विषन्तु नाम। परन्तु मम परामर्शोऽत्र न स्वीकृतः ।
<DOC_END>
<DOC_START>
अयं वर्गः कृतज्ञताविषये विद्यते ।
<DOC_END>
<DOC_START>
इदम् वाक्यम् मेघदूते विम्शति तमे श्लॉके भवति। रेवा नदिम् वर्णनसमये यक्षः मेघम् वदति तस्याः नद्याः तोयम् स्वीकृत्य गन्तव्यः यत् ततः पवनः न अनुकूलः। अतः तेन न भ्रष्टमार्गः भूयाः। रिक्तः साधारणतया लघुः पूर्णता गौरवाय च कारणम् भवति इति। लघुजनाः एव अन्यैः नीयमानाः भविष्यन्ति, पूर्णतया गौरवम् आर्जयति चेत् नकोपि भवन्तम् नयेत्। स्वमार्गे एव गन्तुम् शक्येत इति मतिः
<DOC_END>
<DOC_START>
अहं शुभा, आ चतुर्भ्यः वर्षेभ्यः विकिकार्ये निरता अस्मि । संस्कृतविकिसूक्तेः संवर्धनदृष्ट्या अहं प्रबन्धिकारूपेण कार्यं निर्वोढुम् इच्छामि ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे लकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे ठकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे फकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे णकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे औकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे एकारादीनि सुभाषितानि उपलभ्यन्ते ।
एषां न विद्या न तपो न दानम् ज्ञानं न शीलं न गुणो न धर्मः।
ते मृत्युलोके भुवि भारभूता मनुष्य रूपेण मृगाश्चरन्ति।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे ऋकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे ईकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे थकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे डकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे टकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे झकारादीनि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् वर्गे गकाराद्याः प्रहेलिकाः भवन्ति ।
<DOC_END>
<DOC_START>
अत्र अवर्गीकृतानि सर्वाणि पृष्ठानि विद्यन्ते ।
<DOC_END>
<DOC_START>
वर्गेऽस्मिन् संसारविषयकाणि सुभाषितानि विद्यन्ते ।
<DOC_END>
<DOC_START>
वर्गेऽस्मिन् जितेन्द्रियविषयकाणि सुभाषितानि विद्यन्ते ।
<DOC_END>
<DOC_START>
लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥
जयतु जयतु संस्कृतम्, जयतु जयतु मनुकुलम् ॥३॥
<DOC_END>
<DOC_START>
लोकहितं मम करणीयम् ॥ ॥ लोकहितं ॥
लोकहितं मम करणीयम् ॥ ॥१॥
लोकहितं मम करणीयम् ॥ ॥२॥
लोकहितं मम करणीयम् ॥ ॥३॥
<DOC_END>
<DOC_START>
नैव क्लिष्टा न च कठिना ॥१॥
नैव क्लिष्टा न च कठिना ॥२॥
नैव क्लिष्टा न च कठिना ॥३॥
नैव क्लिष्टा न च कठिना ॥४॥
नैव क्लिष्टा न च कठिना ॥५॥
<DOC_END>
<DOC_START>
भो भो सततं कुर्वन्तुऽ ॥ ॥ विस्मृत ॥
भो भो हस्ता: प्रसरन्तुऽ ॥ ॥ विस्मृत ॥१॥
भो भो धैर्यं मा जहतुऽ ॥ ॥ विस्मृत ॥२॥
भो भो भेदो मा भवतुऽ ॥ ॥ विस्मृत ॥३॥
<DOC_END>
<DOC_START>
सत्यं वदाम चराम धर्मम् ॥३॥
<DOC_END>
<DOC_START>
अजरामरवत् प्राज्ञो विद्यामर्थं च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥
विवेकी स्वयम् अजरामरः इति भावयन् एव विद्यां धनञ्च सम्पादयेत् । किन्तु धर्माचरणावसरे मृत्युः केशं गृहीतवान् एव अस्ति इति मत्त्वा शीघ्रम् आचरणीयम् ।
अन्नदानं परं दानं विद्यादानमतः परम् ।
अन्नेन क्षणिका तृप्तिर्यावज्जीवं च विद्यया ॥
अन्नदानं श्रेष्ठं दानम् । किन्तु ततोपि श्रेष्ठं विद्यादानम् । अन्नदानेन या तृप्तिः भवति सा क्षणिका। किन्तु विद्यया प्राप्यमाणा तृप्तिः आजीवनं तिष्ठति ।
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ॥
प्रतिक्षणं विद्या अर्जनीया । प्रतिकणमपि धनं सङ्ग्रहणीयम् । एकं क्षणं व्यर्थं भवति चेदपि तावता प्रमाणेन विद्या न्यूना जाता इत्येव । कणमेकं न्यूनं भवति चेदपि तावत् धनं न्यूनम् इत्येव ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ हितोपदेशः ३९
रूपेण यौवनेन च युक्ताः उत्तमकुले सञ्चाताः अपि जनाः विद्याविहीनाः यदि भवेयुः तर्हि ते गन्धरहितानि किंशुकपुष्पाणि इव न शोभन्ते । विद्या एव वस्तुतः व्यक्तेः शोभां वर्धयति । विद्याविहीनाः पुरुषाः तु सुगन्धविहीनानि पुष्पाणि इव आकर्षणरहितानि भवन्ति ।
विद्या ददाति विनयं विनयाद्याति पात्रताम् ।
पात्रत्वाद् धनमाप्नोति धनाद्धर्मस्ततः सुखम् ॥
विद्यया विनयः, विनयेन योग्यता, योग्यतया धनं, धनेन धर्मः, धर्मेण च सुखं प्राप्यते ।
विद्या विवादाय धनं मदाय शक्तिः परेशां परिपीडनाय ।
खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानय च रक्षणाय ॥
विकारकाले संमोहश्चित्ते विद्या च पुस्तके॥
विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥
विद्या राज्याधिकारश्च कदापि न तोलनीयम् । राजा स्वस्य प्रदेशे केवलं गौरवं प्राप्नोति । किन्तु विद्यावान् सर्वत्र गौरवं प्राप्नोति ।
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् ।
सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेत् सुखम् ॥ उद्योगपर्व ४०/६
बहु जनाः सुखेन जीवितुम् इच्छन्ति । परिश्रमं कर्तुं न इच्छन्ति । एतादृशाः विद्यां सम्पादयितुं न अर्हन्ति । सुखार्थी विद्यां प्राप्तुं न अर्हति । यतः विद्यायाः सम्पादनं परिश्रमं, निरन्तरं प्रयत्नञ्च अपेक्षते । विद्यां प्राप्तुं यः इच्छति सः सुखं त्यजेदेव ।
हर्तृर्न गोचरं याति दत्ता भवति विस्तृता ।
कल्पान्तेऽपि न या नश्येत् किमन्यद्विद्यया विना ॥
विद्या चोराणां कृते न दृश्यते । अन्येभ्यः दत्ता चेत् विस्तृता भवति । कल्पान्ते अपि अस्याः नाशः न भविष्यति । विद्यायाः समानं नान्यत् किमपि विद्यते ।
<DOC_END>
<DOC_START>
अजरामरवत् प्राज्ञो विद्यामर्थं च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥
विवेकी स्वयम् अजरामरः इति भावयन् एव विद्यां धनञ्च सम्पादयेत् । किन्तु धर्माचरणावसरे मृत्युः केशं गृहीतवान् एव अस्ति इति मत्त्वा शीघ्रम् आचरणीयम् ।
अन्नदानं परं दानं विद्यादानमतः परम् ।
अन्नेन क्षणिका तृप्तिर्यावज्जीवं च विद्यया ॥
अन्नदानं श्रेष्ठं दानम् । किन्तु ततोपि श्रेष्ठं विद्यादानम् । अन्नदानेन या तृप्तिः भवति सा क्षणिका। किन्तु विद्यया प्राप्यमाणा तृप्तिः आजीवनं तिष्ठति ।
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ॥
प्रतिक्षणं विद्या अर्जनीया । प्रतिकणमपि धनं सङ्ग्रहणीयम् । एकं क्षणं व्यर्थं भवति चेदपि तावता प्रमाणेन विद्या न्यूना जाता इत्येव । कणमेकं न्यूनं भवति चेदपि तावत् धनं न्यूनम् इत्येव ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ हितोपदेशः ३९
रूपेण यौवनेन च युक्ताः उत्तमकुले सञ्चाताः अपि जनाः विद्याविहीनाः यदि भवेयुः तर्हि ते गन्धरहितानि किंशुकपुष्पाणि इव न शोभन्ते । विद्या एव वस्तुतः व्यक्तेः शोभां वर्धयति । विद्याविहीनाः पुरुषाः तु सुगन्धविहीनानि पुष्पाणि इव आकर्षणरहितानि भवन्ति ।
अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः॥ उद्योग. ४०/४॥
आलस्यं मदमोहौ च चापलं गोष्ठिरेव च।
एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः॥ उद्योग. ४०/५॥
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्।
सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेत् सुखम्॥ उद्योग. ४०/६॥
श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात्।
नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः॥ शान्ति. ३२९/६॥
लघुव्यासस्मृतिः नित्याचारप्रदीपः भागः २, पृ. ५४
न चोरहार्यं न च राजहार्यं
न भ्रातृभाज्यं न च भारकारि ।
व्यये कृते वर्धत एव नित्यं
<DOC_END>
<DOC_START>
भार्गवि शाम्भवि गौलाङ्कसुन्दरि ! ॥ भारति ॥
निरतिशयानन्त-फलप्रदायिके । ॥ भारति ॥
सुरुचिर-मुक्ताहार-सुवलये ॥ ॥ भारति ॥
<DOC_END>
<DOC_START>
निर्भयेन चेतसा पदं पुरो निधीयताम् ॥१॥
<DOC_END>
<DOC_START>
भवति हि वो भद्रंऽऽ ॥८॥
<DOC_END>
<DOC_START>
मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्राम: सिद्धवनम् ।
यत्र च बाला देवीस्वरूपा बाला: सर्वे श्रीरामा: ॥
<DOC_END>
<DOC_START>
चित्रिता मञ्जुला मञ्जूषा, मञ्जुला भाषा ॥१॥
अस्ति यस्यां भगवती गीता, भगवता कथिता ॥२॥
भारतीया भारती एषा, अनुपमा सरसा ॥३॥
<DOC_END>
<DOC_START>
नमो नमोऽम्ब पाहि मां पुनीहि कामरूपिणि ॥
<DOC_END>
<DOC_START>
अनुयायिन याहि रे याहि रे याहि रे याहि रे याऽऽहि
<DOC_END>
<DOC_START>
निवसतु सा मे हृदयाब्जे ॥
<DOC_END>
<DOC_START>
इह परत्र कल्याणकारिणी ॥ ॥३॥
<DOC_END>
<DOC_START>
केशवं स्मरामि सदा परमपूजनीयम् ॥
बोधयन्तमिति तत्त्वं सततस्मरणीयम् ॥ ॥२॥
उपदिशन्तमिति सारं दृढमाचरणीयम् ॥ ॥३॥
<DOC_END>
<DOC_START>
जय जय भारतदेश जय त्वं जय जय भारतदेश ।
प्रणम्य सर्वान् पराक्रमध्वं, घोषयध्वम्, घोषयध्वम् ॥१॥
प्रणम्य सर्वान् पराक्रमध्वं, घोषयध्वम्, घोषयध्वम् ॥२॥
प्रणम्य सर्वान् पराक्रमध्वं, घोषयध्वम्, घोषयध्वम् ॥३॥
<DOC_END>
<DOC_START>
जगति भव त्वं शुभवाणी ॥ ॥१॥
कामदुघा, त्वं ज्ञानसुधा ॥ ॥२॥
ह्लादयुता, त्वं वृद्धिमिता ॥ ॥३॥
<DOC_END>
<DOC_START>
गृह कुशला, सा अतुला ॥१॥
लालयति नित्यं, तोषयति चित्तम् ॥२॥
पाठयति च मां शुभङ्ककरोति ॥३॥
<DOC_END>
<DOC_START>
एत बालका: दर्शयामि वस्तेजो हिन्दुस्थानस्य,
वन्दे मातरं, वन्दे मातरम् ॥
एकमेव तत् स्थानं चैतत् देवानामवतारस्य ॥१॥
रज: सुपूतं वीरपदाब्जै: स्थानं चैतद्देशस्य ॥२॥
जन्मभूरियं ‘नेताजे:’ प्रख्यातस्य सुभाषस्य ॥३॥
कृतं हि गौरवरक्षणकार्यं शिवेन हिन्दुस्थानस्य ॥४॥
<DOC_END>
<DOC_START>
कृतसङ्कल्पान् सदा स्मरन्त: ॥ ॥२॥
<DOC_END>
<DOC_START>
मृदु हसन् मधुकिरन् मातरं सदा स्मरन् ॥
समाजपोषिता वयं समाजपोषकाश्चिरम् ॥ ॥१॥
ध्येयसाधनव्रता वयं भवेम सङ्गता: ॥ ॥२॥
सकृत्प्रतिज्ञका वयं भजेम नो पलायनम् ॥ ॥३॥
<DOC_END>
<DOC_START>
अक्रोधनः क्रुध्यतां वै विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः।
<DOC_END>
<DOC_START>
रावणः स्त्रीलौल्यस्वभावात् विनष्टः जातः । अतः अति सर्वदा परित्यक्तव्यम् ।
<DOC_END>
<DOC_START>
दुद्दादं दददे दुद्दे दादाददददोऽददः ॥
परपीडकानां निग्रहणे समर्थाभ्यां बाहुभ्यां युक्तः श्रीकृष्णः स्वीयं
मर्मभेदकं बाणं शत्रून् प्रति प्रयुक्तवान् ।
<DOC_END>
<DOC_START>
वाक्यखण्डमेव श्रुत्वा, सम्पूर्णं वाक्यम् अश्रुत्वा ऽऽशिपति यदि जनः, स दोषभाक् "कश्चित्कान्तान्यायम्" अनुसरतीत्य् उच्यते।
यथा कश्चित् कान्ता-विरहगुरुणा स्वाधिकारात् प्रमत्त: शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तु:। यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु।।" इति प्रसिद्धं श्लोकम् अश्रुत्वा कश्चित् कान्ता" इति वाक्यखण्डस्य श्रवणाद् अनन्तरमेवाक्षिपेत् "कश्चिदिति पुंलिङ्गे ऽस्ति, कान्तेऽति स्त्रीलिङ्गेऽस्ति, तत् कथमिवाबद्धं भणितं महाकविने"ति।
<DOC_END>
<DOC_START>
सम्यक् विचिन्त्य उक्तं वचनं, सुष्ठु विचार्य कृतं कार्यं च एतानि सर्वाणि बहुकालानन्तरमपि दुष्टानि न भवन्ति ।
<DOC_END>
<DOC_START>
भारतभूषा संस्कृतभाषा विलसतु हृदये हृदये ।
संस्कृतिरक्षा राष्ट्रसमृद्धि: भवतु हि भारतदेशे ॥
श्रद्धा महती निष्ठा सुदृढा स्यान्न: कार्यरतानाम्
स्वच्छा वृत्तिर्नव उत्साहो यत्नो विना विरामम् ।
न हि विच्छित्तिश्चित्तविकार: पदं निदध्मस्सततम्
सत्यपि कष्टे विपदि कदापि वयं न यामो विरतिम् ॥
श्वासे श्वासे रोमसु धमनिषु संस्कृतवीणाक्वणनम्
चेतो वाणी प्राणा: काय: संस्कृतहिताय नियतम् ।
श्वसिमि प्राणिमि संस्कृतवृद्ध्यै नमामि संस्कृतवाणीम्
पुष्टिस्तुष्टिस्संस्कृतवाक्त: तस्मादृते न किञ्चित् ॥
नाहं याचे हारं मानं न चापि गौरववृद्धिम्
नो सत्कारं वित्तं पदवीं भौतिकलाभं कञ्चित् ।
यस्मिन् दिवसे संस्कृतभाषा विलसेज्जगति समग्रे
भव्यं तन्महदद्भुतदृश्यं काङ्क्षे वीक्षितुमाशु ॥
<DOC_END>
<DOC_START>
धर धियं हृदि मनसि धैर्यं,
<DOC_END>
<DOC_START>
श्रावयन् जागरय लोकं निश्चलं जडतावृतम्
विश्वगुरुरिति मानितं सत् जगति सकले शोभताम् ॥
देश एष स्तूयतां, निध्यायतां पुनरर्च्यताम् ॥
क्रोधकामान् मत्सरादीन् मर्दय त्वं निर्दयम्
मातृभूस्समुपास्यतां, सा संस्कृता गीस्सेव्यताम् ॥
अन्तरायान् ध्वंसयन् त्वं दोर्बलं सञ्चिनु महत्
धर्मनिष्ठ: कर्मनिरतो जनहितं कुरु सन्ततम्
परहितं सञ्चिन्त्यतां, ननु दीनजनता सेव्यताम् ॥
<DOC_END>
<DOC_START>
अयि जननि मां पाहि नुतशरणचरणम्
स्मेरमुखि जगदम्ब वितनु मयि करुणाम् ।
श्रोत्रकुहरे पततु तव नाम शुभदम्
प्राणा हि सन्त्वम्ब तव सेवनाय ॥
धनकनकतो भवति न हि सार्थकत्वम्
सकलजगदधिदेवि मम भवतु सततम् ॥
जन्मैतदतिफल्गु मम भवतु सफलम् ॥
<DOC_END>
<DOC_START>
परमो मन्त्र: समरसता न: शक्तिसंभृतं राष्ट्रमिदम् ।
मातृभूमिराराध्येयं नो गतिरस्माकं सैव परा ।
<DOC_END>
<DOC_START>
जागृहि त्वं भारतीय, प्रभातं समुपस्थितम्
वयंं राष्ट्रे जागृयाम, वयंं राष्ट्रे जागृयाम ॥
विसृज जाड्यं मोहजनितं, त्यजालस्यं मानसम्
मन:क्षेत्रं समं कृत्वा स्नेेहलतिका रोप्यताम्
दयासलिलं पूरयित्वा प्रेमपुष्पं वर्ध्यताम् ।
संविभज्य ज्ञानसलिलं समै: सह सम्भुज्यताम्
मुनिवचनकृतिशान्तिधृतिभि: भारतश्री: साध्यतां, भारतश्री: साध्यताम् ॥
<DOC_END>
<DOC_START>
संस्कृतेन पाठनं संस्कृताय जीवनम् ।
संस्कृतेन पाठनं संस्कृताय अर्पणम् ॥
लक्ष्यमुन्नतं तदा प्राप्नुयाम तत्पथे ॥
स्वीकृतं व्रतमिदं न त्यजाम जीवने
परजनैरपि व्रतं कारयाम जीवने ॥
<DOC_END>
<DOC_START>
पाठयेम संस्कृतं जगति सर्वमानवान् ।
प्रापयेम भारतं सपदि परमवैभवम् ॥
<DOC_END>
<DOC_START>
नमो भगवति हे सरस्वति !
चित्तं कारय मम विमलम् ॥
सन्निहितं कुरु मम चित्ते ॥ नमो ॥
लास्यं कुरु मम रसनाग्रे ॥ नमो ॥
<DOC_END>
<DOC_START>
संस्कृतस्य सेवनं, संस्कृताय जीवनम् ।
लक्ष्यसिद्धिमक्षिसात् करोमि सोद्यम: स्वयम् ।
यावदेति संस्कृतं, प्रतिजनं गृहं गृहम्
कामये न सम्पदं भोगसाधनं सुखम्
किञ्चिदन्यदाद्रिये विना न संस्कृतोन्नतिम् ।
बद्धकटिरयं जनो निधाय जीवनं पणम् ॥
भाषिता च वागियं भाषिता भवेद् ध्रुवम्
<DOC_END>
<DOC_START>
एहि रे समर्पयेेम मित्र मातृचरणयो:
तनुतृणं धनचयं, भवतु रुधिरतर्पणम् ।
किमु ह्रिया, त्यज भियं, विक्लव: किमर्पणे ॥
सनातनी परम्परा प्रेरिका भविष्यति ।
चल पुर सह मया, समाश्रय ध्रुवां धृतिम् ॥
सखे न भीरुभूरियं न भोगलालसास्पदम् ।
स्मर चिरं, भर धियं, साधयेम विक्रमम् ॥
मन्युरस्तु बलिपशु: कार्यदीक्षितो भव ।
धर धुरं, दृढमते, याम ध्येयसिद्धये ॥
<DOC_END>
<DOC_START>
वन्दे भारतमातरं वद, भारत वन्दे मातरम्
मातृभूमये लोकहिताय च नित्यसमर्पितचित्तानाम् ।
जितकोपानां कृतकृत्यानां वित्तं तृणवद् दृष्टवताम्
ग्रामे ग्रामे कर्मदेशिकास्तत्त्ववेदिनो धर्मरता: ।
जातो यत्र हि स्वस्य जन्मना धन्यं मन्यत आत्मानम् ॥
मातस्त्वत्तो वित्तं चित्तं स्वत्वं प्रतिभा देहबलम्
नाहं कर्ता, कारयसि त्वं, नि:स्पृहता मम कर्मफले ।
नान्यो मन्त्रो नान्यचिन्तनं नान्यद्देशहिताद्धि ॠते ॥
<DOC_END>
<DOC_START>
संस्कृतस्य रक्षणाय बद्धपरिकरा वयम् ।
सततसम्भाषणेन तस्य जीवनं स्थिरम् ।
जनमुखेन भाषितं ननु जगति जीवितं
<DOC_END>
<DOC_START>
मम मनसि सदा तव पदयुगलम्
<DOC_END>
<DOC_START>
कृते प्रयत्ने किं न लभेत
<DOC_END>
<DOC_START>
जय जय हे भगवति सुरभारति
<DOC_END>
<DOC_START>
क्रियासिद्धिस्सत्त्वे भवति महतां नोपकरणे ।
न धनं न बलं नापि सम्पदा न स्याज्जनानुकम्पा
सिद्धा न स्यात् कार्यभूमिका न स्यादपि प्रोत्साह:
आवृणोतु वा विघ्नवारिधिस्त्वं मा विस्मर सूक्तिम् ॥
क्वचिदपि मा भूदात्मविस्मृति: न स्याल्लक्ष्याच्च्यवनम् ।
आसादय जनमानसप्रीतिं सुचिरं संस्मर सूक्तिम् ॥
अरुणसारथिं विकलसाधनं सूर्यं संस्मर नित्यम्
शूरपूरुषान् दृढानजेयान् पदात्पदं स्मर गच्छन्
<DOC_END>
<DOC_START>
पूतचरितै: शजितां, कविजनै: सङ्कीर्तिताम् ।
भक्तवृन्दैर्वन्दिताम्, साधुसद्भिर्भाविताम् ॥ वन्देsहम् ॥
<DOC_END>
<DOC_START>
सेवया हि जीवनं सार्थकं फलान्वितम् ॥
न्यूनता यत्र यत्र तत्र सत्वरं हि याम ॥
जनहितं वरप्रदं हृदिचिरं स्थापयाम ॥
<DOC_END>
<DOC_START>
भाति कदा गाढं गाढम् ॥
वद मे भवति कदा ॥
<DOC_END>
<DOC_START>
विमलं कुरु नो हृदयम् ।
<DOC_END>
<DOC_START>
जयतु जननी जन्मभूमि: पुण्यभुवनं भारतम्
जयतु जम्बूद्वीपमखिलं सुन्दरं धामामृतम् ।
धरित्रीयं सर्वदात्री शस्यसुफला शाश्वती ।
कर्मतपसां सार्थतीर्थं प्रकृतिविभवालङ्कृतम् ॥ जयतु ॥
आकुमारी-हिमगिरेर्नो लभ्यते सा सभ्यता ।
एकमातु: सुतास्सर्वे भाति दिव्या भव्यता ।
तथाप्येका ह्यद्वितीया राजते जातीयता ।
ऐक्य-मैत्री-साम्य-सूत्रं परम्परया सम्भृतम् ॥ जयतु ॥
यत् त्रिरङ्गं ध्वजं विदधत् वर्षमार्षं विजयते ।
सार्वभौमं लोकतन्त्रं धर्मराष्ट्रं गीयते ।
मानविकता-प्रेमगीतं विबुधहृदये झङ्कृतम् ॥ जयतु ॥
<DOC_END>
<DOC_START>
सबलं सदयं नो हृदयम् ॥
स्वीकृतकार्यं न हि त्यजेम ॥
सदा भजेम भगवति रक्तिम् ॥
<DOC_END>
<DOC_START>
मानवं समुद्धर्तुममी प्रेषिता वयम् ।
सङ्कटाद्रिभिदुरं धैर्यं धार्यमनिशमिदमिह कार्यम् ।
मातरं प्रतिष्ठां नेतुं तनुभृतो वयम् ।
मातृभक्तिरेकं ध्येयं, तत्कृते शरीरं देयम् ।
जानते भरतभुवि लोका आत्मतत्त्वमिह गतशोका: ।
इत्यवेत्य जगदुद्धरणे योजिता वयम् ।
ईश्वर: स्फुरति न: स्वान्ते अज्ञानान्धतमसस्यान्ते ।
तस्य कार्यमधुना कर्तुं सोद्यमा वयम् ।
निश्चितं यश: परिपूर्णं लप्स्यतेऽत्र जन्मनि तूर्णम् ।
ईशकार्यकरणे निरता: सन्ततं वयम् ।
<DOC_END>
<DOC_START>
जया नमो विधिरमणि भुवनमोहिनि वाणि
अभयदायिनि जननि अव सदा कल्याणि ॥
व्याजाद्विना स्फुरसि कविषु धीनाराची ।
एणीदृशां भुवि न कापि तव सध्रीची
<DOC_END>
<DOC_START>
क्षात्रतेजसा समेत्य निर्भयं पुर: सरन्
मातृसेवनं विधातुमेहि स्वं समर्पयन् ॥
किं नु लोकधारिणी धरणिरेति खिन्नताम्
द्वन्द्वभावनां विभिन्दि छिन्दि जाड्यजालिकाम् ॥
मोहबन्धनं विधूय कुरु समष्टिचिन्तनम् ॥
मातृसेवया कुरुष्व सार्थकं स्वजीवनम् ॥
<DOC_END>
<DOC_START>
तवास्तु मा क्वचिद् भयम् ।
<DOC_END>
<DOC_START>
माता मम सा पुत्रवत्सला ॥
सन्तु हि दोषा: प्रथमे घट्टे
मास्तु भयं हृदि शङ्का लज्जा
<DOC_END>
<DOC_START>
यत्र मुनीनां शमकलितानां मङ्गल-मन्त्रनिनाद: ।
यत्र कवीनां मृदुभणितीनां मञ्जुलकाव्य-विनोद: ॥
यस्या: कीर्तिपताका सततं प्रचरति विश्वमशेषम् ।
यस्या: संस्तवलेशत एव विन्दति चित्तमकलुषम् ॥
यस्या: प्रभवति भाषासन्ततिरमिताकारा सुचिरम् ॥
यस्यै जीवनसमयो नीत: शङ्करमध्वमुनीनाम् ।
यस्यै कविताकर्म समर्पितमतुलं व्यासमुखानाम् ॥
यया जनानां योगरतानां विकसितमात्मज्ञानम् ।
यया कलानां नाट्यगतानां विस्तृतमखिलविधानम् ॥
यां परिपातुं परमतबाधाद् अनवरतं यतनीयम् ।
यामिह नेतुं सुललितमार्गे सङ्घटनं करणीयम् ॥
या कुलभवने परिजनवदने लसति घनादरपात्रम् ॥
<DOC_END>
<DOC_START>
शूरा वयं धीरा वयं वीरा वयं सुतराम्
गुणशालिनो बलशालिनो जयगामिनो नितराम् ॥
जनसेवका अतिभावुका: शुभचिन्तका नियतम् ॥
धनकामना सुखवासना न च वञ्चना हृदये
ऊर्जस्वला वर्चस्वला अतिनिश्चला विजये ॥
यामो वयं समराङ्गणं विजयार्थिनो बाला: ॥
जयमङ्गलं परमोज्ज्वलं नो देहि परमात्मन् ॥
<DOC_END>
<DOC_START>
नुतं सर्वश्रेष्ठम्, इदं हिन्दुराष्ट्रम् ॥
माता भूमि पुत्रोऽहम् मातु: कार्यासक्तोऽहम् ।
त्यागात्तापात् तनुजातानां नश्यति नैव सुखम् ॥
यस्यां गङ्गा अवतरति, देवो हि जनानुद्धरति
यस्यां जात: सञ्चितपुण्यै: लब्धे स्वर्गे सञ्चरति
देवानामपि जननं यत्र विद्यतेऽभीष्टम् ॥
आर्यं विश्वं करणीयं मुनिभिर्दृष्ट: स्वप्नोऽयम्
येन भवेेदखिलेऽपि प्रपञ्चे पुन: सर्वमान्यम् ॥
<DOC_END>
<DOC_START>
भारतमेव नमाम ॥ 4 ॥
<DOC_END>
<DOC_START>
कौमारं कोमलं तव सेवार्थम् ।
प्रफुल्लमिव कमलं, तव पूजार्थम् ।
<DOC_END>
<DOC_START>
विकासयति चित्तम् ॥ 1 ॥
पुरो नयति राष्ट्रम् ॥ 2 ॥
रक्षति संस्कृतजननीम् ॥ 3 ॥
<DOC_END>
<DOC_START>
नन्तुं कर्मजदुर्मदालसधियां सा हन्त नाथीकृता ।
काचित्स्वैरगमेन केलिसमये कामव्रता पादुका ॥
रम्ये, वेश्मनि, पाप-राक्षस-भिदा-सु-आसक्त-धी-नायिका, नन्तुम्, कर्म-ज-दुर्मद-अलस-धियाम्, सा, हन्त, नाथीकृता, सत्-वाट-भ्रमिकासु, तापस-तपः-विस्रम्भ-भू-यन्त्रिका, काचित्, स्वैर-गमेन, केलि-समये, काम-व्रता, पादुका ॥
केलिसमये – क्रीडावेलायां, स्वैरगमेन – स्वेच्छया सञ्चरणेन, कामव्रता – स्वस्याः इष्टं लोकरक्षणव्रतम् आचरन्ती, पापराक्षसभिदास्वासक्तधीनायिका – पापानां राक्षसानां नाशविषये अत्यर्थम् आसक्तं भगवन्तं नयन्ती, सद्वाटभ्रमिकासु – साधूनाम् ऋषीणाम् आश्रमप्रदेशेषु सञ्चरणेषु, तापसतपोविस्रम्भभूयन्त्रिका – तपस्विजनानां तपःकाले एकाग्रतां जनयन्तीः रेखाः भूमौ विलिखन्ती, सा काचित् पादुका – वाङ्मनसोः अगोचरा सा कापि पादुका, कर्मजदुर्मदालसधियाम् – दुष्कर्मजातेन दुर्मदेन कर्तव्यविषये आलस्ययुतबुद्धीनां जनानाम्, नन्तुम् – नमस्करणाय, रम्ये – अतिसुन्दरे, वेश्मनि – मन्दिरे (श्रीरङ्गविमाने नाथीकृता – स्वामिनी भूत्वा तिष्ठति ।
पादुका न केवलं पुरुषकारं कृत्वा विरमति । अपि च स्वाश्रितान् कथञ्चित् रक्षति । रामः विश्वामित्रयागसंरक्षणाय यदा प्रस्थितः तदा तं सिद्धाश्रमादिप्रदेशेषु नीत्वा ताटकासुबाह्वादीन् नाशितवती एषा । तथैव रामस्य वनवासकाले ऋष्याश्रमप्रदेशेषु स्वरेखाः विलिख्य, ताः पश्यतां राक्षसानां मनसि भयम् उत्पाद्य, तद्द्वारा ऋषीणां मनसि च एताः रेखाः दृष्ट्वा राक्षसाः अत्र नैव आगच्छेयुः इति विश्वासम् उत्पाद्य तेषां तपसि एकाग्रताम् अजनयत् पादुका । तादृशी दुष्टनिग्रहशिष्टपरिपालनजागरूका पादुका दुष्कर्मवशात् धनविद्याभिजात्यमदाभिभूताः मदं हित्वा आत्मक्षेमार्थं करणीयं भगवत्पादसमाश्रयणं यथा कुर्युः तथा तेषां नमनसौकर्याय श्रीरङ्गविमाने परमदयया स्वामिनी भूत्वा तिष्ठति ।
शार्दूलविक्रीडितवृत्ते निबद्धः अयं श्लोकः । षड्भिः स्तम्भैर्युतः महाचक्रबन्धः इति शब्दचित्रम् अत्र । अस्मिन् बन्धे ‘वेङ्कटनाथीय पादुकासहस्रम्’ इति कवेः काव्यस्य च नाम पठितुं शक्यम् । द्वाभ्यां स्तम्भाभ्यां युतायाम् एकैकस्यां वीथ्यां प्रदक्षिणक्रमेण श्लोकस्य त्रयः पादाः लिखिताः अस्मिन् बन्धे। तथा च तृतीयपादस्य अन्तिमाक्षरेणारभ्य प्रदक्षिणक्रमेण बहिर्मण्डले चतुर्थः पादश्च लिखितः । मध्ये घटे स्थितं ‘स’ इत्यक्षरं प्रथमद्वितीयतृतीयपादानां दशमम् अक्षरं भवति । त्रयाणाम् एतेषां पादानां प्रथमचरमाक्षराणि चतुर्थे विद्यन्ते । तथा च बहिर्मण्डलादारभ्य तृतीये मण्डले ’वेङ्कटनाथीय’ इति कवेर्नाम, षष्ठे च ‘पादुकासहस्रम्’ इति काव्यनाम पठितुं लभ्येते । चित्रं पश्यत ।)
<DOC_END>
<DOC_START>
श्रीपादावनि विस्तृतासि सुखिनी त्वं गेययातायना ।
श्री-संवेदन-कर्म-कृत्-वसु, तव, स्याम् ऋद्ध-धैर्य-स्फुटः, श्रीपादावनि विस्तृता असि सुखिनी त्वम्, गेय-यात-अयना, वेदान्त-अनुभव-अतिपाति-सुतनुः, सान्द्र-ईड्य-भाव-प्रथे अङ्कस्था च अच्युत-दिव्य-दास्य-सुमतिः प्राणस्थ-सीता-धन! ।
श्री-संवेदन-कर्म-कृत्-वसु! – हे साधूनां सम्पद्भूतवेदोक्तकर्माणि कुर्वतां धन पादुकायाः तथाभूतायाः सम्बोधनम्) सान्द्र-ईड्य-भाव-प्रथे! – अधिकाधिकं स्तूयमानत्वेन प्रथिते! प्राणस्थ-सीता-धन! – रामस्य प्राणभूतायाः सीतायाः धन! श्रीपादावनि! – हे भगवतः पादुके! त्वम् गेय-यात-अयना – गातुं योग्येन सञ्चारमार्गेण युता, वेदान्त-अनुभव-अतिपाति-सुतनुः – वेदान्तभूतोपनिषदर्थानाम् यद्वा उपनिषत्प्रतिपाद्यस्य भगवतः अनुभवम् अपि अतिपातिनीं सुन्दरीं तनुं बिभ्रती, अङ्कस्था – भगवतः छत्रचामरादिपरिच्छदेषु मुख्यभूता, अच्युत-दिव्य-दास्य-सुमतिः – आश्रितान् न कदापि च्यावयति यः तादृशस्य अच्युतस्य शुश्रूषायां सुष्ठुबुद्धिमती, सुखिनी – अमान्तम् आनन्दम् अनुभवन्ती, विस्तृता च असि – भगवतः असंख्येषु अवतारेषु अनुरूपैः रूपैः सहचरी भूत्वा तिष्ठसि । (अतः) धैर्यस्फुटः – अनेन विश्वासेन विशदमतिः अहम् तव – त्वद्दासभूतः, स्याम् – भवेयम् ।
एवं पूर्वं पठितेषु श्लोकेषु उक्तप्रकारेण आश्रितरक्षणे उपयुक्तपुरुषकारस्वभावः, तत्र च केवलं व्याजमात्रसापेक्षता, स्वातन्त्र्यं, तथा च पादुकादेव्याः विद्यमानानि रक्षणसाधनानि तस्याः रक्षणबलं च अनुसन्धाय, महाविश्वासपूर्वकं पादुकाविषयकं शेषत्वं प्रार्थयते अस्मिन् श्लोके ।
वेदोक्तकर्मभिः भगवन्तम् आराधयतां तानि कर्माणि सफलानि यथा स्युः तथा विदधाति पादुका । मुमुक्षूणां च तादृशाराधनानां परमं फलं च सैव । त्वं यत्र यत्र मार्गेषु सञ्चरसि तत्र तत्र सर्वाः सम्पदः आविर्भवन्ति, सकलानि अनिष्टानि निवर्तन्ते ततः । एतस्मात् कारणात् लोकः तव यात्राः स्तौति । तव रूपानुभवः एव उपनिषत्प्रतिपाद्यानां तत्त्वार्थानां यद्वा भगवतश्च अनुभवादपि विशेषानन्दकरः भवति । स एव उपासनयोग्यः उपासनफलं चास्ति । त्वदाश्रितानां समीपे त्वां वीक्ष्यैव तेषां सर्वे शात्रवाः भयेन विद्रवेयुर्यथा तथा अतिमुख्यं श्रीवैष्णवलक्षणम् असि । भगवतः अनुपमदास्यकृत्ये प्रवृत्ता आश्रितानां च तादृशीं बुद्धिं जनयित्वा सेव्यासि । भगवदनुभवेन शरणागतरक्षणेन च स्वयम् अपरिमितस्य सुखस्य अनुभोक्त्री त्वम् आश्रितेभ्यश्च निरतिशयसुखदात्री असि । एवं वात्सल्यातिशयेन भगवतः अवतारेषु तदनुरूपैः रूपैः अवतीर्य लोके सञ्चरसि । एवं रक्षणसाधनं तत्फलं च त्वमिति ज्ञात्वा महाविश्वासपूर्वकं तवाहं शेषभूतः स्याम् ।
अयमपि श्लोकः शार्दूलविक्रीडितवृत्ते अस्ति । अस्मिन् श्लोके चतुरङ्कमष्टाक्षरचक्रम् इति शब्दचित्रम् । अत्र अष्टौ स्तम्भाः सन्ति । कवेः चत्वारि बिरुदानि प्रदर्श्यन्ते अस्मिन् । श्लोकस्य चत्वारः पादाः प्रदक्षिणक्रमेण द्वाभ्यां द्वाभ्यां स्तम्भाभ्यां युक्तासु वीथीषु लिखिताः । चक्रे प्रथममण्डलवीथ्यां श्लोकस्य चतुर्ष्वपि पादेषु विद्यमानैः अष्टभिः अक्षरैः प्रथमः पादः, तृतीयमण्डले द्वितीयः पादः, षष्ठे मण्डले तृतीयः पादः, अष्टमे च चतुर्थः पादः इति क्रमेण बिरुदैः युक्तः श्लोकः पठितुं शक्यः । स च श्लोकः एवं भवति –
अर्थः – श्रीवेङ्कटनाथाभिधानेन वेदान्तविषयाणाम् आचार्यभूतेन कवीनां वादिनां च सिंहस्वरूपेण इयं पादुकास्तोत्रं कृतम् । एवं कवेः नाम, स्वरूपं, गुणान्, क्रियाश्च प्रकाशयति अयं चित्रबन्धः ।
<DOC_END>
<DOC_START>
चरतु मानवोऽयं सुहितकरं धर्मं सेवात्यागमयम् ॥४॥
<DOC_END>
<DOC_START>
येषां न विद्या न तपो न दानं
ज्ञानं न शीलं न गुणो न धर्मः ।
<DOC_END>
<DOC_START>
येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । तेमर्त्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाश्चरन्ति ॥
<DOC_END>
<DOC_START>
कनक-पीठ-निविष्ट-तनुः, तदा, सुमति-दायि-निज-अनुभव-स्मृता, विधि-शिव-प्रमुखैः, अभिवन्दिता, विजयते, रघु-पुङ्गव-पादुका ॥
तदा – तस्मिन् पादुकादेव्याः अधिकारकाले, कनक-पीठ-निविष्ट-तनुः – हेमसिंहासने प्रतिष्ठापितशरीरा, सुमति-दायि-निज-अनुभव-स्मृता – सम्यक् बुद्धिं जनयता स्वानुभवेन स्मरणेन च युता, विधि-शिव-प्रमुखैः – चतुर्मुखशङ्करादिभिः, अभिवन्दिता, रघु-पुङ्गव-पादुका – रामस्य पादुका, विजयते ।
पूर्वतनश्लोके पादुकां तदेकशेषवृत्तिं प्रार्थ्य, तथेति तया अनुगृहीतः इदानीं श्लोकद्वयेन सन्तोषाधिक्येन तामेव स्तुवन् कविः तस्याः जयघोषं कुर्वन् ‘एवमेव सा सदा मां रक्षतु’ इति प्रार्थयते । पूर्वं रामावतारदशायां कनकमये पीठे स्थित्वा कोसलराज्यस्य एकचक्राधिपत्यं ऊढवत्याः इदानीं च श्रीरङ्गविमाने तस्याः संनिवेशं मनसि निधाय पठ्यमानः श्लोकोऽयम् इति भाति । इयं पादुका ध्यायिनां सुमतिं ददत् स्वानुभवं सामान्यस्मरणं दधाति । अपि च श्रीरङ्गविमाने ब्रह्मरुद्रादिदेवैः या नमस्क्रियते, पूर्वं च रामावतारकाले दिव्यास्थानमण्डपे तैर्देवैः नुता, सा पादुका विजयते । दुष्टराक्षसान् संहृतवती इयं तद्वद् इदानीं मम मनः जित्वा स्वाधीनं कृत्वा विजयते । एवं सा अग्रेऽपि जयशालिनी भूयात् इत्याशंसते कविः । यथा हनुमान् राक्षसानां मध्ये रामस्य जयकारं कृतवान् तद्वत् संसारेऽस्मिन् पादुकायाः जयशालित्वं अस्मिन् श्लोके स्तौति कविः ।
विशेषः – ३३, ३४ तमश्लोकयोः
त्रयस्त्रिंशत्तमः श्लोकः द्रुतविलम्बितवृत्ते, चतुस्त्रिंशत्तमः स्रग्विणीवृत्ते च निबद्धः । द्वयोरपि एकैकस्मिन् पादे द्वादशाक्षराणि सन्ति । अनयोः श्लोकयोः समस्थाने स्थितानि अक्षराणि समानानि सन्ति । एतौ गोमूत्रिकारीबन्धे विलिख्य, एकस्य श्लोकस्य प्रथमार्धः द्वितीयस्य प्रथमार्धेन, द्वितीयार्धः द्वितीयार्धेन च गोमूत्रिकाक्रमेण पठितुं शक्यः । (चित्रं पश्यत ।)
<DOC_END>
<DOC_START>
३४. दीनगोपीजनिक्लिष्टभीनुत्सदा रामपादावनि! स्वानुभावस्थिता ।
एधि मेऽवश्यमुत्तारभावश्रिता तेजसा तेन घुष्टिं गता पादुका ॥
दीन-गोपी-जनि-क्लिष्ट-भी-नुत्, सदा राम-पाद-अवनि! स्व-अनुभाव-स्थिता, एधि मे अवश्यम् उत्तार-भाव-श्रिता तेजसा तेन घुष्टिं गता पालिका ॥
(हे) राम-पाद-अवनि हे श्रीरामस्य पादुके दीन-गोपी-जनि-क्लिष्ट-भी-नुत् – अकिञ्चनानां गोपीजनानां पुनर्जन्म, तथा कंसेन जातानि कष्टानि यद्वा विरहपीडाम्, इन्द्रात् जातं भयं च अपनुदती, सदा, स्व-अनुभाव-स्थिता – स्वमहिम्नि प्रतिष्ठिता, उत्तार-भाव-श्रिता – आश्रितान् संसारात् तारयित्री, तेन तेजसा – अन्यान् स्वं च सर्वविधैः रक्षितुं समर्थेन तेजसा, घुष्टिं गता – घोषं प्राप्ता (त्वम् मे पालिका एधि – मम पालयित्री भवेः ।
कृष्णावतारकाले दीनानां गोपीजनानां इह परत्र च सर्वं भयं दूरीकृतवती पादुका । तासां पुनर्जनिभयस्य, दुष्टकंसेन कृतानां पीडानाम्, अथवा कृष्णविरहपीडायाः, इन्द्रेण जनितस्य भयस्य च अपनोदनं कृतवतीत्यर्थः । सदा स्वमहिम्नः ब्रह्मेन्द्रादिदेवैः, दुष्टराजैः भङ्गः यथा न भवेत् तथा स्थिरप्रतिष्ठिता च पादुका । स्वतेजसा सर्वलोकान् संसारात् तारयितुं समर्था च । तस्याः तेजसः प्रभावः सर्वत्र लोके घुष्यते । ‘तादृशेन स्वतेजसा सामर्थ्येन मां तव शेषवृत्त्याः अच्युतं कृत्वा रक्ष’ इति कवेः प्रार्थना ।
विशेषः – ३३, ३४ तमश्लोकयोः
त्रयस्त्रिंशत्तमः श्लोकः द्रुतविलम्बितवृत्ते, चतुस्त्रिंशत्तमः स्रग्विणीवृत्ते च निबद्धः । द्वयोरपि एकैकस्मिन् पादे द्वादशाक्षराणि सन्ति । अनयोः श्लोकयोः समस्थाने स्थितानि अक्षराणि समानानि सन्ति । एतौ गोमूत्रिकारीबन्धे विलिख्य, एकस्य श्लोकस्य प्रथमार्धः द्वितीयस्य प्रथमार्धेन, द्वितीयार्धः द्वितीयार्धेन च गोमूत्रिकाक्रमेण पठितुं शक्यः । (चित्रं पश्यत ।)
<DOC_END>
<DOC_START>
३५. धामनिराकृततामसलोका धातृमुखैर्विनता निजदासैः ।
पापमशेषमपाकुरुषे मे पादु! विभूषितराघवपादा ॥
धाम-निराकृत-तामस-लोका, धातृ-मुखैः, विनता, निज-दासैः, पापम्, अशेषम्, अपाकुरुषे, मे, पादु! विभूषित-राघव-पादा ।
(हे) पादु! – हे पादुके धाम-निराकृत-तामस-लोका – तव तेजसा आसुरप्रकृतीन् जनान् नाशयसि । निज-दासैः – स्वदासैः, धातृ-मुखैः – चतुर्मुखादिभिः, विनता – वन्दितासि । (तादृशी) विभूषितराघवपादा – रामस्य पादम् अलङ्कृतवती (त्वं) मे – मम, पापम् – एनः, अशेषम् – निःशेषम्, अपाकुरुषे – दूरीकरोषि ।
पूर्वतनश्लोकद्वये कविः ‘मम प्रार्थनानुगुणं श्रीपादुका अनन्यार्हशेषभूतवस्तुतां मे दत्तवती’ इति सन्तोषेण तस्याः जयकारं करोति । अस्मिन् श्लोके तादृशी शेषवृत्तिः न कदापि च्युता भवेद्यथा तथा ‘तदेकशेषवृत्तेः प्रतिबन्धकानि यानि पापानि मम स्युः तानि सर्वानि स्वयं पादुका अपाकुरुते’ इति कृतज्ञताविष्कारं करोति । अपि च एवं कृतज्ञतापूर्वकं स्वेन क्रियमाणं किञ्चित्कारं शुश्रूषादिकम् अङ्गीकर्तुं पूजावेलायां तस्याः सान्निध्यं प्रार्थयते ।
एतौ श्लोकौ दोधकवृत्ते (३५) उपजातिवृत्ते (३६) च निबद्धौ । द्वयोरपि एकैकस्मिन् पादे एकादश अक्षराणि सन्ति । इमौ गोमूत्रिकाबन्धे एवं लेखनीयौ । प्रथमश्लोकस्य पूर्वार्धं क्रमेण लिखित्वा, तस्य अधः द्वितीयश्लोकस्य पूर्वार्धः व्युत्क्रमेण लेखनीयः यथा प्रथमश्लोकस्य समस्थानेषु स्थितानाम् अक्षराणाम् अधः द्वितीयश्लोकस्य समस्थाने स्थितानि अक्षराणि, एवमेव विषमस्थाने स्थितानाम् अक्षराणाम् अधः विषमस्थाने स्थितानि अक्षराणि लिखितानि भवेयुः । गोमूत्रिकारीत्या क्रमेण पठनेन प्रथमः श्लोकः, व्युत्क्रमेण पठनेन द्वितीयः श्लोकश्च लभ्यते । अस्य शब्दचित्रस्य ‘भिन्नवृत्तप्रतिलोमगोमूत्रिका’ इति नाम । चित्रं पश्यत ।)
<DOC_END>
<DOC_START>
पादावनि! स्त्यानसुखैर्न तृप्ता कान्त्या समेताधिकृताऽनिरोधा ॥
कृपा-अनघ-त्रात-सुभूः, अदुष्टा, मेध्या, रुचा, पारिषदा, आम, भूपा, पादावनि! स्त्यान-सुखैः न तृप्ता, कान्त्या, समेता, अधिकृता, अनिरोधा ।
पादावनि! – हे पादुके त्वम् कृपानघत्रातसुभूः – दयया दुःखरहितं यथा तथा रक्षितपुण्यभूमिः, अदुष्टा दोषरहिता, रुचा कान्त्या, मेध्या परिशुद्धा, पारिषदा – सतां गोष्ठीषु साध्वी, भूपा – भुवं पालयित्री, स्त्यानसुखैः – अधिकसुखैः, न तृप्ता – तृप्तिं न गता, कान्त्या – इच्छया, समेता – सहिता, अधिकृता – अधिकारं प्राप्ता, अनिरोधा – स्वस्य निरोधरहिता (च असि) । (तादृशी त्वम्) आम – आगच्छेः ।
हे पादुके! रामकृष्णाद्यवतारेषु आर्यावर्तादिभूप्रदेशेषु वास्तव्यैः जनैः आराधिता त्वं कृपया तान् दुःखरहितान् कृत्वा रक्षितवती खलु । तव रत्नकिरणैः समस्तं लोकं पावयितुं समर्थासि त्वम् । तत्त्वविदां सर्वभूतसुहृदां सदारक्षणशीलानां साधूनां गोष्ठीषु त्वम् उत्तमा खल्वसि । इमां भुवं रक्षितुमेव स्थिरान् अर्चावतारान् करोषि ननु । भगवतः पादयोः नित्यसम्बन्धेन तव यत् अधिकं सुखं भवति तेन न कदापि तृप्ता त्वम् । तव भगवत्पादसमागमो यथा तथैव आश्रितानां भगवत्पादसमाश्रयं घटयन्ती तेषां तत्प्राप्तौ च इच्छां वहसि । लोकरक्षणस्य सर्वोऽपि अधिकारः भवत्यां न्यस्तः खलु । तस्मादेव कारणात् स्वेच्छया लोकं रक्षितुं सर्वत्र सञ्चरन्ती न केनापि न वा विघ्नैः निरुद्धा त्वम् । एवं सततशेषवृत्तिप्रतिबन्धकानि पापानि मम क्षपयसि । नैतावता अलम् । मया क्रियामाणान् किञ्चित्कारान् अङ्गीकृत्य माम् अनुग्रहीतुं मम पूजाकालेषु त्वया सान्निध्यं करणीयम् । तथा करणे आवश्यकाः ये गुणाः, बाध्यता, अधिकारः इत्यादयः सर्वे तव सन्त्येव ।
एतौ श्लोकौ दोधकवृत्ते (३५) उपजातिवृत्ते (३६) च निबद्धौ । द्वयोरपि एकैकस्मिन् पादे एकादश अक्षराणि सन्ति । इमौ गोमूत्रिकाबन्धे एवं लेखनीयौ । प्रथमश्लोकस्य पूर्वार्धं क्रमेण लिखित्वा, तस्य अधः द्वितीयश्लोकस्य पूर्वार्धः व्युत्क्रमेण लेखनीयः यथा प्रथमश्लोकस्य समस्थानेषु स्थितानाम् अक्षराणाम् अधः द्वितीयश्लोकस्य समस्थाने स्थितानि अक्षराणि, एवमेव विषमस्थाने स्थितानाम् अक्षराणाम् अधः विषमस्थाने स्थितानि अक्षराणि लिखितानि भवेयुः । गोमूत्रिकारीत्या क्रमेण पठनेन प्रथमः श्लोकः, व्युत्क्रमेण पठनेन द्वितीयः श्लोकश्च लभ्यते । अस्य शब्दचित्रस्य भिन्नवृत्तप्रतिलोमगोमूत्रिका इति नाम । चित्रं पश्यत ।)
<DOC_END>
<DOC_START>
३७. सारससौख्यसमेता ख्याता पदपा भुवि स्वाज्ञा ।
सारस-सौख्य-समेता, ख्याता, पदपा, भुवि, स्वाज्ञा, साहसकारि-अवन-आशा, धीरा, वसुदा, नव-न्यासा ।
सारस-सौख्य-समेता – कमलपुष्पस्य सुखं प्राप्ता, स्वाज्ञा – क्षेमकरीः आज्ञाः कुर्वती, साहसकार्यवनाशा – साहसं कुर्वतः भरतस्य रक्षणे इच्छां बिभ्रती, धीरा, वसुदा – सकलसम्पद्दात्री, नवन्यासा – नित्यनूतनसंनिवेशा, पदपा – पादुका, भुवि – लोके, ख्याता – आश्रितसुलभा इति ख्याता ।
पूर्वतनश्लोकद्वये उक्तं यत् ‘पादुका मम शेषवृत्तिविरोधिपापानि क्षपयति यतः तस्यै कृतज्ञताविष्करणार्थं सा मे प्रत्यक्षा भवतु इति प्रार्थये’ इति । इदानीं श्लोकद्वयेन सा ‘मम प्रार्थनाम् अङ्गीकृत्य आराधनसुलभा भूत्वा, स्वमहिमानं न ख्यापयन्ती, मया सह सखीव सरसतया वर्तते’ इति कविः वदति ।
अनयोः द्वयोः श्लोकयोः भिन्नवृत्तानुलोमप्रतिलोमयमकचित्रम् वर्तते । द्वावपि आर्यावृत्तस्य प्रभेदौ । तद्यथा – प्रथमः श्लोकः (३७) अन्तिमाक्षरादारभ्य विलोमक्रमेण पठ्यते चेत् द्वितीयश्लोकः (३८) लभ्यते । तथैव द्वितीयः श्लोकः (३८) विलोमक्रमेण पठ्यते चेत् प्रथमः (३७) लभ्यते ।
<DOC_END>
<DOC_START>
ज्ञा स्वा विभुपादपताख्याता मे सख्यसौ सरसा ॥
सान्या, अवन-दा, सुवरा, अधीशाना, वर्य-का, सहसा, ज्ञा, स्व-अ, विभु-पादपता-ख्याता, मे सखी असौ सरसा ।
सान्या- सर्वेषामपि भक्त्यर्हा, अवन-दा- सर्वेषां च तेषां रक्षणदात्री, अधीशाना- सर्वस्यापि लोकस्य अधीश्वरी, वर्यका- महासुखवती, ज्ञा- ज्ञानवती, स्वा- स्वम् अकारवाच्यं भगवन्तं प्राप्ता, विभु-पादपता-ख्याता- विभोः भगवतः पादयोः पातृत्वेन प्रसिद्धा, असौ- एषा (पादुका सहसा- अतिशीघ्रं, सुवरा- सुलभतया वरणयोग्या, सरसा- सरसतया व्यवहर्तुं योग्या सखी अस्ति ।
मम अत्यन्तं सुलभतया आराध्या पादुका इति कारणेन सा सामान्या वा इति चेत् न । तस्याः महिम्नः मम च नैच्यस्य उपमानं नास्त्येव । सा तु सर्वलोकोपास्या । अहं तु तां मनसा ध्यातुमपि योग्यताविरहितः । सर्वस्यापि लोकस्य रक्षणं विदधाति सा । अहं तावत् स्वरक्षणेऽप्यसमर्थः । सर्वैः सुलभतया आश्रयणे आभिमुख्यवती सा । अहं तु गणनीयः एव न । सा च परमसुखवती अवाप्तसमस्तकामा । किन्त्वहं दुःखस्वरूपवान् । सा सर्वज्ञा । अहं च ज्ञानविहीनेषु प्रथमः । तस्यास्तु सर्वेश्वर एव स्वाधीनः । अहं तावत् तेन सर्वथा विरहितः । सा च भगवत्पादयोरपि रक्षणं करोति इति प्रसिद्धा । परमहं तं भगवन्तमपि क्लेशयामि । एवं स्वरूपेण, गुणेन, व्यापारेण महिम्ना च मातुमशक्या सा नीचेन मया केवलं स्वसौशील्यगुणेन अतिशीघ्रं वरणयोग्या भूत्वा, सखीव मयि स्नेहं दर्शयन्ती, हिताहितं उपदिशन्ती स्वमहिमानं यथाहं विस्मरेयं तथा करोति ।
एवम् अस्मिन् श्लोके पादुकादेव्याः सौलभ्यसौशील्यगुणौ कीर्तितौ भवतः । सौलभ्यसौशील्ये भगवतः कल्याणगुणेषु अन्यतमे । सौलभ्यं तावत् महिम्ना सर्वोत्तरोऽपि सन् भक्तैः प्रार्थितः अनुक्षणं तान् यदुपगच्छति देवः । तथा उपगतः स्वमहिमानम् अख्यापयन्नेव नीचेनापि भक्तेन सरसतया व्यवहरन् तस्य भक्तस्य उपचारान् महत्या प्रीत्या स्वीकरोति यत् तत् तस्य सौशील्यम् । “महतो मन्दैस्सह नीरन्ध्रेण संश्लेषः सौशील्यम्” – यथा रामस्य गुहसमागमे । समेषु यत् सौहार्दं तत् स्नेहः इत्युच्यते । महतां विषये या प्रीतिः सा भक्तिरित्युच्यते । नीचानां विषये महतां स्नेहः प्रीतिरित्युच्यते ।
अनयोः द्वयोः श्लोकयोः भिन्नवृत्तानुलोमप्रतिलोमयमकचित्रम् वर्तते । द्वावपि आर्यावृत्तस्य प्रभेदौ । तद्यथा – प्रथमः श्लोकः (३७) अन्तिमाक्षरादारभ्य विलोमक्रमेण पठ्यते चेत् द्वितीयश्लोकः (३८) लभ्यते । तथैव द्वितीयः श्लोकः (३८) विलोमक्रमेण पठ्यते चेत् प्रथमः (३७) लभ्यते ।
<DOC_END>
<DOC_START>
३९. तारस्फारतरस्वररसभररा सा पदावनी सारा ।
तार-स्फारतर-स्वर-रस-भर-रा, सा, पद-अवनी, सारा, धीर-स्वैर-चर-स्थिर-रघु-पुर-वास-रति-राम-सवा ।
धीर- धैर्यशालिनं, स्वैरचर- स्वेच्छया चरितुं समर्थं, स्थिर- अविचलितस्वभावं, रघुपुर- अयोध्यापुरे, वास- ये वसन्ति तेषु, रति- प्रीतिमन्तं राम- रामं, सवा- प्रेरयन्ती, तार- उच्चैः, स्फारतर- प्रतिक्षणं वृद्धिमता, स्वर-शब्देन, रसभर- प्रीतेः आधिक्यं, रा- ददती, सा पदावनी – सौशील्यादिगुणैः प्रसिद्धा सा पादुका, सारा – सञ्चारशीला ।
स्वसौलभ्यसौशील्यगुणौ प्रदर्शयन्ती पादुका आश्रितानाम् आराध्या इति पूर्वतनश्लोकयोः तात्पर्यम् । न केवलं तावत् । सा यदा यदा आश्रितानभियाति तदा तदा स्वाधीनं भगवन्तमपि सहैव नयनशीला इति अस्य उपरितनस्य श्लोकस्य च तात्पर्यम् ।
भगवान् पादुकादेव्याः वश्यः अस्ति । तं पादुकादेवी साधुजनानां गृहेषु नयति इति अग्रिमश्लोके वक्ष्यति ।
पादुकाद्वयगर्भम् अष्टदलपद्मम् इति अस्य शब्दचित्रस्य नाम । अस्मिन् चित्रे अष्टभिः दलैः युक्तस्य पद्मस्य मध्ये कर्णिकायां पादुके दृश्यतः । कर्णिकामध्ये ‘र’ इति अक्षरम् । पद्मस्य मध्यदले विद्यमानात् ‘ता’ इत्यक्षरात् आरभ्य प्रदक्षिणक्रमेण चतुर्षु दलेषु विद्यमानानि अक्षराणि एकैकशः कर्णिकामध्ये स्थितेन ‘र’ इति अक्षरेण सह पठित्वा, दक्षिणपादुकायाः अधोभागे मध्ये च विद्यमाने अक्षरे च रेफेण सह पठ्येते चेत् श्लोकस्य प्रथमः पादः लभ्यते । पश्चात् तस्या एव पादुकायाः मध्ये उपरि विद्यमानेन ‘रा’ इत्यक्षरादारभ्य अङ्गुलीषु विद्यमानानि अक्षराणि पठ्यन्ते चेत् ‘रासापदावनीसारा’ इति श्लोकस्य द्वितीयः पादः लभ्यते । एवमेव वामभागे चतुर्षु दलेषु विद्यमानानि अक्षराणि मध्ये स्थितेन रेफेण वामपादुकायां स्थितैः अक्षरैश्च पठनीयानि । एवं च श्लोकस्य उत्तरार्धः लभ्यः । अङ्गुलीषु विद्यमानैः अक्षरैः ‘सरति रामपदावनी सा’ इति वाक्यं पठितुं शक्यम् । (चित्रं पश्यत)
अस्य पद्मबन्धस्य अभिप्रायः एवमस्ति । ३७ तमे श्लोके आचार्यः ‘सारससौख्यसमेता’ इति पदेन पद्मस्योपरि पादुकां निवेश्य पादुका पद्मासनसुखम् अनुभवति यथा तथा भावयति । यद्वा हृत्पद्ममध्ये पादुकां निवेश्य ध्यायति आचार्यः । यद्वा ३१ तमे श्लोके ‘सद्वाट…. यन्त्रिक’ इति पदेन उक्तरीत्या यत्र यत्र पादुका सञ्चरति तत्र सर्वत्र पद्मरेखादिचिन्हानि दृश्यन्ते इति भावः । स्ववशे स्थितं रामं यदा आश्रितानां कठिनेषु हृदयेषु वस्तुं नयति तदा स्वयं पद्ममिव मध्ये स्थित्वा तानि हृदयानि मृदूकरोति इति भावः ।
<DOC_END>
<DOC_START>
४०. चरमचरं च नियन्तुश्चरणावनिदम्परेतरा शौरेः ।
चरमपुरुषार्थचित्रौ चरणावनि दिशसि चत्वरेषु सताम् ॥
चरम्, अचरम्, च, नियन्तुः, चरणौ, अनिदम्पर-इतरा, शौरेः, चरम-पुरुष-अर्थ-चित्-त्रौ, चरण-अवनि, दिशसि चत्वरेषु सताम् ।
हे चरणावनि! – हे भगवतः पादुके अनिदम्परेतरा – एतत्कार्यपरा सती (त्वं चरम् – जङ्गमस्य, अचरं च – स्थावरस्य च, नियन्तुः – नियमनकर्तुः, शौरेः – श्रीरङ्गनाथस्य, चरम-पुरुष-अर्थ-चित्-त्रौ – अन्तिमस्य मोक्षाख्यपुरुषार्थस्य ज्ञानं रक्षन्तौ, चरणौ – पादौ, सताम् – सत्पुरुषाणां, चत्वरेषु – पूजागृहेषु, दिशसि – नयसि ।
हे शौरिपादुके! त्वं यदा अकिञ्चनानां साधूनां गृहचत्वरेषु गच्छसि, तदा स्थावरजङ्गमरूपस्य सर्वस्य लोकस्य नियन्तुः रङ्गनाथस्य चरणावपि तत्र नयसि । एतौ चरणौ चतुर्षु पुरुषार्थेषु प्रथमानां त्रयाणां पुरुषार्थानां ज्ञानम् अपनुद्य चरमपुरुषार्थे मोक्षे एव तेषां मतिः यथा भवेत् तथा कुरुतः । अस्मिन् कार्ये तव अभिसन्धिः दृढः दृश्यते । अर्थात् साधूनां गृहेषु प्रवर्तमानायां पूजायां पादुका एकाकिनी नैव गच्छति, किन्तु भगवन्तमपि तत्र नयति । यथा तेषां भगवदनुग्रहेण चरमः पुरुषार्थः मोक्षः सिध्यति ।
एवं च अस्यां पद्धत्यां आचार्यसार्वभौमः श्रीदेशिकः तत्त्वज्ञानं प्राप्तवतां मुमुक्षूणां चरमपुरुषार्थसिध्यर्थम् उपायानुष्ठानम् उपदेशद्वारा, स्वयम् अनुष्ठानेन च बोधयति ।
<DOC_END>
<DOC_START>
कालेन फलते तीर्थम् सद्यः सज्जनसङ्गतिः॥
<DOC_END>
<DOC_START>
सम्यक् परिष्कृतं शुद्धमर्थाद् दोषरहितं व्याकरणेन संस्कारितं वा यत्तदेव संस्कृतम्। एवञ्च सम्-उपसर्गपूर्वकात् कृधातोर्निष्पन्नोSयं शब्द संस्कृतभाषेति नाम्रा सम्बोध्यते। सैव देवभाषा गीर्वाणवाणी, देववाणी, अमरवाणी, गीर्वागित्यादिभिर्नामभिः कथ्यते। इयमेव भाषा सर्वासां भारतीयभाषाणां जननी, भारतीयसंस्कृतेः प्राणस्वरूपा, भारतीयधर्मदर्शनादिकानां प्रसारिका, सर्वास्वपि विश्वभाषासु प्राचीनतमा सर्वमान्या च मन्यते। अस्माकं समस्तमपि प्राचीनं साहित्यं संस्कृतभाषायामेव रचितमस्ति, समस्तमपि वैदिक साहित्यं रामायणं महाभारतं पुराणानि दर्शनग्रन्थाः स्मृतिग्रन्थाः काव्यानि नाटकानि गद्य-नीति-आख्यानग्रन्थाश्च अस्यामेव भाषायां लिखिताः प्राप्यन्ते। गणितं, ज्योतिषं, काव्यशास्त्रमायुर्वेदः, अर्थशास्त्रं राजनीतिशास्त्रं छन्दःशास्त्रं ज्ञान-विज्ञानं तत्वजातमस्यामेव संस्कृतभाषायां समुपलभ्यते। अनेन संस्कृतभाषायाः विपुलं गौरवं स्वमेव सिध्यति।
<DOC_END>
<DOC_START>
धलेश्वरी नदी बाङ्गलादेशस्य उत्तरकेन्द्रीय अञ्चलस्य टाङ्गाईल-मानिकगञ्ज-नारायण-ठ
<DOC_END>
<DOC_START>
(1)काञ्चुकीय मगधे अन्तः पुरस्य अधिकारी ब्राह्मणः।
(2)काञ्चुकीय उज्जयिन्यां अन्त:पुरस्यां अधिकारी ब्राह्मणः।
वासवदत्ता उदयनस्य प्रथमपत्नी, उज्जयिनीराजस्य प्रद्योतस्य पुत्रीः।
पद्मावती मगधराजस्य दर्शकस्य भगिनी, उदयनस्य द्वितीयपत्नी।
तापसी मगजराज्यस्य तपोवने विद्यमाना तपस्विनी।
सूत्रधारः उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् ।
पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ।। 1 ।।
एवमार्यमिश्रान् विज्ञापयामि । अये । किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग । पश्यामि।
घृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ।। 2 ।।
भटौ उस्सरह उस्सरह अय्या उस्सरह । (उत्सरतोत्सरतार्याः उत्सरत ।)
(ततः प्रविशति परिव्राजकवेषो यौगन्धरायणः, आवन्तिकावेषधारिणी वासवदत्ता च।)
यौगन्धरायणः कर्णं दत्त्वा) कथमिहाप्युत्सार्यते । कुतः,
र्मानार्हस्य जनस्य वल्कलवतस्त्रासः समुत्पाद्यते ।
कोऽयं भो! निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया ।। 3 ।।
वासवदत्ता अय्य! को एसो उस्सारेदि । (आर्य! क एष उत्सारयति?)
यौगन्धरायणः भवति! यो धर्मादात्मानमुत्सारयति ।
वासवदत्ता अय्य। ण हि एव्वं वत्तुकामा, अहं वि णाम उस्सारइदव्वा होमि त्ति। (आर्य! न ह्येवं वक्तुकामा । अहमपि नामोत्सारयितव्या
यौगन्धरायणः भवति! एवमनिज्र्ञातानि दैवतान्यवधूयन्ते ।
वासवदत्ता अय्य! तह परिस्समो परिखेदं ण उप्पादेदि, जह अअं परिभवो । (आर्य! तथा परिश्रमः परिखेदं नोत्पादयति, यथायं परिभवः । )
यौगन्धरायणः भुक्तोज्झित एष विषयोऽत्रभवत्या । नात्र चिन्ता कार्या । कुतः,
पूर्वं त्वयाप्यभिमतं गतमेवमासीच्छ्लाध्यं गमिष्यसि पुनर्विजयेन भर्तुः ।
कालक्रमेण जगतः परिवर्तमाना चक्रारपंक्तिरिव गच्छति भाग्यपंक्तिः ।। 4 ।।
भटौ उस्सरह अय्या उस्सरह । (उत्सरतार्याः उत्सरत ।)
काञ्चुकीयः सम्भषक! न खलु न खलूत्सारणा कार्या । पश्य,
परिहरतु भवान् नृपापवादं न परुषमाश्रमवासिषु प्रयोज्यम् ।
नगरपरिभवान् विमोक्तुमेते वनमभिगम्य मनस्विनो वसन्ति ।। 5 ।।8
भटौ- अय्य! तह (आर्य! तथा। इति निष्क्रान्तौ)
उभौ अय्य! तह (आर्य! तथा।)
यौगन्धरायणः हन्त सविज्ञानमस्य दर्शनम् । वत्से उपसर्पावस्तावदेनम् ।
यौगन्धरायणः उपसृत्य) भोः किंकृतेयमुत्सारणा ।
यौगन्धरायणः आत्मगतम्) तपस्विन्निति गुणवान् खल्वयमालापः । अपरिचयात्तु न शिल्ष्यते मे मनसि।
काञ्चुकीयः भोः श्रूयताम् । एषा खलु गुरुभिरभिहितनामधेयस्यास्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम । सैषा नो महाराजमातरं
महादेवीमाश्रमस्थामभिगम्यानुज्ञाता तत्रभवत्या राजगृहमेव यास्यति। तदद्यास्मिन्नाश्रमपदे वासोऽभिप्रेतोऽस्याः। तद् भवन्तः
धर्मप्रिया नृपसुता न हि धर्मपीडा-
मिच्छेत् तपस्विषु कुलव्रतमेतदस्याः ।। 6 ।।
यौगन्धरायणः स्वगतम्) एवम् । एषा सा मगधराजपुत्री पद्मावती नाम, या पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति । ततः,
प्रद्वेषो बहुमानो वा संकल्पादुपजायते ।
भर्तृदाराभिलाषित्वादस्यां मे महती स्वता ।। 7 ।।
वासवदत्ता स्वगतम्) राअदारिअत्ति सुणिअ भइणिआसिणेहो वि मे एत्थ सम्पज्जइ।। (राजदारिकेति श्रुत्वा भगिनिकास्नेहोऽपि मेऽत्र
(ततः प्रविशति पद्मावती सपरिवारा चेटी च)
चेटी एदु एदु भट्टिदारिआ, इदं अस्समपदं, पविसदु।। (एत्वेतु भर्तृदारिका, इदमाश्रमपदम्! प्रविशतु।)
तापसी साअदं राअदारिआए ।। (स्वागतं राजदारिकायाः।)
वासवदत्ता स्वगतम्) इअं सा राअदारिआ। अभिजणाणुरूवं खु से रूवं (इयं सा राजदारिका। अभिजनानुरूपं खल्वस्या रूपम्।)
पद्मावती अय्ये वन्दामि । (आर्ये वन्दे ।)
तापसी चिरं जीव । पविस । जादे पविस । तवोवणाणि णाम अदिहिजणस्स सअगेहं । (चिरं जीव। प्रविश जाते प्रविश ।
पद्मावती भोदु भोदु । अय्ये विस्सत्थम्हि । इमिणा बहुमाणवअणेण अणुग्गहिदम्हि ।। (भवतु, भवतु । आर्ये विश्वस्तास्मि । अनेन
वासवदत्ता स्वगतम्) ण हि रूवं एव्व, वाआ वि खु से महुरा । (न हि रूपमेव, वागपि खल्वस्या मधुरा ।)
तापसी भद्दे इमं दाव भद्दमुहस्स भइणिअं कोच्चि राआ ण वरेदि । (भद्रे! इमां तावद् भद्रमुखस्य भगिनिकां कश्चिद् राजा न वरयति
चेटी अत्थि राआ पज्जोदो णाम उज्जइणीए । सो दारअस्स कारणादो दूदसंपादं करेदि । (अस्ति राजा प्रद्योतो नामोज्जयिन्याः । स
दारकस्य कारणाद् दूतसंपातं करोति ।)
वासवदत्ता आत्मगतम्) भोदु भोदु । एसा अ अत्तणीआ दाणिं संवुत्ता । (भवतु भवतु । एषा चात्मीयेदानीं संवृत्ता ।)9
तापसी अरिहा खु इअं आइदी इमस्स बहुमाणस्स । उभआणि राअउलाणि महत्तराणि त्ति सुणीअदि। (अर्हा खल्वियमाकृतिरस्य
बहुमानस्य । उभे राजकुले महत्तरे इति श्रूयते ।)
पद्मावती अय्य! किं दिट्ठो मुणिजणो उत्ताणं अणुग्गहीदुं अभिप्पेदप्पदाणेण तवस्सिजणो उवणिमन्तीअदु दाव को किं एत्थ इच्छदि त्ति ।
(आर्य! किं दृष्टो मुनिजन आत्मानमनुग्रहीतुम्? अभिप्रेतप्रदानेन तपस्विजन उपनिमन्त्र्यतां तावत् कः किमत्रेच्छतीति?)
काञ्चुकीयः यदभिप्रेतं भवत्या । भो भो आश्रमवासिनस्तपस्विनः। श्रृण्वन्तु श्रृण्वन्तु भवन्तः। इहात्रभवती मगधराजपुत्री अनेन
कस्यार्थः कलशेन को मृगयते वासो यथानिश्चितं
दीक्षां पारितवान् किमिच्छति पुनर्देयं गुरोर्यद् भवेत् ।
यद् यस्यास्ति समीप्सितं वदतु तत् कस्याद्य किं दीयताम् ।। 8 ।।
यौगन्धरायण हन्त! दृष्ट उपायः (प्रकाशम्) भोः अहमर्थी ।
पद्मावती दिट्ठिआ सहलं मे तवोवणाभिगमणं । (दिष्टया सफलं मे तपोवनाभिगमनम् ।)
तापसी संतुट्ठतपस्सिजणं इदं अस्समपदं । आअन्तुएण इमिणा होदव्वं ।
(सन्तुष्टतपस्विजनमिदमाश्रमपदम् । आगन्तुकेनानेन भवितव्यम् ।)
काञ्चुकीय भोः किं क्रियताम् ।
यौगन्धरायण इयं मे स्वसा । प्रोषितभर्तृकामिमामिच्छाम्यत्रभवत्या कञ्चित् कालं परिपाल्यमानाम्। कुतः,
कार्यं नैवार्थैर्नापि भोगैर्न वस्त्रैर्नाहं काषायं वृत्तिहेतोः प्रपन्नः ।
धीरा कन्येयं दृष्टधर्मप्रचारा शक्ता चारित्रं रक्षितुं मे भगिन्याः ।। 9 ।।
वासवदत्ता आत्मगतम्) हं। इह मं णिक्खिविदुकामो अय्ययोगेन्धराअणो । होदु, अविआरिअ कमं ण करिस्सदि । (हम्। इह मां
निक्षेप्तुकाम आर्ययौगन्धरायणः । भवतु, अविचार्य क्रमं न करिष्यति।)
काञ्चुकीय भवति! महतो खल्वस्य व्यपाश्रयणा। कथं प्रतिजानीमः कुतः,
सुखमर्थो भवेद्दातुं सुखं प्राणाः सुखं तपः।
सुखमन्यद् भवेत् सर्वं दुःखं न्यासस्य रक्षणम्।। 10 ।।
पद्मावती अस्य! पढमं उग्घोसिअ को कि इच्छदित्ति अजुतं दाणिं विआरिदुं । जं एसो भणादि, तं अणुचिट्ठदु अय्यो । (आर्य !
प्रथममुद्धोष्य कः किमिच्छतीत्ययुक्तमिदानीं विचारयितुम् । यदेष भणति तदनुतिष्ठत्वार्यः ।
चेटी चिरं जीवदु भट्टिदारिआ एवं सच्चवादिणी । (चिरं जीवतु भर्र्तृदारिकैवं सत्यवादिनी ।)
तापसी चिरं जीवदु भद्दे चिरं जीवतु भद्रे
काञ्चुकीय भवति! तथा । (उपागम्य) भो अभ्युपगतमत्रभवतो भगिन्याः परिपालनमत्रभवत्या।
यौगन्धरायणः अनुगृहीतोऽस्मि तत्रभवत्या। वत्से उपसर्पात्रभवतीम् ।
वासवदत्ता आत्मगतम्) का गई । एसा गच्छामि मन्दभाआ । (का गतिः । एषा गच्छामि मन्दभागा।)
पद्मावती भोदु, भोदु । अत्तणीआ दाणिं संवुत्ता । (भवतु, भवतु । आत्मीयेदानीं संवृत्ता ।)
तापसी जा ईदिसी से आइदी, इयं वि राअदारिअत्ति तक्केमि ।
(या ईदृश्यस्या आकृतिः, इयमपि राजदारिकेति तर्कयामि ।)
चेटी सुट्ठु अय्या भणादि । अहं वि अणुहूदसुहत्ति पेवखामि । (सुष्ठु आर्या भणति । अहमप्यनुभूतसुखेति प्रेक्षे)10
योगन्धरायणः आत्मगतम्) हन्त भोः अर्धमवसितं भारस्य । यथा मन्त्रिभिः सह समर्थितं, तथा परिणमति । ततः प्रतिष्ठिते स्वामिनि
तत्रभवतीमुपनयतो मे इहात्रभवती मगधराजपुत्री विश्वासस्थानं भविष्यति । कुतः,
दृष्टा विपत्तिरथ यैः प्रथमं प्रदिष्टा ।
तत्प्रत्ययात् कृतमिदं न हि सिद्धवाक्या-
न्युत्क्रम्य गच्छति विधिः सुपरीक्षितानि ।। 11।।
ब्रह्मचारी ऊध्र्वमवलोक्य) स्थितो मध्याह्नः । दृढमस्मि परिश्रान्तः । अथ कस्मिन् प्रदेशे विश्रमयिष्ये। (परिक्रम्य) भवतु, दृष्टम् ।
वृक्षाः पुष्पफलैः समृद्धविटपाः सर्वे दयारक्षिताः ।
निःसंदिग्धमिदं तपोवनमयं धूमो हि बह्वाश्रयः ।। 12 ।।
यावत् प्रविशामि । (प्रविश्य) अये आश्रमविरुद्धः खल्वेष जनः । (अन्यतो विलोक्य) अथवा तपस्विजनोऽप्यत्र । निर्दोषमुपसर्पणम्
काञ्चुकीयः स्वैरं स्वैरं प्रविशतु भवान् । सर्वजनसाधारणमाश्रमपदं नाम।
पद्मावती अम्मो परपुरुसदंसणं परिहरदि अय्या । भोदु सुपरिपालणीओ खुमण्णासो । (अम्मो परपुरुषदर्शनं परिहरत्यार्या । भवतु
काञ्चुकीय भोः! पूर्वं प्रविष्टाः स्मः । प्रतिगृह्यतामतिथिसत्कारः ।
ब्रह्मचारी आचम्य) भवतु, भवतु । निवृत्तपरिश्रमोऽस्मि ।
यौगन्धरायणः भोः! कुत आगम्यते, क्व गन्तव्यं क्वाधिष्ठानमार्यस्य ?
ब्रह्मचारी भोः! श्रूयताम् । राजगृहतोऽस्मि । श्रुतिविशेषणार्थं वत्सभूमौ लावाणकं नाम ग्रामः । तत्रोषितवानस्मि ।
वासवदत्ता आत्मगतम्) हा लावाणअं णाम । लावाणअसंकित्तणेण पुणो णवीकिदो विअ मे सन्दावो। (हा लावाणकं नाम । लावाणकसंकीर्तनेन
यौगन्धरायणः अथ परिसमाप्ता विद्या ?
ब्रह्मचारी न खलु तावत् ।
यौगन्धरायणः यद्यनवसिता विद्या, किमागमनप्रयोजनम् ।
ब्रह्मचारी तत्र खल्वतिदारुणं व्यसनं संवृत्तम् ।
ब्रह्मचारी तत्रोदयनो नाम राजा प्रतिवसति ।
यौगन्धरायणः श्रूयते तत्रभवानुदयनः किं सः ।
ब्रह्मचारी तस्यावन्तिराजपुत्री वासवदत्ता नाम पत्नी हढमभिप्रेता किल ।
यौगन्धरायणः भवितव्यम् । ततस्ततः ।
ब्रह्मचारी ततस्तस्मिन् मृगयानिष्क्रान्ते राजनि ग्रामदाहेन सा दग्धा।11
वासवदत्ता आत्मगतम्) अळि़अं अळि़अं खु एदं । जीवामि मन्दभाआ । (अलीकमलीकं खल्वेतत्। जीवामि मन्दभागा।)
ब्रह्मचारी ततस्तामभ्यवपत्तुकामो यौगन्धरायणो नाम सचिवस्तस्मिन्नेवाग्नौ पतितः ।
ब्रह्मचारी ततः प्रतिनिवृत्तो राजा तद्वृत्तान्तं श्रुत्वा तयोर्वियोगजनितसंतापस्तस्मिन्नेवाग्नौ प्राणान् परित्यक्तुकामोऽमात्यैर्महता यत्नेन वारितः ।
वासवदत्ता आत्मगतम्) जाणामि जाणामि अय्यउत्तस्स मइ साणुक्कोसत्तणं । (जानामि जानाम्यार्यपुत्रस्य मयि सानुकोशत्वम् ।)
ब्रह्मचारी ततस्तस्याः शरीरोपभुक्तानि दग्धशेषाण्याभरणानि परिष्वज्य राजा मोहमुपगतः ।
वासवदत्ता स्वगतम्) सकामो दाणिं अय्यजोअन्धराअणो होदु । (सकाम इदानीमार्ययौगान्धरायणो भवतु)
चेटी भट्टिदारिए रोदिदि खु इअं अय्या । (भर्तृदारिके! रोदिति खल्वियमार्या ।)
पद्मावती साणुक्कोसाए होदव्वं । (सानुक्रोशया भवितव्यम्।)
यौगन्धरायणः अथ किमथ किम् । प्रकृत्या सानुक्रोशा मे भगिनी । ततस्ततः ।
ब्रह्मचारी ततः शनैः प्रतिलब्धसंज्ञः संवृत्तः ।
पद्मावती दिट्टिआ धरइ। मोहं गतो त्ति सुणिअ सुण्णं विअ मे हिअअं । (दिष्ट्या ध्रियते । मोहं गत इति श्रुत्वा शून्यमिव मे ह्रदयम् ।)
ब्रह्मचारी ततः स राजा महीतलपरिसर्पणपांसुपाटलशरीरः सहसोत्थाय हा वासवदत्ते हा अवन्तिराजपुत्रि! हा प्रिये! हा प्रियशिष्ये! इति
किमपि बहु प्रलपितवान् । कि बहुना,
धन्या सा स्त्री यां तथा वेत्ति भर्ता
भर्तृस्नेहात् सा हि दग्धाप्यदग्धा ।। 13 ।।
यौगन्धरायणः अथ भोः तं तु पर्यवस्थापयितुं न कशिचद्यत्नवानमात्यः ।
ब्रह्मचारी अस्ति रुमण्वान्नामामात्यो दृढं प्रयत्नवांस्तत्रभवन्तं पर्यवस्थापयितुम् । स हि
शरीरे संस्कारं नृपतिसमदुःखं परिवहन् ।
दिवा वा रात्रौ वा परिचरति यत्नैर्नरपतिं
नृपः प्राणान् सद्यस्त्यजति यदि तस्याप्युपरमः ।। 14 ।।
वासवदत्ता स्वगतम्) दिट्टिआ सुणिक्खित्तो दाणिं अय्यउत्तो । (दिष्ट््या सुनिक्षिप्त इदानीमार्यपुत्रः)
यौगन्धरायणः आत्मगतम्) अहो महद्भारमुद्वहति रुमण्वान् । कुतः
सविश्रमो ह्ययं भारः प्रसक्तस्तस्य तु श्रमः ।
तस्मिन् सर्वमधीनं हि यत्राधीनो नराधिपः ।। 15 ।।
(प्रकाशम्) अथ भोः पर्यवस्थापित इदानीं स राजा ।
ब्रह्मचारी तदिदानीं न जाने। इह तया सह हसितम्, इह तया सह कथितम्, इह तया सह पर्युषितम्, इह तया सह कुपितम्, इह तया सह
शयितम्, इत्येवं तं विलपन्तं राजानममात्यैर्महता यत्नेन तस्माद् ग्रामाद् गृहीत्वापक्रान्तम् । ततो निष्क्रान्ते राजनि प्रोषितनक्षत्रचन्द्रमिव
न भोऽरमणीयः संवृतः स ग्रामः। ततोऽहमपि निर्गतोऽस्मि ।12
तापसी सो खु गुणवन्तो णाम राआ, जो आअन्तुएण वि इमिणा एव्वं पसंसीअदि । (स खलु गुणवान् नाम राजा य आगन्तुकेनाप्यनेनैवं
चेटी भट्टिदारिए! किं णु खु अवरा इत्थिआ तस्स हत्थं गमिस्सदि । (भर्तृंदारिके किं नु खल्वपरा स्त्री तस्य हस्तं गमिष्यति ।)
पद्मावती आत्मगतम्) मम हिअएण एव्व सह मन्तिदं । (मम हृदयेनैव सह मन्त्रितम् ।)
ब्रह्मचारी आपृच्छामि भवन्तौ । गच्छामस्तावत् ।
यौगन्धरायण साधु, अहमपि तत्रभवत्याभ्यनुज्ञातो गन्तुमिच्छामि ।
काञ्चुकीयः तत्रभवत्याभ्यनुज्ञातो गन्तुमिच्छति किल ।
पद्मावती अय्यस्स भइणिआ अय्येण विना उक्कण्ठिस्सिदि । (आर्यस्य भगिनीआर्येण विनोत्कण्ठिष्यते।)
यौगन्धरायणः साधुजनहस्तगतैषा नोत्कण्ठिष्यति । (काञ्चुकीयमवलोक्य) गच्छामस्तावत् ।
काञ्चुकीय गच्छतु भवान् पुनर्दर्शनाय ।
काञ्चुकीयः समय इदानीमभ्यन्तरं प्रवेष्टुम् ।
पद्मावती अय्ये! वन्दामि (आर्ये वन्दे ।)
तापसी जादे! तव सदिसं भत्तारं ळभेहि । (जाते! तव सदृशं भर्तारं लभस्व ।)
वासवदत्ता अय्ये वन्दामि दाव अहं । (आर्ये वन्दे तावदहम्)
तापसी तुवं पि अइरेण भत्तारं समासादेहि ।। (त्वमप्यचिरेण भर्तारं समासादय ।)
वासवदत्ता अणुग्गहीदम्हि ।। (अनुगृहीतास्मि ।)
काञ्चुकीय तदागम्यताम् । इत इतो भवति संप्रति हि
प्रदीप्तोऽग्निर्भाति प्रविचरति धूमो मुनिवनम् ।
रथं व्यावत्र्यासौ प्रविशति शनैरस्तशिखरम् ।। 16 ।।
<DOC_END>
<DOC_START>
व्याधि तस्यार्थहीनस्य देशांतर गतस्य च नरस्य शोकदग्धस्य सुहृददर्शनमुषधन
<DOC_END>
<DOC_START>
चकार चण्डताण्डवं तनोतु नः शिवः शिवम् १||
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम २||
क्वचिद्दिगम्बरे(क्वचिच्चिदम्बरे) मनो विनोदमेतु वस्तुनि ३||
मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ४||
श्रियै चिराय जायतां चकोरबन्धुशेखरः ५||
समं प्रव्रितिक: कदा सदाशिवं भजाम्यहम १२||
विमुक्तदुर्मतिः सदा शिरः स्थमञ्जलिं वहन् |
शिवेति मंत्रमुच्चरन् कदा सुखी भवाम्यहम् १३||
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं
विमोहनं हि देहिनां सुशङ्करस्य चिंतनम् १४||
यः शम्भुपूजनपरं पठति प्रदोषे |
लक्ष्मीं सदैव सुमुखिं प्रददाति शम्भुः १५||
<DOC_END>
<DOC_START>
अनुवाक नाम वाचः समीपम् इत्यर्थः।
<DOC_END>
<DOC_START>
मरणे यानि चिह्नानि तानि चिह्नानि याचके॥
<DOC_END>
<DOC_START>
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥
<DOC_END>
<DOC_START>
तस्मान्मूर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते ॥
<DOC_END>
<DOC_START>
लक्ष्मीं तृणाय मन्यन्ते तद्भारेण नमन्त्यपि ॥
<DOC_END>
<DOC_START>
न हि संहरते ज्योत्स्ना चन्द्रश्चाण्डाल वेश्मन:॥
<DOC_END>
<DOC_START>
धत्ते तथा तथा तापं महान्वैश्वानरः खलः॥
<DOC_END>
<DOC_START>
अत्र विद्यमानानां सुभाषितानाम् आङ्ग्लार्थः लेखनीयः विद्यते |
<DOC_END>
<DOC_START>
त्यजत्यर्ककरैस्तप्तं हिमं देहं न शीतताम् ॥
<DOC_END>
<DOC_START>
कुम्भा न कूपमपि शोषयितुं समर्थाः कुम्भोद्भवेन मुनिनाम्बुधिरेव पीतः ॥
<DOC_END>
<DOC_START>
एतेषां सुभाषितानां मूलग्रन्थस्य उल्लेखः करणीयः विद्यते |
<DOC_END>
<DOC_START>
अत्र अकीर्तिसम्बद्धानि सुभाषितानि उपलभ्यन्ते ।
<DOC_END>
<DOC_START>
कृच्छ्रेऽपि न चलत्येवं धीराणां निश्चलं मनः ॥
<DOC_END>
<DOC_START>
विषमेकेन निपीतं त्रिपुरजिता सह सुरैरमृतम् ॥
<DOC_END>
<DOC_START>
वल्मीकश्च सुमेरु कृतप्रतिज्ञस्य धीरस्य ॥
<DOC_END>
<DOC_START>
लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥
<DOC_END>
<DOC_START>
सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः ॥
<DOC_END>
<DOC_START>
अस्मिन् वर्गे धीरप्रशंसासम्बद्धानि सुभाषितानि विद्यन्ते |
<DOC_END>
<DOC_START>
वर्गेऽस्मिन् सज्जनप्रशंसासम्बद्धानि सुभाषितानि विद्यन्ते ।
<DOC_END>
<DOC_START>
तेजसा सह जातानां वयः कुत्रोपजायते ॥
<DOC_END>
<DOC_START>
अस्मिन् पुनः परिशीलनीयानि सुभाषितानि विद्यन्ते |
<DOC_END>
<DOC_START>
अधोमुखस्यापि कृतस्य वह्नेर्नाधः शिखा यान्ति कदाचिदेव ॥
<DOC_END>
<DOC_START>
निजप्रतिज्ञामनुरुध्यमाना महोद्यमाः कर्म समारभन्ते ॥
<DOC_END>
<DOC_START>
योऽङ्गीकृतगुणैः श्लाघ्यः स विस्मयमुदाहृतः ॥
<DOC_END>
<DOC_START>
मनोनिग्रहसम्बद्धानि सुभाषितानि अत्र विद्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् ज्ञानसम्बद्धानि सुभाषितानि विद्यन्ते ।
<DOC_END>
<DOC_START>
सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥
<DOC_END>
<DOC_START>
तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः ॥
<DOC_END>
<DOC_START>
किमाग्नेयग्रावा निकृत इव तेजांसि वमति ॥
<DOC_END>
<DOC_START>
लघयन्खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः ॥
<DOC_END>
<DOC_START>
तत्तेजस्वी पुरुषः परकृतविकृतिः कथं सहते ॥
<DOC_END>
<DOC_START>
प्रकृतिरियं सत्त्ववता न खलु वयस्तेजसो हेतुः ॥
<DOC_END>
<DOC_START>
तस्य धीशालिनः कोऽन्यः सहेतारालिता भ्रुवम् ॥
<DOC_END>
<DOC_START>
आक्रमत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥
<DOC_END>
<DOC_START>
शत्रौ मृगाङ्के इव मार्दवं न लाभकरम् । सिंहे इव काठिन्यमावश्यकम् । प्रथमं दुष्कीर्तिं सम्पादयति । द्वितीयं सुकीर्तिं सम्पादयति ।
<DOC_END>
<DOC_START>
आकृष्टशस्त्रो मित्रोऽपि न तेजस्वी खलो हि सः ॥
<DOC_END>
<DOC_START>
हीरैरप्स्विव धीरैरापत्स्वपि गम्यते नाधः ॥
<DOC_END>
<DOC_START>
नीयन्ते रिपुभिः समुन्नतिपदं प्रायं परं मानिनः ॥
<DOC_END>
<DOC_START>
द्युतिं सैंहीं किं श्वा धृतकनकमालोऽपि लभते ॥
<DOC_END>
<DOC_START>
नाम यस्याभिनन्दन्ति द्विषोऽपि स मतः पुमान् ॥
<DOC_END>
<DOC_START>
कुलशिखरिणं क्षुद्रा नैते न वा जलगशयः ॥
<DOC_END>
<DOC_START>
शिरोमात्रावशेषेण जीयन्ते येन शत्रवः ॥
<DOC_END>
<DOC_START>
हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् ॥
<DOC_END>
<DOC_START>
निःशङ्को हि जनो धत्ते पदभस्मन्यनूष्मणि ॥
<DOC_END>
<DOC_START>
तेजः स्वविनाशाय तु भवति तृणानामिव लघूनाम् ॥
<DOC_END>
<DOC_START>
कार्त्स्न्येन भस्मयति काष्ठचयं स्फुलिङ्गः ॥
<DOC_END>
<DOC_START>
न खलु वयसा जात्यैवायं स्वकार्यसहो भरः ॥
<DOC_END>
<DOC_START>
भूषयति कर्णमेकः परस्तु कर्णं तिरस्कुरुते ॥
<DOC_END>
<DOC_START>
प्रदत्तं कार्यं समापितवान् अस्मि । वीरप्रशंसाविभागीयश्लोकाः भवता प्रेषिते pdf पुस्तके न्यूनाः सन्ति । मम सविधे एकं pdf आसीत् । तत्र अधिकाः श्लोकाः सन्ति । तेऽपि योजिताः । धन्यवादाः ।
<DOC_END>
<DOC_START>
न गुह्यगोपने शक्त्तं न च दंशनिवारणे ॥
<DOC_END>
<DOC_START>
ऐश्वर्यमस्तु विजयोऽस्तु रिपुक्षयोऽस्तु कल्याणमस्तु सततं हरिभक्तिरस्तु।
<DOC_END>
<DOC_START>
{{उत्तरम्| हे राघव! घोरैः शरैः रावणं आहवे स्य इति पदच्छेदः करणीयः। स्य इति षो अन्तकर्मणि इति धातोः लोट् लकारे मध्यमपुरुषैकवचनम्। स्य इत्यस्य क्षयं कुरु(नाशय) इत्यर्थः।}}
<DOC_END>
<DOC_START>
किं करिष्यन्ति वक्तारः श्रोता यत्र न विद्यते
नग्नक्षपणके देशे रजकः किं करिष्यति
''यस्मिन् स्थाने श्रोतारः न भवन्ति तत्र कथावाचकस्य आवश्यकता का यस्मिन् देशे साधवः वस्त्रमेव न धरन्ति तत्र रजकस्य आवश्यकता न भवति ननु
''यः दानं ददाति सः दरिद्रः अभवत् कृपणः (धनसञ्चेता) सः धनिकः अभवत्, पापी दीर्घायुः अवाप्नोत्, कर्मठः (परोपकारी) तस्य आयुः क्षीणम् अवाप्नोत् परजनेषु मित्रवत् वयवहारः स्ववान्धवेषु शत्रुवत् व्यवहारः अयं कलियुगे जनाः कलिप्रतापेन आहताः एव सन्ति
<DOC_END>
<DOC_START>
जठरं पूरयेदर्धं तदर्धं तु जलेन च| वायोः सञ्चरणार्थाय पादमेकं परित्यजेत्
<DOC_END>
<DOC_START>
कश्चन भिक्षुकः भिक्षार्थं गृहम् आगच्छति तदानीं स्नुषा भिक्षा नास्ति इति वदति। गृहात् निर्गच्छन्तं भिक्षुकं मार्गे श्वश्रूः पश्यति। पुनरपि तं गृहमाहूय अस्य गृहस्वामिनी अहम् अस्मि इदानीं किमपि न ददामीति वदन्ति अस्मि इतः निर्गच्छ इति तं प्रेषयति।
<DOC_END>
<DOC_START>
किं करिष्यन्ति वक्तारः श्रोता यत्र न विद्यते
नग्नक्षपणके देशे रजकः किं करिष्यति
''यस्मिन् स्थाने श्रोतारः न भवन्ति तत्र कथावाचकस्य आवश्यकता का यस्मिन् देशे साधवः वस्त्रमेव न धरन्ति तत्र रजकस्य आवश्यकता न भवति ननु
''यः दानं ददाति सः दरिद्रः अभवत् कृपणः (धनसञ्चेता) सः धनिकः अभवत्, पापी दीर्घायुः अवाप्नोत्, कर्मठः (परोपकारी) तस्य आयुः क्षीणम् अवाप्नोत् परजनेषु मित्रवत् वयवहारः स्ववान्धवेषु शत्रुवत् व्यवहारः अयं कलियुगे जनाः कलिप्रतापेन आहताः एव सन्ति
<DOC_END>
<DOC_START>
क्वचिच्च श्रूयते वार्ता क्वचित्सापि विनश्यति॥ poem>
भोजनपङ्क्तीषु घृतपरिवेषणविषये अयं चाटुश्लोकः वर्तते। परिवेषणावसरे कस्याञ्चित् पङ्क्तौ धारारूपेण घृतं परिवेश्यते। क्वचित् बिन्दुरूपेण। क्वचिच्च पात्रध्वनिमात्रं कट-कट इति श्रूयते। क्वचित् घृतम् आनेष्यन्ति इति वार्ता श्रूयते। क्वचित् सा वार्ता अपि न श्रूयते।
<DOC_END>
<DOC_START>
अस्मिन् भिक्षासम्बद्धानि सुभाषितानि विद्यन्ते ।
<DOC_END>
<DOC_START>
अस्मिन् इन्द्रवंशाछन्दसि निबद्धानि सुभाषितानि विद्यन्ते ।
<DOC_END>
<DOC_START>
कश्चन विशिष्टः आसक्तिकरः शब्दप्रभावः अनुभूयते ।
<DOC_END>
<DOC_START>
भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ १॥
महामनस्वी स्वात्मविक्रमी । जगद्गुरुर्यो विद्यावान् ॥
भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ २॥
स्वसिति सनातनवैदिकमन्त्रम् । गायति रामायणं पवित्रम् ।
भागवतं भारतं विचित्रम् । महामनीषी प्रतिभावान् ॥
भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ ३॥
देशे देशे निपीडितानाम् । विवासितानां विपट्गतानाम् ।
असहायानां दीनजनानाम् । आश्रयदाता करुणावान् ॥
भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ ४॥
भवतु शरीरं चित्तं वित्तम् । सदैव भारतसेवायत्तम् ।
सर्वस्वं भारताय दत्तम् । स एव परमेश्वरो महान् ॥
भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ ५॥
<DOC_END>
<DOC_START>
सत्यपूतां वदेद्वाणीं मनःपूतं समाचरेत्‌ ॥
<DOC_END>
<DOC_START>
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥
<DOC_END>
<DOC_START>
गङ्गां पन्नगमहो धरतीह यो स
<DOC_END>
<DOC_START>
चिँव् चिँव् कूजसि त्वं विहग!
नास्ति जनः खलु वारयिता ॥
एहि समीपं चिँव् चिँव् मित्र!
चणकं स्वीकुरु पिब रे नीरम्
त्वं पुनरपि रट चिँव् चिँव् चिँव्
पाठय मामपि तव भाषाम् ॥</poem>
<DOC_END>
<DOC_START>
यं वैष्णवा विष्णुरिति स्तुवन्ति ।
सत्श्री अकालेति च सिक्खसन्तः ॥२॥
स एक एव प्रभुरद्वितीयः ॥३॥</poem>
<DOC_END>
<DOC_START>
केशवः पतिवान् इति पाण्डवाः हृष्टाः अभवन् । कौरवाः हा केशव इति रुदन्ति ।
<DOC_END>
<DOC_START>
क्रियासिद्धिस्सत्त्वे भवति महतां नोपकरणे ।
न धनं न बलं नापि सम्पदा न स्याज्जनानुकम्पा
सिद्धा न स्यात् कार्यभूमिका न स्यादपि प्रोत्साह:
आवृणोतु वा विघ्नवारिधिस्त्वं मा विस्मर सूक्तिम् ॥
क्वचिदपि मा भूदात्मविस्मृति: न स्याल्लक्ष्याच्च्यवनम् ।
आसादय जनमानसप्रीतिं सुचिरं संस्मर सूक्तिम् ॥
अरुणसारथिं विकलसाधनं सूर्यं संस्मर नित्यम्
शूरपूरुषान् दृढानजेयान् पदात्पदं स्मर गच्छन्
<DOC_END>
<DOC_START>
देहस्य नाभौ मुक्तिस्तु न ज्ञानान्मुक्तिरिष्यते।
<DOC_END>
<DOC_START>
सत्सु बहुषु उद्यानेषु रावणः सीताम् अशोकवने स्थापितवान्। विशिष्टं किमपि कारणं तत्र नास्ति । रावणः किमर्थं अशोकवने सीतां स्थापितवान् इत्यस्य प्रश्नस्य उत्तरमपि नास्ति । यत्र कुत्रापि स्थापयति चेदपि किमर्थम् अमुकस्थाने स्थापितवान् इति प्रश्नस्तु भवत्येव । एषः न्यायः अशोकवनिकान्यायः इत्युच्यते ।
<DOC_END>
<DOC_START>
अपदो दूरगामी च, साक्षरः न च पण्डितः।
<DOC_END>
<DOC_START>
*व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे।
*लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ।
*न हि कश्िचत्क्षणमपि जातु तिष्ठत्यकर्मकृत्।
*कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्।
*नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।
*सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।
*देवान्भावयतानेन ते देवा भावयन्तु वः।
*इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः।
*एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः।
*नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन।
*तस्मादसक्तः सततं कार्यं कर्म समाचर।
*न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन।
*यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।
*उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्।
*सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।
*प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।
*ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः।
*ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्।
*अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।
*काम एष क्रोध एष रजोगुणसमुद्भवः।
*एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना।
*संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि।
*ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति।
*सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः।
*यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते।
*नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित्।
*ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः।
*युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्।
*सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी।
*न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः।
*नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः।
*ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः।
*इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः।
*न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्।
*ये हि संस्पर्शजा भोगा दुःखयोनय एव ते।
*भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च।
*अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्।
*पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ।
*बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्।
<DOC_END>
<DOC_START>
ब्रूहि किं तव वाहनम् ।
मासि किं तव वेतनम् ॥
हससि किं खलु कारणम् ।
पतसि न त्वं कथमिदम् ॥
<DOC_END>
<DOC_START>
हरितं हरितं हरितं तृणम् ।
लुक् लुक् लुक् लुक् लुक् दीपकसहितम् ।
<DOC_END>
<DOC_START>
चिरनवीनां चिरपुराणीं सादरं वन्दामहे ॥
लोकजागरणाय सिद्धाः सङ्घटनमन्त्रं जपन्तः ।
कृतिपरा लक्ष्यैकनिष्ठा भारतं सेवामहे ॥
कर्मणा मनसा च वचसा मातृवन्दनमाचरेम
भारताः सोदराः सर्वे भावमेतं हृदि विदधतः
वयं संस्कृतसाधका इह सज्जता नैजं विधाय
<DOC_END>
<DOC_START>
युवशक्तेः किमिहास्ति बलिष्ठं सङ्घटितायाः सोत्साहम् ।
शक्तिमिमामर्थवतीं कर्तुं वर्त्म वरेण्यं चिनुयाम ॥
विश्वहिते निहितं निजहितमिति पूर्वेषां प्रवरं हृदयम्
प्रयता वयमनुसरेम सततं छाया पार्थिवबिम्बमिव ।
अन्तरायशतकोपहता अपि न मनागपि विचलेम वयं
विघ्नमयी श्रेयस्सृतिरिति वरगिरं धरेम सदापि हृदि॥
अधीत्य रुचिरां संस्कृतभाषां प्रसारयेम जगति सकले
एकः स्वादु न भुञ्जीतेति स्मरेम वृद्धगिरं निवराम् ।
युवभावं नवभावप्रभवं युञ्जीमहि सार्थकसरणौ ॥
आम्रात् पञ्चमनादनिदानात् किमु याति पिको दूरभुवम् ।
राष्ट्रमिदं पुनरपि विनिधातुं विश्वगुरुत्वे रमणीये
<DOC_END>
<DOC_START>
न हिंसां कुरुते साधुः न देवः सृष्टिनाशकः ॥
<DOC_END>
<DOC_START>
* अत्यन्तं घोरविवादाः तेषु विषयेषु एव भवन्ति येषां उभयथापि सत्प्रामाण्यं नास्ति ।
<DOC_END>
<DOC_START>
विराट् कोहली भारतीयः अन्तर्राष्ट्रीयः क्रिकेट्-क्रीडकः अस्ति। सः दक्षिणहस्तः बल्लेबाजः, नैमित्तिकदक्षिणबाहुमध्यमगतिगन्दबाजः च अस्ति। कोहली इत्यस्याः विवाहः २०१७ तमस्य वर्षस्य डिसेम्बर्-मासस्य ११ दिनाङ्के बालिवुड् अभिनेत्री अनुष्का शर्मा इत्यनेन सह अभवत्। सः क्रिकेट्-क्रीडायाः त्रयोऽपि प्रारूपेषु भारतीयक्रिकेट दलस्य पूर्व-कप्तानः अस्ति। इण्डियन प्रीमियरलीग् (IPL) इत्यस्मिन् सः रॉयल चैलेन्जर्स् बेङ्गलूरु इति क्रीडासङ्घस्य कप्तानः अस्ति।
*यदि अहं शान्तिकर्तारं क्रीडामि तर्हि भवन्तः कल्पयितुं शक्नुवन्ति यत् तत्र बहिः किं प्रचलति स्म।
<DOC_END>
<DOC_START>
सुरेश चवहङ्के एकः भारतीयः पत्रकारः अस्ति। सः वर्तमानकाले सुदर्शन न्यूज (सुदर्शन टीवी चैनल लिमिटेड) इत्यस्य अध्यक्षः, प्रबन्धनिदेशकः (सीएमडी) एवं मुख्यसम्पादकः च अस्ति। सः टीवी-प्रदर्शनस्य विन्दास बोल इत्यस्य एंकरः अस्ति।
*किं यूयं जनाः ‘मुल्ला’ इति शब्दं अपमानजनकं मन्यन्ते किं भवन्तः ‘जिहादी’ इति शब्देन इव अस्य शब्दस्य मुक्तिं प्राप्नुवन्ति भवता स्वस्य शब्दकोशः विमोचनीयः। तार मदर्सायाः शब्दकोशः सुदर्शने न प्रयुक्तः भविष्यति।
<DOC_END>
<DOC_START>
भारते हिन्दुत्वं नारङ्गवर्णधारणं च पापं जातम्। अहं पृच्छामि यत् यदि मौलवी हता स्यात् तर्हि जनाः मौनम् एव भविष्यन्ति वा? इटलीदेशस्य निवासी सोनिया गान्धी शान्तः भविष्यति वा अद्य सा मौनम् अस्ति
<DOC_END>
<DOC_START>
एतत् समुदायविमर्शपृष्ठम् अस्ति। अस्मिन् पृष्ठे बोट्-ध्वजस्य अनुरोधाः अपि कर्तुं शक्यन्ते। अयं विकिः मानक-बॉट्-नीतेः उपयोगं करोति, तथा च वैश्विक-बॉट्-इत्यस्य, कतिपयेषु प्रकारेषु बट्-स्वचालित-अनुमोदनस्य च अनुमतिं ददाति। अन्ये बोट् अधः आवेदनं कुर्वन्तु, ततः यदि आक्षेपः नास्ति तर्हि भण्डारतः प्रवेशं याचयन्तु।
==“संस्कृत विकिसूक्ति” इत्यस्य प्रशासकस्य निर्वाचनविषये==
यतः संस्कृत विकिसूक्तिः डोमेनस्य अधिग्रहणात् अस्मिन् परियोजनायां प्रशासकः नास्ति; अतः अहं परियोजनायाः प्रबन्धनार्थं मम नामाङ्कनं प्रदत्तवान्।
<DOC_END>
<DOC_START>
इदं महाभारतस्य चतुर्थं पर्व अस्ति। अस्मिन् युद्धस्य पूर्वोद्योगः वर्णितोऽस्ति।
*ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्।
*काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः।
*न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा।
*एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः।
*किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः।
*कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः।
*कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः।
*अपाने जुह्वति प्राण प्राणेऽपानं तथाऽपरे।
*एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे।
*यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव।
*अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः।
*न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।
<DOC_END>
<DOC_START>
div वर्गः: विकिसूक्तिः प्रबन्धकः noinclude>
<DOC_END>
<DOC_START>
विकिसूक्तिः प्रबन्धकः एकम् पद आसीत।
<DOC_END>
<DOC_START>
नुन्ना मायामयी नूनमनूना येन यामिनी ॥
<DOC_END>
<DOC_START>
नुन्ना येन तनुः पूता तापे ना नौति तत्तपः ॥
<DOC_END>